यज्ञोपवीत
संदर्भ
*पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् – रघुवंश 11.64, कु. 6.6, शि.1.7, मनु. 2.44, 2.64, 4.36
*प्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छाज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम्। - भावनोपनिषद 32
*सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ ७७॥ सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥ ७८॥ येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शनः ॥ ७९॥ बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः । धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥ ८०॥ सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ८१॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ ८२॥ अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ८३॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥ ८४॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुरिति ॥ ८५॥ -नारदपरिव्राजकोपनिषद
*सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परम्ब्रह्म तत्सूत्रमिति धारयेत् ॥ १॥ पुनर्जन्मनिवृत्यर्थं मोक्षस्याहर्निशं स्मरेत् । सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् ॥ २॥ तत्सूत्रं विदितं येन स मुमुक्षुः स भिक्षुकः । स वेदवित्सदाचारः स विप्रः पङ्क्तिपावनः ॥ ३॥ येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगविद्ब्राह्मणो यतिः ॥ ४॥ बहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः । ब्रह्मभावमिदं सूत्रं धारयेद्यः स मुक्तिभाक् ॥ ५॥ नाशुचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ६॥ ये तु सूत्रविदो लोके ते च यज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमीरितम् ॥ ७॥ अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ८॥ कर्मण्यधिकृतः ये तु वैदिके लौकिकेऽपि वा । ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः । व्रजन्ते निरयं ते तु पुनर्जन्मनि जन्मनि ॥ ९॥ वामांसदक्षकण्ठ्यन्तं ब्रह्मसूत्रं तु सव्यतः । अन्तर्बहिरिवात्यर्थं तत्त्वतन्तुसमन्वितम् ॥ १०॥ नाभ्यादिब्रह्मरन्ध्रान्तप्रमाणं धारयेत्सुधीः । तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तन्तुनिर्मितम् ॥ ११॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य नेतरेषां तु किञ्चन ॥ १२॥ इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वान्यज्ञोपवीती सन्धारयेद्यः स मुक्तिभाक् ॥ १३॥ बहिरन्तश्चोपवीती विप्रः संन्यस्तुमर्हति । एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति ॥ १४॥ तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः । बहिःसूत्रं परित्यज्य स्वान्तःसूत्रं तु धारयेत् ॥ १५॥ बहिःप्रपञ्चशिखोपवीतित्वमनादृत्य प्रणवहंसशिखोपवीतित्वमवलम्ब्य मोक्षसाधनं कुर्यादित्याह भगवाञ्छौनक इत्युपनिषत् ॥ - परमब्रह्मोपनिषद
*अन्तर्बहिश्चरति हंसः । अन्तर्गतोऽनकाशान्तर्गतसुपर्णस्वरूपो हंसः । षण्णवतितत्त्वतन्तुवद्व्यक्तं चित्सूत्रत्रयचिन्मयलक्षणं नवतत्त्वत्रिरावृतं ब्रह्मविष्णुमहेश्वरात्मकमग्नित्रयकलोपेतं चिद्ग्रन्थिबन्धनम् । अद्वैतग्रन्थिः यज्ञसाधारणाङ्गं बहिरन्तर्ज्वलनं यज्ञाङ्गलक्षणब्रह्मस्वरूपो हंसः । उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः । ब्रह्माङ्गलक्षणयुक्तो यज्ञसूत्रम् । तद्ब्रह्मसूत्रम् । यज्ञसूत्रसम्बन्धी ब्रह्मयज्ञः । तत्स्वरूपोऽङ्गानि मात्राणि मनो यज्ञस्य हंसो यज्ञसूत्रम् । प्रणवं ब्रह्मसूत्रं ब्रह्मयज्ञमयम् । प्रणवान्तर्वर्ती हंसो ब्रह्मसूत्रम् । तदेव ब्रह्मयज्ञमयं मोक्षक्रमम् । ब्रह्मसन्ध्याक्रिया