|| वाल्मीकि रामायण - अरण्यकाण्ड ||
|| सर्ग ||
६७
पुरा राम महाबाहो महाबलपराक्रम |
रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् |
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः || १||
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् |
ऋषीन्वनगतान्राम त्रासयामि ततस्ततः || २||
ततः स्थूलशिरा नाम महर्षिः कोपितो मया |
सञ्चिन्वन्विविधं वन्यं रूपेणानेन धर्षितः || ३||
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना |
एतदेव नृशंसं ते रूपमस्तु विगर्हितम् || ४||
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति |
अभिशापकृतस्येति तेनेदं भाषितं वचः || ५||
यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने |
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् || ६||
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण |
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे || ७||
अहं हि तपसोग्रेण पितामहमतोषयम् |
दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् || ८||
दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति |
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् || ९||
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा |
सक्थिनी च शिरश्चैव शरीरे सम्प्रवेशितम् || १०||
स मया याच्यमानः सन्नानयद्यमसादनम् |
पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् || ११||
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः |
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् || १२||
एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ |
प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् || १३||
सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् |
सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः || १४||
स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः |
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि || १५||
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव |
शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा || १६||
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ |
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना || १७||
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः |
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः || १८||
रावणेन हृता सीता मम भार्या यशस्विनी |
निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् || १९||
नाममात्रं तु जानामि न रूपं तस्य रक्षसः |
निवासं वा प्रभावं वा वयं तस्य न विद्महे || २०||
शोकार्तानामनाथानामेवं विपरिधावताम् |
कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् || २१||
काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः |
भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते || २२||
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता |
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः || २३||
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् |
प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् || २४||
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् |
यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः || २५||
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो |
राक्षसं तं महावीर्यं सीता येन हृता तव || २६||
विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव |
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् || २७||
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः |
तावन्मामवटे क्षिप्त्वा दह राम यथाविधि || २८||
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन |
वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं || २९||
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव |
कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः || ३०||
न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव |
सर्वान्परिसृतो लोकान्पुरा वै कारणान्तरे || ३१||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).