|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

५७
एवं विलपमानस्य रावणस्य दुरात्मनः |
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् || १||

एवमेव महावीर्यो हतो नस्तात मध्यमः |
न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् || २||

नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो |
स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् || ३||

ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः |
सहस्रखरसंयुक्तो रथो मेघसमस्वनः || ४||

त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः |
स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि || ५||

कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम् |
उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह || ६||

शम्बरो देवराजेन नरको विष्णुना यथा |
तथाद्य शयिता रामो मया युधि निपातितः || ७||

श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः |
पुनर्जातमिवात्मानं मन्यते कालचोदितः || ८||

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ |
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः || ९||

ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः |
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः || १०||

अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः |
सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः || ११||

सर्वेऽस्त्रबलसम्पन्नाः सर्वे विस्तीर्ण कीर्तयः |
सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः || १२||

सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः |
सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा || १३||

स तैस्तथा भास्करतुल्यवर्चसैः
सुतैर्वृतः शत्रुबलप्रमर्दनैः |
रराज राजा मघवान्यथामरैर्
वृतो महादानवदर्पनाशनैः || १४||

स पुत्रान्सम्परिष्वज्य भूषयित्वा च भूषणैः |
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे || १५||

महोदरमहापार्श्वौ भ्रातरौ चापि रावणः |
रक्षणार्थं कुमाराणां प्रेषयामास संयुगे || १६||

तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् |
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे || १७||

सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः |
निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः || १८||

ततः सुदर्शनं नाम नीलजीमूतसंनिभम् |
ऐरावतकुले जातमारुरोह महोदरः || १९||

सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम् |
रराज गजमास्थाय सवितेवास्तमूर्धनि || २०||

हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् |
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः || २१||

त्रिशिरा रथमास्थाय विरराज धनुर्धरः |
सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः || २२||

त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे |
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः || २३||

अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा |
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् || २४||

सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् |
तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् || २५||

स काञ्चनविचित्रेण किरीटेन विराजता |
भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः || २६||

स रराज रथे तस्मिन्राजसूनुर्महाबलः |
वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः || २७||

हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् |
मनोजवं महाकायमारुरोह नरान्तकः || २८||

गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः |
शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे || २९||

देवान्तकः समादाय परिघं वज्रभूषणम् |
परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् || ३०||

महापार्श्वो महातेजा गदामादाय वीर्यवान् |
विरराज गदापाणिः कुबेर इव संयुगे || ३१||

ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः |
सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः || ३२||

तान्गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः |
अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः || ३३||

ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः |
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे || ३४||

प्रगृहीता बभौ तेषां छत्राणामावलिः सिता |
शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे || ३५||

मरणं वापि निश्चित्य शत्रूणां वा पराजयम् |
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः || ३६||

जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् |
जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः || ३७||

क्ष्वेडितास्फोटनिनदैः सञ्चचालेव मेदिनी |
रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् || ३८||

तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः |
ददृशुर्वानरानीकं समुद्यतशिलानगम् || ३९||

हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम् |
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् || ४०||

नीलजीमूतसङ्काशं समुद्यतमहायुधम् |
दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् || ४१||

तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवङ्गमाः |
समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः || ४२||

ततः समुद्घुष्टरवं निशम्य
रक्षोगणा वानरयूथपानाम् |
अमृष्यमाणाः परहर्षमुग्रं
महाबला भीमतरं विनेदुः || ४३||

ते राक्षसबलं घोरं प्रविश्य हरियूथपाः |
विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा || ४४||

के चिदाकाशमाविश्य के चिदुर्व्यां प्लवङ्गमाः |
रक्षःसैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः || ४५||

ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम् |
बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः || ४६||

सिंहनादान्विनेदुश्च रणे राक्षसवानराः |
शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवङ्गमाः || ४७||

निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् |
के चिद्रथगतान्वीरान्गजवाजिगतानपि || ४८||

निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवङ्गमाः |
शैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः |
चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः || ४९||

ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः |
मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता || ५०||

विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः |
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः || ५१||

वानरान्वानरैरेव जग्नुस्ते रजनीचराः |
राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि || ५२||

आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् |
तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः || ५३||

निजघ्नुः शैलशूलास्त्रैर्विभिदुश् च परस्परम् |
सिंहनादान्विनेदुश्च रणे वानरराक्षसाः || ५४||

छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः |
रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः || ५५||

रथेन च रथं चापि वारणेन च वारणम् |
हयेन च हयं के चिन्निजघ्नुर्वानरा रणे || ५६||

क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः |
राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः || ५७||

विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे |
हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् || ५८||

तस्मिन्प्रवृत्ते तुमुले विमर्दे
प्रहृष्यमाणेषु वली मुखेषु |
निपात्यमानेषु च राक्षसेषु
महर्षयो देवगणाश्च नेदुः || ५९||

ततो हयं मारुततुल्यवेगम्
आरुह्य शक्तिं निशितां प्रगृह्य |
नरान्तको वानरराजसैन्यं
महार्णवं मीन इवाविवेश || ६०||

स वानरान्सप्तशतानि वीरः
प्रासेन दीप्तेन विनिर्बिभेद |
एकः क्षणेनेन्द्ररिपुर्महात्मा
जघान सैन्यं हरिपुङ्गवानाम् || ६१||

ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् |
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः || ६२||

स तस्य ददृशे मार्गो मांसशोणितकर्दमः |
पतितैः पर्वताकारैर्वानरैरभिसंवृतः || ६३||

यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः |
तावदेतानतिक्रम्य निर्बिभेद नरान्तकः || ६४||

ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामान्ते नरान्तकः |
ददाह हरिसैन्यानि वनानीव विभावसुः || ६५||

यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः |
तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः || ६६||

दिक्षु सर्वासु बलवान्विचचार नरान्तकः |
प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः || ६७||

न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः |
उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् || ६८||

एकेनान्तककल्पेन प्रासेनादित्यतेजसा |
भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले || ६९||

वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् |
न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् || ७०||

पततां हरिवीराणां रूपाणि प्रचकाशिरे |
वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव || ७१||

ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः |
तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे || ७२||

विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् |
नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः || ७३||

विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् |
गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् || ७४||

अथोवाच महातेजाः सुग्रीवो वानराधिपः |
कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् || ७५||

गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः |
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय || ७६||

स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा |
अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् || ७७||

शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः |
रराजाङ्गदसंनद्धः सधातुरिव पर्वतः || ७८||

निरायुधो महातेजाः केवलं नखदंष्ट्रवान् |
नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः || ७९||

तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि |
अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि || ८०||

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः |
सन्दश्य दशनैरोष्ठं निश्वस्य च भुजङ्गवत् || ८१||

स प्रासमाविध्य तदाङ्गदाय
समुज्ज्वलन्तं सहसोत्ससर्ज |
स वालिपुत्रोरसि वज्रकल्पे
बभूव भग्नो न्यपतच्च भूमौ || ८२||

तं प्रासमालोक्य तदा विभग्नं
सुपर्णकृत्तोरगभोगकल्पम् |
तलं समुद्यम्य स वालिपुत्रस्
तुरङ्गमस्याभिजघान मूर्ध्नि || ८३||

निमग्नपादः स्फुटिताक्षि तारो
निष्क्रान्तजिह्वोऽचलसंनिकाशः |
स तस्य वाजी निपपात भूमौ
तलप्रहारेण विकीर्णमूर्धा || ८४||

नरान्तकः क्रोधवशं जगाम
हतं तुरगं पतितं निरीक्ष्य |
स मुष्टिमुद्यम्य महाप्रभावो
जघान शीर्षे युधि वालिपुत्रम् || ८५||

अथाङ्गदो मुष्टिविभिन्नमूर्धा
सुस्राव तीव्रं रुधिरं भृशोष्णम् |
मुहुर्विजज्वाल मुमोह चापि
संज्ञां समासाद्य विसिष्मिये च || ८६||

अथाङ्गदो वज्रसमानवेगं
संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् |
निपातयामास तदा महात्मा
नरान्तकस्योरसि वालिपुत्रः || ८७||

स मुष्टिनिष्पिष्टविभिन्नवक्षा
ज्वालां वमञ्शोणितदिग्धगात्रः |
नरान्तको भूमितले पपात
यथाचलो वज्रनिपातभग्नः || ८८||

अथान्तरिक्षे त्रिदशोत्तमानां
वनौकसां चैव महाप्रणादः |
बभूव तस्मिन्निहतेऽग्र्यवीरे
नरान्तके वालिसुतेन सङ्ख्ये || ८९||

अथाङ्गदो राममनः प्रहर्षणं
सुदुष्करं तं कृतवान्हि विक्रमम् |
विसिष्मिये सोऽप्यतिवीर्य विक्रमः
पुनश्च युद्धे स बभूव हर्षितः || ९०||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).