वैश्वानर

      संदर्भ

      ऋ. नोधा गौतमः, छ. त्रिष्टुप्

      वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते।

      वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ॥ १.०५९.०१

      मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः।

      तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय॥ १.०५९.०२

      आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि।

      या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा॥ १.०५९.०३

      बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः।

      स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः॥ १.०५९.०४

      दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम्।

      राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ॥ १.०५९.०५

      प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते।

      वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत्॥ १.०५९.०६

      वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा।

      शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान्॥ १.०५९.०७

      ऋ. कुत्स आङ्गिरसः, छ. त्रिष्टुप्

      वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः।

      इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण॥ १.०९८.०१

      पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश।

      वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम्॥ १.०९८.०२

      वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम्।

      तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.०९८.०३

      ऋ. गाथिनो विश्वामित्रः, छ. जगती

      वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि।

      द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति॥ ३.००२.०१

      स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः।

      हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः॥ ३.००२.०२

      क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः।

      रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे॥ ३.००२.०३

      आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम्।

      रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा॥ ३.००२.०४

      अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः।

      यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम्॥ ३.००२.०५

      पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः।

      अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः॥ ३.००२.०६

      आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन्।

      सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः॥ ३.००२.०७

      नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम्।

      रथीर्ऋतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः॥ ३.००२.०८

      तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः।

      तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः॥ ३.००२.०९

      विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे।

      स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत्॥ ३.००२.१०

      स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः।

      वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे॥ ३.००२.११

      वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः।

      स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः॥ ३.००२.१२

      ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम्।

      तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे॥ ३.००२.१३

      शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम्।

      अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत्॥ ३.००२.१४

      मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम्।

      रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे॥ ३.००२.१५

      ऋ. गाथिनो विश्वामित्रः, छ. जगती

      वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे।

      अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत्॥ ३.००३.०१

      अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः।

      क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः॥ ३.००३.०२

      केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः।

      अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके॥ ३.००३.०३

      पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम्।

      आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः॥ ३.००३.०४

      चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम्।

      विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः॥ ३.००३.०५

      अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया।

      रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः॥ ३.००३.०६

      अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः।

      वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम्॥ ३.००३.०७

      विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम्।

      अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे॥ ३.००३.०८

      विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः।

      तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः॥ ३.००३.०९

      वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण।

      जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना॥ ३.००३.१०

      वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः।

      उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा॥ ३.००३.११

      ऋ. गाथिनो विश्वामित्रः, छ. जगती

      वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम्।

      सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे॥ ३.०२६.०१

      तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम्।

      बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम्॥ ३.०२६.०२

      अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे।

      स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः॥ ३.०२६.०३

      प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत।

      बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः॥ ३.०२६.०४

      अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम्।

      ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः॥ ३.०२६.०५

      व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे।

      पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः॥ ३.०२६.०६

      अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन्।

      अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम॥ ३.०२६.०७

      त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन्।

      वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत्॥ ३.०२६.०८

      शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम्।

      मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम्॥ ३.०२६.०९



      ऋ. वामदेवो गौतमः, छ. त्रिष्टुप्

      वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः।

      अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः॥ ४.००५.०१

      मा निन्दत य इमां मह्यं रातिं देवो ददौ मर्त्याय स्वधावान्।

      पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः॥ ४.००५.०२

      साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्तुविष्मान्।

      पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम्॥ ४.००५.०३

      प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः।

      प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि॥ ४.००५.०४

      अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः।

      पापासः सन्तो अनृता असत्या इदं पदमजनता गभीरम्॥ ४.००५.०५

      इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म।

      बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु॥ ४.००५.०६

      तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः।

      ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु॥ ४.००५.०७

      प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति।

      यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः॥ ४.००५.०८

      इदमु त्यन्महि महामनीकं यदुस्रिया सचत पूर्व्यं गौः।

      ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद्रघुयद्विवेद॥ ४.००५.०९

      अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः।

      मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा॥ ४.००५.१०

      ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम्।

      त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम्॥ ४.००५.११

      किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान्।

      गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म॥ ४.००५.१२

      का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम्।

      कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः॥ ४.००५.१३

      अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः।

      अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम्॥ ४.००५.१४

      अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच।

      रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत्॥ ४.००५.१५

      अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः।

      त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत॥ ५.०२७.०१

      यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति।

      वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म॥ ५.०२७.०२

      विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये।

      देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः॥ ५.०५१.१३

      ६.७ बार्हस्पत्यो भरद्वाजः। दे. वैश्वानरोऽग्निः। त्रिष्टुप्, ६-७ जगती

      मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम्।

      कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः॥ ६.००७.०१

      नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त।

      वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः॥ ६.००७.०२

      त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः।

      वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि॥ ६.००७.०३

      त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते।

      तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः॥ ६.००७.०४

      वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष।

      यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम्॥ ६.००७.०५

      वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना।

      तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः॥ ६.००७.०६

      वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः।

      परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता॥ ६.००७.०७

      ६.८ बार्हस्पत्यो भरद्वाजः। दे. वैश्वानरोऽग्निः। जगती, ७ त्रिष्टुप्

      पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः।

      वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये॥ ६.००८.०१

      स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत।

      व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत्॥ ६.००८.०२

      व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः।

      वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम्॥ ६.००८.०३

      अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुर्ऋग्मियम्।

      आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः॥ ६.००८.०४

      युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम्।

      पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा॥ ६.००८.०५

      अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरं सुवीर्यम्।

      वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः॥ ६.००८.०६

      अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन्।

      रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः॥ ६.००८.०७

      ६.९ बार्हस्पत्यो भरद्वाजः। दे. वैश्वानरोऽग्निः। त्रिष्टुप्, (७ प्रस्तारपंक्तिर्वा)

      अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः।

      वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि॥ ६.००९.०१

      नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः।

      कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा॥ ६.००९.०२

      स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति।

      य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन्॥ ६.००९.०३

      अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु।

      अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः॥ ६.००९.०४

      ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः।

      विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु॥ ६.००९.०५

      वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत्।

      वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये॥ ६.००९.०६

      विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम्।

      वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः॥ ६.००९.०७

      ७.५ मैत्रावरुणर्वसिष्ठः। दे. वैश्वानरोऽग्निः। त्रिष्टुप्।

      प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः।

      यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः॥ ७.००५.०१

      पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभः स्तियानाम्।

      स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण॥ ७.००५.०२

      त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि।

      वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः॥ ७.००५.०३

      तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त।

      त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः॥ ७.००५.०४

      त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः।

      पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम्॥ ७.००५.०५

      त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त।

      त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय॥ ७.००५.०६

      स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः।

      त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन्॥ ७.००५.०७

      तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः।

      यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय॥ ७.००५.०८

      तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व।

      वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः॥ ७.००५.०९

      ७.६ मैत्रावरुणर्वसिष्ठः। दे. वैश्वानरोऽग्निः। त्रिष्टुप्।

      प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य।

      इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि॥ ७.००६.०१

      कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः।

      पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि॥ ७.००६.०२

      न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान्।

      प्रप्र तान्दस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून्॥ ७.००६.०३

      यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः।

      तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून्॥ ७.००६.०४

      यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार।

      स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः॥ ७.००६.०५

      यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः।

      वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम्॥ ७.००६.०६

      आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य।

      आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः॥ ७.००६.०७

      ७.१३ मैत्रावरुणर्वसिष्ठः। दे. वैश्वानरोऽग्निः। त्रिष्टुप्।

      प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम्।

      भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम्॥ ७.०१३.०१

      त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः।

      त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा॥ ७.०१३.०२

      जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा।

      वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः॥ ७.०१३.०३

      यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति।

      वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु॥ ७.०४९.०४

      ये देवास इह स्थन विश्वे वैश्वानरा उत।

      अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत॥ ८.०३०.०४



      अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः।

      अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्॥ १०.०४५.१२

      ऋ. आङ्गिरसो मूर्धन्वान्, वामदेव्यो वा। दे. सूर्य - वैश्वानरोऽग्निः, छ. त्रिष्टुप्

      विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्।

      आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन्॥ १०.०८८.१२

      वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम्।

      नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम्॥ १०.०८८.१३

      वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः।

      यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात्॥ १०.०८८.१४



      *अथाग्नये परिदाय स्वपिति । देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवाः स्वपन्त्यनवरुद्धो वा एतस्यास्वप्नो भवत्यग्निर्वै देवानां व्रतपतिस्तस्मा एवैतत्परिदाय स्वपित्यग्ने त्वं सु जागृहि वयं सु मन्दिषीमहीत्यग्ने त्वं जागृहि वयं स्वप्स्याम इत्येवैतदाह रक्षा णो अप्रयुच्छन्निति गोपाय नोऽप्रमत्त इत्येवैतदाह प्रबुधे नः पुनस्कृधीति यथेतः सुप्त्वा स्वस्ति प्रबुध्यामहा एवं नः कुर्वित्येवैतदाह – मा.श. ३.२.२.२२

      *दीक्षितधर्माः --अथ यत्र सुप्त्वा । पुनर्नावद्रास्यन्भवति तद्वाचयति पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रं म आगन्निति सर्वे ह वा एते स्वपतोऽपक्रामन्ति प्राण एव न तैरेवैतत्सुप्त्वा पुनः संगच्छते तस्मादाह पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रं म आगन् वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यादिति तद्यदेवात्र स्वप्नेन वा येन वा मिथ्याकर्म तस्मान्नः सर्वस्मादग्निर्गोपायत्वित्येवैतदाह तस्मादाह वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यादिति – मा.श. ३.२.२.२३

