|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

२६
तेन शङ्खविमिश्रेण भेरीशब्देन राघवः |
उपयतो महाबाहू रामः परपुरञ्जयः || १||

तं निनादं निशम्याथ रावणो राक्षसेश्वरः |
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत || २||

अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः |
सभां संनादयन्सर्वामित्युवाच महाबलः || ३||

तरणं सागरस्यापि विक्रमं बलसञ्चयम् |
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् |
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् || ४||

ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः |
रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् || ५||

विद्यास्वभिविनीतो यो राजा राजन्नयानुगः |
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे || ६||

सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह |
स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते || ७||

हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च |
न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् || ८||

तन्मह्यं रोचते सन्धिः सह रामेण रावण |
यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् || ९||

तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः |
विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् || १०||

असृजद्भगवान्पक्षौ द्वावेव हि पितामहः |
सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ || ११||

धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् |
अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण || १२||

धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् |
अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते || १३||

तत्त्वया चरता लोकान्धर्मो विनिहतो महान् |
अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे || १४||

स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः |
विवर्धयति पक्षं च सुराणां सुरभावनः || १५||

विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया |
ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् |
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः || १६||

तपसा भावितात्मानो धर्मस्यानुग्रहे रताः |
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः || १७||

जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते |
अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् |
दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे || १८||

ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः |
आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश || १९||

तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः |
चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् || २०||

उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा |
विनाशमनुपश्यामि सर्वेषां रक्षसाम् अहम् || २१||

खराभिस्तनिता घोरा मेघाः प्रतिभयङ्करः |
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः || २२||

रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः |
ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् || २३||

व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् |
प्रविश्य लङ्कामनिशं समवायांश् च कुर्वते || २४||

कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः |
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च || २५||

गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते |
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह || २६||

मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह |
किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह || २७||

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः |
राक्षसानां विनाशाय कपोता विचरन्ति च || २८||

चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः |
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः || २९||

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः |
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते |
एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च || ३०||

विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् |
न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः || ३१||

येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः |
कुरुष्व नरराजेन सन्धिं रामेण रावण || ३२||

इदं वचस्तत्र निगद्य माल्यवन्
परीक्ष्य रक्षोऽधिपतेर्मनः पुनः |
अनुत्तमेषूत्तमपौरुषो बली
बभूव तूष्णीं समवेक्ष्य रावणम् || ३३||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).