॥ घण्टाकर्ण मन्त्रस्तोत्राणि ॥
(१) श्री घंण्टाकर्णमहावीर मूलमहामन्त्र
ॐ आँ क्रौं ह्रीं द्राँ द्रीं क्षाङ्क्षी हूं क्षौं क्ष
घण्टाकर्णमहावीरक्षेत्रपालाय नमः ।
ममोपरि प्रसन्नो भव, प्रत्यक्ष दर्शनं देहि, वाञ्छितं पूरय
पूरय स्वाहा मन्त्रान्यासाः ॐ ही घण्टाकर्णमहावीर मे सर्वाङ्ग रक्ष,
ही हृदयं रक्ष, की हस्तं रक्ष, ब्लूँ मूलाधारं रक्ष, हाँ
हस्तं रक्ष, की उदरं रक्ष, वाँ पादौ रक्ष, श्री नाभि रक्ष,
ज्ञौ बुद्धि रक्ष, ॐ घण्टाकर्णमहावीर नमोडस्तु ते स्वाहा ।
आहवानमन्त्रं ॐ ही घण्टाकर्णमहावीर अस्यां मूत्त्याँ आगच्छ तिष्ठ
२ सर्ववि श्व लोकहितं कुरु २ पूजां बलिं गृहाण २ धूपं नैवेद्यं
पुष्पं दीपं नैवेद्यं गृहाण २ स्वाहा ।
(२) ॐ घण्टाकर्णमहावीरमूलमहामन्त्र
ॐ क्रौं ह्रीँ श्री महावीर, घण्टाकर्ण महाबली ।
महारोगान् भयान् घोरान्, नाशय नाशय द्रुत्वम् ॥ १ ॥
सादिकं विषं शीघ्रं, जहि जहि विनाशय ।
शाकिनीभूतवैतालान्, राक्षसांश्च निवारय ॥ २ ॥
त्वन्नाममन्त्रजापेन, त्वन्मन्त्र श्रवणेन च ।
भूपभीतिर्महामारी, शीघ्रं नश्यतु मे ध्रुवम् ॥ ३ ॥
यन्त्रस्थ मन्त्ररुपेण, यत्र त्वं तिष्ठसि ध्रुवम् ।
तत्र शान्ति च तुष्टिं च पुष्टिं कुरुष्व मङ्गलम् ॥ ४ ॥
(३) घण्टाकर्णमहावीरमूलमन्त्र
ॐ घण्टाकर्णमहावीर ! सर्वव्याधि विनाशक ।
अकालमृत्युतो रक्ष, संरक्ष मे महाबल ! ॥ १ ॥
स्वेष्टसिद्धिं कुरु व्यत्का, साहाय्यं मे सदा कुरु ।
शान्ति तुष्टिं च पुष्टिं च, जयं मे विजयं कुरु ॥ २ ॥
प्रत्यक्षीभूय मदभक्तवा, दर्शनं देही मे द्रुतम् ।
सर्वदुःखविनाशेन, सुखं कुरु हि मे सदा ॥ ३ ॥
घोरविपत्तितो रक्ष, धर्मबुद्धिं प्रकाशय ।
सिद्धमन्त्रस्य सिद्धि हि,
ॐ ह्रीं घण्टाकर्णनमोऽस्तु ते ठ ः ः ठ ः स्वाहा ॥ ४ ॥
(४) श्री घण्टाकर्णमन्त्र
ॐ घण्टाकर्णमहावीर ! सर्वव्याधिविनाशक ! ।
विसिफोटकभयं घोरं, (प्राप्ते) रक्ष रक्ष महाबल ! ॥ १ ॥
यत्र त्वन्तिष्ठसि देव ! लिखितोऽक्षर पङ्क्तिभिः ।
रोगास्तत्र प्राणश्यन्ति, वातपित्तकफोद्भवा ॥ २ ॥
तत्र राजभयं नास्ति, यान्ति कर्णे जपात् क्षयम् ।
शाकनीभूतवैताला-राक्षसाः प्रभवन्ति न ॥ ३ ॥
नाऽकाले मरणं तस्य, न च सर्पण दश्यते ।
अग्नि चोर भयं नास्ति, ही घण्टाकर्णनमोस्तु ते ठः ठः
ठःस्वाहा ॥ ४ ॥
(५) श्री घंण्टाकर्ण महावीरमन्त्र
ॐ ह्रीँ श्रीँ की महावीर, घण्टाकर्ण महाबल ।
सर्वोपद्रवतो रक्ष, दुष्टान् शत्रुन निवारय ॥ १ ॥
शान्ति तुष्टिं च पुष्टि च, धनवृद्धिं जयं कुरु ।
दर्शनं देहि प्रत्यक्ष, संरक्ष सर्वसङ्कटात् ॥ २ ॥