      *ध्रुवग्रहः - -अयं ह वा अस्यैष प्राणः । योऽयं पुरस्तात्स वै वैश्वानर एवाथ योऽयं पश्चात्स ध्रुवस्तौ ह स्मैतौ द्वावेवाग्रे ग्रहौ गृह्णन्ति ध्रुववैश्वानराविति तयोरयमप्येतर्ह्यन्यतर एव गृह्यते ध्रुव एव स यदि तं चरकेभ्यो वा यतो वानुब्रुवीत यजमानस्य तं चमसेऽवनयेदथैतमेव होतृचमसे – मा.श. ४.२.४.१

      *वैश्वानराय गृह्णाति । संवत्सरो वै वैश्वानरः संवत्सर आयुस्तस्माद्वैश्वानराय गृह्णाति – मा.श. ४.२.४.४

      *अथातो गृह्णात्येव । मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः । उपयामगृहीतोऽसि ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तम एष ते योनिर्वैश्वानराय त्वेति सादयति व्युह्य न तृणं चनान्तर्धाय वैश्वानराय ह्येनं गृह्णाति - मा.श. ४.२.४.२४

      *स यद्वैश्वानरो भवति । संवत्सरो वै वैश्वानरः संवत्सरः प्रजापतिः प्रजापतिरेव तद्भूमानं प्रजाः ससृजे भूमानं प्रजाः सृष्ट्वा सूया इति तथो एवैष एतद्भूमानं प्रजाः सृजते भूमानं प्रजाः सृष्ट्वा सूया इति – मा.श. ५.२.५.१४

      *ऋषभो वैश्वानरस्य दक्षिणा । संवत्सरो वै वैश्वानरः संवत्सरः प्रजापतिर्ऋषभो वै पशूनां प्रजापतिस्तस्मादृषभो वैश्वानरस्य दक्षिणा कृष्णं वासो वारुणस्य तद्धि वारुणं यत्कृष्णं यदि कृष्णं न विन्देदपि यदेव किं च वासः स्याद्ग्रन्थिभिर्हि वासो वारुणं वरुण्यो हि ग्रन्थिः – मा.श. ५.२.५.१७

      *अथैतेन चतुर्थेन यजुषा करोति । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वदिति दिशो हैतद्यजुरेतद्वै विश्वे देवा वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशोऽदधुस्तथैवैतद्यजमान एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो दधात्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति – मा.श. ६.५.२.६

      *वसवस्त्वा धूपयन्तु । गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु – मा.श. ६.५.३.१०

      *तदाहुः । कथमस्यैताः पक्वाः शृता उपहिता भवन्तीति रसो वा एताः स्वयंशृत उ वै रसोऽथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगच्छति तत एव तत्पक्वं शृतमुपहितं भवति – मा.श. ७.३.१.२६

      *उखोपरि होमः -- तदाहुः । कथमस्यैषा पक्वा शृतोपहिता भवतीति यदेव यजुष्कृता तेनाथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगच्छति तत एव तत्पक्वं शृतमुपहितम् भवति – मा.श. ७.५.१.२९

      *  वैश्वानरहोमः -- स यः स वैश्वानरः । इमे स लोका इयमेव पृथिवी विश्वमग्निर्नरोऽन्तरिक्षमेव विश्वं वायुर्नरो द्यौरेव विश्वमादित्यो नरः – मा.श. ९.३.१.३

      *शिर एव द्यौः । नक्षत्राणि केशास्तदेतद्विश्वं चक्षुरेवादित्यः स नरस्तदवस्ता च्छीर्ष्णो  भवत्यवस्ताद्धि दिव आदित्यस्तदस्यैतच्छिरो वैश्वानर आत्मायमग्निश्चित आत्मायमग्निश्चित आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति – मा.श. ९.३.१.६

      *यद्वेव वैश्वानरमारुतान्जुहोति । क्षत्रं वै वैश्वानरो विण्मारुताः क्षत्रं च तद्विशं च करोति वैश्वानरं पूर्वं जुहोति क्षत्रं तत्कृत्वा विशं करोति – मा.श. ९.३.१.१३

      * सर्वचित्यन्तसाधारणोपस्थानम् -- वैश्वानरो न ऊतये । पृष्टो दिवि पृष्टो अग्निः पृथिव्यामिति वैश्वानरीभ्यां तृतीयाभ्यामेतद्वै देवा वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मैतत्कर्म कुरुते – मा.श. ९.५.२.६

      *किं छन्दः का देवता योऽयमवाङ्प्राण इति यज्ञायज्ञियं छन्दो वैश्वानरो देवता – मा.श. १०.३.२.८

