वषट्
वषट्शब्दस्य संदर्भे प्रथमदृष्ट्या अयं प्रतीयते – यदा सूर्यः प्रकृत्यां रेतःसेचनं करोति, तदा या प्रकृतिः नैसर्गिकरूपेण वक्षणशीला अस्ति, सा वशा भवति, वक्षण(आङ्गलभाषायां वैक्सिंग – वेनिंग – डा. फतहसिंह) गुणस्य त्यागं करोति। अयं प्रकृत्याः वशीकरणं अस्ति। ब्राह्मणेषु कथनं अस्ति – असौ वाव वौ, ऋतवो षट्। यदा सूर्यः ऋतुषु रेतःसिञ्चनं करोति, तदा प्रजाः प्रजायन्ते। अतः परं सूर्यः अपि प्रकृतितः अन्नं ग्रहीतुं समर्थः भवति। वैष्णवसंप्रदायेषु अयं कथनं एवंप्रकारेण अस्ति – कृष्णः राधायाः भोगं षट्पदः भूत्वा करोति। षट्पदस्य वैशिष्ट्यं सारग्रहणं अस्ति।
ब्राह्मणग्रन्थेषु कथनमस्ति यत् गायत्र्याः मार्गं तिर्यक् मार्गमस्ति, वषट्कारस्य मार्गं बृहस्पतेः मार्गं, ऊर्ध्वदिशायाः मार्गमस्ति, गुरुत्वाकर्षणात् विपरीतदिशायाः मार्गमस्ति।
संदर्भ
*देवान् वै यज्ञस्याहुतिर् नागच्छत्। स प्रजापतिर् ऐक्षत कथं नु देवान् यज्ञास्याहुतिर् गच्छेद् इति। स एते द्वे अक्षरे गायत्र्या उदखिदत्। स एव द्व्यक्षरो वषट्कारो ऽभवत् ततो वै देवान् यज्ञस्याहुतिर् अगच्छत्। अन्नं वै वषट्कारः। अत्त्य् अन्नं य एवं वेद॥– जै.ब्रा. १.११३
*अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑तौ। - शौ.अथर्ववेद ५.२६.१२
*असौ वा अनुवाक्येयं याज्या । ते उभे योषे तयोर्मिथुनमस्ति वषट्कार एव तद्वा एष एव वषट्कारो य एष तपति स उद्यन्नेवामूमधिद्रवत्यस्तंयन्निमामधिद्रवति – माश १.७.२.११
*एष एव(वै[मा.श. ११.२.२.५]) वषट्कारो य एष(सूर्य्यः) तपति। मा.श. १.७.२.११
*देवपात्रं वा एतद्(एष[मा.श.]) यद्वषट्कारः तद्यथा पात्र उद्धृत्य प्रयच्छेदेवं तदथ यत्पुरा वषट्काराज्जुहुयाद्यथाधो भूमौ निदिग्धं तदमुया स्यादेवं तत्– ऐ.ब्रा. ३.५, मा.श. १.७.२.१३(तु. गो.ब्रा. २.३.१)
तद्यथा योनौ रेतः सिञ्चेत् । एवं तदथ यत्पुरा वषट्काराज्जुहुयाद्यथा योनौ रेतः सिक्तं तदमुया स्यादेवं तत्तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा - १.७.२.[१४]
*स वै वौगिति करोति। वाग्वै वषट्कारो वाग्रेतो रेत एवैतत्सिञ्चति षडित्यृतवो वै षट् तदृतुष्वेवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्मादेवं वषट्करोति। - मा.श. १.७.२.२१
*वषट्कर्तुर्हि भक्षः प्राणो वै वषट्कारः सोऽस्मादेतद्वषट्कुर्वतः पराङिवाभूत्प्राणो वै भक्षस्तत्प्राणं पुनरात्मन्धत्ते– मा.श. ४.२.१.२९
*वेट्स्वाहेति वषट्कारो हैष परोऽक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते तदेनमेताभ्यामुभाभ्यां प्रीणाति वषट्कारेण च स्वाहाकारेण चा – मा.श. ९.३.३.१४
*तस्य वाऽ एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्कारा यद्वातो वाति यद्विद्योतते यत्स्तनयति यदवस्फूर्जति तस्मादेवंविद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामच्छम्बट्काराय – मा.श. ११.५.६.९
*वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति। षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच - ऐ.ब्रा. ३.६
*त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानं पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋचं ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापीयान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै। संधीयते प्रजया पशुभिर्य एवं वेद - ऐ.ब्रा. ३.७
*तस्माद्वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत स एनं शान्तो न हिनस्ति। वषट्कार मा मां प्रमृक्षो माऽहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत। तदु ह स्माऽऽह दीर्घमेतत्सदप्रभ्वोजः सह ओजः। इत्येव वषट्कारमनुमन्त्रयेत। ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ। - ऐ.ब्रा. ३.८
*षड् इति वषट् करोति । षड् वा ऋतवः । ऋतून् एव तत् प्रीणाति । .....कौ ३.५
*बार्हत राथन्तरम् वषट् कुर्यात् पुरस्ताद् दीर्घम् उपरिष्टाद्द् ह्रस्वम् । यद्द् ह्रस्वम् तद् रथन्तरम् । यद् दीर्घम् तद् बृहति । अथो इयम् वै रथन्तरम् असौ बृहत् । अनयोर् एव तत् प्रतितिष्ठति । कौ ३.५
*वषट्
कृत्या
अनुजपत्य्
ओजः
सहः
सह
ओजः
स्वर्
इति
।
वज्रो
वै
वषट्कारः
।
तम्
एव
एतत्
शमयति
पुरस्ताच्
च
उपरिष्टाच्
च
।
एत
एव
वषट्कारस्य
प्रियतमे
तनू
यदोजश्च
सहश्च
।
कौ
३,५
(तु.
