|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

८७
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ |
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले || १||

आविवेश महान्क्रोधो रावणं तु महामृधे |
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह || २||

निहतानाममात्यानां रुद्धस्य नगरस्य च |
दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ || ३||

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् |
प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः || ४||

स दिशो दश घोषेण रथस्यातिरथो महान् |
नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत || ५||

पूरिता तेन शब्देन सनदीगिरिकानना |
सञ्चचाल मही सर्वा सवराहमृगद्विपा || ६||

तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् |
निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः || ७||

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः |
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः || ८||

स ददर्श ततो रामं तिष्ठन्तमपराजितम् |
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा || ९||

आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः |
पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् || १०||

वानरांश्च रणे भग्नानापतन्तं च रावणम् |
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् || ११||

विस्फारयितुमारेभे ततः स धनुरुत्तमम् |
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् || १२||

तयोः शरपथं प्राप्य रावणो राजपुत्रयोः |
स बभूव यथा राहुः समीपे शशिसूर्ययोः || १३||

रावणस्य च बाणौघै रामविस्फरितेन च |
शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा || १४||

तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः |
मुमोच धनुरायम्य शरानग्निशिखोपमान् || १५||

तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता |
बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् || १६||

एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश |
लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् || १७||

अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः |
आससाद ततो रामं स्थितं शैलमिवाचलम् || १८||

स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः |
व्यसृजच्छरवर्णानि रावणो राघवोपरि || १९||

शरधारास्ततो रामो रावणस्य धनुश्च्युताः |
दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् || २०||

ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः |
दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव || २१||

राघवो रावणं तूर्णं रावणो राघवं तथा |
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः || २२||

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् |
बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ || २३||

तयोर्भूतानि वित्रेषुर्युगपत्सम्प्रयुध्यतोः |
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः || २४||

सन्ततं विविधैर्बाणैर्बभूव गगनं तदा |
घनैरिवातपापाये विद्युन्मालासमाकुलैः || २५||

गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः |
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः || २६||

शरान्धकारं तौ भीमं चक्रतुः परमं तदा |
गतेऽस्तं तपने चापि महामेघाविवोत्थितौ || २७||

बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः |
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव || २८||

उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ |
उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः || २९||

उभौ हि येन व्रजतस्तेन तेन शरोर्मयः |
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव || ३०||

ततः संसक्तहस्तस्तु रावणो लोकरावणः |
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत || ३१||

रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् |
शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत || ३२||

अथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन् |
शरान्भूयः समादाय रामः क्रोधसमन्वितः || ३३||

मुमोच च महातेजाश्चापमायम्य वीर्यवान् |
ताञ्शरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः || ३४||

ते महामेघसङ्काशे कवचे पतिताः शराः |
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा || ३५||

पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् |
ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् || ३६||

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः |
श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः || ३७||

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः |
आसुरं सुमहाघोरमन्यदस्त्रं समाददे || ३८||

सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाक मुखानपि |
गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा || ३९||

ईहामृगमुहांश्चान्यान्व्यादितास्यान्भयावहान् |
पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् || ४०||

शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् |
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् || ४१||

एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् |
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् || ४२||

आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः |
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः || ४३||

अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि |
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि || ४४||

ग्रहनक्षत्रवर्णांश्च महोल्का मुखसंस्थितान् |
विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् || ४५||

ते रावणशरा घोरा राघवास्त्रसमाहताः |
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः || ४६||

तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा |
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः || ४७||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).