॥ श्रीशिवमहापुराणम् ४ ॥
४. १
॥ श्रीगणेशाय नमः ॥
अथ चतुर्थी कोटिरुद्रसंहिता ॥
प्रथमोऽध्यायः ॥ १ ॥
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो
यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्गाभिधौ ।
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिन-
स्तस्मै शैलसुताञ्चितार्धवपुषे शश्वन्नमस्तेजसे ॥ १ ॥
कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं
शशाङ्ककलयोज्ज्वलं शमितघोरतापत्रयम् ।
करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपु-
र्धराधरसुताभुजोद्वलयितं महो मङ्गलम् ॥ २ ॥
ऋषय ऊचुः ॥
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ।
शिवावतारमाहात्म्यं नानाख्यानसमन्वितम् ॥ ३ ॥
पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ।
लिङ्गसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तम ॥ ४ ॥
शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्ताः स्मो वयं प्रभो ।
शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम् ॥ ५ ॥
पृथिव्यां यानि लिङ्गानि तीर्थे तीर्थे शुभानि हि ।
अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ॥ ६ ॥
तानि तानि च दिव्यानि लिङ्गानि परमेशितुः ।
व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया ॥ ७ ॥
सूत उवाच ।
साधुपृष्टमृषिश्रेष्ठा लोकानां हितकाम्यया ।
कथयामि भवत्स्नेहात्तानि सङ्क्षेपतो द्विजाः ॥ ८ ॥
सर्वेषां शिवलिङ्गानां मुने सङ्ख्या न विद्यते ।
सर्वा लिङ्गमयी भूमिः सर्वं लिङ्गमयं जगत् ॥ ९ ॥
लिङ्गयुक्तानि तीर्थानि सर्वं लिङ्गे प्रतिष्ठितम् ।
सङ्ख्या न विद्यते तेषां तानि किञ्चिद्ब्रवीम्यहम् ॥ ४. १. १० ॥
यत्किञ्चिद् दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ।
तत्सर्वं शिवरूपं हि नान्यदस्तीति किञ्चन ॥ ११ ॥
तथापि श्रूयतां प्रीत्या कथयामि यथाश्रुतम् ।
लिङ्गानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह ॥ १२ ॥
पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ।
सर्वत्र पूज्यते शम्भुः स देवासुरमानुषैः ॥ १३ ॥
त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम् ।
अनुग्रहाय लोकानां लिङ्गरूपेण सत्तमाः ॥ १४ ॥
अनुग्रहाय लोकानां लिङ्गानि च महेश्वरः ।
दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा ॥ १५ ॥
यत्र यत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ।
तत्र तत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा ॥ १६ ॥
लोकानामुपकारार्थं स्वलिङ्गं चाप्यकल्पयत् ।
तल्लिङ्गं पूजयित्वा तु सिद्धिं समधिगच्छति ॥ १७ ॥
पृथिव्यां यानि लिङ्गानि तेषां सङ्ख्या न विद्यते ।
तथापि च प्रधानानि कथ्यन्ते च मया द्विजाः ॥ १८ ॥
प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥ १९ ॥
ज्योतिर्लिङ्गानि यानीह मुख्यमुख्यानि सत्तम ।
तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति ॥ ४. १. २० ॥
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारे परमेश्वरम् ॥ २१ ॥
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् ।
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥ २२ ॥
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।
सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥ २३ ॥
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ॥ २४ ॥
यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ।
प्राप्स्यन्ति कामं तं तं हि परत्रेह मुनीश्वराः ॥ २५ ॥
ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ।
तेषां च जननीगर्भे वासो नैव भविष्यति ॥ २६ ॥
एतेषां पूजनेनैव वर्णानां दुःखनाशनम् ।
इह लोके परत्रापि मुक्तिर्भवति निश्चितम् ॥ २७ ॥
ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ।
तत्कर्तुः सर्वपापानि भस्मसाद्यान्ति वै क्षणात् ॥ २८ ॥
ज्योतिषां चैव लिङ्गानां ब्रह्मादिभिरलं द्विजाः ।
विशेषतः फलं वक्तुं शक्यते न परैस्तथा ॥ २९ ॥
एकं च पूजितं येन षण्मासं तन्निरन्तरम् ।
तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम् ॥ ४. १. ३० ॥
हीनयोनौ यदा जातो ज्योतिर्लिङ्गं च पश्यति ।
तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः ॥ ३१ ॥
सत्कुले जन्म सम्प्राप्य धनाढ्यो वेदपारगः ।
शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम् ॥ ३२ ॥
म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः ।
द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत् ॥ ३३ ॥
ज्योतिषां चैव लिङ्गानां किञ्चित्प्रोक्तं फलं मया ।
ज्योतिषां चोपलिङ्गानि श्रूयन्तामृषिसत्तमाः ॥ ३४ ॥
सोमेश्वरस्य यल्लिङ्गमन्तकेशमुदाहृतम् ।
मह्याः सागरसंयोगे तल्लिङ्गमुपलिङ्गकम् ॥ ३५ ॥
मल्लिकार्जुनसम्भूतमुपलिङ्गमुदाहृतम् ।
रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम् ॥ ३६ ॥
महाकालभवं लिङ्गं दुग्धेशमिति विश्रुतम् ।
नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम् ॥ ३७ ॥
ओंकारजं च यल्लिङ्गं कर्दमेशमिति श्रुतम् ।
प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम् ॥ ३८ ॥
केदारेश्वरसञ्जातं भूतेशं यमुनातटे ।
महापापहरं प्रोक्तं पश्यतामर्चतां तथा ॥ ३९ ॥
भीमशङ्करसम्भूतं भीमेश्वरमिति स्मृतम् ।
सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम् ॥ ४. १. ४० ॥
विश्वेश्वराच्च यज्जातं शरण्येश्वर विश्रुतम् ।
त्र्यम्बकस्य च यत्प्रोक्तं सिद्धेश्वर इति श्रुतम् ॥ ४१ ॥
वैद्यनाथाच्च यज्जातं वैजनाथ इति स्मृतम् ।
नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम् ॥ ४२ ॥
मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम् ।
रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ॥ ४३ ॥
घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम्
ज्योतिर्लिङ्गोपलिङ्गानि प्रोक्तानीह मया द्विजाः ॥ ४४ ॥
दर्शनात्पापहारीणि सर्वकामप्रदानि च ।
एतानि सुप्रधानानि मुख्यतां हि गतानि च ।
अन्यानि चापि मुख्यानि श्रूयन्तामृषिसत्तमाः ॥ ४५ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिंगतदुपलिंङ्गमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
४. २ द्वितीयोऽध्यायः ॥ २ ॥
सूत उवाच ।
गङ्गातीरे सुप्रसिद्धा काशी खलु विमुक्तिदा ।
सा हि लिङ्गमयी ज्ञेया शिववासस्थली स्मृता ॥ १ ॥
लिङ्गं तत्रैव मुख्यं च सम्प्रोक्तमविमुक्तकम् ।
कृत्तिवासेश्वरः साक्षात्तत्तुल्यो वृद्धकालकः ॥ २ ॥
तिलभाण्डेश्वरश्चैव दशाश्वमेध एव च ।
गङ्गासागरसंयोगे सङ्गमेश इति स्मृतः ॥ ३ ॥
भूतेश्वरो यः सम्प्रोक्तो भक्तसर्वार्थदः सदा ।
नारीश्वर इति ख्यातः कौशिक्याः स समीपगः ॥ ४ ॥
वर्तते गण्डकीतीरे बटुकेश्वर एव सः ।
पूरेश्वर इति ख्यातः फल्गुतीरे सुखप्रदः ॥ ५ ॥
सिद्धनाथेश्वरश्चैव दर्शनात्सिद्धिदो नृणाम् ।
दूरेश्वर इति ख्यातः पत्तने चोत्तरे तथा ॥ ६ ॥
शृंगेश्वरश्च नाम्ना वै वैद्यनाथस्तथैव च ।
जप्येश्वरस्तथा ख्यातो यो दधीचिरणस्थले ॥ ७ ॥
गोपेश्वरः समाख्यातो रङ्गेश्वर इति स्मृतः ।
वामेश्वरश्च नागेशः कामेशो विमलेश्वरः ॥ ८ ॥
व्यासेश्वरश्च विख्यातः सुकेशश्च तथैव हि ।
भाण्डेश्वरश्च विख्यातो हुङ्कारेशस्तथैव च ॥ ९ ॥
सुरोचनश्च विख्यातो भूतेश्वर इति स्वयम् ।
सङ्गमेशस्तथा प्रोक्तो महापातकनाशनः ॥ ४. २. १० ॥
ततश्च तप्तकातीरे कुमारेश्वर एव च ।
सिद्धेश्वरश्च विख्यातः सेनेशश्च तथा स्मृतः ॥ ११ ॥
रामेश्वर इति प्रोक्तो कुम्भेशश्च परो मतः ।
नन्दीश्वरश्च पुञ्जेशः पूर्णायां पूर्णकस्तथा ॥ १२ ॥
ब्रह्मेश्वरः प्रयागे च ब्रह्मणा स्थापितः पुरा ।
दशाश्वमेधतीर्थे हि चतुर्वर्गफलप्रदः ॥ १३ ॥
तथा सोमेश्वरस्तत्र सर्वापद्विनिवारकः ।
भारद्वाजेश्वरश्चैव ब्रह्मवर्चःप्रवर्द्धकः ॥ १४ ॥
शूलटङ्केश्वरः साक्षात्कामनाप्रद ईरितः ।
माधवेशश्च तत्रैव भक्तरक्षाविधायकः ॥ १५ ॥
नागेशाख्यः प्रसिद्धो हि साकेतनगरे द्विजाः ।
सूर्यवंशोद्भवानां च विशेषेण सुखप्रदः ॥ १६ ॥
पुरुषोत्तमपुर्यां तु भुवनेशः सुसिद्धिदः ।
लोकेशश्च महालिङ्गः सर्वानन्दप्रदायकः ॥ १७ ॥
कामेश्वरः शम्भुलिङ्गो गङ्गेशः परशुद्धिकृत् ।
शुक्रेश्वरः शुक्रसिद्धो लोकानां हितकाम्यया ॥ १८ ॥
तथा वटेश्वरः ख्यातः सर्वकामफलप्रदः ।
सिन्धुतीरे कपालेशो वक्त्रेशः सर्वपापहा ॥ १९ ॥
धौतपापेश्वरः साक्षादंशेन परमेश्वरः ।
भीमेश्वर इति प्रोक्तः सूर्येश्वर इति स्मृतः ॥ ४. २. २० ॥
नन्दीश्वरश्च विज्ञेयो ज्ञानदो लोकपूजितः ।
नाकेश्वरो महापुण्यस्तथा रामेश्वरः स्मृतः ॥ २१ ॥
विमलेश्वरनामा वै कण्टकेश्वर एव च ।
पूर्वसागरसंयोगे धर्तुकेशस्तथैव च ॥ २२ ॥
चन्द्रेश्वरश्च विज्ञेयश्चन्द्रकान्तिफलप्रदः ।
सर्वकामप्रदश्चैव सिद्धेश्वर इति स्मृतः ॥ २३ ॥
बिल्वेश्वरश्च विख्यातश्चान्धकेशस्तथैव च ।
यत्र वा ह्यन्धको दैत्यः शङ्करेण हतः पुरा ॥ २४ ॥
अयं स्वरूपमंशेन धृत्वा शम्भुः पुनः स्थितः ।
शरणेश्वरविख्यातो लोकानां सुखदः सदा ॥ २५ ॥
कर्दमेशः परः प्रोक्तः कोटीशश्चार्बुदाचले ।
अचलेशश्च विख्यातो लोकानां सुखदः सदा ॥ २६ ॥
नागेश्वरस्तु कौशिक्यास्तीरे तिष्ठति नित्यशः ।
अनन्तेश्वरसंज्ञश्च कल्याणशुभभाजनः ॥ २७ ॥
योगेश्वरश्च विख्यातो वैद्यनाथेश्वरस्तथा ।
कोटीश्वरश्च विज्ञेयः सप्तेश्वर इति स्मृतः ॥ २८ ॥
भद्रेश्वरश्च विख्यातो भद्रनामा हरः स्वयम् ।
चण्डीश्वरस्तथा प्रोक्तः सङ्गमेश्वर एव च ॥ २९ ॥
पूर्वस्यां दिशि जातानि शिवलिङ्गानि यानि च ।
सामान्यान्यपि चान्यानि तानीह कथितानि ते ॥ ४. २. ३० ॥
दक्षिणस्यां दिशि तथा शिवलिङ्गानि यानि च ।
सञ्जातानि मुनिश्रेष्ठ तानि ते कथयाम्यहम् ॥ ३१ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवलिंगमाहात्म्यवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
४. ३ तृतीयोऽध्यायः ॥ ३ ॥
सूत उवाच ।
ब्रह्मपुर्यां चित्रकूटे लिङ्गं मत्तगजेन्द्रकम् ।
ब्रह्मणा स्थापितं पूर्वं सर्वकामसमृद्धिदम् ॥ १ ॥
तत्पूर्वदिशि कोटीशं लिङ्गं सर्ववरप्रदम् ।
गोदावर्याः पश्चिमे तल्लिङ्गं पशुपतिनामकम् ॥ २ ॥
दक्षिणस्यां दिशि कश्चिदत्रीश्वर इति स्वयम् ।
लोकानामुपकारार्थमनसूयासुखाय च ॥ ३ ॥
प्रादुर्भूतः स्वयं देवो ह्यनावृष्ट्यामजीवयत् ।
स एव शङ्करः साक्षादंशेन स्वयमेव हि ॥ ४ ॥
ऋषय ऊचुः ॥
सूत सूत महाभाग कथमत्रीश्वरो हरः ।
उत्पन्नः परमो दिव्यस्तत्त्वं कथय सुव्रत ॥ ५ ॥
सूत उवाच ।
साधु पृष्टमृषिश्रेष्ठाः कथयामि कथां शुभाम् ।
यां कथां सततं श्रुत्वा पातकैर्मुच्यते ध्रुवम् ॥ ६ ॥
दक्षिणस्यां दिशि महत् कामदं नाम यद्वनम् ।
चित्रकूटसमीपेऽस्ति तपसां हितदं सताम् ॥ ७ ॥
तत्र च ब्रह्मणः पुत्रो ह्यत्रिनामा ऋषिः स्वयम् ।
तपस्तेपेऽतिकठिनमनसूयासमन्वितः ॥ ८ ॥
पूर्वं कदाचित्तत्रैव ह्यनावृष्टिरभून्मुने ।
दुःखदा प्राणिनां दैवाद्विकटा शतवार्षिकी ॥ ९.
वृक्षाः शुष्कास्तदा सर्वे पल्लवानि फलानि च ।
नित्यार्थं न जलं क्वापि दृष्टमासीन्मुनीश्वराः ॥ ४. ३. १० ॥
आर्द्रीभावो न लभ्येत खरा वाता दिशो दश ।
हाहाकारो महानासीत्पृथिव्यां दुःखदोऽति हि ॥ ११ ॥
संवर्तं चैव भूतानां दृष्ट्वात्रिगृहिणी प्रिया ।
साध्वी चैवाब्रवीदत्रिं मया दुःखं न सह्यते ॥ १२ ॥
समाधौ च विलीनोऽभूदासने संस्थितः स्वयम् ।
प्राणायामं त्रिरावृत्त्या कृत्वा मुनिवरस्तदा ॥ १३ ॥
ध्यायति स्म परं ज्योतिरात्मस्थमात्मना च सः ।
अत्रिर्मुनिवरो ज्ञानी शङ्करं निर्विकारकम् ॥ १४ ॥
स्वामिनि ध्यानलीने च शिष्यास्ते दूरतो गताः ।
अन्नं विना तदा ते तु मुक्त्वा तं स्वगुरुं मुनिम् ॥ १५ ॥
एकाकिनी तदा जाता सानसूया पतिव्रता ।
सिषेवे सा च सततं तं मुदा मुनिसत्तमम् ॥ १६ ॥
पार्थिवं सुन्दरं कृत्वा मन्त्रेण विधिपूर्वकम् ।
मानसैरुपचारैश्च पूजयामास शङ्करम् ॥ १७ ॥
तुष्टाव शङ्करं भक्त्या संसेवित्वा मुहुर्मुहुः ।
बद्धाञ्जलिपुटा भूत्वा प्रक्रम्य स्वामिनं शिवम् ॥ १८ ॥
दण्डवत्प्रणिपातेन प्रतिप्रक्रमणं तदा ।
चकार सुचरित्रा सानसूया मुनिकामिनी ॥ १९ ॥
दैत्याश्च दानवाः सर्वे दृष्ट्वा तु सुन्दरीं तदा ।
विह्वलाश्चाभवँस्तत्र तेजसा दूरतः स्थिताः ॥ ४. ३. २० ॥
अग्निं दृष्ट्वा यथा दूरे वर्तन्ते तद्वदेव हि ।
तथैनां च तदा दृष्ट्वा नायान्तीह समीपगाः ॥ २१ ॥
अत्रेश्च तपसश्चैवानसूयाशिवसेवनम् ।
विशिष्यते स्म विप्रेन्द्रा मनोवाक्कायसंस्कृतम् ॥ २२ ॥
तावत्कालं तु सा देवी परिचर्यां चकार ह ।
यावत्कालं मुनिवरः प्राणायामपरायणः ॥ २३ ॥
तौ दम्पती तदा तत्र स्वस्वकार्यपरायणौ ।
संस्थितौ मुनिशार्दूल नान्यः कश्चित्परः स्थितः ॥ २४ ॥
एवं जाते तदा काले ह्यत्रिश्च ऋषिसत्तमः ।
ध्याने च परमे लीनो न व्यबुध्यत किञ्चन ॥ २५ ॥
अनसूयापि सा साध्वी स्वामिनं वै शिवं तथा ।
भेजे नान्यत्परं किञ्चिज्जानीते स्म च सा सती ॥ २६ ॥
तस्यैव तपसा सर्वे तस्याश्च भजनेन च ।
देवाश्च ऋषयश्चैव गङ्गाद्याः सरितस्तथा ॥ २७ ॥
दर्शनार्थं तयोः सर्वाः परप्रीत्या समाययुः ।
दृष्ट्वा च तत्तपः सेवां विस्मयं परमं ययुः ॥ २८ ॥
तयोस्तदद्भुतं दृष्ट्वा समूचुर्भजनं वरम् ।
उभयोः किं विशिष्टं च तपसो भजनस्य च ॥ २९ ॥
अत्रेश्चैव तपःप्रोक्तमनसूयानुसेवनम् ।
तत्सर्वमुभयोर्दृष्ट्वा समूचुर्भजनं वरम् ॥ ४. ३. ३० ॥
पूर्वैश्च ऋषिभिश्चैव दुष्करं तु तपः कृतम् ।
एतादृशं तु केनापि क्व कृतं नैतदब्रुवन् ॥ ३१ ॥
धन्योऽयं च मुनिर्धन्या तथेयमनसूयिका ।
यदैताभ्यां परं प्रीत्या क्रियते सुतपः पुनः ॥ ३२ ॥
एतादृशं शुभं चैतत्तपो दुष्करमुत्तमम् ।
त्रिलोक्यां क्रियते केन साम्प्रतं ज्ञायते न हि ॥ ३३ ॥
तयोरेव प्रशंसां च कृत्वा ते तु यथागतम् ।
गतास्ते च तदा तत्र गङ्गाञ्च गिरिशं विना ॥ ३४ ॥
गङ्गा मद्भजनप्रीता साध्वी धर्मविमोहिता ।
कृत्वोपकारमेतस्यागमिष्यामीत्युवाच सा ॥ ३५ ॥
शिवोऽपि ध्यानसम्बद्धो मुनेरत्रेर्मुनीश्वराः ।
पूर्णांशेन स्थितस्तत्र कैलासं न जगाम ह ॥ ३६ ॥
पञ्चाशच्च तथा चात्र चत्वारि ऋषिसत्तमाः ।
वर्षाणि च गतान्यासन् वृष्टिर्नैवाभवत्तदा ॥ ३७ ॥
यावच्चाप्यत्रिणा ह्येवं तपसा ध्यानमाश्रितम् ।
अनसूया तदा नैव गृह्णामीतीषणा कृता ॥ ३८ ॥
एवं च क्रियमाणे हि मुनिना तपसि स्थिते ।
अनसूयासुभजने यज्जातं श्रूयतामिति ॥ ३९ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
४. ४ चतुर्थोऽध्यायः ॥ ४ ॥
। सूत उवाच ॥
कदाचित्स ऋषिश्रेष्ठो ह्यत्रिर्ब्रह्मविदां वरः ।
जागृतश्च जलं देहि प्रत्युवाच प्रियामिति ॥ १ ॥
सापि साध्वी त्ववश्यं च गृहीत्वाथ कमण्डलुम् ।
जगाम विपिने तत्र जलं मे नीयते कुतः ॥ २ ॥
किं करोमि क्व गच्छामि कुतो नीयेत वै जलम् ।
इति विस्मयमापन्ना तां गङ्गां हि ददर्श सा ॥ ३ ॥
तामनुव्रजती यावत् साब्रवीच्च तदा हि ताम् ।
गङ्गा सरिद्वरा देवी बिभ्रती सुन्दरां तनुम् ॥ ४ ॥
गङ्गोवाच ॥
प्रसन्नास्मि च ते देवि कुत्र यासि वदाधुना ।
धन्या त्वं सुभगे सत्यं तवाज्ञां च करोम्यहम् ॥ ५ ॥
सूत उवाच ।
तद्वचश्च तदा श्रुत्वा ऋषिपत्नी तपस्विनी ।
प्रत्युवाच वचः प्रीत्या स्वयं सुचकिता द्विजाः ॥ ६ ॥
अनसूयोवाच ॥
का त्वं कमलपत्राक्षि कुतो वा त्वं समागता ।
तथ्यं ब्रूहि कृपां कृत्वा साध्वी सुप्रवदा सती ॥ ७ ॥
सूत उवाच ।
इत्युक्ते च तया तत्र मुनिपत्न्या मुनीश्वराः ।
सरिद्वरा दिव्यरूपा गङ्गा वाक्यमथाब्रवीत् ॥ ८ ॥
गङ्गोवाच ॥
स्वामिनः सेवनं दृष्ट्वा शिवस्य च परात्मनः ।
साध्वि धर्मं च ते दृष्ट्वा स्थितास्मि तव सन्निधौ ॥ ९ ॥
अहं गङ्गा समायाता भजनात्ते शुचिस्मिते ।
वशीभूता ह्यहं जाता यदिच्छसि वृणीष्व तत् ॥ ४. ४. १० ॥
सूत उवाच ।
इत्युक्ते गङ्गया साध्वी नमस्कृत्य पुरः स्थिता ।
उवाचेति जलं देहि चेत्प्रसन्ना ममाधुना ॥ ११ ॥
इत्येतद्वचनं श्रुत्वा गर्तं कुर्विति साब्रवीत् ।
शीघ्रं चायाच्च तत्कृत्वा स्थिता तत्क्षणमात्रतः ॥ १२ ॥
तत्र सा च प्रविष्टा च जलरूपमभूत्तदा ।
आश्चर्यं परमं गत्वा गृहीतं च जलं तया ॥ १३ ॥
उवाच वचनं चैतल्लोकानां सुखहेतवे ।
अनसूया मुनेः पत्नी दिव्यरूपां सरिद्वराम् ॥ १४ ॥
अनसूयोवाच ॥
यदि त्वं सुप्रसन्ना मे वर्तसे च कृपा मयि ।
स्थातव्यं च त्वया तावत् मत्स्वामी यावदाव्रजेत् ॥ १५ ॥
सूत उवाच ।
इति श्रुत्वानसूयाया वचनं सुखदं सताम् ।
गङ्गोवाच प्रसन्नाति ह्यत्रेर्दास्यसि मेऽनघे ॥ १६ ॥
इत्युक्ते च तया तत्र ह्यनयापि कृतं तथा ।
स्वामिने तज्जलं दिव्यं दत्त्वा तत्पुरतः स्थिता ॥ १७ ॥
स ऋषिश्चापि सुप्रीत्या स्वाचम्य विधिपूर्वकम् ।
पपौ दिव्यं जलं तच्च पीत्वा सुखमवाप ह ॥ १८ ॥
अहो नित्यं जलं यच्च पीयते तज्जलं न हि ।
विचार्येति च तेनाशु परितश्चावलोकितम् ॥ १९ ॥
शुष्कान्वृक्षान्समालोक्य दिशो रूक्षतरास्तथा ।
उवाच तामृषिश्रेष्ठो न जातं वर्षणं पुनः ॥ ४. ४. २० ॥
तदुक्तं तत् समाकर्ण्य नेति नेति प्रियां तदा ।
तामुवाच पुनः सोऽपि जलं नीतं कुतस्त्वया ॥ २१ ॥
इत्युक्ते तु तदा तेन विस्मयं परमं गता ।
अनसूया स्वमनसि सचिन्ता तु मुनीश्वराः ॥ २२ ॥
निवेद्यते मया चेद्वै तदोत्कर्षो भवेन्मम ।
निवेद्यते यदा नैव व्रतभङ्गो भवेन्मम ॥ २३ ॥
नोभयं च तथा स्याद्वै निवेद्यं तत्तथा मम ।
इति यावद्विचार्येत तावत्पृष्टा पुनः पुनः ॥ २४ ॥
अथानुग्रहतः शंभोः प्राप्तबुद्धिः पतिव्रता ।
उवाच श्रूयतां स्वामिन्यज्जातं कथयामि ते ॥ २५ ॥
अनसूयोवाच ॥
शङ्करस्य प्रतापाच्च तवैव सुकृतैस्तथा ।
गङ्गा समागतात्रैव तदीयं सलिलं त्विदम् ॥ २६ ॥
सूत उवाच ।
एवं वचस्तदा श्रुत्वा मुनिर्विस्मयमानसः ।
प्रियामुवाच सुप्रीत्या शङ्करं मनसा स्मरन् ॥ २७ ॥
अत्रिरुवाच ।
प्रिये सुन्दरि त्वं सत्यमथ वाचं व्यलीककाम् ।
ब्रवीषि च यथार्थं त्वं न मन्ये दुर्लभं त्विदम् ॥ २८ ॥
असाध्यं योगिभिर्यच्च देवैरपि सदा शुभे ।
तच्चैवाद्य कथं जातं विस्मयः परमो मम ॥ २९ ॥
यद्येवं दृश्यते चेद्वै तन्मन्येऽहं न चान्यथा ।
इति तद्वचनं श्रुत्वा प्रत्युवाच पतिं प्रिया ॥ ४. ४. ३० ॥
अनसूयोवाच ॥
आगम्यतां मया सार्धं त्वया नाथ महामुने ।
सरिद्वराया गङ्गाया द्रष्टुमिच्छा भवेद्यदि ॥ ३१ ॥
सूत उवाच ।
इत्युक्त्वा तु समादाय पतिं तं सा पतिव्रता ।
गता द्रुतं शिवं स्मृत्वा यत्र गङ्गा सरिद्वरा ॥ ३२ ॥
दर्शयामास तां तत्र गङ्गां पत्ये पतिव्रता ।
गर्ते च संस्थितां तत्र स्वयं दिव्यस्वरूपिणीम् ॥ ३३ ॥
तत्र गत्वा ऋषिश्रेष्ठो गर्तं च जलपूरितम् ।
आकण्ठं सुन्दरं दृष्ट्वा धन्येयमिति चाब्रवीत् ॥ ३४ ॥
किं मदीयं तपश्चैव किमन्येषां पुनस्तदा ।
इत्युक्त्वा मुनिशार्दूलो भक्त्या तुष्टाव तां तदा ॥ ३५ ॥
ततो हि स मुनिस्तत्र सुस्नातः सुभगे जले ।
आचम्य पुनरेवात्र स्तुतिं चक्रे पुनः पुनः ॥ ३६ ॥
अनसूयापि संस्नाता सुन्दरे तज्जले तदा ।
नित्यं चक्रे मुनिः कर्म सानसूयापि सुव्रता ॥ ३७ ॥
ततः सोवाच तां गङ्गा गम्यते स्वस्थलं मया ।
इत्युक्ते च पुनः साध्वी तामुवाच सरिद्वराम् ॥ ३८ ॥
अनसूयोवाच ॥
यदि प्रसन्ना देवेशि यद्यस्ति च कृपा मयि ।
त्वया स्थेयं निश्चलत्वादस्मिन्देवि तपोवने ॥ ३९ ॥
महतां च स्वभावश्च नाङ्गीकृत्य परित्यजेत् ।
इत्युक्त्वा च करौ बद्ध्वा तां तुष्टाव पुनः पुनः ॥ ४. ४. ४० ॥
ऋषिश्चापि तथोवाच त्वया स्थेयं सरिद्वरे ।
सानुकूला भव त्वं हि सनाथान्देवि नः कुरु ॥ ४१ ॥
तदीयं तद्वचः श्रुत्वा रम्यं गङ्गा सरिद्वरा ।
प्रसन्नमानसा गङ्गानसूयां वाक्यमब्रवीत् ॥ ४२ ॥
गङ्गोवाच ॥
शङ्करार्चनसंभूतफलं वर्षस्य यच्छसि ।
स्वामिनश्च तदा स्थास्ये देवानामुपकारणात् ॥ ४३ ॥
तथा दानैर्न मे तुष्टिस्तीर्थस्नानैस्तथा च वै ।
यज्ञैस्तथाथवा योगैर्यथा पातिव्रतेन च ॥ ४४ ॥
पतिव्रतां यथा दृष्ट्वा मनसः प्रीणनं भवेत् ।
तथा नान्यैरुपायैश्च सत्यं मे व्याहृतं सति ॥ ४५ ॥
पतिव्रतां स्त्रियं दृष्ट्वा पापनाशो भवेन्मम ।
शुद्धा जाता विशेषेण गौरीतुल्या पतिव्रता ॥ ४६ ॥
तस्माच्च यदि लोकस्य हिताय तत्प्रयच्छसि ।
तर्ह्यहं स्थिरतां यास्ये यदि कल्याणमिच्छसि ॥ ४७ ॥
सूत उवाच ।
इत्येवं वचनं श्रुत्वानसूया सा पतिव्रता ।
गङ्गायै प्रददौ पुण्यं सर्वं तद्वर्षसम्भवम् ॥ ४८ ॥
महतां च स्वभावो हि परेषां हितमावहेत् ।
सुवर्णं चन्दनं चेक्षुरसस्तत्र निदर्शनम् ॥ ४९ ॥
एतद् दृष्ट्वानसूयं तत्कर्म पातिव्रतं महत् ।
प्रसन्नोऽभून्महादेवः पार्थिवादाविराशु वै ॥ ४. ४. ५० ॥
शम्भुरुवाच ।
दृष्ट्वा ते कर्म साध्व्येतत् प्रसन्नोऽस्मि पतिव्रते ।
वरं ब्रूहि प्रिये मत्तो यतः प्रियतरासि मे ॥ ५१ ॥
अथ तौ दम्पती शम्भुमभूतां सुन्दराकृतिम् ।
पञ्चवक्त्रादिसंयुक्तं हरं प्रेक्ष्य सुविस्मितौ ॥ ५२ ॥
नत्वा स्तुत्वा करौ बद्ध्वा महाभक्तिसमन्वितौ ।
अवोचेतां समभ्यर्च्य शङ्करं लोकशङ्करम् ॥ ५३ ॥
दम्पती ऊचतुः ॥
यदि प्रसन्नो देवेश प्रसन्ना जगदम्बिका ।
अस्मिंस्तपोवने तिष्ठ लोकानां सुखदो भव ॥ ५४ ॥
प्रसन्ना च तदा गङ्गा प्रसन्नश्च शिवस्तदा ।
उभौ तौ च स्थितौ तत्र यत्रासीदृषिसत्तमः ॥ ५५ ॥
अत्रीश्वरश्च नाम्नासीदीश्वरः परदुःखहा ।
गङ्गा सापि स्थिता तत्र तदा गर्तेऽथ मायया ॥ ५६ ॥
तद्दिनं हि समारभ्य तत्राक्षय्यजलं सदा ।
हस्तमात्रे हि तद्गर्ते गङ्गा मन्दाकिनी ह्यभूत् ॥ ५७ ॥
तत्रैव ऋषयो दिव्याः समाजग्मुः सहाङ्गनाः ।
तीर्थात्तीर्थाच्च ते सर्वे ये पुरा निर्गता द्विजाः ॥ ५८ ॥
यवाश्च व्रीहयश्चैव यज्ञयागपरायणाः ।
युक्ता ऋषिवरैस्तैश्च होमं चक्रुश्च ते जनाः ॥ ५९ ॥
कर्मभिस्तैश्च सन्तुष्टा वृष्टिं चक्रुर्घनास्तदा ।
आनन्दः परमो लोके बभूवाति मुनीश्वराः ॥ ४. ४. ६० ॥
अत्रीश्वरस्य माहात्म्यमित्युक्तं वः सुखावहम् ।
भुक्तिमुक्तिप्रदं सर्वकामदं भक्तिवर्धनम् ॥ ६१ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
४. ५ पञ्चमोऽध्यायः ॥ ५ ॥
सूत उवाच ।
कालञ्जरे गिरौ दिव्ये नीलकण्ठो महेश्वरः ।
लिङ्गरूपः सदा चैव भक्तानन्दप्रदः सदा ॥ १ ॥
महिमा तस्य दिव्योऽस्ति श्रुतिस्मृतिप्रकीर्तितः.
