|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

२७
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह |
खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् || १||

स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् |
हतमेकेन रामेण दूषणस्त्रिशिरा अपि || २||

तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः |
आससाद खरो रामं नमुचिर्वासवं यथा || ३||

विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् |
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव || ४||

ज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन् |
चचार समरे मार्गाञ्शरै रथगतः खरः || ५||

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः |
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः || ६||

स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः |
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः || ७||

तद्बभूव शितैर्बाणैः खररामविसर्जितैः |
पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् || ८||

शरजालावृतः सूर्यो न तदा स्म प्रकाशते |
अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः || ९||

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः |
आजघान रणे रामं तोत्रैरिव महाद्विपम् || १०||

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् |
ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् || ११||

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् |
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा || १२||

ततः सूर्यनिकाशेन रथेन महता खरः |
आससाद रणे रामं पतङ्ग इव पावकम् || १३||

ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः |
खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम् || १४||

स पुनस्त्वपरान्सप्त शरानादाय वर्मणि |
निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् || १५||

ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः |
पपात कवचं भूमौ रामस्यादित्यवर्चसः || १६||

स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः |
रराज समरे रामो विधूमोऽग्निरिव ज्वलन् || १७||

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः |
चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः || १८||

सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा |
वरं तद्धनुरुद्यम्य खरं समभिधावत || १९||

ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः |
चिच्छेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् || २०||

स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः |
जगाम धरणीं सूर्यो देवतानामिवाज्ञया || २१||

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः |
विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः || २२||

स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः |
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् || २३||

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे |
मुमोच परमेष्वासः षट्शरानभिलक्षितान् || २४||

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् |
त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह || २५||

ततः पश्चान्महातेजा नाराचान्भास्करोपमान् |
जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् || २६||

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् |
षष्ठेन च शिरः सङ्ख्ये चिच्छेद खरसारथेः || २७||

त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः |
द्वादशेन तु बाणेन खरस्य सशरं धनुः |
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव |
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् || २८||

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः |
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा || २९||

तत्कर्म रामस्य महारथस्य
समेत्य देवाश्च महर्षयश् च |
अपूजयन्प्राञ्जलयः प्रहृष्टास्
तदा विमानाग्रगताः समेताः || ३०||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).