ऋतवाक्
टिप्पणी : ऋग्वेद १.१७९.२, १.१८५.१०, ३.३१.२१, ३.५५.३, ४.५.११, ४.६.५, ९.११३.२, ९.११३.४, १०.१२.१, १०.३५.८, १०.६१.१०, १०.११०.११, १०.१३८.२, १०.१७७.२, अथर्ववेद ७.१.१, १४.१.३१, १८.१.२९, तैत्तिरीय ब्राह्मण २.८.८.५, जैमिनीय ब्राह्मण ३.१६०, ३.८९, ३.३६० आदि में ऋतवाक् के उल्लेख आए हैं । ऋग्वेद ४.२३.८ के अनुसार ऋत का श्लोक बधिर को भी सुनाई पडता है । सायण ने ऋत का अर्थ स्तोत्र भी किया है । अतः यह कहा जा सकता है कि ऋतवाक् सामञ्जस्य की कोई अवस्था है जिससे ऐतरेय आरण्यक के संकेतों के अनुसार सत्यवाक् रूपी पुष्प और फल उत्पन्न होते हैं । पुराणों में ऋतवाक् मुनि द्वारा रेवती के पातन की कथा का रहस्य अन्वेषणीय है ।
संदर्भ
*ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न् त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि। ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः॥ - ऋ. १.१७९.२
*ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः। पा॒ताम॑व॒द्याद् दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः॥ - ऋ. १.१८५.१०
*प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः॥ - ऋ. ३.३१.२१
*समि॑द्धे अ॒ग्नावृ॒तमिद् व॑देम म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्॥ - ऋ. ३.५५.३
*ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दम्। - ऋ. . ४.५.११
*आ प॑वस्व दिशां पत आर्जी॒कात् सो॑म मीढ्वः। ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सुत इन्द्रा॑येन्दो॒ परि॑ स्रव॥ - ऋ. ९.११३.२
*ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न् त्सत्यकर्मन्। श्र॒द्धां वद॑न् त्सोम राजन् धा॒त्रा सो॑म॒ परि॑ष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव॥ - ऋ. ९.११३.४
*द्यावा॑ ह क्षामा॑ प्रथ॒मे ऋ॒तेना॑ऽभिश्रा॒वे भ॑वतः सत्य॒वाचा॑। दे॒वो यन्मर्ता॑न् य॒जथा॑य कृ॒ण्वन् त्सीद॒द्धोता॑ प्र॒त्यङ् स्वमसुं॒ यन्॥ - ऋ. १०.१२.१, शौ.अ. १८.१.२९
*पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि। - ऋ. १०.३५.८
*म॒क्षू क॒नायाः॑ स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन्। - ऋ. १०.६१.१०
*अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः॥ - ऋ. १०.११०.११
*अव॑र्धयो व॒निनो॑ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा॑तया गि॒रा॥ - ऋ. १०.१३८.२
*प॒त॒ङ्गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः। तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति॥ - ऋ. १०.१७७.२
*धी॒ती वा॒ ये अन॑यन् वा॒चो अग्रं॒ मन॑सा वा॒ येऽव॑दन्नृ॒तानि। तृ॒तीये॑न॒ ब्रह्म॑णा वावृधा॒नास्तु॒रीये॑णामन्वत॒ नाम॑ धे॒नोः॥ - शौ.अ. ७.१.१
*यु॒वं भगं॒ सं भ॑रतं॒ समृ॑द्धमृ॒तं वद॑न्तावृ॒तोद्ये॑षु। ब्रह्म॑णस्पते॒ पति॑म॒स्यै रो॑चय॒ चारु॑ संभ॒लो व॑दतु॒ वाच॑मे॒ताम्॥ - शौ.अ. १४.१.३१
*वाग॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑। वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑। सा नो॑ जुषा॒णोप॑य॒ज्ञमागा॑त्। अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु॥ - तै.ब्रा. २.८.८.५