स्तम्भ
पादौ पादशिला प्रोक्ता जंघा पादोर्ध्वमुच्यते ।।५२
गर्भश्चैवोदरं ज्ञेयं कटिश्च कटिमेखला ।
स्तंभाश्च बाहवो बोध्या घण्टा जिह्वा प्रकीर्तिता ।।
दीपः प्राणो अस्य विज्ञेयो ह्यपानो जलनिर्गमः ।
ब्रह्मस्थानं नाभिरस्य हृत्पद्मं पिण्डिका मता ।।
प्रतिमा पुरुषः सोऽयं पादस्त्वहंकरस्तथा ।
ज्योतिश्चक्षुस्तदूर्ध्वं च प्रकृतिस्तस्य कीर्तिता ।।
प्रतिमाऽऽत्मा नलकुंभादधोद्वारं तु शिश्नकम् ।
शुकनासा नासिका अस्य गवाक्षः कर्ण उच्यते ।
कपोतपालिः स्कन्धो अस्य ग्रीवा चामलसारकः ।
कलशस्तु शिरो ज्ञेयं मज्जाक्षिप्तरसं हितम् ।।
मेदं तु वसुधां विद्यात् प्रलेपो मांसम् उच्यते ।
अस्थीनि च शिलास्तस्य स्नायुः कीलादयः स्मृताः ।।
चक्षुषी शिखरास्तस्य ध्वजाः केशाः प्रकीर्तिताः ।
एवं नरस्वरूपं संध्यायेत्प्रासादकं मखी ।। - लक्ष्मीनारायण संहिता २.१५८.५२