|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

२२
तत्प्रयातं बलं घोरमशिवं शोणितोदकम् |
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः || १||

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः |
समे पुष्पचिते देशे राजमार्गे यदृच्छया || २||

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् |
अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् || ३||

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् |
समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः || ४||

जनस्थानसमीपे च समाक्रम्य खरस्वनाः |
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः || ५||

व्याजह्रुश्च पदीप्तायां दिशि वै भैरवस्वनम् |
अशिवा यातु दाहानां शिवा घोरा महास्वनाः || ६||

प्रभिन्नगिरिसङ्काशास्तोयशोषितधारिणः |
आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः || ७||

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् |
दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे || ८||

क्षतजार्द्रसवर्णाभा सन्ध्याकालं विना बभौ |
खरस्याभिमुखं नेदुस्तदा घोरा मृगाः खगाः || ९||

नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः |
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः || १०||

कबन्धः परिघाभासो दृश्यते भास्करान्तिके |
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः || ११||

प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः |
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः || १२||

संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः |
तस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः || १३||

उद्धूतश्च विना वातं रेणुर्जलधरारुणः |
वीचीकूचीति वाश्यन्तो बभूवुस्तत्र सारिकाः || १४||

उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः |
प्रचचाल मही चापि सशैलवनकानना || १५||

खरस्य च रथस्थस्य नर्दमानस्य धीमतः |
प्राकम्पत भुजः सव्यः खरश्चास्यावसज्जत || १६||

सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः |
ललाटे च रुजा जाता न च मोहान्न्यवर्तत || १७||

तान्समीक्ष्य महोत्पातानुत्थितान्रोमहर्षणान् |
अब्रवीद्राक्षसान्सर्वान्प्रहसन्स खरस्तदा || १८||

महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् |
न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव || १९||

तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् |
मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम् || २०||

राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् |
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे || २१||

सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः |
यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः || २२||

न क्व चित्प्राप्तपूर्वो मे संयुगेषु पराजयः |
युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् || २३||

देवराजमपि क्रुद्धो मत्तैरावतयायिनम् |
वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानुषौ || २४||

सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः |
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता || २५||

समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः |
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः || २६||

समेत्य चोरुः सहितास्तेऽन्यायं पुण्यकर्मणः |
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां ये च संमताः || २७||

जयतां राघवो युद्धे पौलस्त्यान्रजनीचरान् |
चक्रा हस्तो यथा युद्धे सर्वानसुरपुङ्गवान् || २८||

एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः |
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् || २९||

रथेन तु खरो वेगात्सैन्यस्याग्राद्विनिःसृतः |
तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः || ३०||

श्येन गामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः |
दुर्जयः करवीराक्षः परुषः कालकार्मुकः || ३१||

मेघमाली महामाली सर्पास्यो रुधिराशनः |
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् || ३२||

महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा |
चत्वार एते सेनाग्र्या दूषणं पृष्ठतोऽन्वयुः || ३३||

सा भीमवेगा समराभिकामा
सुदारुणा राक्षसवीर सेना |
तौ राजपुत्रौ सहसाभ्युपेता
मालाग्रहाणामिव चन्द्रसूर्यौ || ३४||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).