|| वाल्मीकि रामायण - उत्तरकाण्ड ||
|| सर्ग ||
६५
तथा तु करुणं तस्य द्विजस्य परिदेवितम् |
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् || १||
स दुःखेन सुसन्तप्तो मन्त्रिणः समुपाह्वयत् |
वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान् || २||
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः |
राजानं देवसङ्काशं वर्धस्वेति ततोऽब्रुवन् || ३||
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः |
कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा || ४||
एते द्विजर्षभाः सर्वे आगनेषूपवेशिताः |
मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः || ५||
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् |
रघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति || ६||
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः |
प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् || ७||
शृणु राजन्यथाकाले प्राप्तोऽयं बालसङ्क्षयः |
श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन || ८||
पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः |
अब्राह्मणस्तदा राजन्न तपस्वी कथं चन || ९||
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते अनावृते |
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः || १०||
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् |
क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः || ११||
वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि |
मानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे || १२||
ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत् |
युगयोरुभयोरासीत्समवीर्यसमन्वितम् || १३||
अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः |
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः || १४||
अधर्मः पादमेकं तु पातयत्पृथिवीतले |
अधर्मेण हि संयुक्तास्तेन मन्दाभवन्द्विजाः || १५||
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् |
शुभान्येवाचरँल्लोकाः सत्यधर्मपरायणाः || १६||
त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश् च ये |
तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः || १७||
स धर्मः परमस्तेषां वैश्यशूद्रमथागमत् |
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः || १८||
ततः पादमधर्मस्य द्वितीयमवतारयत् |
ततो द्वापरसङ्ख्या सा युगस्य समजायत || १९||
तस्मिन्द्वापरसङ्ख्ये तु वर्तमाने युगक्षये |
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ || २०||
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् |
न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ || २१||
हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः |
भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे || २२||
अधर्मः परमो राम द्वापरे शूद्रधारितः |
स वै विषयपर्यन्ते तव राजन्महातपाः |
शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् || २३||
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हि |
करोति राजशार्दूल पुरे वा दुर्मतिर्नरः |
क्षिप्रं हि नरकं याति स च राजा न संशयः || २४||
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् |
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर || २५||
एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् |
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् || २६||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).