॥ दत्तात्रेयकल्पः ॥
॥ दत्तात्रेयकल्पः ॥
॥ दत्तात्रेयः ॥
साधकः प्रातरुत्थाय कृतशौचक्रियस्स्मरेत् ।
आत्रेयं ब्रह्मरन्ध्रस्थं द्विभुजं गुरुरूपिणम् ॥ १ ॥
ओङ्कारं प्रत्यगात्मानं परब्रह्म स्वरूपिणम् ।
परमात्मान मव्यक्तं दत्तात्रेयं स्मराम्यहम् ॥ २ ॥
अन्सूयात्मजं चन्द्रानुजं दूर्वाससोऽग्रजम् ।
नारायणं महाविष्णुं दत्तात्रेयं नमाम्यहम् ॥ ३ ॥
महादेवं त्रिनयनं भस्मोद्धूळितविग्रहम् ।
चिन्मुद्रितकराम्भोजं दत्तात्रेयं भजाम्यहम् ॥ ४ ॥
त्रिमूर्तिं त्रिगुणं त्र्यर्णं त्रिशक्तिं त्रिस्वरं त्रिकम् ।
त्रिकोणान्तर्बिन्दुरूपं दत्तात्रेयं बजाम्यहम् ॥ ५ ॥
बिन्दु त्रिकोणषट्कोणं दत्तात्रेयस्वरूपकम् ।
सह्यशायिन मात्रेय मवधूतं नमाम्यहम् ॥ ६ ॥
॥ श्रीदत्तात्रेय मन्त्रक्रमः ॥
चिन्मुद्रितकराम्भोजं भस्मोधूळितविग्रहम् ।
त्रिकोणान्तर्बिन्दुरूपं दत्तात्रेयं भजाम्यहम् ॥ १ ॥
अनसूयात्मजं चन्द्रानुजं दूर्वाससोऽग्रजम् ।
दत्तात्रेय महं वन्दे योगमुद्राविराजितम् ॥ २ ॥
विष्णोरंशावतारं च श्रीदत्तं स्मर्तृगामिनम् ।
श्रीदत्तं योगिनं वन्दे ह्यवधूतस्वरूपिणम् ॥ ३ ॥
नित्यं गङ्गाम्भसि स्नानं भिक्षा च कमलालये ।
मातुलिङ्गपुरे निद्रा स्मृतस्सन्निधिकृत्सदा ॥ ४ ॥
हृदयं प्रजपेदादौ पूर्वमालां पठेत्ततः ।
पूर्ववर्म च सञ्जप्य दत्तात्रेयस्य योगिनः ॥ ५ ॥
दत्तात्रेयमनुमान् जप्त्वा हृदयमुत्तरं पठेत् ।
पठे दुत्तरमालां च कवचं पञ्जरं ततः ॥ ६ ॥
उपनिषद्वयं पश्चान्नाम्नां सहस्रकं पठेत् ।
नाम्नामष्टोत्तरशतं पठेद्दत्तस्य योगिनः ॥ ७ ॥
स्तवराजं पठेत्पश्चादपराध स्तवं पठेत् ।
षडङ्गं च पुनर्न्यस्य ध्यात्वा देवं सुसाधकः ॥ ८ ॥
आत्मन्युद्वास्य योगीशं स्वात्मानं तन्मयं स्मरेत् ।
एवं साङ्गं मनुक्रमं नित्यमावर्तयेत्सुधीः ॥ ९ ॥
॥ दशाक्षरो दत्तात्रेयः ॥
ॐ आं ह्रीं क्रों ऐं क्लीं सौः श्रीग्लौं द्रां विद्या दशाक्षरी ।
दत्तात्रेयात्मविद्याया दत्तात्रेयोऽह मस्मिऋषि ॥ १ ॥
विराट्छन्दोह मोङ्कारो दत्तात्रेयोऽस्मिदेवता
पाशो बीजं मायाशक्ति रङ्कुशं कीलकं स्मृतम् ॥ २ ॥
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ।
वागीश्वरी कामराज्ङी पराश्रीभूमितारकैः ॥ ३ ॥
पञ्चाङ्गुळी करतलकरपृष्ठसमन्वितः
चतुर्थी द्विवचनान्तः करन्यासोऽय मीरितः ॥ ४ ॥
हृदय शिरः शिखा स नेत्रपाणितलान्वितः
अङ्गन्यास श्चतुर्थ्यन्तः षट्पल्लवषडक्षरः ॥ ५ ॥
बिन्दु त्रिकोण षट्कोन मथर्वणरहस्यकम् ।
ब्रह्मरन्ध्रादिपादान्तं शरीरं यन्त्ररूपकम् ॥ ६ ॥
दत्तात्रेयो बिन्दुरूपो ब्रह्मरन्ध्रस्थितोऽस्म्यहम् ।
द्विरावरणसंयुक्तः शीर्षादिचरणान्तकः ॥ ७ ॥
ब्रह्मरन्ध्रादिपादान्तो विद्यया व्यापक स्मृतः ।
भूर्भुवस्सुवरोमिति दिग्बन्धः स्मृतो नाराचमुद्रया ॥ ८ ॥
सर्वोत्तमाङ्गं कचवर्गबाहुं
पवर्गमध्यं टतवर्गपादम् ।
अन्तस्थचित्तं च हळक्ष मूष्मजीव
मादत्तमात्रेय महं नमामि ॥ ९ ॥
दर्शनीयाऽस्य चिन्मुद्रा चिन्मुद्रा विद्या दशाक्षरी ।
उत्तमं मानसं जप्यं पञ्चाशद्वर्णमालया ॥ १० ॥
षट्पञ्चाशदहर्मानं मण्डलं समुदीरितम् ।
जप्याथ लक्षगुणिता रहस्या साधकोत्तमैः ॥ ११ ॥
तद्दशांशेन कर्तव्य मयुतं क्षीर तर्पणम् ।
श्रीगन्ध बिल्व तुलसी दूर्वाङ्कुर यवान्वितम् ॥ १२ ॥
सहस्रहवनं प्रोक्तं शम्यश्वत्थपलाशकम् ।
परमान्न फलाज्यादि होमद्रव्य मुदीरितम् ॥ १३ ॥
कर्तव्यं षड्रसोपेतं शतं ब्राह्मणभोजनम् ।
दशाक्षरी महाविद्यासिद्धि स्यान्नात्र संशयः ॥ १४ ॥
॥ दत्तात्रेय गायत्री ॥
दत्तात्रेयाय विद्महेः । गायत्रीशाय धीमहि । तन्नो गुरुः प्रचोदयात् ॥ १ ॥
ऋषिश्चाहं देवता चाहं छन्दोगायत्रमीरितम् ।
स्मृतः कराङ्गविन्यासो गायत्रीषड्विभागकैः ॥ २ ॥
दत्तात्रेयं त्रिमूर्तिं हृदयमय महापद्मयन्त्राधिरूढम् ।
शङ्खं चक्रं त्रिशूलं डमरुकलशा वक्षमालात्तमुद्राम् ।
षड्भिर्दोर्भिर्दधानं स्फटिकमणिनिभं षड्जटाबद्धमौळिम् ।
सर्वालङ्कारयुक्तं भजत मधुमती मोक्षलक्ष्मीसमेतम् ॥ ३ ॥
॥ दत्तात्रेयस्याष्टविधामन्त्राः ॥
द्वादशाक्षरमन्त्रस्य प्राक्पश्चात्षोडशाक्षरः ।
षडक्षरमनुः पश्चात्तत एकाक्षरो मनुः ॥ १ ॥
अष्टाक्षरमनुः पश्चाद्विंशत्यर्ण मनुस्ततः ।
अनुष्टुभमनुः पश्चान्मालामन्त्र स्ततः परम् ॥ २ ॥
एव मष्ठविधा मन्त्रा दत्तात्रेयस्य योगिनः ।
शीघ्र मिष्टार्थदातार स्तत्रापि च कलौ युगे ॥ ३ ॥
॥ द्वादशार्णः ॥
मनुः ।
ॐ आं ह्रीं क्रों एहि दत्तात्रेयाय स्वाहा ॥ १ ॥
आदौ प्रणव मुच्चार्य पाशबीजं तथोच्चरेत् ।
ह्रीङ्कार मुद्धरे त्पश्चात्तत्पश्चा दङ्कुशाक्षरम् ॥ २ ॥
एहीति पद मुच्चार्य दत्तात्रेये त्यतः परम् ।
वह्निजायां ततो देवि मन्त्रोऽयं द्वादशाक्षरः ॥ ३ ॥
मन्त्रराज इति ख्यातो दत्तात्रेयस्य योगिनः ।
द्वादशाक्षरमन्त्रस्य न्यासं वक्ष्या म्यतः श्रुणु ॥ ४ ॥
द्वाभ्यां द्वाभ्यां पुनर्द्वाभ्यां चतुर्भिश्च ततः परम् ।
पुनर्द्वाभ्यां प्रकुर्वीत पञ्चाङ्गन्यास माचरेत् ॥ ४ ॥
जातियुक्तेन बीजेन षडङ्गा व्यथ वा क्रमात् ।
एवं न्यासविधिं कृत्वा ततो ध्यानं समाचरेत् ॥ ५ ॥
व्याख्यामुद्रां करसरसिजे दक्षिने सन्दधानो
जानुन्यस्तापरकरसरोजात्त नेत्रोन्न तांसः ।
ध्यानादाना त्परसुखवशा दर्धमामीलिताक्षो
दत्तात्रेयो भसितधवळः पातु नः कृत्तिवासाः ॥ ६ ॥
द्वादशायुतसङ्ख्याकाज्जपा त्सिध्यत्ययं मनुः ।
अर्कसङ्ख्या सहस्रं स्या त्कर्तव्यं क्षीर तर्पणम् ॥ ७ ॥
पलाशैर्हवनं प्रोक्तं सहस्रद्विशतोत्तरम् ।
साज्यपायसभक्तेन वैष्णवाग्नौ समाचरेत् ॥ ८ ॥
चतुरस्रं होमकुण्डं शैवाग्नौ वा हुने द्बुधः ।
शतं विंशतिसंयुक्तं सङ्ख्या स्याद्विजभोजनम् ॥ ९ ॥
एवं यः कुरुते तस्य मन्त्रसिद्धिः प्रजायते ।
नास्य मन्त्रार्पणं कार्यं गायत्रीवद्विजन्मनाम् ॥ १० ॥
यतीश्वराणां प्रणवो यथा मन्त्रे व्यसौ तथा ।
सिद्ध साध्य सुसिद्धारिशोधना नात्र विद्यते ॥ ११ ॥
॥ दत्तात्रेयः -कल्पकौस्तुभे ॥
स्वस्थावेशकरं चाथ दत्तात्रेयमनुं शृणु ।
तारं पाशं च भुवना मङ्कुशं चैहि युग्मकम् ॥ १ ॥
दत्तात्रेयपदं जेऽन्तं स्वाहान्तं समुदीरयेत् ।
मन्त्रस्यास्य ऋषिर्ब्रह्मा गायत्री छन्द ईरितम् ॥ २ ॥
दत्तात्रेयो देवता स्यात्पाशं बीजं समुच्चरेत् ।
मायाशक्तिर्विनिर्दिश्टा अङ्कुशं कीलकं स्मृतम् ॥
आवेशे विनियोगश्च आमित्येव षडङ्गकम् ॥ ३ ॥
दत्तात्रेय महं वण्डे योगमुद्राविराजितम् ।
ब्रह्मचर्यव्रतासक्त मवधूतस्वरूपिणीम् ॥ ४ ॥
एवं ध्यात्वाऽथ देवेशि वर्णलक्षजपं सुधीः ।
ततस्सिद्धमन्त्रो वै स्वस्थावेशं करोति सः ॥ ५ ॥
मनुः ।
ॐ आं ह्रीं क्रों एह्येहि दत्तात्रेयाय स्वाहा ॥ ६ ॥
॥ षोडशाक्षरः ॥
मनुः ।
ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सौः दत्तात्रेयाय स्वाहा ॥
तार मादौ समुच्चार्य ततो वाग्भव मुद्धरेत् ।
कामबीजं तथा कुर्याज्जाति त्रितयसंयुतम् ॥ १ ॥
भुवनेशं तथा कुर्या दथ जातित्रयान्वितम् ।
चन्द्रबीजं विसर्गान्तं नवमं परिकीर्तितम् ॥ २ ॥
दत्तात्रेयचतुर्थ्यन्तं पल्लवं शिरसा मतम् ।
ष्होडशाक्षरमन्त्रोऽयं दत्तात्रेयस्य योगिनः ॥ ३ ॥
तारवाग्भवबीजाभ्यां ह्रुदयाय नमश्चरेत् ।
