वत्स
भगवद्गीतायाः चतुर्दशः अध्यायः सत्त्व, रज, तमोगुणेभ्यः सम्बद्धः अस्ति। पद्मपुराणे ६.१८८ चतुर्दशाध्यायस्य यः माहात्म्यः अस्ति, तत्र वत्सऋषिः चतुर्दशाध्यायस्य जापकः अस्ति। सः शशकस्य एवं शुन्याः उद्धारं कर्तुं शक्नोति। शशके एवं शुन्यां किं न्यूनत्वमस्ति यस्य वत्सः पूर्तिं कर्तुं शक्यते। अनुमानमस्ति यत् शशकशब्दः शंसनशब्दस्य रूपान्तरः अस्ति। सोमयागेषु प्रथमतः स्तोत्रस्य गानं भवति येन देवाः प्रीणन्ति। अनन्तरं शंसनं भवति येन स्तोत्रस्य प्रभावं मर्त्यस्तरे अपि लक्ष्यते। अयं प्रतीयते यत् शंसनं एवं शुनं रसरहितौ स्थित्यौ स्तः। रसरहिताअवस्थायाः क्रमणं कृत्वा रसयुक्तावस्थायाः प्रापणं अपेक्षितमस्ति। काठ.संहितायाः ३४.१ कथनमस्ति यत् दशरात्रसंज्ञके सोमयागे प्रथमं छन्दोमसंज्ञकं यः सप्तमं अहः अस्ति, तत् धेनुस्वरूपः अस्ति एवं द्वितीयं छन्दोमसंज्ञकं यः अष्टममहः अस्ति, तत् वत्सस्वरूपः अस्ति। छन्दोमः किं भवति, अस्मिन् विषये अनुमानमस्ति यत् छन्दोमः रसयुक्ता अवस्था अस्ति।
वत्सभवितुं के गुणाः अपेक्षितानि सन्ति। बृहज्जाबालोपनिषत् ३.३ अनुसारेण प्रकृतिरूपा धेनुः अस्ति यस्यां गुणत्रयं निहिताः सन्ति। स्मृतयः अस्याः वत्सः अस्ति। एका श्रुतिः अस्ति, मर्त्यस्तरे स्मृतिः। या स्मृतिः अस्ति, तदपि गुणत्रयेभ्यः ग्रस्ता अस्ति। धेनुः स्वपयसा वत्सस्य पोषणं कर्तुं शक्यते। धेनोः, वत्सस्य एवं पयसः स्वरूपं किं अस्ति, अस्मिन् संदर्भे ऋग्वेदस्य ऋचासु विभिन्नाः कथनानि सन्ति।
काठ.सं. ३४.१ कथनमस्ति यत् दशरात्रसंज्ञके सोमयागे प्रथमं छन्दोमसंज्ञकं यः सप्तमं अहः अस्ति, तत् धेनुस्वरूपः अस्ति एवं द्वितीयं छन्दोमसंज्ञकः यः अष्टममहः अस्ति, तत् वत्सस्वरूपः अस्ति। सप्तमस्याह्नः किं वैशिष्ट्यं भवति, अस्य अनुमानं भागवतपुराणस्य सप्तमस्कन्धानुसारेण कर्तुं शक्यन्ते। सप्तमे स्कन्धे हिरण्यकशिपु, हिरण्याक्ष एवं प्रह्लादस्य आख्यानाः सन्ति। अनुमानमस्ति यत् प्रह्लादस्य, आह्लादस्य जननं सप्तमं अहः अस्ति। अष्टमे स्कन्धे समुद्रमन्थनं, वामनस्य विक्रमणं, बलेः निग्रहणं अस्ति।
तै.ब्रा. २.१.५.१ कथनमस्ति यत् वत्सः अग्निहोत्रस्य प्रायणम्, प्रयाणम् अस्ति, अग्निहोत्रं यज्ञानां प्रायणं अस्ति। जैब्रा १.१९, मा.श. ११.३.१.१ वाक् अग्निहोत्री गौः अस्ति एवं मन तस्याः वत्सः अस्ति। जै.उ.ब्रा. २.५.१.१ वाक् अग्निहोत्री अस्ति एवं अग्निः तस्याः वत्सः अस्ति। आप.श्रौ.सू. ६.४. ८ अनुसारेण वेदिदेशः अग्निहोत्री गौः अस्ति यस्य अग्निः वत्सः अस्ति। अन्यत्र (तै.आ. ५.७.२, तै.सं. २.१.४.७) वत्सः वायुदेवत्यः अस्ति एवं गौः द्यावापृथिवीरूपा अस्ति। जैब्रा १.६० अनुसारेण द्यौः अग्निहोत्री अस्ति, आदित्यः तस्याः वत्सः अस्ति। एवंप्रकारेण, वत्सस्य संज्ञा अग्निहोत्रीगौः संज्ञानुसारेण परिवर्तयति। ऋग्वेदमन्त्रेषु प्रायः इन्द्रः वत्सः अस्ति (ऋ. ३.०४१.०५) एवं तस्य पयः सोमः अस्ति। स्कन्दपुराणे ३.२.६.१२ एका गौः अस्ति यस्याः अङ्गानि यज्ञस्य विभिन्नेभिः कृत्येभिः निर्मिताः सन्ति। तस्याः वत्सः स्वरः अस्ति, इति कथनमस्ति। अयं संकेतमस्ति यत् यावत् व्य़ञ्जनानां स्थितिः अस्ति, स्थौल्यं अस्ति, तावत् सा गौः अस्ति। यदा व्यञ्जनेभ्यः स्वराणां आविर्भावः भविष्यति, तदा वत्सस्य जन्मः भविष्यति। यदा आप.श्रौ.सू. ६.४. ८ अग्निसंज्ञकस्य वत्सस्य उल्लेखः भवति, तत्र अयं अग्निः पृथिव्याः, वेद्याः स्वरः एव अस्ति। यागकृत्येषु यज्ञकार्यहेतु पयःग्रहणार्थं वृक्षशाखया वत्सस्य अपाकरणं, पृथक्करणं कुर्वन्ति। लक्ष्मीनारायणसंहितायां २.२४७.७९ कथनमस्ति यत् हृदयस्य रसपरिपूर्णता एव वत्सस्य अपाकरणमस्ति-- वत्सापाकरणं तद्वै हृदयं रसपक्वता। काठ.सं. ३४.१ अनुसारेण गोः आविर्भावः द्वादशाहसंज्ञकस्य यज्ञस्य सप्तमे अहनि भवति एवं वत्सस्य आविर्भावं अष्टमे अहनि। एतयोः अह्नयोः संज्ञा छन्दोमौ अस्ति। अयं रसस्य स्थितिः अस्ति।