      *  दर्शयागे पश्चाच्चंद्रदर्शने त्रिहविष्का अभ्युदितेष्टिः  - अथ यदग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति यत्र वा इन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वं पाप्मानं समदहत्तथो एवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना वैश्वानरेण संदहति तदस्य सर्वं पाप्मानं संदहति स यो हैवं विद्वानेतयेष्ट्या यजते न हास्याल्पश्चन पाप्मा परिशिष्यते – मा.श. ११.१.५.८

      *एष वा अग्निर वैश्वानरो य एष तपति। तस्य रात्रिस् समिद् अहर् ज्योती रश्मयो धूमो नक्षत्राणि विष्फुलिङ्गाश् चन्द्रमा अङ्गाराः। तस्मिन्न् एतस्मिन् अग्नौ वैश्वानरे ऽहरहर् देवा अमृतम् अपो जुह्वति। तस्या आहुतेर् हुतायै सोमो राजा संभवति॥

      स्तनयित्नुर् एवाग्निर् वैश्वानरः। तस्य द्यौस् समिद् विद्युज् ज्योतिर् अभ्राणि धूमो ह्लादनयो विष्फुलिङ्गा अशनिर् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवास् सोमं राजानं जुह्वति। तस्या आहुतेर् हुतायै वृष्टिस् संभवति॥

      पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या आहुतेर् हुताया अन्नं संभवति॥

      पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङ्गाराः. तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या आहुतेर् हुताया अन्नं संभवति॥

      पुरुष एवाग्निर् वैश्वानरः। तस्य वाक् समिच् चक्षुर् ज्योतिः प्राणो धूमो मनो विष्फुलिङ्गाश् श्रोत्रम् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा अन्नं जुह्वति। तस्या आहुतेर् हुतायै रेतस् संभवति॥

      स्त्रियो वा अग्निर् वैश्वानरः। तस्योपस्थं समिद् योनिर् ज्योतिर् इष्या धूमो ऽभिनन्दो विष्फुलिङ्गास् संस्पर्शो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा रेतो जुह्वति। तस्या आहुतेर् हुतायै पुरुषस् संभवति॥

      सो ऽत्र पञ्चम्यां विसृ्ष्ट्यां पुरुषो देवेभ्यो जायते। पञ्चम्यां विसृष्ट्यां दिव्या आपः पुरुषवाचो वदन्ति।

      अथ यथामुं लोकम् अप्येति – जै.ब्रा.१.४५



      --तस्याग्निर् एवाग्निर् वैश्वानरः। तस्यौषधयश्च वनस्पतयश् च समित्। ज्योतिर् एव ज्योतिः। धूम एव धूमःः। विष्फुलिङ्गा एव विष्फुलिङ्गाः। अङ्गारा एवाङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवाः पुरुषं जुह्वति। तस्या आहुतेर् हुतायै पुरुषो ऽमुं लोकं संभवति। सो ऽस्य लोकः पुनरुत्थायै भवति॥

      अग्निर् वैश्वानरः प्रजा अभ्युदतिष्ठत्। स इदं सर्वं प्रातपत्। तस्य देवा प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा अयम् इदं प्रधक्ष्यति – जै.ब्रा.॥१.१६९॥



      * -- एतस्य हरो ऽपैरयामेति। तस्य हरो ऽपैरयम्। तद् यत् प्रथमम् अपैरयंस् तस्मिन् व्यवदन्त क्वेदं भविष्यतीति। यज्ञेयज्ञे नो भविष्यतीत्य् अब्रुवन्। तद् यज्ञायज्ञीयम् अभवत्। तद् यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम्॥

      यद् द्वितीयम् अपैरयंस् तन्नार्मेधम् अभवत्। यत् तृतीयम् अपैरयंस् तद् दाशस्पत्यम् अभवत्। यच् चतुर्थम् अपैरयंस् तद् विशोविशीयम् अभवत्। यत्पञ्चमम् अपैरयंस् तद् वारवन्तीयम् अभवत्॥

      अग्निर् वा एष वैश्वानरो यद् यज्ञः। तद्वद् एतान्य अग्निष्टोमसामानि भवन्ति। हरस्यैवैतद् अग्निं वैश्वानरं प्रतिष्ठापयन्ति जै.ब्रा.॥१.१७०॥

      * इयं वै यज्ञायज्ञीयम्। अस्याम् एवैतत् प्रतितिष्ठन्ति। अप उपनिधाय स्तुवन्ति -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीयं -- तस्य शान्त्या अप्रदाहाय॥ ऊरुभ्यां पत्न्य् उपप्रवर्तयति। अग्निम् एव तद् वैश्वानरं शमयति। नग्नम् इवोरुं कृत्वोपप्रवर्तयति। नग्नम् इव ह्य् ऊरुं कृत्वा पत्नी वीर्यं करोति। तां संख्यापयन्ति रेतोधेयाय। तद् आहुर् आ वा एतत् प्रत्युद्गातुः प्रजां दत्ते यद् विगीते सामन् संख्यापयन्तीति जै.ब्रा. ॥१.१७३॥