कामबीजै स्त्रिभि श्शीर्षं हृल्लेखाभि स्थथा शिखा ।
चन्द्र्बीजेन कवच मस्त्रं दत्तादिसप्तभिः ॥ ४ ॥
एवं पञ्चाङ्गकन्यासं षडङ्गाना मथाचरेत् ।
अथ ध्यानं प्रवक्ष्यामि सर्वकामफलप्रदम् ॥ ५ ॥
मन्दारमूले मणिपीठसंस्थं सुवर्णदानैकनिबद्धकज्क्षम् ।
ध्यायेत्परीतं नवनित्यसिद्धैर्दारिद्र्यदावानल कालमेघम् ॥ ६ ॥
एवं ध्यात्वा महादेवि मन्त्राक्षरसहस्रकम् ।
तद्दशाशं तु कर्तव्यं तर्प्णं तु महेश्वरि ॥ ७ ॥
तद्दशांशाद्भवेद्धोमं तद्दशांशात्तु भोजनम् ।
एवं यः कुरुते तस्य मन्त्रसिद्धि स्ततो भवेत् ॥ ८ ॥
॥ षडर्णः ॥
मनुः ।
ॐ श्रीं ह्रीं क्लीं ग्लौं द्राम् ॥
आदौ प्रणव मुच्चार्य सह्रीबीजं तदनन्तरम् ।
मायाबीजं तथोच्चार्य कामबीजं ततः परम् ॥ १ ॥
भूबीज मुद्धरेत्पश्चाद्दत्तात्रेयात्मतारकम् ।
अयं षडक्षरो मन्त्रो रहस्यं ते समीरितम् ॥ २ ॥
षड्बीजैश्च षडङ्गानि शेषं पूर्ववदाचरेत् ।
लक्षलङ्ख्या पुरश्चर्या तद्दशांशेन तर्पणम् ।
हवनं भोजनं कृत्वा ततः कार्याणि साधयेत् ॥ ३ ॥
उत्तानिते करतले प्यपसव्य सव्य
सोपानपर्वसदृशे प्युपरि स्वनाभेः ।
प्रसार्य चर्मवसनं भसिताङ्गरागं
मन्त्रेण तं भजत रक्तजटाकलापम् ॥ ४ ॥
॥ एकाक्षरो मन्त्रः ॥
मनुः ।
ॐ द्राम् ॥
बीजोद्धारं प्रवक्ष्यामि दत्तात्रेयस्य योगिनः
दक्षिनामूर्तिबीजं च रामबीजेन संयुतम् ॥ १ ॥
द्रामित्येकाक्षरं ज्ञेयं बिन्दुनादकळात्मकं
एतद्बीजं मया प्रोक्तं ब्रह्मविष्नुशिवात्मकम् ॥ २ ॥
वेदव्यासेन कथितं प्रकारान्तर मुच्यते
दत्तस्यादिममन्त्रस्य दात्रेय स्यादिमस्वरः ।
तत्रस्थ रेफसंयुक्तं बिन्दुनादकळात्मकं
एतद्बीजं मया प्रोक्तं ब्रह्मविष्नुशिवात्मकम् ॥ ३ ॥
षडङ्गा न्यत्र योज्यानि बीजषट्स्वरयोगतः ॥ ४ ॥
योगारूढं योगपट्टेन वीतं
हस्तद्वन्द्वं जानुयुग्मे प्रसार्य ।
अंसाग्रस्थदिव्यभूषाजटालं
दत्तात्रेयं भावये वीक्षमाणम् ॥ ५ ॥
षडक्षरस्य यद्यन्त्र मेकाक्षरमनोश्च तत् ।
द्वादशाक्षरतस्सर्वं कुर्यान्मन्त्री समाहितः ॥ ६ ॥
॥ अष्टाक्षरो मनुः ॥
मनुः ।
ॐ द्रां दत्तात्रेयाय नमः ॥
अष्टाक्षरमनुं वक्ष्ये तद्बीजं तस्य नामकम् ।
नमःपदसमायुक्तं विदु रष्टाक्षरं मनुम् ॥ १ ॥
न्यासध्यानादिकं सर्व मेकाक्षरमनो रिव
एकाक्षरमनोरिव यन्त्र मष्टदळाधिकं
जपे दष्टसहस्राणि पुरश्चरणसिद्धये ॥ २ ॥
॥ विंशत्यक्षरो मन्त्रः ॥
मनुः ।
ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं श्रीविष्णवे दत्तात्रेयाय स्वाहा ॥
विंशत्यर्णमनुं वक्ष्ये षोडशाक्षरमन्त्रतः ।
श्रीविष्णवे समायुक्तो विंशत्यर्णात्मको मनुः ॥ १ ॥
ऋषि श्शिव कृति श्छन्दो दत्तात्रेयो हि देवता ।
जपेद्विंशतिसाहस्रं विंशत्यर्णमनुं शिवे ॥ २ ॥
षोडशाक्षरवत्सर्व माचरेत्तर्पणादिकम् ।
यद्यन्त्रं षोडशार्णस्य विंशत्यर्णमनो स्तत् ॥ ३ ॥
अधिकं किञ्चि दस्त्यत्र पश्चाद्वादशपत्रकम् ।
अष्टार्णपर्णं नास्त्यत्र कार्यं द्वादशपत्रकम् ॥ ४ ॥
॥ आनुष्टुभ मन्त्रः ॥
मनुः ।
दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक
दिगम्बरमुने बालपिशाच ज्ञानसागर ॥
अनुष्टुभमनुं वक्ष्ये सर्वमन्त्रोत्तमोत्तमम् ।
दत्तात्रेयपदं पूर्वं ततो हरिपदं वदेत् ॥ १ ॥
ततः कृष्णपदं वाच्य मुन्मत्ताख्यं ततः परम् ।
आनन्ददायकं पश्चाद्दिगम्बर पदं ततः ॥ २ ॥
मुने बालपिशाचेति ज्ञानसागर मुद्धरेत् ।
सर्वाणि सम्बुद्ध्यन्तानि पदान्येतानि कीर्तयेत् ॥ ३ ॥
अय मानुष्टुभो मन्त्रः सर्वमन्त्रपुरातनः ।
सर्वेषां पूर्वमन्त्राणां छन्दो गायत्र मीरितम् ॥ ४ ॥
द्वादशाक्षरमन्त्रस्य जगतीछन्द उच्यते ।
अस्यानुष्टुभमन्त्रस्य छन्दोऽनुष्टुप्प्रकीर्तितम् ।
ऋषिस्सर्वत्र शबरो महारुद्रः प्रकीर्तितः ॥ ५ ॥
अस्यानुष्टुभमन्त्रस्य न्यासं वक्ष्ये शृणु प्रिये ।
द्वाभ्यां द्वाभ्यां चतुर्भिश्च द्वाभ्यां द्वाभ्यां क्रमात्पदैः ॥ ६ ॥
सम्बुद्ध्यन्तै र्नामभिश्च पञ्चागन्यास ईरितः ।
मन्त्रे द्वादशनामानि षडङ्गा न्यथवा चरेत् ।
ध्यानं वक्ष्यामि देवेशि नानाभीष्टविधायकम् ॥ ७ ॥
काशी कोल्ला माहुरी सह्यकेषु
स्नात्वा जप्त्वा प्राश्यते चान्वहं यः ।
दत्तात्रेय स्तत्क्षणात् स्मर्तृगामी
त्यागी भोगी दिव्य योगी दयाळुः ॥ ८ ॥
अस्यानुष्टुभमन्त्रस्य जप्यं वर्णसहस्रकम् ।
तर्पणं हवनं देवि भोजनं तद्दशांशतः ।
जपं कुर्याद्व्रतं कुर्याद्ब्राह्मणभोजनम् ॥ ९ ॥
॥ मालामन्त्रः ॥
मालामन्त्रमथो वक्ष्ये रहस्यं श्रुणु पार्वति ।
दशाक्षरीसमायुक्तं सर्वपल्लवरूपकम् ॥ १ ॥
प्रत्यहं दशधोच्चराद्दत्तात्रेयः प्रसीदति ।
ओङ्कारमादा वुच्चार्य नमो भगवते ततः ॥ २ ॥
दत्तात्रेयाय स्मरणमात्रेति पद मुद्धरेत् ।
सन्तुष्टाय ततः प्रोक्त्वा महाभयपदं वदेत् ॥ ३ ॥
निवारणायेति पदं महाज्ञानप्रदाय सत् ।
चिदानन्दात्मने पश्चाद्बालोन्मत्तपिशाचवत् ॥ ४ ॥
वेषायाथ महायोगिनेऽवधूताय संवदेत् ।
अनसूयानन्दपद मुद्धरेत्तदनन्तरम् ॥ ५ ॥
वर्धनायात्रिपुत्राय सर्वकामप्रदाय च ।
ओङ्कारं भवबन्धेति ततो विमोचनाय च ॥ ६ ॥
पाशाक्षरं साध्यबन्धनायेति भुवनेश्वरीम् ।
सर्वविभूतिदायाङ्कुशं साध्याकर्षणाय च ॥ ७ ॥
वाग्बीजं वाक्प्रदायेति कामराजं जगत्त्रयम् ।
पदं वशीकरणाय परां सर्वमनो वदेत् ॥ ८ ॥
क्षोभणाय रमाबीजं महासम्पत्प्रदाय च ।
भूबीजं भूमण्डलाधिपत्यप्रदाय संवदेत् ॥ ९ ॥
दत्तात्रेयमहाबीजमुद्धरेच्चिरञ्जीविने ।
वषड्वंशीकुरुयुगं वौषडाकर्षय द्वयम् ॥ १० ॥
हुं विद्वेषय युगळं षडुच्चाटय युग्मळम् ।
ठठस्तम्भय युगळं खे खे मारय मारय ॥ ११ ॥
नमस्सम्पन्नाय युगं स्वाहा पोषय पोषय ।
परमन्त्र परयन्त्र परतन्त्राणि छिम्धि छिन्धि ॥ १२ ॥
ग्रहान्निवारय युगं व्याधींश्च द्विर्द्विर्नाशय ।
दुःखं हर द्विर्दारिद्र्यं विद्रावययुगं वदेत् ॥ १३ ॥
मम चित्तं समुच्चार्य सन्तोषय युगं वदेत् ।
सर्वमन्त्रस्वरूपाय सर्वयन्त्रस्वरूपिणे ॥ १४ ॥
सर्वतन्त्रस्वरूपाय सर्वपल्लवरूपिणे ।
ॐ नमो महासिधाय स्वाहा मालामनुस्स्मृतः ॥ १५ ॥
जप्यं वर्ण शतं देवि पुरश्चरणसिधये ।
अनुष्टुब्मन्त्रवत्सर्वं विज्ञातव्यं गुरोर्मुखात् ॥ १६ ॥
एक द्वि त्रि चतुष्पञ्च षट्सप्ताष्टाभिरङ्गुळैः ।
एकाक्षराद्यष्टमन्त्रयन्त्राणां मान मीरितम् ॥ १७ ॥
पूजायन्त्रं मन्त्रमयं पञ्चागुळसमं मितम् ।
सप्तावरणदेवानां तत्तद्भावनया यजेत् ॥ १८ ॥
तत्तापिनी शतश्लोकी कल्पोऽयं वज्रवर्मकम् ।
षट्पञ्चाशन्नामधेयं तद्गीतापञ्चलक्षणम् ।
दत्तात्रेयोपासकानां ज्ञातव्यं पञ्चलक्षणम् ॥ १९ ॥
॥ द्वादशाक्षरमन्त्रस्य यन्त्रोधारः ॥
यन्त्रोधारं प्रवक्ष्यामि सावधानतया श्रुणु ।
द्वादशाक्षरमन्त्रस्य रहस्यातिरहस्यकम् ।
आदौ व्रुत्तं समालिख्य चतुष्पत्रं ततः परम् ।
पश्चादष्टदळं पद्मं विलिखेद्भूपुरं ततः ॥ १ ॥
वेदादिं विलिखेद्वृत्ते तद्बीजं प्रणवान्तरे ।
चतुर्दळेषु चत्वारि वेदादीनि समालिखेत् ॥
एह्यादीन्यष्टबीजानि दळेष्वष्टसु विन्यसेत् ।
तत्सन्धिष्वङ्गमन्त्राश्च समन्तात्परिपूजयेत् ॥ २ ॥
आकारादिक्षकारान्तैर्बिन्दुवन्मात्रुकाक्षरैः ।
अनुलोमविलोमाभ्यां वेष्टये दष्टपत्रकम् ।
भूपुरं वेष्टयेत्पश्चाद्भूबीजैर्दशभिः प्रुथक् ।