रणे वने समुद्रे च, रक्ष संरक्ष मे द्रुतम् ।
अग्निचोरादितो रक्ष, त्वज्ञामन्त्रजापतः ॥ ३ ॥
त्वनाममन्त्रामात्रेण, स्वेष्टसिद्धि ः प्रजायताम् ।
ॐ क्रौं की ही महावीरघण्टाकर्णनमोस्तु ते ठः ठः ठः
स्वाहा ॥ ४ ॥
घण्टाकर्णमहावीरमन्त्रस्तोत्र
ॐ ह्रीं श्रीं की महावीर, घण्टाकर्ण महाबल ।
आधिं व्याधि विपत्तिं च, महाभीतिं विनाशय ॥ १ ॥
नाममन्तोऽस्ति ते सिद्धः, सर्वमङ्गलकारकः ।
इष्टसिद्धिं, महासिद्धिं, जयं लक्ष्मी विवर्द्रय ॥ २ ॥
त्वच्छूद्धाभक्तियोगेन, भवन्तु सर्वशक्तयः ।
पराभवन्तु दुष्टाश्च, शत्रवो वैरीदुर्जनाः ॥ ३ ॥
आपत्कालेषु मां रक्ष, मम बुद्धिं प्रकाशय ।
सर्वोपद्रवतो रक्ष, घोररोगान् विनाशय ॥ ४ ॥
इष्टकार्याणि सिद्धयन्तु, तव भक्तिप्रतापत ।
राज्यं रक्ष धनं रक्ष, रक्ष देहम्बलादिकम् ॥ ५ ॥
घोरोपसर्गतो रक्ष, रक्ष वह्निभयादितः ।
बने रणे गृहे ग्रामे, रक्ष राज्यसभादिषु ॥ ६ ॥
दुष्टभूपादितो रक्ष, रक्ष सिंहारिसर्पतः ।
दैवीसङ्कटतो रक्ष, चाकस्मिकविपत्तित ॥ ७ ॥
शाकिनीभूतवैतालान्, राक्षसांश्च निवारय ।
नवग्रहादिजां पीडां, शीघ्रं नाशय नाशय ॥ ८ ॥
चतुर्थादिज्वरं मारी, द्रतुं सर्पविषं हर ।
अलर्कस्य विषं शीघ्रं, शृङ्गालविषमाहर ॥ ९ ॥
वृश्चिकादिविषं तीव्र, जहि जहि निवारय ।
आकस्मिकविपत्तौ च, सहाय्यं कुरु सर्वदा ॥ १० ॥
प्रत्यक्ष दर्शनं देहि, मच्छ्रद्धा प्रीतिभक्तितः ।
विद्यां देहि धनं देहि, देहि पुत्रं च पुत्रिकाम् ॥ ११ ॥
कीर्ति देहि यशो देहि, प्रतिष्ठां देहि च स्त्रियम् ।
सर्व मे वांञ्छितं देहि, सुखं शान्तिं प्रदेहि मे ॥ १२ ॥
देहऽऽरोग्यं च मे देहि, दुष्टशत्रून् पराजय ।
ग्रन्थिज्वरं महामारी, शमय शमय द्रुतम् ॥ १३ ॥
घण्टाकर्ण महावीर ! सर्ववीरशिरोमणे ! ।
घातकेभ्यश्च मां रक्ष, रात्रौ दिवा च सर्वदा ॥ १४ ॥
अपमृत्योः प्रयोगेण, नाशतो रक्ष मे सदा ।
मुष्ठितो रक्ष देवेश ! कुरु वीरं महाबल ! ॥ १५ ॥
घण्टाकर्णमहावीर ! सर्वशक्ति प्रदेहि मे ।
आपत्कालेषु रक्षां मे, कुरुष्व कीर्तिरक्षणम् ॥ १६ ॥
कुरुष्व मम सानिध्यं, सर्वदा सर्वशक्तितः ।
चतुर्विधस्य सङ्घस्य, रक्षणं सर्वथा ॥ १७ ॥
ॐ ह्रीँ श्री की महावीर ! घण्टाकर्ण महाबल ।
कुरु शान्तिं तुष्टिं च पुष्टिं च, कुरु स्वाहा महाश्रियम् ॥ १८ ॥
घण्टाकर्ण महावीर ! सर्वसङ्घहितं कुरु ।
देशे राज्ये च खण्डेषु, सुखं शान्तिं कुरु द्रुतम् ॥ १९ ॥
त्वत्रामाक्षरमन्त्रस्य, यन्त्ररुपेण तिष्ठसि ।
तत्र शान्ति महातुष्टिः, पुष्टिश्च जायते ध्रुवम् ॥ २० ॥
देशे राज्ये पुरे सङ्घे, सर्वजातिप्रजागणे ।
