मन्दर
टिप्पणी : लिङ्ग पुराण और वायु पुराण में दो अलग-अलग प्रकार से मन्दर की निरुक्ति की गई है। एक में मन्दर को मन्दा नामक आपः का धारण करने वाला कहा गया है जबकि दूसरे में मन्दा नामक आपः का दारण करने वाला। यह दोनों ही निरुक्तियां न्यायोचित कही जा सकती हैं। वैदिक साहित्य में मन्दर का समकक्ष मन्द्र शब्द हो सकता है। ऋग्वेद की कईं ऋचाओं जैसे १.२६.७, १.३६.५, १.१४१.१२, ३.६.७, ३.७.९, ३.१०.७, ३.१४.१, ४.६.२, ४.६.५, ४.९.३, ५.२२.१, ६.१.६, ७.८.२, ७.९.१, ७.९.२, ७.४२.३, ८.७१.११, ८.१०३.६, १०.६.४, १०.१२.२ आदि में अग्नि होता के लिए मन्द्र विशेषण का प्रयोग हुआ है। मन्द और मन्द्र में क्या अन्तर हो सकता है, इसका स्पष्टीकरण तैत्तिरीय ब्राह्मण ३.१०.८.१ के आधार पर किया जा सकता है। हमारे जागे हुए प्राण अन्धे हैं। अपान क्रन्दन करने वाला है, लेकिन बधिर है। चक्षु बिना हाथ वाला है। चक्षुओं को हाथ तब मिल सकते हैं जब चक्षुओं में सूर्य का प्रवेश हो। मन बिना पाद वाला है। मन को पाद तब मिल सकते हैं जब मन में चन्द्रमा का प्रवेश हो। श्रोत्र विप्रचित्ति हैं? श्रोत्र प्रचेता तब बन सकते हैं जब इनमें दिशाओं का प्रवेश हो। इसी प्रकार रेतः में आपः का, शरीर में पृथिवी का, लोमों में ओषधि-वनस्पतियों का, बल में इन्द्र का, मूर्द्धा में पर्जन्य का, मन्यु में ईशान का प्रवेश अपेक्षित है। तैत्तिरीय ब्राह्मण ३.५.९.१ इत्यादि में स्विष्टकृत अग्नि को मन्द्र होता कहा गया है। स्विष्टकृत् का अर्थ होता है – वह अग्नि जिसने रौद्र रूप त्याग कर, अनिष्ट करने वाला रूप त्याग कर इष्ट करने वाला रूप धारण कर लिया है(दर्शपूर्ण मास आदि इष्टियों में याग के अन्त में अग्नि स्विष्टकृत् के लिए आहुति दी जाती है)। पुराण कथा के अनुसार मन्दर पर्वत पर शिव तब विराजमान हुए जब मन्दर पर्वत ने शिव को अपनी अर्चना द्वारा प्रसन्न किया। वैदिक भाषा में यह अनिष्ट का स्विष्टकृत् में रूपान्तरण कहा जा सकता है।
प्रथम लेखन : २७.७.२०१२ ई.(श्रावण शुक्ल नवमी, विक्रम संवत् २०६९)
पुराणेषु सार्वत्रिक आख्यानमस्ति यत् समुद्रमथने मन्दरपर्वतः मन्थानं भवति एवं वासुकि नागः नेत्रं(रज्जु) भवति। मन्दरस्य आधारं कूर्मपृष्ठं भवति। शंकरस्य वासस्थानं अपि मन्दरपर्वते अथवा मन्दरोपरि कैलास पर्वते भवति। पुराणधारानुसारेण मन्दरस्य सम्बन्धं मदपूर्ण स्थित्या सह अस्ति। महाभारते मद्रदेशः प्रसिद्धमस्ति यस्य राजा शल्यः अस्ति। कर्णः मद्रदेशे प्रचलितस्य स्वच्छन्दाचारस्य निन्दां करोति। अयं मद्रोपि मदस्य, मन्दरस्य स्थितिरस्ति। अस्याः मदपूर्ण, आह्लादपूर्ण स्थित्याः नियन्त्रणस्य, दमनस्य आवश्यकता भवति। अस्य दमनस्य एकं प्रकारं कथासरित्सागरे १५.