व्रुत्तं तु प्रणवेनैव वेष्टयेच्च प्रयत्नतः ।
चतुर्दळं वेष्टयेच्च बीजैः पाशाङ्गजैश्शुभैः ॥ ३ ॥
उं ऊं ॐ गं जं डं दं सं लं ळं च दशभूपुरे ।
एतद्यन्त्रं मया प्रोक्तं रहस्यं सम्प्रदायकम् ॥ ४ ॥
॥ आवरणनिर्णयः ॥
सप्तावरणसंयुक्तं दत्तात्रेयं प्रपूजयेत् ।
तत्रावरणमाद्यं स्यादङ्गैष्षड्भिर्यथाक्रमम् ॥ १ ॥
वह्नीशासुर वाय्वग्रपृष्ठेष्वङ्गानि पूजयेत् ।
ऋग्यजुस्सामाथर्वणेतिहास पुराणकैः ।
मीमांसया च न्यायेन द्वितीयावरणं यजेत् ॥ २ ॥
सरस्वती गणपति शुकैश्चापि सुमन्तुना ।
जैमिन्याख्येन मुनिना वैशम्पायनमौनिना ।
पैलेन गालवेनापि तृतीयावरणं यजेत् ॥ ३ ॥
ततश्चतुर्थावरणं वक्ष्येऽहं शृणु पार्वति ।
कश्यपात्रिभरद्वाज विश्वामित्रैस्सगौतमैः ।
जमदग्नि वशिष्ठाभ्यां व्यासेन च चतुर्थकम् ॥ ४ ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चेति पञ्चमम् ॥ ५ ॥
मत्स्येन्द्रकं पिङ्गळेन्द्रं गोरक्षं कोङ्कणेश्वरम् ।
नागार्जुनं मेघनादं भुजङ्गं गुरुनायकम् ।
यजेदरुणगिर्याख्य मादिनाथपुरस्सरम् ।
षष्ठेऽप्यावरणे सिद्धिनवनाथान् सभैरवान् ॥ ६ ॥
इन्द्राग्नि यम निरृति वरुणानिल यक्षपान् ।
ईशानं च यजेद्दिक्षु सप्तमावरणं सुधीः ॥ ७ ॥
सप्तावरणदेवानां प्रणवादिनमोऽन्तकैः ।
नाममन्त्रैश्चतुर्थ्यन्तै र्यजेद्यन्त्रं महेश्वरि ॥ ८ ॥
एवं सप्तावृतियुतं दत्तात्रेयं मुनीश्वरम् ।
सकृद्ध्यायन्नर्चयित्वा योगी भवति मन्त्रवित् ॥ ९ ॥
॥ यन्त्रान्तरम् ॥
वृत्त षट्कोणाष्टपत्र त्रिवृद्विचतुरश्रकैः ।
मण्डितं च समालिख्य कुर्यादावरणार्चनम् ॥ १० ॥
सप्तावरणसंयुक्तं दत्तात्रेयस्य योगिनः ।
पूजायन्त्रमिदं प्रोक्तमपृष्टमपि ते मया ॥ ११ ॥
॥ षोडशाक्षरमन्त्रस्य यन्त्रोद्धारः ॥
(धारणयन्त्रोद्धारः)
यन्त्रोद्धारं प्रवक्ष्यामि षोडशार्णमनो शृणु ।
त्रिकोणं विलिखेत्पूर्वं षट्कोनां विलिखेत्ततः ॥ १ ॥
अष्टपत्रं विलिखेत्पद्मं ततः पार्धिव मन्दलम् ।
तार वाग्भव तद्बीजान् त्रिषु कोणेषु विलिखेत् ॥ २ ॥
वेष्टयेत् प्रणवेनैव त्रिकोणं पूरितं यथा ।
षट्कोणेषु लिखेद्बीजषट्कं हृल्लेखया वृतम् ॥ ३ ॥
चन्द्रबीजाद्यष्टवर्णा नष्टाराब्जे समालिखेत् ।
धारणादस्य यन्त्रस्य नानाविषविनाशनम् ॥ ४ ॥
॥ षडर्णमन्त्रस्यावरणभेदः ॥
अस्यावरणभेदोऽस्ति वक्ष्येऽहं शृणु पार्वति ।
लक्ष्मीनारायणौ प्राच्यां दक्षिणे पार्वतीस्वरौ ॥ १ ॥
पश्चिमे रतिकन्दर्पौ भूवराहौ तथोत्तरे ।
एव मावरणोपेतं चक्रवर्तित्वदायकम् ॥ २ ॥
द्वादशाक्षरवत्सर्वं दशांशात्तर्पणादिकम् ।
यन्त्रमस्य प्रवक्ष्यामि त्रिकोणं पूर्वमालिखेत् ।
षट्कोणं विलिखेत् पश्चात् त्रिकोणे प्रणवं लिखेत् ॥ ३ ॥
षट्कोणे मन्त्र मखिलं तत्सन्धि ष्वङ्गमन्त्रकान् ।
एतद्यन्त्रस्य माहात्म्यं वेत्ति सो हयनायकः ॥ ४ ॥
॥ अनुष्टुभमन्त्रस्य यन्त्रोद्धारः ॥
त्रिकोण मध्यकोण षट्कोण मष्टपत्रं ततः परम् ।
द्वादशारं षोडशारं विंशत्यार मतः परम् ।
द्वात्रिंशद्दळपद्मं च तत स्त्रीवलयं लिखेत् ।
भूपुरद्वितयं पश्चादष्टपत्रविभूषितम् ।
महायन्त्र मिदं प्रोक्तं दत्तात्रेयस्य योगिनः ।
त्रिकोणे विलिखेद्बीजं प्रणवेनैव वेष्टयेत् ।
लिखेदष्टदळे पद्मेऽप्यष्टाक्षर मनुक्रमात् ।
वेष्टयेत् कामबीजेन पद्म मष्टदळं सुधीः ।
द्वादशारे द्वादशार्णं रमाबीजेन वेष्टयेत् ।
षोडशारे तु विलिखेत् षोदशाक्षरकं मनुम् ।
कळाभिर्वेष्टयेत् सम्यक् षोडशारसरोरुहम् ।
विंशत्यराज्ञे विलिखे द्विंशत्यक्षरमन्त्रकम् ।
वेष्टयेद्भूमिबीजेन विंशत्यारसरोरुहम् ।
द्वात्रिंशद्दळपद्मे तु लिखेदानुष्टुभं मनुम् ।
हल्भिस्तु वेष्टयेत् सम्यक् द्वात्रिंशद्दळपद्मकम् ।
मालामन्त्रं त्रिवलये वक्ष्यमाणं समालिखेत् ।
वेष्टयेत्तत्त्रीवलयं पश्चाद्भूबीजान् विलिखेद्दश ॥ १ ॥
एवं यन्त्रं लिखित्वाऽथ प्राणस्थापन माचरेत् ।
दत्तात्रेयस्य यन्त्राणां दशाङ्गानि न सन्ति हि ।
एकादशावतारोऽयं दशाङ्गात्माऽवतारकः ॥ २ ॥
॥ अयमत्र प्रयोगक्रमः ॥
श्रीमान् दीक्षितः शुचिः सन्ध्योपासनाग्निहोत्रे क्रुत्वा जपस्थानं प्रविश्य ।
हस्तेन जलमादाय । प्रणवेन द्वादशवार मभिमन्त्र्य ।
आसनस्थानं मूलेन संवीक्ष्य अस्त्रेण सम्प्रोक्ष्य ।
फडिति दर्भैस्सन्ताड्य । कवचेनाभ्युक्ष्य ।
कूर्मचक्रं विलिखेत् ॥ तत्र
१ \ । आधारशक्यै नमः ८ \ । स्वर्णशैलाय नमः
२ \ । कूर्माय नमः ९ \ । नन्दनवनाय नमः
३ \ । अनन्ताय नमः १० \ । कल्पवृक्षेभ्यो नमः
४ \ । वराहाय नमः ११ \ । रत्न भूमिकायै नमः
५ \ । पृथिव्यै नमः १२ \ । स्वर्णप्राकाराय नमः
६ \ । सुधार्णवाय नमः १३ \ । रत्नमण्टपाय नमः
७ \ । नवरत्नद्वीपाय नमः १४ \ । स्वर्ण वेदिकायै नमः
इत्यासनदेवतास्सम्पूज्य ।
तत्र कुश,कृष्णाजिन,चित्रकम्बळवस्त्राणि यथाक्रमं
फडिति सम्प्रोक्ष्य । आस्तीर्य ।
सौः आधारशक्तिकमलासनाय नमः
इत्यासने ऋजुकायः प्राञ्मुख उदञ्मुखो वा उपविश्य ।
पृध्वि त्वयाधृता लोका देवित्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।
इति भूमिं सम्प्रार्थ्य । आसनस्य वह्न्यादिकोणेषु----
१ ॐ गं गणेशाय नमः
२ ॐ सं सरस्वत्यै नमः
३ ॐ दुं दुर्गायै नमः
४ ॐ क्षं क्षेत्रपालकाय नमः
इति सम्पूज्य ।
ॐ मणिधारिणि,वज्रिणि,शिखरिणि,सर्वलोकवशङ्करि हूं फट् स्वाहा ॥
इति शिखां बद्न्नीयात् ॥
अथ त्रिखण्डामुद्रां बध्वा ।
अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
त्रैलोक्यं मण्डितं येन मण्डलं तत्पदाशिवम् ॥
ऐं व्यापकमन्दलाय नमः ॥
द्वारश्रीस्सर्वदा पातु देहळी पातु मां सदा
शङ्खपद्मनिधी रक्षां कुरुता मर्थसिद्धये ॥
गणनाथस्सदा पातु दुर्गा मां परिरक्षतु ।
वटुकः क्षेत्रपालश्च राजराजेश्वरोऽवतु ॥
पराशम्भुस्सदा पातु ललिताजन्म हेतुकः ।
जाता संविन्मयी यस्माज्जातवेदास्स पातु माम् ॥
कादिविद्या यतो जाता स चिक्लीतस्सदाऽवतु ।
वाणीलक्ष्म्यौ सदा रक्षां कुरुता मर्थसिद्धये ॥
शृङ्गेरीभट्टभारत्यौ रेणुका च सदाऽवतु ।
एताश्चात्र स्थितास्सर्वा रक्षां कुर्वन्तु सर्वदा ॥
इन्द्रो रक्षतु मां पूर्वे आग्नेय्या मग्नि देवता ।
याम्ये यमस्सदा पातु नैरृत्यां निरृतिश्चमाम् ॥
पश्चिमे वरुणः पातु वायव्यां वायुदेवता ।
धनद श्चोत्तरे पातु चैशान्या मीश्वरो विभुः ॥
ऊर्ध्वं प्रजापतिः पात्वधस्ता च्चानन्त देवता ।
वास्तूना मधिपो ब्रह्मा स्रष्टा रक्षतु सर्वतः ॥
इति कारिकाष्टकं पठित्वा
देव त्वत्प्रकृतं चित्तं पापाक्रान्त मभू न्मम ।
तन्निस्सरतु चित्तान्मे पापं हुं फट्च ते नमः ॥
सूर्यस्सोमो यमः कालो महाभूतानि पञ्च च ।
एते शुभाशुभस्येह कर्मणो नवसाक्षिणः ॥
इति पापशमनार्थं पठित्वा
अतितीक्ष्णमहाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञां दातु मर्हसि ॥
इति भैरवानुज्ञां गृहीत्वा ।
तत्त्वै राचम्य । मूलेन प्राणानायम्य ।
देश कालौ सङ्कीर्त्य । नामगोत्रादिस्मरणं
कृत्वा ।
मम सकुटुम्बस्य क्षेम -स्थैर्य -विजय -अभय -आयुरारोग्य -
ऐश्वर्याभिवृद्धि द्वारा धर्मार्थ काम मोक्ष चतुर्विध
पुरुषार्थ फलसिद्ध्यर्थं श्रीदत्तात्रेय परदेवतामुद्दिश्य श्री
दत्तात्रेय परदेवता प्रीत्यर्थं श्रीदत्तात्रेय हृदय,पूर्वमाला,
