|| वाल्मीकि रामायण - अरण्यकाण्ड ||
|| सर्ग ||
४
हत्वा तु तं भीमबलं विराधं राक्षसं वने |
ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् |
अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं || १||
कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः |
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् || २||
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह || ३||
तस्य देवप्रभावस्य तपसा भावितात्मनः |
समीपे शरभङ्गस्य ददर्श महदद्भुतम् || ४||
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् |
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् || ५||
सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् |
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः || ६||
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् |
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् || ७||
पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् |
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् || ८||
चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने |
गृहीते वननारीभ्यां धूयमाने च मूर्धनि || ९||
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः |
अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे || १०||
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् |
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः |
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् || ११||
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम् |
शतं शतं कुण्डलिनो युवानः खड्गपाणयः || १२||
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः |
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् || १३||
एतद्धि किल देवानां वयो भवति नित्यदा |
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः || १४||
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण |
यावज्जनाम्यहं व्यक्तं क एष द्युतिमान्रथे || १५||
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयताम् इति |
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति || १६||
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः |
शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् || १७||
इहोपयात्यसौ रामो यावन्मां नाभिभाषते |
निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति || १८||
जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् |
कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् || १९||
इति वज्री तमामन्त्र्य मानयित्वा च तापसं |
रथेन हरियुक्तेन ययौ दिवमरिन्दमः || २०||
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः |
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् || २१||
तस्य पादौ च सङ्गृह्य रामः सीता च लक्ष्मणः |
निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः || २२||
ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः |
शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् || २३||
मामेष वरदो राम ब्रह्मलोकं निनीषति |
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः || २४||
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः |
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् || २५||
समागम्य गमिष्यामि त्रिदिवं देवसेवितम् |
अक्षया नरशार्दूल जिता लोका मया शुभाः |
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् || २६||
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः |
ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् || २७||
अहमेवाहरिष्यामि सर्वाँल्लोकान्महामुने |
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने || २८||
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै |
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः || २९||
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् |
रमणीये वनोद्देशे स ते वासं विधास्यति || ३०||
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् |
यावज्जहामि गात्राणि जीर्णं त्वचमिवोरगः || ३१||
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् |
शरभङ्गो महातेजाः प्रविवेश हुताशनम् || ३२||
तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः |
जीर्णं त्वचं तथास्थीनि यच्च मांसं च शोणितम् || ३३||
स च पावकसङ्काशः कुमारः समपद्यत |
उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत || ३४||
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् |
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत || ३५||
स पुण्यकर्मा भुवने द्विजर्षभः
पितामहं सानुचरं ददर्श ह |
पितामहश्चापि समीक्ष्य तं द्विजं
ननन्द सुस्वागतमित्युवाच ह || ३६||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).