१ दर्शितमस्ति यत्र कामदेवस्य अवतारः चक्रवर्ती राजा नरवाहनदत्तः मन्दरस्य गुह्यप्रदेशानां विजयस्य हेतु वामदेव ऋषितः गजरत्न, खड्गरत्न आदि विभिन्न रत्नानां सिद्धिं करोति। अयं शिवस्य मार्गं प्रतीयते। द्वितीयं मार्गं कृष्णस्य मार्गमस्ति। अयं कार्यं कदम्ब वृक्षेण भवति। पुराणेषु सार्वत्रिक कथनमस्ति यत् मेरोः परितः चतुर्दिक्षु मन्दरादि चत्वारि पर्वताः सन्ति एवं तेषु पर्वतेषु चत्वार्यः वृक्षाणां स्थितिरस्ति। मन्दरोपरि कदम्ब वृक्षस्य स्थितिरस्ति। कदम्बस्य किं अर्थं भवति, अयं अन्वेषणीयः। उणादिकोष २.२.२२४ अनुसारेण कदि(आह्लादने, रोदने) धात्वोपरि अम्बच् प्रत्ययस्य प्रयोगेण कदम्ब शब्दस्य सिद्धिः भवति। काशकृत्स्न धातुकोशानुसारेण कडबि(मर्दने, मिश्रणे) धातुतः अपि कदम्ब शब्दस्य सिद्धिर्भवति। यत्र कदम्बशब्दस्य प्रयोगं समूहार्थकं भवति, तदायं धातुः विचारणीयमस्ति। समूहः साधारण समूहं न भवति, अपितु एकीकृत रूपं भवति। यदा शतभिषक् नक्षत्रस्य प्रतिनिधि वृक्षरूपेण कदम्बस्य उल्लेखं भवति, तदापि अयमेव अर्थं विचारणीयः।
कदम्बस्य सम्बन्धं मदस्य नियन्त्रणं, दमेन सह अपि अस्ति। शब्दकल्पद्रुमानुसारेण – कं प्रजापत्यधिष्ठातृकं औपस्थेन्द्रियं दमयति इति व्युत्पत्त्या जितेन्द्रियतत्त्वज्ञानी। गर्ग संहितायां एवं भागवत पुराणे कृष्णः कदम्बवृक्षोपरि तिष्ठति एवं नग्नस्नानरतानां गोपीनां वस्त्राहरणं करोति। वस्त्राणां प्रत्यर्पणं तदैव भवति यदा ताः कदम्बमूले आगत्य वस्त्राणां याञ्चा कुर्वन्ति। अस्मिन् संदर्भे कृष्णस्य कदम्ब वृक्षोपरि आगमनं संकेतमस्ति यत् आह्लादनस्य स्थित्याः नियन्त्रणं तदैव सम्भवं अस्ति यदा अस्मिन् कृष्णस्य प्रवेशं भवति। अयं उल्लेखनीयं यत् मन्दरस्य स्थित्याः नियन्त्रणं शिवस्य प्रवेशनेन भवति एवं कदम्बस्य नियन्त्रणं कृष्णस्य प्रवेशनेन। गर्ग संहितायां यत्र गोपीचीरहरणाख्यानं अस्ति, तत्र गोपीनां प्रकृत्याः उल्लेखमपि अस्ति। गोपीनां प्रकृतिः मैथिली प्रकारस्य अस्ति। मैथिल शब्दस्य मूलं मेथी, आधारस्तम्भः अस्ति। यदा द्रवस्य मन्थनं कुर्वन्ति, तदा मन्थानस्य स्थिरता हेतु तस्य सम्बन्धनं स्तम्भेन सह कुर्वन्ति। समुद्रमन्थनाख्याने अयं आधारस्तम्भं कूर्मपृष्ठं भवति। मिथिला राज्यस्य स्वामी जनकः अस्ति। तस्य विशेषता अस्ति यत् सः भोगेभिः निर्लिप्त एव भूत्वा राज्यस्य पालनं करोति। अयं प्रतीयते यत् कदम्बोपरि कृष्णस्य वासेन कदम्ब वृक्षात् उत्पन्न मदकारक वारुणी अपि निष्प्रभावी भविष्यति। मन्दरस्य स्थित्यां दोषाणां शोधनस्य आवश्यकता भवति। किन्तु कदम्बस्य स्थित्यां शोधनस्य कोपि आवश्यकता नास्ति। निर्लिप्त भावेन दोषानां सेवनं।
मन्दर शब्दस्य संदर्भे मन्दिर शब्दमपि अन्वेषणीयमस्ति। मन्दिर संज्ञक प्रासादस्य द्विभागाः भवन्ति – बहिष्परिधिः एवं अन्तःपरिधि। अथवा बहिर्वेदी एवं अन्तर्वेदी। बहिर्वेद्यां मन्दिरस्य बाह्य संरचनायाः दर्शनं भवति। शूद्र प्रकारस्य मानवस्य अधिकारं केवलं बाह्य संरचनायाः दर्शनेन एव सीमितं भवति। ब्राह्मण प्रकारस्य वृत्तिधारकस्य पुरुषस्य अधिकारं मन्दिरस्य अन्तःपुरे स्थितस्य देवस्य दर्शने अपि भवति। नियन्ता देव एव भवति।
लेखनम् - पौष शुक्ल तृतीया, विक्रम संवत् २०७३( १-१-२०१७ई.)