पूर्वकवच,उत्तरहृदय,उत्तरमाला,उत्तरकवच,पञ्जर,
उपनिषत्त्रय,सहस्रनामस्तोत्र,अष्टोत्तरशतनामस्तोत्र,
षट्पञ्चाशन्नामस्तोत्र नाममन्त्र स्तवराज पारायणसहित श्री
दत्तात्रेय महामन्त्रजपं करिष्ये ॥
इति सङ्कल्प्य । अप उपस्पृश्य ॥
गुरुर्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरवेनमः ॥
नारायण समारम्भां व्यासशङ्करमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
स्वशिरसि पादुकामुद्रां बध्वा । श्रीगुरुपादुका मुच्चार्य गुरुं नयेत् ॥
ॐ गणानां त्वा गणपतिग्ं हवामहे
कविं कवीनां मुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणास्पत
आन शृण्वन्नूतिभिस्सीद सादनम् ॥
इति गणपतिं स्मृत्वा ।
अपक्रामन्तु भूतानि पिशाचास्सर्वतो दिशम् ।
याश्चात्र निवसन्त्यन्य देवता भुवि संस्थिताः ॥
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
येभूता विघ्नकर्तार स्ते नश्यन्तु शिवाज्ञया ॥
फडिति वामपार्ष्णि घातत्रयेण भौमान्,फडिति ताल त्रयेनान्तरिक्षगान्,
फडिति क्रोधदृष्ट्या निरीक्षणेन दिव्यांश्च विघ्ना नुत्सार्य ॥
समुद्रमेखले देवि पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥
इति भूमिं क्षमाप्य ।
धूमध्वजं महाभुजं स्वाहानाधं सुरेश्वरम् ।
प्राकाररूपतो व्याप्तं महावह्निं विचिन्तये ॥
ॐ नमो भगवते महाज्वालाय,मेषवाहनारूढाय,धूमध्वजाय,
स्वाहाप्रियाय,सर्वदेवताऽराध्याय,निरूपम विभवाय,
दिव्यमङ्गळविग्रहाय,सर्वदेवताग्रगण्याय,वह्नये,ॐ ह्रीं श्रीं
प्राकार रूपेण सर्वतोऽवस्थाय,मां रक्ष रक्ष,महोपद्रवं
नाशय नाशय,ॐ ह्रीं हुं फट्स्वाहा ॥
इति प्राकारत्रयं छोटिकया विभाव्य ।
ॐ सुदर्शन सर्वदिशो बन्ध बन्ध,सर्वतो मां रक्ष रक्ष,
मामका नशेषान् रक्ष रक्ष ॥
इति सुदर्शनेन दिग्बन्धं कृत्वा । शूलेनात्मानं रक्षेत् ॥
अध प्राणानायम्य । भूतशुद्धि स्वप्रतिष्टापने कृत्वा ।
मातृकाप्राणायामत्रयम् कृत्वा । मातृकया व्यापकं विन्यस्य ।
अन्तर्मातृका बहिर्मातृका श्रीकण्ठादि कळान्यासान् न्यासमन्दारोक्त प्रकारेण
विन्यस्य । शान्तिपठनपूर्वकं श्रीदत्तात्रेय हृदयादिकं पठेत् ॥
ॐ तछ्चंयोरावृणीमहे ॥ .। । । । । । । शान्तिः
ॐ नमो ब्रह्मणे ॥ .। । । । । । । । । । । । । । । । । शान्तिः
ॐ भद्रं नो अपि वातय मनः ॥ .। । । शन्तिः
ॐ भद्रं कर्णेभि ॥ .। । । । । । । । । । । । । । शान्तिः
ॐ यश्चन्दसा मृषभो ॥ .। । । । । । । शान्तिः
ॐ आवहन्ती वितन्वाना ॥ .। । । । । । । । । । । । शान्तिः
ॐ अहं वृक्षस्य रेरिव ॥ .। । । । । । । शान्तिः
ॐ शं नो मित्र श्शं वरुणः ॥ .। । शान्तिः
ॐ सह् ना ववतु ॥ .। । । । । । । । । । । । । । । । । शान्तिः
ॐ ह३ वुह३ वुह३वु ॥ .। । । । । । । । । । । । । शान्तिः
॥ श्रीदत्तात्रेय पूर्व हृदयम् । ।
पार्वत्युवाच-
देव शङ्कर सर्वेश भक्ताना मभयप्रद ।
विज्ञप्तिं सृणु मे शम्भो नराणां हितकारणम् ॥
ईश्वर उवाच-
वरदप्रिये महाभागे भक्तानुग्रहकरिणि ।
पार्वत्युवाच-
देव दत्तदेवस्य हृदयं ब्रूहि मे प्रभो ।
सर्वारिष्टहरं पुण्यं जनानां मुक्ति मार्गदम् ॥
ईश्वर उवाच-
शृणु देवि महाभागे हृदयं परमाद्भुतम् ।
अस्य श्रीदत्तात्रेयहृदय महामन्त्रस्य ।
श्रीभगवान् ईश्वरो ऋषिः । अनुष्टुप् छन्दः ।
श्रीचित्स्वरूप दत्तात्रेयो देवताः । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् ।
श्रीदत्तात्रेय प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
द्रामित्यादि करहृदयादिन्यासः ।
ध्यानम् ।
श्रीबालचन्द्रशोभितकिरीटिनं
पुष्पहार मणियुक्त वक्षकम् ।
पीतवस्त्र मणिशोभितमध्यं
प्रणमा म्यनसूयोद्भवदत्तम् ॥
दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् ।
हरं शिवं महादेवं सर्वभूतोपकारकम् ॥ १ ॥
नारायणं महाविष्णुं सर्वस्थित्यन्तकारिणम् ।
निराकारं च सर्वेशं कार्तवीर्यवरप्रदम् ॥ २ ॥
अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् ।
द्रां बीजवरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ ३ ॥
शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् ।
त्रिगुणं त्रिगुणातीतं त्रियामापतिमौळिकम् ॥ ४ ॥
रामं रमापतिं कृष्णं गोविन्दं पीतवासनम् ।
दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥ ५ ॥
भस्मगन्धादिलिप्टाङ्गं मायायुक्तं जगत्पतिम् ।
निर्गुणं च गुणोपेतं विश्वव्यापिन मीश्वरम् ॥ ६ ॥
ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् ।
किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ॥ ७ ॥
चन्द्रानुजं चन्द्रवक्त्रं रुद्रमिन्द्रादिवन्दितम् ।
अन्सूयावक्त्र पद्मदिनेशममराधिप्म् ॥ ८ ॥
देवदेव महायोगिन् अब्जासनादिवन्दित ।
नारायण विरूपाक्ष दत्तात्रेय नमोऽस्तुते ॥ ९ ॥
अनन्त कमलाकान्त औदुम्बरस्थित प्रभो ।
निरञ्जन महायोगिन् दत्तात्रेय नमोऽस्तुते ॥ १० ॥
महाबाहो मुनिमणे सर्वविद्याविशारद ।
स्थावरं जङ्गमानां च दत्तात्रेय नमोऽस्तुते ॥ ११ ॥
ऐन्द्र्यां पातु महावीरो वह्न्यां प्रणवपूर्वकम् ।
याम्यां दत्तात्रेयो रक्षेत् नैरृत्यां भक्तवत्सल ॥ १२ ॥
प्रतीच्यां पातु योगीशो योगीनां हृदये स्थितः ।
अनिल्यां वरद श्शम्भुः कौबेर्यां च जगत्प्रभुः ॥ १३ ॥
एकाक्षरो महामन्त्रः सर्वमन्त्रेषु विश्रुतः ।
अष्टाक्षरो सर्वसिद्धिदः सर्वतन्त्रेषु गोपितः ॥ १४ ॥
ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः ।
षडक्षरो महामन्त्रः पात्वधस्थाज्जगत्पतिः ॥ १५ ॥
एवं पङ्क्तिदशो रक्षेत् यमराजवरप्रदः ।
अकारादिक्षकारान्तं सदा रक्षेद्विभुस्स्वयम् ॥ १६ ॥
दत्तं दत्तं पुनर्दत्तं यो वदेत् भक्ति संयुतः ।
तस्य पापानि सर्वाणि क्षयं यान्ति न संशयः ॥ १७ ॥
य इदम्पठे न्नित्यं हृदयं सर्वकामदम् ।
पिशाच शाकिनी भूत डाकिनी शाकिनी तथा ॥ १८ ॥
ब्रह्मराक्षस भेताळ जोटुङ्गो बालभूतकाः ।
गच्चन्ति पठनादेव नात्र कार्या विचारणा ॥ १९ ॥
अपवर्ग प्रदं साक्षात् मनोरथ प्रपूरकम् ।
एकवारं द्विवारं च त्रिवारं च पठेन्नरः ॥ २० ॥
जन्म मृत्युं च दुःखं च नैव प्राप्नोति भक्तिमान् ।
गोपनीयं प्रयत्नेन जननीजारवत् प्रिये ॥ २१ ॥
नदेयमिदं स्तोत्रं हृदयाख्यं च भामिनी ।
गुरुभक्ताय दातव्यमन्यधा न प्रकाशयेत् ॥ २२ ॥
तव स्नेहाच्च कधितं भक्तिं ज्ञात्वा मया शुभे ।
दत्तात्रेयस्य कृपया स भवेत् दीर्घमायुकः ॥ २३ ॥
॥ इति श्रीरुद्रयामळे शिवपार्वतीसंवादे दत्तात्रेयहृदयं सम्पूर्णम् ॥
॥ श्रीदत्तात्रेय पूर्वमाला ॥
अस्य श्रीमधुमतीसमेत श्रीदत्तात्रेय माला मन्त्रस्य । शबर ऋषिः ।
गायत्री छन्दः । श्रीमधुमती समेत त्रयस्त्रिंशत्कोटि देवतास्वरूप
श्रीगुरु दत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ॐ ऐं अङ्गुश्ठाभ्यां नमः
क्लां क्लीं क्लूंतर्जनीभ्यां नमः
ह्रां ह्रीं ह्रूं मध्यमाभ्यां नमः
सौः अनामिकाभ्यां नमः
दत्तात्रेयाय कनिष्ठिकाभ्यां नमः
नमः करतलकरपृष्ठाभ्यां नमः
एवं हृदयादिन्यासः कुर्यत् ॥
ध्यानम् ।
मालाकमन्दलुधरः करपद्मयुग्मे
मध्यस्थपाणियुगळे डमरु त्रिशूले ।
यस्य स्त ऊर्ध्वकरयोः शुभशङ्खचक्रे
वन्दे त मत्रिवरदं भुजशट्कयुक्तम् ॥
लमित्यादि पञ्च्पूजां कुर्यात् ।
मनुः
ॐ ऐं क्लां क्लीं ह्रां ह्रीं ह्रूं सौः दत्तात्रेयाय,
विष्णुतेजांशभूताय,लोकानुग्रह कारणाय,सहस्रार्जुन
गुरवे,माणिक्यखचितसिंहासनस्थाय,मधुमतीसमेताय,
कपिलादिमुनिसिद्धगणसेविताय,ज्वल ज्वल,प्रज्वल प्रज्वल,
सकलभूत प्रेत पिशाच ब्रह्मराक्षसादि दुष्ठ ग्रहा नुच्चाटनाय
आवेशय आवेशय,भाषय भाषय,बन्धय,निवारय निवारय,
मम सर्वसौभाग्यं दापय दापय,श्रीगुरु दत्तात्रेयायस्वाह ।
श्रीगुरुदत्तश्शरणं मम ॥
पूर्ववत् अङ्गन्यासादिकं,ध्यानं,पञ्चपूजां च कृत्वा
श्रीगुर्दत्तात्रेयाय समर्पयेत् ॥
॥ श्रीदत्तात्रेय पूर्वकवचम् ॥
अस्य श्रीदत्तात्रेय कवचस्तोत्र महामन्त्रस्य । नारायन ऋषिः ।
अनुष्टुप् छन्दः । श्रीदत्तात्रेयो देवता । ऐं बीजम् । क्लीं शक्तिः ।
स्वाहा कीलकम् । श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
आमित्यादि करहृदयादिन्यासः कुर्यात् ।
ध्यानम् ।
दत्तात्रेय हरेकृष्ण उन्मत्तानन्ददायक ।
दिगम्बरमुने बालापिशाच ज्ञानसागर ॥
लमित्यादि पञ्चपूजां कुर्यात् ।
भक्ताश्रयः शिरः पातु ललाटं मुनिशेखरः ।
योगीश्वरो दृशौ पातु त्रैलोक्यस्यप्रियः श्रविः ॥ १ ॥
कपोलौ मुनिराजेन्द्रः मुखं पातु कुमारकः ।
जिह्वां मे पातु मन्त्रात्मा कण्ठं विष्णुस्वरूपकः ॥ २ ॥
स्कन्धौ कपिलवर्णश्च दत्तात्रेयो भुजौ तथा ।
कर्णौ तु तापसो नित्यं हृदयराजयोगवित् ॥ ३ ॥
वक्षो मे हठयोगी च स्तनो मे नादयोगवित् ।
पार्श्वे तु योगराजेन्द्र कुक्षिं मे योगवान् प्रभुः ॥ ४ ॥
मध्यं पातु तेजस्वी नाभिं मे जृम्भयोगिराट् ।
कटिं पिङ्गळ योगी च योगीसो जघनं मम ।
गुह्यं मे कर्मयोगीच तन्मूलं तत्व योगवित् ॥ ५ ॥
ऊरू परमहंसश्च जानुनी बिन्दुयोगवित् ।
जङ्घे जटाधरः पातु गुल्भौ मे शिवयोगवान् ॥ ६ ॥
पादौ मे विष्णु योगी च पूर्वाङ्गं ब्रह्म योगवित् ।
अपराङ्गं सदा रक्षेत् दत्तात्रेयो मुनि स्तधा ।
सर्वाङ्गानि सदाइ रक्षेत् दत्तात्रेयो ऋषीश्वरः ॥ ७ ॥
पूर्वस्यां दिशि मे पातु अष्टाङ्गयोगाभ्यासवित् ।
आग्नेय्यां पातु योगीशो याम्यां मे निगमप्रियः ॥ ८ ॥
नैरृत्यां पातु विश्वेशो सदा षट्कर्मयोगवित् ।
वारुण्यां दिशि पार्श्वेतु पातु मे मुनिपुङ्गवः ॥ ९ ॥
कौबेर्यां तथैशान्यां पातु मे सर्वामर प्रियः ।
अनसूयासुतो रक्षे दूर्ध्वं त्वपरं तथा ॥ १० ॥
पठने श्रवणे चैव गिरिगह्वरेवु च ।
अश्वारोहे गजारोहे चान्दोळिके तथा ।
वृक्षारोहे शिलारोहे युद्धे भुवि रसातले ॥ ११ ॥
उद्याने वनवासे च आसने जपे तथा ।
बाह्याभ्यन्तरकालेषु सर्वं रक्षेच ईश्वरः ॥ १२ ॥
शङ्खचक्र कुठारादि आयुधेभ्य स्त्रिसन्ध्यया ।
सर्वरक्षाकरो रक्षेत् कार्तवीर्यप्रियङ्करः ॥ १३ ॥
ब्रह्मराक्षस भेताळ कूश्माण्ड राक्षसादयः ।
पिशाच डाकिनी भूता शाकिनी बालकग्रहाः ।
सर्वभूतहितार्धाय सदा रक्षे न्महामुनिः ॥ १४ ॥
उदये चा स्तमाने च मध्याह्ने सार्वकालिके ।
दिवारात्र्योः निशायां च रक्षेत्सर्ववरप्रदः ॥ १५ ॥
दत्तात्रेयस्य कवचं यः पठेत् प्रियतो नरः ।
आयुरारोग्यसिद्धिं च ऐश्वर्य मधिकं तथा ॥ १६ ॥
ज्ञानवैराग्यसिद्धिं च यः पठेत् स्तोत्रसहस्रकम् ।
स्वातन्त्र्यं च भवे न्नराणां सर्वकामार्थसाधकम् ॥ १७ ॥
धारयेत् सुपुष्करयोगकाले पठे न्नरः ।
पुत्रपौत्रं च यन्नित्यं फलमेत न्नसंशयः ॥ १८ ॥
॥ इति ब्रह्माण्डपुराणे ब्रह्मनारायणसंवादे
श्रीदत्तात्रेयकवचस्तोत्रं सम्पूर्णम् ॥
॥ मन्त्रपाठः ॥
१ एकाक्षरो दत्तात्रेयः ।
अस्य श्रीदत्तात्रेयैकाक्षर महामन्त्रस्य । शबर रूपी महारुद्र ऋषिः ।
गायत्री छन्दः । श्रीदत्तात्रेय परमात्मा देवता ।
द्रां बीजम् । आं शक्तिः । क्रों कीलकम् । श्रीदत्तात्रेय प्रसाद
सिद्ध्यर्थे जपे विनियोगः । द्रामित्यादि न्यासः ।
ध्यानम् ।
योगारुढं योगपट्टेन वीतं
हस्त द्वन्द्वं जानुयुग्मे प्रसार्य ।
अंसाग्रस्थ रक्तचञ्चज्जटाकं
दत्तात्रेयं भावये वीक्षमाणम् ॥
लमित्यादि मानसोपचारैस्सम्पूजयेत् ।
मनुः । ॐ द्राम् ॥
२ षडक्षरो दत्तात्रेयः ।
अस्य श्रीदत्तात्रेय षडक्षर महामन्त्रस्य । शबरो महारुद्र ऋषिः ।
गायत्री छन्दः । श्रीदत्तात्रेयो देवता ।
द्रां बीजम् । श्रीं शक्तिः । ह्रीं कीलकम् । जपे विनियोगः ॥
मन्त्र षड्बीजैर्न्यासः ।
उत्तानिते करतलेप्यपसव्य सव्य
सोपान पर्वसद्रुशेप्युपरि स्वनाभेः ।
प्रसार्य चर्मवसनं भसिताङ्गरागं
मन्त्रेण तं भजत रक्तजटाकलापम् ॥
लमित्यादि पञ्चपूजा
मनुः । ॐ श्रीं ह्रीं क्लीं ग्लौं द्राम् ॥
३ अष्टाक्षरो दत्तात्रेयः ।
अस्य श्रीदत्तात्रेयाष्टाक्षर महामन्त्रस्य । शबरो महारुद्र ऋषिः ।
गायत्री छन्दः । श्रीदत्तात्रेयो देवता ।
द्रां बीजम् । नमश्शक्तिः । दत्तात्रेयायेति कीलकम् ।
श्रीदत्तात्रेय प्रसाद सिद्ध्यर्थे जपे विनियोगः । द्रामित्यादिन्यासः ।
ध्यानम् ।
योगारूढं योगपट्टेन वीतं
हस्तद्वन्द्वं जानुयुग्मे प्रसार्य ।
अंसाग्रस्थ दिव्यभूषाजटाकं
दत्तात्रेयं भावये वीक्षमाणम् ॥
मनुः । ॐ दत्तात्रेयाय नमः ॥
४ द्वादशाक्षरो दत्तात्रेयः ।
अस्य श्रीदत्तात्रेय द्वादशार्ण महामन्त्रस्य शबरो महारुद्र ऋषिः ।
जगती छन्दः । श्रीदत्तात्रेयो देवता ।
द्रां बीजम् । नमश्शक्तिः । दत्तात्रेयेतिकीलकम् । जपे विनियोगः ।
ॐ ह्राम् । ह्रीं क्रोम् । एहि । दत्तात्रेय स्वाहा । इति पञ्चाङ्गन्यासः ।
यद्वा द्रामित्यादि षडङ्गन्यसः ।
ध्यानम् ।
व्याख्यामुद्रां करसरसिजे दक्षिणो सन्दधानो
जानुन्यस्तापरकरसरोजात्तवेत्रो नतांसः ।
ध्यनाध्यानात् सुखपरवशादर्ध मामीलिताक्षो
दत्तात्रेयो भसितधवळः पातु नः कृत्ति वासाः ॥
मनुः । ॐ आं ह्रीं क्रों एहि दत्तात्रेय स्वाहा ॥
५ षोडशाक्षरो दत्तात्रेयः ।
अस्य श्रीदत्तात्रेय षोडशाक्षर महामन्त्र्स्य शबरो महारुद्र ऋषिः ।
द्रां बीजम् । नमश्शक्तिः ।
दत्तात्रेयायेति कीलकम् । जपे विनियोगः ।
ॐ ऐम् । क्लां क्लीं क्लूम् । ह्रां ह्रीं ह्रूम् । सौः । दत्तात्रेयाय स्वाहा ॥
इति पञ्चाङ्गन्यासः ।
यद्वा द्रामित्यादि षडङ्गन्यासः ॥
ध्यानम् ।
मन्दारमूले मणिपीठसंस्थं
सुवर्णदानैक निबद्धदीक्षम् ।
ध्यायेत् परीतं नवनाथसिद्धै
र्दारिद्र्यदावानल कालमेघैः ॥
मनुः । ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सौः दत्तात्रेयाय स्वाहा ।
६ विंशत्यर्णो दत्तात्रेयमन्त्रः ।
अस्य श्रीदत्तात्रेय विंशत्यर्ण महामन्त्रस्य सदाशिव ऋषिः ।
कृतिश्छन्दः । श्रीदत्तात्रेयो देवता । ॐ बीजम् ।
स्वाहा शक्तिः । सौः श्रीविष्णव इति कीलकम् । जपे विनियोगः ॥
ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सौः श्रीविष्णवे ।
दत्तात्रेयाय स्वाहा ॥
इति करहृदयादि न्यासः ॥
ध्यानम् ।
मन्दारमूले मणिपीठसंस्थं
सुवर्णदानैक निबद्धदीक्षम् ।
ध्यायेत् परीतं नवनाथसिद्धै
र्दारिद्र्यदावानल कालमेघैः ॥
मनुः ।
ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सौः श्रीविष्णवे दत्तात्रेयाय स्वाहा ॥
७ दत्तात्रेयानुष्टुभमन्त्रः ।
अस्य श्रीदत्तात्रेयानुष्टुभमन्त्रस्य शबरो महारुद्र ऋषिः ।
अनुष्टुप्छन्दः । श्रीदत्तात्रेयोदेवता ।
दत्तात्रेय हरे कृष्ण इति बीजम् । उन्मत्तानन्ददायक दिगम्बरेति शक्तिः ।
मुने बालपिशाच ज्ञानसागरेति कीलकम् ।
जपे विनियोगः ॥
दत्तात्रेय हरे । कृष्ण उन्मत्त । आनन्ददायक ।
दिगम्बरमुने । बालपिशाच । ज्ञानसागर ॥ इति करहृदयादि न्यासः ।
ध्यानम् ।
काशी कोल्लामाहुरी सह्यकेषु
स्नात्वा जप्त्वा प्राश्यते चान्वहं यः ।
दत्तात्रेयस्मरणा त्स्मर्त्रुगामी
त्यागी भोगी दिव्ययोगी दयाळुः ॥
मनुः ।
दत्तात्रेय हरेकृष्ण उन्मत्तानन्ददायक ।
दिगम्बरमुने बालपिशाच ज्ञानसागर ॥
८ दत्तात्रेय मालामनुः ।
अस्य श्रीदत्तात्रेय मालामहामन्त्रस्य । सदाशिव ऋशिः । अनुष्टुप्छन्दः ।
श्रीदत्तात्रेयो देवता । ओमिति बीजम् ।
स्वाहेति शक्तिः । द्रामिति कीलकम् । जपे विनियोगः । द्रामित्यादिनान्यासः ॥
ध्यानम् ।
काशी कोल्लामाहुरी सह्यकेषु
स्नात्वा जप्त्वा प्राश्यते चान्वहं यः ।
दत्तात्रेयस्मरणा त्स्मर्त्रुगामी
त्यगी भोगी दिव्ययोगी दयाळुः ॥
मनुः ।
ॐ आं ह्रीं क्रों ऐं क्लीं सौः श्रीं ग्लौं द्रां ॐ नमो भगवते
दत्तात्रेयाय स्मरणमात्रसन्तुष्टाय महाभय निवारणाय
महाज्ञान प्रदाय सच्चिदानन्दात्मने बालोन्मत्त पिशाचवेषाय
महायोगिनेऽवधूताय,अनसूयानन्दवर्धनाय,अपुत्रित्राय,
सर्वकामप्रदाय,ॐ भवबन्धविमोचनाय,आं साध्यबन्धनाय,
ह्रीं सर्वविभूतिदाय,क्रों साध्याकर्षणाय,ऐं वाक्प्रदाय,
क्लीं जगत्रयवशीकरणाय,सौः सर्वमनः क्षोभणाय,श्रीं
महासम्पत्प्रदाय,ग्लौं भूमण्डलाधिपत्यप्रदाय,द्रां चिरञ्जीविने,
वषड्वशीकुरु वषड्वशीकुरु,वौषडाकर्षय वौषडाकर्षय,
हुं विद्वेषय विद्वेषय,फडुच्छाटय फडुच्छाटय,
ठठस्तम्भय ठठस्तम्भय,खेखेमारय खेखेमारय,
नमस्सम्पन्नाय नमस्सम्पन्नाय,स्वाहा पोषय स्वाहा पोषय,परमन्त्र
परयन्त्र परतन्त्राणि छिन्धि छिन्धि,ग्रहान्निवारय ग्रहान्निवारय,
व्याधीन्विनाशय व्याधीन्विनाशय,दुःखं हर दुःखं हर,दारिद्र्यं
विद्रावय दारिद्र्यं विद्रावय,मम चित्तं सन्तोषय सन्तोषय,
सर्वमन्त्र स्वरूपाय,सर्वयन्त्ररूपिणे,सर्वतन्त्र स्वरूपाय,
सर्वपल्लव रूपिणे,ॐ नमो महासिद्धाय स्वाहा ॥
॥ श्रीदत्तात्रेय हृदयराजः ॥
अस्य श्रीदत्तात्रेय हृदयराज महामन्त्रस्य कालाकर्षण ऋषिः ।
जगतीच्छन्दः । श्रीदत्तात्रेयो देवता । आं बीजम् । ह्रीं शक्तिः ।
क्रों कीलकम् । जपे विनियोगः । द्रामित्यादि षडङ्गन्यासः ॥
नमो श्रीमुनिवन्दिताय
नमो श्रीगुरुरूपकाय ।
नमो नमः श्रीभवहरणाय
नमो नमः श्रीमनुतल्पकाय नमः ॥ १ ॥
विश्वेश्वरो नीलकण्ठो महादेवो महेश्वरः
हरिः क्रिष्णो वासुदेवो माधवो मधुसूदनः ।
जनकश्च शतानन्दो वेदवेद्यो पितामहः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ २ ॥
पञ्चाननो महादेवो गौरीमानसभास्करः
ब्रह्मवादो सुखासीनो सुरलोकवरप्रदः ।
वेदाननो वेदरूपो मुक्तिमार्गप्रकाशकः
त्रिमूर्ति रूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ३ ॥
कर्पूर गौरवर्णाङ्गो शैलजामनोरञ्जकः
श्यामाभः श्रीनिवासो यो भक्त वाञ्छितदायकः ।
पीतरत्नाङ्गवर्णाङ्गो गायत्र्यात्मप्रलापकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ४ ॥
त्रिपञ्चनयनो रुद्रो महाभैरवान्तकः
द्विदळाक्षो महाकायो केशवो माधवो हरिः ।
अष्टाक्षो वेदसारङ्गो श्रीसुतो यज्ञकारण
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ५ ॥
दिग्बाहुमण्डितदेवो म्रुडानीप्राणवल्लभः
सुमूर्तिकृत् कार्तिकेयो हृषीकेशस्सुरेश्वरः ।
वसुः पाणिस्तप श्शान्तो ब्रह्मण्यो मखभूषणः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ६ ॥
गङ्गाधारो महेशानो श्रीपतिर्भवभञ्जकः
वाग्देवः कामशान्तो यो सावित्री वाग्विलासकः ।
ब्रह्मरूपो विष्णुशक्तिर्विश्वेशो त्रिपुरान्तकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ७ ॥
नागप्रियो भूतनाथो जगत्संहारकारकः
भुवनेशो भयत्राता माधावो भूतपालकः ।
विधाता रजरूपश्च ब्राह्मणोऽजकारकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ८ ॥
क्रुद्ध क्रूरपिशाचेशो शाम्भवो शुद्धमानसः
शान्तो दान्तो महाधीरो गोविन्द स्तत्त्वसागरः ।
अर्धूसर्धू महाभागो रजोरूपो महर्षिकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ९ ॥
चर्माम्बरधरो देवो लीलाताण्डवकौशलः
पीताम्बरपरीधानो मायाचक्रान्तरात्मवित् ।
कर्माङ्गवस्त्रभूषो यो जगत्कारणकार्यधृत्
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १० ॥
कपालमालांशुधरो भस्मभूषो शुभप्रदः
श्रीवत्सः प्रीतिकरो योगवान्यो पुरुषोत्तमः ।
यज्ञसूत्रोत्तरीभूषो वेदमार्गप्रभाकरः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ११ ॥
त्रिशूलपाणिस्सर्वज्ञो ज्ञानेन्द्रियप्रियङ्करः
गदापाणि श्चार्वङ्गो विश्वत्राता जगत्पतिः ।
कमण्डलुधरो देवो विधाता विघ्ननाशनः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १२ ॥
शिलानसूनुवरद श्चण्डांशु श्चण्डविक्रमः
अरुणो विरजो धाता भक्तिमानसबोधकः ।
पद्मासनो पद्मवेत्ता हंसमानसपञ्जरः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १३ ॥
इत्येवं दत्तहृदयं एकभक्त्या पठेन्नरः ।
भक्तिमुक्तिप्रदं लोके दत्तसायुज्यमाप्नुयात् ॥ १४ ॥
धनकामे पुत्रकामे नानाकामे अहेतुके
पठनात् साधकेभ्यश्च सर्वकामफलप्रदम् ।
मन्त्रमात्रं समुच्चार्य दशदोषनिवारकं
सिद्धमन्त्रो भवत्येवं नात्र कार्या विचारणा ॥ १५ ॥
इदं ह्रुदयमाहात्म्यं त्रिषु लोकेषु दुर्लभम् ।
साक्षात्कारप्रदं स्तोत्रं सत्यं सत्यं वदाम्यहं.१६ ॥
चतुर्विंशतिकान् श्लोकान् जप्त्वा द्वादशसङ्ख्यया
तस्य द्वादशभागेन जप्त्वा चैकपुरश्चरम् ।
सूर्यसङ्ख्यपुरश्चर्यात् कृतोवै साधकोत्तमः
तस्य पाठप्रभावेन दत्त दर्शन माप्नुयात् ॥ १७ ॥
प्रत्येकं श्लोकश्लोके कृत्वा पाठं विचक्षणः ।
तेन सान्निध्याता शीघ्रं दत्तात्रेयस्य जायते ॥ १८ ॥
॥ इति श्रीदत्तात्रेय हृदयं सम्पूर्णम् ॥
॥ श्रीदत्तात्रेय उत्तरमाला ॥
अस्य श्रीमालामहामन्त्रस्य सदाशिव ऋषिः ।
अनुष्टुप्छन्दः । श्रीदत्तात्रेयो देवता । ओमिति बीजम् ।
स्वाहेति शक्तिः । द्रामिति कीलकम् । जपे विनियोगः ।
द्रामित्यादिन्यासः ॥
काशी कोल्लामाहुरी सह्यकेषु
स्नात्वा जप्त्वा प्राश्यते चान्वहं यः ।
दत्तात्रेयस्मरणा त्स्म्रर्त्रगामी
त्यागी भोगी दिव्ययोगी दयाळुः ॥
ॐ नमो भगवते दत्तात्रेयाय,स्मरणमात्र
सन्तुष्टाय,महाभय निवारणाय,महाज्ञानप्रदाय,
सच्चिदानन्दात्मने,बालोन्मत्तपिशाचवेषाय,
महायोगिनेऽवधूताय,अनसूयानन्दवर्धनाय,
अत्रिपुत्राय,सर्वकामप्रदाय,ॐ भवबन्धविमोचनाय,
आं साध्यबन्धनाय,ह्रीं सर्वविभूतिदाय,क्रों
साध्याकर्षणाय,ऐं वाक्प्रदाय,क्लीं
जगत्त्रयवशीकरणाय,सौः सर्वमनः क्षोभणाय,
श्रीं महासम्पत्प्रदाय,ग्लौं
भूमण्डलाधिपत्यप्रदाय,द्रां चिरञ्जीविने,
वषड्वशीकुरु वषड्वशीकुरु,वौषडाकर्षय वौषडाकर्षय,
हुं विद्वेषय विद्वेषय,फडुछाटय उछाटय,
ठठस्तम्भय स्तम्भय,चे चे मारय मारय,नम
स्सम्पन्नाय सम्पन्नाय,स्वाहा पोषय पोषय,परमन्त्र परयन्त्र
परतन्त्राणि छिन्धि छिन्धि,ग्रहान्निवारय निवारय,व्याधीन्विनाशय
विनाशय,दुःखंहर हर,दारिद्र्यं विद्रावय विद्रावय,
मम चित्तं सन्तोषय सन्तोषय,सर्वमन्त्र स्वरूपाय,
सर्वयन्त्र स्वरूपिणे,सर्वतन्त्र स्वरूपाय,सर्वपल्लवरूपिणे
ॐ नमो महसिद्दाय स्वाहा ॥
॥ श्रीदत्तात्रेय वज्रकवचम् ॥
ऋषय ऊचुः ।
कथं सङ्कल्पसिद्धिस्स्यात् वेदव्यास कलौ युगे ।
धर्मार्थ काममोक्षाणां साधनं कि मुदाहृतम् ॥ १ ॥
श्रीव्यास उवाच ।
शृण्वन्तु मुनयस्सर्वे शीघ्रं सङ्कल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ २ ॥
गिरौ शृङ्गे हिमवतः कल्पवृक्षोपशोभिते ।
दीप्तदिव्य महारत्न हेममण्डपमध्यतः ॥ ३ ॥
रत्नसिंहासनासीनं प्रसन्नं परमेश्वर
मन्दस्मितमुखाम्भोजं शकरं प्रावा पार्वति ॥ ४ ॥
पार्वत्युवाच ।
देव देव महादेव लोकशङ्कर शङ्कर ।
मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नतः ॥ ५ ॥
तन्त्रजालान्यनेकानि मया तु सुशृतानि वै ।
इदानीं द्रष्टु मिच्छामि विशेषेण महीतलम् ॥ ६ ॥
इत्युच्चरित माकर्ण्य पार्वत्या परमेश्वरः ।
करेणामृज्य सन्तोषात् पार्वतीं प्रत्यभाषत ।
मयेदानीं त्वया सार्थं वृष मारुह्य गम्यते ॥ ७ ॥
इत्युक्त्वा वृष मारुह्य पार्वत्या सह शङ्करः ।
ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ॥ ८ ॥
क्वचि द्विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ।
एधां स्याहर्तु मायान्तं भिल्लं परमधार्मिकं ॥ ९ ॥
बाध्यमानं महाव्याघ्रै र्नखदंष्ट्रा भयानकैः ।
अतीव चित्रचारित्रं वज्रकायं महाद्भुतम् ॥ १० ॥
अप्रयत्न मनायास मदुःखं सुखतस्थितम् ।
पलायन्तं मृगं पश्चाद्व्याघ्रभीत्या पलायितम् ॥ ११ ॥
एत दाश्चार्य मालोक्य पार्वती प्राह शङ्करम् ।
किमाश्चर्यं किमाश्चर्य मग्रे शम्भो निरीक्ष्यताम् ॥ १२ ॥
इत्युक्तस्स तया शम्भुः दृष्ट्वा प्राह पुराणवित् ।
गौरि वक्ष्यामि ते चित्र मवाङ्मानसगोचरम् ॥ १३ ॥
अदृष्टपूर्व मस्माभिः नास्ति किञ्चि न्न कुत्रचित् ।
मया सम्यक्समासेन वक्ष्यते शृणु पार्वति ।
अयं दूरश्रवो नामभिल्लः परमधार्मिकः ॥ १४ ॥
समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।
प्रत्यहं विपिनं गत्वा समादाय प्रयत्नतः ॥ १५ ॥
प्रियपूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति ।
तेऽपि तस्मिन् दयां चक्रु र्भिल्लाख्ये सर्वमौनिनः ॥ १६ ॥
दळादनो निवसति पर्वतेऽस्मिन्नि जाश्रमे ।
कदाचि दस्मर दित्थं दत्तात्रेयं दिगम्बरम् ॥ १७ ॥
दत्तात्रेयः स्मर्तृगामी तीतिहासं परीक्षितुम् ।
तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयस्समुत्थितः ॥ १८ ॥
सह्याचला त्स्मर्तृगामी यत्रास्ते स दळादनः ।
तं दृष्ट्वा ।अऽ.श्चर्यतोषाभ्यां दत्तात्रेयं दळादनः ॥ १९ ॥
पूजयित्वा महाभक्त्या वाक्यमेत दुवाच ह ।
नम स्त्रिमूर्तये तुभ्य मवधूत जगद्गुरो ॥ २० ॥
मयाऽद्य सत्कृतोऽसि त्व मपचारं क्षमस्वमे ।
दत्तात्रेयो मुनीन् प्राह मम प्रकृतिरीदृशी ॥ २१ ॥
स्मर्तृगामी न सन्देहो द्विसप्तभुवनेष्वहम् ।
अभक्त्या वा सुभक्त्या वा यत्स्मरे न्मामनन्यधीः ॥ २२ ॥
तदानी मह मागम्य ददामि तदभीप्सितम् ।
दत्तात्रेयं पुनः प्राह दळादनमुनीश्वरम् ॥ २३ ॥
यदिष्टं तच्छृणुष्व त्वं यत्प्राप्तोऽहं त्वयास्मृतः ।
दळादनमुनिः प्राह मया किमपि नोच्यते ॥ २४ ॥
त्वच्चित्ते यद्धितं तन्मे प्रयच्छ मुनिशेखर ।
इत्युक्ते स च देवेशि दत्तात्रेयो दळादनम् ॥ २५ ॥
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।
तथे त्यङ्गीकृतवति दळादन्मुनीश्वरे ॥ २६ ॥
स्ववज्र कवचं प्राह ऋषिछन्दः पुरस्सरम् ।
न्यासध्यानादिकं तत्र प्रयोजनविशेषकम् ॥ २७ ॥
आवाच्यमपि वक्ष्यामि त त्प्रीत्याच महेश्वरि ॥ २८ ॥
दत्तात्रेय उवाच ।
मद्वज्रकवचस्यास्य दत्तात्रेय ऋषि स्मृतः ।
छन्दोऽनुष्टु ब्देवताऽहं द्रां बीजमिति कीर्तितम् ॥ २९ ॥
ह्रीं शक्तिः क्रों कीलक्ं स्यादिष्टार्थे विनियोजनम् ।
जातियुक्तेन बीजेन कराङ्गन्यास माचरेत् ॥ ३० ॥
ततो ध्यानं प्रवक्ष्यामि दळादन मदीयकम् ॥ ३१ ॥
अनसूयासुतं देवं भोगमोक्षादिदायकम् ।
भक्ताना मिष्टदातारं दत्तात्रेयगुरुं भजे ॥ ३२ ॥
वारणसीपुरस्नातं कोल्लापुरिसुजापिनम् ।
माहुरीपुरभिक्षाशं सह्यपर्वतशायिनम् ॥ ३३ ॥
इन्द्रनील समाकारं चन्द्रकान्तसमप्रभम् ।
वैढूर्यसदृशस्फूर्तिं किञ्चिच्चञ्चज्जटाधरम् ॥ ३४ ॥
स्निग्धधावळ्ययुक्ताक्ष मतिनीलकनीलकम् ।
भ्रूपक्ष्म श्मश्रुनैल्याकं शशाङ्कसदृशाननम् ॥ ३५ ॥
हासनिर्जितनीहारं कण्ठनिर्जितकम्बुकम् ।
मांसलांसं दीर्घ बाहुं पल्लवादिकरद्वयम् ॥ ३६ ॥
विशालपीनवक्षश्च सपृष्ठञ्च सुपार्श्वकम् ।
निम्ननाभिं रोमराजिवळिमत्पल्लवोदरम् ॥ ३७ ॥
पृथूल्लसच्छ्रोणितलं विशालजघनस्थलम् ।
विशङ्कटकटीभास्व त्सुवर्णमणिमेखलम् ॥ ३८ ॥
सुवर्ण रशनायुक्तं पीताम्बरविराजितम् ।
रम्भोरुं बिन्दु काष्टीवजानुपूर्विकजङ्घकम् ॥ ३९ ॥
गूढगुल्फं कूर्मपृष्ठोल्लसत्पादोपरिस्थलम् ।
रक्तारविन्दसदृशं रमणीयपदाधरम् ॥ ४० ॥
मन्दारपादपवने महिते रत्नमण्टपे ।
चिन्तामणि महापीठ मध्यमकसरोरुहे ॥ ४१ ॥
निवसन्तं मधुमती मोक्षलक्ष्म्याश्रिताङ्ककम् ।
सिद्धासनसमासीन मृजुकायं हसन्मुखम् ॥ ४२ ॥
वामहस्तेन वरदं दक्षिणेनाभयप्रदम् ।
भस्मोद्धूलितसर्वाङ्गं महापातकनाशनम् ॥ ४३ ॥
भुक्ति मुक्ति प्रदातारं दत्तात्रेयं दळादनम् ।
एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ॥ ४४ ॥
दत्तात्रेय श्शिरः पातु सहस्राराब्जसंस्थितः ।
फालं पात्वनसूयेय श्चन्द्रमण्डलमध्यगः ॥ ४५ ॥
आज्ञां मनोमयः पातु हं क्षं द्विदळपद्मगः ।
ज्योतीरूपोऽक्षिणी पातु शब्दात्मक श्श्रुतिः ॥ ४६ ॥
नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः ।
जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ ४७ ॥
कपोला वत्रिजः पातु पात्वशेषास्य मात्मवित् ।
सर्वात्मा षोडशाराब्जे स्थितः कर्मसतिर्गळम् ॥ ४८ ॥
स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृपादिभूः ।
जतृणी विश्वजित्पातु पातु वक्षस्थलं हरिः ॥ ४९ ॥
कादिकान्तद्वादळारपद्मगो मारुतात्मकः ।
योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ ५० ॥
पार्श्वौ हरिः पार्श्ववर्ती पृष्ठं पृष्ठस्थितोऽवतु ।
हठयोगादियोगज्ञः कुक्षिं पातु कृपानिधिः ॥ ५१ ॥
डकारादि फकारान्तर्दशारसरसीरुहम् ।
नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ ५२ ॥
कटिं कटिस्थब्रह्मांशो वासुदेवात्मकोऽवतु ।
जले तत्त्वमयो योगी रक्षतां मणिपूरकम् ॥ ५३ ॥
बकारादि लकारान्त षड्दळाम्बुजसंस्थितः ।
एकादशावतारात्मा स्वाधिष्ठानं च रक्षतु ॥ ५४ ॥
वादिसान्त चतुष्पत्र सरोरुहनिभोदकः ।
मूलाधारं महीरूपो रक्षता द्वीर्यनिग्रहः ॥ ५५ ॥
सिद्धासन समासीन ऊरू सिद्धेश्वरोऽवतु ।
अष्टीवद्वितयं पातु जानुन्यस्त कराम्बुजः ॥ ५६ ॥
जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः ।
सर्वाङ्गं पातु सर्वात्मा रोमाण्ववतु केशवः ॥ ५७ ॥
चर्मं चर्माम्बरः पातु रक्तं भक्तप्रियोऽवतु ।
मांसं मांसकरः पातु मज्जां सर्वात्मकोऽवतु ॥ ५८ ॥
अस्थिनी स्थिरधीः पायान्मेदो वेदात्मकोऽवतु ।