      तद् आहुः प्रावृत उद्गायेत् -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीय - तस्य शान्त्या अप्रदाहायेति। ईश्वरो ह तु पितृदेवत्यो भवितोर् यत् प्रावृत उद्गायेत्। अथो आहुर् यावद् एव श्रोत्रं तावत् प्रावृत्योद्गायेद् इति। तद् उ वा आहुः कर्णाभ्यां वै शृणोत्य् अक्षिभ्यां पश्यति। तस्माद् आत्मानम् अन्तर्याद् यत् प्रावृत उद्गायेत्। अथो आशिरं वै तृतीये सवने ऽवनयन्ति। प्रजा वै पशव आशीः। तस्मात् सर्वस्माद् आत्मानम् अन्तर्यात् प्रावृत उद्गायेत्। अप्रावृत एवोद्गायेद् इति॥१.१७४॥

      ओ यिरा यिरा चा दाक्षासा इति यत् गिरा गिरा च इति ब्रूयाद् अग्निर् वैश्वानरो यजमानं गिरेत्। अथ यत् ओ यिरा यिरा चा दाक्षासा इत्य् आह - अन्नं वा इरा - अन्नाद्यम् एव तद् अग्नेर् वैश्वानरस्य मुखतो ऽपिदधाति। ईश्वरो ह तु रूक्षो भवितोर् यद् ओ यिरा यिरा चा दाक्षासा इति ब्रूयात्। ओ यिरा इहा चा दाक्षासा इत्य् एव ब्रूयात्॥१.१७५॥

      अथ वामदेव्यम्। स ह सा शांतिर् एव स्तोमः। आप एव ताः। यद् ध वा इमां पृथिवीम् अग्निर् वैश्वानरो ददाह तं हाद्भिर् एव शमयांचक्रुः। उभा उ ह वा एतौ वैश्वानरौ यन् निदाघश् च शिशिरश् च। तद् यद् अन्तरेण वर्षा व्यवहिताश् शान्त्या एव। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥ - जै.ब्रा. १.३१३

      अथो खल्व् आहुर् य एवायं वैश्वानरः प्रायणीयो ऽतिरात्रस् तेनैव यजेरन्न् इति। -जै.ब्रा. १.३४८

      तस्य यज्ञयज्ञा वो ऽग्नय इत्य् एता माध्यंदिनस्य पवमानस्य बृहत्यो भवन्ति। अग्ना उ वा एतं प्रास्यन्ति यम् अग्निष्टुता याजयन्ति। उत त्राता तनूनाम् इत्य् अग्नय एव तद् वैश्वानराय यजमानस् तन्वं परिदत्ते। - जै.ब्रा. २.१३७

      वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः॥२.३३५॥

      तत् त्व् एतस्य परिचक्षते यद् आरभमाणा एवं पृष्ठ्यं षडहम् आरभन्ते वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥ - जै.ब्रा. २.३३६

      वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥२.३३८॥

      प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं वैश्वानरं प्रायणीयम् अतिरात्रम् अपश्यत्। तस्माद् अहोरात्रे प्राजनयत्। अहोरात्रयोः प्रत्यतिष्ठत्। तद् यद् एष वैश्वानरः प्रायणीयो ऽतिरात्रो भवत्य् अहोरात्रे एवैतस्मात् प्रजनयन्त्य्, अहोरात्रयोः प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतस्माद् एव वैश्वानरात् प्रायणीयाद् अतिरात्रात् त्र्यहं निरमिमीत, अग्निष्टोमाद् एव ज्योतिर् निरमिमीत, उक्थ्येभ्यो गां, रात्र्या आयुः। - जै.ब्रा. २.३७५

      यद् ध वै वायुर् न पवेत प्रासाव् इदं तेजसा दहेद, अग्निर् वैश्वानरः प्रजा अददीत। वायव्या प्रतिपद् भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय। - जै.ब्रा. २.३८९

      तद् वैश्वानरीयासु भवति। वैश्वानरस्य ह्य् एतत् स्तोत्रम्। अशीत्यक्षरासु भवत्य् अश्नवामहा इति। समुद्र इवाक्षितम् इव ह खलु वा एतच् छन्दो यद् अतिच्छन्दास्, समुद्र इवाक्षितास् तुष्टुवाना असामेति। तत् पक्षि भवति। पक्षि ह्य् एतस्याह्नो व्रतम्। ए व्रतम् इत्य् आह - अन्नं वै व्रतम् - अन्नाद्यस्यैवावरुद्ध्यै। - जै.ब्रा. २.४१३