पशुपक्षीगणे शान्ति, कुरु मारी हर द्रुतम् ॥ २१ ॥
सूरिवाचकसाधूनां, ब्राह्मणानां शिवम् ।
क्षत्रियांणां च शूद्राणां, शान्तिं कुरुष्व सत्वरम् ॥ २२ ॥
ॐ क्रौँ द्रौँ द्री महावीर, घण्टाकर्ण शिवं कुरु ।
स्फोटकादिमहारोगान् नाशय भक्तदेहिनाम् ॥ २३ ॥
एँ झौं स्त्रौं ह्रीं महावीर, घण्टाकर्ण ! महाबल ! ।
विद्यां देहि बलं देहि, शुद्धबुद्धिं प्रदेहि मे ॥ २४ ॥
ग्रन्थिलत्वं चित्तस्थं, दूरं कुरुष्य शक्तिमन् ।
शुद्धज्ञानप्रदानेन, मोक्षमार्ग प्रदर्शय ॥ २५ ॥
एँ झौं स्त्रो ह्रीं महावीर, घण्टाकर्णमहाबल ! ।
भूतादिदोषनाशेन, शुद्धबुद्धिं विवय ॥ २६ ॥
वातपित्तकफोद्भूतान, सर्वरोगान् विनाशय ।
सात्त्विकोपकृतिं कुयाः-ॐ ह्रीं स्वाहा नमोऽस्तु ते ॥ २७ ॥
योगिनीवीरवैताल, -पिशाचभूतमुद्गलाः ।
त्वन्मन्त्रजापतो दुरी-भवन्तु मे सुखं कुरु ॥ २८ ॥
ॐ हाँ ही ब्लूं महावीर, घण्टाकर्ण नमोऽस्तु ते ।
पादोरुहस्तशीर्षाणि, रक्ष स्वाहा शुभं कुरु ॥ २९ ॥
कुरुष्व मे हितं सर्व, स्थित्वा मे हदि भक्तितः ।
गुर्वादिदत्तशापानां, नाशं कुरु नमोऽस्तु ते ॥ ३० ॥
ॐ ह्रीँ श्रीँ की महावीर, घण्टाकर्ण नमोऽस्तु ते ।
प्रत्यक्ष दर्शनं दत्वा, वाञ्छितं मे प्रसाधय ॥ ३१ ॥
सत्यं दर्शय मे शीघ्रं, वीर्यशक्ति प्रवर्द्धय ।
त्वन्मन्त्रसिद्धयः स्युर्मे, ध्रुवं सत्वं हितं कुरु ॥ ३२ ॥
मनोवाक्काययोगानामारोग्यं च प्रवर्द्धय ।
प्रसन्नः स्याः मयि प्रीत्या, शुभं कुरुष्व मे सदा ॥ ३३ ॥
प्रतिष्ठां रक्ष कान्तिं मे, मम पार्श्वे स्थितिं कुरु ।
घण्टाकर्ण महावीर, वश्यान् कुरुष्व मानवान् ॥ ३४ ॥
घण्टाकर्ण महावीर, वचःसिद्धिं प्रदेहि मे ।
संरक्ष सर्वतो देव ! स्यास्त्वं सहायको महान् ॥ ३५ ॥
सर्वस्थानेषु मां रक्ष, भव धर्मे सहायकः ।
वादे विवादे युद्धे च, जयं मे कुरु सर्वतः ॥ ३६ ॥
मङ्गलानि कुरु स्पष्टं, सर्वकर्मसु मे ध्रुवम् ।
मां रक्ष शत्रुलोकेभ्यो-दुष्टान् नाशय वेगतः ॥ ३७ ॥
आत्मनः शुद्धिकार्यार्थ, साहाय्यं मे कुरु द्रुतम् ।
चिदानन्दस्वरुपं मे, कृपां कृत्वा विकासय ॥ ३८ ॥
क्षा क्षीं विश्वजीवहितार्थ च, सर्व शक्तिप्रकाशने ।
धर्मकार्ये सहायत्वं, देहि मङ्क्षु कृपापरः ॥ ३९ ॥
क्षेत्रपाल ! महावीर ! घण्टाकर्ण महाबल ! ।
शत्रुन् स्तम्भय वेगेन, त्रासय भापय द्रुतम् ॥ ४० ॥
घण्टाकर्ण महावीर ! क्षेत्रपालमहाबल ।
क्षेत्रं ग्रामं पुरं रक्ष, सङ्घं च मे द्रुतम् ॥ ४१ ॥
ॐ क्षा क्षी हुँ महावीर, मैं क्षौँ क्षः सर्वशत्किमन् ।
घण्टाकर्ण घृति कीर्ति, कान्तिं ज्ञानं प्रदेहि मे ॥ ४२ ॥
ग्रन्थिज्वरं महामारी, शमय त्व बलाद, ध्रुवम् ।
