वसन्त

      वसन्त ऋतु के लक्षणों का अनुमान इस तथ्य से लगाया जा सकता है कि शिशिर ऋतु में तो वृक्षों के सारे पत्ते झड जाते हैं और वसन्त ऋतु के आगमन पर वृक्ष पुनः पल्लवित हो जाते हैं। शतपथ ब्राह्मण ८.१.१.४ में वसन्त को प्राणायनः, प्राणों का अयन कहा गया है। वसन्त का साधारण अर्थ होगा वास करना, बसना। हम ग्राम या अरण्य, कहीं भी वास करें, हमारे गुणों का पल्लवन होना चाहिए। हमारे या अन्यों के पापों से हमारे गुणों का या प्राणों का क्षय नहीं होना चाहिए। जहां भी हम बसें, हमारे पाप आकर विघ्न न डालें। इसी कारण से वसन्त ऋतु का स्थान हेमन्त व शिशिर के पश्चात् आता है। हेमन्त-शिशिर पाप नाश की ऋतुएं हैं। जब सारे पापों का नाश हो चुके, तब वसन्त की, वास करने की बारी आती है। वसन्त को सार्वत्रिक रूप से ब्रह्म ऋतु कहा गया है जबकि ग्रीष्म को क्षत्रिय ऋतु कहा गया है। वसन्त् ऋतु के ब्रह्म कृत्यों का अनुमान ब्रह्मवैवर्त्त पुराण २.४.२३ इत्यादि में माघ शुक्ल पञ्चमी को सरस्वती पूजा के वर्णन से लगाया जा सकता है जहां वसन्त पञ्चमी तिथि को विद्यारम्भ करने का निर्देश है।

      प्रथम लेखन : २०.९.२०१२ ई.(निज भाद्रपद शुक्ल पञ्चमी, विक्रम संवत् २०६९)

      संदर्भ

      *यत् पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत। व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः – ऋ. १०.९०.६

      आज्य को अस्थियों के भीतर मज्जा का प्रतीक कहा गया है जबकि अस्थियों को इध्म का प्रतीक। मज्जा का कार्य प्राणों की सृष्टि करना होता है।

      *श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्ताञ्छ॒तमु॑ वस॒न्तान्। श॒तमि॑न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः॥(दे. इन्द्राग्नी, राजयक्ष्मघ्नं वा) - ऋ. १०.१६१.४, शौ.अ. ३.११.४, २०.९६.९

      *तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन्। तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ। - शौ.अ. १५.३.४

      *तस्मै॒ प्राच्या॑ दि॒शः। वा॒स॒न्तौ मासौ॑ गो॒प्तारा॒वकु॑र्वन् बृ॒हच्च॑ रथंत॒रं चा॑नुष्ठा॒तारौ॑। वा॒स॒न्तावे॑नं॒ मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथंत॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑। - शौ.अ. १५.४.२

      *आहवनीये परिधिपरिधानम् – अथ यां द्वितीयां समिधमभ्यादधाति वसन्तमेव तया समिन्धे। स वसन्तः समिद्धोऽन्यानृतून्त्समिन्धे। ऋतवः समिद्धाः प्रजाश्च प्रजनयन्ति, ओषधीश्च पचन्ति। सोऽभ्यादधाति – समिदसि इति। समिद्धि वसन्तः। – मा.श. १.३.४.७

      *प्रयाज बन्धुः। उत्तरः प्रैषः – स आश्राव्य आह – “ समिधो यज ” इति। तद् वसन्तं समिन्धे, स वसन्तः समिद्धो अन्यान् ऋतून् समिन्धे, ऋतवः समिद्धाः प्रजाश्च प्रजनयन्ति, ओषधीश्च पचन्ति। - मा.श. १.५.३.८

      *प्रयाजब्राह्मणम् – स वै “ समिधो ” यजति। वसन्तो वै समित्। – मा.श. १.५.३.९

      डा. फतहसिंह समिति की व्याख्या इस प्रकार किया करते थे कि एक सभा होती है, एक समिति। सभा में सदस्यों के विचार भिन्न-भिन्न हो सकते हैं, लेकिन समिति में एक समान विचार वाले सदस्य होते हैं।

      *वसन्त एव हेमन्तात् पुनरसुरेतस्माद्ध्येष पुनर्भवति। - मा.श. १.५.३.१४

      *संवत्सरं ह वै प्रयाजैर्जयन् जयति। स ह न्वेवैनं जयति - योऽस्य द्वाराणि वेद। - - - तस्य वसन्त एव द्वारँँ हेमन्तो द्वारं। तं वाऽएतँँ संवत्सरँँ स्वर्गं लोकं प्रपद्यते। - मा.श. १.६.१.१९

      *वसन्तो ग्रीष्मो वर्षाः – ते देवा ऋतवः। शरद् हेमन्तः शिशिरः – ते पितरः। - मा.श. २.१.३.१