ऐ
३,८)
।।
*देवेषुर्वा एषा यद्वषट्कारः ऽभीति वा इन्द्रो वृत्राय वज्रं प्राहरदभीत्येवास्मै वज्रं प्रहृत्य देवेष्वा वषट्कारेण विध्यति – तां.ब्रा. ८.१.२
*गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः….चन्द्रमा धाता – तै.सं. ३.४.९.६, मै.सं. ४.३.५, काठ.सं. १२.८
*प्राणो वा अग्निहोत्रस्याश्रावितम् । अपानः प्रत्याश्रावितम् । मनो होता । चक्षुर्ब्रह्मा । निमेषो वषट्कारः – तै.ब्रा. २.१.५.९
*यद् वाचः क्रूरं तेन वषट्करोति – तै.सं. ३.४.८.५
*वाक् च(+ह[गो.ब्रा.] वै प्राणापानौ च वषट्कारः – ऐ.ब्रा. ३.८, गो.ब्रा. २.३.६
*वज्रो वै वषट्कारः – ऐ.ब्रा. ३.८, कौ.ब्रा. ३.५, गो.ब्रा. २.३.१, ५, मा.श. १.३.३.१४(तु. तै.सं. २.६.२.५, ऐ.ब्रा. ३.६)
*यो धाता स वषट्कारः – ऐ.ब्रा. ३.४७
*यः सूर्यः स धाता स उ एव वषट्कारः – ऐ.ब्रा. ३.४८(तु. ऐ.ब्रा. ३.४७)
*वषट्करोत्येतद्वै वाचः क्रूरम्। - काठक सं. ९.१६
*वषट्कारोऽभ्यय्य गायत्र्याश् शिरोऽच्छिनत् – काठ.सं. १३.८
*वषट्कारो वै गायत्रियै शिरोऽच्छिनत्, तस्यै रसः पराऽपतत्, स पृथिवीं प्राविशत् स खदिरो ऽभवत्। - तै.सं. ३.५.७.१
*यदि मध्यंदिने दीर्येत वषट्कारनिधनम्̇ साम कुर्युः । वषट्कारो वै यज्ञस्य प्रतिष्ठा – तै.सं. ७.५.५.३
* ऋतुग्रहाः -- नानुयजति, वैश्वानरो वषट्कारो , यदनुयजेद् वैश्वानरम् ऋतुष्वन्ववसृजेत् । मै ४,६,७ ।
*तेषा॒मास॑न्नाना॒मति॑थिरा॒त्मन् जु॑होति।स्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ – शौ.अ. ९.७.५/९.२.२२
*स
यत्पितॄन्
अनु
व्यचलद्यमो
राजा
भूत्वानुव्यचलत्स्वधाकारमन्नादं
कृत्वा
स्वधाकारेणान्नादेनान्नमत्ति
य
एवं
वेद
॥७॥
स
यन्
मनुष्यान्
अनु
व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं
कृत्वा
स्वाहाकारेणान्नादेनान्नमत्ति
य
एवं
वेद
॥८॥
स
यदूर्ध्वां
दिशमनु
व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं
कृत्वा
वषट्कारेणान्नादेनान्नमत्ति
य
एवं
वेद
॥९॥
[१८]–
शौ.अ.