ग्रामपुरस्थलोकानां, पशूनां रक्षणं कुरु ॥ ४३ ॥
आकर्षय प्रियान् शीघ्रं, मत् प्रियाणां कुरु प्रियम् ।
सर्वकार्यसहायी त्वं, भव शत्रुश्च दण्ड्य ॥ ४४ ॥
त्वच्छकूत्या रक्ष मे शीघ्रमारोग्यं देहि सत्वरम् ।
स्वेष्टाश्च सिद्धयः सन्तु, लक्ष्मीवृद्धिं कुरुष्व मे ॥ ४५ ॥
ॐ घण्टाकर्ण महावीर ! धनमृद्धिं प्रवर्द्धय ।
राज्यं च राज्यमानं च, बलं बुद्धिं प्रवर्द्धय ॥ ४६ ॥
जयं च विजयं देहि, देहि मे सर्व मङ्गलम् ।
शान्ति तुष्टिं तथा पुष्टिमारोग्यं देहि वैभवम् ॥ ४७ ॥
सर्वर्थोत्रतिकारकोऽस्तु, मद्रक्षां कुरु सर्वदा ।
यत्र तत्र स्थितं रक्ष, मम सर्व प्रियं कुरु ॥ ४८ ॥
सहायं कुरु सर्वत्र, वाञ्छितं देहि सम्पदम् ।
शिवं क्षेमं च योगं च, रक्ष यन्त्रस्थितो ध्रुवम् ॥ ४९ ॥
मत्प्रियं कुरु घण्टाकर्ण महावीर ! सर्ववीर ! महाबल ! ।
गर्मस्थ बालकं रक्ष, रोगेभ्यो रक्ष बालकान् ॥ ५० ॥
पुत्रं च पुत्रिकां देहि , देहि वितं बलं स्त्रियम् ।
दीर्घायुर्जीवनं देहि, देहि मे वाञ्छितं फलम् ॥ ५१ ॥
धीश्रीशान्तिश्रियं देहि, देहि ब्रह्मबलं महत् ।
सर्वोत्रतिपदं देहि, सर्वदा ॥ ५२ ॥
त्वच्छकूत्या मे ध्रुवं सिद्धि, भूयान्मद्भक्तिशक्तितः ।
ॐ ह्रीं श्रीं क्रीं महावीर, साहाय्य मे कुरु ध्रुवम् ॥ ५३ ॥
ॐ श्रीं क्रौं महावीर, घण्टाकर्ण ! महाबल ।
वाञ्छितं देहि शीघ्रं, सर्वशक्ति प्रदेहि मे ॥ ५४ ॥
घण्टाकर्ण महावीर, मन्त्रयन्त्र प्रभावतः ।
वाञ्छितं सर्वलोकानां, भवत्येव न संशयः ॥ ५५ ॥
पुत्रार्थी लभते पुत्रं, धनार्थी लभते धनम् ।
विधार्थी लभते विद्यां, दारार्थी लभते स्त्रियम् ॥ ५६ ॥
यादशी यस्य वाज्छाऽस्ति, तस्य तादक् फलं भवेत् ।
घण्टाकर्ण महावीर-मन्त्राराधनतो ध्रुवम् ॥ ५७ ॥
पञ्चामृतस्य होमेन, गुग्गुलाद्यैश्च होमतः ।
गुर्वाज्ञाऽनुभवेनैव, मन्त्रसिद्धिर्भवेद ध्रुवम् ॥ ५८ ॥
जैनशासनवीरोऽस्ति, सम्यग्दष्टिर्महाबलः ।
चतुर्विधस्य सङ्घस्य, वृद्धिकर्ता शुभङ्करः ॥ ५९ ॥
घण्टाकर्णमहावीरो-जयताजगती तले ।
अधिष्टायकदेवोऽस्ति, जैनधर्मस्य धर्मिणाम् ॥ ६० ॥
त्वन्मन्त्रयोगेन, कलौ सर्वत्र देहिनाम ।
भविष्यति सदा स्वेष्ट-कार्यसिद्धिफलं ध्रुवम् ॥ ६१ ॥
कलौ जाग्रत्यभावस्त्वं, सङ्घरक्षां कारिष्यसि ।
घण्टाकर्ण महावीर ! , कुरुष्व सुखमङ्गलम् ॥ ६२ ॥
घण्टाकर्ण महावीर, मन्त्रश्रवणपाठतः ।
शान्ति तुष्टिं च पुष्टिं सत्-सुखं कुरुष्व मङ्गलम् ॥ ६३ ॥
घण्टाकर्ण महावीर, मन्त्रयन्त्रप्रभावतः ।
श्रोतृणां वाचकानां च, गृहे भवतु मङ्गलम् ॥ ६४ ॥
घण्टाकर्ण महावीर, मन्त्रमष्टोतरं शतम् ।
