|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

४१
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती |
हेमराजत वर्णाभ्यां पार्श्वाभ्यामुपशोभितम् || १||

प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी |
भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम् || २||

तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ |
वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् || ३||

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् |
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् || ४||

चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने |
अनेन निहता राम राजानः कामरूपिणा || ५||

अस्य मायाविदो माया मृगरूपमिदं कृतम् |
भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् || ६||

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव |
जगत्यां जगतीनाथ मायैषा हि न संशयः || ७||

एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता |
उवाच सीता संहृष्टा छद्मना हृतचेतना || ८||

आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः |
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति || ९||

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः |
मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा || १०||

ऋक्षाः पृषतसङ्घाश्च वानराः किनरास्तथा |
विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः || ११||

न चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा |
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः || १२||

नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः |
द्योतयन्वनमव्यग्रं शोभते शशिसंनिभः || १३||

अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना |
मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे || १४||

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव |
आश्चर्यभूतं भवति विस्मयं जनयिष्यति || १५||

समाप्तवनवासानां राज्यस्थानां च नः पुनः |
अन्तःपुरविभूषार्थो मृग एष भविष्यति || १६||

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो |
मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति || १७||

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः |
अजिनं नरशार्दूल रुचिरं मे भविष्यति || १८||

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि |
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् || १९||

कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् |
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम || २०||

तेन काञ्चनरोंणा तु मणिप्रवरशृङ्गिणा |
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा |
बभूव राघवस्यापि मनो विस्मयमागतम् || २१||

एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् |
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः || २२||

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् |
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति || २३||

न वने नन्दनोद्देशे न चैत्ररथसंश्रये |
कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः || २४||

प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः |
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः || २५||

पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् |
जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् || २६||

मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः |
कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः || २७||

कस्य रूपमिदं दृष्ट्वा जाम्बूनदमय प्रभम् |
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् || २८||

मांसहेतोरपि मृगान्विहारार्थं च धन्विनः |
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने || २९||

धनानि व्यवसायेन विचीयन्ते महावने |
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः || ३०||

तत्सारमखिलं नॄणां धनं निचयवर्धनम् |
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण || ३१||

अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् |
तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण || ३२||

एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि |
उपवेक्ष्यति वैदेही मया सह सुमध्यमा || ३३||

न कादली न प्रियकी न प्रवेणी न चाविकी |
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः || ३४||

एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः |
उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ || ३५||

यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण |
मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया || ३६||

एतेन हि नृशंसेन मारीचेनाकृतात्मना |
वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः || ३७||

उत्थाय बहवो येन मृगयायां जनाधिपाः |
निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः || ३८||

पुरस्तादिह वातापिः परिभूय तपस्विनः |
उदरस्थो द्विजान्हन्ति स्वगर्भोऽश्वतरीम् इव || ३९||

स कदा चिच्चिराल्लोके आससाद महामुनिम् |
अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह || ४०||

समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् |
उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत् || ४१||

त्वयाविगण्य वातापे परिभूताश्च तेजसा |
जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः || ४२||

एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मण |
मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् || ४३||

भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतिः |
इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् || ४४||

अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन |
अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम् || ४५||

यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् |
पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् || ४६||

त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति |
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया || ४७||

यावत्पृषतमेकेन सायकेन निहन्म्यहम् |
हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण || ४८||

प्रदक्षिणेनातिबलेन पक्षिणा
जटायुषा बुद्धिमता च लक्ष्मण |
भवाप्रमत्तः प्रतिगृह्य मैथिलीं
प्रतिक्षणं सर्वत एव शङ्कितः || ४९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).