      *ब्रह्मैव वसन्तः, क्षत्रं ग्रीष्मो, विडेव वर्षाः। - मा.श. २.१.३.५

      *तस्माद् ब्राह्मणो वसन्त ऽ आदधीत ब्रह्म हि वसन्तः (ऋतुः) – मा.श. २.१.३.५

      *यदेव पुरस्ताद्वाति तद्वसन्तस्य रूपम्। यत्स्तनयति, तद् ग्रीष्मस्य। यद्वर्षति, तद्वर्षाणाम्। यद् विद्योतते, तच्छरदः। यद् वृष्टोद्गृह्णाति, तद्धेमन्तस्य। - मा.श. २.२.३.८

      *आदित्यस्त्वेव सर्व ऋतवः। यदैवोदेति – अथ वसन्तः। यदा सङ्गवः। अथ ग्रीष्मः। - - -मा.श. २.२.३.९

      *पितृयज्ञः। वृत्रहननम् -- तद्वसन्तो, ग्रीष्मो, वर्षाः। एते ते – ये व्यजयन्त। शरद्धेमन्तः शिशिरः। त उ ते – यान्पुनः समैरयन्त। - मा.श. २.६.१.२

      *ऋतुग्रहाः – अथातो गृह्णात्येव – “उपयामगृहीतोऽसि मधवे त्वा” इत्येवाध्वर्युर्गृह्णाति। “उपयामगृहीतोऽसि माधवाय त्वा” इति प्रतिप्रस्थाता। एतावेव वासन्तिकौ । - मा.श. ४.३.१.१४

      *केशव पुरुषः – अथैनं दिशः समारोहयति – “प्राचीमारोह गायत्री त्वाऽवतु रथन्तरं साम त्रिवृत्स्तोमो वसन्त ऋतुर्ब्रह्म द्रविणम्।“ - - -मा.श. ५.४.१.३

      *” या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा “ इति। ऋतवो वै देवाः। तेभ्य एतास्त्रिः पुरा जायन्ते – वसन्ता प्रावृषि शरदि। - मा.श. ७.२.४.२६

      *ऋतव्येष्टकाद्वयोपधानम् – “ मधुश्च माधवश्च वासन्तिकावृतू ” इति - - - संवत्सर एषोऽग्निः। इम उ लोकाः संवत्सरः। तस्यायमेव लोकः प्रथमा चितिः। अयमस्य लोको वसन्त ऋतुः। यद् यदेतेऽअत्रोपदधाति - यदेवास्यैतेऽआत्मनः – तदस्मिन्नेतत्प्रतिदधाति। - - - संवत्सर उ प्रजापतिः। तस्य प्रतिष्ठैव प्रथमा चितिः। प्रतिष्ठोऽस्य वसन्त ऋतुः। - मा.श. ७.४.२.३०

      *प्रथमा चितिः – स पुरस्तादुपदधाति। “अयं पुरो भुवः” इति। अग्निर्वै पुरः। - - - तस्य प्राणो भौवायनः। प्राणं तस्माद्रूपादग्नेर्निरमिमीत। “वसन्तः प्राणायनः ” इति। वसन्तमृतुं प्राणान्निरमिमीत। “गायत्री वासन्ती ” इति - - मा.श. ८.१.१.४, तै.सं. ४.३.२.१

      वसन्त ऋतु के लक्षणों का अनुमान इस तथ्य से लगाया जा सकता है कि शिशिर ऋतु में तो वृक्षों के सारे पत्ते झड जाते हैं और वसन्त ऋतु के आगमन पर वृक्ष पुनः पल्लवित हो जाते हैं। इस तथ्य को दूसरे रूप में इस प्रकार कहा जा सकता है कि वसन्त ऋतु प्राणों की रक्षा करती है। इसीलिए शतपथ ब्राह्मण के उपरोक्त कथन में वसन्त को प्राणायनः – प्राणों का अयन कहा गया है।

      *सम्वत्सर एवाग्निः – तस्य वसन्तः शिरः, ग्रीष्मो दक्षिणः पक्षः, वर्षा उत्तरः, शरदृतुर्मध्यम्, आत्मा हेमन्तशिशिरावृतू। - मा.श. १०.४.५.२

      *संवत्सरो यजमानः, तमृतवो याजयंति। वसन्त आग्नीध्रः। तस्माद्वसन्ते दावाश्चरन्ति तद्ध्यग्निरूपम्। ग्रीष्मोऽध्वर्युः। - - - वर्षा उद्गाता। - - शरद्ब्रह्मा। - - हेमन्तो होता। - - - मा.श. ११.२.७.३२