यः पठेच्छ्रद्धया नित्यं, तस्येष्टं मङ्गलं भवेत् ॥ ६५ ॥
मन्त्ररहस्यं पात्रेभ्यो, ध्रुवं देयं परीक्षया ।
गुर्वाशिषा हि भक्तानां, मन्त्रसिद्धिश्च मङ्गलम् ॥ ६६ ॥
हरिभद्रसूरेः शिष्यो, जैनधर्माभिवृद्धये ।
घण्टाकर्ण महावीरमुपास्त गुरुबोधतः ॥ ६७ ॥
ततः प्रवृत्तिस्तस्यासी-त्सम्यक्तवधारिणे जने ।
प्रतिष्ठाकल्पे आचख्ये, गणिना सकलेन्दुना ॥ ६८ ॥
ततो विमलचन्द्रेण, कल्पोऽयं रुयातिभाककृतः ।
स्मरणात्पठनाचास्य, भवन्तु सुखिनो जनाः ॥ ६९ ॥
आह्वानं नैव जानामि न जानामि, विसर्जनम् ।
केवलं जपतः सिद्धि-र्जायतां मे तवोत्तमा ॥ ७० ॥
मात्राहीनं क्रियाहीनं वर्णहीन विलोमतः ।
पठितं ज्ञानहीनं यत्, तत्क्षमस्व सुरोत्तम ! ॥ ७१ ॥
ॐ शान्तिः शान्तिः शान्तिः
गुरुगुण-स्तुति
(१)
आत्मध्यानपरायणं निजगुणान्, संशोधयन्तं सदा,
ज्ञानानन्दमहालयं श्रितजन, क्षेमकरं शङ्करम् ।
हे याहे य विवे करन्त जलधिं, सत्यव्र त क्षेत्रकं ,
सूरिश्रीवृत्त बुद्धिसागरमुनि, वन्दे सदा योगिनम् ॥
(२)
विद्यारन्च महोदधिं मुनिवरं निर्मान मोहक्रम,
योगक्षेम समानतां विदधत, स्वच्छक्रिये मानसे,
जिज्ञासुश्रमशोषिणं, नयवचः पीयुषसंसेचनात्,
सूरिश्रीवृत्त बुद्धिसागरमुनि वन्दे सदा योगिनं
प्रिर्मातारमनेक शासनविधि बत्कारमन्यप्रियं,
दातारं सुखसम्पदा प्रतिदिनं, हारमजेमताम् ।
त्रातारं विषमस्थिति प्रतिहतान् जेतारय
सूरिश्रीवृत बुद्धिसागरमुनि वन्दे सदा योगिनम् ।
(४)
यत्पादाम्बुजदर्शनेन विपदो, नश्यन्ति भव्यात्मनाम्,
सम्पत्तिश्च सभुनति कलयति क्षोयाङ्कुराम्बुप्रदा,
किर्तिर्दिक्षुदशस्वपि प्रतिदिनं, व्याप्नोत्यकालोद्नमा
सूरिश्रीवृत बुद्धिसागर मुनिं वन्दे सदायोगिनम् ।
% Text title : ghaNTAkarNa mahAvIra stotrANi
% File name : ghaNTAkarNa.itx
% itxtitle : ghaNTAkarNa mahAvIra stotrANi
% engtitle : ghaNTAkarNa mahAvIra stotrANi
% Category : deities_misc, jaina
% Location : doc_deities_misc
% Sublocation : deities_misc
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : From Shri Ghantakarna Mahavira Deva, ShriMahudi Jain shvetambara murtipujak trust, mahudi(madhupurI), tal. Vijapur
% Indexextra : NONE
% Acknowledge-Permission:
% Latest update : April 24, 2021
% Send corrections to : (sanskrit at cheerful dot c om)
% Site access : https://sanskritdocuments.org
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From http://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .