|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

१८
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् |
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् || १||

स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः |
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः || २||

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः |
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः || ३||

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः |
द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः || ४||

एष कोटीसहस्रेण वानराणां महौजसाम् |
आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय || ५||

नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि |
असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् || ६||

नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान् |
असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः || ७||

पर्वतेषु च ये के चिद्विषमेषु नदीषु च |
एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः || ८||

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः |
पर्जन्य इव जीमूतैः समन्तात्परिवारितः || ९||

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् |
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः || १०||

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् |
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे || ११||

स एष जाम्बवान्नाम महायूथपयूथपः |
प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः || १२||

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता |
देवासुरे जाम्बवता लब्धाश्च बहवो वराः || १३||

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः |
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च || १४||

राक्षसानां च सदृशाः पिशाचानां च रोमशाः |
एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः || १५||

यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् |
प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् || १६||

एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः |
बलेन बलसम्पन्नो रम्भो नामैष यूथपः || १७||

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते |
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् || १८||

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते |
श्रुतः संनादनो नाम वानराणां पितामहः || १९||

येन युद्धं तदा दत्तं रणे शक्रस्य धीमता |
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः |
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः || २०||

एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना |
पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् || २१||

यस्य वैश्रवणो राजा जम्बूमुपनिषेवते |
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् || २२||

विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप |
तत्रैष वसति श्रीमान्बलवान्वानरर्षभः |
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः || २३||

वृतः कोटिसहस्रेण हरीणां समुपस्थितः |
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् || २४||

यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् |
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् || २५||

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः |
हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु || २६||

उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् |
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् || २७||

एनं शतसहस्राणां सहस्रमभिवर्तते |
एष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः || २८||

वातेनेवोद्धतं मेघं यमेनमनुपश्यसि |
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः || २९||

एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः |
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् || ३०||

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् |
परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा || ३१||

भ्रमराचरिता यत्र सर्वकामफलद्रुमाः |
यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् || ३२||

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः |
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः || ३३||

तत्रैष रमते राजन्रम्ये काञ्चनपर्वते |
मुख्यो वानरमुख्यानां केसरी नाम यूथपः || ३४||

षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः |
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् || ३५||

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः |
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः || ३६||

सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः |
सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः || ३७||

सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः |
महापर्वतसङ्काशा महाजीमूतनिस्वनाः || ३८||

एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् |
नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः |
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् || ३९||

गजो गवाक्षो गवयो नलो नीलश्च वानरः |
एकैक एव यूथानां कोटिभिर्दशभिर्वृतः || ४०||

तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः |
न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः || ४१||

सर्वे महाराज महाप्रभावाः
सर्वे महाशैलनिकाशकायाः |
सर्वे समर्थाः पृथिवीं क्षणेन
कर्तुं प्रविध्वस्तविकीर्णशैलाम् || ४२||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).