|| वाल्मीकि रामायण - युद्धकाण्ड ||
|| सर्ग ||
७३
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः |
परेषामहितं वाक्यमर्थसाधकमब्रवीत् || १||
अस्यानीकस्य महतो भेदने यतलक्ष्मण |
राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति || २||
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् |
अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते || ३||
जहि वीरदुरात्मानं मायापरमधार्मिकम् |
रावणिं क्रूरकर्माणं सर्वलोकभयावहम् || ४||
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः |
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति || ५||
ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः |
अभ्यधावन्त सहितास्तदनीकमवस्थितम् || ६||
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः |
उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः || ७||
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् |
शब्देन महता लङ्कां नादयन्वै समन्ततः || ८||
शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः |
उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् || ९||
ते राक्षसा वानरेषु विकृताननबाहवः |
निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् || १०||
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः |
अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् || ११||
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः |
रक्षसां वध्यमानानां महद्भयमजायत || १२||
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् |
उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते || १३||
वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः |
आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः || १४||
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः |
रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः || १५||
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् |
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् || १६||
तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् |
धरणीधरसङ्काशी महावृक्षमरिन्दमः || १७||
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् |
चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः || १८||
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् |
राक्षसानां सहस्राणि हनूमन्तमवाकिरन् || १९||
शितशूलधराः शूलैरसिभिश्चासिपाणयः |
शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः || २०||
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः |
शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः || २१||
घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः |
मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः || २२||
अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् |
तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् || २३||
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् |
सूदयानममित्रघ्नममित्रान्पवनात्मजम् || २४||
स सारथिमुवाचेदं याहि यत्रैष वानरः |
क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः || २५||
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः |
वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे || २६||
सोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान् |
अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः || २७||
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः |
रोषेण महताविषो वाक्यं चेदमुवाच ह || २८||
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते |
वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि || २९||
बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे |
वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः || ३०||
हनूमन्तं जिघांसन्तं समुद्यतशरासनम् |
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः || ३१||
यस्तु वासवनिर्जेता रावणस्यात्मसम्भवः |
स एष रथमास्थाय हनूमन्तं जिघांसति || ३२||
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः |
जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि || ३३||
इत्येवमुक्तस्तु तदा महात्मा
विभीषणेनारिविभीषणेन |
ददर्श तं पर्वतसंनिकाशं
रथस्थितं भीमबलं दुरासदम् || ३४||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).