तीर्थं तदाख्यया तत्र स्नानात्पातकनाशकृत् ॥ २ ॥
रेवातीरे यानि सन्ति शिवलिङ्गानि सुव्रताः ।
सर्वसौख्यकराणीह तेषां सङ्ख्या न विद्यते ॥ ३ ॥
सा च रुद्रस्वरूपा हि दर्शनात्पापहारिका ।
तस्यां स्थिताश्च ये केचित्पाषाणाः शिवरूपिणः ॥ ४ ॥
तथापि च प्रवक्ष्यामि यथान्यानि मुनीश्वराः ।
प्रधानशिवलिङ्गानि भुक्तिमुक्तिप्रदानि च ॥ ५ ॥
आर्तेश्वरसुनामा हि वर्तते पापहारकः ।
परमेश्वर इति ख्यातः सिंहेश्वर इति स्मृतः ॥ ६ ॥
शर्मेशश्च तथा चात्र कुमारेश्वर एव च ।
पुण्डरीकेश्वरः ख्यातो मण्डपेश्वर एव च ॥ ७ ॥
तीक्ष्णेशनामा तत्रासीद्दर्शनात्पापहारकः ।
धुन्धुरेश्वरनामासीत्पापहा नर्मदातटे ॥ ८ ॥
शूलेश्वर इति ख्यातस्तथा कुम्भेश्वरः स्मृतः ।
कुबेरेश्वरनामापि तथा सोमेश्वरः स्मृतः ॥ ९ ॥
नीलकण्ठो मङ्गलेशो मङ्गलायतनो महान् ।
महाकपीश्वरो देवः स्थापितो हि हनूमता ॥ ४. ५. १० ॥
ततश्च नन्दिको देवो हत्याकोटिनिवारकः ।
सर्वकामार्थदश्चैव मोक्षदो हि प्रकीर्तितः ॥ ११ ॥
नन्दीकेशं च यश्चैव पूजयेत्परया मुदा ।
नित्यं तस्याखिला सिद्धिर्भविष्यति न संशयः ॥ १२ ॥
तत्र तीरे च यः स्नाति रेवायां मुनिसत्तमाः ।
तस्य कामाश्च सिध्यन्ति सर्वं पापं विनश्यति ॥ १३ ॥
ऋषय ऊचुः ॥
एवं तस्य च माहात्म्यं कथं तत्र महामते ।
नन्दिकेशस्य कृपया कथ्यतां च त्वयाधुना ॥ १४ ॥
सूत उवाच ।
सम्यक् पृष्टं भवद्भिश्च कथयामि यथाश्रुतम् ।
शौनकाद्याश्च मुनयः सर्वे हि शृणुतादरात् ॥ १५ ॥
पुरा युधिष्ठिरेणैवं पृष्टश्च ऋषिसत्तमः ।
यथोवाच तथा वच्मि भवत्स्नेहानुसारतः ॥ १६ ॥
रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ।
विराजते सुशोभाढ्या चतुर्वर्णसमाकुला ॥ १७ ॥
तत्र द्विजवरः कश्चिदुतथ्यकुलसम्भवः ।
काश्यां गतश्च पुत्राभ्यामर्पयित्वा स्वपत्निकाम् ॥ १८ ॥
तत्रैव स मृतो विप्रः पुत्राभ्यां च श्रुतं तदा ।
तदीयं चैव तत्कृत्यं चक्राते पुत्रकावुभौ ॥ १९ ॥
पत्नी च पालयामास पुत्रौ पुत्रहितैषिणी ।
किञ्चिच्च वर्जयित्वा च विभक्तं वै धनं तया ॥ ४. ५. २० ॥
स्वीयं च रक्षितं किञ्चिद्धनं मरणहेतवे ।
ततश्च द्विजपत्नी हि कियत्काले गते च सा ॥ २१ ॥
कदाचिन्म्रियमाणा सा विविधं पुण्यमाचरत् ।
न मृता दैवयोगेन द्विजपत्नी च सा द्विजाः ॥ २२ ॥
यदा प्राणान्न मुमुचे माता दैवात्तयोश्च सा ।
तद् द्रुष्टवा जननीकष्टं पुत्रकावूचतुस्तदा ॥ २३ ॥
पुत्रावूचतुः ॥
किं न्यूनं विद्यते मातः कष्टं यद्विद्यते महत् ।
व्रियतां तद् द्रुतं प्रीत्या तदावां करवावहे ॥ २४ ॥
सूत उवाच ।
तच्छ्रुत्वोक्तं तया तत्र न्यूनं मे विद्यते बहु ।
तदेव क्रियते चेद्वै सुखेन मरणं भवेत् ॥ २५ ॥
ज्येष्ठपुत्रश्च यस्तस्यास्तेनोक्तं कथ्यतां त्वया ।
करिष्यामि तदेतद्धि तया च कथितं तदा ॥ २६ ॥
द्विजपत्न्युवाच ।
शृणु पुत्र वचः प्रीत्या पुरासीन्मे मनःस्पृहा ।
काश्यां गंतुं तथा नासीदिदानीं म्रियते पुनः ॥ २७ ॥
ममास्थीनि त्वया पुत्र क्षेपणीयान्यतन्द्रितम् ।
गङ्गाजले शुभं तेऽद्य भविष्यति न संशयः ॥ २८ ॥
। सूत उवाच ॥
इत्युक्ते च तया मात्रा स ज्येष्ठतनयोऽब्रवीत् ।
मातरं मातृभक्त्तस्तु सुव्रतां मरणोन्मुखीम् ॥ २९ ॥
। पुत्र उवाच ॥
मातस्त्वया सुखेनैव प्राणास्त्याज्या न संशयः ।
तव कार्यं पुरा कृत्वा पश्चात्कार्यं मदीयकम् ॥ ४. ५. ३० ॥
इति हस्ते जलं दत्त्वा यावत्पुत्रो गृहं गतः ।
तावत्सा च मृता तत्र हरस्मरणतत्परा ॥ ३१ ॥
तस्याश्चैव तु यत्कृत्यं तत्सर्वं संविधाय सः ।
मासिकं कर्म कृत्वा तु गमनाय प्रचक्रमे ॥ ३२ ॥
द्वयोः श्रेष्ठतरो यो वै सुवादो नाम विश्रुतः ।
तदस्थीनि समादाय निःसृतस्तीर्थकाम्यया ॥ ३३ ॥
सङ्गृह्य सेवकं कञ्चित्तेनैव सहितस्तदा ।
आश्वास्य भार्याम् पुत्राँश्च मातुः प्रियचिकीर्षया ॥ ३४ ॥
श्राद्धदानादिकं भोज्यं कृत्वा विधिमनुत्तमम् ।
मङ्गलस्मरणं कृत्वा निर्जगाम गृहाद् द्विजः ॥ ३५ ॥
तद्दिने योजनं गत्वा विंशति ग्रामके शुभे ।
उवासास्तं गते भानौ गृहे विप्रस्य कस्यचित् ॥ ३६ ॥
चक्रे सन्ध्यादि सत्कर्म स द्विजो विधिपूर्वकम् ।
स्तवादि कृतवांस्तत्र शम्भोरद्भुतकर्मणः ॥ ३७ ॥
सेवकेन तदा युक्तो ब्राह्मणः संस्थितस्तदा ।
यामिनी च गता तत्र मुहूर्तद्वयसम्मिता ॥ ३८ ॥
एतस्मिन्नन्तरे तत्रैकमाश्चर्यमभूत्तदा ।
शृणुतादरतस्तच्च मुनयो वो वदाम्यहम् ॥ ३९ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
४. ६ षष्ठोऽध्यायः ॥ ६ ॥
सूत उवाच ।
गौश्चैकाप्यभवत्तत्र ह्यङ्गणे बन्धिता शुभा ।
तदैव ब्राह्मणो रात्रावाजगाम बहिर्गतः ॥ १ ॥
स उवाच प्रियां स्वीयां दृष्ट्वा गामङ्गणे स्थिताम् ।
अदुग्धां खेदनिर्विण्णो दोग्धुकामो मुनीश्वराः ॥ २ ॥
गौः प्रिये नैव दुग्धा ते सेत्युक्ता वत्समानयत् ।
दोहनार्थं समाहूय स्त्रियं शीघ्रतरं तदा ॥ ३ ॥
वत्सं कीले स्वयं बद्धुं यत्नं चैवाकरोत्तदा ।
ब्राह्मणः स गृहस्वामी मुनयो दुग्धलालसः ॥ ४ ॥
वत्सोऽपि कर्षमाणश्च पादे वै पादपीडनम् ।
चकार ब्राह्मणश्चैव कष्टं प्राप्तश्च सुव्रताः ॥ ५ ॥
तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ।
वत्सं च ताडयामास कूपैर्दृढतरं तदा ॥ ६ ॥
वत्सोऽपि पीडितस्तेन श्रान्तश्चैवाभवत्तदा ।
दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना ॥ ७ ॥
गौर्दोग्धुं च महत्प्रीत्या रोदनं चाकरोत्तदा ।
दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत् ॥ ८ ॥
वत्स उवाच ।
कथं च रुद्यते मातः किं ते दुःखमुपस्थितम् ।
तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत ॥ ९ ॥
श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि ।
दुष्टेन ताडितस्त्वं च तेन दुःखं ममाप्यभूत् ॥ ४. ६. १० ॥
सूत उवाच ।
स्वमातुर्वचनं श्रुत्वा स वत्सः प्रत्यबोधयत् ।
प्रत्युवाच स्वजननीं प्रारब्धपरिनिष्ठितः ॥ ११ ॥
किं कर्त्तव्यं क्व गन्तव्यं कर्मबद्धा वयं यतः ।
कृतं चैव यथा पूर्वं भुज्यते च तथाधुना ॥ १२ ॥
हसता क्रियते कर्म रुदता परिभुज्यते ।
दुःखदाता न कोऽप्यस्ति सुखदाता न कश्चन ॥ १३ ॥
सुखदुःखे परो दत्त इत्येषा कुमतिर्मता ।
अहं चापि करोम्यत्र मिथ्याज्ञानं तदोच्यते ॥ १४ ॥
स्वकर्मणा भवेद्दुःखं सुखं तेनैव कर्मणा ।
तस्माच्च पूज्यते कर्म सर्वं कर्मणि संस्थितम् ॥ १५ ॥
त्वं चैवाहं च जननी इमे जीवादयश्च ये ।
ते सर्वे कर्मणा बद्धा न शोच्याः कर्हिचित्त्वया ॥ १६ ॥
सूत उवाच ।
एवं श्रुत्वा स्वपुत्रस्य वचनं ज्ञानगर्भितम् ।
पुत्रशोकान्विता दीना सा च गौरब्रवीदिदम् ॥ १७ ॥
गौरुवाच ।
वत्स सर्वं विजानासि कर्माधीनाः प्रजा इति ।
तथापि मायया ग्रस्ता दुःखं प्राप्नोम्यहं पुनः ॥ १८ ॥
रोदनं च कृतं भूरि दुःखशान्तिर्भवेन्न हि ।
इत्येतद्वचनं श्रुत्वा प्रसूं वत्सोऽब्रवीदिदम् ॥ १९ ॥
। वत्स उवाच ॥
यद्येवं च विजानासि पुनश्च रुदनं कुतः ।
कृत्वा च साध्यते किञ्चित्तस्माद्दुःखं त्यजाधुना ॥ ४. ६. २० ॥
। सूत उवाच ॥
एवं पुत्रवचः श्रुत्वा तन्माता दुःखसंयुता ।
निःश्वस्याति तदा धेनुर्वत्सं वचनमब्रवीत् ॥ २१ ॥
गौरुवाच ।
मम दुःखं तदा गच्छेद्यदा दुःखं तथाविधम् ।
भवेद्धि ब्राह्मणस्यापि सत्यमेतद्ब्रवीम्यहम् ॥ २२ ॥
प्रातश्चैव मया पुत्र शृङ्गाभ्यां हि हनिष्यते ।
हतस्य जीवितं सद्यो यास्यत्यस्य न संशयः ॥ २३ ॥
वत्स उवाच ।
प्रथमं यत्कृतं कर्म तत्फलं भुज्यतेऽधुना ।
अस्याश्च ब्रह्महत्याया मातः किं फलमाप्स्यसे ॥ २४ ॥
समाभ्यां पुण्यपापाभ्यां भवेज्जन्म च भारते ।
तयोः क्षये च भोगेन मातर्मुक्तिरवाप्यते ॥ २५ ॥
कदापि कर्मणो नाशः कदा भोगः प्रजायते ।
तस्माच्च पुनरेवं त्वं कर्म मा कर्तुमुद्यता ॥ २६ ॥
अहं कुतस्ते पुत्रोऽद्य त्वं माता कुत एव च ।
वृथाभिमानः पुत्रत्वे मातृत्वे च विचाविचार्य ताम् ॥ २७ ॥
क्व माता क्व पिता विद्धि क्व स्वामी क्व कलत्रकम् ।
न कोऽपि कस्य चास्तीह सर्वेऽपि स्वकृतं भुजः ॥ २८ ॥
एवं ज्ञात्वा त्वया मातर्दुःखं त्याज्यं सुयत्नतः ।
सुभगाचरणं कार्यं परलोकसुखेप्सया ॥ २९ ॥
गौरुवाच ।
एवं जानाम्यहं पुत्र माया मां न जहात्यसौ ।
त्वद्दुःखेन समं दुःखं तस्मै दास्ये तदेव हि ॥ ४. ६. ३० ॥
पुनश्च ब्रह्महत्याया नाशो यत्र भवेदिह ।
तत्स्थलं च मया दृष्टं हत्या मे हि गमिष्यति ॥ ३१ ॥
सूत उवाच ।
इत्येतद्वचनं श्रुत्वा स्वमातुर्गोर्द्विजोत्तमाः ।
मौनत्वं स्वीकृतं तत्र वत्सेनोक्तं न किञ्चन ॥ ३२ ॥
तयोस्तदद्भुतं वृत्तं श्रुत्वा पान्थो द्विजस्तदा ।
हृदा विचारयामास विस्मितो हि मुनीश्वराः ॥ ३३ ॥
इदमत्यद्भुतं वृत्तं दृष्ट्वा प्रातर्मया खलु ।
गन्तव्यं पुनरेवातो गन्तव्यं तत्स्थलं पुनः ॥ ३४ ॥
। सूत उवाच ॥
विचार्येति हृदा विप्रः स द्विजाः सेवकेन च ।
सुष्वाप तत्र जननीभक्तः परमविस्मितः ॥ ३५ ॥
प्रातःकाले तदा जाते गृहस्वामी समुत्थितः ।
बोधयामास तं पान्थं वचनं चेदमब्रवीत् ॥ ३६ ॥
द्विज उवाच ।
स्वपिषि त्वं किमर्थं हि प्रातःकालो भवत्यलम् ।
स्वयात्रां कुरु तं देशं गमनेच्छा च यत्र ह ॥ ३७ ॥
तेनोक्तं श्रूयतां ब्रह्मन् शरीरे सेवकस्य मे ।
वर्तते हि व्यथा स्थित्वा मुहूर्तं गम्यते ततः ॥ ३८ ॥
सूत उवाच ।
इत्येवं च मिषं कृत्वा सुष्वाप पुरुषस्तदा ।
तद्वृत्तमखिलं ज्ञातुमद्भुतं विस्मयावहम् ॥ ३९ ॥
दोहनस्य तदा काले ब्राह्मणः स्वसुतं प्रति ।
उवाच गन्तुकामश्च कार्यार्थं कुत्रचिच्च सः ॥ ४. ६. ४० ॥
पितोवाच ॥
मया तु गम्यते पुत्र कार्यार्थं कुत्रचित्पुनः ।
धेनुर्दोह्या त्वया वत्स सावधानादियं निजा ॥ ४१ ॥
सूत उवाच ।
इत्युक्त्वा ब्राह्मणवरः स जगाम च कुत्रचित् ।
पुत्रः समुत्थितस्तत्र वत्सं च मुक्तवांस्तदा ॥ ४२ ॥
माता च तस्य दोहार्थमाजगाम स्वयन्तदा ।
द्विजपुत्रस्तदा वत्सं खिन्नं कीलेन ताडितम् ॥ ४३ ॥
बन्धनार्थं हि गोः पार्श्वमनयद्दुग्धलालसः ।
पुनर्गौश्च तदा क्रुद्धा शृङ्गेनाताडयच्च तम् ॥ ४४ ॥
पपात मूर्च्छां सम्प्राप्य सोऽपि मर्मणि ताडितः ।
लोकाश्च मिलितास्तत्र गवा बालो विहिंसितः ॥ ४५ ॥
जलं जलं वदन्तस्ते पित्राद्या यत्र संस्थिताः ।
यत्नश्च क्रियते यावत्तावद् बालो मृतस्तदा ॥ ४६ ॥
मृते च बालके तत्र हाहाकारो महानभूत् ।
तन्माता दुःखिता ह्यासीद् रुरोद च पुनः पुनः ॥ ४७ ॥
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहयेत् ।
रुदित्वेति तदा गां च ताडयित्वा व्यमोचयत् ॥ ४८ ॥
श्वेतवर्णा तदा सा गौर्द्रुतं श्यामा व्यदृश्यत ।
अहो च दृश्यतां लोकाश्चुक्रुशुश्च परस्परम् ॥ ४९ ॥
ब्राह्मणश्च तदा पान्थो दृष्ट्वाश्चर्यं विनिर्गतः ।
यत्र गौश्च गता तत्र तामनु ब्राह्मणो गतः ॥ ४. ६. ५० ॥
ऊर्ध्वपुच्छं तदा कृत्वा शीघ्रं गौर्नर्मदां प्रति ।
आगत्य नन्दिकस्यास्य समीपे नर्मदाजले ॥ ५१ ॥
सन्निमज्य त्रिवारं तु श्वेतत्वं च गता हि सा ।
यथागतं गता सा च ब्राह्मणो विस्मयं गतः ॥ ५२ ॥
अहो धन्यतमं तीर्थं ब्रह्महत्यानिवारणम् ।
स्वयं ममज्ज तत्रासौ ब्राह्मणः सेवकस्तथा ॥ ५३ ॥
निमज्ज्य हि गतौ तौ च प्रशंसन्तौ नदीं च ताम् ।
मार्गे च मिलिता काचित्सुन्दरी भूषणान्विता ॥ ५४ ॥
तयोक्तं तं च भोः पान्थ कुतो यासि सुविस्मितः ।
सत्यं ब्रूहि च्छलं त्यक्त्वा विप्रवर्य ममाग्रतः ॥ ५५ ॥
सूत उवाच ।
एवं वचस्तदा श्रुत्वा द्विजेनोक्तं यथातथम् ।
पुनश्चायं द्विजस्तत्र स्त्रियोक्तः स्थीयतां त्वया ॥ ५६ ॥
तयोक्तं च समाकर्ण्य स्थितः स ब्राह्मणस्ततः ।
प्रत्युवाच विनीतात्मा कथ्यते किं वदेति च ॥ ५७ ॥
सा चाह पुनरेवात्र त्वया दृष्टं स्थलं च यत् ।
तत्राधुना क्षिपास्थीनि मातुः किं गम्यतेऽन्यतः ॥ ५८ ॥
तव माता पान्थवर्य साक्षाद्दिव्यमयं वरम् ।
देहं धृत्वा द्रुतं साक्षाच्छम्भोर्यास्यति सद्गतिम् ॥ ५९ ॥
वैशाखे चैव संप्राप्ते सप्तम्याश्च दिने शुभे ।
सिते पक्षे सदा गङ्गा ह्यायाति द्विजसत्तम ॥ ४. ६. ६० ॥
अद्यैव सप्तमी या सा गन्गऽहं यामि तत्र वै ।
इत्युक्त्वान्तर्दधे देवी सा गङ्गा मुनिसत्तमाः ॥ ६१ ॥
निवृत्तश्च द्विजः सोऽपि मात्रस्थ्यर्द्धं स्ववस्त्रतः ।
क्षिपेद्यावत्तत्र तीर्थे तावच्चित्रमभूत्तदा ॥ ६२ ॥
दिव्यदेहत्वमापन्ना स्वमाता च व्यदृश्यत ।
धन्योऽसि कृतकृत्योऽसि पवित्रं च कुलं त्वया ॥ ६३ ॥
धनं धान्यं तथा चायुर्वंशो वै वर्धतां तव ।
इत्याशिषं मुहुर्दत्त्वा स्वपुत्राय दिवं गता ॥ ६४ ॥
तत्र भुक्त्वा सुखं भूरि चिरकालं महोत्तमम् ।
शङ्करस्य प्रसादेन गता सा ह्युत्तमां गतिम् ॥ ६५ ॥
ब्राह्मणश्च सुतस्तस्याः क्षिप्त्वास्थीनि पुनस्ततः ।
प्रसन्नमानसोऽभूत्स शुद्धात्मा स्वगृहं गतः ॥ ६६ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरलिङ्गमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
४. ७ सप्तमोऽध्यायः ॥ ७ ॥
ऋषय ऊचुः ॥
कथं गङ्गा समायाता वैशाखे सप्तमीदिने ।
नर्मदायां विशेषेण सूतैतद्वर्णय प्रभो ॥ १ ॥
ईश्वरश्च कथं जातो नन्दिकेशो हि नामतः ।
वृत्तं तदपि सुप्रीत्या कथय त्वं महामते ॥ २ ॥
सूत उवाच ।
साधु पृष्टमृषिश्रेष्ठा नन्दिकेशाश्रितं वचः ।
तदहं कथयाम्यद्य श्रवणात्पुण्यवर्धनम् ॥ ३ ॥
ब्राह्मणी ऋषिका नाम्नी कस्यचिच्च द्विजन्मनः ।
सुता विवाहिता कस्मैचिद् द्विजाय विधानतः ॥ ४ ॥
पूर्वकर्मप्रभावेण पत्नी सा हि द्विजन्मनः ।
सुव्रतापि च विप्रेन्द्रा बालवैधव्यमागता ॥ ५ ॥
अथ सा द्विजपत्नी हि ब्रह्मचर्यव्रतान्विता ।
पार्थिवार्चनपूर्वं हि तपस्तेपे सुदारुणम् ॥ ६ ॥
तस्मिन्नवसरे दुष्टो मूढनामासुरो बली ।
ययौ तत्र महामायी कामबाणेन ताडितः ॥ ७ ॥
तपन्तीं तां समालोक्य सुन्दरीमतिकामिनीम् ।
तया भोगं ययाचे स नानालोभं प्रदर्शयन् ॥ ८ ॥
अथ सा सुव्रता नारी शिवध्यानपरायणा ।
तस्मिन्दृष्टिं दधौ नैव कामदृष्ट्या मुनीश्वराः ॥ ९ ॥
न मानितवती तं च ब्राह्मणी सा तपोरता ।
अतीव हि तपोनिष्ठासीच्छिवध्यानमाश्रिता ॥ ४. ७. १० ॥
अथ मूढः स दैत्येन्द्रः तया तन्व्या तिरस्कृतः ।
चुक्रोध विकटं तस्यै पश्चाद्रूपमदर्शयत् ॥ ११ ॥
अथ प्रोवाच दुष्टात्मा दुर्वचो भयकारकम् ।
त्रासयामास बहुशस्तां च पत्नीं द्विजन्मनः ॥ १२ ॥
तदा सा भयसन्त्रस्ता बहुवारं शिवेति च ।
बभाषे स्नेहतस्तन्वी द्विजपत्नी शिवाश्रया ॥ १३ ॥
विह्वलातीव सा नारी शिवनामप्रभाषिणी ।
जगाम शरणं शम्भोः स्वधर्मावनहेतवे ॥ १४ ॥
शरणागतरक्षार्थं कर्तुं सद्वृत्तमाहितम् ।
आनन्दार्थं हि तस्यास्तु शिव आविर्बभूव ह ॥ १५ ॥
अथ तं मूढनामानं दैत्येन्द्रं कामविह्वलम् ।
चकार भस्मसात्सद्यः शङ्करो भक्तवत्सलः ॥ १६ ॥
ततश्च परमेशानो कृपादृष्ट्या विलोक्य ताम् ।
वरं ब्रूहीति चोवाच भक्तरक्षणदक्षधीः ॥ १७ ॥
श्रुत्वा महेशवचनं सा साध्वी द्विजकामिनी ।
ददर्श शाङ्करं रूपमानन्दजनकं शुभम् ॥ १८ ॥
ततः प्रणम्य तं शम्भुं परमेशं सुखावहम् ।
तुष्टाव साञ्जलिः साध्वी नतस्कन्धा शुभाशया ॥ १९ ॥
ऋषिकोवाच ॥
देवदेव महादेव शरणागतवत्सल ।
दीनबन्धुस्त्वमीशानो भक्तरक्षाकरः सदा ॥ ४. ७. २० ॥
त्वया मे रक्षितो धर्मो मूढनाम्नोऽसुरादिह ।
यदयं निहतो दुष्टो जगद्रक्षा कृता त्वया ॥ २१ ॥
स्वपादयोः परां भक्तिं देहि मे ह्यनपायिनीम् ।
अयमेव वरो नाथ किमन्यदधिकं ह्यतः ॥ २२ ॥
अन्यदाकर्णय विभो प्रार्थनां मे महेश्वर ।
लोकानामुपकारार्थमिह त्वं संस्थितो भव ॥ २३ ॥
सूत उवाच ।
इति स्तुत्वा महादेवमृषिका सा शुभव्रता ।
तूष्णीमासाथ गिरिशः प्रोवाच करुणाकरः ॥ २४ ॥
गिरिश उवाच ।
ऋषिके सुचरित्रा त्वं मम भक्ता विशेषतः ।
दत्ता वराश्च ते सर्वे तुभ्यं ये ये हि याचिताः ॥ २५ ॥
एतस्मिन्नन्तरे तत्र हरिब्रह्मादयः सुराः ।
शिवाविर्भावमाज्ञाय ययुर्हर्षसमन्विताः ॥ २६ ॥
शिवं प्रणम्य सुप्रीत्या समानर्चुश्च तेऽखिलाः ।
तुष्टुवुर्नतका विप्राः करौ बद्ध्वा सुचेतसः ॥ २७ ॥
एतस्मिन्समये गङ्गा साध्वीं तां स्वर्धुनी जगौ ।
ऋषिकां सुप्रसन्नात्मा प्रशंसन्ती च तद्विधिम् ॥ २८ ॥
गङ्गोवाच ॥
ममार्थं चैव वैशाखे मासि देयं त्वया वचः ।
स्थित्यर्थं दिनमेकं मे सामीप्यं कार्यमेव हि ॥ २९ ॥
सूत उवाच ।
गङ्गावचनमाकर्ण्य सा साध्वी प्राह सुव्रता ।
तथास्त्विति वचः प्रीत्या लोकानां हितहेतवे ॥ ४. ७. ३० ॥
आनन्दार्थं शिवस्तस्याः सुप्रसन्नश्च पार्थिवे ।
तस्मिँल्लिङ्गे लयं यातः पूर्णांशेन तया हरः ॥ ३१ ॥
देवाः सर्वे सुप्रसन्नाः प्रशंसन्ति शिवं च ताम् ।
स्वं स्वं धाम ययुर्विष्णुर्ब्रह्माद्या अपि स्वर्णदी ॥ ३२ ॥
तद्दिनात्पावनं तीर्थमासीदीदृशमुत्तमम् ।
नन्दिकेशः शिवः ख्यातः सर्वपापविनाशनः ॥ ३३ ॥
गङ्गापि प्रतिवर्षं तद्दिने याति शुभेच्छया.
क्षालनार्थं स्वपापस्य यद् गृहीतं नृणां द्विजाः ॥ ३४ ॥
तत्र स्नातो नरः सम्यङ् नन्दिकेशं समर्च्य च ।
ब्रह्महत्यादिभिः पापैर्मुच्यते ह्यखिलैरपि ॥ ३५ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
४. ८ ष्टमोऽध्यायः
सूत उवाच ।
द्विजाः शृणुत सद्भक्त्या शिवलिङ्गानि तानि च ।
पश्चिमायां दिशायां वै यानि ख्यातानि भूतले ॥ १ ॥
कपिलायां नगर्यां तु कालरामेश्वराभिधे ।
शिवलिङ्गे महादिव्ये दर्शनात्पापहारके ॥ २ ॥
पश्चिमे सागरे चैव महासिद्धेश्वरः स्मृतः ।
धर्मार्थकामदश्चैव तथा मोक्षप्रदोऽपि हि ॥ ३ ॥
पश्चिमाम्बुधितीरस्थं गोकर्णं क्षेत्रमुत्तमम् ।
ब्रह्महत्यादिपापघ्नं सर्वकामफलप्रदम् ॥ ५ ॥
गोकर्णे शिवलिङ्गानि विद्यन्ते कोटिकोटिशः ।
असङ्ख्यातानि तीर्थानि तिष्ठन्ति च पदे पदे ॥ ५ ॥
बहुनात्र किमुक्तेन गोकर्णस्थानि सर्वशः ।
शिवप्रत्यक्षलिङ्गानि तीर्थान्यम्भांसि सर्वशः ॥ ६ ॥
गोकर्णे शिवलिङ्गानां तीर्थानामपि सर्वशः ।
वर्ण्यते महिमा तात पुराणेषु महर्षिभिः ॥ ७ ॥
कृते युगे स हि श्वेतस्त्रेतायां सोऽतिलोहितः ।
द्वापरे पीतवर्णश्च कलौ श्यामो भविष्यति ॥ ८ ॥
आक्रान्तसप्तपातालकुहरोऽपि महाबलः ।
प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ॥ ९ ॥
महापातकिनश्चात्र समभ्यर्च्य महाबलम् ।
शिवलिङ्गं च गोकर्णे प्रयाताः शांकरं पदम् ॥ ४. ८. १० ॥
गोकर्णे तत्र मुनयो गत्वा पुण्यर्क्षवासरे ।
येऽर्चयन्ति च तं भक्त्या ते रुद्राः स्युर्न संशयः ॥ ११ ॥
यदा कदाचिद्गोकर्णे यो वा को वापि मानवः ।
पूजयेच्छिवलिङ्गं तत्स गच्छेद् ब्रह्मणः पदम् ॥ १२ ॥
ब्रह्मविष्ण्वादिदेवानां शङ्करो हितकाम्यया ।
महाबलाभिधानेन देवः सन्निहितः सदा ॥ १३ ॥
घोरेण तपसा लब्धं रावणाख्येन रक्षसा ।
तल्लिङ्गं स्थापयामास गोकर्ण गणनायकः ॥ १४ ॥
विष्णुर्ब्रह्मा महेन्द्रश्च विश्वेदेवा मरुद्गणाः ।
आदित्या वसवो दस्रौ शशाङ्कश्च सतारकः ॥ १५ ॥
एते विमानगतयो देवाश्च सह पार्षदैः ।
पूर्वद्वारं निषेवन्ते तस्य वै प्रीतिकारणात् ॥ १६ ॥
यमो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः ।
पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ॥ १७ ॥
वरुणः सरितां नाथो गङ्गादिसरितां गणैः ।
महाबलं च सेवन्ते पश्चिमद्वारमाश्रिताः ॥ १८ ॥
तथा वायुः कुबेरश्च देवेशी भद्रकालिका ।
मातृभिश्चण्डिकाद्याभिरुत्तरद्वारमाश्रिताः ॥ १९ ॥
सर्वे देवाः सगन्धर्वाः पितरः सिद्धचारणाः ।
विद्याधराः किम्पुरुषाः किन्नरा गुह्यकाः खगाः ॥ ४. ८. २० ॥
नानापिशाचा वेताला दैतेयाश्च महाबलाः ।
नागाः शेषादयः सर्वे सिद्धाश्च मुनयोऽखिलाः ॥ २१ ॥
प्रणुवन्ति च तं देवं प्रणमन्ति महाबलम् ।
लभन्त ईप्सितान्कामान् रमन्ते च यथासुखम् ॥ २२ ॥
बहुभिस्तत्र सुतपस्तप्तं सम्पूज्य तं विभुम् ।
लब्धा हि परमा सिद्धिरिहामुत्रापि सौख्यदा ॥ २३ ॥
गोकर्णे शिवलिङ्गं तु मोक्षद्वार उदाहृतः ।
महाबलाभिधानोऽसौ पूजितः संस्तुतो द्विजाः ॥ २४ ॥
माघासितचतुर्दश्यां महाबलसमर्चनम् ।
विमुक्तिदं विशेषेण सर्वेषां पापिनामपि ॥ २५ ॥
अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ।
आयान्ति सर्वदेशेभ्यश्चातुर्वर्ण्यमहाजनाः ॥ २६ ॥
स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ।
दृष्ट्वा तत्रैत्य देवेशं लेभिरे कृतकृत्यताम् ॥ २७ ॥
महाबलप्रभावात्ते तच्च लिङ्गं शिवस्य तु ।
सम्पूज्यैकाथ चाण्डाली शिवलोकं गता द्रुतम् ॥ २८ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबलमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
४. ९ नवमोऽध्यायः ॥ ९ ॥
ऋषय ऊचुः ॥
सूत सूत महाभाग धन्यस्त्वं शैवसत्तमः ।
चाण्डाली का समाख्याता तत्कथां कथय प्रभो ॥ १ ॥
सूत उवाच ।
द्विजाः शृणुत सद्भक्त्या तां कथां परमाद्भुताम् ।
शिवप्रभावसंमिश्रां शृण्वतां भक्तिवर्धिनीम् ॥ २ ॥
चांडाली सा पूर्वभवेऽभवद् ब्राह्मणकन्यका ।
सौमिनी नाम चन्द्रास्या सर्वलक्षणसंयुता ॥ ३ ॥
अथ सा समये कन्या युवतिः सौमिनी द्विजाः ।
पित्रा दत्ता च कस्मैचिद्विधिना द्विजसूनवे ॥ ४ ॥
सा भर्तारमनुप्राप्य किंचित्कालं शुभव्रता ।
रेमे तेन द्विजश्रेष्ठा नवयौवनशालिनी ॥ ५ ॥
अथ तस्याः पतिर्विप्रस्तरुणः सुरुजार्दितः ।
सौमिन्याः कालयोगात्तु पञ्चत्वमगमद् द्विजाः ॥ ६ ॥
मृते भर्तरि सा नारी दुःखितातिविषण्णधीः ।
किंचित्कालं शुभाचारा सुशीलोवास सद्मनि ॥ ७ ॥
ततः सा मन्मथाविष्टहृदया विधवापि च ।
युवावस्थाविशेषेण बभूव व्यभिचारिणी ॥ ८ ॥
तज्ज्ञात्वा गोत्रिणस्तस्या दुष्कर्म कुलदूषणम् ।
समेतास्तत्यजुर्दूरं नीत्वा तां सकचग्रहाम् ॥ ९ ॥
कश्चिच्छूद्रवरस्तां वै विचरन्तीं निजेच्छया ।
दृष्ट्वा वने स्त्रियं चक्रे निनाय स्वगृहं ततः ॥ ४. ९. १० ॥
अथ सा पिशिताहारा नित्यमापीतवारुणी ।
अजीजनत्सुतां तेन शूद्रेण सुरतप्रिया ॥ ११ ॥
कदाचिद्भर्तरि क्वापि याते पीतसुराथ सा ।
इयेष पिशिताहारं सौमिनी व्यभिचारिणी ॥ १२ ॥
ततो मेषेषु बद्धेषु गोभिः सह बहिर्व्रजे ।
निशामुखे तमोऽन्धे हि खड्गमादाय सा ययौ ॥ १३ ॥
अविमृश्य मदावेशान्मेषबुद्ध्यामिषप्रिया ।
एकं जघान गोवत्सं क्रोशन्तमतिदुर्भगा ॥ १४ ॥
हतं तं गृहमानीय ज्ञात्वा गोवत्समङ्गना ।
भीता शिव शिवेत्याह केनचित्पुण्यकर्मणा ॥ १५ ॥
सा मुहूर्तं शिवं ध्यात्वामिषभोजनलालसा ।
छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥ १६ ॥
एवं बहुतिथे काले गते सा सौमिनी द्विजाः ।
कालस्य वशमापन्ना जगाम यमसङ्क्षयम् ॥ १७ ॥
यमोऽपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ।
निवर्त्य निरयावासाच्चक्रे चाण्डालजातिकाम् ॥ १८ ॥
साथ भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ।
ततो बभूव जन्मान्धा प्रशान्ताङ्गारमेचका ॥ १९ ॥
जन्मान्धा साथ बाल्येऽपि विध्वस्तपितृमातृका ।
ऊढा न केनचिद्दुष्टा महाकुष्ठरुजार्दिता ॥ ४. ९. २० ॥
ततः क्षुधार्दिता दीना यष्टिपाणिर्गतेक्षणा ।
चाण्डालोच्छिष्टपिण्डेन जठराग्निमतपर्यत् ॥ २१ ॥
एवं कृच्छ्रेण महता नीत्वा स्वविपुलं वयः ।
जरया ग्रस्तसर्वाङ्गी दुःखमाप दुरत्ययम् ॥ २२ ॥
कदाचित्साथ चाण्डाली गोकर्णं तं महाजनान् ।
आयास्यन्त्यां शिवतिथौ गच्छतो बुबुधेऽध्वगान् ॥ २३ ॥
अथासावपि चाण्डाली वसनाशनतृष्णया ।
महाजनान् याचयितुं सञ्चचार शनैः शनैः ॥ २४ ॥
गत्वा तत्राथ चाण्डाली प्रार्थयन्ती महाजनान् ।
यत्र तत्र चचारासौ दीनवाक्प्रसृताञ्जलिः ॥ २५ ॥
एवमभ्यर्थयन्त्यास्तु चाण्डाल्याः प्रसृताञ्जलौ ।
एकः पुण्यतमः पान्थः प्राक्षिपद्विल्वमंजरीम् ॥ २६ ॥
तामञ्जलौ निपतितां सा विमृश्य पुनः पुनः ।
अभक्ष्यमिति मत्वाथ दूरे प्राक्षिपदातुरा ॥ २७ ॥
तस्याः कराद्विनिर्मुक्ता रात्रौ सा बिल्वमञ्जरी ।
पपात कस्यचिद्दिष्ट्या शिवलिङ्गस्य मस्तके ॥ २८ ॥
सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान् मुहुः ।
याचमानापि यत्किञ्चिन्न लेभे दैवयोगतः ॥ २९ ॥
एवं शिवचतुर्दश्या व्रतं जातं च निर्मलम् ।
अज्ञानतो जागरणं परमानन्ददायकम् ॥ ४. ९. ३० ॥
ततः प्रभाते सा नारी शोकेन महतावृता ।
शनैर्निववृते दीना स्वदेशायैव केवलम् ॥ ३१ ॥
श्रान्ता चिरोपवासेन निपतन्ती पदे पदे ।
अतीत्य तावतीं भूमिं निपपात विचेतना ॥ ३२ ॥
अथ सा शम्भुकृपया जगाम परमं पदम् ।
आरुह्य सुविमानं च नीतं शिवगणैर्द्रुतम् ॥ ३३ ॥
आदौ यदेषा शिवनाम नारी
प्रमादतो वाप्यसती जगाद ।
तेनेह भूयः सुकृतेन विप्रा
महाबलस्थानमवाप दिव्यम् ॥ ३४ ॥
श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ।
कृत्वा जागरणं सा हि चक्रे बिल्वार्चनं निशि ॥ ३५ ॥
अकामतः कृतस्यास्य पुण्यस्यैव च तत्फलम् ।
भुनक्त्यद्यापि सा चैव महाबलप्रसादतः ॥ ३६ ॥
एवंविधं महालिङ्गं शङ्करस्य महाबलम् ।
सर्वपापहरं सद्यः परमानन्ददायकम् ॥ ३७ ॥
एवं वः कथितं विप्रा माहात्म्यं परमं मया ।
महाबलाभिधानस्य शिवलिङ्गवरस्य हि ॥ ३८ ॥
अथान्यदपि वक्ष्यामि माहात्म्यं तस्य चाद्भुतम् ।
श्रुतमात्रेण येनाशु शिवे भक्तिः प्रजायते ॥ ३९ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चाण्डालीसद्गतिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
४. १० दशमोऽध्यायः ॥ १० ॥
सूत उवाच ।
श्रीमतीक्ष्वाकुवंशे हि राजा परमधार्मिकः ।
आसीन्मित्रसहो नाम श्रेष्ठः सर्वधनुष्मताम् ॥ १ ॥
तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा ।
दमयन्ती नलस्येव बभूव विदिता सती ॥ २ ॥
स एकदा हि मृगयास्नेही मित्रसहो नृपः ।
महद्बलेन संयुक्तो जगाम गहनं वनम् ॥ ३ ॥
विहरंस्तत्र स नृपः कमठाह्वं निशाचरम् ।
निजघान महादुष्टं साधुपीडाकरं खलम् ॥ ४ ॥
अथ तस्यानुजः पापी जयेयं छद्मनैव तम् ।
मत्वा जगाम नृपतेरन्तिकं छद्मकारकः ॥ ५ ॥
तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ।
चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः ॥ ६ ॥
अथ तस्मिन्वने राजा कियत्कालं विहृत्य सः ।
निवृत्तो मृगयां हित्वा स्वपुरीमाययौ मुदा ॥ ७ ॥
पितुः क्षयाहे सम्प्राप्ते निमंत्र्य स्वगुरुं नृपः ।
वसिष्ठं गृहमानिन्ये भोजयामास भक्तितः ॥ ८ ॥
रक्षसा सूदरूपेण सम्मिश्रितनरामिषम् ।
शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ॥ ९ ॥
गुरुरुवाच ।
धिक् त्वां नरामिषं राजंस्त्वयैतच्छद्मकारिणा ।
खलेनोपहृतं मह्यं ततो रक्षो भविष्यसि ॥ ४. १०. १० ॥
रक्षःकृतं च विज्ञाय तदैवं स गुरुस्तदा ।
पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ॥ ११ ॥
स राजानुचितं शापं विज्ञाय क्रोधमूर्छितः ।
जलाञ्जलिं समादाय गुरुं शप्तुं समुद्यतः ॥ १२ ॥
तदा च तत्प्रिया साध्वी मदयन्ती सुधर्मिणी ।
पतित्वा पादयोस्तस्य शापं तं हि न्यवारयत् ॥ १३ ॥
ततो निवृत्तशापस्तु तस्या वचनगौरवात् ।
तत्याज पादयोरम्भः पादौ कल्मषतां गतौ ॥ १४ ॥
ततःप्रभृति राजा भूत्स लोकेऽस्मिन्मुनीश्वराः ।
कल्मषाङ्घ्रिरिति ख्यातः प्रभावात्तज्जलस्य हि ॥ १५ ॥
राजा मित्रसहः शापाद् गुरोरॄषिवरस्य हि ।
बभूव राक्षसो घोरो हिंसको वनगोचरः ॥ १६ ॥
स बिभ्रद्राक्षसं रूपं कालान्तकयमोपमम् ।
चखाद विविधाञ्जंतून् मानुषादीन्वनेचरः ॥ १७ ॥
स कदाचिद्वने क्वापि रममाणौ किशोरकौ ।
अपश्यदन्तकाकारो नवोढौ मुनिदम्पती ॥ १८ ॥
राक्षसः स नराहारः किशोरं मुनिनन्दनम् ।
जग्धुं जग्राह शापार्त्तो व्याघ्रो मृगशिशुं यथा ॥ १९ ॥
कक्षे गृहीतं भर्तारं दृष्ट्वा भीता च तत्प्रिया ।
सा चक्रे प्रार्थनां तस्मै वदती करुणं वचः ॥ ४. १०. २० ॥
प्रार्थ्यमानोऽपि बहुशः पुरुषादः स निर्घृणः ।
चखाद शिर उत्कृत्य विप्रसूनोर्दुराशयः ॥ २१ ॥
अथ साध्वी च सा दीना विलप्य भृशदुःखिता ।
आहृत्य भर्तुरस्थीनि चितां चक्रे किलोल्बणाम् ॥ २२ ॥
भर्तारमनुगच्छन्ती संविशन्ती हुताशनम् ।
राजानं राक्षसाकारं सा शशाप द्विजाङ्गना ॥ २३ ॥
अद्यप्रभृति नारीषु यदा त्वं सङ्गतो भवेः ।
तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥ २४ ॥
सोऽपि राजा गुरोः शापमनुभूय कृतावधिम् ।
पुनः स्वरूपमास्थाय स्वगृहं मुदितो ययौ ॥ २५ ॥
ज्ञात्वा विप्रसतीशापं मदयन्ती रतिप्रियम् ।
पतिं निवारयामास वैधव्यादतिबिभ्यती ॥ २६ ॥
अनपत्यो विनिर्विण्णो राज्यभोगेषु पार्थिवः ।
विसृज्य सकलां लक्ष्मीं वनमेव जगाम ह ॥ २७ ॥
स्वपृष्ठतः समायान्तीं ब्रह्महत्यां सुदुःखदाम् ।
ददर्श विकटाकारां तर्जयन्तीं मुहुर्मुहुः ॥ २८ ॥
तस्या निर्भद्रमन्विच्छन् राजा निर्विण्णमानसः ।
चकार नानोपायान्स जपव्रतमखादिकान् ॥ २९ ॥
नानोपायैर्यदा राज्ञस्तीर्थस्नानादिभिर्द्विजाः ।
न निवृत्ता ब्रह्महत्या मिथिलां स ययौ तदा ॥ ४. १०. ३० ॥
बाह्योद्यानगतस्तस्याश्चिन्तया परयार्दितः ।
ददर्श मुनिमायान्तं गौतमं पार्थिवश्च सः ॥ ३१ ॥
अभिसृत्य स राजेन्द्रो गौतमं विमलाशयम् ।
तद्दर्शनाप्तकिञ्चित्कः प्रणनाम मुहुर्मुहुः ॥ ३२ ॥
अथ तत्पृष्टकुशलो दीर्घमुष्णं च निःश्वसन् ।
तत्कृपादृष्टिसम्प्राप्तसुखः प्रोवाच तं नृपः ॥ ३३ ॥
राजोवाच ॥
मुने मां बाधते ह्येषा ब्रह्महत्या दुरत्यया ।
अलक्षिता परैस्तात तर्जयन्ती पदे पदे ॥ ३४ ॥
यन्मया शापदग्धेन विप्रपुत्रश्च भक्षितः ।
तत्पापस्य न शान्तिर्हि प्रायश्चित्तसहस्रकैः ॥ ३५ ॥
नानोपायाः कृता मे हि तच्छान्त्यै भ्रमता मुने ।
न निवृत्ता ब्रह्महत्या मम पापात्मनः किमु ॥ ३६ ॥
अद्य मे जन्मसाफल्यं सम्प्राप्तमिव लक्षये ।
यतस्त्वद्दर्शनादेव ममानन्दभरोऽभवत् ॥ ३७ ॥
अद्य मे तव पादाब्जशरणस्य कृतैनसः ।
शान्तिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ॥ ३८ ॥
सूत उवाच ।
इति राज्ञा समादिष्टो गौतमः करुणार्द्रधीः ।
समादिदेश घोराणामघानां साधु निष्कृतिम् ॥ ३९ ॥
गौतम उवाच ।
साधु राजेन्द्र धन्योऽसि महाघेभ्यो भयं त्यज ।
शिवे शास्तरि भक्तानां क्व भयं शरणैषिणाम् ॥ ४. १०. ४० ॥
शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ।
महापातकसंहारि गोकर्णाख्यं शिवालयम् ॥ ४१ ॥
तत्र स्थितिर्न पापानां महद्भ्यो महतामपि ।
महाबलाभिधानेन शिवः सन्निहितः स्वयम् ॥ ४२ ॥
सर्वेषां शिवलिङ्गानां सार्वभौमो महाबलः ।
चतुर्युगे चतुर्वर्णः सर्वपापापहारकः ॥ ४३ ॥
पश्चिमाम्बुधितीरस्थं गोकर्णं तीर्थमुत्तमम् ।
तत्रास्ति शिवलिङ्गं तन्महापातकनाशकम् ॥ ४४ ॥
तत्र गत्वा महापापाः स्नात्वा तीर्थेषु भूरिशः ।
महाबलं च सम्पूज्य प्रयाताः शांकरं पदम् ॥ ४५ ॥
तथा त्वमपि राजेन्द्र गोकर्णं गिरिशालयम् ।
गत्वा सम्पूज्य तल्लिङ्गं कृतकृत्यत्वमाप्नुयाः ॥ ४६ ॥
तत्र सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य महाबलम् ।
सर्वपापविनिर्मुक्तः शिवलोकं त्वमाप्नुयाः ॥ ४७ ॥
