|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

२३
आश्रमं प्रति याते तु खरे खरपराक्रमे |
तानेवौत्पातिकान्रामः सह भ्रात्रा ददर्श ह || १||

तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान् |
प्रजानामहितान्दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् || २||

इमान्पश्य महाबाहो सर्वभूतापहारिणः |
समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान् || ३||

अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् |
व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः || ४||

सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः |
रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण || ५||

यादृशा इह कूजन्ति पक्षिणो वनचारिणः |
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च || ६||

सम्प्रहारस्तु सुमहान्भविष्यति न संशयः |
अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः || ७||

संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् |
सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते || ८||

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः |
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः || ९||

अनागतविधानं तु कर्तव्यं शुभमिच्छता |
आपदं शङ्कमानेन पुरुषेण विपश्चिता || १०||

तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः |
गुहामाश्रयशैलस्य दुर्गां पादपसङ्कुलाम् || ११||

प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया |
शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् || १२||

एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया |
शरानादाय चापं च गुहां दुर्गां समाश्रयत् || १३||

तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया |
हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् || १४||

सा तेनाग्निनिकाशेन कवचेन विभूषितः |
बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः || १५||

स चापमुद्यम्य महच्छरानादाय वीर्यवान् |
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः || १६||

ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः |
ऊचुः परमसन्त्रस्ता गुह्यकाश् च परस्परम् || १७||

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् |
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति || १८||

ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् |
अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत || १९||

सिंहनादं विसृजतामन्योन्यमभिगर्जताम् |
चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः || २०||

विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् |
तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् || २१||

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः |
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् || २२||

तत्त्वनीकं महावेगं रामं समुपसर्पत |
घृतनानाप्रहरणं गम्भीरं सागरोपमम् || २३||

रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः |
ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम् || २४||

वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् |
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् || २५||

दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् |
तं दृष्ट्वा तेजसाविष्टं प्राव्यथन्वनदेवताः || २६||

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा |
दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः || २७||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).