|| वाल्मीकि रामायण - अरण्यकाण्ड ||
|| सर्ग ||
४९
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा |
क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः || १||
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः |
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः || २||
स सम्प्रहारस्तुमुलस्तयोस्तस्मिन्महावने |
बभूव वातोद्धतयोर्मेघयोर्गगने यथा || ३||
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा |
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव || ४||
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः |
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः || ५||
स तानि शरजालानि गृध्रः पत्ररथेश्वरः |
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे || ६||
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः |
चकार बहुधा गात्रे व्रणान्पतगसत्तमः || ७||
अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान् |
मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्क्षया || ८||
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः |
बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः || ९||
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् |
अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत् || १०||
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् |
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः || ११||
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् |
पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः || १२||
काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान् |
तांश्चास्य जवसम्पन्नाञ्जघान समरे बली || १३||
वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् |
मणिहेमविचित्राङ्गं बभञ्ज च महारथम् |
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह || १४||
स भग्नधन्वा विरथो हताश्वो हतसारथिः |
अङ्केनादाय वैदेहीं पपात भुवि रावणः || १५||
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् |
साधु साध्विति भूतानि गृध्रराजमपूजयन् || १६||
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् |
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः || १७||
तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् |
गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत् || १८||
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण |
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् || १९||
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः |
विषपानं पिबस्येतत्पिपासित इवोदकम् || २०||
अनुबन्धमजानन्तः कर्मणामविचक्षणाः |
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि || २१||
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे |
वधाय बडिशं गृह्य सामिषं जलजो यथा || २२||
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण |
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ || २३||
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् |
तस्कराचरितो मार्गो नैष वीरनिषेवितः || २४||
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण |
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा || २५||
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते |
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् || २६||
पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान् |
कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि || २७||
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः |
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् || २८||
तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः |
अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम् || २९||
विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् |
केशांश्चोत्पाटयामास नखपक्षमुखायुधः || ३०||
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः |
अमर्षस्फुरितौष्ठः सन्प्राकम्पत स राक्षसः || ३१||
सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः |
तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः || ३२||
जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः |
वामबाहून्दश तदा व्यपाहरदरिन्दमः || ३३||
ततः क्रुद्धो दशक्रीवः सीतामुत्सृज्य वीर्यवान् |
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् || ३४||
ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः |
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च || ३५||
तस्य व्यायच्छमानस्य रामस्यार्थेऽथ रावणः |
पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत् || ३६||
स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा |
निपपात हतो गृध्रो धरण्यामल्पजीवितः || ३७||
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् |
अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता || ३८||
तं नीलजीमूतनिकाशकल्पं
सुपाण्डुरोरस्कमुदारवीर्यम् |
ददर्श लङ्काधिपतिः पृथिव्यां
जटायुषं शान्तमिवाग्निदावम् || ३९||
ततस्तु तं पत्ररथं महीतले
निपातितं रावणवेगमर्दितम् |
पुनः परिष्वज्य शशिप्रभानना
रुरोद सीता जनकात्मजा तदा || ४०||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).