पथ्या
संदर्भ
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः।
ऋतस्य पथ्या अनु॥ ३.०१२.०७
द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ।
यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे॥ ३.०१४.०३
को अद्धा वेद क इह प्र वोचद्देवाँ अच्छा पथ्या का समेति।
ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु॥ ३.०५४.०५
पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत्।
सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम्॥ ३.०५५.१५
प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः।
प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः॥ ५.०५४.०९
धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः।
सं जग्मिरे पथ्या रायो अस्मिन्समुद्रे न सिन्धवो यादमानाः॥ ६.०१९.०५
अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः।
अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन्॥ ६.०६६.०७
आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः।
आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि॥ ७.००७.०२
इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः।
अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन्॥ ७.०१८.०३
आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ।
शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः॥ ७.०४४.०५
अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान्।
पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन॥ ७.०६७.०३
व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात्।
अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः॥ ७.०७५.०१
व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती।
सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः॥ ७.०७९.०१
प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः।
सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः॥ ९.०८९.०१
हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम्।
देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे॥ ९.०९५.०२
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ।
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः॥ १०.०१४.०२
पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम्।
पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः॥ १०.०५९.०७
स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति।
स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन॥ १०.०६३.१५
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति।
सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा॥ १०.०६३.१६
अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः।
अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता॥ १०.०८०.०६
*पथ्याँँ स्वस्तिमयजन् प्राचीमेव तया दिशं प्राजानन् – तै.सं. 6.1.5.2 (तु. काठ.सं. 23.8)
*पथ्या पूष्णः – मै.सं. 1.9.2, काठ.सं. 9.10, तै.आ. 3.9.1
*पथ्या पूष्णः पत्नी – गो.ब्रा. 2.2.9
*मयैव (पथ्यया हे देवा यूयं) प्राचीं दिशं प्रजानाथ – ऐ.ब्रा. 1.7
*यत्पथ्यां (अदितिम्) यजति तस्मादसौ (आदित्यः) पुर उदेति पश्चाऽस्तमेति पथ्यां ह्येषो ऽनुसंचरति – ऐ.ब्रा. 1.7
*वाग्वै पथ्या स्वस्तिः – कौ.ब्रा. 7.6, मा.श. 4.5.1.4 (तु. मै.सं. 3.7.1, काठ.सं. 23.4, मा.श. 3.2.3.8 ; 15)
*सा (पथ्या स्वस्तिः) उदीचीं दिशं प्राजानात् – कौ.ब्रा. 7.6
*उदीचीमेव दिशं पथ्यया स्वस्त्यया प्राजानंस्तस्मादत्रोत्तराहि वाग्वदति कुरुपञ्चालत्रा – मा.श. 3.2.3.15