शुक्रं सुखकरः पाया च्छिरां पायाद्दृढाकृतिः ॥ ५९ ॥
मनोबुद्धिरहङ्कारं हृषीकेशात्मकोऽवतु ।
कर्मेन्द्रियाणि पात्वीशः पातु कर्मेन्द्रियाण्यजः ॥ ६० ॥
बन्धून् बन्धुतमः पातु शत्रुभ्यः पातु शत्रुजित् ।
गृहाराम धनक्षेत्र पुत्रादीनि शङ्करोऽवतु ॥ ६१ ॥
भार्यां प्रकृतिजत्पातु पश्वादीन् पातु शार्जभृत् ।
प्राणान् पातु प्रधानज्ञो भक्त्यादीन् पातु भास्करः ॥ ६२ ॥
सुखं चन्द्रात्मकः पातु दुःखत्पातु पुरान्तकः ।
प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ॥ ६३ ॥
याम्यां धर्मात्मकः पातु नैरृत्यां पातु वैरिजित् ।
वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ॥ ६४ ॥
कौबेर्यां धनदः पातु पात्वीशान्यां महागुरुः ।
ऊर्थ्वं पातु महासिद्धः पात्वधस्थाज्जटाधरः ॥ ६५ ॥
रक्षाहीनं तु मे स्थानं रक्ष त्वादिमुनीश्वरः ।
दत्तात्रेयो वज्रवर्मपञ्जरेणाभिरक्षतु ॥ ६६ ॥
एतन्मे वज्रकवचं यः पठे च्छृणुयादपि ।
वज्रकाय श्चिरञ्जीवी दत्तात्रेयो भवेद्ध्रुवम् ॥ ६७ ॥
शङ्कर उवाच ।
इत्युक्त्वाऽन्तर्दधे देवि दत्तात्रेयो दिगम्बरः ।
दळादनोऽपि तच्छृत्वा जीवन्मुक्तोऽद्य वर्तते ॥ ६८ ॥
भिल्लो दूरश्रवो नाम तदानीं श्रुतवा निदम् ।
सकृच्छ्र्वणमात्रेण वज्राङ्गो भवति ह्यसौ ॥ ६९ ॥
इत्येवं वज्रकवचं दत्तात्रेयस्य योगिनः ।
श्रुत्वाऽशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥ ७० ॥
पार्वत्युवाच ।
एतत्कवच माहात्म्यं वद विस्तरतो मम ।
कुत्र केन कदा जप्तं कियज्जाप्यं वद प्रभो ॥ ७१ ॥
उवाच शम्भु स्तत्सर्वं पार्वत्यै विनयोचितम् ।
शङ्कर उवाच ।
श्रुणु पार्वति वक्ष्यामि समाहिततयाऽखिलम् ॥ ७२ ॥
धर्मार्थ काममोक्षाणां इदमेव परायणम् ।
हस्त्यश्वरथपत्यादि सर्वैश्वर्यप्रदायकम् ॥ ७३ ॥
पुत्रमित्रकळत्रादि सर्वसन्तोषसाधनम् ।
वेदशास्त्रादिविद्यानां साधनं परमं मतम् ॥ ७४ ॥
सङ्गीतशास्त्र साहित्य सत्कवित्व विधायकम् ।
बुद्धि विद्या स्मृति प्रज्ञा मतिप्रौढ प्रदायकम् ॥ ७५ ॥
सर्वसन्तोषकरणं सर्व दुःख निवारणम् ।
शत्रुसंहारकृच्छिघ्रं यशः कीर्तिविवर्धनम् ॥ ७६ ॥
अष्टसङ्ख्या न्महारोगान् सन्निपातास्त्रयोदश ।
षण्ण्वत्यक्षिरोगांश्च विंशतिर्मेहरोगकः ।
अष्टादशानि कुष्टानि गुल्मान्यष्टविधान्यपि ॥ ७७ ॥
अशीति र्वातरोगांश्च चत्वारिंशाश्च पैत्यकाः ।
विंशतिः श्लेष्मका रोगः क्षयचातुर्थिकादयः ॥ ७८ ॥
मन्त्रयन्त्र प्रयोगाद्याः कल्पतन्त्रादिनिर्मिताः ।
ब्रह्मराक्षसवैतालाः कूश्माण्डादि ग्रहोद्भवाः ॥ ७९ ॥
सङ्घजा देशकालस्थाः तापत्रयसमुत्थिताः ।
नवग्रहसमुद्भूताः महापातकसम्भवाः ॥ ८० ॥
सर्वेरोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ।
अयुताव्रुत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ॥ ८१ ॥
अयुताद्वितयावृत्त्या अपमृत्युजयो भवेत् ।
अयुतत्रयमात्रेण खेचरत्वं प्रजायते ॥ ८२ ॥
सहस्रादयुतावृत्त्या सर्वकार्याणि साधयेत् ।
लक्षावृत्त्या कार्यसिद्धिः भवत्येव न संशयः ॥ ८३ ॥
विषवृक्षकमूलेतु यो जपेद्दक्षिणामुखः ।
कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ॥ ८४ ॥
औदुम्बरतरोर्मूले वृद्धिकामेन जप्यते ।
श्रीवृक्षमूले श्रीकामैः तिन्त्रिण्यां शान्तिकामिभिः ॥ ८५ ॥
अश्वत्थमूले ओजःकामैस्तु स्त्रीकामैस्तु सहकारके ।
ज्ञानार्थं तु तुलसीमूले गर्भगेहे सुतार्थिभिः ॥ ८६ ॥
धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्टके ।
देवालये सर्वकामै स्तत्काले सर्वदेशतः ॥ ८७ ॥
नाभिमात्रे जले स्थित्वा भानुमालोक्ययो जपेत् ।
युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ॥ ८८ ॥
कण्ठदघ्नजले रात्रौ यो वज्रकवचं पठेत् ।
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ॥ ८९ ॥
यत्र येन यदा यच्छ प्रसक्तं तन्निवर्तने ।
तत्र तेन तदा जप्यं तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ९० ॥
इत्युवाच शिवो गौर्यै रहस्यं परमं शुभम् ।
यः पठेद्वज्र कवचं दत्तात्रेयसमो भवेत् ॥ ९१ ॥
व्यास उवाच ।
एवं शिवेन कथतं हिमवत्सुतायैवच ।
प्रोक्तं दळादमुनयेऽत्रिसुतेन पूर्वकम् ॥ ९२ ॥
यः कोऽपि वज्रकवचं पठतीह दत्तात्रे ।
योपम श्चरति योगवतश्चिरायुः ॥ ९३ ॥
यूयं जपत भद्रं वो मुनयस्सह्यपर्वते ।
वज्र पञ्जरवर्मेदं सर्वसिद्धि मवाप्स्यथ ॥ ९४ ॥
॥ इति श्रीरुद्रयामळे उमामहेश्वर संवादे
श्रीदत्तात्रेयकवचस्तोत्रं सम्पूर्णम् ॥
॥ श्रीदत्तात्रेय पञ्जरम् ॥
अस्य श्रीदत्तात्रेय पञ्जर महामन्त्रस्य शबर रूप महारुद्र ऋषिः ।
अनुष्टुप् छन्दः । श्रीदत्तात्रेयो देवता ।
आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् ।
श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
द्रामित्यादि न्यासः । लोकत्रयेण दिग्बन्धः ॥
व्याख्यामुद्रां करसरसिजे दक्षिणेसन्दधानो
जानुन्यस्तापरकर सरोजात्तवेत्रोन्नतांसः ।
ध्यानात् सुखपरवशादर्थमामीलिताक्षॉ
दत्तात्रेयो भसितधवळः पातु नः कृत्तिवासाः ॥
ॐ नमो भगवते दत्तात्रेयाय,महागम्भीराय,वैकुण्ठवासाय,
शङ्ख चक्र गदा त्रिशूलधारिणे,वेणुनादाय,दुष्टसंहारकाय,
शिष्टपरिपालकाय,नारायणास्त्रधारिणे,चिद्रूपाय,प्रज्ञानम्ब्रह्म
महावाक्याय,सकल कर्म निर्मिताय,सच्चिदानन्दाय,सकललोक
सञ्चारणाय,सकलदेवता वशीकरणाय,सकललोक वशीकरणाय,
सकलभोग वशीकरणाय,लक्ष्मी ऐश्वर्यसम्पत्कराय,
महामातृ पितृपुत्रादि रक्षणाय,गुडोदक कलशपूजाय,
अष्टदळपीठाय,बिन्दुमध्ये लक्ष्मीनिवासाय,ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ
अष्टदळबन्धनाय,ह्रीं ह्रीं ह्रीं ह्रीं चतुष्कॉणबन्धनाय,
ह्रां ह्रां ह्रां ह्रां चतुर्द्वारबन्धनाय,ऋग्यजुस्सामाधर्वण
प्रणवसमेताय,उदात्तानुदात्तस्वरित प्रवचनाय,गायत्री सावित्री
सरस्वती देवताय,अवधूताश्रमाय,अजपा गायत्री समेताय,सकल
सम्पत्कराय,परमन्त्र परयन्त्र परतन्त्रोच्चाटनाय,आत्ममन्त्र
आत्मयन्त्र आत्मतन्त्र संरक्षणाय,सदोचित सकलमत स्थापिताय,
सद्गुरुदत्तात्रेयाय,हुं फट्स्वाहा ॥
॥ इति दत्तात्रेय पञ्जरं सम्पूर्णम् ॥
Encoded and proofread by
Venkata Sujatha Yellapragada sujathayv1968 at gmail.com
Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com
Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title : dattAtreyakalpaH
% File name : dattAtreyakalpaH.itx
% itxtitle : dattAtreyakalpaH
% engtitle : DattAtreya Kalpa
% Location : doc_deities_misc
% Sublocation : deities_misc
% SubDeity : dattatreya
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Venkata Sujatha Yellapragada sujathayv1968 at gmail.com Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by : Venkata Sujatha Yellapragada, Ramgopal Bhimavarapu, Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Description-comments :
% Indexextra : NONE
% Acknowledge-Permission:
% Latest update : September 25, 2016
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .