|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

६०
ततो हतान्राक्षसपुङ्गवांस्तान्
देवान्तकादित्रिशिरोऽतिकायान् |
रक्षोगणास्तत्र हतावशिष्टास्
ते रावणाय त्वरितं शशंसुः || १||

ततो हतांस्तान्सहसा निशम्य
राजा मुमोहाश्रुपरिप्लुताक्षः |
पुत्रक्षयं भ्रातृवधं च घोरं
विचिन्त्य राजा विपुलं प्रदध्यौ || २||

ततस्तु राजानमुदीक्ष्य दीनं
शोकार्णवे सम्परिपुप्लुवानम् |
अथर्षभो राक्षसराजसूनुर्
अथेन्द्रजिद्वाक्यमिदं बभाषे || ३||

न तात मोहं प्रतिगन्तुमर्हसि
यत्रेन्द्रजिज्जीवति राक्षसेन्द्र |
नेन्द्रारिबाणाभिहतो हि कश् चित्
प्राणान्समर्थः समरेऽभिधर्तुम् || ४||

पश्याद्य रामं सहलक्ष्मणेन
मद्बाणनिर्भिन्नविकीर्णदेहम् |
गतायुषं भूमितले शयानं
शरैः शितैराचितसर्वगात्रम् || ५||

इमां प्रतिज्ञां शृणु शक्रशत्रोः
सुनिश्चितां पौरुषदैवयुक्ताम् |
अद्यैव रामं सहलक्ष्मणेन
सन्तापयिष्यामि शरैरमोघैः || ६||

अद्येन्द्रवैवस्वतविष्णुमित्र
साध्याश्विवैश्वानरचन्द्रसूर्याः |
द्रक्ष्यन्ति मे विक्रममप्रमेयं
विष्णोरिवोग्रं बलियज्ञवाटे || ७||

स एवमुक्त्वा त्रिदशेन्द्रशत्रुर्
आपृच्छ्य राजानमदीनसत्त्वः |
समारुरोहानिलतुल्यवेगं
रथं खरश्रेष्ठसमाधियुक्तम् || ८||

समास्थाय महातेजा रथं हरिरथोपमम् |
जगाम सहसा तत्र यत्र युद्धमरिन्दम || ९||

तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः |
संहर्षमाणा बहवो धनुःप्रवरपाणयः || १०||

गजस्कन्धगताः के चित्के चित्परमवाजिभिः |
प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः || ११||

स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः |
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः || १२||

स शङ्खशशिवर्णेन छत्रेण रिपुसादनः |
रराज परिपूर्णेन नभश्चन्द्रमसा यथा || १३||

अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः |
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् || १४||

ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा |
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता || १५||

स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् |
राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् || १६||

त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः |
किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम् || १७||

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः |
रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् || १८||

स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः |
स्थापयामास रक्षांसि रथं प्रति समन्ततः || १९||

ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः |
जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा || २०||

स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः |
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् || २१||

शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः |
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा || २२||

स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः |
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः || २३||

सकृदेव समिद्धस्य विधूमस्य महार्चिषः |
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् || २४||

प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः |
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः || २५||

सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः |
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् || २६||

तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके |
सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् || २७||

स पावकं पावकदीप्ततेजा
हुत्वा महेन्द्रप्रतिमप्रभावः |
सचापबाणासिरथाश्वसूतः
खेऽन्तर्दध आत्मानमचिन्त्यरूपः || २८||

स सैन्यमुत्सृज्य समेत्य तूर्णं
महारणे वानरवाहिनीषु |
अदृश्यमानः शरजालमुग्रं
ववर्ष नीलाम्बुधरो यथाम्बु || २९||

ते शक्रजिद्बाणविशीर्णदेहा
मायाहता विस्वरमुन्नदन्तः |
रणे निपेतुर्हरयोऽद्रिकल्पा
यथेन्द्रवज्राभिहता नगेन्द्राः || ३०||

ते केवलं सन्ददृशुः शिताग्रान्
बाणान्रणे वानरवाहिनीषु |
माया निगूढं च सुरेन्द्रशत्रुं
न चात्र तं राक्षसमभ्यपश्यन् || ३१||

ततः स रक्षोऽधिपतिर्महात्मा
सर्वा दिशो बाणगणैः शिताग्रैः |
प्रच्छादयामास रविप्रकाशैर्
विषादयामास च वानरेन्द्रान् || ३२||

स शूलनिस्त्रिंश परश्वधानि
व्याविध्य दीप्तानलसंनिभानि |
सविस्फुलिङ्गोज्ज्वलपावकानि
ववर्ष तीव्रं प्लवगेन्द्रसैन्ये || ३३||

ततो ज्वलनसङ्काशैः शितैर्वानरयूथपाः |
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः || ३४||

अन्योन्यमभिसर्पन्तो निनदन्तश् च विस्वरम् |
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः || ३५||

उदीक्षमाणा गगनं के चिन्नेत्रेषु ताडिताः |
शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले || ३६||

हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् |
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च || ३७||

मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ |
केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् || ३८||

सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् |
पावकाक्षं नलं चैव कुमुदं चैव वानरम् || ३९||

प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः |
विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः || ४०||

स वै गदाभिर्हरियूथमुख्यान्
निर्भिद्य बाणैस्तपनीयपुङ्खैः |
ववर्ष रामं शरवृष्टिजालैः
सलक्ष्मणं भास्कररश्मिकल्पैः || ४१||

स बाणवर्षैरभिवर्ष्यमाणो
धारानिपातानिव तान्विचिन्त्य |
समीक्षमाणः परमाद्भुतश्री
रामस्तदा लक्ष्मणमित्युवाच || ४२||

असौ पुनर्लक्ष्मण राक्षसेन्द्रो
ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः |
निपातयित्वा हरिसैन्यमुग्रम्
अस्माञ्शरैरर्दयति प्रसक्तम् || ४३||

स्वयम्भुवा दत्तवरो महात्मा
खमास्थितोऽन्तर्हितभीमकायः |
कथं नु शक्यो युधि नष्टदेहो
निहन्तुमद्येन्द्रजिदुद्यतास्त्रः || ४४||

मन्ये स्वयम्भूर्भगवानचिन्त्यो
यस्यैतदस्त्रं प्रभवश् च योऽस्य |
बाणावपातांस्त्वमिहाद्य धीमन्
मया सहाव्यग्रमनाः सहस्व || ४५||

प्रच्छादयत्येष हि राक्षसेन्द्रः
सर्वा दिशः सायकवृष्टिजालैः |
एतच्च सर्वं पतिताग्र्यवीरं
न भ्राजते वानरराजसैन्यम् || ४६||

आवां तु दृष्ट्वा पतितौ विसंज्ञौ
निवृत्तयुद्धौ हतरोषहर्षौ |
ध्रुवं प्रवेक्ष्यत्यमरारिवासं
असौ समादाय रणाग्रलक्ष्मीम् || ४७||

ततस्तु ताविन्द्रजिदस्त्रजालैर्
बभूवतुस्तत्र तदा विशस्तौ |
स चापि तौ तत्र विषादयित्वा
ननाद हर्षाद्युधि राक्षसेन्द्रः || ४८||

स तत्तदा वानरराजसैन्यं
रामं च सङ्ख्ये सहलक्ष्मणेन |
विषादयित्वा सहसा विवेश
पुरीं दशग्रीवभुजाभिगुप्ताम् || ४९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).