|| वाल्मीकि रामायण - अरण्यकाण्ड ||
|| सर्ग ||
५२
ह्रियमाणा तु वैदेही कं चिन्नाथमपश्यती |
ददर्श गिरिशृङ्गस्थान्पञ्चवानरपुङ्गवान् || १||
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् |
उत्तरीयं वरारोहा शुभान्याभरणानि च |
मुमोच यदि रामाय शंसेयुरिति मैथिली || २||
वस्त्रमुत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम् |
सम्भ्रमात्तु दशग्रीवस्तत्कर्म न च बुद्धिवान् || ३||
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव |
विक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः || ४||
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् |
जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः || ५||
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः |
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् || ६||
वनानि सरितः शैलान्सरांसि च विहायसा |
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः || ७||
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् |
सरितां शरणं गत्वा समतीयाय सागरम् || ८||
सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः |
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः || ९||
अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा |
एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् || १०||
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः |
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः || ११||
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् |
संरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत् || १२||
तत्र तामसितापाङ्गीं शोकमोहपरायणाम् |
निदधे रावणः सीतां मयो मायामिवासुरीम् || १३||
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः |
यथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः || १४||
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च |
यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा || १५||
या च वक्ष्यति वैदेहीं वचनं किं चिदप्रियम् |
अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् || १६||
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् |
निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् |
ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् || १७||
स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः |
उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः || १८||
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः |
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् || १९||
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे |
पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः || २०||
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् |
सदूषणखरं युद्धे हतं तद्रामसायकैः || २१||
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते |
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् || २२||
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः |
न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् || २३||
तं त्विदानीमहं हत्वा खरदूषणघातिनम् |
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः || २४||
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता |
प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः || २५||
अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः |
कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति || २६||
युष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि |
अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः || २७||
ततः प्रियं वाक्यमुपेत्य राक्षसा
महार्थमष्टावभिवाद्य रावणम् |
विहाय लङ्कां सहिताः प्रतस्थिरे
यतो जनस्थानमलक्ष्यदर्शनाः || २८||
ततस्तु सीतामुपलभ्य रावणः
सुसम्प्रहृष्टः परिगृह्य मैथिलीम् |
प्रसज्य रामेण च वैरमुत्तमं
बभूव मोहान्मुदितः स राक्षसः || २९||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).