संदर्भ
*यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति, तस्मान्मन्द्रया वाचा प्रातःसवने शंसेद्, अथ यदाऽभ्येत्यथ बलीयस्तपति, तस्माद् बलीयस्या वाचा मध्यन्दिने शंसेद् - -- ऐ.ब्रा. ३.४४
*असं॑मृष्टो(असंसृष्टो?) जायसे मातृ॒वोः शुचिः॑। म॒न्द्रः क॒विरुद॑तिष्ठो॒ विव॑स्वतः। घृ॒तेन॑ त्वा वर्धयन्नग्न आहुत। धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः। - तै.ब्रा. २.४.३.३
हे अग्नि, तुम अकृतसंमार्जन ही मातृ रूपी अरणियों से शुचि रूप में उत्पन्न होते हो( स्रुक् आदि संमार्जन से शुद्ध होते हैं)।तुम परिचरण करते हुए विवस्वान् रूपी यजमान से मन्द्र कवि के रूप में उदतिष्ठत/स्थित होते हो। - सायण भाष्य
*दे॒वीं वाच॑मजनयन्त दे॒वाः। तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति। सा नो म॒न्द्रेष॒मूर्जं॒ दुहा॑ना। धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑। - तै.ब्रा. २.४.६.१०
*यद्वाग्वद॑न्त्यविचेत॒नानि॑। राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा। चत॑स्र॒ उर्जं॑ दुदुहे॒ पयाँ॑ँसि। क्व॑ स्विदस्याः पर॒मं ज॑गाम। - तै.ब्रा. २.४.६.११
*वपाया याज्या – जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑। म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः। अ॑वर्ध॒न्निन्द्रं॑ म॒रु॑त॑श्चि॒दत्र॑। मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा। - तै.ब्रा. २.८.३.४
सहसे तुराय – वैरिबल हिंसार्थम्। दधनद्धनिष्ठा – अतिशयेन धनवती माता अदितिरूपा धारितवती। - सायणभाष्य
*दर्शपूर्णमासेष्टिः -- म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह। पुष्टि॑मे॒व यज॑माने दधाति। - तै.ब्रा. ३.२.३.१०
*दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत्। सु॒द्रवि॑णा म॒न्द्रः क॒विः। स॒त्यम॑न्माऽऽय॒जी होता॑। होतु॑र्होतु॒राय॑जीयान्। अग्ने॒ऽयान्दे॒वानया॑ट्। याँँ अपि॑प्रेः। ये ते हो॒त्रे अम॑त्सत। ताँँ सस॒नुषीँ॒ँ होत्राँ॑ देवं॒गमाम्। दि॒वि दे॒वेषु॑ य॒ज्ञमे॑रये॒मम्। स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑। व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑। तै.ब्रा. ३.५.९.१, ३.६.१३.१, ३.६.१४.३
ससनुषीं – हवींषि दत्तवतीं । देवंगमां – देवानेव गच्छन्तीं
*होता॑ यक्ष॒द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा। स्वि॑ष्टम॒द्यान्यः क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धत्तां वी॒तामाज्य॑स्य॒ होत॒र्यज॑। - तै.ब्रा. ३.६.२.२
स्वभिगूर्तम् – शोभनाभिप्रेतफलसम्बन्धं। सतवसा – बलसहितया – सायण भाष्य
*सप॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व॑ग्निः। होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान्। तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वाँँस॑म्। उप॑ज्ञु॒ बाधो॒ नम॑सा सदेम। - तै.ब्रा. ३.६.१०.३
*म॒न्द्राऽभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाक्। असा॒वेहि॑। अ॒न्धो जागृ॑विः प्राण। असा॒वेहि॑। ब॒धि॒र आ॑क्रन्दयितरपान। असा॒वेहि॑। अ॒ह॒स्तोस्त्वा॒ चक्षुः॑। असा॒वेहि॑। अ॒पा॒दाशो॒ मनः॑। असा॒वेहि॑। कवे॒ विप्र॑चित्ते॒ श्रोत्र॑। असा॒वेहि॑। - - - - अ॒ग्निर्मे॑ वा॒चि श्रि॒तः - - -वा॒युर्मे॑ प्रा॒णे श्रि॒तः। - - -सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः। - - - -च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः। - - - -दिशो॑ मे॒ श्रोत्रे॑ श्रि॒ताः। - - - आपो॑ मे॒ रेत॑सि श्रि॒ताः। - - - -पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता। - - - ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः। - - - -इन्द्रो॑ मे॒ बले॑ श्रितः। - - -प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः। - - - ईशा॑नो मे म॒न्यौ श्रि॒तः। - - - -आ॒त्मा म आ॒त्मनि॑ श्रि॒तः। - - तै.ब्रा. ३.१०.८.१
असावेहि – तादृशो भूत्वा समागच्छ – सायण भाष्य
*आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिः। या॒हि म॒यूर॑रोमभिः। या त्वा केचिन्न्येमुरि॑न्न पा॒शिनः। द॒ध॒न्वेव॒ ता इ॑हि। - तै.आ. १.१२.२
न्येमुर्नियमनं विलम्बरूपं न कुर्वन्तु। दधन्वेव – सर्वाभिमतानां दातेव। ता इहि – अस्मद्युक्त भुव गच्छ – सायण भाष्य
हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ॥ १५५॥ कदम्बगोलकाकारं तुर्यातीतं परात्परम् । अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् ॥ १५६॥ - त्रिशिखब्राह्मणोपनिषद