संदर्भ
नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार।
उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः॥ १.०३२.०९
वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति।
अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः।
श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः॥ १.०७२.०२
द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते।
हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः॥ १.०९५.०१
निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः।
सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन॥ १.११०.०८
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके।
अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने॥ १.१४६.०३
पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि।
वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ॥ १.१६४.०५
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात्।
सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः॥ १.१६४.१७
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात्।
दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय॥ १.१६४.२७
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः॥ १.१६४.२८
अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः।
दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः॥ २.००२.०२
पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी।
सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि॥ २.०१६.०८
अपो सु म्यक्ष वरुण भियसं मत्सम्राळृतावोऽनु मा गृभाय।
दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे॥ २.०२८.०६
अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म।
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती॥ ३.०३३.०३
मतयः सोमपामुरुं रिहन्ति शवसस्पतिम्।
इन्द्रं वत्सं न मातरः॥ ३.०४१.०५
समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु।
अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम्॥ ३.०५५.०४
शयुः परस्तादध नु द्विमाता ऽबन्धनश्चरति वत्स एकः।
मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम्॥ ३.०५५.०६
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः।
ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम्॥ ३.०५५.१३
गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम्।
अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम्॥ ४.०१८.१०
यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन्।
यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः॥ ४.०३३.०४
शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः।
वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन्॥ ६.०२४.०४
इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः।
इन्द्र वत्सं न मातरः॥ ६.०४५.२५
