|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

१३
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः |
आससाद महाकायं गृध्रं भीमपराक्रमम् || १||

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ |
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति || २||

स तौ मधुरया वाचा सौम्यया प्रीणयन्निव |
उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः || ३||

स तं पितृसखं बुद्ध्वा पूजयामास राघवः |
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च || ४||

रामस्य वचनं श्रुत्वा कुलमात्मानमेव च |
आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम् || ५||

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् |
तान्मे निगदतः सर्वानादितः शृणु राघव || ६||

कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् |
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् || ७||

स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः |
पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा || ८||

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव |
कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः || ९||

प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम् |
षष्टिर्दुहितरो राम यशस्विन्यो महायशः || १०||

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः |
अदितिं च दितिं चैव दनूमपि च कालकाम् || ११||

ताम्रां क्रोधवशां चैव मनुं चाप्यनलाम् अपि |
तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् || १२||

पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् |
अदितिस्तन्मना राम दितिश् च दनुरेव च || १३||

कालका च महाबाहो शेषास्त्वमनसोऽभवन् |
अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम || १४||

आदित्या वसवो रुद्रा अश्विनौ च परन्तप |
दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः || १५||

तेषामियं वसुमती पुरासीत्सवनार्णवा |
दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिन्दम || १६||

नरकं कालकं चैव कालकापि व्यजायत |
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् || १७||

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः |
उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत || १८||

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः |
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः || १९||

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी |
शुकी नतां विजज्ञे तु नताया विनता सुता || २०||

दशक्रोधवशा राम विजज्ञेऽप्यात्मसम्भवाः |
मृगीं च मृगमन्दां च हरीं भद्रमदाम् अपि || २१||

मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा |
सर्वलक्षणसम्पन्नां सुरसां कद्रुकाम् अपि || २२||

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम |
ऋष्काश्च मृगमन्दायाः सृमराश्चमरास्तथा || २३||

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् |
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः || २४||

हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः |
गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् || २५||

मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ |
दिशागजं तु श्वेताक्षं श्वेता व्यजनयत्सुतम् || २६||

ततो दुहितरौ राम सुरभिर्देव्यजायत |
रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् || २७||

रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान् |
सुरसाजनयन्नागान्राम कद्रूश्च पन्नगान् || २८||

मनुर्मनुष्याञ्जनयत्कश्यपस्य महात्मनः |
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्च मनुजर्षभ || २९||

मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा |
ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः || ३०||

सर्वान्पुण्यफलान्वृक्षाननलापि व्यजायत |
विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा || ३१||

कद्रूर्नागसहस्क्रं तु विजज्ञे धरणीधरम् |
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च || ३२||

तस्माज्जातोऽहमरुणात्सम्पातिश्च ममाग्रजः |
जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम || ३३||

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि |
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे || ३४||

जटायुषं तु प्रतिपूज्य राघवो
मुदा परिष्वज्य च संनतोऽभवत् |
पितुर्हि शुश्राव सखित्वमात्मवाञ्
जटायुषा सङ्कथितं पुनः पुनः || ३५||

स तत्र सीतां परिदाय मैथिलीं
सहैव तेनातिबलेन पक्षिणा |
जगाम तां पञ्चवटीं सलक्ष्मणो
रिपून्दिधक्षञ्शलभानिवानलः || ३६||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).