|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

९४
तमापतन्तं सहसा स्वनवन्तं महाध्वजम् |
रथं राक्षसराजस्य नरराजो ददर्श ह || १||

कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा |
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् |
शरधारा विमुञ्चन्तं धारासारमिवान्बुदम् || २||

तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः |
गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् |
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् || ३||

मातले पश्य संरब्धमापतन्तं रथं रिपोः |
यथापसव्यं पतता वेगेन महता पुनः |
समरे हन्तुमात्मानं तथानेन कृता मतिः || ४||

तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः |
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् || ५||

अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् |
रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् || ६||

कामं न त्वं समाधेयः पुरन्दररथोचितः |
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये || ७||

परितुष्टः स रामस्य तेन वाक्येन मातलिः |
प्रचोदयामास रथं सुरसारथिसत्तमः || ८||

अपसव्यं ततः कुर्वन्रावणस्य महारथम् |
चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत् || ९||

ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः |
रथप्रतिमुखं रामं सायकैरवधूनयत् || १०||

धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन् |
जग्राह सुमहावेगमैन्द्रं युधि शरासनम् |
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् || ११||

तदुपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः |
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः || १२||

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः |
समीयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः || १३||

समुत्पेतुरथोत्पाता दारुणा लोमहर्षणाः |
रावणस्य विनाशाय राघवस्य जयाय च || १४||

ववर्ष रुधिरं देवो रावणस्य रथोपरि |
वाता मण्डलिनस्तीव्रा अपसव्यं प्रचक्रमुः || १५||

महद्गृध्रकुलं चास्य भ्रममाणं नभस्तले |
येन येन रथो याति तेन तेन प्रधावति || १६||

सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया |
दृश्यते सम्प्रदीतेव दिवसेऽपि वसुन्धरा || १७||

सनिर्घाता महोल्काश्च सम्प्रचेतुर्महास्वनाः |
विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः || १८||

रावणश्च यतस्तत्र प्रचचाल वसुन्धरा |
रक्षसां च प्रहरतां गृहीता इव बाहवः || १९||

ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः |
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः || २०||

गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः |
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः || २१||

प्रतिकूलं ववौ वायू रणे पांसून्समुत्किरन् |
तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् || २२||

निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः |
दुर्विषह्य स्वना घोरा विना जलधरस्वनम् || २३||

दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः |
पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् || २४||

कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति |
निपेतुः शतशस्तत्र दारुणा दारुणस्वनाः || २५||

जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि सन्ततम् |
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च || २६||

एवं प्रकारा बहवः समुत्पाता भयावहाः |
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे || २७||

रामस्यापि निमित्तानि सौम्यानि च शिवानि च |
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः || २८||

ततो निरीक्ष्यात्मगतानि राघवो
रणे निमित्तानि निमित्तकोविदः |
जगाम हर्षं च परां च निर्वृतिं
चकार युद्धेऽभ्यधिकं च विक्रमम् || २९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).