|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

३८
मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः |
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् || १||

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः |
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः || २||

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते |
वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे || ३||

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे |
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः || ४||

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा |
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः || ५||

अवश्यं तु मया तस्य संयुगे खरघातिनः |
प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ || ६||

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते |
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः || ७||

दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि |
अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चने || ८||

सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता |
उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः || ९||

वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् |
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः || १०||

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते |
नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् || ११||

पञ्चरूपाणि राजानो धारयन्त्यमितौजसः |
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च |
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् || १२||

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः |
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः || १३||

अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम् |
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस |
अस्मिंस्तु स भवान्कृत्ये साहार्य्यं कर्तुमर्हसि || १४||

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः |
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि || १५||

त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया |
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली || १६||

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् |
आनयिष्यामि वैदेहीं सहस्राक्षः शचीम् इव || १७||

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस |
राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत || १८||

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये |
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् |
लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया || १९||

एतत्कार्यमवश्यं मे बलादपि करिष्यसि |
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते || २०||

आसाद्या तं जीवितसंशयस्ते
मृत्युर्ध्रुवो ह्यद्य मया विरुध्य |
एतद्यथावत्परिगृह्य बुद्ध्या
यदत्र पथ्यं कुरु तत्तथा त्वम् || २१||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).