१५.१४.१७
*वाचं धेनुमुपासीत। तस्याश्चत्वार स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः । - माश १४.८.९.१
५. यद् वाचः क्रूरं तेन वषट्करोति। वाच एवैनं क्रूरेण प्र वृश्चति ताजग् आर्तिम् आर्छति । तैसं ३,४,८,५।।
६. यो धाता स वषट्कारः। ऐ ३,४७ ।
७. वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति । ऐ ३.६
दिवाकीर्त्यो वषट्कारः – आ.श्रौ.सू. १.५.१८
८. वषट्करोत्येतद्वै वाचः क्रूरम् । काठ ९,१६ ।।
*इन्द्रतन्वाख्या इष्टकाः -- वषट्कारेणार्धः ( इन्द्रः )। तैसं ४,४,८,१।।
१३. स वै वौगिति करोति । वाग्वै वषट्कारो वाग्रेतो रेत एवैतत्सिञ्चति षडित्यृतवो वै षट् तदृतुष्वेवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्मादेवं वषट्करोति । माश १,७,२,२१ ।
* तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्षं हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो वायुरात्माऽमावास्या स्विष्टकृत्-, इति - तैआ २,१४,१॥
*वषट्कारो वै गायत्रियै शिरोऽच्छिनत्, तस्यै रसः पराऽपतत्, स पृथिवीं प्राविशत् स खदिरो ऽभवत्। तैसं ३.५.७.१
वषट्कारोऽभ्यय्य गायत्र्याश् शिरोऽच्छिनत् । काठ १३.८
देवपात्रं वा एतद् यद्वषट्कारः । ऐ ३.५, माश १.७.२.१३ ( तु. गो २.३.१)
यः सूर्यः स धाता स उ एव वषट्कारः। ऐ ३.४८ (तु. ३.४७)
*प्राणो वा अग्निहोत्रस्याश्रावितम् । अपानः प्रत्याश्रावितम् । मनो होता । चक्षुर्ब्रह्मा । निमेषो वषट्कारः । तै २.१.५.९
प्राणो वै वषट्कारः । - माश ४.२.१.२९
*वाक् च वै प्राणापानौ च वषट्कारः । ते वषट्कृते वषट्कृते व्युत्क्रामन्ति। तान् अनुमन्त्रयते वाग् ओजः सह ओजो मयि प्राणापानाव् इति। वाचं चैव तत् प्राणापानौ च होतात्मनि प्रतिष्ठापयति - ऐ ३.८, गो २.३.६
*चिरंजीविने वषडिति व्याहरेत्। वशीकुरु वशीकुरु वौषडिति व्याहरेत्। आकर्षयाकर्षय हुमिति व्याहरेत्। विद्वेषयविद्वेषय फडिति व्याहरेत् ।……- दत्तात्रेयोपनिषत् २
ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः ।
श्री महागरुडाय तर्जनीभ्यां स्वाहा ।
पक्षीन्द्राय मध्यमाभ्यां वषट् ।
श्रीविष्णुवल्लभाय अनामिकाभ्यां हुम् ।
त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् ।
उग्रभयङ्करकालानलरूपाय करतलकरपृष्ठाभ्यां फट् ।
एवं हृदयादिन्यासः । गरुडोपनिषद
हृदयाय नमः शिरसे स्वाहा शिखायै वषट् कवचाय हुं अस्त्राय फडिति प्रथमं प्रथमेन संयुज्यते द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं पञ्चमेन व्यतिषजति व्यतिषिक्ता वा इमे लोकास्तस्माद्व्यतिषिक्तान्यङ्गानि भवन्ति – नृसिंहतापिन्युप
वाचं धेनुमुपासीत ।
तस्याश्चत्वारः स्तनाः ।
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः ।
तस्यै द्वौ स्तनौ देवा उपजीवन्ति ।
स्वाहाकारं च वषट्कारं च ।
हन्तकारं मनुष्याः ।
स्वधाकारं पितरः ।
तस्याः प्राण ऋषभो मनो वत्सः ॥ बृहदारण्यकोप. ५,८.१ ॥
ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१॥ द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः । - रामपूर्वतापिन्युप
ॐ भुवः नमो भगवते चण्डप्रतापहनुमते शिरसे स्वाहा । ॐ स्वः नमो भगवते चिन्तामणिहनुमते शिखायै वषट् । ॐ महः नमो भगवते पातालगरुडहनुमते कवचाय हुम् । ॐ जनः नमो भगवते कालाग्निरुद्रहनुमते नेत्रत्रयाय वौषट् । ॐ तपः सत्यं नमो भगवते भद्रजातिविकटरुद्रवीरहनुमते अस्त्राय फट् ।- लांगूलोप.
सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यां हुम् । यो वै भूमादिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् ॥ सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दो ब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कवचाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । - शुकरहस्योपनिषद
तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जनीभ्यां स्वाहा । अघोराय मध्यमाभ्यां वषट् सद्योजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यां वौषट् । तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां फट् ।
वासुदेवाय अङ्गुष्ठाभ्यां नमः । सङ्कर्षणाय तर्जनीभ्यां स्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्धाय अनामिकाभ्यां हुम् । वासुदेवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृष्ठाभ्यां फट् । - शुकरहस्योपनिषत्