|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

५८
भृशमाव्रजमानस्य तस्याधोवामलोचनम् |
प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते || १||

उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः |
अपि क्षेमं तु सीताया इति वै व्याजहार ह || २||

त्वरमाणो जगामाथ सीतादर्शनलालसः |
शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः || ३||

उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः |
तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः || ४||

ददर्श पर्णशालां च रहितां सीतया तदा |
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीम् इव || ५||

रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् |
श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदैवतम् || ६||

विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् |
दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः || ७||

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति |
निलीनाप्यथ वा भीरुरथ वा वनमाश्रिता || ८||

गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः |
अथ वा पद्मिनीं याता जलार्थं वा नदीं गता || ९||

यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् |
शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते || १०||

वृक्षाद्वृक्षं प्रधावन्स गिरींश्चापि नदीन्नदीम् |
बभूव विलपन्रामः शोकपङ्कार्णवप्लुतः || ११||

अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया |
कदम्ब यदि जानीषे शंस सीतां शुभाननाम् || १२||

स्निग्धपल्लवसङ्काशां पीतकौशेयवासिनीम् |
शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी || १३||

अथ वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् |
जनकस्य सुता भीरुर्यदि जीवति वा न वा || १४||

ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् |
लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः || १५||

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् |
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् || १६||

अशोकशोकापनुद शोकोपहतचेतसं |
त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् || १७||

यदि ताल त्वया दृष्टा पक्वतालफलस्तनी |
कथयस्व वरारोहां कारुष्यं यदि ते मयि || १८||

यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा |
प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे || १९||

अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम् |
मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् || २०||

गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् |
तां मन्ये विदितां तुभ्यमाख्याहि वरवारण || २१||

शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना |
मैथिली मम विस्रब्धः कथयस्व न ते भयम् || २२||

किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे |
वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे || २३||

तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि |
नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे || २४||

पीतकौशेयकेनासि सूचिता वरवर्णिनि |
धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् || २५||

नैव सा नूनमथ वा हिंसिता चारुहासिनी |
कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति || २६||

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः |
विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया || २७||

नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् |
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता || २८||

कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा |
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ || २९||

भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ |
मया विरहिता बाला रक्षसां भक्षणाय वै || ३०||

सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा |
हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्व चित् || ३१||

हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः |
इत्येवं विलपन्रामः परिधावन्वनाद्वनम् || ३२||

क्व चिदुद्भ्रमते वेगात्क्व चिद्विभ्रमते बलात् |
क्व चिन्मत्त इवाभाति कान्तान्वेषणतत्परः || ३३||

स वनानि नदीः शैलान्गिरिप्रस्रवणानि च |
काननानि च वेगेन भ्रमत्यपरिसंस्थितः || ३४||

तथा स गत्वा विपुलं महद्वनं
परीत्य सर्वं त्वथ मैथिलीं प्रति |
अनिष्ठिताशः स चकार मार्गणे
पुनः प्रियायाः परमं परिश्रमम् || ३५||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).