|| वाल्मीकि रामायण - अरण्यकाण्ड ||
|| सर्ग ||
१७
तां तु शूर्पणखां रामः कामपाशावपाशिताम् |
स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् || १||
कृतदारोऽस्मि भवति भार्येयं दयिता मम |
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता || २||
अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः |
श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् || ३||
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः |
अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति || ४||
एनं भज विशालाक्षि भर्तारं भ्रातरं मम |
असपत्ना वरारोहे मेरुमर्कप्रभा यथा || ५||
इति रामेण सा प्रोक्ता राक्षसी काममोहिता |
विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् || ६||
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी |
मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि || ७||
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः |
ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् || ८||
कथं दासस्य मे दासी भार्या भवितुमिच्छसि |
सोऽहमार्येण परवान्भात्रा कमलवर्णिनी || ९||
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी |
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी || १०||
एतां विरूपामसतीं करालां निर्णतोदरीम् |
भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति || ११||
को हि रूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि |
मानुषेषु वरारोहे कुर्याद्भावं विचक्षणः || १२||
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी |
मन्यते तद्वचः सत्यं परिहासाविचक्षणा || १३||
सा रामं पर्णशालायामुपविष्टं परन्तपम् |
सीतया सह दुर्धर्षमब्रवीत्काममोहिता || १४||
इमां विरूपामसतीं करालां निर्णतोदरीम् |
वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे || १५||
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् |
त्वया सह चरिष्यामि निःसपत्ना यथासुखम् || १६||
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा |
अभ्यधावत्सुसङ्क्रुद्धा महोल्का रोहिणीम् इव || १७||
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः |
निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् || १८||
क्रूरैरनार्यैः सौमित्रे परिहासः कथं चन |
न कार्यः पश्य वैदेहीं कथं चित्सौम्य जीवतीम् || १९||
इमां विरूपामसतीमतिमत्तां महोदरीम् |
राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि || २०||
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः |
उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः || २१||
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च |
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् || २२||
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता |
ननाद विविधान्नादान्यथा प्रावृषि तोयदः || २३||
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना |
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् || २४||
ततस्तु सा राक्षससङ्घ संवृतं
खरं जनस्थानगतं विरूपिता |
उपेत्य तं भ्रातरमुग्रतेजसं
पपात भूमौ गगनाद्यथाशनिः || २५||
ततः सभार्यं भयमोहमूर्छिता
सलक्ष्मणं राघवमागतं वनम् |
विरूपणं चात्मनि शोणितोक्षिता
शशंस सर्वं भगिनी खरस्य सा || २६||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).