      दशाहेन वै प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा विषूचीर् विपरौप्यन्त। स एतौ वैश्वानराव् अतिरात्राव अपश्यत्। ताभ्याम् एना उभयतः पर्यगृह्णाद् अनेनेत उपरिष्टाद् अमुता। ता एताभ्याम् एवावारयत। यद् विश्वं भूतम् अवारयत तद् वैश्वानरयोर् वैश्वानरत्वम्। प्रजापतिर् एष यद् उद्गाता। स एतद् दशाहेनैव प्रजास् सृजते। ता एताभ्याम् एव वैश्वानराभ्यां वारयते ऽनेनेत उपरिष्टाद् अमुना प्रजानां धृत्या अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। प्राणो वै पूर्वो वैश्वानरो ऽपान उत्तरः। - जै.ब्रा. ३.८

      अग्निर् वा एष वैश्वानरो यत् पृष्ठ्यष् षडहः। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरो ऽग्निर् वैश्वानरः। सो ऽशान्त ईश्वरः प्रदग्धोः। तद् यद् वारवन्तीयं पृष्ठं भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय॥३.१५४॥

      अग्निर् वा एष वैश्वानरो यद् वारवन्तीयम्। आप उ रेवतयः। तद् यद् रेवतीषु वारवन्तीयं भवति, तस्माद् आपो ऽग्नियोनयः। - जै.ब्रा. ३.१५५

      तासु श्नौष्टम्। एतेन वा अग्निर् वैश्वानरो दीदाय। दीदयामेति सत्रम् आसते। दीदयन्त्य् एवैनम् एतेन। अथ ह वा अग्निर् वैश्वानर इत्थम् एवास यथेमे ऽङ्गाराः। सो ऽकामयत श्नुष्टयो मे जायेरन्न् अचर्यं(अर्चय?) इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै तस्य श्नुष्टयो ऽर्चयो ऽजायन्त। - जै.ब्रा. ३.१६५

      त्रयो वैश्वानरा अतिरात्रा द्वादशाहे कार्या इत्य् आहुः। प्राणः प्रथमो वैश्वानरो, ऽपानो द्वितीयो, व्यानस् तृतीयः। वाग् वा एषा प्रतता यद् द्वादशाहः। तां त्वयि विच्छिन्द्युः। तां हार्यलः काहोळिर् उपेयाय - त्रयनीका विजित्येति। तम् उ ह ब्राह्मण उवाचानुष्ठ्या प्राणान् उपागात्। वि वाचम् अछैत्सीद् इति। तस्य ह तत् कुलं व्य् एव चिच्छिदे। ज्योक् तु हैव जिजीव। तद् उ ह पश्चेवानुसंताययांचक्रे। मूर्धानं दिवो अरतिं पृथिव्या इत्य् एवंरूपेण वैश्वानरः कार्यः। तन् न वाचं विछिनत्ति, नाग्निं वैश्वानरम् अन्तरेतीति। प्र वश् शुक्राय भानवे भरध्वम् इति प्रवती कार्या। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। भूयांसि रूपाण्य् अपराध्यन्त। इतराण्य् एव भूयांसि रूपाणि। यन् मूर्धानं दिवो अरतिं पृथिव्या इत्य् आह द्यावापृथिवीयो वातिरात्रो ऽतिरात्र एवैतेन रूपेण क्रियते। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्निर् एव वैश्वानरः प्रत्यक्षं भवति। - जै.ब्रा. ३.१७७

      ते देवा अब्रुवन् यद् इमाव् असत्रम् अतिरात्राव्, अथ केनेमाव् अग्नेर् वैश्वानरस्य तन्वं व्येष्याम इति। ते ऽब्रुवन् या एव न इमा अन्त्या अयातयाम्न्यः परमा गुह्यास् तन्वस् ताभिर् व्ययामेति। मूर्धानं दिवो अरतिं पृथिव्या इति द्यावापृथिव्योर् अन्त्यायातयाम्नी परमा गुह्या तनूः। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्नेर् वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः। कविं सम्राजम् अतिथिं जनानाम् इतीन्द्रस्य सम्राड्वतीष्व अन्त्यायातयाम्नी परमा गुह्या तनूः। आसन्ना पात्रं जनयन्त देवा इति विश्वेषां देवानाम् अन्त्यायातयाम्नी परमा गुह्या तनूः॥३.१७८॥

      १.१.३ अनुवाक ३ अग्न्याधानम्

      VERSE: १ { १.१.३.१}

      उद्धन्ति । यद् एवास्या अमेध्यम् । तद् अपहन्ति । अपो ऽवोक्षति शान्त्यै । सिकता निवपति । एतद् वा अग्नेर् वैश्वानरस्य रूपम् । रूपेणैव वैश्वानरम् अवरुन्द्धे । ऊषान् निवपति । पुष्टिर् वा एषा प्रजननम् । यद् ऊषाः । - तै.ब्रा. १.१.३.१

      VERSE: २७ { १.२.१.२७}

      चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । इहैव सन् तत्र सतो वो अग्नयः । प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तम् आयुर् मा प्रहासीत् । ज्योतिषा वो वैश्वानरेणोपतिष्ठे । पञ्चधाग्नीन् व्यक्रामत् । विराट् सृष्टा प्रजापतेः । ऊर्ध्वाऽऽरोहद्रोहिणी । योनिर् अग्नेः प्रतिष्ठितिः । - तै.ब्रा. १.२.१.२७

