|| वाल्मीकि रामायण - अरण्यकाण्ड ||
|| सर्ग ||
२५
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् |
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः || १||
प्रतिगृह्य च तद्वरं निमीलित इवर्षभः |
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् || २||
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा |
शरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम् || ३||
ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः |
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् || ४||
वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् |
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम् || ५||
वज्राशनिसमस्पर्शं परगोपुरदारणम् |
तं महोरगसङ्काशं प्रगृह्य परिघं रणे |
दूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः || ६||
तस्याभिपतमानस्य दूषणस्य स राघवः |
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ || ७||
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि |
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः || ८||
स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः |
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः || ९||
दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे |
साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् || १०||
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः |
संहत्याभ्यद्रवन्रामं मृत्युपाशावपाशिताः |
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः || ११||
महाकपालो विपुलं शूलमुद्यम्य राक्षसः |
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् || १२||
दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः |
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव || १३||
महाकपालस्य शिरश्चिच्छेद रघुनङ्गनः |
असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् || १४||
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः |
स पपात हतो भूमौ विटपीव महाद्रुमः || १५||
ततः पावकसङ्काशैर्हेमवज्रविभूषितैः |
जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः || १६||
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः |
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् || १७||
रक्षसां तु शतं रामः शतेनैकेन कर्णिना |
सहस्रं च सहस्रेण जघान रणमूर्धनि || १८||
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः |
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः || १९||
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः |
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव || २०||
क्षणेन तु महाघोरं वनं निहतराक्षसं |
बभूव निरय प्रख्यं मांसशोणितकर्दमम् || २१||
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् |
हतान्येकेन रामेण मानुषेण पदातिना || २२||
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः |
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः || २३||
ततस्तु तद्भीमबलं महाहवे
समीक्ष्य रामेण हतं बलीयसा |
रथेन रामं महता खरस्ततः
समाससादेन्द्र इवोद्यताशनिः || २४||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).