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः।
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः।
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः॥ ७.०५६.१६
अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः।
अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम्॥ ७.०८६.०५
तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः।
स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति॥ ७.१०१.०१
आ नूनमश्विना युवं वत्सस्य गन्तमवसे।
प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः॥ ८.००९.०१
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
अग्ने त्वांकामया गिरा ॥८.११.७॥
अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत।
वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव॥ ८.०६९.११
भूरिभिः समह ऋषिभिर्बर्हिष्मद्भिः स्तविष्यसे।
यदित्थमेकमेकमिच्छर वत्सान्पराददः॥ ८.०७०.१४
कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत्।
चरन्वत्सो रुशन्निह निदातारं न विन्दते ।
ते जानत स्वमोक्यं सं वत्सासो न मातृभिः।
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे॥ ८.०८८.०१
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः।
अभि त्वा समनूषतेन्द्र वत्सं न मातरः॥ ८.०९५.०१
अभि विप्रा अनूषत गावो वत्सं न मातरः।
इन्द्रं सोमस्य पीतये॥ ९.०१२.०२
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः।
तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव।
य इन्द्रस्य हृदंसनिः॥ ९.०६१.१४
प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक्।
धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः॥ ९.०८६.०२
अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम्।
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः॥ ९.१००.०१
त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः।
वत्सं जातं न धेनवः पवमान विधर्मणि॥ ९.१००.०७
समी वत्सं न मातृभिः सृजता गयसाधनम्।
देवाव्यं मदमभि द्विशवसम्॥ ९.१०४.०२
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते।
देवावीर्मदो मतिभिः परिष्कृतः॥ ९.१०५.०२
बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः।
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः॥ १०.०२७.१४
शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत्।
आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम्॥ १०.१०५.११
उप तेऽधां सहमानामभि त्वाधां सहीयसा।
मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु॥ १०.१४५.०६
गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना।
पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः॥ १०.१४९.०४
वाग् वा अग्निहोत्री। तस्यै मन एव वत्सः। मनसा वै वाचं पृक्तां दुह्रे। वत्सेन वै मातरं पृक्तां दुह्रे। तद् वा इदं मनः पूर्वम्। यत् पश्चा वाग् अन्वेति तस्माद् वत्सं पूर्वं यन्तं पश्चा मातान्वेति। हृदयम् एव मेथ्य् उपदोहनी प्राणो रज्जुः। प्राणेनैव वाक् च मनश्च चाभिहिते। रज्ज्वा वै वत्सं च मातरं चाभिददाति॥ - जैब्रा १.१९
तद् होवाचारुणिर् द्यौर् वा अग्निहोत्री तस्या आदित्य एव वत्स इयम् एवाग्निहोत्रस्थाली। न ह वा एवंविदो ऽग्निहोत्रीवत्सो नश्यति। - जैब्रा १.६०
*वत्सो वा अग्निहोत्रस्य प्रायणम् । अग्निहोत्रं यज्ञानाम् ।– तै.ब्रा. २.१.५.१