      *सौत्रामण्यां सोमसम्पत्तिः -- षड् ग्रहा भवन्ति। षड्वा ऋतवः। - - वसन्तग्रीष्मावेवाश्विनाभ्याम्। वर्षाशरदी सारस्वताभ्याम्। हेमन्तशिशिरावैन्द्राभ्याम्। - मा.श. १२.८.२.३४

      *क्षत्रिय यजमान द्वारा अश्वमेध आरम्भ करने का उपयुक्त काल – तद्वै वसंत एवाभ्यारभेत। वसंतो वै ब्राह्मणस्यर्तुः। य उ वै कश्च यजते। ब्राह्मणीभूयेवैव यजते। - मा.श. १३.४.१.३

      *अथैत आरण्याः। “ वसंताय कपिंजलानालभते, ग्रीष्माय कलविंकान्, वर्षाभ्यस्तित्तिरीन्। - मा.श. १३.५.१.१३

      *अश्वमेधः—अथोत्तरं संवत्सरमृतुपशुभिर्यजते। षड्भिराग्नेयैः वसन्ते। षड्भिः पार्जन्यैर्वा मारुतैर्वा वर्षासु। - -- - – मा.श. १३.५.४.२८

      *पुरुषमेधः – तस्यायमेव लोकः प्रथममहः। अयमस्य लोको वसंत ऋतुः। यदूर्ध्वमस्माल्लोकादर्वाचीनमंतरिक्षात्। तद् द्वितीयमहः। तद्वस्य ग्रीष्म ऋतुः। अन्तरिक्षमेवास्य मध्यममहः। अंतरिक्षमस्य वर्षाशरदावृतू। - - - मा.श. १३.६.१.१०

      *अथाध्यात्मम्। प्रतिष्ठैवास्य प्रथममहः। प्रतिष्ठो अस्य वसंत ऋतुः। यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्। तद् द्वितीयमहः। तद्वस्य ग्रीष्म ऋतुः। - - -मा.श. १३.६.१.११

      *आग्नेयींश्(अजाम्) वसन्ते (आलभेत) – काठ.सं. १३.१

      *वसन्तस्याहं देवयज्ययोर्जस्वान् पयस्वान् भूयासम् – काठ.सं. ४.१४

      *वसन्ते पुनराभवन्ति (ओधषयः) – कपि.क.सं. ३९.१

      *वसन्तो वै ब्राह्मणस्यर्तुः। - मै.सं. २.१.४, काठ.सं. ८.१, १०.२, तै.ब्रा. १.१.२.६, मा.श. १३.४.१.३

      *प्राची दिग्, वसन्त ऋतुरग्निर्देवता, ब्रह्म द्रविणं, गायत्री छन्दो रथन्तरं साम, त्रिवृत् स्तोमः, स उ पञ्चदशवर्तनिः, सानगा ऋषिस्त्र्यविर्वयः, कृतमयानां पुरोवातो वातः। - मै.सं. २.७.२०(तु. तै.सं. ४.३.३.१, काठ.सं. ३९.७)

      *मधुश्च माधवश्च वासन्तिका ऋतू – मै.सं. २.८.१२

      *वसन्तेन पुरस्तादचिनुत – मै.सं. ३.४.८

      *वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुतम्। रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः। - मै,सं. ३.११.१२

      *धूम्राः (पशवः) वसन्ताय – मै.सं. ३.१३.१९

      *वसन्ताय कपिञ्जलानालभते – मै.सं. ३.१४.१

      *वसन्तः शिरः – मै.सं. ४.९.१८, तै.आ. ४.१९.१

      *वसन्त (वसव) एव भर्गः – गो.ब्रा. १.५.१५

      *तां (दीक्षां) वासन्तिकाभ्यां मासाभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां - - - - तां शैशिराभ्यां मासाभ्यामाप्नुवन्। - ऐ.ब्रा. ४.२६

      *सत्रमु चेत् - - -वसन्तमभ्युदवस्यति ऊर्ग्वै वसन्त इषमेव तदूर्जमभ्युदवस्यति। – ऐ.ब्रा. ४.२६

      उदवस्यति -- द्वादशाह आदि सत्र के अन्त में उदवसानीयेष्टि- सायण भाष्य

      *मुखं वा एतदृतूनां यद्वसन्तः – तै.ब्रा. १.१.२.६

      *तस्य(संवत्सरस्य) वसन्तः शिरः – तै.ब्रा. ३.११.१०.२

      *द्वया ह वै पूर्व ऋतव आसुः – प्राणर्तवो देवर्तवः। - -- प्राण एव वसन्तः। वाग् ग्रीष्मः। चक्षुर् वर्षाः। - - - अथ देवर्तवः। वायुर् एव वसन्त आस। अग्निर् ग्रीष्मः। पर्जन्यो वर्षाः। - - - - स यस् स प्राणो वसन्त आस, यो वायुर् वसन्तस्, सो ऽयम् एतर्हि वसन्तः। - - - अथ या इमाः पुरुष आपश् शिशिर आसुर्, या अमूर् दिव्या आपस् स शिशिरस्।– जै.ब्रा. २.५१

