|| वाल्मीकि रामायण - युद्धकाण्ड ||
|| सर्ग ||
६६
निर्गतं मकराक्षं ते दृष्ट्वा वानरपुङ्गवाः |
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः || १||
ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम् |
निशाचरैः प्लवङ्गानां देवानां दानवैरिव || २||
वृक्षशूलनिपातैश्च शिलापरिघपातनैः |
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः || ३||
शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः |
पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः || ४||
पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा |
कदनं कपिसिंहानां चक्रुस्ते रजनीचराः || ५||
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः |
सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः || ६||
तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः |
नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः || ७||
विद्रवत्सु तदा तेषु वानरेषु समन्ततः |
रामस्तान्वारयामास शरवर्षेण राक्षसान् || ८||
वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः |
क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् || ९||
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते |
त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः || १०||
यत्तदा दण्डकारण्ये पितरं हतवान्मम |
मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते || ११||
दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव |
यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने || १२||
दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह |
काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः || १३||
अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः |
ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि || १४||
बहुनात्र किमुक्तेन शृणु राम वचो मम |
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे || १५||
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे |
अभ्यस्तं येन वा राम तेन वा वर्ततां युधि || १६||
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः |
अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् || १७||
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः |
त्रिशिरा दूषणश्चापि दण्डके निहता मया || १८||
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः |
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः || १९||
एवमुक्तस्तु रामेण खरपुत्रो निशाचरः |
बाणौघानसृजत्तस्मै राघवाय रणाजिरे || २०||
ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा |
निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः || २१||
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा |
खर राक्षसपुत्रस्य सूनोर्दशरथस्य च || २२||
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा |
धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे || २३||
देवदानवगन्धर्वाः किंनराश्च महोरगाः |
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् || २४||
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् |
कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे || २५||
राममुक्तास्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे |
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः || २६||
बाणौघवितताः सर्वा दिशश्च विदिशस्तथा |
सञ्चन्ना वसुधा चैव समन्तान्न प्रकाशते || २७||
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः |
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः |
भित्त्वा शरै रथं रामो रथाश्वान्समपातयत् || २८||
विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः |
अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना |
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् || २९||
विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः |
स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे || ३०||
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् |
बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः || ३१||
सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः |
व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि || ३२||
तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा |
साधु साध्विति भूतानि व्याहरन्ति नभोगताः || ३३||
तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः |
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् || ३४||
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः |
पावकास्त्रं ततो रामः सन्दधे स्वशरासने || ३५||
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे |
सञ्चिन्नहृदयं तत्र पपात च ममार च || ३६||
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् |
लङ्कामेव प्रधावन्त रामबालार्दितास्तदा || ३७||
दशरथनृपपुत्रबाणवेगै
रजनिचरं निहतं खरात्मजं तम् |
ददृशुरथ च देवताः प्रहृष्टा
गिरिमिव वज्रहतं यथा विशीर्णम् || ३८||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).