*देवा वै ब्रह्मणो वत्सेन वाचमदुह्रन्नग्निर्ह वै ब्रह्मणो वत्सः । सा या सा वाग्ब्रह्मैव तत् अथ योऽग्निर्मृत्युस्सः । तामेतां वाचं यथा धेनुं वत्सेनोपसृज्य प्रत्तां दुहीतैवमेव देवा वाचं सर्वान्कामानदुह्रन् – जै.उ.ब्रा. २.५.१.१
*कृष्णायाः श्वेतवत्सायाः पयसा जुहोति , अहर्वै वत्सो रात्रिर्माता – मै.सं. ३.३.९
*द्यावापृथिव्यां धेनुम् आ लभेत ज्योगपरुद्धः ।…..वायव्यं वत्सम् आलभेत, वायुर्वा अनयोर्(द्यावापृथिव्योः) वत्सः। - तै.सं. २.१.४.७
*इयं वाव विराट् तस्या एतदूधो यदधिषवणे स्तना उपरवा वत्सा ग्रावाणस्त्वगधिषवणं चर्मर्त्विजो दुहन्ति य एवं विराजं यज्ञमुखे दोह्यां वेद – काठ.सं. २५.९
*द्यावापृथिव्यां धेनुँ सप्तमेऽहन्नालभेरन् प्रथमे छन्दोमे द्यावापृथिवी वै यज्ञस्य प्रतिष्ठा ..... वायव्यं वत्समष्टमेऽहन्नालभेरन् मध्यमे छन्दोमे प्राणो वै वायुः प्राण एव तद्यज्ञस्यान्ततः प्रतितिष्ठन्ति ॥– काठ.सं. ३४.१
*इडोपाह्वानम् -- उपहूतोपहूता दैव्या अध्वर्यव उपहूता मनुष्या इति तद्दैवांश्चैवाध्वर्यूनुपह्वयते ये च मानुषा वत्सा वै दैव्या अध्वर्यवोऽथ य इतरे ते मानुषाः– मा.श. १.८.१.२७
*एते वै यज्ञमवन्ति ये ब्राह्मणाः शुश्रुवांसोऽनूचाना एते ह्येनं तन्वत एत एनं जनयन्ति तदु तेभ्यो निह्नुते वत्सा उ वै यज्ञपतिं वर्धयन्ति यस्य ह्येते भूयिष्ठा भवन्ति स हि यज्ञपतिर्वर्धते। - मा.श. १.८.१.२८
*वाग् ह वा एतस्याग्निहोत्रस्याग्निहोत्री। मन एव वत्सः – मा.श. ११.३.१.१
*अथ होवाचारुणिः। द्यौर्वा एतस्याग्निहोत्रस्याग्निहोत्री। अयमेव वत्सः। योऽयं पवते। इयमेवाग्निहोत्रस्थाली। न वा एवं विदुषोऽग्निहोत्री नश्यति। क्व ह्यसौ नश्येत्। नैवं विदुषोऽग्निहोत्री। वत्सो नश्यति। क्व ह्येष नश्येत्। नैवं विदुषोऽग्निहोत्रस्थाली भिद्यते।– मा.श. १२.४.१.११
*देवस्य त्वा सवितुः प्रसव इति रशनामा दत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै ..... इड एह्यदित एहि सरस्वत्येहीत्याह । एतानि वा अस्यै देवनामानि ।.....वायुरस्यैड इत्याह । वायुदेवत्यो वै वत्सः – तै.आ. ५.७.२
*अग्निहोत्रम् -- अथ वेदिदेशमभिमृशतीयमसि तस्यास्ते ऽग्निर्वत्सः सा मे स्वर्गं च लोकममृतं च धुक्ष्वेति। पूषासीति दक्षिणतो वत्समुपसृज्य प्राचीमावृत्य दोग्ध्युदीचीं प्राचीमुदीचीं वा - आप.श्रौ.सू. ६.४. ८
*रेवती रमध्वमित्यन्तराग्नी तिष्ठञ्जपति ३
संहितासि विश्वरूपीरिति वत्समभिमृशति ४
संहितासि विश्वरूपेति वत्साम् ५
भुवनमसि सहस्रपोषं पुषेति वा वत्सम् ६– आप.श्रौ.सू. ६.१७.४
इयं वा अग्निहोत्री ।इयं वा एतस्य निषीदति । यस्याग्निहोत्री निषीदति । तामुत्थापयेत् । उदस्थाद्देव्यदितिरिति । इयं वै देव्यदितिः । इमामेवास्मा उत्थापयति । आयुर्यज्ञपतावधादित्याह । आयुरेवास्मिन्दधाति । - तैब्रा १.४.३.१
गुणत्रयमिदं धेनुर्विद्याभूद्गोमयं शुभम् ।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥
वत्सस्तु स्मृतयश्चास्य तत्संभूतं तु गोमयम् ।
आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् ॥ बृहज्जाबालोपनिषत् ३.३॥
षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥ महाभारत आदि ३.६०
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् । ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् । धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः ॥
अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् । मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