मनोयागः । सन्ध्याक्रिया मनोयागस्य लक्षणम् । यज्ञसूत्रप्रणवब्रह्मयज्ञक्रियायुक्तो ब्राह्मणः । ब्रह्मचर्येण हरन्ति देवाः । हंससूत्रचर्या यज्ञाः । हंसप्रणवयोरभेदः । हंसस्य प्रार्थनास्त्रिकालाः । त्रिकालस्त्रिवर्णाः । त्रेताग्न्यनुसन्धानो यागः । त्रेताग्न्यात्माकृतिवर्णोङ्कारहंसानुसन्धानोऽन्तर्यागः । चित्स्वरूपवत्तन्मयं तुरीयस्वरूपम् । अन्तरादित्ये ज्योतिःस्वरूपो हंसः । यज्ञाङ्गं ब्रह्मसम्पत्तिः । ब्रह्मप्रवृत्तौ तत्प्रणवहंससूत्रेणैव ध्यानमाचरन्ति । प्रोवाच पुनः स्वयम्भुवं प्रतिजानीते ब्रह्मपुत्रो ऋषिर्वालखिल्यः । हंससूत्राणि कतिसङ्ख्यानि कियद्वा प्रमाणम् । हृद्यादित्यमरीचीनां पदं षण्णवतिः । चित्सूत्रघ्राणयोः स्वर्निर्गता प्रणवधारा षडङ्गुलदशाशीतिः । वामबाहुर्दक्षिणकठ्योरन्तश्चरति हंसः परमात्मा ब्रह्मगुह्यप्रकारो नान्यत्र विदितः । जानन्ति तेऽमृतफलकाः । सर्वकालं हंसं प्रकाशकम् । प्रणवहंसान्तर्ध्यानप्रकृतिं विना न मुक्तिः । नवसूत्रान्परिचर्चितान् ।- पाशुपतब्रह्मोपनिषद
*वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् । - बृहदा. 3.7.1
*स होवाच वायुर्वै गौतम तत्सूत्रम् । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति । तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति । वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य । अन्तर्यामिणं ब्रूहीति ॥बृह. ३,७.२ ॥
*हृदिस्था देवथाः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ॥ हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥ तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥ बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ॥ धारणात्तस्य सूत्रस्य नोच्छिष्ठो नाशुचिर्भवेत् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ते चै सूत्रविदो लोके ते च यज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥ ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् । अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥ स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥ ३॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तैः सन्धार्यमिद सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥ इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् । स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । - ब्रह्मोपनिषद
*उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५-४९॥ प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा । तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५-५०॥ सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा । प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५-५१॥ - शिवोपनिषद
*सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते । - योगशिखोपनिषद
*ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । त्रिवर्त्मानं तेजसोहं सर्वतःपश्यन्न पश्यति ॥ १॥ - मन्त्रिकोपनिषद
*खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद – आरुणिकोप.
*निवीतम्
मनुष्याणाम्
प्राचीनावीतम्
पितृणाम्
उपवीतं
देवानाम्
उप
व्ययते
देवलक्ष्मम्
एव
तत्
कुरुते।।
- तै.सं.
2.5.11.1
*आप्टे
के
संस्कृत-हिन्दी
कोश
में
वीतिः
की
परिभाषा
निम्नलिखित
रूप
से
की
गई
है
– वी+क्तिन्
: घोडा।
वीतिः
(स्त्रीलिङ्ग)
का
अर्थ
गति,
चाल,
पैदावार,
उपज,
सुखोपभोग,
भोजन
करना,
प्रकाश,
कान्ति
दिए
गए
हैं।
काशकृत्स्न
धातुपाठ
में
वी
धातु
प्रजनन,
कान्ति,
आसन
व
खादन
के
अर्थ
में
प्रयुक्त
हुई
है।
इस
धातु
की
टीका
में
वीतिः
को
खाद्यम्
कहा
गया
है।