      प्रयाजानूयाजेष्व् एव विभक्तीः कुर्यात् । यथापूर्वम् आज्यभागौ स्याताम् । एवं पत्नीसंयाजाः । - तै.ब्रा. १.२.१.२७



      VERSE: ७ { १.३.१.७}

      तद् वैश्वानरवत् प्रजननवत्तरम् उपैतीति । - तै.ब्रा. १.३.१.७

      VERSE: ३ { १.४.८.३}

      वैश्वानरो रश्मिभिर् मा पुनातु । वातः प्राणेन_इषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । - तै.ब्रा. १.४.८.३

      VERSE: ५ { १.५.१.५}

      वसूनाम्̐ श्रविष्ठाः । भूतं परस्ताद् भूतिर् अवस्तात् । इन्द्रस्य शतभिषक् । विश्वव्यचाः परस्ताद् विश्वक्षितिर् अवस्तात् । अजस्य_एकपदः पूर्वे प्रोष्ठपदाः । वैश्वानरं परस्ताद् वैश्वावसवम् अवस्तात् । - तै.ब्रा. १.५.१.५

      अनुवाक ५ चातुर्मास्यशेषाः वपनमन्त्राः

      VERSE: १ { १.५.५.१}

      ऋतम् एव परमेष्ठि । ऋतं न_अत्येति किं चन । ऋते समुद्र आहितः । ऋते भूमिर् इयम्̐ श्रिता । अग्निस् तिग्मेन शोचिषा । तप आक्रान्तम् उष्णिहा । शिरस् तपस्य् आहितम् । वैश्वानरस्य तेजसा । ऋतेन_अस्य निवर्तये । सत्येन परिवर्तये । - तै.ब्रा. १.५.५.१

      VERSE: ५ { २.१.४.५}

      द्विर् जुहोति । अथ क्व द्वे आहुती भवत इति । अग्नौ वैश्वानर इति ब्रूयात् । एष वा अग्निर् वैश्वानरः । यद् ब्राह्मणः । हुत्वा द्विः प्राश्नाति । अग्नाव् एव वैश्वानरे द्वे आहुती जुहोति । इयं वा उत्तान आङ्गीरसः । - तै.ब्रा. २.१.४.५



      VERSE: ४ { २.२.५.३१}

      अनया_एवैनत् प्रतिगृह्णाति । वैश्वानर्या_ऋचा रथं प्रतिगृह्णाति । वैश्वानरो वै देवतया रथः । - तै.ब्रा. २.२.५.४

      अजस्य तु नाश्नीयात् । यद् अजस्याश्नीयात् । याम् एवाग्नाव् आहुतिं जुहुयात् । ताम् अद्यात् । तस्माद् अजस्य न_आश्यम् । यद्य् अजां न विन्देत् । ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् । एष वा अग्निर् वैश्वानरः । यद् ब्राह्मणः । अग्नाव् एवास्याग्निहोत्रम्̐ हुतं भवति । तैब्रा. ३.७.३.२

      सावित्रचयनम् -- भूर् भुवः स्वः । ओजो बलम् । ब्रह्म क्षत्रम् । यशो महत् । सत्यं तपो नाम । रूपम् अमृतम् । चक्षुः श्रोत्रम् । मन आयुः । विश्वं यशो महः । समं तपो हरो भाः । जातवेदा यदि वा पावको ऽसि । वैश्वानरो यदि वा वैद्युतो ऽसि । - तै.ब्रा. ३.१०.५.१

      VERSE: १० { ३.१०.८.२२}

      आत्मा हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । पुनर् म आत्मा पुनर् आयुर् आगात् । पुनः प्राणः पुनर् आकूतम् आगात् । वैश्वानरो रश्मिभिर् वावृधानः । अन्तस् तिष्ठत्व् अमृतस्य गोपाः । तत् तृतीयं प्रास्यत् । - तै.ब्रा. ३.१०.८.१०



      VERSE: ७ { ३.११.८.४८}

      तद् अस्मै न_एवाच्छदयत् । तद् आत्मन्न् एव हृदय्ये ऽग्नौ वैश्वानरे प्रास्यत् । तद् अस्मा अच्छदयत् । तस्माद् धिरण्यं कनिष्ठं धनानाम् । - तै.ब्रा. ३.११.८.७

      <१.७.६> वैश्वानरः प्रत्नथा नाकमा रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्जन्तवे धनाः समानमय्मन् पर्येति जागृविः

      <४.६.२०> वैश्वानरमृत आजातमग्निमिति विषुवत एव तद्रूपं क्रियते

      <५.३.८> वारवन्तीयमग्निष्टोमसाम कार्यम्

      <५.३.९> अग्निर्वा इदं वैश्वानरोऽदहन्नैतस्माद्देवा अबिभयुस्तं वरणशाखयावारयन्त यदवारयन्त तस्माद्वारवन्तीयम्