      *अथैत ऋतुष्टोमाः। - - - - - स वसन्ते प्रथमेन यजेत। – जै.ब्रा. २.२१२

      * स (प्रजापतिः) यत् प्रथममतप्यत् ततो ग्रीष्ममसृजत। तस्मात् स बलिष्ठं तपति। -- - - - स ग्रीष्माद् एव वसन्तं निरमिमीत, वर्षाभ्यश् शरदं, हेमन्ताच् शिशिरम्। - जै.ब्रा. ३.१

      *स (प्रजापतिः) मनसात्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां वासन्तिकौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव ओम् इत्य एतया वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ रथन्तरं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। - जै.ब्रा. ३.३६१

      *सो(इन्द्रो) ऽब्रवीद् यद् इदम् एषां सर्वं स्पृतं, कं लोकम् अभि जायै स वै नु मे प्रयच्छ। इमौ नु मे – वासन्तिकौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य अन्नम् अन्नम् इति पतित्वास्यै प्राच्यै दिशौ रथन्तरं भा आदत्त। तद् इतो ऽधत्त। - - जै.ब्रा. ३.३६६

      *तस्य ह वा एतस्य संवत्सरस्य साम्नोऽहोरात्राणि हिंकारोऽर्धमासाः प्रस्तावो मासा आदिः - - - -। तस्य ह वा एतस्य संवत्सरस्य साम्नो वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः - - - – षड्.ब्रा. ३.४.२३

      *व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यीं कृ॑ष्णग्री॒वीमाल॑भेत - - - -त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑ँसि व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒ध्यंदि॑ने श॒रद्य॑परा॒ह्ने – तै.सं. २.१.२.५

      *प्रयाजविधिः -- स॒मिधो॑ यजति, वस॒न्तमे॒वर्तू॒नामव॑रुन्द्धे॒, तनू॒नपा॑तं यजति ग्री॒ष्ममे॒वाव॑ रुन्द्ध - - - - – तै.सं. २.६.१.१

      *प्राणभृत इष्टकाः : अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गाय॒त्री वास॒न्ती - - -तै.सं. ४.३.२.१



      *अपानभृत इष्टकाः : प्राची॑ दि॒शां व॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णं त्रि॒वृत् स्तोमः॒ - - -- - त्र्यवि॒र्वयः॑ कृ॒तमया॑नां पुरोवा॒तो वातः॒ सान॑ग॒ ऋषिः॑ – तै,सं. ४.३.३.१


      *ऋतुपश्वभिधानम् – पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒ वार्षिकाः॒ - - - तै.सं. ५.६.२३.१

      *तस्य॑ (संवत्सरस्य) वस॒न्तः शिरो॑ ग्री॒ष्मो दक्षि॑णः प॒क्षो व॒र्षाः पुच्छँ॑ँ श॒रदुत्त॑रः प॒क्षो हे॑मन्तो मध्यं॑ – तै.सं. ५.७.६.६

      *सो(प्रजापतिः) अकामयत यज्ञँँ सृजेयेति स मुखत एव त्रिवृतमसृजत तं गायत्री छन्दोऽन्वसृज्यताग्निर्द्देवता ब्राह्मणो मनुष्यो वसन्त ऋतुः - - - तां.ब्रा. ६.१.६

      *संवत्सरो वै व्रतं (महाव्रतं) तस्य वसन्त ऋतुर्मुखं ग्रीष्मश्च वर्षाश्च पक्षौ शरन्मध्यँँ हेमन्तः पुच्छं। - तां.ब्रा. २१.१५.२

      *समिधो यजति वसन्तमेव वसन्ते वा इदं सर्वं समिध्यते – कौ.ब्रा. ३.४

      *तेभ्यो(पशुभ्यः) हिंकारं प्रायच्छत्।- - - प्रस्तावं मनुष्येभ्यः। - - आदिं वयोभ्यः। - - -उद्गीथं देवेभ्योऽमृतम्। - - प्रतिहारमारण्येभ्यः पशुभ्यः। -- - उपद्रवं गन्धर्वाप्सरोभ्यः। - - निधनं पितृभ्यः। - - स (प्रजापतिः) वसन्तमेव हिङ्कारमकरोत्। ग्रीष्मं प्रस्तावम्। - - - – जै.उ.ब्रा. १.३.२.७, १.१२.१.२

      *नमः ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि – पारस्कर गृह्य सूत्र १.१२.४

      *मनुः पुत्रेभ्यो दायं व्यभजत्स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत्स आगच्छत् - - बौधा.श्रौ.सू. १४.५:२९