      <८.६.११> वैश्वानरे वा एतदुद्गातात्मानं प्रदधाति यत् प्रप्र वयमित्याह प्रप्रीं वयमिति वक्तव्यंव्वैश्वानरमेव परिक्रामति

      <८.७.४> कथमिव यज्ञायज्ञीयं गेयमित्याहुर्यथानड्वान् प्रस्रावयमाण इत्थमिव चेत्थमिव चेति

      <८.७.५> वैश्वानरं वा एतदुद्गातानु प्रसीदन्नेतीत्याहुर्यद्यज्ञायज्ञीयस्यर्चं संप्रत्याहेति परिक्रामतेवोद्गेयंव्वैश्वानरमेव परिक्रामति

      <८.७.६> वैश्वानरे वा एतदध्वर्युः सदस्यानभिसृजति यद्यज्ञायज्ञीयस्य स्तोत्रमुपावर्तयति प्रावृतेनोद्गेयंव्वैश्वानरेणानभिदाहाय

      <८.७.७> न ह तु वै पितरः प्रावृतं जानन्ति यज्ञायज्ञीयस्य वै स्तोत्रे पितरो यथायथं जिज्ञासन्त आकर्णाभ्यां प्रावृत्यं तदेव प्रावृतं तदप्रावृतं जानन्ति पितरो न वैश्वानरो हिनस्ति

      <८.७.८> अपः पश्चात् पत्न्य उपसृजन्ति वैश्वानरमेव तच्छमयन्त्यापो हि शान्तिः

      <८.७.९> अथो रेत एव तत् सिञ्चन्त्यापो हि रेतः

      <१४.२.३> "वैश्वानरमृत आजातमग्निम्"इति वैश्वानर इति वा अग्नेः प्रियं धाम प्रियेणैवैनं तद्धाम्ना परोक्षमुपशिक्षति

      <२१.२.९> अग्नेर्वा एतानि वैश्वानरस्य सामानि यत्र वा एतैरशान्तैः स्तुवन्ति तत् प्रजा देवो घातुको भवत्यग्निमुपनिधाय स्तुवते स्वाया एव तद्देवतायाः साम्येक्षाय नमस्कृत्योद्गायति शान्तैस्स्तुवन्ति

      <२१.१०.११> अग्ने वेर्होत्र वेरध्वरमापितरं वैश्वानरमवसेऽकरिन्द्राय देवेभ्यो जुहुता हविः स्वाहा

      अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते । यद्दक्षिणं यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते ॥ १.६ ॥ स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ १.७ ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ १.८ ॥- प्रश्नोपनिषद

      सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ _२ ॥ जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ _३ ॥ - माण्डूक्योपनिषद

      जागरितस्थानो वैश्वानरः अकारः प्रथमा मात्राप्तेरादिमत्त्वाद्वा । आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ _९ ॥ - माणडूक्योपनिषद

      यः पुरुषः सो ऽग्निर्वैश्वानरः – मैत्रायणी उप. २.६

      विश्वोऽसि वैश्वानरो ऽसि – मैत्रायणी उप. ६.९

      अहं वैश्वानरो भूत्वा – गीता १५.१४

      अग्नेर्वैश्वानरस्य सामनी द्वे

      (३६४।१) . ॥ अग्नेर्वैश्वानरस्य सामनी द्वे । द्वयोरग्निरनुष्टुबग्निरिन्द्रो वैश्वानरो वा ॥
      विश्वानरा ॥ स्यवाऽ२स्पातीऽ२म् । आनानत । स्यशावाऽ१साऽ२ः । एवैश्चा । चर्षणाऽ२इनाम् । ऊऽ२ती । हुवाइर। थाऽ२३४नोऽ६हाइ ॥
      (दी० ४ । प० ९ । मा० ६ )२६ (धू ६१९)

      (३६४।२) विश्वाऽ३४ । नरस्यवौ । होस्पातीम् ॥ अनानताऽ३ । स्याशावाऽ२३४साः । एवैश्चा । चर्षणाऽ२३४इनाम् ।। ऊतीहुवाइर॥ थाऽ२३४नोऽ६हाइ॥
      (दी० ६ । प० ९ । मा०६ )२७ (घू । ६२०)



      (५१४।२) अग्नेर्वैश्वानरस्य साम । अग्निर्बृहती सोमः ।।
      प्रसोमदेववी । तयोऽ२३४हाइ॥ सिन्धुर्नपिप्येअ । णसोऽ२३४हाइ । आꣳशाओऽ२३४वा। पायाओs२३४वा।। सामदिरोनजा। गॄऽ२३४। वीऽ६र्हाइ ॥ आच्छाओऽ२३४वा । कोशाओऽ२३४वा । मधूऽ५श्चुताम् । होऽ५६ ॥ डा॥