सूत उवाच ।
इत्यादिष्टः स मुनिना गौतमेन महात्मना ।
महाहृष्टमना राजा गोकर्णं प्रत्यपद्यत ॥ ४८ ॥
तत्र तीर्थेषु सुस्नात्वा समभ्यर्च्य महाबलम् ।
निर्धूताशेषपापौघोऽलभच्छम्भोः परं पदम् ॥ ४९ ॥
य इमां शृणुयान्नित्यं महाबलकथां प्रियाम् ।
त्रिसप्तकुलजैः सार्धं शिवलोके व्रजत्यसौ ॥ ४. १०. ५० ॥
इति वश्च समाख्यातं माहात्म्यं परमाद्भुतम् ।
महाबलस्य गिरिशलिङ्गस्य निखिलाघहृत् ॥ ५१ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबलाह्वशिवलिङ्गमाहात्म्यवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
४. ११ एकादशोऽध्यायः ॥ ११ ॥
ऋषय ऊचुः ॥
सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
महाबलस्य लिङ्गस्य श्रावितेयं कथाद्भुता ॥ १ ॥
उत्तरस्यां दिशायां च शिवलिङ्गानि यानि च ।
तेषां माहात्म्यमनघं वद त्वं पापनाशकम् ॥ २ ॥
सूत उवाच ।
शृणुतादरतो विप्रा औत्तराणां विशेषतः ।
माहात्म्यं शिवलिङ्गानां प्रवदामि समासतः ॥ ३ ॥
गोकर्णं क्षेत्रमपरं महापातकनाशनम् ।
महावनं च तत्रास्ति पवित्रमतिविस्तरम् ॥ ४ ॥
तत्रास्ति चन्द्रभालाख्यं शिवलिङ्गमनुत्तमम् ।
रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम् ॥ ५ ॥
तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ।
सर्वलोकहितार्थाय करुणासागरस्य च ॥ ६ ॥
स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ।
शिवलोकमवाप्नोति सत्यं सत्यं न संशयः ॥ ७ ॥
चन्द्रभालस्य लिङ्गस्य महिमा परमाद्भुतः ।
न शक्यो वर्णितुं व्यासाद्भक्तिस्नेहरतस्य हि ॥ ८ ॥
चन्द्रभालमहादेवलिङ्गस्य महिमा महान् ।
यथाकथञ्चित्सम्प्रोक्तः परलिङ्गस्य वै शृणु ॥ ९ ॥
दाधीचं शिवलिङ्गं तु मिश्रर्षिवरतीर्थके ।
दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम् ॥ ४. ११. १० ॥
तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ।
शिवलिङ्गं समर्चेद्वै दाधीचेश्वरमादरात् ॥ ११ ॥
दधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ।
शिवप्रीत्यर्थमेवाशु तीर्थयात्राफलार्थिभिः ॥ १२ ॥
एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ।
इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात् ॥ १३ ॥
नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ।
ऋषीश्वरमिति ख्यातं शिवलिङ्गं सुखप्रदम् ॥ १४ ॥
तद्दर्शनात्पूजनाच्च जनानां पापिनामपि ।
भुक्तिर्मुक्तिश्च तेषां तु परत्रेह मुनीश्वराः ॥ १५ ॥
हत्याहरणतीर्थे तु शिवलिङ्गमघापहम् ।
पूजनीयं विशेषेण हत्याकोटिविनाशनम् ॥ १६ ॥
देवप्रयागतीर्थे तु ललितेश्वरनामकम् ।
शिवलिङ्गं सदा पूज्यं नरैः सर्वाघनाशनम् ॥ १७ ॥
नयपालाख्यपुर्यां तु प्रसिद्धायां महीतले ।
लिङ्गं पशुपतीशाख्यं सर्वकामफलप्रदम् ॥ १८ ॥
शिरोभागस्वरूपेण शिवलिङ्गं तदस्ति हि ।
तत्कथां वर्णयिष्यामि केदारेश्वरवर्णने ॥ १९ ॥
तदारान्मुक्तिनाथाख्यं शिवलिङ्गं महाद्भुतम् ।
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते ॥ ४. ११. २० ॥
इति वश्च समाख्यातं लिङ्गवर्णनमुत्तमम् ।
चतुर्दिक्षु मुनिश्रेष्ठाः किमन्यच्छ्रोतुमिच्छथ ॥ २१ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चन्द्रभालपशुपतिनाथलिङ्गमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥
४. १२ द्वादशोऽध्यायः ॥ १२ ॥
ऋषय ऊचुः ॥
सूत जानासि सकलं वस्तु व्यासप्रसादतः ।
तवाज्ञातं न विद्येत तस्मात्पृच्छामहे वयम् ॥ १ ॥
लिङ्गं च पूज्यते लोके तत्त्वया कथितं च यत् ।
तत्तथैव न चान्यद्वा कारणं विद्यते त्विह ॥ २ ॥
बाणरूपा श्रुता लोके पार्वती शिववल्लभा ।
एतत्किं कारणं सूत कथय त्वं यथाश्रुतम् ॥ ३ ॥
सूत उवाच ।
कल्पभेदकथा चैव श्रुता व्यासान्मया द्विजाः ।
तामेव कथयाम्यद्य श्रूयतामृषिसत्तमाः ॥ ४ ॥
पुरा दारुवने जातं यद् वृत्तं तु द्विजन्मनाम् ।
तदेव श्रूयतां सम्यक् कथयामि यथाश्रुतम् ॥ ५ ॥
दारुनाम वनं श्रेष्ठं तत्रासन् ऋषिसत्तमाः ।
शिवभक्ताः सदा नित्यं शिवध्यानपरायणाः ॥ ६ ॥
त्रिकालं शिवपूजां च कुर्वन्ति स्म निरन्तरम् ।
नानाविधैः स्तवैर्दिव्यैस्तुष्टुवुस्ते मुनीश्वराः ॥ ७ ॥
ते कदाचिद्वने याताः समिधाहरणाय च ।
सर्वे द्विजर्षभाः शैवाः शिवध्यानपरायणाः ॥ ८ ॥
एतस्मिन्नन्तरे साक्षाच्छङ्करो नीललोहितः ।
विरूपं च समास्थाय परीक्षार्थं समागतः ॥ ९ ॥
दिगम्बरोऽतितेजस्वी भूतिभूषणभूषितः ।
स चेष्टामकरोद्दुष्टां हस्ते लिङ्गं विधारयन् ॥ ४. १२. १० ॥
मनसा च प्रियं तेषां कर्तुं वै वनवासिनाम् ।
जगाम तद्वनं प्रीत्या भक्तप्रीतो हरः स्वयम् ॥ ११ ॥
तं दृष्ट्वा ऋषिपत्न्यस्ताः परं त्रासमुपागताः ।
विह्वला विस्मिताश्चान्याः समाजग्मुस्तथा पुनः ॥ १२ ॥
आलिलिङ्गुस्तथा चान्याः करं धृत्वा तथापराः ।
परस्परं तु सङ्घर्षात्संमग्नास्ताः स्त्रियस्तदा ॥ १३ ॥
एतस्मिन्नेव समये ऋषिवर्याः समागमन् ।
विरुद्धं तं च ते दृष्ट्वा दुःखिताः क्रोधमूर्च्छिताः ॥ १४ ॥
तदा दुःखमनुप्राप्ताः कोऽयं कोऽयं तथाब्रुवन् ।
समस्ता ऋषयस्ते वै शिवमायाविमोहिताः ॥ १५ ॥
यदा च नोक्तवान् किंचित्सोऽवधूतो दिगम्बरः ।
ऊचुस्तं पुरुषं भीमं तदा ते परमर्षयः ॥ १६ ॥
त्वया विरुद्धं क्रियते वेदमार्गविलोपि यत् ।
ततस्त्वदीयं तल्लिङ्गं पततां पृथिवीतले ॥ १७ ॥
सूत उवाच ।
इत्युक्ते तु तदा तैश्च लिङ्गं च पतितं क्षणात् ।
अवधूतस्य तस्याशु शिवस्याद्भुतरूपिणः ॥ १८ ॥
तल्लिङ्गं चाग्निवत्सर्वं यद्ददाह पुरा स्थितम् ।
यत्र यत्र च तद्याति तत्र तत्र दहेत्पुनः ॥ १९ ॥
पाताले च गतं तच्च स्वर्गे चापि तथैव च ।
भूमौ सर्वत्र तद्यातं न कुत्रापि स्थिरं हि तत् ॥ ४. १२. २० ॥
लोकाश्च व्याकुला जाता ऋषयस्तेऽतिदुःखिताः ।
न शर्म लेभिरे केचिद्देवाश्च ऋषयस्तथा ॥ २१ ॥
न ज्ञातस्तु शिवो यैस्तु ते सर्वे च सुरर्षयः ।
दुःखिता मिलिताः शीघ्रं ब्रह्माणं शरणं ययुः ॥ २२ ॥
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं द्विजाः ।
तत्सर्वमवदन् वृत्तं ब्रह्मणे सृष्टिकारिणे ॥ २३ ॥
ब्रह्मा तद्वचनं श्रुत्वा शिवमायाविमोहितान् ।
ज्ञात्वा तान् शङ्करं नत्वा प्रोवाच ऋषिसत्तमान् ॥ २४ ॥
॥ ब्रह्मोवाच ॥
ज्ञातारश्च भवन्तो वै कुर्वते गर्हितं द्विजाः ।
अज्ञातारो यदा कुर्युः किं पुनः कथ्यते पुनः ॥ २५ ॥
विरुद्ध्यैवं शिवं देवं कुशलं कः समीहते ।
मध्याह्नसमये यो वै नातिथिं च परामृशेत् ॥ २६ ॥
तस्यैव सुकृतं नीत्वा स्वीयं च दुष्कृतं पुनः ।
संस्थाप्य चातिथिर्याति किं पुनः शिवमेव वा ॥ २७ ॥
यावल्लिङ्गं स्थिरं नैव जगतां त्रितये शुभम् ।
जायते न तदा क्वापि सत्यमेतद्वदाम्यहम् ॥ २८ ॥
भवद्भिश्च तथा कार्यं यथा स्वास्थ्यं भवेदिह ।
शिवलिङ्गस्य ऋषयो मनसा संविचार्यताम् ॥ २९ ॥
सूत उवाच ।
इत्युक्तास्ते प्रणम्योचुर्ब्रह्माणमृषयश्च वै ।
किमस्माभिर्विधे कार्यं तत्कार्यं त्वं समादिश ॥ ४. १२. ३० ॥
इत्युक्तश्च मुनीशैस्तैः सर्वलोकपितामहः ।
मुनीशांस्तांस्तदा ब्रह्मा स्वयं प्रोवाच वै तदा ॥ ३१ ॥
ब्रह्मोवाच ॥
आराध्य गिरिजां देवीं प्रार्थयन्तु सुराः शिवाम् ।
योनिरूपा भवेच्चेद्वै तदा तत्स्थिरतां व्रजेत् ॥ ३२ ॥
तद्विधिं प्रवदाम्यद्य सर्वे शृणुत सत्तमाः ।
तामेव कुरुत प्रेम्णा प्रसन्ना सा भविष्यति ॥ ३३ ॥
कुम्भमेकं च संस्थाप्य कृत्वाष्टदलमुत्तमम् ।
दूर्वायवाङ्कुरैस्तीर्थोदकमापूरयेत्ततः ॥ ३४ ॥
वेदमन्त्रैस्ततस्तं वै कुंभं चैवाभिमन्त्रयेत् ।
श्रुत्युक्तविधिना तस्य पूजां कृत्वा शिवं स्मरन् ॥ ३५ ॥
तल्लिङ्गं तज्जलेनाभिषेचयेत्परमर्षयः ।
शतरुद्रियमन्त्रैस्तु प्रोक्षितं शान्तिमाप्नुयात् ॥ ३६ ॥
गिरिजायोनिरूपं च बाणं स्थाप्य शुभं पुनः ।
तत्र लिङ्गं च तत्स्थाप्यं पुनश्चैवाभिमन्त्रयेत् ॥ ३७ ॥
सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ।
नैवेद्यादिकपूजाभिस्तोषयेत्परमेश्वरम् ॥ ३८ ॥
प्रणिपातैः स्तवैः पुण्यैर्वाद्यैर्गानैस्तथा पुनः ।
ततः स्वस्त्ययनं कृत्वा जयेति व्याहरेत्तथा ॥ ३९ ॥
प्रसन्नो भव देवेश जगदाह्लादकारक ।
कर्ता पालयिता त्वं च संहर्ता त्वं निरक्षरः ॥ ४. १२. ४० ॥
जगदादिर्जगद्योनिर्जगदन्तर्गतोऽपि च ।
शान्तो भव महेशान सर्वांल्लोकांश्च पालय ॥ ४१ ॥
एवं कृते विधौ स्वास्थ्यं भविष्यति न संशयः ।
विकारो न त्रिलोकेऽस्मिन्भविष्यति सुखं सदा ॥ ४२ ॥
सूत उवाच ।
इत्युक्तास्ते द्विजा देवाः प्रणिपत्य पितामहम् ।
शिवं तं शरणं प्राप्ताः सर्वलोकसुखेप्सया ॥ ४३ ॥
पूजितः परया भक्त्या प्रार्थितः शङ्करस्तदा ।
सुप्रसन्नस्ततो भूत्वा तानुवाच महेश्वरः ॥ ४४ ॥
महेश्वर उवाच ।
हे देवा ऋषयः सर्वे मद्वचः शृणुतादरात् ।
योनिरूपेण मल्लिङ्गं धृतं चेत्स्यात्तदा सुखम् ॥ ४५ ॥
पार्वतीं च विना नान्या लिङ्गं धारयितुं क्षमा ।
तया धृतं च मल्लिङ्गं द्रुतं शान्तिं गमिष्यति ॥ ४६ ॥
सूत उवाच ।
तच्छ्रुत्वा ऋषिभिर्देवैः सुप्रसन्नैर्मुनीश्वराः ।
गृहीत्वा चैव ब्रह्माणं गिरिजा प्रार्थिता तदा ॥ ४७ ॥
प्रसन्नां गिरिजां कृत्वा वृषभध्वजमेव च ।
पूर्वोक्तं च विधिं कृत्वा स्थापितं लिङ्गमुत्तमम् ॥ ४८ ॥
मन्त्रोक्तेन विधानेन देवाश्च ऋषयस्तथा ।
चक्रुः प्रसन्नां गिरिजां शिवं च धर्महेतवे ॥ ४९ ॥
समानर्चुर्विशेषेण सर्वे देवर्षयः शिवम् ।
ब्रह्मा विष्णुः परे चैव त्रैलोक्यं सचराचरम् ॥ ४. १२. ५० ॥
सुप्रसन्नः शिवो जातः शिवा च जगदम्बिका ।
धृतं तया च तल्लिङ्गं तेन रूपेण वै तदा ॥ ५१ ॥
लोकानां स्थापिते लिङ्गे कल्याणं चाभवत्तदा ।
प्रसिद्धं चैव तल्लिङ्गं त्रिलोक्यामभवद् द्विजाः ॥ ५२ ॥
हाटकेशमिति ख्यातं तच्छिवाशिवमित्यपि ।
पूजनात्तस्य लोकानां सुखं भवति सर्वथा ॥ ५३ ॥
इह सर्वसमृद्धिः स्यान्नानासुखवहाधिका ।
परत्र परमा मुक्तिर्नात्र कार्या विचारणा ॥ ५४ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां लिङ्गस्वरूपकारणवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
४. १३ त्रयोदशोऽध्यायः ॥ १३ ॥
सूत उवाच ।
यथाभवल्लिङ्गरूपः संपूज्यस्त्रिभवे शिवः ।
तथोक्तं वा द्विजाः प्रीत्या किमन्यच्छ्रोतुमिच्छथ ॥ १ ॥
ऋषय ऊचुः
अन्धकेश्वरलिङ्गस्य महिमानं वद प्रभो ।
तथान्यच्छिवलिङ्गानां प्रीत्या वक्तुमिहार्हसि ॥ २ ॥
सूत उवाच ।
पुराब्धिगर्तमाश्रित्य वसन् दैत्योऽन्धकासुरः ।
स्ववशं कारयामास त्रैलोक्यं सुरसूदनः ॥ ३ ॥
तस्माद्गर्ताच्च निःसृत्य पीडयित्वा पुनः प्रजाः ।
प्राविशच्च तदा दैत्यस्तं गर्तं सुपराक्रमः ॥ ४ ॥
देवाश्च दुःखिताः सर्वे शिवं प्रार्थ्य पुनःपुनः ।
सर्वं निवेदयामासुः स्वदुःखं च मुनीश्वराः ॥ ५ ॥
सूत उवाच ।
तदाकर्ण्य वचस्तेषां देवानां परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा दुष्टहंता सतां गतिः ॥ ६ ॥
शिव उवाच ।
घातयिष्यामि तं दैत्यमन्धकं सुरसूदनम् ।
सैन्यं च नीयतान्देवा ह्यायामि च गणैः सह ॥ ७ ॥
तस्माद्गर्तादंधके हि देवर्षिद्रुहि भीकरे ।
निःसृते च तदा तस्मिन्देवा गर्तमुपाश्रिताः ॥ ८ ॥
दैत्याश्च देवताश्चैव युद्धं चक्रुः सुदारुणम् ।
शिवानुग्रहतो देवाः प्रबलाश्चाभवँस्तदा ॥ ९ ॥
देवैश्च पीडितः सोऽपि यावद्गर्तमुपागतः ।
तावच्छूलेन संप्रोतः शिवेन परमात्मना ॥ ४. १३. १० ॥
तत्रत्यश्च तदा शंभुं ध्यात्वा संप्रार्थयत्तदा ।
अन्तकाले च त्वां दृष्ट्वा तादृशो भवति क्षणात् ॥ ११ ॥
इत्येवं संस्तुतः सोऽपि प्रसन्नः शङ्करस्तदा ।
उवाच वचनं तत्र वरं ब्रूहि ददामि ते ॥ १२ ॥
इत्येवं वचनं श्रुत्वा स दैत्यः पुनरब्रवीत् ।
सुप्रणम्य शिवं स्तुत्वा सत्त्वभावमुपाश्रितः ॥ १३ ॥
अन्धक उवाच ।
यदि प्रसन्नो देवेश स्वभक्तिं देहि मे शुभाम् ।
कृपां कृत्वा विशेषेण संस्थितो भव चेह वै ॥ १४ ॥
सूत उवाच ।
इत्युक्तस्तेन दैत्यं तं तद्गर्ते चाक्षिपद्धरः ।
स्वयं तत्र स्थितो लिङ्गरूपोऽसौ लोककाम्यया ॥ १५ ॥
अन्धकेशं च तल्लिङ्गं नित्यं यः पूजयेन्नरः ।
षण्मासाज्जायते तस्य वांछासिद्धिर्न संशयः ॥ १६ ॥
वृत्त्यर्थं पूजयेल्लिङ्गं लोकस्य हितकारकम् ।
षण्मासं यो द्विजश्चैव स वै देवलकः स्मृतः ॥ १७ ॥
यथा देवलकश्चैव स भवेदिह वै तदा ।
देवलकश्च यः प्रोक्तो नाधिकारो द्विजस्य हि ॥ १८ ॥
॥ ऋषय ऊचुः ॥
देवलकश्च कः प्रोक्तः किं कार्यं तस्य विद्यते ।
तत्त्वं वद महाप्राज्ञ लोकानां हितहेतवे ॥ १९ ॥
सूत उवाच ।
दधीचिर्नाम विप्रो यो धर्मिष्ठो वेदपारगः ।
शिवभक्तिरतो नित्यं शिवशास्त्रपरायणः ॥ ४. १३. २० ॥
तस्य पुत्रस्तथा ह्यासीत्स्मृतो नाम्ना सुदर्शनः ।
तस्य भार्या दुकूला च नाम्ना दुष्टकुलोद्भवा ॥ २१ ॥
तद्वशे स च भर्तासीत्तस्य पुत्रचतुष्टयम् ।
सोऽपि नित्यं शिवस्यैव पूजां च स्म करोत्यसौ ॥ २२ ॥
दधीचेस्तु तदा ह्यासीद् ग्रामान्तरनिवेशनम् ।
ज्ञातिसंयोगतश्चैव ज्ञातिभिर्न स मोचितः ॥ २३ ॥
कथयित्वा च पुत्रं स शिवभक्तिरतो भव ।
इत्युक्त्वा स गतो मुक्तो दधीचिः शैवसत्तमः ॥ २४ ॥
सुदर्शनस्तत्पुत्रोऽपि शिवपूजां चकार ह ।
एवं चिरतरः कालो व्यतीयाय मुनीश्वराः ॥ २५ ॥
एवं च शिवरात्रिश्च समायाता कदाचन ।
तस्यां चोपोषिताः सर्वे स्वयं संयोगतस्तदा ॥ २६ ॥
पूजां कृत्वा गतः सोऽपि सुदर्शन इति स्मृतः ।
स्त्रीसङ्गं शिवरात्रौ तु कृत्वा पुनरिहागतः ॥ २७ ॥
न स्नानं तेन च कृतं तद्रात्र्यां शिवपूजनम् ।
तेन तत्कर्मपाकेन क्रुद्धः प्रोवाच शङ्करः ॥ २८ ॥
महेश्वर उवाच ।
शिवरात्र्यां त्वया दुष्ट सेवनं च स्त्रियाः कृतम् ।
अस्नातेन मदीया च कृता पूजाविवेकिना ॥ २९ ॥
ज्ञात्वा चैवं कृतं यस्मात्तस्मात्त्वं जडतां व्रज ।
ममास्पृश्यो भव त्वं च दूरतो दर्शनं कुरु ॥ ४. १३. ३० ॥
सूत उवाच ।
इति शप्तो महेशेन दाधीचिः स सुदर्शनः ।
जडत्वं प्राप्तवान्सद्यः शिवमायाविमोहितः ॥ ३१ ॥
एतस्मिन्समये विप्रा दधीचिः शैवसत्तमः ।
ग्रामान्तरात्समायातो वृत्तान्तं श्रुतवाँश्च सः ॥ ३२ ॥
शिवेन भर्त्सितः सोऽपि दुःखितोऽभूदतीव हि ।
रुरोद हा हतोऽस्मीति दुःखेन सुतकर्मणा ॥ ३३ ॥
पुनःपुनरुवाचेति स दधीचिः सतां मतः ।
अनेनेदं कुपुत्रेण हतं मे कुलमुत्तमम् ॥ ३४ ॥
स पुत्रोऽपि हतो भार्यां पुंश्चलीमुक्तवान्द्रुतम् ।
पश्चात्तापमनुप्राप्य स्वपित्रा परिभर्त्सितः ॥ ३५ ॥
तत्पित्रा गिरिजा तत्र पूजिता विधिभिर्वरैः ।
सुयत्नतो महाभक्त्या स्वपुत्रसुखहेतवे ॥ ३६ ॥
सुदर्शनोऽपि गिरिजां पूजयामास च स्वयम् ।
चण्डीपूजनमार्गेण महाभक्त्या शुभैः स्तवैः ॥ ३७ ॥
एवं तौ पितृपुत्रौ हि नानोपायैः सुभक्तितः ।
प्रसन्नां चक्रतुर्देवीं गिरिजां भक्तवत्सलाम् ॥ ३८ ॥
तयोः सेवाप्रभावेण प्रसन्ना चण्डिका तदा ।
सुदर्शनं च पुत्रत्वे चकार गिरिजा मुने ॥ ३९ ॥
शिवं प्रसादयामास पुत्रार्थे चण्डिका स्वयम् ।
क्रुद्धाक्रुद्धा पुनश्चण्डी तत्पुत्रस्य प्रसन्नधीः ॥ ४. १३. ४० ॥
अथाज्ञाय प्रसन्नं तं महेशं वृषभध्वजम् ॥
नमस्कृत्य स्वयं तस्य ह्युत्सङ्गे तं न्यवेशयत् ॥ ४१.
घृतस्नानं तश्चक्रे पुत्रस्य गिरिजा स्वयम् ।
त्रिरावृत्तोपवीतं च ग्रन्थिनैकेन संयुतम् ॥ ४२ ॥
सुदर्शनाय पुत्राय ददौ प्रीत्या तदाम्बिका ।
उद्दिश्य शिवगायत्रीं षोडशाक्षरसंयुताम् ॥ ४३ ॥
तदों नमः शिवायेति श्रीशब्दपूर्वकाय च ।
वारान्षोडश सङ्कल्पपूजां कुर्यादयं बटुः ॥ ४४ ॥
आस्नानादिप्रणामान्तं पूजयन्वृषभध्वजम् ।
मंत्रवादित्रपूजाभिः सर्षीणां सन्निधौ तथा ॥ ४५ ॥
नाममंत्राननेकांश्च पाठयामास वै तदा ।
उवाच सुप्रसन्नात्मा चण्डिका च शिवस्तथा ॥ ४६ ॥
मदर्पितं च यत्किंचिद्धनधान्यादिकं तथा ।
तत्सर्वं च त्वया ग्राह्यं न दोषाय भविष्यति ॥ ४७ ॥
मम कृत्ये भवान्मुख्यो देवीकृत्ये विशेषतः ।
घृततैलादिकं सर्वं त्वया ग्राह्यं मदर्पितम् ॥ ४८ ॥
प्राजापत्यं भवेद्यर्हिं तर्ह्येको हि भवान्भवेत् ।
तदा पूजा च सम्पूर्णान्यथा सर्वा च निष्फला ॥ ४९ ॥
तिलकं वर्तुलं कार्यं स्नानं कार्यं सदा त्वया ।
शिवसन्ध्या च कर्तव्या गायत्री च तदीयका ॥ ४. १३. ५० ॥
मत्सेवां प्रथमं कृत्वा कार्यमन्यत्कुलोचितम् ।
एवं कृतेऽखिले भद्रं दोषाः क्षान्ता मया तव ॥ ५१ ॥
। सूत उवाच ॥
इत्युक्त्वा तस्य पुत्राश्च चत्वारो बटुकास्तदा ।
अभिषिक्ताश्चतुर्दिक्षु शिवेन परमात्मना ॥ ५२ ॥
चण्डी चैवात्मनिकटे पुत्रं स्थाप्य सुदर्शनम् ।
तत्पुत्रान्प्रेरयामास वरान्दत्त्वा ह्यनेकशः ॥ ५३ ॥
देव्युवाच ।
उभयोर्व्यूहयोर्मध्ये बटुको यो भवेन्मम ।
तस्य स्याद्विजयो नित्यं नात्र कार्या विचारणा ॥ ५४ ॥
भवांश्च पूजितो येन तेनैवाहं प्रपूजिता ।
कर्तव्यं हि भवद्भिश्च स्वीयं कर्म सदा सुत ॥ ५५ ॥
सूत उवाच ।
एवं तस्मै वरा दत्ताः सपुत्राय महात्मने ।
सुदर्शनाय कृपया शिवाभ्यां जगतां कृते ॥ ५६ ॥
शिवाभ्यां स्थापिता यस्मात्तस्मात्ते बटुकाः स्मृताः ।
तपोभ्रष्टा यतो जाताः स्मृतास्तस्मात्तपोऽधमाः ॥ ५७ ॥
शिवयोः कृपया सर्वे विस्तारं बहुधा गताः ।
तेषां च प्रथमा पूजा महापूजा महात्मनः ॥ ५८ ॥
तेन यावत्कृता नैव पूजा वै शङ्करस्य च ।
तावत्पूजा न कर्त्तव्या कृता चेन्न शुभापि सा ॥ ५९ ॥
शुभं वाप्यशुभं वापि बटुकं न परित्यजेत् ।
प्राजापत्ये च भोज्ये वै बटुरेको विशिष्यते ॥ ४. १३. ६०.
शिवयोश्च तथा कार्ये विशेषोऽत्र प्रदृश्यते ।
तदेव शृणु सुप्राज्ञ यथाहं वच्मि तेऽनघ ॥ ६१ ॥
तस्यैव नगरे राज्ञो भद्रस्य नित्यभोजने ।
प्राजापत्यस्य नियमे ह्यन्धकेशसमीपतः ॥ ६२ ॥
यज्जातमद्भुतं वृत्तं शिवानुग्रहकारणात् ।
श्रूयतां तच्च सुप्रीत्या कथयामि यथाश्रुतम् ॥ ६३ ॥
ध्वज एकश्च तद्राज्ञे दत्तस्तुष्टेन शम्भुना ।
प्रोक्तश्च कृपया राजा देवदेवेन तेन सः ॥ ६४ ॥
प्रातश्च बध्यतां राजन्ध्वजो रात्रौ पतिष्यति ।
मम त्वेवं च सम्पूर्णे प्राजापत्ये तथा पुनः ॥ ६५ ॥
अन्यथायं ध्वजो मे हि रात्रावपि स्थिरो भवेत् ।
इत्युक्त्वान्तर्हितः शंभू राज्ञे तुष्टः कृपानिधिः ॥ ६६ ॥
तथेति नियमश्चासीत्तस्य राज्ञो महामुने ।
प्राजापत्यं कृतं नित्यं शिवपूजाविधानतः ॥ ६७ ॥
स्वयं प्रातर्विवर्धेत ध्वजः सायं पतेदिति ।
यदि कार्यं च सम्पूर्णं जातं चैव भवेदिह ॥ ६८ ॥
एकस्मिन्समये चात्र बटोः कार्यं पुरा ह्यभूत् ।
ध्वजः स पतितो वै हि ब्रह्मभोजं विनापि हि ॥ ६९ ॥
दृष्ट्वा तच्च तदा तत्र पृष्टा राज्ञा च पण्डिताः ।
भुञ्जते ब्राह्मणा ह्यत्र नोत्थितो वै ध्वजस्त्विति ॥ ४. १३. ७० ॥
कथं च पतितः सोऽत्र ब्राह्मणा ब्रूत सत्यतः ।
ते पृष्टाश्च तदा प्रोचुर्ब्राह्मणाः पण्डितोत्तमाः ॥ ७१ ॥
ब्रह्मभोजे महाराज बटुको भोजितः पुरा ।
चण्डीपुत्रः शिवस्तुष्टस्तस्माच्च पतितो ध्वजः ॥ ७२ ॥
तच्छ्रुत्वा नृपतिः सोऽथ जनाश्चान्येऽपि सर्वशः ।
अभवन्विस्मितास्तत्र प्रशंसां चक्रिरे ततः ॥ ७३ ॥
एवं च महिमा तेषां वर्धितः शङ्करेण हि ।
तस्माच्च बटुकाः श्रेष्ठाः पुराविद्भिः प्रकीर्तिताः ॥ ७४ ॥
शिवपूजा तु तैः पूर्वमुत्तार्या नान्यथा पुनः ।
अन्येषां नाधिकारोऽस्ति शिवस्य वचनादिह ॥ ७५ ॥
उत्तारणं च कार्यं वै पूजा पूर्णा भवत्विति ।
एतावदेव तेषां तु कार्यं नान्यत्तथैव च ॥ ७६ ॥
एतत्सर्वं समाख्यातं यत्पृष्टं च मुनीश्वराः ।
यच्छ्रुत्वा शिवपूजायाः फलं प्राप्नोति वै नरः ॥ ७७ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
४. १४ चतुर्दशोऽध्यायः
ऋषय ऊचुः ॥
ज्योतिषां चैव लिङ्गानां माहात्म्यं कथयाधुना ।
उत्पत्तिं च तथा तेषां ब्रूहि सर्वं यथाश्रुतम् ॥ १ ॥
सूत उवाच ।
शृण्वन्तु विप्रा वक्ष्यामि तन्माहात्म्यं जनिं तथा ।
सङ्क्षेपतो यथाबुद्धि सद्गुरोश्च मया श्रुतम् ॥ २ ॥
एतेषां चैव माहात्म्यं वक्तुं वर्षशतैरपि ।
शक्यते न मुनिश्रेष्ठास्तथापि कथयामि वः ॥ ३ ॥
सोमनाथश्च तेषां वै प्रथमः परिकीर्तितः ।
तन्माहात्म्यं शृणु मुने प्रथमं सावधानतः ॥ ४ ॥
सप्तविंशन्मिताः कन्या दक्षेण च महात्मना ।
तेन चन्द्रमसे दत्ता अश्विन्याद्या मुनीश्वराः ॥ ५ ॥
चन्द्रं च स्वामिनं प्राप्य शोभमाना विशेषतः ।
चन्द्रोऽपि चैव ताः प्राप्य शोभते स्म निरन्तरम् ॥ ६ ॥
हेम्ना चैव मणिर्भाति मणिना हेम चैव हि ।
एवं च समये तस्य यज्जातं श्रूयतामिति ॥ ७ ॥
सर्वास्वपि च पत्नीषु रोहिणी नाम या स्मृता ।
यथैका सा प्रिया चासीत्तथान्या न कदाचन ॥ ८ ॥
अन्याश्च दुःखमापन्नाः पितरं शरणं ययुः ।
गत्वा तस्मै च यद्दुःखं तथा ताभिर्निवेदितम् ॥ ९ ॥
दक्षः स च तथा श्रुत्वा दुःखं च प्राप्तावांस्तदा ।
समागत्य द्विजाश्चन्द्रं शान्त्यावोचद् वचस्तदा ॥ ४. १४. १० ॥
दक्ष उवाच ।
विमले च कुले त्वं हि समुत्पन्नः कलानिधे ।
आश्रितेषु च सर्वेषु न्यूनाधिक्यं कथं तव ॥ ११ ॥
कृतं चेत्तत्कृतं तच्च न कर्तव्यं त्वया पुनः ।
वर्तनं विषमत्वेन नरकप्रदमीरितम् ॥ १२ ॥
सूत उवाच ।
दक्षश्चैवं च सम्प्रार्थ्य चन्द्रं जामातरं स्वयम् ।
जगाम मन्दिरं स्वं वै निश्चयं परमं गतः ॥ १३ ॥
चन्द्रोऽपि वचनं तस्य न चकार विमोहितः ।
शिवमायाप्रभावेण यया सम्मोहितं जगत् ॥ १४ ॥
शुभं भावि यदा यस्य शुभं भवति तस्य वै ।
अशुभं च यदा भावि कथं तस्य शुभं भवेत् ॥ १५ ॥
चन्द्रोऽपि बलवद्भाविवशान्मेने न तद्वचः ।
रोहिण्यां च समासक्तो नान्यां मेने कदाचन ॥ १६ ॥
तच्छ्रुत्वा पुनरागत्य स्वयं दुःखसमन्वितः ।
प्रार्थयामास चन्द्रं स दक्षो दक्षः सुनीतितः ॥ १७ ॥
दक्ष उवाच ।
श्रूयतां चन्द्र यत्पूर्वं प्रार्थितो बहुधा मया ।
न मानितं त्वया यस्मात्तस्मात्त्वं च क्षयी भव ॥ १८ ॥
सूत उवाच ।
इत्युक्ते तेन चन्द्रो वै क्षयी जातः क्षणादिह ।
हाहाकारो महानासीत्तदेन्दौ क्षीणतां गते ॥ १९ ॥
देवर्षयस्तदा सर्वे किं कार्यं हा कथं भवेत् ।
इति दुःखं समापन्ना विह्वला ह्यभवन्मुने ॥ ४. १४. २० ॥
विज्ञापिताश्च चन्द्रेण सर्वे शक्रादयः सुराः ।
ऋषयश्च वसिष्ठाद्या ब्रह्माणं शरणं ययुः ॥ २१ ॥
गत्वापि तु तदा प्रोचुस्तद् वृत्तं निखिलं मुने ।
ब्रह्मणे ऋषयो देवा नत्वा नुत्वातिविह्वलाः ॥ २२ ॥
ब्रह्मापि तद्वचः श्रुत्वा विस्मयं परमं ययौ ।
शिवमायां सुप्रशस्य श्रावयंस्तानुवाच ह ॥ २३ ॥
ब्रह्मोवाच ॥
अहो कष्टं महज्जातं सर्वलोकस्य दुःखदम् ।
चन्द्रस्तु सर्वदा दुष्टो दक्षश्च शप्तवानमुम् ॥ २४ ॥
सर्वं दुष्टेन चन्द्रेण कृतं कर्माप्यनेकशः ।
श्रूयतामृषयो देवाश्चन्द्रकृत्यं पुरातनम् ॥ २५ ॥
बृहस्पतेर्गृहं गत्वा तारा दुष्टेन वै हृता ।
तस्य भार्या पुनश्चैव स दैत्यान्समुपस्थितः ॥ २६ ॥
समाश्रितस्तदा दैत्यान्युद्धं देवैश्चकार ह ।
मयात्रिणा निषिद्धश्च तस्मै तारां ददौ शशी ॥ २७ ॥
तां च गर्भवतीं दृष्ट्वा न गृह्णामीति सोऽब्रवीत् ।
अस्माभिर्वारितो जीवः कृच्छ्राज्जग्राह तां तदा ॥ २८ ॥
यदि गर्भं जहातीह गृह्णामीत्यब्रवीत्पुनः ।
गर्भे मया पुनस्तत्र त्याजिते मुनिसत्तमाः ॥ २९ ॥
कस्यायं च पुनर्गर्भः सोमस्येति च साब्रवीत् ।
पश्चात्तेन गृहीता सा मया च वारितेन वै ॥ ४. १४. ३० ॥
एवंविधानि चन्द्रस्य दुश्चरित्राण्यनेकशः ।
वर्ण्यन्ते किं पुनस्तानि सोऽद्यापि कुरुते कथम् ॥ ३१ ॥
यज्जातं तत् सुसंजातं नान्यथा भवति ध्रुवम् ।
अतः परमुपायं वो वक्ष्यामि शृणुतादरात् ॥ ३२ ॥
प्रभासके शुभे क्षेत्रे व्रजेश्चन्द्रः सदैवतैः ।
शिवमाराधयेत्तत्र मृत्युञ्जयविधानतः ॥ ३३ ॥
निधायेशं पुरस्तत्र चन्द्रस्तपतु नित्यशः ।
प्रसन्नश्च शिवः पश्चादक्षयं तं करिष्यति ॥ ३४ ॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य ब्रह्मणस्ते सुरर्षयः ।
सन्निवृत्याययुः सर्वे यत्र दक्षविधू ततः ॥ ३५ ॥
गृहीत्वा ते ततश्चन्द्रं दक्षं चाश्वास्य निर्जराः ।
प्रभासे ऋषयश्चक्रुस्तत्र गत्वाखिलाश्च वै ॥ ३६ ॥
आवाह्य तीर्थवर्याणि सरस्वत्यादिकानि च ।
पार्थिवेन तदा पूजां मृत्युञ्जयविधानतः ॥ ३७ ॥
ते देवाश्च तदा सर्वे ऋषयो निर्मलाशयाः ।
स्थाप्य चन्द्रं प्रभासे च स्वं स्वं धाम ययुर्मुदा ॥ ३८ ॥
चन्द्रेण च तपस्तप्तं षण्मासं च निरन्तरम् ।
मृत्युञ्जयेन मन्त्रेण पूजितो वृषभध्वजः ॥ ३९ ॥
दशकोटिमितं मन्त्रं समावृत्य शशी च तम् ।
ध्यात्वा मृत्युञ्जयं मन्त्रं तस्थौ निश्चलमानसः ॥ ४. १४. ४० ॥
तं दृष्ट्वा शङ्करो देवः प्रसन्नोऽभूत्ततः प्रभुः ।
आविर्भूय विधुं प्राह स्वभक्तं भक्तवत्सलः ॥ ४१ ॥
शङ्कर उवाच ।
वरं वृणीष्व भद्रं ते मनसा यत्समीप्सितम् ।
प्रसन्नोऽहं शशिन्सर्वं दास्ये वरमनुत्तमम् ॥ ४२ ॥
चन्द्र उवाच ।
यदि प्रसन्नो देवेश किमसाध्यं भवेन्मम ।
तथापि मे शरीरस्य क्षयं वारय शङ्कर ॥ ४३ ॥
क्षन्तव्यो मेऽपराधश्च कल्याणं कुरु सर्वदा ।
इत्युक्ते च तदा तेन शिवो वचनमब्रवीत् ॥ ४४ ॥
शिव उवाच ।
पक्षे च क्षीयतां चन्द्र कला ते च दिने दिने ।
पुनश्च वर्धतां पक्षे सा कला च निरन्तरम् ॥ ४५ ॥
सूत उवाच ।
एवं सति तदा देवा हर्षनिर्भरमानसाः ।
ऋषयश्च तथा सर्वे समाजग्मुर्द्रुतं द्विजाः ॥ ४६ ॥
आगत्य च तदा सर्वे चन्द्रायाशिषमब्रुवन् ।
शिवं नत्वा करौ बद्ध्वा प्रार्थयामासुरादरात् ॥ ४७ ॥
देवाः ऊचुः ॥
देवदेव महादेव परमेश नमोऽस्तु ते ।
उमया सहितः शम्भो स्वामिन्नत्र स्थिरो भव ॥ ४८ ॥
सूत उवाच ।
ततश्चन्द्रेण सद्भक्त्या संस्तुतः शङ्करः पुरा ।
निराकारश्च साकारः पुनश्चैवाभवत्प्रभुः ॥ ४९ ॥
प्रसन्नश्च स देवानां क्षेत्रमाहात्म्यहेतवे ।
चन्द्रस्य यशसे तत्र नाम्ना चन्द्रस्य शङ्करः ॥ ४. १४. ५० ॥
सोमेश्वरश्च नाम्नासीद्विख्यातो भुवनत्रये ।
क्षयकुष्ठादिरोगाणां नाशकः पूजनाद् द्विजाः ॥ ५१ ॥
धन्योऽयं कृतकृत्योऽयं यन्नाम्ना शङ्करः स्वयम् ।
स्थितश्च जगतां नाथः पावयञ्जगतीतलम् ॥ ५२ ॥
तत्कुण्डं तैश्च तत्रैव सर्वैर्देवैः प्रतिष्ठितम् ।
शिवेन ब्रह्मणा तत्र ह्यविभक्तं तु तत्पुनः ॥ ५३ ॥
चन्द्रकुण्डं प्रसिद्धं च पृथिव्यां पापनाशनम् ।
तत्र स्नाति नरो यः स सर्वैः पापैः प्रमुच्यते ॥ ५४ ॥
रोगाः सर्वे क्षयाद्याश्च ह्यसाध्या ये भवन्ति वै ।
ते सर्वे च क्षयं यान्ति षण्मासं स्नानमात्रतः ॥ ५५ ॥
प्रभासं च परिक्रम्य पृथिवीक्रमसम्भवम् ।
फलं प्राप्नोति शुद्धात्मा मृतः स्वर्गे महीयते ॥ ५६ ॥
सोमलिङ्गं नरो दृष्ट्वा सर्वपापात्प्रमुच्यते ।
लब्ध्वा फलं मनोऽभीष्टं मृतः स्वर्गं समीहते ॥ ५७ ॥
यद्यत्फलं समुद्दिश्य कुरुते तीर्थमुत्तमम् ।
तत्तत्फलमवाप्नोति सर्वथा नात्र संशयः ॥ ५८ ॥
इति ते ऋषयो देवाः फलं दृष्ट्वा तथाविधम् ।
मुदा शिवं नमस्कृत्य गृहीत्वा चन्द्रमक्षयम् ॥ ५९ ॥
परिक्रम्य च तत्तीर्थं प्रशंसन्तश्च ते ययुः ।
चन्द्रश्चापि स्वकीयं च कार्यं चक्रे पुरातनम् ॥ ४. १४. ६० ॥
इति सर्वः समाख्यातः सोमेशस्य समुद्भवः ।
एवं सोमेश्वरं लिङ्गं समुत्पन्नं मुनीश्वराः ॥ ६१ ॥
यः शृणोति तदुत्पत्तिं श्रावयेद्वा परान्नरः ।
सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते ॥ ६२ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सोमनाथज्योतिर्लिङ्गोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
४. १५ पञ्चदशोऽध्यायः
। सूत उवाच ॥
अतः परं प्रवक्ष्यामि मल्लिकार्जुनसम्भवम् ।
यं श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते ॥ १ ॥
पूर्वं च कथितं यच्च तत्पुनः कथयाम्यहम् ।
कुमारचरितं दिव्यं सर्वपापविनाशनम् ॥ २ ॥
यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ।
कुमारः स शिवापुत्रस्तारकारिर्महाबलः ॥ ३ ॥
तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ।
गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः ॥ ४ ॥
तच्छ्रुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ।
जगाम पर्वतं क्रौंचं पितृभ्यां वारितोऽपि हि ॥ ५ ॥
कुमारस्य वियोगेन तन्माता गिरिजा यदा ।
दुःखितासीत्तदा शम्भुस्तामुवाच सुबोधकृत् ॥ ६ ॥
कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ।
आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम् ॥ ७ ॥
सा यदा च न तं मेने पार्वती दुःखिता भृशम् ।
तदा च प्रेषितास्तत्र शङ्करेण सुरर्षयः ॥ ८ ॥
देवाश्च ऋषयः सर्वे सगणा हि मुदान्विताः ।
कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः ॥ ९ ॥
तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ।
विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात् ॥ ४. १५. १० ॥
देवादिप्रार्थनां तां च शिवाज्ञासङ्कुलां गुरुः ।
न मेने स कुमारो हि महाहङ्कारविह्वलः ॥ ११ ॥
ततश्च पुनरावृत्य सर्वे ते हि शिवान्तिकम् ।
स्वं स्वं स्थानं गता नत्वा प्राप्य शङ्करशासनम् ॥ १२ ॥
तदा च गिरिजा देवी विरहं पुत्रसम्भवम् ।
शम्भुश्च परमं दुःखं प्राप तस्मिन्ननागते ॥ १३ ॥
अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ।
जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः ॥ १४ ॥
स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ।
ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च ॥ १५ ॥
क्रौञ्चे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ।
तौ च तत्र समासीनौ ज्योतीरूपं समाश्रितौ ॥ १६ ॥
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।
दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः ॥ १७ ॥
अमावास्यादिने शम्भुः स्वयं गच्छति तत्र ह ।
पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ॥ १८ ॥
तद्दिनं हि समारभ्य मल्लिकार्जुनसम्भवम् ।
लिङ्गं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये ॥ १९ ॥
तल्लिङ्गं यः समीक्षेत स सर्वैः किल्बिषैरपि ।
मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात् ॥ ४. १५. २० ॥
दुःखं च दूरतो याति सुखमात्यन्तिकं लभेत् ।
जननीगर्भसम्भूतं कष्टं नाप्नोति वै पुनः ॥ २१ ॥
धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ।
अभीष्टफलसिद्धिश्च जायते नात्र संशयः ॥ २२ ॥
ज्योतिर्लिङ्गं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ।
दर्शनात्सर्वसुखदं कथितं लोकहेतवे ॥ २३ ॥
इति श्रीशिवपुराणे चतुर्थ्यां कोटिरुद्रसंहितायां मल्लिकार्जुननामकद्वितीयज्योतिर्लिङ्गवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
४. १६ षोडशोऽध्यायः ॥ १६ ॥
ऋषय ऊचुः ॥
सूत सर्वं विजानासि वस्तु व्यासप्रसादतः ।
ज्योतिषां च कथां श्रुत्वा तृप्तिर्नैव प्रजायते ॥ १ ॥
तस्मात्त्वं हि विशेषेण कृपां कृत्वातुलां प्रभो ।
ज्योतिर्लिङ्गं तृतीयं च कथय त्वं हि नोऽधुना ॥ २ ॥
सूत उवाच ।
धन्योऽहं कृतकृत्योऽहं श्रीमतां भवतां यदि ।
गतश्च सङ्गमं विप्रा धन्या वै साधुसङ्गतिः ॥ ३ ॥
अतो मत्वा स्वभाग्यं हि कथयिष्यामि पावनीम् ।
पापप्रणाशिनीं दिव्यां कथां च शृणुतादरात् ॥ ४ ॥
अवन्ती नगरी रम्या मुक्तिदा सर्वदेहिनाम् ।
शिवप्रिया महापुण्या वर्तते लोकपावनी ॥ ५ ॥
तत्रासीद् ब्राह्मणश्रेष्ठः शुभकर्मपरायणः ।
वेदाध्ययनकर्ता च वेदकर्मरतः सदा ॥ ६ ॥
अग्न्याधानसमायुक्तः शिवपूजारतः सदा ।
पार्थिवीं प्रत्यहं मूर्तिं पूजयामास वै द्विजः ॥ ७ ॥
सर्वकर्मफलं प्राप्य द्विजो वेदप्रियः सदा ।
सतां गतिं समालेभे सम्यज्ज्ञानपरायणः ॥ ८ ॥
तत्पुत्रास्तादृशाश्चासंश्चत्वारो मुनिसत्तमाः ।
शिवपूजारता नित्यं पित्रोरनवमाः सदा ॥ ९ ॥
देवप्रियश्च तज्ज्येष्ठः प्रियमेधास्ततः परम् ।
तृतीयः सुकृतो नाम धर्मवाही च सुव्रतः ॥ ४. १६. १० ॥
तेषां पुण्यप्रतापाच्च पृथिव्यां सुखमैधत ।
शुक्लपक्षे यथा चन्द्रो वर्धते च निरन्तरम् ॥ ११ ॥
तथा तेषां गुणास्तत्र वर्धन्ते स्म सुखावहाः ।
ब्रह्मतेजोमयी सा वै नगरी चाभवत्तदा ॥ १२ ॥
एतस्मिन्नन्तरे तत्र यज्जातं वृत्तमुत्तमम् ।
श्रूयतां तद् द्विजश्रेष्ठाः कथयामि यथाश्रुतम् ॥ १३ ॥
पर्वते रत्नमाले च दूषणाख्यो महासुरः ।
बलवान्दैत्यराजश्च धर्मद्वेषी निरन्तरम् ॥ १४ ॥
ब्रह्मणो वरदानाच्च जगत्तुच्छीचकार ह ।
देवाः पराजितास्तेन स्थानान्निःसारितास्तथा ॥ १५ ॥
पृथिव्यां वेदधर्माश्च स्मृतिधर्माश्च सर्वशः ।
स्फोटितास्तेन दुष्टेन सिंहेनेव शशाः खलु ॥ १६ ॥
यावन्तो वेदधर्माश्च तावन्तो दूरतः कृताः ।
तीर्थे तीर्थे तथा क्षेत्रे धर्मो नीतश्च दूरतः ॥ १७ ॥
अवन्ती नगरी रम्या तत्रैका दृश्यते पुनः ।
इत्थं विचार्य तेनैव यत्कृतं श्रूयतां हि तत् ॥ १८ ॥
बहुसैन्यसमायुक्तो दूषणः स महासुरः ।
तत्रस्थान्ब्राह्मणान्सर्वानुद्दिश्य समुपाययौ ॥ १९ ॥
तत्रागत्य स दैत्येन्द्रश्चतुरो दैत्यसत्तमान् ।
प्रोवाचाहूय वचनं विप्रद्रोही महाखलः ॥ ४. १६. २० ॥
दैत्य उवाच ।
किमेते ब्राह्मणा दुष्टा न कुर्वन्ति वचो मम ।
वेदधर्मरता एते सर्वे दण्ड्या मते मम ॥ २१ ॥
सर्वे देवा मया लोके राजानश्च पराजिताः ।
वशे किं ब्राह्मणाः शक्या न कर्तुं दैत्यसत्तमाः ॥ २२ ॥
यदि जीवितुमिच्छा स्यात्तदा धर्मं शिवस्य च ।
वेदानां परमं धर्मं त्यक्त्वा सुखसुभागिनः ॥ २३ ॥
अन्यथा जीवने तेषां संशयश्च भविष्यति ।
इति सत्यं मया प्रोक्तं तत्कुरुध्वं विशङ्किताः ॥ २४ ॥
सूत उवाच ।
इति निश्चित्य ते दैत्याश्चत्वारः पावका इव ।
चतुर्दिक्षु तदा जाताः प्रलये च यथा पुरा ॥ २५ ॥
ते ब्राह्मणास्तदा श्रुत्वा दैत्यानामुद्यमं तदा ।
न दुःखं लेभिरे तत्र शिवध्यान परायणाः ॥ २६ ॥
धैर्यं समाश्रितास्ते च रेखामात्रं तदा द्विजाः ।
न चेलुः परमध्यानाद्वराकाः के शिवाग्रतः ॥ २७ ॥
एतस्मिन्नन्तरे तैस्तु व्याप्तासीन्नगरी शुभा ।
लोकाश्च पीडितास्तैस्तु ब्राह्मणान्समुपाययुः ॥ २८ ॥
लोका ऊचुः ॥
स्वामिनः किं च कर्तव्यं दुष्टाश्च समुपागताः ।
हिंसिता बहवो लोका आगताश्च समीपतः ॥ २९ ॥
सूत उवाच ।
तेषामिति वचः श्रुत्वा वेदप्रियसुताश्च ते ।
समूचुर्ब्राह्मणाँस्तान्वै विश्वस्ताः शङ्करे सदा ॥ ४. १६. ३० ॥
ब्राह्मणा ऊचुः ॥
श्रूयतां विद्यते नैव बलं दुष्टभयावहम् ।
न शस्त्राणि तथा सन्ति यच्च ते विमुखाः पुनः ॥ ३१ ॥
सामान्यस्यापमानो नो ह्याश्रयस्य भवेदिह ।
पुनश्च किं समर्थस्य शिवस्येह भविष्यति ॥ ३२ ॥
शिवो रक्षां करोत्वद्यासुराणां भयतः प्रभुः ।
नान्यथा शरणं लोके भक्तवत्सलतः शिवात् ॥ ३३ ॥
सूत उवाच ।
इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ।
कृत्वा ते च द्विजाः सम्यक् स्थिता ध्यानपरायणाः ।
दृष्टा दैत्येन तावच्च ते विप्राः सबलेन हि ॥ ३४ ॥
दूषणेन वचः प्रोक्तं हन्यतां वध्यतामिति ॥
तच्छ्रुतं तैस्तदा नैव दैत्यप्रोक्तं वचो द्विजैः ।
वेदप्रियसुतैः शम्भोर्ध्यानमार्गपरायणैः ॥ ३५ ॥
अथ यावत्स दुष्टात्मा हन्तुमैच्छद् द्विजांश्च तान् ।
तावच्च प्रार्थिवस्थाने गर्त आसीत्सशब्दकः ॥ ३६ ॥
गर्तात्ततः समुत्पन्नः शिवो विकटरूपधृक् ।
महाकाल इति ख्यातो दुष्टहन्ता सतां गतिः ॥ ३७ ॥
महाकालः समुत्पन्नो दुष्टानां त्वादृशामहम् ।
खल त्वं ब्राह्मणानां हि समीपाद् दूरतो व्रज ॥ ३८ ॥
इत्युक्त्वा हुङ्कृतेनैव भस्मसात्कृतवांस्तदा ।
दूषणं च महाकालः शङ्करः सबलं द्रुतम् ॥ ३९ ॥
कियत्सैन्यं हतं तेन किञ्चित्सैन्यं पलायितम् ।
दूषणश्च हतस्तेन शिवेनेह परात्मना ॥ ४. १६. ४० ॥
सूर्यं दृष्ट्वा यथा याति सङ्क्षयं सर्वशस्तमः ।
तथैव च शिवं दृष्ट्वा तत्सैन्यं विननाश ह ॥ ४१ ॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
देवः समाययुः सर्वे हरिब्रह्मादयस्तथा ॥ ४२ ॥
भक्त्या प्रणम्य तं देवं शङ्करं लोकशङ्करम् ।
तुष्टुवुर्विविधैः स्तोत्रैः कृताञ्जलिपुटा द्विजाः ॥ ४३ ॥
ब्राह्मणांश्च समाश्वास्य सुप्रसन्नः शिवः स्वयम् ।
वरं ब्रूतेति चोवाच महाकालो महेश्वरः ॥ ४४ ॥
तच्छ्रुत्वा ते द्विजाः सर्वे कृताञ्जलिपुटास्तदा ।
सुप्रणम्य शिवं भक्त्या प्रोचुः सन्नतमस्तकाः ॥ ४५ ॥
॥ द्विजा ऊचुः ॥
महाकाल महादेव दुष्टदण्डकर प्रभो ।
मुक्तिं प्रयच्छ नः शंभो संसाराम्बुधितः शिव ॥ ४६ ॥
अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव ।
स्वदर्शकान्नरान् शम्भो तारय त्वं सदा प्रभो ॥ ४७ ॥
सूत उवाच ।
इत्युक्तस्तैः शिवस्तत्र तस्थौ गर्ते सुशोभने ।
भक्तानां चैव रक्षार्थं दत्त्वा तेभ्यश्च सद्गतिम् ॥ ४८ ॥
द्विजास्ते मुक्तिमापन्नाश्चतुर्द्दिक्षु शिवास्पदम् ।
क्रोशमात्रं तदा जातं लिङ्गरूपिण एव च ॥ ४९ ॥
महाकालेश्वरो नाम शिवः ख्यातश्च भूतले ।
तं दृष्ट्वा न भवेत्स्वप्ने किञ्चिद्दुःखमपि द्विजाः ॥ ४. १६. ५० ॥
यं यं काममपेक्ष्यैव तल्लिङ्गं भजते तु यः ।
तं तं काममवाप्नोति लभेन्मोक्षं परत्र च ॥ ५१ ॥
एतत्सर्वं समाख्यातं महाकालस्य सुव्रताः ।
समुद्भवश्च माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ॥ ५२ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिङ्गमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
४. १७ सप्तदशोऽध्यायः
ऋषय ऊचुः ॥
महाकालसमाह्वस्थज्योतिर्लिङ्गस्य रक्षिणः ।
भक्तानां महिमानं च पुनर्ब्रूहि महामते ॥ १ ॥
सूत उवाच ।
शृणुतादरतो विप्रो भक्तरक्षाविधायिनः ।
महाकालस्य लिङ्गस्य माहात्म्यं भक्तिवर्धनम् ॥ २ ॥
उज्जयिन्यामभूद्राजा चन्द्रसेनाह्वयो महान् ।
सर्वशास्त्रार्थतत्त्वज्ञः शिवभक्तो जितेन्द्रियः ॥ ३ ॥
तस्याभवत्सखा राज्ञो मणिभद्रो गणो द्विजाः ।
गिरीशगणमुख्यश्च सर्वलोकनमस्कृतः ॥ ४ ॥
एकदा स गणेन्द्रो हि प्रसन्नास्यो महामणिम् ।
मणिभद्रो ददौ तस्मै चिन्तामणिमुदारधीः ॥ ५ ॥
स वै मणिः कौस्तुभवद् द्योतमानोऽर्कसन्निभः ।
ध्यातो दृष्टः श्रुतो वापि मङ्गलं यच्छति ध्रुवम् ॥ ६ ॥
तस्य कान्तितलस्पृष्टं कांस्यं ताम्रमयस्त्रपु ।
पाषाणादिकमन्यद्वा द्रुतं भवति हाटकम् ॥ ७ ॥
स तु चिन्तामणिं कण्ठे बिभ्रद् राजा शिवाश्रयः ।
चन्द्रसेनो रराजाति देवमध्येव भानुमान् ॥ ८ ॥
श्रुत्वा चिन्तामणिग्रीवं चन्द्रसेनं नृपोत्तमम् ।
निखिलाः क्षितिराजानस्तृष्णाक्षुब्धहृदोऽभवन् ॥ ९ ॥
नृपा मत्सरिणः सर्वे तं मणिं चन्द्रसेनतः ।
नानोपायैरयाचन्त देवलब्धमबुद्धयः ॥ ४. १७. १० ॥
सर्वेषां भूभृतां याञ्चा चन्द्रसेनेन तेन वै ।
व्यर्थीकृता महाकालदृढभक्तेन भूसुराः ॥ ११ ॥
ते कदर्थीकृताः सर्वे चन्द्रसेनेन भूभृता ।
राजानः सर्वदेशानां संरम्भं चक्रिरे तदा ॥ १२ ॥
अथ ते सर्वराजानश्चतुरङ्गबलान्विताः ।
चन्द्रसेनं रणे जेतुं सम्बभूवुः किलोद्यताः ॥ १३ ॥
ते तु सर्वे समेता वै कृतसङ्केतसंविदः ।
उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ॥ १४ ॥
संरुध्यमानां स्वपुरीं दृष्ट्वा निखिलराजभिः ।
तमेव शरणं राजा महाकालेश्वरं ययौ ॥ १५ ॥
निर्विकल्पो निराहारः स नृपो दृढनिश्चयः ।
समानर्च महाकालं दिवानक्तमनन्यधीः ॥ १६ ॥
ततः स भगवाञ्छम्भुर्महाकालः प्रसन्नधीः ।
तं रक्षितुमुपायं वै चक्रे तं शृणुतादरात् ॥ १७ ॥
तदैव समये गोपी काचित्तत्र पुरोत्तमे ।
चरन्ती सशिशुर्विप्रा महाकालान्तिकं ययौ ॥ १८ ॥
पञ्चाब्दवयसं बालं वहन्ती गतभर्तृका ।
राज्ञा कृतां महाकालपूजां सापश्यदादरात् ॥ १९ ॥
सा दृष्ट्वा सुमहाश्चर्यां शिवपूजां च तत्कृताम् ।
प्रणिपत्य स्वशिविरं पुनरेवाभ्यपद्यत ॥ ४. १७. २० ॥
एतत्सर्वमशेषेण स दृष्ट्वा वल्लवीसुतः ।
कुतूहलेन तां कर्तुं शिवपूजां मनो दधे ॥ २१ ॥
आनीय हृद्यं पाषाणं शून्ये तु शिविरान्तरे ।
अविदूरे स्वशिविराच्छिवलिंगं स भक्तितः ॥ २२ ॥
गन्धालङ्कारवासोभिर्धूपदीपाक्षतादिभिः ।
विधाय कृत्रिमैर्द्रव्यैर्नैवेद्यं चाप्यकल्पयत् ॥ २३ ॥
भूयो भूयः समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ।
नृत्यं च विविधं कृत्वा प्रणनाम पुनः पुनः ॥ २४ ॥
एतस्मिन्समये पुत्रं शिवासक्तसुचेतसम् ।
प्रणयाद्गोपिका सा तं भोजनाय समाह्वयत् ॥ २५ ॥
यदाहूतोऽपि बहुश; शिवपूजाक्तमानसः ।
बालश्च भोजनं नैच्छत्तदा तत्र ययौ प्रसूः ॥ २६ ॥
तं विलोक्य शिवस्याग्रे निषण्णं मीलितेक्षणम् ।
चकर्ष पाणिं सङ्गृह्य कोपेन समताडयत् ॥ २७ ॥
आकृष्टस्ताडितश्चापि नागच्छत् स्वसुतो यदा ।
तां पूजां नाशयामास क्षिप्त्वा लिङ्गं च दूरतः ॥ २८ ॥
हाहेति दूयमानं तं निर्भर्त्स्य स्वसुतं च सा ।
पुनर्विवेश स्वगृहं गोपी क्रोधसमन्विता ॥ २९ ॥
मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ।
देवदेवेति चुक्रोश निपपात स बालकः ॥ ४. १७. ३० ॥
प्रनष्टसंज्ञः सहसा स बभूव शुचाकुलः ।
लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत् ॥ ३१ ॥
तदैव जातं शिविरं महाकालस्य सुन्दरम् ।
ददर्श स शिशुस्तत्र शिवानुग्रहतोऽचिरात् ॥ ३२ ॥
हिरण्मयबृहद् द्वारं कपाटवरतोरणम् ।
महार्हनीलविमलवज्रवेदीविराजितम् ॥ ३३ ॥
सन्तप्तहेमकलशैर्विचित्रैर्बहुभिर्युतम् ।
प्रोद्भासितमणिस्तम्भैर्बद्धस्फटिकभूतलैः ॥ ३४ ॥
तन्मध्ये रत्नलिङ्गं हि शङ्करस्य कृपानिधेः.
स्वकृतार्चनसंयुक्तमपश्यद्गोपिकासुतः ॥ ३५ ॥
स दृष्ट्वा सहसोत्थाय शिशुर्विस्मितमानसः ।
सन्निमग्न इवासीद्वै परमानन्दसागरे ॥ ३६ ॥
ततः स्तुत्वा स गिरिशं भूयो भूयः प्रणम्य च ।
सूर्ये चास्तंगते बालो निर्जगाम शिवालयात् ॥ ३७ ॥
अथापश्यत्स्वशिविरं पुरन्दरपुरोपमम् ।
सद्यो हिरण्मयीभूतं विचित्रं परमोज्ज्वलम् ॥ ३८ ॥
सोऽन्तर्विवेश भवनं सर्वशोभासमन्वितम् ।
मणिहेमगणाकीर्णं मोदमानो निशामुखे ॥ ३९ ॥
तत्रापश्यत्स्वजननीं स्वपन्तीं दिव्यलक्षणाम् ।
रत्नालङ्कारदीप्ताङ्गीं साक्षात्सुरवधूमिव ॥ ४. १७. ४० ॥
अथो स तनयो विप्राः शिवानुग्रहभाजनम् ।
जवेनोत्थापयामास मातरं सुखविह्वलः ॥ ४१ ॥
सोत्थिताद्भुतमालक्ष्यापूर्वं सर्वमिवाभवत् ।
महानन्दसुमग्ना हि सस्वजे स्वसुतं च तम् ॥ ४२ ॥
श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ।
प्रभुं विज्ञापयामास यो भजत्यनिशं शिवम् ॥ ४३ ॥
स राजा सहसागत्य समाप्तनियमो निशि ।
ददर्श गोपिकासूनोः प्रभावं शिवतोषणम् ॥ ४४ ॥
दृष्ट्वा महीपतिः सर्वं तत्सामात्यपुरोहितः ।
आसीन्निमग्नो विधृतिः परमानन्दसागरे ॥ ४५ ॥
प्रेम्णा बाष्पजलं मुञ्चन् चन्द्रसेनो नृपो हि सः ।
शिवनामोच्चरन्प्रीत्या परिरेभे तमर्भकम् ॥ ४६ ॥
महामहोत्सवस्तत्र प्रबभूवाद्भुतो द्विजाः ।
महेशकीर्तनं चक्रुः सर्वे च सुखविह्वलाः ॥ ४७ ॥
एवमत्यद्भुताचाराच्छिवमाहात्म्यदर्शनात् ।
पौराणां सम्भ्रमाच्चैव सा रात्रिः क्षणतामगात् ॥ ४८ ॥
अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ।
राजानश्चारवक्त्रेभ्यः शुश्रुवुश्चरितं च तत् ॥ ४९ ॥
ते समेताश्च राजानः सर्वे ये ये समागताः ।
परस्परमिति प्रोचुस्तच्छ्रुत्वा चकित अति ॥ ४. १७. ५० ॥
राजान ऊचुः ॥
अयं राजा चन्द्रसेनः शिवभक्तोऽतिदुर्जयः ।
उज्जयिन्या महाकालपुर्याः पतिरनाकुलः ॥ ५१ ॥
ईदृशाः शिशवो यस्य पुर्यां सन्ति शिवव्रताः ।
स राजा चन्द्रसेनस्तु महाशङ्करसेवकः ॥ ५२ ॥
नूनमस्य विरोधेन शिवः क्रोधं करिष्यति ।
तत्क्रोधाद्धि वयं सर्वे भविष्यामो विनष्टकाः ॥ ५३ ॥
तस्मादनेन राज्ञा वै मिलापः कार्य एव हि ।
एवं सति महेशानः करिष्यति कृपां पराम् ॥ ५४ ॥
सूत उवाच ।
इति निश्चित्य ते भूपास्त्यक्तवैराः सदाशयाः ।
सर्वे बभूवुः सुप्रीता न्यस्तशस्त्रास्त्रपाणयः ॥ ५५ ॥
विविशुस्ते पुरीं रम्यां महाकालस्य भूभृतः ।
महाकालं समानर्चुश्चन्द्रसेनानुमोदिताः ॥ ५६ ॥
ततस्ते गोपवनितागेहं जग्मुर्महीभृतः ।
प्रशंसन्तश्च तद्भाग्यं सर्वे दिव्यमहोदयम् ॥ ५७ ॥
ते तत्र चन्द्रसेनेन प्रत्युद्गम्याभिपूजिताः ।
महार्हविष्टरगताः प्रत्यनन्दन् सुविस्मिताः ॥ ५८ ॥
गोपसूनोः प्रसादात्तत्प्रादुर्भूतं शिवालयम् ।
संवीक्ष्य शिवलिङ्गं च शिवे चक्रुः परां मतिम् ॥ ५९ ॥
ततस्ते गोपशिशवे प्रीता निखिलभूभुजः ।
ददुर्बहूनि वस्तूनि तस्मै शिवकृपार्थिनः ॥ ४. १७. ६० ॥
ये ये सर्वेषु देशेषु गोपास्तिष्ठन्ति भूरिशः ।
तेषां तमेव राजानं चक्रिरे सर्वपार्थिवाः ॥ ६१ ॥
अथास्मिन्नन्तरे सर्वैस्त्रिदशैरभिपूजितः ।
प्रादुर्बभूव तेजस्वी हनूमान् वानरेश्वरः ॥ ६२ ॥
ते तस्याभिगमादेव राजानो जातसम्भ्रमाः ।
प्रत्युत्थाय नमश्चकुर्भक्तिनम्रात्ममूर्तयः ॥ ६३ ॥
तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ।
गोपात्मजं तमालिङ्ग्य राज्ञो वीक्ष्येदमब्रवीत् ॥ ६४ ॥
हनूमानुवाच ।
सर्वे शृण्वन्तु भद्रं वो राजानो ये च देहिनः ।
ऋते शिवं नान्यतमो गतिरस्ति शरीरिणाम् ॥ ६५ ॥
एवं गोपसुतो दिष्ट्या शिवपूजां विलोक्य च ।
अमन्त्रेणापि सम्पूज्य शिवं शिवमवाप्तवान् ॥ ६६ ॥
एष भक्तवरः शम्भोर्गोपानां कीर्तिवर्धनः ।
इह भुक्त्वाखिलान्भोगानन्ते मोक्षमवाप्स्यति ॥ ६७ ॥
अस्य वंशेऽष्टमो भावी नन्दो नाम महायशाः ।
प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारायणः स्वयम् ॥ ६८ ॥
अद्यप्रभृति लोकेऽस्मिन्नेष गोपकुमारकः ।
नाम्ना श्रीकर इत्युच्चैर्लोकख्यातिं गमिष्यति ॥ ६९ ॥
सूत उवाच ।
एवमुक्त्वाञ्जनीसूनुः शिवरूपो हरीश्वरः ।
सर्वान् राज्ञश्चन्द्रसेनं कृपादृष्ट्या ददर्श ह ॥ ४. १७. ७० ॥
अथ तस्मै श्रीकराय गोपपुत्राय धीमते ।
उपादिदेश सुप्रीत्या शिवाचारं शिवप्रियम् ॥ ७१ ॥
हनूमानथ सुप्रीतः सर्वेषां पश्यतां द्विजाः ।
चन्द्रसेनं श्रीकरं च तत्रैवान्तरधीयत ॥ ७२ ॥
तं सर्वे च महीपालाः संहृष्टाः प्रतिपूजिताः ।
चन्द्रसेनं समामन्त्र्य प्रतिजग्मुर्यथागतम् ॥ ७३ ॥
श्रीकरोऽपि महातेजा उपदिष्टो हनूमता ।
ब्राह्मणैः सह धर्मज्ञैश्चक्रे शम्भोः समर्हणम् ॥ ७४ ॥
चन्द्रसेनो महाराजः श्रीकरो गोपबालकः ।
उभावपि परप्रीत्या महाकालं च भेजतुः ॥ ७५ ॥
कालेन श्रीकरः सोऽपि चन्द्रसेनश्च भूपतिः ।
समाराध्य महाकालं भेजतुः परमं पदम् ॥ ७६ ॥
एवंविधो महाकालः शिवलिङ्गः सतां गतिः ।
सर्वथा दुष्टहन्ता च शङ्करो भक्तवत्सलः ॥ ७७ ॥
इदं पवित्रं परमं रहस्यं सर्वसौख्यदम् ।
आख्यानं कथितं स्वर्ग्यं शिवभक्तिविवर्धनम् ॥ ७८ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिङ्गमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥
४. १८ अष्टादशोऽध्यायः
ऋषय ऊचुः ॥
सूत सूत महाभाग श्राविता ह्यद्भुता कथा ।
महाकालाख्यलिङ्गस्य निजभक्तसुरक्षिणः ॥ १ ॥
ज्योतिर्लिङ्गं चतुर्थं च कृपया वद वित्तम ।
ओंङ्कारे परमेशस्य सर्वपातकहारिणः ॥ २ ॥
सूत उवाच ।
ओंङ्कारे परमेशाख्यं लिङ्गमासीद्यथा द्विजाः ।
तथा वक्ष्यामि वः प्रीत्या श्रूयतां परमर्षयः ॥ ३ ॥
कस्मिंश्चित्समये चात्र नारदो भगवान्मुनिः ।
गोकर्णाख्यं शिवं गत्वा सिषेवे परभक्तिमान् ॥ ४ ॥
ततः स आगतो विन्ध्यं नगेशं मुनिसत्तमः ।
तत्रैव पूजितस्तेन बहुमानपुरःसरम् ॥ ५ ॥
मयि सर्वं विद्यते च न न्यूनं हि कदाचन ।
इति भावं समास्थाय संस्थितो नारदाग्रतः ॥ ६ ॥
तन्मानं तत्तदा श्रुत्वा नारदो मानहा ततः ।
निःश्वस्य संस्थितस्तत्र श्रुत्वा विन्ध्योऽब्रवीदिदम् ॥ ७ ॥
विन्ध्य उवाच ।
किं न्यूनं च त्वया दृष्टं मयि निः श्वासकारणम् ।
तच्छ्रुत्वा नारदो वाक्यमब्रवीत्स महामुनिः ॥ ८ ॥
। नारद उवाच ॥
विद्यते त्वयि सर्वं हि मेरुरुच्चतरः पुनः ।
देवेष्वपि विभागोऽस्य न तवास्ति कदाचन ॥ ९ ॥
। सूत उवाच ॥
इत्युक्त्वा नारदस्तस्माज्जगाम च यथागतम् ।
विन्ध्यश्च परितप्तो वै धिग्वै मे जीवितादिकम् ॥ ४. १८. १० ॥
विश्वेश्वरं तथा शंभुमाराध्य च तपाम्यहम् ।
इति निश्चित्य मनसा शङ्करं शरणं गतः ॥ ११ ॥
जगाम तत्र सुप्रीत्या ह्योङ्कारो यत्र वै स्वयम् ।
चकार च पुनस्तत्र शिवमूर्तिं च पार्थिवीम् ॥ १२ ॥
आराध्य च तदा शम्भुं षण्मासं स निरन्तरम् ।
न चचाल तपःस्थानाच्छिवध्यानपरायणः ॥ १३ ॥
एवं विन्ध्यतपो दृष्ट्वा प्रसन्नः पार्वतीपतिः ।
स्वरूपं दर्शयामास दुर्लभं योगिनामपि ॥ १४ ॥
प्रसन्नः स तदोवाच ब्रूहि त्वं मनसेप्सितम् ।
तपसा ते प्रसन्नोऽस्मि भक्तानामीप्सितप्रदः ॥ १५ ॥
विन्ध्य उवाच ।
यदि प्रसन्नो देवेश बुद्धिं देहि यथेप्सिताम् ।
स्वकार्यसाधिनीं शम्भो त्वं सदा भक्तवत्सलः ॥ १६ ॥
सूत उवाच ।
तच्छ्रुत्वा भगवान् शम्भुश्चिचेत हृदये चिरम् ।
परोपतापदं विन्ध्यो वरमिच्छति मूढधीः ॥ १७ ॥
किं करोमि यदेतस्मै वरदानं भवेच्छुभम् ।
मद्दत्तं परदुःखाय वरदानं यथा न हि ॥ १८ ॥
। सूत उवाच ॥
तथापि दत्तवान् शंभुस्तस्मै तद्वरमुत्तमम् ।
विंध्य पर्वतराज त्वं यथेच्छसि तथा कुरु ॥ १९ ॥
एवं च समये देवा ऋषयश्चामलाशयाः ।
संपूज्य शङ्करं तत्र स्थातव्यमिति चाब्रुवन् ॥ ४. १८. २० ॥
तच्छ्रुत्वा देववचनं प्रसन्नः परमेश्वरः ।
तथैव कृतवान्प्रीत्या लोकानां सुखहेतवे ॥ २१ ॥
ओंकारं चैव यल्लिङ्गमेकं तच्च द्विधा गतम् ।
प्रणवे चैव ओंकारनामासीत्स सदाशिवः ॥ २२ ॥
पार्थिवे चैव यज्जातं तदासीत्परमेश्वरः ।
भक्ताभीष्टप्रदौ चोभौ भुक्तिमुक्तिप्रदौ द्विजाः ॥ २३ ॥
तत्पूजां च तदा चक्रुर्देवाश्च ऋषयस्तथा ।
प्रापुर्वराननेकांश्च सन्तोष्य वृषभध्वजम् ॥ २४ ॥
स्वस्वस्थानं ययुर्देवा विन्ध्योऽपि मुदितोऽधिकम् ।
कार्यं साधितवान्स्वीयं परितापं जहौ द्विजाः ॥ २५ ॥
य एवं पूजयेच्छम्भुं मातृगर्भं वसेन्न हि ।
यदभीष्टं फलं तच्च प्राप्नुयान्नात्र संशयः ॥ २६ ॥
सूत उवाच ।
एतत्ते सर्वमाख्यातमोङ्कारप्रभवे फलम् ।
अतः परं प्रवक्ष्यामि केदारं लिङ्गमुत्तमम् ॥ २७ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामोङ्कारेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥
४. १९ एकोनविंशोऽध्यायः
सूत उवाच ।
नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ।
तेपाते भारते खण्डे बदर्याश्रम एव हि ॥ १ ॥
ताभ्यां सम्प्रार्थितः शंभुः पार्थिवे पूजनाय वै ।
आयाति नित्यं तल्लिङ्गे भक्ताधीनतया शिवः ॥ २ ॥
एवं पूजयतोः शंभुं तयोर्विष्ण्ववतारयोः ।
चिरकालो व्यतीयाय शैवयोर्धर्मपुत्रयोः ॥ ३ ॥
एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ।
प्रत्युवाच प्रसन्नोऽस्मि वरो मे व्रियतामिति ॥ ४ ॥
इत्युक्ते च तदा तेन नरो नारायणः स्वयम् ।
ऊचतुर्वचनं तत्र लोकानां हितकाम्यया ॥ ५ ॥
नरनारायणावूचतुः ॥
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।
स्थीयतां स्वेन रूपेण पूजार्थं शङ्कर स्वयम् ॥ ६ ॥
सूत उवाच ।
इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ।
स्वयं च शङ्करस्तस्थौ ज्योतीरूपो महेश्वरः ॥ ७ ॥
ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ।
लोकानामुपकारार्थं भक्तानां दर्शनाय वै ॥ ८ ॥
स्वयं स्थितस्तदा शम्भुः केदारेश्वरसंज्ञकः ।
भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि ॥ ९ ॥
देवाश्च पूजयन्तीह ऋषयश्च पुरातनाः ।
मनोऽभीष्टफलं ते ते सुप्रसन्नान्महेश्वरात् ॥ ४. १९. १० ॥
भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः ।
प्राप्नुवन्ति यतः सो हि भक्ताभीष्टप्रदः सदा ॥ ११ ॥
तद्दिनं हि समारभ्य केदारेश्वर एव च ।
पूजितो येन भक्त्या वै दुःखं स्वप्नेऽपि दुर्लभम् ॥ १२ ॥
यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ।
मायामास्थाय तत्रैव पलायनपरोऽभवत् ॥ १३ ॥
धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ।
पुच्छं चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः ॥ १४ ॥
तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ।
नयपाले शिरोभागो गतस्तद्रूपतः स्थितः ॥ १५ ॥
तथैव पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ।
पूजितश्च स्वयं शम्भुस्तत्र तस्थौ वरानदात् ॥ १६ ॥
पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ।
लब्ध्वा चित्तेप्सितं सर्वं विमुक्ताः सर्वदुःखतः ॥ १७ ॥
तत्र नित्यं हरः साक्षात्क्षेत्रे केदारसंज्ञके ।
भारतीभिः प्रजाभिश्च तथैव परिपूज्यते ॥ १८ ॥
तत्रत्यं वलयं यो वै ददाति हरवल्लभः ।
हररूपान्तिकं तच्च हररूपसमन्वितम् ॥ १९ ॥
तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ।
जीवन्मुक्तो भवेत्सोऽपि यो गतो बदरीवने ॥ ४. १९. २० ॥
दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ।
केदारेश्वरशम्भोश्च मुक्तिभागी न संशयः ॥ २१ ॥
केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृताः ।
तेऽपि मुक्ता भवन्त्येव नात्र कार्या विचारणा ॥ २२ ॥
गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ।
तत्रत्यमुदकं पीत्वा पुनर्जन्म न विन्दति ॥ २३ ॥
खण्डेऽस्मिन् भारते विप्रा नरनारायणेश्वरः ।
केदारेशः प्रपूज्यश्च सर्वैर्जीवैः सुभक्तितः ॥ २४ ॥
अस्य खण्डस्य स स्वामी सर्वेशोऽपि विशेषतः ।
सर्वकामप्रदः शंभुः केदाराख्यो न संशयः ॥ २५ ॥
एतद्वचः समाख्यातं यत्पृष्टमृषिसत्तमाः ।
श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा ॥ २६ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
४. २० विंशोऽध्यायः
। सूत उवाच ॥
अतः परं प्रवक्ष्यामि माहात्म्यं भैमशङ्करम् ।
यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः ॥ १ ॥
कामरूपाभिधे देशे शङ्करो लोककाम्यया ।
अवतीर्णः स्वयं साक्षात्कल्याणसुखभाजनम् ॥ २ ॥
यदर्थमवतीर्णोऽसौ शङ्करो लोकशङ्करः ।
शृणुतादरतस्तच्च कथयामि मुनीश्वराः ॥ ३ ॥
भीमो नाम महोवीर्यो राक्षसोऽभूत्पुरा द्विजाः ।
दुःखदः सर्वभूतानां धर्मध्वंसकरः सदा ॥ ४ ॥
कुम्भकर्णात्समुत्पन्नः कर्कट्यां सुमहाबलः ।
सह्ये च पर्वते सोऽपि मात्रावासं चकार ह ॥ ५ ॥
कुम्भकर्णे च रामेण हते लोकभयङ्करे ।
राक्षसी पुत्रसंयुक्ता सह्येऽतिष्ठत्स्वयं तदा ॥ ६ ॥
स बाल एकदा भीमः कर्कटीं मातरं द्विजाः ।
पप्रच्छ च खलो लोकदुःखदो भीमविक्रमः ॥ ७ ॥
भीम उवाच ।
मातर्मे कः पिता कुत्र कथं वैकाकिनी स्थिता ।
ज्ञातुमिच्छामि तत्सर्वं यथार्थं त्वं वदाधुना ॥ ८ ॥
सूत उवाच ।
एवं पृष्टा तदा तेन पुत्रेण राक्षसी च सा ।
उवाच पुत्रं सा दुष्टा श्रूयतां कथयाम्यहम् ॥ ९ ॥
कर्कट्युवाच ।
पिता ते कुम्भकर्णश्च रावणानुज एव च ।
रामेण मारितः सोऽयं भ्रात्रा सह महाबलः ॥ ४. २०. १० ॥
अत्रागतः कदाचिद्वै कुम्भकर्णः स राक्षसः ।
मद्भोगं कृतवांस्तात प्रसह्य बलवान्पुरा ॥ ११ ॥
लङ्कां स गतवान् मां च त्यक्त्वात्रैव महाबलः ।
मया न दृष्टा सा लङ्का ह्यत्रैव निवसाम्यहम् ॥ १२ ॥
पिता मे कर्कटो नाम माता मे पुष्कसी मता ।
भर्ता मम विराधो हि रामेण निहतः पुरा ॥ १३ ॥
पित्रोः पार्श्वे स्थिता चाहं निहते स्वामिनि प्रिये ।
पितरौ मे मृतौ चात्र ऋषिणा भस्मसात्कृतौ ॥ १४ ॥
भक्षणार्थं गतौ तत्र क्रुद्धेन सुमहात्मना ।
सुतीक्ष्णेन सुतपसागस्त्यशिष्येण वै तदा ॥ १५ ॥
साहमेकाकिनी जाता दुःखिता पर्वते पुरा ।
निवसामि स्म दुःखार्ता निरालंबा निराश्रया ॥ १६ ॥
एतस्मिन्समये ह्यत्र राक्षसो रावणानुजः ।
आगत्य कृतवान् संगं मां विहाय गतो हि सः ॥ १७ ॥
ततस्त्वं च समुत्पन्नो महाबलपराक्रमः ।
अवलम्ब्य पुनस्त्वां च कालक्षेपं करोम्यहम् ॥ १७ ॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्या भीमो भीमपराक्रमः ।
क्रुद्धश्च चिन्तयामास किं करोमि हरिं प्रति ॥ १९ ॥
पितानेन हतो मे हि तथा मातामहा अपि ।
विराधश्च हतोऽनेन दुःखं बहुतरं कृतम् ॥ ४. २०. २० ॥
तत्पुत्रोऽहं भवेयं चेद्धरिं तं पीडयाम्यहम् ।
इति कृत्वा मतिं भीमस्तपस्तप्तुं महद्ययौ ॥ २१ ॥
ब्रह्माणं च समुद्दिश्य वर्षाणां च सहस्रकम् ।
मनसा ध्यानमाश्रित्य तपश्चक्रे महत्तदा ॥ २२ ॥
ऊर्ध्वबाहुश्चैकपादः सूर्ये दृष्टिं दधत्पुरा ।
संस्थितः स बभूवाथ भीमो राक्षसपुत्रकः ॥ २३ ॥
शिरसस्तस्य सञ्जातं तेजः परमदारुणम् ।
तेन दग्धास्तदा देवा ब्रह्माणं शरणं ययुः ॥ २४ ॥
प्रणम्य वेधसं भक्त्या तुष्टुवुर्विविधैः स्तवैः ।
दुःखं निवेदयाञ्चक्रुर्ब्रह्मणे ते सवासवाः ॥ २५ ॥
देवा ऊचुः ॥
ब्रह्मन्वै रक्षसस्तेजो लोकान्पीडितुमुद्यतम् ।
यत्प्रार्थ्यते च दुष्टेन तत्त्वं देहि वरं विधे ॥ २६ ॥
नो चेदद्य वयं दग्धास्तीव्रतत्तेजसा पुनः ।
यास्यामः संक्षयं सर्वे तस्मात्तं देहि प्रार्थितम् ॥ २७ ॥
सूत उवाच ।
इति तेषां वचः श्रुत्वा ब्रह्मा लोकपितामहः ।
जगाम च वरं दातुं वचनं चेदमब्रवीत् ॥ २८ ॥
ब्रह्मोवाच ॥
प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ।
इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः ॥ २९ ॥
भीम उवाच ।
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।
अतुलं च बलं मेऽद्य देहि त्वं कमलासन ॥ ४. २०. ३० ॥
सूत उवाच ।
इत्युक्त्वा तु नमश्चक्रे ब्रह्मणे स हि राक्षसः ।
ब्रह्मा चापि तदा तस्मै वरं दत्त्वा गृहं ययौ ॥ ३१ ॥
राक्षसो गृहमागत्य ब्रह्माप्तातिबलस्तदा ।
मातरं प्रणिपत्याशु स भीमः प्राह गर्ववान् ॥ ३२ ॥
भीम उवाच ।
पश्य मातर्बलं मेऽद्य करोमि प्रलयं महत् ।
देवानां शक्रमुख्यानां हरेर्वै तत्सहायिनः ॥ ३३ ॥
। सूत उवाच ॥
इत्युक्त्वा प्रथमं भीमो जिग्ये देवान्सवासवान् ।
स्थानान्निःसारयामास स्वात्स्वात्तान्भीमविक्रमः ॥ ३४ ॥
ततो जिग्ये हरिं युद्धे प्रार्थितं निर्जरैरपि ।
ततो जेतुं रसां दैत्यः प्रारम्भं कृतवान्मुदा ॥ ३५ ॥
पुरा सुदक्षिणं तत्र कामरूपेश्वरं प्रभुम् ।
जेतुं गतस्ततस्तेन युद्धमासीद्भयङ्करम् ॥ ३६ ॥
भीमोऽथ तं महाराजं प्रभावाद् ब्रह्मणोऽसुरः ।
जिग्ये वरप्रभावेण महावीरं शिवाश्रयम् ॥ ३७ ॥
स हि जित्वा ततस्तं च कामरूपेश्वरं प्रभुम् ।
बबन्ध ताडयामास भीमो भीमपराक्रमः ॥ ३८ ॥
गृहीतं तस्य सर्वस्वं राज्यं सोपस्करं द्विजाः ।
तेन भीमेन दुष्टेन शिवदासस्य भूपतेः ॥ ३९ ॥
राजा चापि सुधर्मिष्ठः प्रियधर्मो हरप्रियः ।
गृहीतो निगडैस्तेन ह्येकान्ते स्थापितश्च सः ॥ ४. २०. ४० ॥
तत्र तेन तदा कृत्वा पार्थिवीं मूर्तिमुत्तमाम् ।
भजनं च शिवस्यैव प्रारब्धं प्रियकाम्यया ॥ ४१ ॥
गङ्गायाः स्तवनं तेन बहुधा च तदा कृतम् ।
मानसं स्नानकर्मादि कृत्वा शङ्करपूजनम् ॥ ४२ ॥
पार्थिवेन विधानेन चकार नृपसत्तमः ।
तद्ध्यानं च यथा स्याद्वै कृत्वा च विधिपूर्वकम् ॥ ४३ ॥
प्रणिपातैस्तथा स्तोत्रैर्मुद्रासनपुरःसरम् ।
कृत्वा हि सकलं तच्च स भेजे शङ्करं मुदा ॥ ४४ ॥
पञ्चाक्षरमयीं विद्यां जजाप प्रणवान्विताम् ।
नान्यत्कार्यं स वै कर्तुं लब्धवानन्तरं तदा ॥ ४५ ॥
तत्पत्नी च तदा साध्वी दक्षिणानाम विश्रुता ।
विधानं पार्थिवं प्रीत्या चकार नृपवल्लभा ॥ ४६ ॥
दंपती त्वेकभावेन शङ्करं भक्तशङ्करम् ।
भेजाते तत्र तौ नित्यं शिवाराधनतत्परौ ॥ ४७ ॥
राक्षसो यज्ञकर्मादि वरदर्पविमोहितः ।
लोपयामास तत्सर्वं मह्यं वै दीयतामिति ॥ ४८ ॥
बहुसैन्यसमायुक्तो राक्षसानां दुरात्मनाम् ।
चकार वसुधां सर्वां स्ववशे चर्षिसत्तमाः ॥ ४९ ॥
वेदधर्मं शास्त्रधर्मं स्मृतिधर्मं पुराणजम् ।
लोपयित्वा च तत्सर्वं बुभुजे स्वयमूर्जितः ॥ ४. २०. ५० ॥
देवाश्च पीडितास्तेन सशक्रा ऋषयस्तथा ।
अत्यन्तं दुःखमापन्ना लोकान्निःसारिता द्विजाः ॥ ५१ ॥
ते ततो विकलाः सर्वे सवासवसुरर्षयः ।
ब्रह्मविष्णू पुरोधाय शङ्करं शरणं ययुः ॥ ५२ ॥
स्तुत्वा स्तोत्रैरनेकैश्च शङ्करं लोक शङ्करम् ।
प्रसन्नं कृतवन्तस्ते महाकोश्यास्तटे शुभे ॥ ५३ ॥
कृत्वा च पार्थिवीं मूर्तिं पूजयित्वा विधानतः ।
तुष्टुवुर्विविधैः स्तोत्रैर्नमस्कारादिभिः क्रमात् ॥ ५४ ॥
एवं स्तुतस्तदा शम्भुर्देवानां स्तवनादिभिः ।
सुप्रसन्नतरो भूत्वा तान्सुरानिदमब्रवीत् ॥ ५५ ॥
शिव उवाच ।
हे हरे हे विधे देवा ऋषयश्चाखिला अहम् ।
प्रसन्नोऽस्मि वरं ब्रूत किं कार्यं करवाणि वः ॥ ५६ ॥
सूत उवाच ।
इत्युक्ते च तदा तेन शिवेन वचने द्विजाः ।
सुप्रणम्य करौ बध्वा देवा ऊचुः शिवं तदा ॥ ५७ ॥
देवा ऊचुः ॥
सर्वं जानासि देवेश सर्वेषां मनसि स्थितम् ।
अन्तर्यामी च सर्वस्य नाज्ञातं विद्यते तव ॥ ५८ ॥
तथापि श्रूयतां नाथ स्वदुःखं ब्रूमहे वयम् ।
त्वदाज्ञया महादेव कृपादृष्ट्या विलोकय ॥ ५९ ॥
राक्षसः कर्कटीपुत्रः कुम्भकर्णोद्भवो बली ।
पीडयत्यनिशं देवान्ब्रह्मदत्तवरोर्जितः ॥ ४. २०. ६० ॥
तमिमं जहि भीमाह्वं राक्षसं दुःखदायकम् ।
कृपां कुरु महेशान विलम्बं न कुरु प्रभो ॥ ६१ ॥
सूत उवाच ।
इत्युक्तस्तु सुरैः सर्वैः शंभुर्वै भक्तवत्सलः ।
वधं तस्य करिष्यामीत्युक्त्वा देवांस्ततोऽब्रवीत् ॥ ६२ ॥
शम्भुरुवाच ।
कामरूपेश्वरो राजा मदीयो भक्त उत्तमः ।
तस्मै ब्रूतेति वै देवाः कार्यं शीघ्रं भविष्यति ॥ ६३ ॥
सुदक्षिण महाराज कामरूपेश्वर प्रभो ।
मद्भक्तस्त्वं विशेषेण कुरु मद्भजनं रतेः ॥ ६४ ॥
दैत्यं भीमाह्वयं दुष्टं ब्रह्मप्राप्तवरोर्जितम् ।
हनिष्यामि न सन्देहस्त्वत्तिरस्कारकारिणम् ॥ ६५ ॥
। सूत उवाच ॥
अथ ते निर्जराः सर्वे तत्र गत्वा मुदान्विताः ।
तस्मै महानृपायोचुर्यदुक्तं शंभुना च तत् ॥ ६६ ॥
तमित्युक्त्वा च वै देवा आनंदं परमं गताः ।
महर्षयश्च ते सर्वे ययुः शीघ्रं निजाश्रमान् ॥ ६७ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिंगमाहात्म्ये भीमासुरकृतोपद्रववर्णनं नाम विंशोऽध्यायः ॥ २० ॥
४. २१ एकविंशोऽध्यायः
। सूत उवाच ॥
शिवोऽपि च गणैः सार्धं जगाम हितकाम्यया ।
स्वभक्तनिकटं गुप्तस्तस्थौ रक्षार्थमादरात् ॥ १ ॥
एतस्मिन्नन्तरे तत्र कामरूपेश्वरेण च ।
अत्यन्तं ध्यानमारब्धं पार्थिवस्य पुरस्तदा ॥ २ ॥
केनचित्तत्र गत्वा च राक्षसाय निवेदितम् ।
राजा किञ्चित्करोत्येवं त्वदर्थं ह्याभिचारिकम् ॥ ३ ॥
सूत उवाच ।
राक्षसः स च तच्छ्रुत्वा क्रुद्धस्तद् हननेच्छया ।
गृहीत्वा करवालं च जगाम नृपतिं प्रति ॥ ४ ॥
तद् दृष्ट्वा राक्षसस्तत्र पार्थिवादि स्थितं च यत् ।
तदर्थं तत्स्वरूपं च दृष्ट्वा किञ्चित्करोत्यसौ ॥ ५ ॥
अत एनं बलादद्य हन्मि सोपस्करं नृपम् ।
विचार्येति महाक्रुद्धो राक्षसः प्राह तं नृपम् ॥ ६ ॥
भीम उवाच ।
रे रे पार्थिव दुष्टात्मन् क्रियते किं त्वयाधुना ।
सत्यं वद न हन्यां त्वामन्यथा हन्मि निश्चितम् ॥ ७ ॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः ।
मनसीति चिचिन्ताशु शिवविश्वासपूरितः ॥ ८ ॥
भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः ।
प्रारब्धाधीनमेवात्र प्रारब्धः स शिवः स्मृतः ॥ ९ ॥
कृपालुः शङ्करश्चात्र पार्थिवे वर्तते ध्रुवम् ।
मदर्थं न करोतीह कुतः कोऽयं च राक्षसः ॥ ४. २१. १० ॥
स्वानुरूपां प्रतिज्ञां स सत्यं चैव करिष्यति ।
सत्यप्रतिज्ञो भगवान् शिवश्चेति श्रुतौ श्रुतः ॥ ११ ॥
मम भक्तं यदा कश्चित्पीडयत्यतिदारुणः ।
तदाहं तस्य रक्षार्थं दुष्टं हन्मि न संशयः ॥ १२ ॥
एवं धैर्यं समालम्ब्य ध्यात्वा देवं च शङ्करम् ।
प्रार्थयामास सद्भक्त्या मनसैव रसेश्वरः ॥ १३ ॥
त्वदीयोऽस्मि महाराज यथेच्छसि तथा कुरु ।
सत्यं च वचनं ह्यत्र ब्रवीमि कुरु मे हितम् ॥ १४ ॥
एवं मनसि स ध्यात्वा सत्यपाशेन यन्त्रितः ।
प्राह सत्यं वचो राजा राक्षसं चावमानयन् ॥ १५ ॥
नृप उवाच ।
भजामि शङ्करं देवं स्वभक्तपरिपालकम् ।
चराचराणां सर्वेषामीश्वरं निर्विकारकम् ॥ १६ ॥
सूत उवाच ।
इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः ।
क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत् ॥ १७ ॥
। भीम उवाच ॥
शङ्करस्ते मया ज्ञातः किं करिष्यति वै मम ।
यो मे पितृव्यकेनैव स्थापितः किङ्करो यथा ॥ १८ ॥
तद्बलं हि समाश्रित्य विजेतुं त्वं समीहसे ।
तर्हि त्वया जितं सर्वं नात्र कार्या विचारणा ॥ १९ ॥
यावन्मया न दृष्टो हि शङ्करस्त्वत्प्रपालकः ।
तावत्त्वं स्वामिनं मत्वा सेवसे नान्यथा क्वचित् ॥ ४. २१. २० ॥
मया दृष्टे च तत्सर्वं स्फुटं स्यात्सर्वथा नृप ।
तस्मात्त्वं वै शिवस्येदं रूपं दूरतरं कुरु ॥ २१ ॥
अन्यथा हि भयं तेऽद्य भविष्यति न संशयः ।
स्वामिनस्ते करं तीक्ष्णं दास्येऽहं भीमविक्रमः ॥ २२ ॥
सूत उवाच ।
इति तद्वचनं श्रुत्वा कामरूपेश्वरो नृपः ।
दृढं शङ्करविश्वासो द्रुतं वाक्यमुवाच तम् ॥ २३ ॥
राजोवाच ॥
अहं च पामरो दुष्टो न मोक्ष्ये शङ्करं पुनः ।
सर्वोत्कृष्टश्च मे स्वामी न मां मुञ्चति कर्हिचित् ॥ २४ ॥
सूत उवाच ।
एवं वचस्तदा श्रुत्वा तस्य राज्ञः शिवात्मनः ।
तं प्रहस्य द्रुतं भीमो भूपतिं राक्षसोऽब्रवीत् ॥ २५ ॥
भीम उवाच ।
मत्तो भिक्षयते नित्यं स किं जानाति स्वाकृतिम् ।
योगिनां का च निष्ठा वै भक्तानां प्रतिपालने ॥ २६ ॥
इति कृत्वा मतिं त्वं च दूरतो भव सर्वथा ।
अहं च तव स स्वामी युद्धं वै करवावहे ॥ २७ ॥
सूत उवाच ।
इत्युक्तः स नृपश्रेष्ठः शंभुभक्तो दृढव्रतः ।
प्रत्युवाचाभयो भीमं दुःखदं जगतां सदा ॥ २८ ॥
राजोवाच ॥
शृणु राक्षस दुष्टात्मन्मया कर्तुं न शक्यते ।
त्वया विक्रियते तर्हि कुतस्त्वं शक्तिमानसि ॥ २९ ॥
सूत उवाच ।
इत्युक्तः सैन्यमादाय राजानं परिभर्त्स्य तम् ।
करालं करवालं च पार्थिवे प्राक्षिपत्तदा ॥ ४. २१. ३० ॥
पश्य त्वं स्वामिनोऽद्यैव बलं भक्तसुखावहम् ।
इत्युवाच विहस्यैव राक्षसैः स महाबलः ॥ ३१ ॥
करवालः पार्थिवं च यावत्स्पृशति नो द्विजाः ।
तावच्च पार्थिवात्तस्मादाविरासीत्स्वयं हरः ॥ ३२ ॥
पश्य भीमेश्वरोहं च रक्षार्थं प्रकटोऽभवम् ।
मम पूर्वव्रतं ह्येतद्रक्ष्यो भक्तो मया सदा ॥ ३३ ॥
एतस्मात्पश्य मे शीघ्रं बलं भक्तसुखावहम् ।
इत्युक्त्वा स पिनाकेन करवालो द्विधा कृतः ॥ ३४ ॥
पुनश्चैव त्रिशूलं स्वं चिक्षिपे तेन रक्षसा ।
तच्छूलं शतधा नीतमपि दुष्टस्य शम्भुना ॥ ३५ ॥
पुनः शक्तिश्च निःक्षिप्ता तेन शंभूपरि द्विजाः ।
शम्भुना सापि बाणैः स्वैर्लक्षधा च कृता द्रुतम् ॥ ३६ ॥
पट्टिशश्च ततस्तेन निःक्षिप्तो हि शिवोपरि ।
शिवेन स त्रिशूलेन तिलशश्च कृतं क्षणात् ॥ ३७ ॥
ततः शिवगणानां च राक्षसानां परस्परम् ।
युद्धमासीत्तदा घोरं पश्यतां दुःखकावहम् ॥ ३८ ॥
ततश्च पृथिवी सर्वा व्याकुला चाभवत्क्षणात् ।
समुद्राश्च तदा सर्वे चुक्षुभुः समहीधराः ॥ ३९ ॥
देवाश्च ऋषयः सर्वे बभूवुर्विकला अति ।
ऊचुः परस्परं चेति व्यर्थं वै प्रार्थितः शिवः ॥ ४. २१. ४० ॥
नारदश्च समागत्य शङ्करं दुःखदाहकम् ।
प्रार्थयामास तत्रैव साञ्जलिर्नतमस्तकः ॥ ४१ ॥
नारद उवाच ।
क्षम्यतां क्षम्यतां नाथ त्वया विभ्रमकारक ।
तृणे कश्च कुठारो वै हन्यतां शीघ्रमेव हि ॥ ४२ ॥
इति सम्प्रार्थितः शंभुः सर्वान् रक्षोगणान्प्रभुः ।
हुङ्कारेणैव चास्त्रेण भस्मसात्कृतवांस्तदा ॥ ४३ ॥
सर्वे ते राक्षसा दग्धाः शङ्करेण क्षणं मुने ।
बभूवुस्तत्र सर्वेषां देवानां पश्यतां द्रुतम् ॥ ४४ ॥
दावानलगतो वह्निर्यथा च वनमादहेत् ।
तथा शिवेन क्रुद्धेन राक्षसानां बलं क्षणात् ॥ ४५ ॥
भीमस्यैव च किं भस्म न ज्ञातं केनचित्तदा ।
परिवारयुतो दग्धो नाम न श्रूयते क्वचित् ॥ ४६ ॥
ततः शिवस्य कृपया शान्तिं प्राप्ता मुनीश्वराः ।
देवाः सर्वे च शक्राद्याः स्वास्थ्यं प्रापाखिलं जगत् ॥ ४७ ॥
क्रोधज्वाला महेशस्य निःससार वनाद्वनम् ।
राक्षसानां च तद्भस्म सर्वं व्याप्तं वनेऽखिलम् ॥ ४८ ॥
ततश्चौषधयो जाता नानाकार्यकरास्तथा ।
रूपान्तरं ततो नॄणां भवेद्वेषान्तरं तथा ॥ ४९ ॥
भूतप्रेतपिशाचादि दूरतश्च ततो व्रजेत् ।
तन्न कार्यं च यच्चैव ततो न भवति द्विजाः ॥ ४. २१. ५० ॥
तैर्देवैः प्रार्थितः शम्भुर्मुनिभिश्च विशेषतः ।
स्थातव्यं स्वामिना ह्यत्र लोकानां सुखहेतवे ॥ ५१ ॥
अयं वै कुत्सितो देश अयोध्यालोकदुःखदः ।
भवन्तं च तदा दृष्ट्वा कल्याणं सम्भविष्यति ॥ ५२ ॥
भीमशङ्करनामा त्वं भविता सर्वसाधकः ।
एतल्लिङ्गं सदा पूज्यं सर्वापद्विनिवारकम् ॥ ५३ ॥
सूत उवाच ।
इत्येवं प्रार्थितः शम्भुर्लोकानां हितकारकः ।
तत्रैवास्थितवान्प्रीत्या स्वतन्त्रो भक्तवत्सलः ॥ ५४ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिङ्गोत्पत्तिस्तन्माहात्म्यवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥
४. २२ द्वाविंशोऽध्यायः
सूत उवाच ।
अतः परं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ।
विश्वेश्वरस्य माहात्म्यं महापातकनाशनम् ॥ १ ॥
यदिदं दृश्यते किञ्चिज्जगत्यां वस्तुमात्रकम् ।
चिदानन्दस्वरूपं च निर्विकारं सनातनम् ॥ २ ॥
तस्यैव कैवल्यरतेर्द्वितीयेच्छा ततोऽभवत् ।
स एव सगुणो जातः शिव इत्यभिधीयते ॥ ३ ॥
स एव हि द्विधा जातः पुंस्त्रीरूपप्रभेदतः ।
यः पुमान्स शिवः ख्यातः स्त्री शक्तिः सा हि कथ्यते ॥ ४ ॥
चिदानन्दस्वरूपाभ्यां पुरुषावपि निर्मितौ ॥ ५ ॥
अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ।
तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः ॥ ६ ॥
महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ।
तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ।
तपश्चैव प्रकर्तव्यं ततः सृष्टिरनुत्तमा ॥ ७ ॥
प्रकृतिपुरुषावूचतुः ॥
तपसस्तु स्थलं नास्ति कुत्रावाभ्यां प्रभोऽधुना ।
स्थित्वा तपः प्रकर्तव्यं तव शासनतः शिव ॥ ८ ॥
ततश्च तेजसः सारं पञ्चक्रोशात्मकं शुभम् ।
सर्वोपकरणैर्युक्तं सुन्दरं नगरं तथा ॥ ९ ॥
निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च ।
अन्तरिक्षे स्थितं तच्च पुरुषस्य समीपतः ॥ ४. २२. १० ॥
तदधिष्ठाय हरिणा सृष्टिकामनया ततः ।
बहुकालं तपस्तप्तं तद्ध्यानमवलम्ब्य च ॥ ११ ॥
श्रमेण जलधाराश्च विविधाश्चाभवंस्तदा ।
ताभिर्व्याप्तं च तच्छून्यं नान्यत्किंचिददृश्यत ॥ १२ ॥
ततश्च विष्णुना दृष्टं किमेतद् दृश्यतेऽद्भुतम् ।
इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम् ॥ १३ ॥
ततश्च पतितः कर्णान्मणिश्च पुरतः प्रभोः.
तद् बभूव महत्तीर्थं नामतो मणिकर्णिका ॥ १४ ॥
जलौघे प्लाव्यमाना सा पञ्चक्रोशी यदाभवत् ।
निर्गुणेन शिवेनाशु त्रिशूलेन धृता तदा ॥ १५ ॥
विष्णुस्तत्रैव सुष्वाप प्रकृत्या स्वस्त्रिया सह ।
तन्नाभिकमलाज्जातो ब्रह्मा शङ्करशासनात् ॥ १६ ॥
शिवाज्ञां स समासाद्य सृष्टिं चक्रेऽद्भुतां तदा ।
चतुर्द्दशमिता लोका ब्रह्माण्डे यत्र निर्मिताः ॥ १७ ॥
योजनानां च पञ्चाशत्कोटिसङ्ख्याप्रमाणतः ।
ब्रह्माण्डस्यैव विस्तारो मुनिभिः परिकीर्तितः ॥ १८ ॥
ब्रह्माण्डे कर्मणा बद्धाः प्राणिनो मां कथं पुनः ।
प्राप्स्यन्तीति विचिन्त्यैतत्पञ्चक्रोशी विमोचिता ॥ १९ ॥
इयं च शुभदा लोके कर्मनाशकरी मता ।
मोक्षप्रकाशिका काशी ज्ञानदा मम सुप्रिया ॥ ४. २२. २० ॥
अविमुक्तं स्वयं लिङ्गं स्थापितं परमात्मना ।
न कदापि त्वया त्याज्यमिदं क्षेत्रं ममांशक ॥ २१ ॥
इत्युक्त्वा च त्रिशूलात्स्वादवतार्य हरः स्वयम् ।
मोचयामास भुवने मर्त्यलोके हि काशिकाम् ॥ २२ ॥
ब्रह्मणश्च दिने सा हि न विनश्यति निश्चितम् ।
तदा शिवस्त्रिशूलेन दधाति मुनयश्च ताम् ॥ २३ ॥
पुनश्च ब्रह्मणा सृष्टौ कृतायां स्थाप्यते द्विजाः ।
कर्मणा कर्षणाच्चैव काशीति परिपठ्यते ॥ २४ ॥
अविमुक्तेश्वरं लिङ्गं काश्यां तिष्ठति सर्वदा ।
मुक्तिदातृ च लोकानां महापातकिनामपि ॥ २५ ॥
अन्यत्र प्राप्यते मुक्तिः सारूप्यादिर्मुनीश्वराः ।
अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा ॥ २६ ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी पुरी ।
पञ्चक्रोशी महापुण्या हत्याकोटिविनाशनी ॥ २७ ॥
अमरा मरणं सर्वे वांछन्तीह परे च के ।
भुक्तिमुक्तिप्रदा चैषा सर्वदा शङ्करप्रिया ॥ २८ ॥
ब्रह्मा च श्लाघते चामूं विष्णुः सिद्धाश्च योगिनः ।
मुनयश्च तथैवान्ये त्रिलोकस्था जनाः सदा ॥ २९ ॥
काश्याश्च महिमानं वै वक्तुं वर्षशतैरपि ।
शक्नोम्यहं न सर्वं हि यथाशक्ति ब्रुवे ततः ॥ ४. २२. ३० ॥
कैलासस्य पतिर्यो वै ह्यन्तः सत्त्वो बहिस्तमाः ।
कालाग्निर्नामतः ख्यातो निर्गुणो गुणवान्भवः ।
प्रणिपातैरनेकैश्च वचनं चेदमब्रवीत् ॥ ३१ ॥
। रुद्र उवाच ॥
विश्वेश्वर महेशान त्वदीयोऽस्मि न संशयः ।
कृपां कुरु महादेव मयि त्वं साम्ब आत्मजे ॥ ३२ ॥
स्थातव्यं च सदात्रैव लोकानां हितकाम्यया ।
तारयस्व जगन्नाथ प्रार्थयामि जगत्पते ॥ ३३ ॥
सूत उवाच ।
अविमुक्तोऽपि दान्तात्मा तं सम्प्रार्थ्य पुनः पुनः ।
नेत्राश्रूणि प्रमुच्यैव प्रीतः प्रोवाच शङ्करम् ॥ ३४ ॥
अविमुक्त उवाच ।
देवदेव महादेव कालामयसुभेषज ।
त्वं त्रिलोकपतिः सत्यं सेव्यो ब्रह्माच्युतादिभिः ॥ ३५ ॥
काश्यां पुर्यां त्वया देव राजधानी प्रगृह्यताम् ।
मया ध्यानितया स्थेयमचिन्त्यसुखहेतवे ॥ ३६ ॥
मुक्तिदाता भवानेह कामदश्च न चापरः ।
तस्मात्त्वमुपकाराय तिष्ठोमासहितः सदा ॥ ३७ ॥
जीवान्भवाब्धेरखिलांस्तारय त्वं सदाशिव ।
भक्तकार्यं कुरु हर प्रार्थयामि पुनःपुनः ॥ ३८ ॥
सूत उवाच ।
इत्येवं प्रार्थितस्तेन विश्वनाथेन शङ्करः ।
लोकानामुपकारार्थं तस्थौ तत्रापि सर्वराट् ॥ ३९ ॥
यद्दिनं हि समारभ्य हरः काश्यामुपागतः ।
तदारभ्य च सा काशी सर्वश्रेष्ठतराभवत् ॥ ४. २२. ४० ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विश्वेश्वरमाहात्म्ये काश्यां रुद्रागमनवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
४. २३ त्रयोविंशोध्यायः
ऋषय ऊचुः ॥
एवं वाराणसी पुण्या यदि सूत महापुरी ।
तत्प्रभावं वदास्माकमविमुक्तस्य च प्रभो ॥ १ ॥
सूत उवाच ।
वक्ष्ये सङ्क्षेपतः सम्यग्वाराणस्याः सुशोभनम् ।
विश्वेश्वरस्य माहात्म्यं श्रूयतां च मुनीश्वराः ॥ २ ॥
कदाचित्पार्वती देवी शङ्करं परया मुदा ।
लोककामनयापृच्छन्माहात्म्यमविमुक्तयोः ॥ ३ ॥
पार्वत्युवाच ।
अस्य क्षेत्रस्य माहात्म्यं वक्तुमर्हस्यशेषतः ।
ममोपरि कृपां कृत्वा लोकानां हितकाम्यया ॥ ४ ॥
सूत उवाच ।
देव्यास्तद्वचनं श्रुत्वा देवदेवो जगत्प्रभुः ।
प्रत्युवाच भवानीं तां जीवानां प्रियहेतवे ॥ ५ ॥
परमेश्वर उवाच ।
साधु पृष्टं त्वया भद्रे लोकानां सुखदं शुभम् ।
कथयामि यथार्थं वै माहात्म्यमविमुक्तयोः ॥ ६ ॥
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।
सर्वेषामेव जंतूना हेतुर्मोक्षस्य सर्वथा ॥ ७ ॥
अस्मिन्सिद्धाः सदा क्षेत्रे मदीयं व्रतमाश्रिताः ।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ॥ ८ ॥
अभ्यस्यन्ति महायोगं जितात्मानो जितेन्द्रियाः ।
परं पाशुपतं श्रौतं भुक्तिमुक्तिफलप्रदम् ॥ ९ ॥
रोचते मे सदा वासो वाराणस्यां महेश्वरि ।
हेतुना येन सर्वाणि विहाय शृणु तद् ध्रुवम् ॥ ४. २३. १० ॥
यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ।
तीर्थापेक्षा च न तयोर्विहिताविहिते समौ ॥ ११ ॥
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्र कुत्रापि वै मृतौ ।
प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः ॥ १२ ॥
अत्र तीर्थे विशेषोऽस्त्यविमुक्ताख्ये परोत्तमे ।
श्रूयतां तत्त्वया देवि परशक्ते सुचित्तया ॥ १३ ॥
सर्वे वर्णा आश्रमाश्च बालयौवनवार्धकाः ।
अस्यां पुर्यां म्रुताश्चेत्स्युर्मुक्ता एव न संशयः ॥ १४ ॥
अशुचिश्च शुचिर्वापि कन्या परिणता तथा ।
विधवा वाथ वा वन्ध्या रजोदोषयुतापि वा ॥ १५ ॥
प्रसूतासंस्कृता कापि यादृशी तादृशी द्विजाः ।
अत्र क्षेत्रे मृता चेत्स्यान्मोक्षभाङ्नात्र संशयः ॥ १६ ॥
स्वेदजश्चांडजो वापि ह्युद्भिज्जोऽथ जरायुजः ।
मृतो मोक्षमवाप्नोति यथात्र न तथा क्वचित् ॥ १७ ॥
ज्ञानापेक्षा न चात्रैव भक्त्यपेक्षा न वै पुनः ।
कर्मापेक्षा न देव्यत्र दानापेक्षा न चैव हि ॥ १८ ॥
संस्कृत्यपेक्षा नैवात्र ध्यानापेक्षा न कर्हिचित् ।
नामापेक्षार्चनापेक्षा सुजातीनां तथात्र न ॥ १९ ॥
मम क्षेत्रे मोक्षदे हि यो वा वसति मानवः ।
यथा तथा मृतः स्याच्चेन्मोक्षमाप्नोति निश्चितम् ॥ ४. २३. २० ॥
एतन्मम पुरं दिव्यं गुह्याद् गुह्यतरं प्रिये ।
ब्रह्मादयोऽपि जानन्ति माहात्म्यं नास्य पार्वति ॥ २१ ॥
महत्क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ।
सर्वेभ्यो नैमिषादिभ्यः परं मोक्षप्रदं मृते ॥ २२ ॥
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषत्समम् ।
क्षेत्रतीर्थोपनिषदमविमुक्तं विदुर्बुधाः ॥ २३ ॥
कामं भुञ्जन्स्वपन्क्रीडन्कुर्वन्हि विविधाः क्रियाः ।
अविमुक्ते त्यजन्प्राणाञ्जन्तुर्मोक्षाय कल्पते ॥ २४ ॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ।
न च क्रतुसहस्रत्वं स्वर्गे काशीं पुरीं विना ॥ २५ ॥
तस्मात्सर्वप्रयत्नेन सेव्यते काशिका पुरी ।
अव्यक्तलिङ्गं मुनिभिर्ध्यायते च सदाशिवः ॥ २६ ॥
यद्यत्फलं समुद्दिश्य तपन्त्यत्र नराः प्रिये ।
तेभ्यश्चाहं प्रयच्छामि सम्यक्तत्तत्फलं ध्रुवम् ॥ २७ ॥
सायुज्यमात्मनः पश्चादीप्सितं स्थानमेव च ।
न कुतश्चित्कर्मबन्धस्त्यजतामत्र वै तनुम् ॥ २८ ॥
ब्रह्मा देवर्षिभिः सार्धं विष्णुर्वापि दिवाकरः ।
उपासते महात्मानः सर्वे मामिह चापरे ॥ २९ ॥
विषयासक्तचित्तोऽपि त्यक्तधर्मरुचिर्नरः ।
इह क्षेत्रे मृतो यो वै संसारं न पुनर्विशेत् ॥ ४. २३. ३० ॥
किं पुनर्निर्ममा धीराः सत्त्वस्था दम्भवर्जिताः ।
कृतिनश्च निरारम्भाः सर्वे ते मयि भाविताः ॥ ३१ ॥
जन्मान्तरसहस्रेषु जन्म योगी समाप्नुयात् ।
तदिहैव परं मोक्षं मरणादधिगच्छति ॥ ३२ ॥
अत्र लिङ्गान्यनेकानि भक्तैः संस्थापितानि हि ।
सर्वकामप्रदानीह मोक्षदानि च पार्वति ॥ ३३ ॥
पञ्चक्रोशं चतुर्द्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ।
समन्ताच्च तथा जन्तोर्मृतिकालेऽमृतप्रदम् ॥ ३४ ॥
अपापश्च मृतो यो वै सद्यो मोक्षं समश्नुते ।
सपापश्च मृतौ यः स्यात्कायव्यूहान्समश्नुते ॥ ३५ ॥
यातनां सोऽनुभूयैव पश्चान्मोक्षमवाप्नुयात् ।
पातकं योऽविमुक्ताख्ये क्षेत्रेऽस्मिन्कुरुते ध्रुवम् ॥ ३६ ॥
भैरवीं यातनां प्राप्य वर्षाणामयुते पुनः ।
ततो मोक्षमवाप्नोति भुक्त्वा पापं च सुन्दरि ॥ ३७ ॥
इति ते च समाख्याता पापाचारे च या गतिः ।
एवं ज्ञात्वा नरः सम्यक्सेवयेदविमुक्तकम् ॥ ३८ ॥
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ३९ ॥
केवलं चाशुभं कर्म नरकाय भवेदिह ।
शुभं स्वर्गाय जायेत द्वाभ्यां मानुष्यमीरितम् ॥ ४. २३. ४० ॥
जन्म सम्यगसम्यक् च न्यूनाधिक्ये भवेदिह ।
उभयोश्च क्षयो मुक्तिर्भवेत्सत्यं हि पार्वति ॥ ४१ ॥
कर्म च त्रिविधं प्रोक्तं कर्मकाण्डे महेश्वरि ।
सञ्चितं क्रियमाणं च प्रारब्धं चेति बन्धकृत् ॥ ४२ ॥
पूर्वजन्मसमुद्भूतं सञ्चितं समुदाहृतम् ।
भुज्यते च शरीरेण प्रारब्धं परिकीर्तितम् ॥ ४३ ॥
अनेन जन्मना यच्च क्रियते कर्म सांप्रतम् ।
शुभाशुभं च देवेशि क्रियमाणं विदुर्बुधाः ॥ ४४ ॥
प्रारब्धकर्मणो भोगात्क्षयश्चैव न चान्यथा ।
उपायेन द्वयोर्नाशः कर्मणोः पूजनादिना ॥ ४५ ॥
सर्वेषां कर्मणां नाशो नास्ति काशीं पुरीं विना ।
सर्वं च सुलभं तीर्थं दुर्लभा काशिका पुरी ॥ ४६ ॥
पूर्वजन्मकृतं चेद्वै काशीदर्शनमादरात् ।
तदा काशीं च सम्प्राप्य लभेन्मृत्युं न चान्यथा ॥ ४७ ॥
काशीं प्राप्य नरो यस्तु गङ्गायां स्नानमाचरेत् ।
तदा च क्रियमाणस्य संचितस्यापि संक्षयः ॥ ४८ ॥
प्रारब्धं न विना भोगं नश्यतीति सुनिश्चितम् ।
मृतिश्च तस्य संजाता तदा तस्य क्षयो भवेत् ॥ ४९ ॥
पूर्वं चैव कृता काशी पश्चात्पापं समाचरेत् ।
तद्बीजेन बलवता नीयते काशिका पुनः ॥ ४. २३. ५० ॥
तदा सर्वाणि पापानि भस्मसाच्च भवन्ति हि ।
तस्मात्काशीं नरः सेवेत्कर्मनिर्मूलनीं ध्रुवम् ॥ ५१ ॥
एकोऽपि ब्राह्मणो येन काश्यां संवासितः प्रिये ।
काशीवासमवाप्यैव ततो मुक्तिं स विन्दति ॥ ५२ ॥
काश्यां यो वै मृतश्चैव तस्य जन्म पुनर्न हि ।
समुद्दिश्य प्रयागे च मृतस्य कामनाफलम् ॥ ५३ ॥
संयोगश्च तयोश्चेत्स्यात्काशीजन्यं फलं वृथा ।
यदि न प्राप्यते तच्च तीर्थराजफलं वृथा ॥ ५४ ॥
तस्मान्मच्छासनाद्विष्णुः सृष्टिं साक्षाद्धि नूतनाम् ।
विधाय मनसोद्दिष्टां तत्सिद्धिं यच्छति ध्रुवम् ॥ ५५ ॥
सूत उवाच ।
इत्यादि बहुमाहात्म्यं काश्यां वै मुनिसत्तमाः ।
तथा विश्वेश्वरस्यापि भुक्तिमुक्तिप्रदं सताम् ॥ ५६ ॥
अतः परं प्रवक्ष्यामि माहात्म्यं त्र्यम्बकस्य च ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥ ५७ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः ॥ २३ ॥
४. २४ चतुर्विंशोऽध्यायः
सूत उवाच ।
श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम् ।
कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया ॥ १ ॥
पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ।
अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ॥ २ ॥
दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ।
तत्र तेन तपस्तप्तं वर्षाणामयुतं तथा ॥ ३ ॥
कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ।
वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ॥ ४ ॥
आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ।
कुतो जलं विदृश्येत जीवानां प्राणधारकम् ॥ ५ ॥
तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ।
पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥ ६ ॥
तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ।
ध्यानेन च तदा केचित्कालं निन्युः सुदारुणम् ॥ ७ ॥
गौतमोऽपि स्वयं तत्र वरुणार्थे तपः शुभम् ।
चकार चैव षण्मासं प्राणायामपरायणः ॥ ८ ॥
ततश्च वरुणस्तस्मै वरं दातुं समागतः ।
प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥ ९ ॥
ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ।
ततः स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥ ४. २४. १० ॥
वरुण उवाच ।
देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ।
अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ॥ ११ ॥
सूत उवाच ।
इत्येतद्वचनं तस्य वरुणस्य महात्मनः ।
परोपकारी तच्छ्रुत्वा गौतमो वाक्यमब्रवीत् ॥ १२ ॥
गौतम उवाच ।
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ॥ १३ ॥
यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ।
अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ॥ १४ ॥
सूत उवाच ।
इति सम्प्रार्थितस्तेन वरुणो गौतमेन वै ।
उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ॥ १५ ॥
इत्युक्ते च कृतस्तेन गर्तो हस्तप्रमाणतः ।
जलेन पूरितस्तेन दिव्येन वरुणेन सः ॥ १६ ॥
अथोवाच मुनिं देवो वरुणो हि जलाधिपः ।
गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ॥ १७ ॥
वरुण उवाच ।
अक्षयं च जलं तेऽस्तु तीर्थभूतं महामुने ।
तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ॥ १८ ॥ .
अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ।
पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत् ॥ १९ ॥
सूत उवाच ।
इत्युक्तान्तर्दधे देवः स्तुतस्तेन महर्षिणा ।
गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ॥ ४. २४. २० ॥
महतो ह्याश्रयः पुंसां महत्त्वायोपजायते ।
महान्तस्तत्स्वरूपं च पश्यन्ति नेतरेऽशुभाः ॥ २१ ॥
यादृङ्नरं च सेवेत तादृशं फलमश्नुते ।
महतः सेवयोच्चत्वं क्षुद्रस्य क्षुद्रतां तथा ॥ २२ ॥
सिंहस्य मन्दिरे सेवा मुक्ताफलकरी मता ।
शृगालमन्दिरे सेवा त्वस्थिलाभकरी स्मृता ॥ २३ ॥
उत्तमानां स्वभावोऽयं परदुःखासहिष्णुता ।
स्वयं दुःखं च सम्प्राप्तं मन्यतेऽन्यस्य वार्यते ॥ २४ ॥
वृक्षाश्च हाटकं चैव चन्दनं चेक्षुकस्तथा ।
एते भुवि परार्थे च दक्षा एवं न केचन ॥ २५ ॥
दयालुरमदस्पर्श उपकारी जितेन्द्रियः ।
एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्यते मही ॥ २६ ॥
ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ।
नित्यनैमित्तिकं कर्म चकार विधिवत्तदा ॥ २७ ॥
ततो व्रीहीन् यवांश्चैव नीवारानप्यनेकधा ।
वापयामास तत्रैव हवनार्थं मुनीश्वरः ॥ २८ ॥
धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ।
पुष्पाणि च फलान्येव ह्यासंस्तत्राप्यनेकशः ॥ २९ ॥
तच्छ्रुत्वा ऋषयश्चान्ये तत्रायाताः सहस्रशः ।
पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ॥ ४. २४. ३० ॥
तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मण्डले परम् ।
तदक्षयजलायोगादनावृष्टिर्न दुःखदा ॥ ३१ ॥
ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ।
वासं चक्रुरनेके च शिष्यभार्यासुतान्विताः ॥ ३२ ॥
धान्यानि वापयामासुः कालक्रमणहेतवे ।
आनन्दस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ॥ ३३ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसं हितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम
चतुर्विंशोऽध्यायः ॥ २४ ॥
४. २५ पञ्चविंशोऽध्यायः
। सूत उवाच ॥
कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ।
शिष्यास्तत्र गता भक्त्या कमंडलुकरा द्विजाः ॥ १ ॥
शिष्यान् जलसमीपे तु गतान्दृष्ट्वा न्यषेधयन् ।
जलार्थमागतास्तत्र चर्षिपत्न्योऽप्यनेकशः ॥ २ ॥
ऋषिपत्न्यो वयं पूर्वं ग्रहीष्यामो विदूरतः ।
पश्चाच्चैव जलं ग्राह्यमित्येवं पर्यभर्त्सयन् ॥ ३ ॥
परावृत्य तदा तैश्च ऋषिपत्न्यै निवेदितम् ।
सा चापि तान्समादाय समाश्वास्य च तैः स्वयम् ॥ ४ ॥
जलं नीत्वा ददौ तस्मै गौतमाय तपस्विनी ।
नित्यं निर्वाहयामास जलेन ऋषिसत्तमः ॥ ५ ॥
ताश्चैवमृषिपत्न्यस्तु क्रुद्धास्तां पर्यभर्त्सयन् ।
परावृत्य गताः सर्वास्तूटजान्कुटिलाशयाः ॥ ६ ॥
स्वाम्यग्रे विपरीतं च तद्वृत्तं निखिलं ततः ।
दुष्टाशयाभिः स्त्रीभिश्च ताभिर्वै विनिवेदितम् ॥ ७ ॥
अथ तासां वचः श्रुत्वा भाविकर्मवशात्तदा ।
गौतमाय च संक्रुद्धाश्चासंस्ते परमर्षयः ॥ ८ ॥
विघ्नार्थं गौतमस्यैव नानापूजोपहारकैः ।
गणेशं पूजयामासुः संक्रुद्धास्ते कुबुद्धयः ॥ ९ ॥
आविर्बभूव च तदा प्रसन्नो हि गणेश्वरः ।
उवाच वचनं तत्र भक्ताधीनः फलप्रदः ॥ ४. २५. १० ॥
गणेश उवाच ।
प्रसन्नोऽस्मि वरं ब्रूत यूयं किं करवाण्यहम् ।
तदीयं तद्वचः श्रुत्वा ऋषयस्तेऽब्रुवंस्तदा ॥ ११ ॥
ऋषय ऊचुः ॥
त्वया यदि वरो देयो गौतमः स्वाश्रमाद बहिः ।
निष्काश्यमानो ऋषिभिः परिभर्त्स्य तथा कुरु ॥ १२ ॥
सूत उवाच ।
स एवं प्रार्थितस्तैस्तु विहस्य वचनं पुनः ।
प्रोवाचेभमुखः प्रीत्या बोधयंस्तान्सतां गतिः ॥ १३ ॥
गणेश उवाच ।
श्रूयतामृषयः सर्वे युक्तं न क्रियतेऽधुना ।
अपराधं विना तस्मै क्रुध्यतां हानिरेव च ॥ १४ ॥
उपस्कृतं पुरा यैस्तु तेभ्यो दुःखं हितं न हि ।
यदा च दीयते दुःखं तदा नाशो भवेदिह ॥ १५ ॥
ईदृशं च तपः कृत्वा साध्यते फलमुत्तमम् ।
शुभं फलं स्वयं हित्वा साध्यते नाहितं पुनः ॥ १६ ॥
सूत उवाच ।
इत्येवं वचनं श्रुत्वा तस्य ते मुनिसत्तमाः ।
बुद्धिमोहं तदा प्राप्ता इदमेव वचोऽब्रुवन् ॥ १७ ॥
ऋषय ऊचुः ॥
कर्तव्यं हि त्वया स्वामिन्निदमेव न चान्यथा ।
इत्युक्तस्तु तदा देवो गणेशो वाक्यमब्रवीत् ॥ १८ ॥
गणेश उवाच ।
असाधुः साधुतां चैव साधुश्चासाधुतां तथा ।
कदाचिदपि नाप्नोति ब्रह्मोक्तमिति निश्चितम् ॥ १९ ॥
यदा च भवतां दुःखं जातं चानशनात्पुरा ।
तदा सुखं प्रदत्तं वै गौतमेन महर्षिणा ॥ ४. २५. २० ॥
इदानीं वै भवद्भिश्च तस्मै दुःखं प्रदीयते ।
नैतद्युक्ततमं लोके सर्वथा सुविचार्यताम् ॥ २१ ॥
स्त्रीबलान्मोहिता यूयं न मे वाक्यं करिष्यथ ।
एतद्धिततमं तस्य भविष्यति न संशयः ॥ २२ ॥
पुनश्चायमृषिश्रेष्ठो दास्यते वः सुखं ध्रुवम् ।
तारणं न च युक्तं स्याद्वरमन्यं वृणीत वै ॥ २३ ॥
सूत उवाच ।
इत्येवं वचनं तेन गणेशेन महात्मना ।
यद्यप्युक्तमृषिभ्यश्च तदप्येते न मेनिरे ॥ २४ ॥
भक्ताधीनतया सोऽथ शिवपुत्रोऽब्रवीत्तदा ।
उदासीनेन मनसा तानृषीन्दुष्टशेमुषीन् ॥ २५ ॥
गणेश उवाच ।
भवद्भिः प्रार्थ्यते यच्च करिष्येऽहं तथा खलु ।
पश्चाद्भावि भवेदेव इत्युक्त्वान्तर्दधे पुनः ॥ २६ ॥
गौतमः स न जानाति मुनीनां वै दुराशयम् ।
आनन्दमनसा नित्यं पत्न्या कर्म चकार तत् ॥ २७ ॥
तदन्तरे च यज्जातं चरित्रं वरयोगतः ।
तद्दुष्टर्षिप्रभावात्तु श्रूयतां तन्मुनीश्वराः ॥ २८ ॥
गौतमस्य च केदारे तत्रासन्व्रीहयो यवाः ।
गणेशस्तत्र गौर्भूत्वा जगाम किल दुर्बला ॥ २९ ॥
कम्पमाना च सा गत्वा तत्र तद्वरयोगतः ।
व्रीहीन्सम्भक्षयामास यवांश्च मुनिसत्तमाः ॥ ४. २५. ३० ॥
एतस्मिन्नन्तरे दैवाद् गौतमस्तत्र चागतः ।
स दयालुस्तृणस्तम्बैर्वारयामास तां तदा ॥ ३१ ॥
तृणस्तम्बेन सा स्पृष्टा पपात पृथिवीतले ।
मृता च तत्क्षणादेव तदृषेः पश्यतस्तदा ॥ ३२ ॥
ऋषयश्छन्नरूपास्ते ऋषिपत्न्यस्तथाशुभाः ।
ऊचुस्तत्र तदा सर्वे किं कृतं गौतमेन च ॥ ३३ ॥
गौतमोऽपि तथाहल्यामाहूयासीत्सुविस्मितः ।
उवाच दुःखतो विप्रा दूयमानेन चेतसा ॥ ३४ ॥
गौतम उवाच ।
किं जातं च कथं देवि कुपितः परमेश्वरः ।
किं कर्तव्यं क्व गन्तव्यं हत्या च समुपस्थिता ॥ ३५ ॥
सूत उवाच ।
एतस्मिन्नन्तरे विप्रा गौतमं पर्यभर्त्सयन् ।
विप्रपत्न्यस्तथाहल्यां दुर्वचोभिर्व्यथां ददुः ॥ ३६ ॥
दुर्बुद्धयश्च तच्छिष्याः सुतास्तेषां तथैव च ।
गौतमं परिभर्त्स्यैव प्रत्यूचुर्धिग्वचो मुहुः ॥ ३७ ॥
ऋषय ऊचुः ॥
मुखं न दर्शनीयं ते गम्यतां गम्यतामिति ।
दृष्ट्वा गोघ्नमुखं सद्यः सचैलं स्नानमाचरेत् ॥ ३८ ॥
यावदाश्रममध्ये त्वं तावदेव हविर्भुजः ।
पितरश्च न गृह्णन्ति ह्यस्मद्दत्तं हि किञ्चन ॥ ३९ ॥
तस्माद्गच्छान्यतस्त्वं च परिवारसमन्वितः ।
विलम्बं कुरु नैव त्वं धेनुहन्पापकारक ॥ ४. २५. ४० ॥
सूत उवाच ।
इत्युक्त्वा ते च तं सर्वे पाषाणैः समताडयन् ।
व्यथां ददुरतीवास्मै त्वहल्यां च दुरुक्तिभिः ॥ ४१ ॥
ताडितो भर्त्सितो दुष्टैर्गौतमो गिरमब्रवीत् ।
इतो गच्छामि मुनयो ह्यन्यत्र निवसाम्यहम् ॥ ४२ ॥
इत्युक्त्वा गौतमस्तस्मात्स्थानाच्च निर्गतस्तदा ।
गत्वा क्रोशं तदा चक्रे ह्याश्रमं तदनुज्ञया ॥ ४३ ॥
यावच्चैवाभिशापो वै तावत्कार्यं न किंचन ।
न कर्मण्यधिकारोऽस्ति दैवे पित्र्येऽथ वैदिके ॥ ४४ ॥
मासार्धं च ततो नीत्वा मुनीन्सम्प्रार्थयत्तदा ।
गौतमो मुनिवर्यः स तेन दुःखेन दुखितः ॥ ४५ ॥
गौतम उवाच ।
अनुकंप्यो भवद्भिश्च कथ्यतां क्रियते मया ।
यथा मदीयं पापं च गच्छत्विति निवेद्यताम् ॥ ४६ ॥
सूत उवाच ।
इत्युक्तास्ते तदा विप्रा नोचुश्चैव परस्परम् ।
अत्यन्तं सेवया पृष्टा मिलिता ह्येकतः स्थिताः ॥ ४७ ॥
गौतमो दूरतः स्थित्वा नत्वा तानृषिसत्तमान् ।
पप्रच्छ विनयाविष्टः किं कार्यं हि मयाधुना ॥ ४८ ॥
इत्युक्ते मुनिना तेन गौतमेन महात्मना ।
मिलिताः सकलास्ते वै मुनयो वाक्यमब्रुवन् ॥ ४९ ॥
ऋषय ऊचुः ॥
निष्कृतिं हि विना शुद्धिर्जायते न कदाचन ।
तस्मात्त्वं देहशुद्ध्यर्थं प्रायश्चित्तं समाचर ॥ ४. २५. ५० ॥
त्रिवारं पृथिवीं सर्वां क्रम पापं प्रकाशयन् ।
पुनरागत्य चात्रैव चर मासव्रतं तथा ॥ ५१ ॥
शतमेकोत्तरं चैव ब्रह्मणोऽस्य गिरेस्तथा ।
प्रक्रमणं विधायैवं शुद्धिस्ते च भविष्यति ॥ ५२ ॥
अथवा त्वं समानीय गङ्गास्नानं समाचर ।
पार्थिवानां तथा कोटिं कृत्वा देवं निषेवय ॥ ५३ ॥
गङ्गायां च ततः स्नात्वा पुतश्चैव भविष्यसि ।
पुरा दश तथा चैकं गिरेस्त्वं क्रमणं कुरु ॥ ५४ ॥
शतकुंम्भैस्तथा स्नात्वा पार्थिवं निष्कृतिर्भवेत् ।
इति तैरॄषिभिः प्रोक्तस्तथेत्योमिति तद्वचः ॥ ५५ ॥
पार्थिवानां तथा पूजां गिरेः प्रक्रमणं तथा ।
करिष्यामि मुनिश्रेष्ठा आज्ञया श्रीमतामिह ॥ ५६ ॥
इत्युक्त्वा सर्षिवर्यश्च कृत्वा प्रक्रमणं गिरेः ।
पूजयामास निर्माय पार्थिवान्मुनिसत्तमः ॥ ५७ ॥
अहल्या च ततः साध्वी तच्च सर्वं चकार सा ।
शिष्याश्च प्रतिशिष्याश्च चक्रुः सेवां तयोस्तदा ॥ ५८ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५.
४. २६ षड्विंशोऽध्यायः
सूत उवाच ।
एवं कृते तु ऋषिणा सस्त्रीकेन द्विजाः शिवः ।
आविर्बभूव सशिवः प्रसन्नः सगणस्तदा ॥ १ ॥
अथ प्रसन्नः सशिवो वरं ब्रूहि महामुने ।
प्रसन्नोऽहं सुभक्त्या त इत्युवाच कृपानिधिः ॥ २ ॥
तदा तत्सुन्दरं रूपं दृष्ट्वा शम्भोर्महात्मनः ।
प्रणम्य शङ्करं भक्त्या स्तुतिं चक्रे मुदान्वितः ॥ ३ ॥
स्तुत्वा बहु प्रणम्येशं बद्धाञ्जलिपुटः स्थितः ।
निष्पापं कुरु मां देवाब्रवीदिति स गौतमः ॥ ४ ॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य गौतमस्य महात्मनः ।
सुप्रसन्नतरो भूत्वा शिवो वाक्यमुपाददे ॥ ५ ॥
शिव उवाच ।
धन्योऽसि कृतकृत्योऽसि निष्पापोऽसि सदा मुने ।
एतैर्दुष्टैः किल त्वं च छलितोऽसि खलात्मभिः ॥ ६ ॥
त्वदीयदर्शनाल्लोका निष्पापाश्च भवन्ति हि ।
किं पुनस्त्वं सपापोऽसि मद्भक्तिनिरतः सदा ॥ ७ ॥
उपद्रवस्त्वयि मुने यैः कृतस्तु दुरात्मभिः ।
ते पापाश्च दुराचारा हत्यावन्तस्त एव हि ॥ ८ ॥
एतेषां दर्शनादन्ये पापिष्ठाः सम्भवन्तु च ।
कृतघ्नाश्च तथा जाता नैतेषां निष्कृतिः क्वचित् ॥ ९ ॥
सूत उवाच ।
इत्युक्त्वा शङ्करस्तस्मै तेषां दुश्चरितं तदा ।
बहूवाच प्रभुर्विप्राः सत्कदोऽसत्सु दण्डदः ॥ ४. २६. १० ॥
शर्वोक्तमिति स श्रुत्वा सुविस्मितमना ऋषिः ।
सुप्रणम्य शिवं भक्त्या साञ्जलिः पुनरब्रवीत् ॥ ११ ॥
गौतम उवाच ।
ऋषिभिस्तैर्महेशान ह्युपकारः कृतो महान् ।
यद्येवं न कृतं तैस्तु दर्शनं ते कुतो भवेत् ॥ १२ ॥
धन्यास्ते ऋषयो यैस्तु मह्यं शुभतरं कृतम् ।
तद्दुराचरणादेव मम स्वार्थो महानभूत् ॥ १३ ॥
सूत उवाच ।
इत्येवं तद्वचः श्रुत्वा सुप्रसन्नो महेश्वरः ।
गौतमं प्रत्युवाचाशु कृपादृष्ट्या विलोक्य च ॥ १४ ॥
शिव उवाच ।
ऋषिर्धन्योऽसि विप्रेन्द्र ऋषिश्रेष्ठतरोऽसि वै ।
ज्ञात्वा मां सुप्रसन्नं हि वृणु त्वं वरमुत्तमम् ॥ १५ ॥
सूत उवाच ।
गौतमोऽपि विचार्यैवं लोके विश्रुतमित्युत ।
अन्यथा न भवेदेव तस्मादुक्तं समाचरेत् ॥ १६ ॥
निश्चित्यैवं मुनिश्रेष्ठो गौतमः शिवभक्तिमान् ।
साञ्जलिर्नतशीर्षो हि शङ्करं वाक्यमब्रवीत् ॥ १७ ॥
गौतम उवाच ।
सत्यं नाथ ब्रवीषि त्वं तथापि पञ्चभिः कृतम् ।
नान्यथा भवतीत्यत्र यज्जातं जायतां तु तत् ॥ १८ ॥
यदि प्रसन्नो देवेश गङ्गा च दीयतां मम ।
कुरु लोकोपकारं हि नमस्तेऽस्तु नमोऽस्तु ते ॥ १९ ॥
सूत उवाच ।
इत्युक्त्वा वचनं तस्य धृत्वा वै पादपङ्कजम् ।
नमश्चकार देवेशं गौतमो लोककाम्यया ॥ ४. २६. २० ॥
ततस्तु शङ्करो देवः पृथिव्याश्च दिवश्च सः ।
सारं चैव समुद्धृत्य रक्षितं पूर्वमेव तत् ॥ २१ ॥
विवाहे ब्रह्मणा दत्तमवशिष्टं च किञ्चन ।
तत्तस्मै दत्तवान् शम्भुर्मुनये भक्तवत्सलः ॥ २२ ॥
गङ्गाजलं तदा तत्र स्त्रीरूपमभवत्परम् ।
तस्याश्चैव ऋषिश्रेष्ठः स्तुतिं कृत्वा नतिं व्यधात् ॥ २३ ॥
गौतम उवाच ।
धन्यासि कृतकृत्यासि पावितं भुवनं त्वया ।
मां च पावय गङ्गे त्वं पतन्तं निरये ध्रुवम् ॥ २४ ॥
सूत उवाच ।
शम्भुश्चापि तदोवाच सर्वेषां हितकृच्छृणु ।
गङ्गे गौतममेनं त्वं पावयस्व मदाज्ञया ॥ २५ ॥
इति श्रुत्वा वचस्तस्य शम्भोश्च गौतमस्य च ।
उवाचैव शिवं गङ्गा शिवशक्तिर्हि पावनी ॥ २६ ॥
गङ्गोवाच ॥
ऋषिं तु पावयित्वाहं परिवारयुतं प्रभो ।
गमिष्यामि निजस्थानं वचः सत्यं ब्रवीमि ह ॥ २७ ॥
सूत उवाच ।
इत्युक्तं गङ्गया तत्र महेशो भक्तवत्सलः ।
लोकोपकरणार्थाय पुनर्गंगां वचोऽब्रवीत् ॥ २८ ॥
शिव उवाच ।
त्वया स्थातव्यमत्रैवाव्रजेद्यावत्कलिर्युगः ।
वैवस्वतो मनुर्देवि ह्यष्टाविंशत्तमो भवेत् ॥ २९ ॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य स्वामिनः शङ्करस्य तत् ।
प्रत्युवाच पुनर्गङ्गा पावनी सा सरिद्वरा ॥ ४. २६. ३० ॥
गङ्गोवाच ॥
माहात्म्यमधिकं चेत्स्यान्मम स्वामिन्महेश्वर ।
सर्वेभ्यश्च तदा स्थास्ये धरायां त्रिपुरान्तक ॥ ३१ ॥
किंचान्यच्च शृणु स्वामिन्वपुषा सुन्दरेण ह ।
तिष्ठ त्वं मत्समीपे वै सगणः साम्बिकः प्रभो ॥ ३२ ॥
सूत उवाच ।
एवं तस्या वचः श्रुत्वा शङ्करो भक्तवत्सलः ।
लोकोपकरणार्थाय पुनर्गङ्गां वचोऽब्रवीत् ॥ ३३ ॥
शिव उवाच ।
धन्यासि श्रूयतां गङ्गे ह्यहं भिन्नस्त्वया न हि ।
तथापि स्थीयते ह्यत्र स्थीयतां च त्वयापि हि ॥ ३४ ॥
सूत उवाच ।
इत्येवं वचनं श्रुत्वा स्वामिनः परमेशितुः ।
प्रसन्नमानसा भूत्वा गङ्गा च प्रत्यपूजयत् ॥ ३५ ॥
एतस्मिन्नन्तरे देवा ऋषयश्च पुरातनाः ।
सुतीर्थान्यप्यनेकानि क्षेत्राणि विविधानि च ॥ ३६ ॥
आगत्य गौतमं सर्वे गङ्गां च गिरिशं तथा ।
जय जयेति भाषन्तः पूजयामासुरादरात् ॥ ३७ ॥
ततस्ते निर्जराः सर्वे तेषां चक्रुः स्तुतिं मुदा ।
करान् बध्वा नतस्कंधा हरिब्रह्मादयस्तदा ॥ ३८ ॥
गङ्गा प्रसन्ना तेभ्यश्च गिरिशश्चोचतुस्तदा ।
वरं ब्रूत सुरश्रेष्ठा दद्वो वः प्रियकाम्यया ॥ ३९ ॥
देवा ऊचुः ॥
यदि प्रसन्नो देवेश प्रसन्ना त्वं सरिद्वरे ।
स्थातव्यमत्र कृपया नः प्रियार्थं तथा नृणाम् ॥ ४. २६. ४० ॥
॥ गङ्गोवाच ॥
यूयं सर्वप्रियार्थं च तिष्ठथात्र न किं पुनः ।
गौतमं क्षालयित्वाहं गमिष्यामि यथागतम् ॥ ४१ ॥
भवत्सु मे विशेषोऽत्र ज्ञेयश्चैव कथं सुराः ।
तत्प्रमाणं कृतं चेत्स्यात्तदा तिष्ठाम्यसंशयम् ॥ ४२ ॥
॥ सर्वे ऊचुः ॥
सिंहराशौ यदा स्याद्वै गुरुः सर्वसुहृत्तमः ।
तदा वयं च सर्वे त्वागमिष्यामो न संशयः ॥ ४३ ॥
एकादश च वर्षाणि लोकानां पातकं त्विह ।
क्षालितं यद्भवेदेवं मलिनाः स्मः सरिद्वरे ॥ ४४ ॥
तस्यैव क्षालनाय त्वायास्यामः सर्वथा प्रिये ।
त्वत्सकाशं महादेवि प्रोच्यते सत्यमादरात् ॥ ४५ ॥
अनुग्रहाय लोकानामस्माकं प्रियकाम्यया ।
स्थातव्यं शङ्करेणापि त्वया चैव सरिद्वरे ॥ ४६ ॥
यावत्सिंहे गुरुश्चैव स्थास्यामस्तावदेव हि ।
त्वयि स्नानं त्रिकालं च शङ्करस्य च दर्शनम् ॥ ४७ ॥
कृत्वा स्वपापं निखिलं विमोक्ष्यामो न संशयः ।
स्वदेशांश्च गमिष्यामो भवच्छासनतो वयम् ॥ ४८ ॥
सूत उवाच ।
इत्येवं प्रार्थितस्तैस्तु गौतमेन महर्षिणा ।
स्थितोऽसौ शङ्करः प्रीत्या स्थिता सा च सरिद्वरा ॥ ४९ ॥
सा गङ्गा गौतमी नाम्ना लिङ्गं त्र्यंबकमीरितम् ।
ख्याताख्यातं बभूवाथ महापातकनाशनम् ॥ ४. २६. ५० ॥
तद्दिनं हि समारभ्य सिंहस्थे च बृहस्पतौ ।
आयांति सर्वतीर्थानि क्षेत्राणि दैवतानि च ॥ ५१ ॥
सरांसि पुष्करादीनि गङ्गाद्याः सरितस्तथा ।
वासुदेवादयो देवाः सन्ति वै गौतमीतटे ॥ ५२ ॥
यावत्तत्र स्थितानीह तावत्तेषां फलं न हि ।
स्वप्रदेशे समायातास्तर्ह्येतेषां फलं भवेत् ॥ ५३ ॥
ज्योतिर्लिङ्गमिदं प्रोक्तं त्र्यम्बकं नाम विश्रुतम् ।
स्थितं तटे हि गौतम्या महापातकनाशनम् ॥ ५४ ॥
यः पश्येद्भक्तितो ज्योतिर्लिङ्गं त्र्यम्बकनामकम् ।
पूजयेत्प्रणमेत्स्तुत्वा सर्वपापैः प्रमुच्यते ॥ ५५ ॥
ज्योतिर्लिङ्गं त्र्यम्बकं हि पूजितं गौतमेन ह ।
सर्वकामप्रदं चात्र परत्र परमुक्तिदम् ॥ ५६ ॥
इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ।
किमन्यदिच्छथ श्रोतुं तद् ब्रूयां वो न संशयः ॥ ५७ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥
४. २७ सप्तविंशोऽध्यायः
ऋषय ऊचुः ॥
गङ्गा च जलरूपेण कुतो जाता वद प्रभो ।
तन्माहात्म्यं विशेषेण कुतो जातं वद प्रभो ॥ १ ॥
यैर्विप्रैर्गौतमायैव दुःखं दत्तं दुरात्मभिः ।
तेषां किं च ततो जातमुच्यतां व्याससद्गुरो ॥ २ ॥
सूत उवाच ।
एवं संप्रार्थिता गङ्गा गौतमेन तदा स्वयम् ।
ब्रह्मणश्च गिरेर्विप्रा द्रुतं तस्मादवातरत् ॥ ३ ॥
औदुम्बरस्य शाखायास्तत्प्रवाहो विनिःसृतः ।
तत्र स्नानं मुदा चक्रे गौतमो विश्रुतो मुनिः ॥ ४ ॥
गौतमस्य च ये शिष्या अन्ये चैव महर्षयः ।
समागताश्च ते तत्र स्नानं चक्रुर्मुदान्विताः ॥ ५ ॥
गङ्गाद्वारं च तन्नाम प्रसिद्धमभवत्तदा ।
सर्वपापहरं रम्यं दर्शनान्मुनिसत्तमाः ॥ ६ ॥
गौतमस्पर्द्धिनस्ते च ऋषयस्तत्र चागताः ।
स्नानार्थं तांश्च सा दृष्ट्वा ह्यन्तर्धानं गता द्रुतम् ॥ ७ ॥
मा मेति गौतमस्तत्र व्याजहार वचो द्रुतम् ।
मुहुर्मुहुः स्तुवन् गङ्गां साञ्जलिर्नतमस्तकः ॥ ८ ॥
गौतम उवाच ।
इमे च श्रीमदांधाश्च साधवो वाप्यसाधवः ।
एतत्पुण्यप्रभावेण दर्शनं दीयतां त्वया ॥ ९ ॥
सूत उवाच ।
ततो वाणी समुत्पन्ना गङ्गाया व्योममण्डलात् ।
तच्छृणुध्वमृषिश्रेष्ठा गङ्गावचनमुत्तमम् ॥ ४. २७. १० ॥
एते दुष्टतमाश्चैव कृतघ्नाः स्वामिद्रोहिणः ।
जाल्माः पाखण्डिनश्चैव द्रष्टुं वर्ज्याश्च सर्वदा ॥ ११ ॥
गौतम उवाच ।
मातश्च श्रूयतामेतन्महतां गिर एव च ।
तस्मात्त्वया च कर्त्तव्यं सत्यं च भगवद् वचः ॥ १२ ॥
अपकारिषु यो लोक उपकारं करोति वै ।
तेन पूतो भवाम्यत्र भगवद्वचनं त्विदम् ॥ १३ ॥
सूत उवाच ।
इति श्रुत्वा मुनेर्वाक्यं गौतमस्य महात्मनः ।
पुनर्वाणी समुत्पन्ना गङ्गाया व्योममंडलात् ॥ १४ ॥
कथ्यते हि त्वया सत्यं गौतमर्षे शिवं वचः ।
तथापि संग्रहार्थं च प्रायश्चित्तं चरन्तु वै ॥ १५ ॥
शतमेकोत्तरं चात्र कार्यं प्रक्रमणं गिरेः ।
भवच्छासनतस्त्वेतैस्त्वदधीनैर्विशेषतः ॥ १६ ॥
ततश्चैवाधिकारश्च जायते दुष्टकारिणाम् ।
मद्दर्शने विशेषेण सत्यमुक्तं मया मुने ॥ १७ ॥
इति श्रुत्वा वचस्तस्याश्चक्रुर्वै ते तथाखिलाः ।
संप्रार्थ्य गौतमं दीनाः क्षन्तव्यो नोऽपराधकः ॥ १८ ॥
एवं कृते तदा तेन गौतमेन तदाज्ञया ।
कुशावर्तं नाम चक्रे गङ्गाद्वारादधोगतम् ॥ १९ ॥
ततः प्रादुरभूत्तत्र सा तस्य प्रीतये पुनः ।
कुशावर्तं च विख्यातं तीर्थमासीदनुत्तमम् ॥ ४. २७. २० ॥
तत्र स्नातो नरो यस्तु मोक्षाय परिकल्पते ।
त्यक्त्वा सर्वानघान्सद्यो विज्ञानं प्राप्य दुर्लभम् ॥ २१ ॥
गौतमो ऋषयश्चान्ये मिलिताश्च परस्परम् ।
लज्जितास्ते तदा ये च कृतघ्ना ह्यभवन्पुरा ॥ २२ ॥
ऋषय ऊचुः ॥
अस्माभिरन्यथा सूत श्रुतं तद्वर्णयामहे ।
गौतमस्तान्द्विजान् क्रुद्धः शशापेति प्रबुध्यताम् ॥ २३ ॥
सूत उवाच ।
द्विजास्तदपि सत्यं वै कल्पभेदसमाश्रयात् ।
वर्णयामि विशेषेण तां कथामपि सुव्रताः ॥ २४ ॥
गौतमोऽपि ऋषीन्दृष्ट्वा तदा दुर्भिक्षपीडितान् ।
तपश्चकार सुमहद्वरुणस्य महात्मनः ॥ २५ ॥
अक्षय्यं कल्पयामास जलं वरुणदायया ।
ततो व्रीहीन् यवांश्चैव वापयामास भूरिशः ॥ २६ ॥
एवं परोपकारी स गौतमो मुनिसत्तमः ।
आहारं कल्पयामास तेभ्यः स्वतपसो बलात् ॥ २७ ॥
कदाचित्तत्स्त्रियो दुष्टा जलार्थमपमानिताः ।
ऊचुः पतिभ्यस्ताः क्रुद्धा गौतमेर्ष्याकरं वचः ॥ २८ ॥
ततस्ते भिन्नमतयो गां कृत्वा कृत्रिमां द्विजाः ।
तद्धान्यभक्षणासक्तां चक्रुस्तां कुटिलाशयाः ॥ २९ ॥
स्वधान्यभक्षणासक्तां गां दृष्ट्वा गौतमस्तदा ।
तृणेन ताडयामास शनैस्तां सन्निवारयन् ॥ ४. २७. ३० ॥
तृणसंस्पर्शमात्रेण सा भूमौ पतिता च गौः ।
मृता ह्यभूत्क्षणं विप्रा भाविकर्मवशात्तदा ॥ ३१ ॥
गौर्हता गौतमेनेति तदा ते कुटिलाशयाः ।
एकत्रीभूय तत्रत्याः सकला ऋषयोऽवदन् ॥ ३२ ॥
ततः स गौतमो भीतो गौर्हतेति बभूव ह ।
चकार विस्मयं नार्यहल्याशिष्यैः शिवानुगः ॥ ३३ ॥
ततः स गौतमो ज्ञात्वा तां गां क्रोधसमाकुलः ।
शशाप तानृषीन् सर्वान् गौतमो मुनिसत्तमः ॥ ३४ ॥
गौतम उवाच ।
यूयं सर्वे दुरात्मानो दुःखदा मे विशेषतः ।
शिवभक्तस्य सततं स्युर्वेदविमुखाः सदा ॥ ३५ ॥
अद्यप्रभृति वेदोक्ते सत्कर्मणि विशेषतः ।
मा भूयाद्भवतां श्रद्धा शैवमार्गे विमुक्तिदे ॥ ३६ ॥
अद्यप्रभृति दुर्मार्गे तत्र श्रद्धा भवेत्तु वः ।
मोक्षमार्गविहीने हि सदा श्रुतिबहिर्मुखे ॥ ३७ ॥
अद्यप्रभृति भालानि मृल्लिप्तानि भवन्तु वः ।
स्रंसध्वं नरके यूयं भालमृल्लेपना द्विजाः ॥ ३८ ॥
भवन्तो मा भविष्यन्तु शिवैकपरदैवताः ।
अन्यदेव समत्वेन जानन्तु शिवमद्वयम् ॥ ३९ ॥ .
मा भूयाद्भवतां प्रीतिः शिवपूजादिकर्मणि ।
शिवनिष्ठेषु भक्तेषु शिवपर्वसु सर्वदा ॥ ४. २७. ४० ॥
अद्य दत्ता मया शापा यावन्तो दुःखदायकाः ।
तावन्तः सन्तु भवतां सन्ततावपि सर्वदा ॥ ४१ ॥
अशैवाः सन्तु भवतां पुत्रपौत्रादयो द्विजाः ।
पुत्रैः सहैव तिष्ठन्तु भवन्तो नरके ध्रुवम् ॥ ४२ ॥
ततो भवन्तु चाण्डाला दुःखदारिद्र्यपीडिताः ।
शठा निन्दाकराः सर्वे तप्तमुद्राङ्किताः सदा ॥ ४३ ॥
सूत उवाच ।
इति शप्त्वा मुनीन् सर्वान् गौतमः स्वाश्रमं ययौ ।
शिवभक्तिं चकाराति स बभूव सुपावनः ॥ ४४ ॥
ततस्तैः खिन्नहृदया ऋषयस्तेऽखिला द्विजाः ।
काञ्च्यां चक्रुर्निवासं हि शैवधर्मबहिष्कृताः ॥ ४५ ॥
तत्पुत्राश्चाभवन्सर्वे शैवधर्मबहिष्कृताः ।
अग्रे तद्वद्भविष्यन्ति कलौ बहुजनाः खलाः ॥ ४६ ॥
इति प्रोक्तमशेषेण तद्वृत्तं मुनिसत्तमाः ।
पूर्ववृत्तमपि प्राज्ञाः श्रुतं सर्वैस्तु चादरात् ॥ ४७ ॥
इति वश्च समाख्यातो गौतम्याश्च समुद्भवः ।
माहात्म्यमुत्तमं चैव सर्वपापहरं परम् ॥ ४८ ॥
त्र्यम्बकस्य च माहात्म्यं ज्योतिर्लिङ्गस्य कीर्तितम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४९ ॥
अतः परं प्रवक्ष्यामि वैद्यनाथेश्वरस्य हि ।
ज्योतिर्लिङ्गस्य माहात्म्यं श्रूयतां पापहारकम् ॥ ४. २७. ५० ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनं नाम
सप्तविंशोऽध्यायः ॥ २७ ॥
४. २८ अष्टाविंशोऽध्यायः
सूत उवाच ।
रावणो राक्षसश्रेष्ठो मानी मानपरायणः ।
आरराध हरं भक्त्या कैलासे पर्वतोत्तमे ॥ १ ॥
आराधितः कियत्कालं न प्रसन्नो हरो यदा ।
तदा चान्यत्तपश्चक्रे प्रसादार्थं शिवस्य सः ॥ २ ॥
ततश्चायं हिमवतः सिद्धिस्थानस्य वै गिरेः ।
पौलस्त्यो रावणः श्रीमान् दक्षिणे वृक्षखण्डके ॥ ३ ॥
भूमौ गर्तं वरं कृत्वा तत्राग्निं स्थाप्य स द्विजाः ।
तत्सन्निधौ शिवं स्थाप्य हवनं स चकार ह ॥ ४ ॥
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
शीते जलांतरस्थो हि त्रिधा चक्रे तपश्च सः ॥ ५ ॥
चकारैवं बहु तपो न प्रसन्नस्तदापि हि ।
परमात्मा महेशानो दुराराध्यो दुरात्मभिः ॥ ६ ॥
ततः शिरांसि छित्त्वा च पूजनं शङ्करस्य वै ।
प्रारब्धं दैत्यपतिना रावणेन महात्मना ॥ ७ ॥
एकैकं च शिरश्छिन्नं विधिना शिवपूजने ।
एवं सत्क्रमतस्तेन छिन्नानि नव वै यदा ॥ ८ ॥
एकस्मिन्नवशिष्टे तु प्रसन्नः शङ्करस्तदा ।
आविर्बभूव तत्रैव संतुष्टो भक्तवत्सलः ॥ ९ ॥
शिरांसि पूर्ववत्कृत्वा नीरुजानि तथा प्रभुः ।
मनोरथं ददौ तस्मै चातुलं बलमुत्तमम् ॥ ४. २८. १० ॥
प्रसादं तस्य संप्राप्य रावणः स च राक्षसः ।
प्रत्युवाच शिवं शम्भुं नतस्कंधः कृतांजलिः ॥ ११ ॥
रावण उवाच ।
प्रसन्नो भव देवेश लङ्कां च त्वां नयाम्यहम् ।
सफलं कुरु मे कामं त्वामहं शरणं गतः ॥ १२ ॥
सूत उवाच ।
इत्युक्तश्च तदा तेन शम्भुर्वै रावणेन सः ।
प्रत्युवाच विचेतस्कः सङ्कटं परमं गतः ॥ १३ ॥
। शिव उवाच ॥
श्रूयतां राक्षसश्रेष्ठ वचो मे सारवत्तया ।
नीयतां स्वगृहे मे हि सद्भक्त्या लिङ्गमुत्तमम् ॥ १४ ॥
भूमौ लिङ्गं यदा त्वं च स्थापयिष्यसि यत्र वै ।
स्थास्यत्यत्र न संदेहो यथेच्छसि तथा कुरु ॥ १५ ॥
सूत उवाच ।
इत्युक्तः शंभुना तेन रावणो राक्षसेश्वरः.
तथेति तत्समादाय जगाम भवनं निजम् ॥ १६ ॥
आसीन्मूत्रोत्सर्गकामो मार्गे हि शिवमायया ।
तत्स्तंभितुं न शक्तोऽभूत्पौलस्त्यो रावणः प्रभुः ॥ १७ ॥
दृष्ट्वैकं तत्र वै गोपं प्रार्थ्य लिङ्गं ददौ च तत् ।
मुहूर्तके ह्यतिक्रांते गोपोऽभूद्विकलस्तदा ॥ १८ ॥
भूमौ संस्थापयामास तद्भारेणातिपीडितः ।
तत्रैव तत्स्थितं लिङ्गं वज्रसारसमुद्भवम् ।
सर्वकामप्रदं चैव दर्शनात्पापहारकम् ॥ १९ ॥
वैद्यनाथेश्वरं नाम्ना तल्लिङ्गमभवन्मुने ।
प्रसिद्धं त्रिषु लोकेषु भुक्तिमुक्तिप्रदं सताम् ॥ ४. २८. २० ॥
ज्योतिर्लिङ्गमिदं श्रेष्ठं दर्शनात्पूजनादपि ।
सर्वपापहरं दिव्यं मुक्तिवर्धनमुत्तमम् ॥ २१ ॥
तस्मिँलिङ्गे स्थिते तत्र सर्वलोकहिताय वै ।
रावणः स्वगृहं गत्वा वरं प्राप्य महोत्तमम् ।
प्रियायै सर्वमाचख्यौ सुखेनाति महासुरः ॥ २२ ॥
तच्छ्रुत्वा सकला देवाः शक्राद्या मुनयस्तथा ।
परस्परं समामन्त्र्य शिवासक्तधियोऽमलाः ॥ २३ ॥
तस्मिन्काले सुराः सर्वे हरिब्रह्मादयो मुने ।
आजग्मुस्तत्र सुप्रीत्या पूजां चक्रुर्विशेषतः ॥ २४ ॥
प्रत्यक्षं तं तदा दृष्ट्वा प्रतिष्ठाप्य च ते सुराः ।
वैद्यनाथेति सम्प्रोच्य नत्वा नुत्वा दिवं ययुः ॥ २५ ॥
ऋषय ऊचुः ॥
तस्मिँल्लिङ्गे स्थिते तत्र रावणे च गृहं गते ।
किं चरित्रमभूत्तात ततस्तद्वद विस्तरात् ॥ २६ ॥
सूत उवाच ।
रावणोऽपि गृहं गत्वा वरं प्राप्य महोत्तमम् ।
प्रियायै सर्वमाचख्यौ मुमोदाति महासुरः ॥ २७ ॥
तच्छ्रुत्वा सकलं देवाः शक्राद्या मुनयस्तथा ।
परस्परं समूचुस्ते समुद्विग्ना मुनीश्वराः ॥ २८ ॥
देवादय ऊचुः ॥
रावणोऽयं दुरात्मा हि देवद्रोही खलः कुधीः ।
शिवाद् वरं च संप्राप्य दुःखं दास्यति नोऽति सः ॥ २९ ॥
किं कुर्मः क्व च गच्छामः किं भविष्यति वा पुनः ।
दुष्टश्च दक्षतां प्राप्तः किं किं नो साधयिष्यति ॥ ४. २८. ३० ॥
इति दुःखं समापन्नाः शक्राद्या मुनयः सुराः ।
नारदं च समाहूय पप्रच्छुर्विकलास्तदा ॥ ३१ ॥
देवा ऊचुः ॥
सर्वं कार्यं समर्थोऽसि कर्तुं त्वं मुनिसत्तम ।
उपायं कुरु देवर्षे देवानां दुःखनाशने ॥ ३२ ॥
रावणोऽयं महादुष्टः किं किं नैव करिष्यति ।
क्व यास्यामो वयं चात्र दुष्टेनापीडिता वयम् ॥ ३३ ॥
नारद उवाच ।
दुःखं त्यजत भो देवा युक्तिं कृत्वा च याम्यहम् ।
देवकार्यं करिष्यामि कृपया शङ्करस्य वै ॥ ३४ ॥
सूत उवाच ।
इत्युक्त्वा स तु देवर्षिरगमद्रावणालयम् ।
सत्कारं समनुप्राप्य प्रीत्योवाचाखिलं च तत् ॥ ३५ ॥
नारद उवाच ।
राक्षसोत्तम धन्यस्त्वं शैववर्यस्तपोधन ।
त्वां दृष्ट्वा च मनो मेऽद्य प्रसन्नमति रावण ॥ ३६ ॥
स्ववृत्तं ब्रूह्यशेषेण शिवाराधनसम्भवम् ।
इति पृष्टस्तदा तेन रावणो वाक्यमब्रवीत् ॥ ३७ ॥
रावण उवाच ।
गत्वा मया तु कैलासे तपोऽर्थं च महामुने ।
तत्रैव बहुकालं वै तपस्तप्तं सुदारुणम् ॥ ३८ ॥
यदा न शङ्करस्तुष्टस्ततश्च परिवर्तितम् ।
आगत्य वृक्षखण्डे वै पुनस्तप्तं मया मुने ॥ ३९ ॥
ग्रीष्मे पञ्चाग्निमध्ये तु वर्षासु स्थंडिलेशयः ।
शीते जलांतरस्थो हि कृतं चैव त्रिधा तपः ॥ ४. २८. ४० ॥
एवं मया कृतं तत्र तपोऽत्युग्रं मुनीश्वर ।
तथापि शङ्करो मह्यं न प्रसन्नोऽभवन्मनाक् ॥ ४१ ॥
तदा मया तु क्रुद्धेन भूमौ गर्तं विधाय च ।
तत्राग्निं च समाधाय पार्थिवं च प्रकल्प्य च ॥ ४२ ॥
गन्धैश्च चन्दनैश्चैव धूपैश्च विविधैस्तदा ।
नैवेद्यैः पूजितः शम्भुरारार्तिकविधानतः ॥ ४३ ॥
प्रणिपातैः स्तवैः पुण्यैस्तोषितः शङ्करो मया ।
गीतैर्नृत्यैश्च वाद्यैश्च मुखाङ्गुलिसमर्पणैः ॥ ४४ ॥
एतैश्च विविधैश्चान्यैरुपायैर्भूरिभिर्मुने ।
शास्त्रोक्तेन विधानेन पूजितो भगवान् हरः ॥ ४५ ॥
न तुष्टः सम्मुखो जातो यदा च भगवान् हरः ।
तदाहं दुःखितोऽभूवं तपसोऽप्राप्य सत्फलम् ॥ ४६ ॥
धिक् शरीरं बलं चैव धिक् तपःकरणं मम ।
इत्युक्त्वा तु मया तत्र स्थापितेऽग्नौ हुतं बहु ॥ ४७ ॥
पुनश्चेति विचार्यैव त्यक्षाम्यग्नौ निजां तनुम् ।
संछिन्नानि शिरांस्येव तस्मिन् प्रज्वलिते शुचौ ॥ ४८ ॥
सुच्छित्वैकैकशस्तानि कृत्वा शुद्धानि सर्वशः ।
शङ्करायार्पितान्येव नवसङ्ख्यानि वै मया ॥ ४९ ॥
यावच्च दशमं छेत्तुं प्रारब्धमृषिसत्तम ।
तावदाविरभूत्तत्र ज्योतीरूपो हरः स्वयम् ॥ ४. २८. ५० ॥
मा मेति व्याहरत् प्रीत्या द्रुतं वै भक्तवत्सलः ।
प्रसन्नश्च वरं ब्रूहि ददामि मनसेप्सितम् ॥ ५१ ॥
इत्युक्ते च तदा तेन मया दृष्टो महेश्वरः ।
प्रणतः संस्तुतश्चैव करौ बध्वा सुभक्तितः ॥ ५२ ॥
तदा वृतं मयैतच्च देहि मे ह्यतुलं बलम् ।
यदि प्रसन्नो देवेश दुर्लभं किं भवेन्मम ॥ ५३ ॥
शिवेन परितुष्टेन सर्वं दत्तं कृपालुना ।
मह्यं मनोऽभिलषितं गिरा प्रोच्य तथास्त्विति ॥ ५४ ॥
अमोघया सुदृष्ट्या वै वैद्यवद्योजितानि मे ।
शिरांसि संधयित्वा तु दृष्टानि परमात्मना ॥ ५५ ॥ .
एवं कृते तदा तत्र शरीरं पूर्ववन्मम ।
जातं तस्य प्रसादाच्च सर्वं प्राप्तं फलं मया ॥ ५६ ॥
तदा च प्रार्थितो मे संस्थितोऽसौ वृषभध्वजः ।
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोऽभूज्जगत्त्रये ॥ ५७ ॥
दर्शनात्पूजनाज्ज्योतिर्लिङ्गरूपो महेश्वरः ।
भुक्तिमुक्तिप्रदो लोके सर्वेषां हितकारकः ॥ ५८ ॥
ज्योतिर्लिङ्गमहं तद्वै पूजयित्वा विशेषतः ।
प्रणिपत्यागतश्चात्र विजेतुं भुवनत्रयम् ॥ ५९ ॥
सूत उवाच ।
तदीयं तद्वचः श्रुत्वा देवर्षिर्जातसम्भ्रमः ।
विहस्य च मनस्येव रावणं नारदोऽब्रवीत् ॥ ४. २८. ६० ॥
नारद उवाच ।
श्रूयतां राक्षसश्रेष्ठ कथयामि हितं तव ।
त्वया तदेव कर्त्तव्यं मदुक्तं नान्यथा क्वचित् ॥ ६१ ॥
त्वयोक्तं यच्छिवेनैव हितं दत्तं ममाधुना ।
तत्सर्वं च त्वया सत्यं न मन्तव्यं कदाचन ॥ ६२ ॥
अयं वै विकृतिं प्राप्तः किं किं नैव ब्रवीति च ।
सत्यं नैव भवेत्तद्वै कथं ज्ञेयं प्रियोऽसि मे ॥ ६३ ॥
इति गत्वा पुनः कार्यं कुरु त्वं ह्यहिताय वै ।
कैलासोद्धरणे यत्नः कर्तव्यश्च त्वया पुनः ॥ ६४ ॥
यदि चैवोद्धृतश्चायं कैलासो हि भविष्यति ।
तदैव सफलं सर्वं भविष्यति न संशयः ॥ ६५ ॥
पूर्ववत्स्थापयित्वा त्वं पुनरागच्छ वै सुखम् ।
निश्चयं परमं गत्वा यथेच्छसि तथा कुरु ॥ ६६ ॥
सूत उवाच ।
इत्युक्तः स हितं मेने रावणो विधिमोहितः ।
सत्यं मत्वा मुनेर्वाक्यं कैलासमगमत्तदा ॥ ६७ ॥
गत्वा तत्र समुद्धारं चक्रे तस्य गिरेः स च ।
तत्रस्थं चैव तत्सर्वं विपर्यस्तं परस्परम् ॥ ६८ ॥
गिरीशोऽपि तदा दृष्ट्वा किं जातमिति सोऽब्रवीत् ।
गिरिजा च तदा शम्भुं प्रत्युवाच विहस्य तम् ॥ ६९ ॥
गिरिजोवाच ॥
सच्छिष्यस्य फलं जातं सम्यग्जातं तु शिष्यतः ।
शान्तात्मने सुवीराय दत्तं यदतुलं बलम् ॥ ४. २८. ७० ॥
सूत उवाच ।
गिरिजायाश्च साकूतं वचः श्रुत्वा महेश्वरः ।
कृतघ्नं रावणं मत्वा शशाप बलदर्पितम् ॥ ७१ ॥
महादेव उवाच ।
रे रे रावण दुर्भक्त मा गर्वं वह दुर्मते ।
शीघ्रं च तव हस्तानां दर्पघ्नश्च भवेदिह ॥ ७२ ॥
सूत उवाव ॥
इति तत्र च यज्जातं नारदः श्रुतवांस्तदा ।
रावणोऽपि प्रसन्नात्मागात्स्वधाम यथागतम् ॥ ७३ ॥
निश्चयं परमं कृत्वा बली बलविमोहितः ।
जगद्वशं हि कृतवान् रावणः परदर्पहा ॥ ७४ ॥
शिवाज्ञया च प्राप्तेन दिव्यास्त्रेण महौजसा ।
रावणस्य प्रतिभटो नालं कश्चिदभूत्तदा ॥ ७५ ॥
इत्येतच्च समाख्यातं वैद्यनाथेश्वरस्य च ।
माहात्म्यं शृणवतां पापं नृणां भवति भस्मसात् ॥ ७६ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वैद्यनाथेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनं
नामाष्टाविंशोऽध्यायः ॥ २८ ॥
४. २९ एकोनत्रिंशोऽध्यायः
सूत उवाच ।
अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः ।
ज्योतीरूपं यथा जातं परमं लिङ्गमुत्तमम् ॥ १ ॥
दारुका राक्षसी काचित्पार्वतीवरदर्पिता ।
दारुकश्च पतिस्तस्या बभूव बलवत्तरः ॥ २ ॥
बहुभी राक्षसैस्तत्र चकार कदनं सताम् ।
यज्ञध्वंसं च लोकानां धर्मध्वंसं तदाकरोत् ॥ ३ ॥
पश्चिमे सागरे तस्य वनं सर्वसमृद्धिमत् ।
योजनानां षोडशभिर्विस्तृतं सर्वतो दिशम् ॥ ४ ॥
दारुका स्वविलासार्थं यत्र गच्छति तद्वनम् ।
भूम्या च तरुभिस्तत्र सर्वोपकरणैर्युतम् ॥ ५ ॥
दारुकायै ददौ देवी तद्वनस्यावलोकनम् ।
प्रयाति तद्वनं सा हि पत्या सह यदृच्छया ॥ ६ ॥
तत्र स्थित्वा तदा सोऽपि सर्वेषां च भयं ददौ ।
दारुको राक्षसः पत्न्या तया दारुकया सह ॥ ७ ॥
ते सर्वे पीडिता लोका और्वस्य शरणं ययुः ।
नत्वा प्रीत्या विशेषेण तमूचुर्नतमस्तकाः ॥ ८ ॥
लोका ऊचुः ॥
महर्षे शरणं देहि नो चेद्दुष्टैश्च मारिताः ।
सर्वं कर्तुं समर्थोऽसि तेजसा दीप्तिमानसि ॥ ९ ॥
पृथ्व्यां न वर्तते कश्चित्त्वां विना शरणं च नः ।
यामो यस्य समीपे तु स्थित्वा सुखमवाप्नुमः ॥ ४. २९. १० ॥
त्वां दृष्ट्वा राक्षसाः सर्वे पलायन्ते विदूरतः ।
त्वयि शैवं सदा तेजो विभाति ज्वलनो यथा ॥ ११ ॥
सूत उवाच ।
इत्येवं प्रार्थितो लोकैरौर्वो हि मुनिसत्तमः ।
शोचमानः शरण्यश्च रक्षायै हि वचोऽब्रवीत् ॥ १२ ॥
और्व उवाच ।
पृथिव्यां यदि रक्षांसि हिंस्युर्वै प्राणिनस्तदा ।
स्वयं प्राणैर्वियुज्येयू राक्षसा बलवत्तराः ॥ १३ ॥
यदा यज्ञाश्च हन्येरंस्तदा प्राणैर्वियोजिताः ।
भवंतु राक्षसाः सर्वे सत्यमेतन्मयोच्यते ॥ १४ ॥
सूत उवाच ।
इत्युक्त्वा वचनं तेभ्यः समाश्वास्य प्रजाः पुनः ।
तपश्चकार विविधमौर्वो लोकसुखावहः ॥ १५ ॥
देवास्तदा ते विज्ञाय शापस्य कारणं हि तत् ।
युद्धाय च समुद्योगं चक्रुर्देवारिभिः सह ॥ १६ ॥
सर्वैश्चैव प्रयत्नैश्च नानायुधधराः सुराः ।
सर्वे शक्रादयस्तत्र युद्धार्थं समुपागताः ॥ १७ ॥
तान्दृष्ट्वा राक्षसास्तत्र विचारे तत्पराः पुनः ।
बभूवुस्तेऽखिला दुष्टा मिथो ये यत्र संस्थिताः ॥ १८ ॥
राक्षसा ऊचुः ॥
किं कर्तव्यं क्व गन्तव्यं सङ्कटं समुपागताः ।
युद्ध्यते म्रियते चैव युद्ध्यते न विहन्यते ॥ १९ ॥
तथैव स्थीयते चेद्वै भक्ष्यते किं परस्परम् ।
दुःखं हि सर्वथा जातं क एनं विनिवारयेत् ॥ ४. २९. २० ॥
सूत उवाच ।
विचार्येति च ते तत्र दारुकाद्याश्च राक्षसाः ।
उपायं न विजानन्तो दुःखं प्राप्ताः सदा हि वै ॥ २१ ॥
दारुका राक्षसी चापि ज्ञात्वा दुःखं समागतम् ।
भवान्याश्च वरं तं च कथयामास सा तदा ॥ २२ ॥
दारुकोवाच ॥
मया ह्याराधिता पूर्वं भवपत्नी वरं ददौ ।
वनं गच्छ निजैः सार्धं यत्र गन्तुं त्वमिच्छसि ॥ २३ ॥
तद्वरश्च मया प्राप्तः कथं दुःखं विषह्यते ।
जले वनं च नीत्वा वै सुखं स्थेयं तु राक्षसैः ॥ २४ ॥
सूत उवाच ।
तस्यास्तद्वचनं श्रुत्वा राक्षस्या हर्षमागताः ।
ऊचुः सर्वे मिथस्ते हि राक्षसा निर्भयास्तदा ॥ २५ ॥
धन्येयं कृतकृत्येयं राज्ञ्या वै जीविताः स्वयम् ।
नत्वा तस्यै च तत्सर्वं कथयामासुरादरात् ॥ २६ ॥
यदि गन्तुं भवेच्छक्तिर्गम्यतां किं विचार्यते ।
तत्र गत्वा जले देवि सुखं स्थास्याम नित्यशः ॥ २७ ॥
एतस्मिन्नन्तरे लोका देवैः सार्धं समागताः ।
युद्धाय विविधैर्दुःखैः पीडिता राक्षसैः पुरा ॥ २८ ॥
पीडिताश्च तदा तस्या भवान्या बलमाश्रिताः ।
समग्रं नगरं नीत्वा जलस्थलसमन्वितम् ॥ २९ ॥
जय जयेति देव्यास्तु स्तुतिमुच्चार्य राक्षसी ।
तत उड्डीयनं कृत्वा सपक्षो गिरिराड्यथा ॥ ४. २९. ३० ॥
समुद्रस्य च मध्ये सा संस्थिता निर्भया तदा ।
सकलैः परिवारैश्च मुमुदेति शिवानुगा ॥ ३१ ॥
तत्र सिन्धौ च ते स्थित्वा नगरे च विलासिनः ।
राक्षसाश्च सुखं प्रापुर्निर्भयाश्च विजह्रिरे ॥ ३२ ॥
राक्षसाश्च पृथिव्यां वै नाजग्मुश्च कदाचन ।
मुनेः शापभयादेव बभ्रमुस्ते चले तदा ॥ ३३ ॥
नौषु स्थितान् जनान्नीत्वा नगरे तत्र तांस्तदा ।
चिक्षिपुर्बन्धनागारे कांश्चिज्जघ्नुस्तदा हि ते ॥ ३४ ॥
यथा यथा पुनः पीडां चक्रुस्ते राक्षसास्तदा ।
तत्र स्थिता भवान्याश्च वरदानाच्च निर्भयाः ॥ ३५ ॥
यथा पूर्वं स्थले लोके भयं चासीन्निरन्तरम् ।
तथा भयं जले तेषामासीन्नित्यं मुनीश्वराः ॥ ३६ ॥
कदाचिद्राक्षसी सा च निःसृता नगराज्जले ।
रुद्ध्वा मार्गं स्थिता लोकपीडार्थं धरणौ च हि ॥ ३७ ॥
एतस्मिन्नन्तरे तत्र नावो बहुतराः शुभाः ।
आगता बहुधा तत्र सर्वतो लोकसंवृताः ॥ ३८ ॥
ता नावश्च तदा दृष्ट्वा हर्षं सम्प्राप्य राक्षसाः ।
द्रुतं गत्वा हि तत्रस्थान्वेगात्सन्दध्रिरे खलाः ॥ ३९ ॥
आजग्मुर्नगरं ते च तानादाय महाबलाः ।
चिक्षिपुर्बन्धनागारे बद्ध्वा हि निगडैर्दृढैः ॥ ४. २९. ४० ॥
बद्धास्ते निगडैर्लोकाः संस्थिता बन्धनालये ।
अतीव दुःखमाजग्मुर्भर्त्सितास्ते मुहुर्मुहुः ॥ ४१ ॥
तेषां मध्ये च योऽधीशः स वैश्यः सुप्रियाभिधः ।
शिवप्रियः शुभाचारः शैवश्चासीत्सदातनः ॥ ४२ ॥
विना च शिवपूजां वै न तिष्ठति कदाचन ।
सर्वथा शिवधर्मा हि भस्मरुद्राक्षभूषणः ॥ ४३ ॥
यदि पूजा न जाता चेन्न भुनक्ति तदा तु सः ।
अतस्तत्रापि वैश्योऽसौ चकार शिवपूजनम् ॥ ४४ ॥
कारागृहगतः सोऽपि बहूंश्चाशिक्षयत्तदा ।
शिवमन्त्रं च पूजां च पार्थिवीमृषिसत्तमाः ॥ ४५ ॥
ते सर्वे च तदा तत्र शिवपूजां स्वकामदाम् ।
चक्रिरे विधिवत्तत्र यथादृष्टं यथाश्रुतम् ॥ ४६ ॥
केचित्तत्र स्थिता ध्याने बद्ध्वासनमनुत्तमम् ।
मानसीं शिवपूजां च केचिच्चक्रुर्मुदान्विताः ॥ ४७ ॥
तदाधीशेन तत्रैव प्रत्यक्षं शिवपूजनम् ।
कृतं च पार्थिवस्यैव विधानेन मुनीश्वराः ॥ ४८ ॥
अन्ये च ये न जानन्ति विधानं स्मरणं परम् ।
नमः शिवाय मन्त्रेण ध्यायन्तः शङ्करं स्थिताः ॥ ४९ ॥
सुप्रियो नाम यश्चासीद्वैश्यवर्यः शिवप्रियः ।
ध्यायँश्च मनसा तत्र चकार शिवपूजनम् ॥ ४. २९. ५० ॥
यथोक्तरूपी शम्भुश्च प्रत्यक्षं सर्वमाददे ।
सोऽपि स्वयं न जानाति गृह्यते न शिवेन वै ॥ ५१ ॥
एवं च क्रियमाणस्य वैश्यस्य शिवपूजनम् ।
व्यतीयुस्तत्र षण्मासा निर्विघ्नेन मुनीश्वराः ॥ ५२ ॥
अतः परं च यज्जातं चरितं शशिमौलिनः ।
तच्छृणुध्वमृषिश्रेष्ठाः सावधानेन चेतसा ॥ ५३ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नागेश्वरज्योतिर्लिङ्गमाहात्म्ये दारुकावनराक्षसोपद्रववर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
४. ३० त्रिंशोऽध्यायः
सूत उवाच ।
कदाचित्सेवकस्तस्य राक्षसस्य दुरात्मनः ।
तदग्रे सुन्दरं रूपं शङ्करस्य ददर्श ह ॥ १ ॥
तस्मै निवेदितं राज्ञे राक्षसानां यथार्थकम् ।
सर्वं तच्चरितं तेन सकौतुकमथाद्भुतम् ॥ २ ॥
राजापि तत्र चागत्य राक्षसानां स दारुकः ।
विह्वलः सबलः शीघ्रं पर्यपृच्छच्च तं शिवम् ॥ ३ ॥
दारुक उवाच ।
किं ध्यायसि हि वैश्य त्वं सत्यं वद ममाग्रतः ।
एवं सति न मृत्युस्ते मम वाक्यं च नान्यथा ॥ ४ ॥
सूत उवाच ।
तेनोक्तं च न जानामि तच्छ्रुत्वा कुपितः स वै ।
राक्षसान्प्रेरयामास हन्यतां राक्षसा अयम् ॥ ५ ॥
तदुक्तास्ते तदा हन्तुं नानायुधधरा गताः ।
द्रुतं तं वैश्यशार्दूलं शङ्करासक्तचेतसम् ॥ ६ ॥
तानागतांस्तदा दृष्ट्वा भयवित्रस्तलोचनः ।
शिवं सस्मार सुप्रीत्या तन्नामानि जगौ मुहुः ॥ ७ ॥
वैश्यपतिरुवाच ।
पाहि शङ्कर देवेश पाहि शम्भो शिवेति च ।
दुष्टादस्मात्त्रिलोकेश खलहन् भक्तवत्सल ॥ ८ ॥
सर्वस्वं च भवानद्य मम देव त्वमेव हि ।
त्वदधीनस्त्वदीयोऽहं त्वत्प्राणः सर्वदा प्रभो ॥ ९ ॥
सूत उवाच ।
इति सम्प्रार्थितः शम्भुर्विवरान्निर्गतस्तदा ।
भवनेनोत्तमेनाथ चतुर्द्वारयुतेन च ॥ ४. ३०. १० ॥
मध्य ज्योतिःस्वरूपं च शिवरूपं तदद्भुतम् ।
परिवारसमायुक्तं दृष्ट्वा चापूजयत्स वै ॥ ११ ॥
पूजितश्च तदा शम्भुः प्रसन्नो ह्यभवत्स्वयम् ।
अस्त्रं पाशुपतं नाम दत्त्वा राक्षसपुङ्गवान् ॥ १२ ॥
जघान सोपकरणांस्तान्सर्वान्सगणान्द्रुतम् ।
अरक्षच्च स्वभक्तं वै दुष्टहा स हि शङ्करः ॥ १३ ॥
सर्वांस्तांश्च तदा हत्वा वरं प्रादाद्वनस्य च ।
अत्यद्भुतकरः शंभुः स्वलीलात्तसुविग्रहः ॥ १४ ॥
अस्मिन्वने सदा वर्णधर्मा वै सम्भवन्तु च ।
ब्राह्मणक्षत्रियविशां शूद्राणां हि तथैव च ॥ १५ ॥
भवंत्वत्र मुनिश्रेष्ठास्तामसा न कदाचन ।
शिवधर्मप्रवक्तारः शिवधर्मप्रवर्तकाः ॥ १६ ॥
सूत उवाच ।
एतस्मिन्समये सा वै राक्षसी दारुकाह्वया ।
देव्याः स्तुतिं चकारासौ पार्वत्या दीनमानसा ॥ १७ ॥
प्रसन्ना च तदा देवी किं करोमीत्युवाच हि ।
साप्युवाच पुनस्तत्र वंशो मे रक्ष्यतां त्वया ॥ १८ ॥
रक्षयिष्यामि ते वंशं सत्यं च कथ्यते मया ।
इत्युक्त्वा च शिवेनैव विग्रहं सा चकार ह ॥ १९ ॥
शिवोऽपि कुपितां देवीं दृष्ट्वा वरवशः प्रभुः ।
प्रत्युवाचेति सुप्रीत्या यथेच्छसि तथा कुरु ॥ ४. ३०. २० ॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य स्वपतेः शङ्करस्य वै ।
सुप्रसन्ना विहस्याशु पार्वती वाक्यमब्रवीत् ॥ २१ ॥
पार्वत्युवाच ।
भवदीयं वचस्तथ्यं युगान्ते सम्भविष्यति ।
तावच्च तामसी सृष्टिर्भवत्विति मतं मम ॥ २२ ॥
अन्यथा प्रलयः स्याद्वै सत्यं मे व्याहृतं शिव ।
प्रमाणीक्रियतां नाथ त्वदीयास्मि त्वदाश्रया ॥ २३ ॥
इयं च दारुका देवी राक्षसी शक्तिका मम ।
बलिष्ठा राक्षसीनां च रक्षोराज्यं प्रशास्तु च ॥ २४ ॥
इमा राक्षसपत्न्यस्तु प्रसविष्यन्ति पुत्रकान् ।
ते सर्वे मिलिताश्चैव वने वासाय मे मताः ॥ २५ ॥
सूत उवाच ।
इत्येवं वचनं श्रुत्वा पार्वत्याः स्वस्त्रियाः प्रभुः ।
प्रसन्नमानसो भूत्वा शङ्करो वाक्यमब्रवीत् ॥ २६ ॥
शङ्कर उवाच ।
इति ब्रवीषि त्वं वै चेच्छृणु मद्वचनं प्रिये ।
स्थास्याम्यस्मिन्वने प्रीत्या भक्तानां पालनाय च ॥ २७ ॥
अत्र मे वर्णधर्मस्थो दर्शनं प्रीतिसंयुतम् ।
करिष्यति च यो वै स चक्रवर्ती भविष्यति ॥ २८ ॥
अन्यथा कलिपर्याये सत्यस्यादौ नृपेश्वरः ।
महासेनयुतो यो वै वीरसेनेति विश्रुतः ॥ २९ ॥
स मे भक्त्यातिविक्रान्तो दर्शनं मे करिष्यति ।
दर्शनं मे स कृत्वैव चक्रवर्ती भविष्यति ॥ ४. ३०. ३० ॥
सूत उवाच ।
इत्येवं दंपती तौ च कृत्वा हास्यं परस्परम् ।
स्थितौ तत्र स्वयं साक्षान्महोतीकारकौ द्विजाः ॥ ३१ ॥
ज्योतिर्लिङ्गस्वरूपो हि नाम्ना नागेश्वरः शिवः ।
नागेश्वरी शिवा देवी बभूव च सतां प्रियौ ॥ ३२ ॥
ऋषय ऊचुः ॥
वीरसेनः कथं तत्र यास्यते दारुकावने ।
कथमर्चिष्यति शिवं त्वं तद्वद महामते ॥ ३३ ॥
सूत उवाच ।
निषधे सुन्दरे देशे क्षत्रियाणां कुले च सः ।
महासेनसुतो वीरसेनश्चैव शिवप्रियः ॥ ३४ ॥
पार्थिवेशार्चनं कृत्वा तपः परमदुष्करम् ।
चकार वीरसेनो वै वर्षाणां द्वादशावधिः ॥ ३५ ॥
ततः प्रसन्नो देवेशः प्रत्यक्षं प्राह शङ्करः ।
काष्ठस्य मत्स्यिकां कृत्वा त्रपुधातुविलेपनाम् ॥ ३६ ॥
विधाय योगमायां च दास्यामि वीरसेनक ।
तां गृहीत्वा प्रविश्यैनं नौभिः सह व्रजाधुना ॥ ३७ ॥
ततस्त्वं तत्र गत्वा च विवरे च कृते मया ।
प्रविश्य च तदा पूजां कृत्वा नागेश्वरस्य च ॥ ३८ ॥
ततः पाशुपतं प्राप्य हत्वा च राक्षसीमुखान् ।
मयि दृष्टे तदा किञ्चिन्न्यूनं ते न भविष्यति ॥ ३९ ॥
पार्वत्याश्च बलं चैव सम्पूर्णं वै भविष्यति ।
अन्ये च म्लेच्छरूपा ये भविष्यन्ति वने शुभाः ॥ ४. ३०. ४० ॥
इत्युक्त्वा शङ्करस्तत्र वीरसेनं हि दुःखहा ।
कृत्वा कृपां च महतीं तत्रैवान्तर्दधे प्रभुः ॥ ४१ ॥
इति दत्तवरः सोऽपि शिवेन परमात्मना ।
शक्तः सर्वं तदा कर्तुं सम्बभूव न संशयः ॥ ४२ ॥
एवं नागेश्वरो देव उत्पन्नो ज्योतिषां पतिः ।
लिङ्गरूपस्त्रिलोकस्य सर्वकामप्रदः सदा ॥ ४३ ॥
एतद्यः शृणुयान्नित्यं नागेशोद्भवमादरात् ।
सर्वान्कामानियाद्धीमान्महापातकनाशनान् ॥ ४४ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नागेश्वरज्योतिर्लिङ्गोद्भवमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
४. ३१ एकत्रिंशोऽध्यायः
सूत उवाच ।
अतः परं प्रवक्ष्यामि लिङ्गं रामेश्वराभिधम् ।
उत्पन्नं च यथा पूर्वमृषयः शृणुतादरात् ॥ १ ॥
पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः ॥ २ ॥
तत्र सीता हृता विप्रा रावणेनोरुमायिना ।
प्रापिता स्वगृहं सा हि लङ्कायां जनकात्मजा ॥ ३ ॥
अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ।
सुग्रीवहितकृद्भूत्वा वालिनं सञ्जघान ह ॥ ४ ॥
तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ।
सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै ॥ ५ ॥
कपीन् संप्रेषयामास चतुर्दिक्षु नृपात्मजः ।
हनुमत्प्रमुखान् रामस्तदन्वेषणहेतवे ॥ ६ ॥
अथ ज्ञात्वा गतां लङ्कां सीतां कपिवराननात् ।
सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः ॥ ७ ॥
सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ।
सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः ॥ ८ ॥
पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ।
दक्षिणे सागरे यो वै दृश्यते लवणाकरः ॥ ९ ॥
तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ।
वानरैः सेव्यमानस्तु लक्ष्मणेन शिवप्रियः ॥ ४. ३१. १० ॥
हा जानकि कुतो याता कदा चेयं मिलिष्यति ।
अगाधः सागरश्चैवातार्या सेना च वानरी ॥ ११ ॥
राक्षसो गिरिधर्ता च महाबलपराक्रमः ।
लङ्काख्यो दुर्गमो दुर्ग इन्द्रजित्तनयोऽस्य वै ॥ १२ ॥
इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः ।
आश्वासितो वनौकोभिरङ्गदादिपुरः सरैः ॥ १३ ॥
एतस्मिन्नन्तरे तत्र राघवः शैवसत्तमः ।
उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम् ॥ १४ ॥
राम उवाच ।
भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ।
तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि ॥ १५ ॥
सूत उवाच ।
तच्छ्रुत्वा वानरास्तत्र ह्यधावन्त दिशो दश ।
नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः ॥ १६ ॥
वानरा ऊचुः ॥
जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया ।
महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम् ॥ १७ ॥
सूत उवाच ।
सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ।
तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम् ॥ १८ ॥
स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ।
तदा च स्मरणं जातमित्थमस्य शिवेच्छया ॥ १९ ॥
न कृतं दर्शनं शम्भोर्गृह्यते च जलं कथम् ।
स्वस्वामिनः परेशस्य सर्वानन्दप्रदस्य वै ॥ ४. ३१. २० ॥
इत्युक्त्वा च जलं मुक्तं तदा रघुवरेण च ।
पश्चाच्च पार्थिवीं पूजां चकार रघुनन्दनः ॥ २१ ॥
आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै ।
विधिवत्षोडशं प्रीत्या देवमानर्च शङ्करम् ॥ २२ ॥
प्रणिपातैः स्तवैर्दिव्यैः शिवं संतोष्य यत्नतः ।
प्रार्थयामास सद्भक्त्या स रामः शङ्करं मुदा ॥ २३ ॥
श्रीराम उवाच ।
स्वामिन् शंभो महादेव सर्वदा भक्तवत्सल ।
पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम् ॥ २४ ॥
एतज्जलमगाधं च वारिधेर्भवतारण ।
रावणाख्यो महावीरो राक्षसो बलवत्तरः ॥ २५ ॥
वानराणां बलं ह्येतच्चञ्चलं युद्धसाधनम् ।
मम कार्यं कथं सिद्धं भविष्यति प्रियाप्तये ॥ २६ ॥
तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ।
साहाय्यं ते विना नाथ मम कार्यं हि दुर्लभम् ॥ २७ ॥
त्वदीयो रावणोऽपीह दुर्जयः सर्वथाखिलैः ।
त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित् ॥ २८ ॥
अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ।
विचार्येति त्वया कार्यः पक्षपातः सदाशिव ॥ २९ ॥
सूत उवाच ।
इत्येवं स च सम्प्रार्थ्य नमस्कृत्य पुनः पुनः ।
तदा जय जयेत्युच्चैरुद्घोषैः शङ्करेति च ॥ ४. ३१. ३० ॥
इति स्तुत्वा शिवं तत्र मन्त्रध्यानपरायणः ।
पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह ॥ ३१ ॥
प्रेमविक्लिन्नहृदयो गल्लनादं यदाकरोत् ।
तदा च शङ्करो देवः सुप्रसन्नो बभूव ह ॥ ३२ ॥
साङ्गः सपरिवारश्च ज्योतीरूपो महेश्वरः ।
यथोक्तरूपममलं कृत्वाविरभवद् द्रुतम् ॥ ३३ ॥
ततः सन्तुष्टहृदयो रामभक्त्या महेश्वरः ।
शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत् ॥ ३४ ॥
तद्रूपं च तदा दृष्टवा सर्वे पूतास्ततः स्वयम् ।
कृतवान् राघवः पूजां शिवधर्मपरायणः ॥ ३५ ॥
स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ।
जयं च प्रार्थयामास रावणाजौ तदात्मनः ॥ ३६ ॥
ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ।
जयोऽस्तु ते महाराज प्रीत्या स पुनरब्रवीत् ॥ ३७ ॥
शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ।
पुनश्च प्रार्थयामास साञ्जलिर्नतमस्तकः ॥ ३८ ॥
। श्रीराम उवाच ॥
त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ।
परेषामुपकारार्थं यदि तुष्टोऽसि शङ्कर ॥ ३९ ॥
। सूत उवाच ॥
इत्युक्तस्तु शिवस्तत्र लिङ्गरूपोऽभवत्तदा ।
रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले ॥ ४. ३१. ४० ॥
रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चाञ्जसा ।
रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम् ॥ ४१ ॥
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः ॥ ४२ ॥
दिव्यगङ्गाजलेनैव स्नापयिष्यति यः शिवम् ।
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ॥ ४३ ॥
इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ।
अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद् ध्रुवम् ॥ ४४ ॥
इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ।
रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम् ॥ ४५ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
४. ३२ द्वात्रिंशोऽध्यायः
। सूत उवाच ॥
अतः परं च घुश्मेशं ज्योतिर्लिङ्गमुदाहृतम् ।
तस्यैव च सुमाहात्म्यं श्रूयतामृषिसत्तमाः ॥ १ ॥
दक्षिणस्यां दिशि श्रेष्ठो गिरिर्देवेति संज्ञकः ।
महाशोभान्वितो नित्यं राजतेऽद्भुतदर्शनः ॥ २ ॥
तस्यैव निकटे कश्चिद्भारद्वाजकुलोद्भवः ।
सुधर्मा नाम विप्रश्च न्यवसद् ब्रह्मवित्तमः ॥ ३ ॥
तस्य प्रिया सुदेहा च शिवधर्मपरायणा ।
पतिसेवापरा नित्यं गृहकर्मविचक्षणा ॥ ४ ॥
सुधर्मा च द्विजश्रेष्ठो देवतातिथिपूजकः ।
वेदमार्गपरो नित्यमग्निसेवापरायणः ॥ ५ ॥
त्रिकालसन्ध्यया युक्तः सूर्यरूपसमद्युतिः ।
शिष्याणां पाठकश्चैव वेदशास्त्रविचक्षणः ॥ ६ ॥
धनवांश्च परो दाता सौजन्यगुणभाजनः ।
शिवकर्मरतो नित्यं शैवः शैवजनप्रियः ॥ ७ ॥
आयुर्बहु व्यतीयाय तस्य धर्मं प्रकुर्वतः ।
पुत्रश्च नाभवत्तस्य ऋतुः स्यादफलः स्त्रियाः ॥ ८ ॥
तेन दुःखं कृतं नैव वस्तुज्ञानपरेण हि ।
आत्मनस्तारकश्चात्मा ह्यात्मनः पावनश्च सः ॥ ९ ॥
इत्येवं मानसं धृत्वा दुःखं न कृतवान्स्तदा ।
सुदेहा च तदा दुःखं चकारापुत्रसम्भवम् ॥ ४. ३२. १० ॥
नित्यं च स्वामिनं सा वै प्रार्थयद्यत्नसाधने ।
पुत्रोत्पादनहेतोश्च सर्वविद्याविशारदम् ॥ ११ ॥
सोऽपि स्त्रियं तदाभर्त्स्य किं पुत्रश्च करिष्यति ।
का माता कः पिता पुत्रः को बन्धुश्च प्रियश्च कः ॥ १२ ॥
सर्वं स्वार्थपरं देवि त्रिलोक्यां नात्र संशयः ।
जानीहि त्वं विशेषेण बुद्ध्या शोकं न वै कुरु ॥ १३ ॥
तस्माद्देवि त्वया दुःखं त्यजनीयं सुनिश्चितम् ।
नित्यं मह्यं त्वया नैव कथनीयं शुभव्रते ॥ १४ ॥
एवं तां सन्निवार्यैव भगवद्धर्मतत्परः ।
आसीत्परमसन्तुष्टो द्वन्द्वदुःखं समत्यजत् ॥ १५ ॥
कदाचिच्च सुदेहा वै गेहे च सहवासिनः ।
जगाम प्रियगोष्ठ्यर्थं विवादस्तत्र सङ्गतः ॥ १६ ॥
तत्पत्नी स्त्रीस्वभावाच्च भर्त्सिता सा तया तदा ।
उक्ता चेति दुरुक्त्या वै सुदेहा विप्रकामिनी ॥ १७ ॥
पत्न्युवाच ।
अपुत्रिणि कथं गर्वं कुरुषे पुत्रिणी ह्यहम् ।
मद्धनं भोक्ष्यते पुत्रो धनं ते कश्च भोक्ष्यते ॥ १८ ॥
नूनं हरिष्यते राजा त्वद्धनं नात्र संशयः ।
धिग्धिक्त्वां ते धनं धिक्च धिक् ते मानं हि वन्ध्यके ॥ १९ ॥
सूत उवाच ।
भर्त्सिता ताभिरिति सा गृहमागत्य दुःखिता ।
स्वामिने कथयामास तदुक्तं सर्वमादरात् ॥ ४. ३२. २० ॥
ब्राह्मणोऽपि तदा दुःखं न चकार सुबुद्धिमान् ।
कथितं कथ्यतामेव यद्भावि तद्भवेत्प्रिये ॥ २१ ॥
इत्येवं च तदा तेन ह्याश्वस्तापि पुनः पुनः ।
न तदा सात्यजद्दुःखं ह्याग्रहं कृतवत्यसौ ॥ २२ ॥
सुदेहोवाच ॥
यथा तथा त्वया पुत्रः समुत्पाद्यः प्रियोऽसि मे ।
त्यक्षयामि ह्यन्यथाहं च देहं देहभृतां वर ॥ २३ ॥
सूत उवाच ।
एवमुक्तं तया श्रुत्वा सुधर्मा ब्राह्मणोत्तमः ।
शिवं सस्मार मनसा तदाग्रहनिपीडितः ॥ २४ ॥
अग्नेरग्रेऽक्षिपत्पुष्पद्वयं विप्रो ह्यतन्द्रितः ।
मनसा दक्षिणं पुष्पं तन्मेने पुत्रकामदम् ॥ २५ ॥
एवं कृत्वा पणं पत्नीमुवाच ब्राह्मणः स च ।
अनयोर्ग्राह्यमेकं ते पुष्पं पुत्रफलाप्तये ॥ २६ ॥
तया च मनसा धृत्वा पुत्रश्चैव भवेन्मम ।
तदा च स्वामिना यच्च धृतं पुष्पं समेतु माम् ॥ २७ ॥
इत्युक्त्वा च तया तत्र नमस्कृत्य शिवं तदा ।
नत्वा चाग्निं पुनः प्रार्थ्य गृहीतं पुष्पमेककम् ॥ २८ ॥
स्वामिना चिन्तितं यच्च तद् गृहीतं तया न हि ।
सुदेहया विमोहेन शिवेच्छासम्भवेन वै ॥ २९ ॥
तद् दृष्ट्वा पुरुषश्चैव निःश्वासं पर्यमोचयत् ।
स्मृत्वा शिवपदाम्भोजमुवाच निजकामिनीम् ॥ ४. ३२. ३० ॥
सुधर्मोवाच ॥
निर्मितं चेश्वरेणैव कथं चैवान्यथा भवेत् ।
आशां त्यज प्रिये त्वं च परिचर्यां कुरु प्रभोः ॥ ३१ ॥
इत्युक्त्वा तु स्वयं विप्र आशां परिविहाय च ।
धर्मकार्यरतः सोऽभूच्छङ्करध्यानतत्परः ॥ ३२ ॥
सा सुदेहाग्रहं नैव मुमोचात्मजकाम्यया ।
प्रत्युवाच पतिं प्रेम्णा साञ्जलिर्नतमस्तका ॥ ३३ ॥
सुदेहोवाच ॥
मयि पुत्रो न चास्त्वन्यां पत्नीं कुरु मदाज्ञया ।
तस्यां नूनं सुतश्चैव भविष्यति न संशयः ॥ ३४ ॥
सूत उवाच ।
तदैव प्रर्थितो वै स ब्रह्मणः शैवसत्तमः ।
उवाच स्वप्रियां तां च सुदेहां धर्मतत्परः ॥ ३५ ॥
सुधर्मोवाच ॥
त्वदीयं च मदीयं च सर्वं दुःखं गतं ध्रुवम् ।
तस्मात्त्वं धर्मविघ्नं च प्रिये मा कुरु साम्प्रतम् ॥ ३६ ॥
सूत उवाच ।
इत्येवं वारिता सा च स्वमातुः पुत्रिकां तदा ।
गृहमानीय भर्तारं वृणु त्वेनामिदं जगौ ॥ ३७ ॥
सुधर्मोवाच ॥
इदानीं वदसि त्वं च मत्प्रियेयं ततः पुनः ।
पुत्रसूश्च यदा स्याद्वै तदा स्पर्धां करिष्यसि ॥ ३८ ॥
सूत उवाच ।
इत्युक्ता तेन पतिना सा सुदेहा च तत्प्रिया ।
पुनः प्राह करौ बद्ध्वा सुधर्माणं पतिं द्विजाः ॥ ३९ ॥
नाहं स्पर्धां भगिन्या वै करिष्ये द्विजसत्तम ।
उपयच्छस्व पुत्रार्थमिमामाज्ञापयामि च ॥ ॥ ४. ३२. ४० ॥
इत्येवं प्रार्थितः सोऽपि सुधर्मा प्रियया तया ।
घुश्मां तां समुपायंस्त विवाहविधिना द्विजः ॥ ४१ ॥
ततस्तां परिणीयाथ प्रार्थयामास तां द्विजः ।
त्वदीयेयं कनिष्ठा हि सदा पोष्याऽनघे प्रिये ॥ ४२ ॥
उक्त्वैवं स च धर्मात्मा सुधर्मा शैवसत्तमः ।
यथायोग्यं चकाराशु धर्मसङ्ग्रहमात्मनः ॥ ४३ ॥
सा चापि मातृपुत्रीं तां सखीवत्पर्यवर्त्तत ।
परित्यज्य विरोधं हि पुपोषाहर्निशं प्रिया ॥ ४४ ॥
कनिष्ठा चैव या पत्नी स्वस्रनुज्ञामवाप्य च ।
पार्थिवान्सा चकाराशु नित्यमेकोत्तरं शतम् ॥ ४५ ॥
विधानपूर्वकं घुश्मा सोपचारसमन्वितम् ।
कृत्वा तान्प्राक्षिपत्तत्र तडागे निकटस्थिते ॥ ४६ ॥
एवं नित्यं सा चकार शिवपूजां स्वकामदाम् ।
विसृज्य पुनरावाह्य तत्सपर्य्याविधानतः ॥ ४७ ॥
कुर्वन्त्या नित्यमेवं हि तस्याः शङ्करपूजनम् ।
लक्षसङ्ख्याभवत्पूर्णा सर्वकामफलप्रदा ॥ ४८ ॥
कृपया शङ्करस्यैव तस्याः पुत्रो व्यजायत ।
सुन्दरः सुभगश्चैव कल्याणगुणभाजनः ॥ ४९ ॥
तं दृष्ट्वा परमप्रीतः स विप्रो धर्मवित्तमः ।
अनासक्तः सुखं भेजे ज्ञानधर्मपरायणः ॥ ४. ३२. ५० ॥
सुदेहा तावदस्यास्तु स्पर्धामुग्रां चकार सा ।
प्रथमं शीतलं तस्या हृदयं ह्यसिवत्पुनः ॥ ५१ ॥
ततः परं च यज्जातं कुत्सितं कर्म दुःखदम् ।
सावधानेन मनसा श्रूयतां तन्मुनीश्वराः ॥ ५२ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां घुश्मेश्वरमाहात्म्ये सुदेहासुधर्माचरितवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
४. ३३ त्रयस्त्रिंशोऽध्यायः
सूत उवाच ।
पुत्रं दृष्ट्वा कनिष्ठाया ज्येष्ठा दुःखमुपागता ।
विरोधं सा चकाराशु न सहन्ती च तत्सुखम् ॥ १ ॥
सर्वे पुत्रप्रसूतिं तां प्रशसंसुर्निरन्तरम् ।
तया तत्सह्यते न स्म शिशो रूपादिकं तथा ॥ २ ॥
सुप्रियं तनयं तं च पित्रोः सद्गुणभाजनम् ।
दृष्ट्वाभवत्तदा तस्या हृदयं तप्तमग्निवत् ॥ ३ ॥
एतस्मिन्नन्तरे विप्राः कन्यां दातुं समागताः ।
विवाहं तस्य तत्रैव चकार विधिवच्च सः ॥ ४ ॥
सुधर्मा घुश्मया सार्धमानन्दं परं गतः ।
सर्वे सम्बन्धिनस्तस्यां घुश्मायां मानमादधुः ॥ ५ ॥
तं दृष्ट्वा सा सुदेहा हि मनसि ज्वलिता तदा ।
अत्यन्तं दुःखमापन्ना हा हतास्मीति वादिनी ॥ ६ ॥
सुधर्मा गृहमागत्य वधूं पुत्रं विवाहितम् ।
उत्साहं दर्शयामास प्रियाभ्यां हर्षयन्निव ॥ ७ ॥
अभवद् हर्षिता घुश्मा सुदेहा दुःखमागता ।
न सहन्ती सुखं तच्च दुःखं कृत्वापतद्भुवि ॥ ८ ॥
घुश्मावदद्वधूपुत्रौ त्वदीयौ न मदीयकौ ।
वधूः पुत्रश्च तां प्रीत्या प्रसूं श्वश्रूममन्यत ॥ ९ ॥
भर्ता प्रियां तां ज्येष्ठां च मेने नैव कनिष्ठिकाम् ।
तथापि सा तदा ज्येष्ठा स्वान्तर्मलवती ह्यभूत् ॥ ४. ३३. १० ॥
एकस्मिन्दिवसे ज्येष्ठा सा सुदेहा च दुःखिनी ।
हृदये सञ्चिचिन्तेति दुःखशान्तिः कथं भवेत् ॥ ११ ॥
सुदेहोवाच ॥
मदीयो हृदयाग्निश्च घुश्मानेत्रजलेन वै ।
भविष्यति ध्रुवं शान्तो नान्यथा दुःखजेन हि ॥ १२ ॥
अतोऽहं मारयाम्यद्य तत्पुत्रं प्रियवादिनम् ।
अग्रे भावि भवेदेवं निश्चयः परमो मम ॥ १३ ॥
सूत उवाच ।
कदर्याणां विचारश्च कृत्याकृत्ये भवेन्नहि ।
कठोरः प्रायशो विप्राः सापत्नो भाव आत्महा ॥ १४ ॥
एकस्मिन्दिवसे ज्येष्ठा सुप्तं पुत्रं वधूयुतम् ।
चिच्छिदे निशि चाङ्गेषु गृहीत्वा छुरिकां च सा ॥ १५ ॥
सर्वाङ्गं खण्डयामास रात्रौ घुश्मासुतस्य सा ।
नीत्वा सरसि तत्रैवाक्षिपद् दृप्ता महाबला ॥ १६ ॥
यत्र क्षिप्तानि लिङ्गानि घुश्मया नित्यमेव हि ।
तत्र क्षिप्त्वा समायाता सुष्वाप सुखमागता ॥ १७ ॥
प्रातश्चैव समुत्थाय घुश्मा नित्यं तथाकरोत् ।
सुधर्मा च स्वयं श्रेष्ठो नित्यकर्म समाचरत् ॥ १८ ॥
एतस्मिन्नन्तरे सा च ज्येष्ठा कार्यं गृहस्य वै ।
चकारानन्दसंयुक्ता सुशान्तहृदयानला ॥ १९ ॥
प्रातःकाले समुत्थाय वधूः शय्यां विलोक्य सा ।
रुधिरार्द्रां देहखण्डैर्युक्तां दुःखमुपागता ॥ ४. ३३. २० ॥
श्वश्रूं निवेदयामास पुत्रस्ते च कुतो गतः ।
शय्या च रुधिरार्द्रा वै दृश्यन्ते देहखण्डकाः ॥ २१ ॥
हा हतास्मि कृतं केन दुष्टं कर्म शुचिव्रते ।
इत्युच्चार्य रुरोदाति विविधं तत्प्रिया च सा ॥ २२ ॥
ज्येष्ठा दुःखं तदापन्ना हा हतास्मि किलेति च ।
बहिर्दुःखं चकारासौ मनसा हर्षसंयुता ॥ २३ ॥
घुश्मा चापि तदा तस्या वध्वा दुःखं निशम्य सा ।
न चचाल व्रतात्तस्मान्नित्यपार्थिवपूजनात् ॥ २४ ॥
मनश्चैवोत्सुकं नैव जातं तस्या मनागपि ।
भर्तापि च तथैवासीद्यावद् व्रतविधिर्भवेत् ॥ २५ ॥
मध्याह्ने पूजनान्ते च दृष्ट्वा शय्यां भयावहाम् ।
तथापि न तदा किञ्चित्कृतं दुःखं हि घुश्मया ॥ २६ ॥
येनैव चार्पितश्चायं स वै रक्षां करिष्यति ।
भक्तप्रियः स विख्यातः कालकालः सतां गतिः ॥ २७ ॥
यदि नो रक्षिता शम्भुरीश्वरः प्रभुरेकलः ।
मालाकार इवासौ यान्युङ्क्ते तान्वियुनक्ति च ॥ २८ ॥
अद्य मे चिन्तया किं स्यादिति तत्त्वं विचार्य सा ।
न चकार तदा दुःखं शिवे धैर्यं समागता ॥ २९ ॥
पार्थिवांश्च गृहीत्वा सा पूर्ववत्स्वस्थमानसा ।
शम्भोर्नामान्युच्चरन्ती जगाम सरसस्तटे ॥ ४. ३३. ३० ॥
क्षिप्त्वा च पार्थिवांस्तत्र परावर्तत सा यदा ।
तदा पुत्रस्तडागस्थो दृश्यते स्म तटे तया ॥ ३१ ॥
पुत्र उवाच ।
मातरेहि मिलिष्यामि मृतोऽहं जीवितोऽधुना ।
तव पुण्यप्रभावाद्धि कृपया शङ्करस्य वै ॥ ३२ ॥
। सूत उवाच ॥
जीवितं तं सुतं दृष्ट्वा घुश्मा सा तत्प्रसूर्द्विजाः ।
प्रहृष्टा नाभवत्तत्र दुःखिता न यथा पुरा ॥ ३३ ॥
एतस्मिन्समये तत्र स्वाविरासीच्छिवो द्रुतम् ।
ज्योतीरूपो महेशश्च सन्तुष्टः प्रत्युवाच ह ॥ ३४ ॥
शिव उवाच ।
प्रसन्नोऽस्मि वरं ब्रूहि दुष्टया मारितो ह्ययम् ।
एनां च मारयिष्यामि त्रिशूलेन वरानने ॥ ३५ ॥
सूत उवाच ।
घुश्मा तदा वरं वव्रे सुप्रणम्य शिवं नता ।
रक्षणीया त्वया नाथ सुदेहेयं स्वसा मम ॥ ३६ ॥
शिव उवाच ।
अपकारः कृतस्तस्यामुपकारः कथं त्वया ।
क्रियते हननीया च सुदेहा दुष्टकारिणी ॥ ३७ ॥
घुश्मोवाच ॥
तव दर्शनमात्रेण पातकं नैव तिष्ठति ।
इदानीं त्वां च वै दृष्ट्वा तत्पापं भस्मतां व्रजेत् ॥ ३८ ॥
अपकारेषु यश्चैव ह्युपकारं करोति च ।
तस्य दर्शनमात्रेण पापं दूरतरं व्रजेत् ॥ ३९ ॥
इति श्रुतं मया देव भगवद्वाक्यमद्भुतम् ।
तस्माच्चैवं कृतं येन क्रियतां च सदाशिव ॥ ४. ३३. ४० ॥
सूत उवाच ।
इत्युक्तस्तु तया तत्र प्रसन्नोऽत्यभवत्पुनः ।
महेश्वरः कृपासिन्धुः तामूचे भक्तवत्सलः ॥ ४१ ॥
शिव उवाच ।
अन्यद्वरं ब्रूहि घुश्मे ददामि च हितं तव ।
त्वद्भक्त्या सुप्रसन्नोऽस्मि निर्विकारस्वभावतः ॥ ४२ ॥
सूत उवाच ।
सोवाच तद्वचः श्रुत्वा यदि देवो वरस्त्वया ।
लोकानां चैव रक्षार्थमत्र स्थेयं मदाख्यया ॥ ४३ ॥
तदोवाच शिवस्तत्र सुप्रसन्नो महेश्वरः ।
स्थास्येऽत्र तव नाम्नाहं घुश्मेशाख्यः सुखप्रदः ॥ ४४ ॥
घुश्मेशाख्यं सुप्रसिद्धं लिङ्गं मे जायतां शुभम् ।
इदं सरस्तु लिङ्गानामालयं जायतां सदा ॥ ४५ ॥
तस्माच्छिवालयं नाम प्रसिद्धं भुवनत्रये ।
सर्वकामप्रदं ह्येतद्दर्शनात्स्यात्सदा सरः ॥ ४६ ॥
तव वंशे शतं चैकं पुरुषावधि सुव्रते ।
ईदृशाः पुत्रकाः श्रेष्ठा भविष्यन्ति न संशयः ॥ ४७ ॥
सुस्त्रीकाः सुधनाश्चैव स्वायुष्याश्च विचक्षणाः ।
विद्यावन्तो ह्युदाराश्च भुक्तिमुक्तिफलाप्तये ॥ ४८ ॥
शतमेकोत्तरं चैव भविष्यन्ति गुणाधिकाः ।
ईदृशो वंशविस्तारो भविष्यति सुशोभनः ॥ ४९ ॥
सूत उवाच ।
इत्युक्त्वा च शिवस्तत्र लिङ्गरूपोऽभवत्तदा ।
घुश्मेशो नाम विख्यातः सरश्चैव शिवालयम् ॥ ४. ३३. ५० ॥
सुधर्मा स च घुश्मा च सुदेहा च समागताः ।
प्रदक्षिणं शिवस्याशु शतमेकोत्तरं दधुः ॥ ५१ ॥
पूजां कृत्वा महेशस्य मिलित्वा च परस्परम् ।
हित्वा चान्तर्मलं तत्र लेभिरे परमं सुखम् ॥ ५२ ॥
पुत्रं दृष्ट्वा सुदेहा सा जीवितं लज्जिताभवत् ।
तौ क्षमाप्याचरद्विप्रा निजपापापहं व्रतम् ॥ ५३ ॥
घुश्मेशाख्यमिदं लिङ्गमित्थं जातं मुनीश्वराः ।
तद् दृष्ट्वा पूजयित्वा हि सुखं संवर्धते सदा ॥ ५४ ॥
इति वश्च समाख्याता ज्योतिर्लिङ्गावली मया ।
द्वादशप्रमिता सर्वकामदा भुक्तिमुक्तिदा ॥ ५५ ॥
एतज्ज्योतिर्लिङ्गकथां यः पठेच्छृणुयादपि ।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति ॥ ५६ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
४. ३४ चतुस्त्रिंशोऽध्यायः
व्यास उवाच ।
इति श्रुत्वा वचस्तस्य सूतस्य च मुनीश्वराः ।
समूचुस्तं सुप्रशस्य लोकानां हितकाम्यया ॥ १ ॥
ऋषय ऊचुः ॥
सूत सर्वं विजानासि ततः पृच्छामहे वयम् ।
हरीश्वरस्य लिङ्गस्य महिमानं वद प्रभो ॥ २ ॥
चक्रं सुदर्शनं प्राप्तं विष्णुनेति श्रुतं पुरा ।
तदाराधनतस्तात तत्कथां च विशेषतः ॥ ३ ॥
सूत उवाच ।
श्रूयतां च ऋषिश्रेष्ठा हरीश्वरकथा शुभा ।
यतः सुदर्शनं लब्धं विष्णुना शङ्करात्पुरा ॥ ४ ॥
कस्मिंश्चित्समये दैत्याः सञ्जाता बलवत्तराः ।
लोकांस्ते पीडयामासुर्धर्मलोपं च चक्रिरे ॥ ५ ॥
ते देवाः पीडिता दैत्यैर्महाबलपराक्रमैः ।
स्वं दुःखं कथयामासुर्विष्णुं निर्जररक्षकम् ॥ ६ ॥
देवा ऊचुः ॥
कृपां कुरु प्रभो त्वं च दैत्यैः सम्पीडिता भृशम् ।
कुत्र यामश्च किं कुर्मः शरण्यं त्वां समाश्रिताः ॥ ७ ॥
सूत उवाच ।
इत्येवं वचनं श्रुत्वा देवानां दुःखितात्मनाम् ।
स्मृत्वा शिवपदांभोजं विष्णुर्वचनमब्रवीत् ॥ ८ ॥
विष्णुरुवाच ।
करिष्यामि च वः कार्यमाराध्य गिरिशं सुराः ।
बलिष्ठाः शत्रवो ह्येते विजेतव्याः प्रयत्नतः ॥ ९ ॥
सूत उवाच ।
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।
मत्वा दैत्यान्हतान्दुष्टान्ययुर्धाम स्वकं स्वकम् ॥ ४. ३४. १० ॥
विष्णुरप्यमराणां तु जयार्थमभजच्छिवम् ।
सर्वामराणामधिपं सर्वसाक्षिणमव्ययम् ॥ ११ ॥
गत्वा कैलासनिकटे तपस्तेपे हरिः स्वयम् ।
कृत्वा कुण्डं च संस्थाप्य जातवेदसमग्रतः ॥ १२ ॥
पार्थिवेन विधानेन मन्त्रैर्नानाविधैरपि ।
स्तोत्रैश्चैवाप्यनेकैश्च गिरिशं चाभजन्मुदा ॥ १३ ॥
कमलैः सरसो जातैर्मानसाख्यान्मुनीश्वराः ।
बद्ध्वा चैवासनं तत्र न चचाल हरिः स्वयम् ॥ १४ ॥
प्रसादावधि चैवात्र स्थेयं वै सर्वथा मया ।
इत्येवं निश्चयं कृत्वा समानर्च शिवं हरिः ॥ १५ ॥
यदा नैव हरस्तुष्टो बभूव हरये द्विजाः ।
तदा स भगवान्विष्णुर्विचारे तत्परोऽभवत् ॥ १६ ॥
विचार्यैवं स्वमनसि सेवनं बहुधा कृतम् ।
तथापि न हरस्तुष्टो बभूवोतिकरः प्रभुः ॥ १७ ॥
ततः सुविस्मितो विष्णुर्भक्त्या परमयान्वितः ।
सहस्रैर्नामभिः प्रीत्या तुष्टाव परमेश्वरम् ॥ १८ ॥
प्रत्येकं कमलं तस्मै नाममन्त्रमुदीर्य च ।
पूजयामास वै शम्भुं शरणागतवत्सलम् ॥ १९ ॥
परीक्षार्थं विष्णुभक्तेस्तदा वै शङ्करेण ह ।
कमलानां सहस्रात्तु हृतमेकं च नीरजम् ॥ ४. ३४. २० ॥
न ज्ञातं विष्णुना तच्च मायाकारणमद्भुतम् ।
न्यूनं तच्चापि संज्ञाय तदन्वेषणतत्परः ॥ २१ ॥
बभ्राम सकलां पृथ्वीं तत्प्रीत्यै सुदृढव्रतः ।
तदप्राप्य विशुद्धात्मा नेत्रमेकमुदाहरत् ॥ २२ ॥
तं दृष्ट्वा स प्रसन्नोऽभूच्छङ्करः सर्वदुःखहा ।
आविर्बभूव तत्रैव जगाद वचनं हरिम् ॥ २३ ॥
शिव उवाच ।
प्रसन्नोऽस्मि हरे तुभ्यं वरं ब्रूहि यथेप्सितम् ।
मनोऽभिलषितं दद्मि नादेयं विद्यते तव ॥ २४ ॥
सूत उवाच ।
तच्छ्रुत्वा शंभुवचनं केशवः प्रीतमानसः ।
महाहर्षसमापन्नो ह्यब्रवीत्साञ्जलिः शिवम् ॥ २५ ॥
विष्णुरुवाच ।
वाच्यं किं मे त्वदग्रे वै ह्यन्तर्यामी त्वमास्थितः ।
तथापि कथ्यते नाथ तव शासनगौरवात् ॥ २६ ॥
दैत्यैश्च पीडितं विश्वं सुखं नो नः सदाशिव ।
दैत्यान् हन्तुं मम स्वामिन्स्वायुधं न प्रवर्तते ॥ २७ ॥
किं करोमि क्व गच्छामि नान्यो मे रक्षकः परः ।
अतोऽहं परमेशान शरणं त्वां समागतः ॥ २८ ॥
सूत उवाच ।
इत्युक्त्वा च नमस्कृत्य शिवाय परमात्मने ।
स्थितश्चैवाग्रतः शंभोः स्वयं च पुरुपीडितः ॥ २९ ॥
सूत उवाच ।
इति श्रुत्वा वचो विष्णोर्देवदेवो महेश्वरः ।
ददौ तस्मै स्वकं चक्रं तेजोराशिं सुदर्शनम् ॥ ४. ३४. ३० ॥
तत्प्राप्य भगवान्विष्णुर्दैत्यांस्तान्बलवत्तरान् ।
जघान तेन चक्रेण द्रुतं सर्वान्विना श्रमम् ॥ ३१ ॥
जगत्स्वास्थ्यं परं लेभे बभूवुः सुखिनः सुराः ।
सुप्रीतः स्वायुधं प्राप्य हरिरासीन्महासुखी ॥ ३२ ॥
ऋषय ऊचुः ॥
किं तन्नामसहस्रं वै कथय त्वं हि शाङ्करम् ।
येन तुष्टो ददौ चक्रं हरये स महेश्वरः ॥ ३३ ॥
तन्माहात्म्यं मम ब्रूहि शिवसंवादपूर्वकम् ।
कृपालुत्वं च शम्भोर्हि विष्णूपरि यथातथम् ॥ ३४ ॥
व्यास उवाच ।
इति तेषां वचः श्रुत्वा मुनीनां भावितात्मनाम् ।
स्मृत्वा शिवपदाम्भोजं सूतो वचनमब्रवीत् ॥ ३५ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
४. ३५ पञ्चत्रिंशोध्यायः
सूत उवाच ।
श्रूयतां भो ऋषिश्रेष्ठा येन तुष्टो महेश्वरः ।
तदहं कथयाम्यद्य शैवं नामसहस्रकम् ॥ १ ॥
श्रीविष्णुरुवाच ।
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ।
अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥ २ ॥
चन्द्रापीडश्चन्द्रमौलिर्विश्वं विश्वम्भरेश्वरः ।
वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ ३ ॥
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ॥ ४ ॥
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।
वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५ ॥
विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ।
सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६ ॥
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ।
तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७ ॥
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।
उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८ ॥
दिव्यायुधः स्कन्दगुरुः परमेष्ठी परात्परः ।
अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९ ॥
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो मृदुः ।
समाधिवेद्यः कोदण्डी नीलकण्ठः परश्वधी ॥ ४. ३५. १० ॥
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ।
धर्मधाम क्षमाक्षेत्रं भगवान् भगनेत्रभित् ॥ ११ ॥
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परन्तपः ।
दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ १२ ॥
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।
लोककर्ता मृगपतिर्महाकर्ता महौषधिः ॥ १३ ॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १४ ॥
सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ।
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १५ ॥
अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।
लोककरो वेदकरः सूत्रकारः सनातनः ॥ १६ ॥
महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥ १७ ॥
धातृधामा धामकरः सर्वगः सर्वगोचरः ।
ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारप्रियः कविः ॥ १८ ॥
शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ।
गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९ ॥
विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकायश्च सुकीर्तिशिछन्नसंशयः ॥ ४. ३५. २० ॥
कामदेवः कामपालो भस्मोद्धूलितविग्रहः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ २१ ॥
समावर्तोऽनिवृत्तात्मा धर्मपुञ्जः सदाशिवः ।
अकल्मषश्चतुर्बाहुर्दुरावासो दुरासदः ॥ २२ ॥
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ २३ ॥
शुभाङ्गो लोकसारङ्गो जगदीशो जनार्दनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४ ॥
असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ।
हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५ ॥
महाह्रदो महागर्तः सिद्धवृन्दारवन्दितः ।
व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः ॥ २६ ॥
अमृताशोऽमृतवपुः पाञ्चजन्यः प्रभञ्जनः ।
पञ्चविंशतितत्त्वस्थः पारिजातः परावरः ॥ २७ ॥
सुलभः सुव्रतः शूरो ब्रह्मवेदनिधिर्निधिः ।
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८ ॥
आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ।
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ २९ ॥
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ।
सत्यः सत्यपरोऽदीनो धर्माङ्गो धर्मसाधनः ॥ ४. ३५. ३० ॥
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।
अभिवाद्यो महामायो विश्वकर्मविशारदः ॥ ३१ ॥
वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः ॥ ३२ ॥
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तरस्वी तारको धीमान् प्रधानः प्रभुरव्ययः ॥ ३३ ॥
लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ।
वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ॥ ३४ ॥
चन्द्रः सूर्यः शनिः केतुर्वराङ्गो विद्रुमच्छविः ।
भक्तिवश्यः परब्रह्म मृगबाणार्पणोऽनघः ॥ ३५ ॥
अद्रिरद्र्यालयः कान्तः परमात्मा जगद्गुरुः ।
सर्वकर्मालयस्तुष्टो मङ्गल्यो मङ्गलावृतः ॥ ३६ ॥
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७ ॥
संवत्सरकरो मन्त्रप्रत्ययः सर्वदर्शनः ।
अजः सर्वेश्वरः सिद्धो महारेता महाबलः ॥ ३८ ॥
योगी योग्यो महातेजाः सिद्धिः सर्वादिरग्रहः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९ ॥
सुकीर्तिशोभनः श्रीमान् वेदाङ्गो वेदविन्मुनिः ।
भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ ४. ३५. ४० ॥
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ।
कमण्डलुधरो धन्वी अवाङ्मनसगोचरः ॥ ४१ ॥
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ।
कालयोगी महानादो महोत्साहो महाबलः ॥ ४२ ॥
महाबुद्धिर्महावीर्यो भूतचारी पुरंदरः ।
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३ ॥
अनिर्देश्यवपुः श्रीमान् सर्वाचार्यो मनोगतिः ।
बहुश्रुतोऽमहामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४ ॥
ओजस्तेजोद्युतिधरो जनकः सर्वशासनः ।
नृत्यप्रियो नित्यनृत्यः प्रकाशात्मा प्रकाशकः ॥ ४५ ॥
स्पष्टाक्षरो बुधो मन्त्रः समानः सारसम्प्लवः ।
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ४६ ॥
इष्टोऽविशिष्टः शिष्टेष्टः सुलभः सारशोधनः ।
तीर्थरूपस्तीर्थनामा तीर्थदृश्यस्तु तीर्थदः ॥ ४७ ॥
अपान्निधिरधिष्ठानं दुर्जयो जयकालवित् ।
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८ ॥
विमोचनः सुरगणो विद्येशो बिन्दुसंश्रयः ।
बालरूपोऽबलोन्मत्तोऽविकर्ता गहनो गुहः ॥ ४९ ॥
करणं कारणं कर्ता सर्वबन्धविमोचनः ।
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ ४. ३५. ५० ॥
गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ।
वीरेश्वरो वीरभद्रो वीरासनविधिर्विराट् ॥ ५१ ॥
वीरचूडामणिर्वेत्ता चिदानन्दो नदीधरः ।
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२ ॥
बालखिल्यो महाचापस्तिग्मांशुर्बधिरः खगः ।
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३ ॥
मघवान्कौशिको गोमान्विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४ ॥
अमोघदण्डो मध्यस्थो हिरण्यो ब्रह्मवर्चसी ।
परमार्थः परो मायी शम्बरो व्याघ्रलोचनः ॥ ५५ ॥
रुचिर्विरञ्चिः स्वर्बन्धुर्वाचस्पतिरहर्पतिः ।
रविर्विरोचनः स्कन्दः शास्ता वैवस्वतो यमः ॥ ५६ ॥
युक्तिरुन्नतकीर्तिश्च सानुरागः परञ्जयः ।
कैलासाधिपतिः कान्तः सविता रविलोचनः ॥ ५७ ॥
विद्वत्तमो वीतभयो विश्वभर्त्तानिवारितः ।
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ५८ ॥
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ।
उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः ॥ ५९ ॥
अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।
विश्वगोप्ता विश्वकर्ता सुवीरो रुचिराङ्गदः ॥ ४. ३५. ६० ॥
जननो जनजन्मादिः प्रीतिमान्नीतिमान्धवः ।
वसिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ६१ ॥
प्रणवः सत्पथाचारो महाकोशो महाधनः ।
जन्माधिपो महादेवः सकलागमपारगः ॥ ६२ ॥
तत्त्वं तत्त्वविदेकात्मा विभुर्विश्वविभूषणः ।
ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः ॥ ६३ ॥
पञ्चयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ।
आत्मयोनिरनाद्यन्तो वत्सलो भक्तलोकधृक् ॥ ६४ ॥
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५ ॥
अमोघोऽरिष्टनेमिश्च कुमुदो विगतज्वरः ।
स्वयंज्योतिस्तनुज्योतिरात्मज्योतिरचञ्चलः ॥ ६६ ॥
पिङ्गलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ।
ज्ञानस्कन्दो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७ ॥
भगो विवस्वानादित्यो योगपारो दिवस्पतिः ।
कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८ ॥
उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ।
नक्षत्रमाली नाकेशः स्वाधिष्ठानपदाश्रयः ॥ ६९ ॥
पवित्रः पापहारी च मणिपूरो नभोगतिः ।
हृत्पुण्डरीकमासीनः शक्रः शान्तो वृषाकपिः ॥ ४. ३५. ७० ॥
उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ।
अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ॥ ७१ ॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२ ॥
हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ।
अरागो नयनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३ ॥
ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ।
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४ ॥
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणनिर्वारो वैरञ्च्यो विष्टरश्रवाः ॥ ७५ ॥
आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ।
लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६ ॥
व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः ।
अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ॥ ७७ ॥
आयुःशब्दपतिर्वेगी प्लवनः शिखिसारथिः ।
असंसृष्टोऽतिथिः शक्रप्रमाथी पादपासनः ॥ ७८ ॥
वसुश्रवा हव्यवाहः प्रतप्तो विश्वभोजनः ।
जप्यो जरादिशमनो लोहितात्मा तनूनपात् ॥ ७९ ॥
बृहदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।
निदाघस्तपनो मेघः स्वक्षः परपुरञ्जयः ॥ ४. ३५. ८० ॥
सुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१ ॥
अङ्गिरा गुरुरात्रेयो विमलो विश्ववाहनः ।
पावनः सुमतिर्विद्वांस्त्रैविद्यो वरवाहनः ॥ ८२ ॥
मनोबुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ।
जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३ ॥
अघोरोऽनुत्तरो यज्ञः श्रेष्ठो निःश्रेयसप्रदः ।
शैलो गगनकुन्दाभो दानवारिररिंदमः ॥ ८४ ॥
रजनीजनकश्चारुर्निःशल्यो लोकशल्यधृक् ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ ८५ ॥
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।
बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ८६ ॥
न्यायनिर्मायको न्यायी न्यायगम्यो निरञ्जनः ।
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ८७ ॥
मुण्डी विरूपो विक्रान्तो दण्डी दान्तो गुणोत्तमः ।
पिङ्गलाक्षो जनाध्यक्षो नीलग्रीवो निरामयः ॥ ८८ ॥
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् ।
पद्मासनः परं ज्योतिः पारम्पर्यफलप्रदः ॥ ८९ ॥
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।
परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ ४. ३५. ९० ॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामित्रो देवासुरमहेश्वरः ॥ ९१ ॥
देवासुरेश्वरो दिव्यो देवासुरमहाश्रयः ।
देवदेवमयोऽचिन्त्यो देवदेवात्मसम्भवः ॥ ९२ ॥
सद्योनिरसुरव्याघ्रो देवसिंहो दिवाकरः ।
विबुधाग्रचरश्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ ९३ ॥
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ।
वज्रहस्तः सिद्धखङ्गो नरसिंहनिपातनः ॥ ९४ ॥
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।
नन्दी नन्दीश्वरोऽनन्तो नग्नव्रतधरः शुचिः ॥ ९५ ॥
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ।
स्वधर्मा स्वर्गतः स्वर्गस्वरः स्वरमयस्वनः ॥ ९६ ॥
बाणाध्यक्षो बीजकर्ता धर्मकृद्धर्मसम्भवः ।
दम्भो लोभोऽर्थविच्छम्भुः सर्वभूतमहेश्वरः ॥ ९७ ॥
श्मशाननिलयस्त्र्यक्षः सेतुरप्रतिमाकृतिः ।
लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ॥ ९८ ॥
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ।
हीनदोषोऽक्षयगुणो दक्षारिः पूषदन्तभित् ॥ ९९ ॥
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः.
अकालः सकलाधारः पाण्डुराभो मृडो नटः ॥ ४. ३५. १०० ॥
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।
सामगेयप्रियोऽक्रूरः पुण्यकीर्तिरनामयः ॥ १०१ ॥
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ।
जीवितान्तकरो नित्यो वसुरेता वसुप्रदः ॥ १०२ ॥
सद्गतिः सत्कृतिः सिद्धिः सज्जातिः खलकण्टकः ।
कलाधरो महाकालभूतः सत्यपरायणः ॥ १०३ ॥
लोककल्याणकर्ता च लोकोत्तरसुखालयः ।
चन्द्रसञ्जीवनः शास्ता लोकगूढो महाधिपः ॥ १०४ ॥
लोकबन्धुर्लोकनाथः कृतज्ञः कीर्तिभूषणः ।
अनपायोऽक्षरः कान्तः सर्वशस्त्रभृतां वरः ॥ १०५ ॥
तेजोमयो द्युतिधरो लोकानामग्रणीरणुः ।
शुचिस्मितः प्रसन्नात्मा दुर्जेयो दुरतिक्रमः ॥ १०६ ॥
ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ।
तुम्बवीणो महाकोपो विशोकः शोकनाशनः ॥ १०७ ॥
त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ।
अव्यक्तलक्षणो देवो व्यक्ताव्यक्तो विशाम्पतिः ॥ १०८ ॥
वरशीलो वरगुणः सारो मानधनो मयः ।
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०९ ॥
वेधा विधाता धाता च स्रष्टा हर्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सदागतिः ॥ ४. ३५. ११० ॥
हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ।
सद्योगी योगविद्योगी वरदो ब्राह्मणप्रियः ॥ १११ ॥
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ।
विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥ ११२ ॥
निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।
दर्पहा दर्पदो दृप्तः सर्वर्तुपरिवर्तकः ॥ ११३ ॥
सहस्रजित् सहस्रार्चिः स्निग्धप्रकृतिदक्षिणः ।
भूतभव्यभवन्नाथः प्रभवो भूतिनाशनः ॥ ११४ ॥
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ।
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ॥ ११५ ॥
सत्त्ववान्सात्त्विकः सत्यकीर्तिः स्नेहकृतागमः ।
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ॥ ११६ ॥
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणानिलः ।
नन्दिस्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ॥ ११७ ॥
अपराजितः सर्वसत्त्वो गोविन्दः सत्त्ववाहनः ।
अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११८ ॥
वाराहशृङ्गधृक्छृङ्गी बलवानेकनायकः ।
श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेककृत् ॥ ११९ ॥
श्रीवत्सलशिवारम्भः शान्तभद्रः समो यशः ।
भूशयो भूषणो भूतिर्भूतकृद् भूतभावनः ॥ ४. ३५. १२० ॥
अकम्पो भक्तिकायस्तु कालहा नीललोहितः.
सत्यव्रतमहात्यागी नित्यशान्तिपरायणः ॥ १२१ ॥
परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः ।
शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२२ ॥
अनर्थितोऽगुणः साक्षी ह्यकर्ता कनकप्रभः ।
स्वभावभद्रो मध्यस्थः शत्रुघ्नो विघ्ननाशनः ॥ १२३ ॥
शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ।
अमृत्युः सर्वदृक्सिंहस्तेजोराशिर्महामणिः ॥ १२४ ॥
असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ।
वेद्यश्चैव वियोगात्मा परावरमुनीश्वरः ॥ १२५ ॥
अनुत्तमो दुराधर्षो मधुरप्रियदर्शनः ।
सुरेशः शरणं सर्वः शब्दब्रह्म सतां गतिः ॥ १२६ ॥
कालपक्षः कालकालः कङ्कणीकृतवासुकिः ।
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ॥ १२७ ॥
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।
विश्वतः संवृतः स्तुत्यो व्यूढोरस्को महाभुजः ॥ १२८ ॥
सर्वयोनिर्निरातङ्को नरनारायणप्रियः ।
निर्लेपो निष्प्रपञ्चात्मा निर्व्यङ्गो व्यङ्गनाशनः ॥ १२९ ॥
स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरङ्कुशः ।
निरवद्यमयोपायो विद्याराशी रसप्रियः ॥ ४. ३५. १३० ॥
प्रशान्तबुद्धिरक्षुण्णः सङ्ग्रही नित्यसुन्दरः ।
वैयाघ्रधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ॥ १३१ ॥
परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ।
सोमो रसज्ञो रसदः सर्वसत्त्वावलम्बनः ॥ १३२ ॥
एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ।
प्रार्थयामास शम्भुं वै पूजयामास पङ्कजैः ॥ १३३ ॥
ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ।
महद्भुतं सुखकरं तदेव शृणुतादरात् ॥ १३४ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोध्यायः ॥ ३५ ॥
४. ३६ षट्त्रिंशोध्यायः
। सूत उवाच ॥
श्रुत्वा विष्णुकृतं दिव्यं परनामविभूषितम् ।
सहस्रनाम स्वस्तोत्रं प्रसन्नोऽभून्महेश्वरः ॥ १ ॥
परीक्षार्थं हरेरीशः कमलेषु महेश्वरः ।
गोपयामास कमलं तदैकं भुवनेश्वरः ॥ २ ॥
पङ्कजेषु तदा तेषु सहस्रेषु बभूव च ।
न्यूनमेकं तदा विष्णुर्विह्वलः शिवपूजने ॥ ३ ॥
हृदा विचारितं तेन कुतो वै कमलं गतम् ।
यातं यातु सुखेनैव मन्नेत्रं कमलं न किम् ॥ ४ ॥
ज्ञात्वेति नेत्रमुद्धृत्य सर्वसत्त्वावलम्बनात् ।
पूजयामास भावेन स्तवयामास तेन च ॥ ५ ॥
ततस्तुतमथो दृष्ट्वा तथाभूतं हरो हरिम् ।
मा मेति व्याहरन्नेव प्रादुरासीज्जगद्गुरुः ॥ ६ ॥
तस्मादवतताराशु मण्डलात्पार्थिवस्य च ।
प्रतिष्ठितस्य हरिणा स्वलिङ्गस्य महेश्वरः ॥ ७ ॥
यथोक्तरूपिणं शम्भुं तेजोराशिसमुत्थितम् ।
नमस्कृत्य पुरः स्थित्वा स तुष्टाव विशेषतः ॥ ८ ॥
तदा प्राह महादेवः प्रसन्नः प्रहसन्निव ।
सम्प्रेक्ष्य कृपया विष्णुं कृताञ्जलिपुटं स्थितम् ॥ ९ ॥
शङ्कर उवाच ।
ज्ञातं मयेदं सकलं तव चित्तेप्सितं हरे ।
देवकार्यं विशेषेण देवकार्यरतात्मनः ॥ ४. ३६. १० ॥
देवकार्यस्य सिद्ध्यर्थं दैत्यनाशाय चाश्रमम् ।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ ११ ॥
यद्रूपं भवता दृष्टं सर्वलोकसुखावहम् ।
हिताय तव देवेश धृतं भावय तद्ध्रुवम् ॥ १२ ॥
रणाजिरे स्मृतं तद्वै देवानां दुःखनाशनम् ।
इदं चक्रमिदं रूपमिदं नामसहस्रकम् ॥ १३ ॥
ये शृण्वन्ति सदा भक्त्या सिद्धिः स्यादनपायिनी ।
कामानां सकलानां च प्रसादान्मम सुव्रत ॥ १४ ॥
सूत उवाच ।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।
सुदर्शनं स्वपादोत्थं सर्वशत्रुविनाशनम् ॥ १५ ॥
विष्णुश्चापि सुसंस्कृत्य जग्राहोदङ्मुखस्तदा ।
नमस्कृत्य महादेवं विष्णुर्वचनमब्रवीत् ॥ १६ ॥
विष्णुरुवाच ।
शृणु देव मया ध्येयं पठनीयं च किं प्रभो ।
दुःखानां नाशनार्थं हि वद त्वं लोकशङ्कर ॥ १७ ॥
सूत उवाच ।
इति पृष्टस्तदा तेन सन्तुष्टस्तु शिवोऽब्रवीत् ।
प्रसन्नमानसो भूत्वा विष्णुं देवसहायकम् ॥ १८ ॥
। शिव उवाच ॥
रूपं ध्येयं हरे मे हि सर्वानर्थप्रशान्तये ।
अनेकदुःखनाशार्थं पठ नामसहस्रकम् ॥ १९ ॥
धार्यं चक्रं सदा मे हि सर्वाभीष्टस्य सिद्धये ।
त्वया विष्णो प्रयत्नेन सर्वचक्रवरं त्विदम् ॥ ४. ३६. २० ॥
अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशः ।
तेषां दुःखं न स्वप्नेऽपि जायते नात्र संशयः ॥ २१ ॥
राज्ञां च सङ्कटे प्राप्ते शतावृत्तिं चरेद्यदा ।
साङ्गं च विधिसंयुक्तं कल्याणं लभते नरः ॥ २२ ॥
रोगनाशकरं ह्येतद्विद्यावित्तदमुत्तमम् ।
सर्वकामप्रदं पुण्यं शिवभक्तिप्रदं सदा ॥ २३ ॥
यदुद्दिश्य फलं श्रेष्ठं पठिष्यन्ति नरास्त्विह ।
लप्स्यन्ते नात्र संदेहः फलं तत्सत्यमुत्तमम् ॥ २४ ॥
यश्च प्रातः समुत्थाय पूजां कृत्वा मदीयिकाम् ।
पठते मत्समक्षं वै नित्यं सिद्धिर्न दूरतः ॥ २५ ॥
ऐहिकीं सिद्धिमाप्नोति निखिलां सर्वकामिकाम् ।
अन्ते सायुज्यमुक्तिं वै प्राप्नोत्यत्र न संशयः ॥ २६ ॥
सूत उवाच ।
एवमुक्त्वा तदा विष्णुं शङ्करः प्रीतमानसः ।
उपस्पृश्य कराभ्यां तमुवाच गिरिशः पुनः ॥ २७ ॥
। शिव उवाच ॥
वरदोऽस्मि सुरश्रेष्ठ वरान्वृणु यथेप्सितान् ।
भक्त्या वशीकृतो नूनं स्तवेनानेन सुव्रत ॥ २८ ॥
सूत उवाच ।
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।
सुप्रसन्नतरो विष्णुः साञ्जलिर्वाक्यमब्रवीत् ॥ २९ ॥
विष्णुरुवाच ।
यथेदानीं कृपा नाथ क्रियते चान्यतः परा ।
कार्या चैव विशेषेण कृपालुत्वात्त्वया प्रभो ॥ ४. ३६. ३० ॥
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ।
नान्यमिच्छामि भक्तानामार्त्तयो नैव यत्प्रभो ॥ ३१ ॥
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य दयावान्सुतरां भवः ।
पस्पर्श च तदङ्गं वै प्राह शीतांशुशेखरः ॥ ३२ ॥
शिव उवाच ।
मयि भक्तिः सदा ते तु हरे स्यादनपायिनी ।
सदा वन्द्यश्च पूज्यश्च लोके भव सुरैरपि ॥ ३३ ॥
विश्वम्भरेति ते नाम सर्वपापहरं परम् ।
भविष्यति न सन्देहो मत्प्रसादात्सुरोत्तम ॥ ३४ ॥
सूत उवाच ।
इत्युक्त्वान्तर्दधे रुद्रः सर्वदेवेश्वरः प्रभुः ।
पश्यतस्तस्य विष्णोस्तु तत्रैव च मुनीश्वराः ॥ ३५ ॥
जनार्दनोऽपि भगवान् वचनाच्छङ्करस्य च ।
प्राप्य चक्रं शुभं तद्वै जहर्षाति स्वचेतसि ॥ ३६ ॥
कृत्वा ध्यानं च तच्छम्भोः स्तोत्रमेतन्निरन्तरम् ।
पपाठाध्यापयामास भक्तेभ्यस्तदुपादिशत् ॥ ३७ ॥
इति पृष्टं मयाख्यातं शृण्वतां पापहारकम् ।
अतः परं च किं श्रेष्ठाः प्रष्टुमिच्छथ वै पुनः ॥ ३८ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामस्तोत्रफलवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
४. ३७ सप्तत्रिंशोऽध्यायः
॥ ऋषय ऊचुः ॥
सूत सूत महाभाग ज्ञानवानसि सुव्रत ।
पुनरेव शिवस्यैव चरितं ब्रूहि विस्तरात् ॥ १ ॥
पुरातनाश्च राजान ऋषयो देवतास्तथा ।
आराधनं च तस्यैव चक्रुर्देववरस्य हि ॥ २ ॥
सूत उवाच ।
साधु पृष्टमृषिश्रेष्ठाः श्रूयतां कथयामि वः ।
चरित्रं शाङ्करं रम्यं शृण्वतां भुक्तिमुक्तिदम् ॥ ३ ॥
एतदेव पुरा पृष्टो नारदेन पितामहः ।
प्रत्युवाच प्रसन्नात्मा नारदं मुनिसत्तमम् ॥ ४ ॥
ब्रह्मोवाच ॥
शृणु नारद सुप्रीत्या शाङ्करं चरितं वरम् ।
प्रवक्ष्यामि भवत्स्नेहान्महापातकनाशनम् ॥ ५ ॥
रमया सहितो विष्णुः शिवपूजां चकार ह ।
कृपया परमेशस्य सर्वान्कामानवाप हि ॥ ६ ॥
अहं पितामहश्चापि शिवपूजनकारकः ।
तस्यैव कृपया तात विश्वसृष्टिकरः सदा ॥ ७ ॥
शिवपूजाकरा नित्यं मत्पुत्राः परमर्षयः ।
अन्ये च ऋषयो ये ते शिवपूजनकारकाः ॥ ८ ॥
नारद त्वं विशेषेण शिवपूजनकारकः ।
सप्तर्षयो वसिष्ठाद्याः शिवपूजनकारकाः ॥ ९ ॥
अरुन्धती महासाध्वी लोपामुद्रा तथैव च ।
अहल्या गौतमस्त्री च शिवपूजनकारिकाः ॥ ४. ३७. १० ॥
दुर्वासाः कौशिकः शक्तिर्दधीचो गौतमस्तथा ।
कणादो भार्गवो जीवो वैशम्पायन एव च ॥ ११ ॥
एते च मुनयः सर्वे शिवपूजाकरा मताः ।
तथा पराशरो व्यासः शिवपूजारतः सदा ॥ १२ ॥
उपमन्युर्महाभक्तः शिवस्य परमात्मनः ।
याज्ञवल्क्यो महाशैवो जैमिनिर्गर्ग एव च ॥ १३ ॥
शुकश्च शौनकाद्याश्च शङ्करस्य प्रपूजकाः ।
अन्येऽपि बहवः सन्ति मुनयो मुनिसत्तमाः ॥ १४ ॥
अदितिर्देवमाता च नित्यं प्रीत्या चकार ह ।
पार्थिवीं शैवपूजां वै सवधूः प्रेमतत्परा ॥ १५ ॥
शक्रादयो लोकपाला वसवश्च सुरास्तथा ।
महाराजिकदेवाश्च साध्याश्च शिवपूजकाः ॥ १६ ॥
गन्धर्वाः किन्नराद्याश्चोपसुराः शिवपूजकाः ।
तथासुरा महात्मानः शिवपूजाकरा मताः ॥ १७ ॥
हिरण्यकशिपुर्दैत्यः सानुजः ससुतो मुने ।
शिवपूजाकरो नित्यं विरोचनबली तथा ॥ १८ ॥
महाशैवः स्मृतो बाणो हिरण्याक्षसुतास्तथा ।
वृषपर्वा दनुस्तात दानवाः शिवपूजकाः ॥ १९ ॥
शेषश्च वासुकिश्चैव तक्षकश्च तथाऽपरे ।
शिवभक्ता महानागा गरुडाद्याश्च पक्षिणः ॥ ४. ३७. २० ॥
सूर्यचन्द्रावुभौ देवौ पृथ्व्यां वंशप्रवर्तकौ ।
शिवसेवारतौ नित्यं सवश्यौ तौ मुनीश्वर ॥ २१ ॥
मनवश्च तथा चक्रुः स्वायंभुवपुरः सराः ।
शिवपूजां विशेषेण शिववेषधरा मुने ॥ २२ ॥
प्रियव्रतश्च तत्पुत्रास्तथा चोत्तानपात्सुतः ।
तद्वंशाश्चैव राजानः शिवपूजनकारकाः ॥ २३ ॥
ध्रुवश्च ऋषभश्चैव भरतो नवयोगिनः ।
तद्भ्रातरः परे चापि शिवपूजनकारकाः ॥ २४ ॥
वैवस्वतसुतास्तार्क्ष्य इक्ष्वाकुप्रमुखा नृपाः ।
शिवपूजारतात्मानः सर्वदा सुखभोगिनः ॥ २५ ॥
ककुत्स्थश्चापि मान्धाता सगरः शैवसत्तमः ।
मुचुकुन्दो हरिश्चन्द्रः कल्माषाङ्घ्रिस्तथैव च ॥ २६ ॥
भगीरथादयो भूपा बहवो नृपसत्तमाः ।
शिवपूजाकरा ज्ञेयाः शिववेषविधायिनः ॥ २७ ॥
खट्वाङ्गश्च महाराजो देवसाहाय्यकारकः ।
विधितः पार्थिवीं मूर्तिं शिवस्यापूजयत्सदा ॥ २८ ॥
तत्पुत्रो हि दिलीपश्च शिवपूजनकृत् सदा ।
रघुस्तत्तनयः शैवः सुप्रीत्या शिवपूजकः ॥ २९ ॥
अजः शिवार्चकस्तस्य तनयो धर्मयुद्धकृत् ।
जातो दशरथो भूयो महाराजो विशेषतः ॥ ४. ३७. ३० ॥
पुत्रार्थे पार्थिवीं मूर्त्तिं शैवीं दशरथो हि सः ।
समानर्च विशेषेण वसिष्ठस्याज्ञया मुनेः ॥ ३१ ॥
पुत्रेष्टिं च चकारासौ पार्थिवो भवभक्तिमान् ।
ऋष्यशृङ्गमुनेराज्ञां सम्प्राप्य नृपसत्तमः ॥ ३२ ॥
कौसल्या तत्प्रिया मूर्त्तिं पार्थिवीं शाङ्करीं मुदा ।
ऋष्यशृङ्गसमादिष्टा समानर्च सुताप्तये ॥ ३३ ॥
सुमित्रा च शिवं प्रीत्या कैकेयी नृपवल्लभा ।
पूजयामास सत्पुत्रप्राप्तये मुनिसत्तम ॥ ३४ ॥
शिवप्रसादतस्ता वै पुत्रान्प्रापुः शुभङ्करान् ।
महाप्रतापिनो वीरान् सन्मार्गनिरतान्मुने ॥ ३५ ॥
ततः शिवाज्ञया तस्मात्तासु राज्ञः स्वयं हरिः ।
चतुर्भिश्चैव रूपैश्चाविर्बभूव नृपात्मजः ॥ ३६ ॥
कौसल्यायाः सुतो रामः सुमित्रायाश्च लक्ष्मणः.
शत्रुघ्नश्चैव कैकेय्या भरतश्चेति सुव्रताः ॥ ३७ ॥
रामः स सहजो नित्यं पार्थिवं समपूजयत् ।
भस्मरुद्राक्षधारी च विरजागममास्थितः ॥ ३८ ॥
तद्वंशे ये समुत्पन्ना राजानः सानुगा मुने ।
ते सर्वे पार्थिवं लिङ्गं शिवस्य समपूजयन् ॥ ३९ ॥
सुद्युम्नश्च महाराजः शैवो मनुसुतो मुने ।
शिवशापात्प्रियाहेतोरभून्नारी ससवेकः ॥ ४. ३७. ४० ॥
पार्थिवेशसमर्चातः पुनः सोऽभूत्पुमान्वरः ।
मासं स्त्री पुरुषो मासमेवं स्त्रीत्वं न्यवर्तत ॥ ४१ ॥
ततो राज्यं परित्यज्य शिवधर्मपरायणः ।
शिववेषधरो भक्त्या दुर्लभं मोक्षमाप्तवान् ॥ ४२ ॥
पुरूरवाश्च तत्पुत्रो महाराजः सुपूजकः ।
शिवस्य देवदेवस्य तत्सुतः शिवपूजकः ॥ ४३ ॥
भरतस्तु महापूजां शिवस्यैव सदाऽकरोत् ।
नहुषश्च महाशैवः शिवपूजारतो ह्यभूत् ॥ ४४ ॥
ययातिः शिवपूजातः सर्वान्कामानवाप्तवान् ।
अजीजनत्सुतान्पञ्च शिवधर्मपरायणान् ॥ ४५ ॥
तत्सुता यदुमुख्याश्च पञ्चापि शिवपूजकाः ।
शिवपूजाप्रभावेण सर्वान्कामांश्च लेभिरे ॥ ४६ ॥
अन्येऽपि ये महाभागाः समानर्चुः शिवं हि ते ।
तद्वंश्या अन्यवंश्याश्च भुक्तिमुक्तिप्रदं मुने ॥ ४७ ॥
कृष्णेन च कृतं नित्यं बदरीपर्वतोत्तमे ।
पूजनं तु शिवस्यैव सप्तमासावधि स्वयम् ॥ ४८ ॥
प्रसन्नाद्भगवांस्तस्माद्वरान्दिव्याननेकशः ।
सम्प्राप्य च जगत्सर्वं वशेऽनयत शङ्करात् ॥ ४९ ॥
प्रद्युम्नः तत्सुतस्तात शिवपूजाकरः सदा ।
अन्ये च कार्ष्णिप्रवराः साम्बाद्याः शिवपूजकाः ॥ ४. ३७. ५० ॥
जरासन्धो महाशैवस्तद्वंश्याश्च नृपास्तथा ।
निमिः शैवश्च जनकः तत्पुत्राः शिवपूजकाः ॥ ५१ ॥
नलेन च कृता पूजा वीरसेनसुतेन वै ।
पूर्वजन्मनि यो भिल्लो वने पान्थसुरक्षकः ॥ ५२ ॥
यतिश्च रक्षितस्तेन पुरा हरसमीपतः ।
स्वयं व्याघ्रादिभी रात्रौ भक्षितश्च मृतो वृषात् ॥ ५३ ॥
तेन पुण्यप्रभावेण स भिल्लो हि नलोऽभवत् ।
चक्रवर्ती महाराजो दमयन्तीप्रियोऽभवत् ॥ ५४ ॥
इति ते कथितं तात यत्पृष्टं भवतानघ ।
शाङ्करं चरितं दिव्यं किमन्यत्प्रष्टुमिच्छसि ॥ ५५ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां देवर्षिनृपशैवत्ववर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
४. ३८ अष्टत्रिंशोऽध्यायः
ऋषय ऊचुः ॥
धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ।
यच्छ्रावयसि नस्तात महेश्वरकथां शुभाम् ॥ १ ॥
बहुभिश्चर्षिभिः सूत श्रुतं यद्यपि वस्तु सत् ।
सन्देहो न गतोऽस्माकं तदेतत्कथयामि ते ॥ २ ॥
केन व्रतेन सन्तुष्टः शिवो यच्छति सत्सुखम् ।
कुशलः शिवकृत्ये त्वं तस्मात्पृच्छामहे वयम् ॥ ३ ॥
भुक्तिर्मुक्तिश्च लभ्येत भक्तैर्येन व्रतेन वै ।
तद्वद त्वं विशेषेण व्यासशिष्य नमोऽस्तु ते ॥ ४ ॥
सूत उवाच ।
सम्यक्पृष्टमृषिश्रेष्ठा भवद्भिः करुणात्मभिः ।
स्मृत्वा शिवपदाम्भोजं कथयामि यथाश्रुतम् ॥ ५ ॥
यथा भवद्भिः पृच्छ्येत तथा पृष्टं हि वेधसा ।
हरिणा शिवया चैव तथा वै शङ्करं प्रति ॥ ६ ॥
कस्मिंश्चित्समये तैस्तु पृष्टं च परमात्मने ।
केन व्रतेन सन्तुष्टो भुक्तिं मुक्तिं च यच्छसि ॥ ७ ॥
इति पृष्टस्तदा तैस्तु हरिणा तेन वै तदा ।
तदहं कथयाम्यद्य शृण्वतां पापहारकम् ॥ ८ ॥
। शिव उवाच ॥
भूरि व्रतानि मे सन्ति भुक्तिमुक्तिप्रदानि च ।
मुख्यानि तत्र ज्ञेयानि दशसङ्ख्यानि तानि वै ॥ ९ ॥
दश शैवव्रतान्याहुर्जाबालश्रुतिपारगाः ।
तानि व्रतानि यत्नेन कार्याण्येव द्विजैः सदा ॥ ४. ३८. १० ॥
प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ।
कालाष्टम्यां विशेषेण हरे त्याज्यंऽह्निभोजनम् ॥ ११ ॥
एकादश्यां सितायां तु त्याज्यं विष्णोऽह्निभोजनम् ।
असितायां तु भोक्तव्यं नक्तमभ्यर्च्य मां हरे ॥ १२ ॥
त्रयोदश्यां सितायां तु कर्तव्यं निशि भोजनम् ।
असितायां तु भूतायां तन्न कार्यं शिवव्रतैः ॥ १३ ॥
निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ।
उभयोः पक्षयोर्विष्णो सर्वस्मिञ्छिवतत्परैः ॥ १४ ॥
व्रतेष्वेतेषु सर्वेषु शैवा भोज्याः प्रयत्नतः ।
यथाशक्ति द्विजश्रेष्ठा व्रतसम्पूर्तिहेतवे ॥ १५ ॥
व्रतान्येतानि नियमात्कर्तव्यानि द्विजन्मभिः ।
व्रतान्येतानि तु त्यक्त्वा जायन्ते तस्करा द्विजाः ॥ १६ ॥
मुक्तिमार्गप्रवीणैश्च कर्तव्यं नियमादिति ।
मुक्तेस्तु प्रापकं चैव चतुष्टयमुदाहृतम् ॥ १७ ॥
शिवार्चनं रुद्रजप उपवासः शिवालये ।
वाराणस्यां च मरणं मुक्तिरेषा सनातनी ॥ १८ ॥
अष्टमी सोमवारे च कृष्णपक्षे चतुर्दशी ।
शिवतुष्टिकरं चैतन्नात्र कार्या विचारणा ॥ १९ ॥
चतुर्ष्वपि बलिष्ठं हि शिवरात्रिव्रतं हरे ।
तस्मात्तदेव कर्तव्यं भुक्तिमुक्तिफलेप्सुभिः ॥ ४. ३८. २० ॥
एतस्माच्च व्रतादन्यन्नास्ति नृणां हितावहम् ।
एतद् व्रतं तु सर्वेषां धर्मसाधनमुत्तमम् ॥ २१ ॥
निष्कामानां सकामानां सर्वेषां च नृणां तथा ।
वर्णानामाश्रमाणां च स्त्रीबालानां तथा हरे ॥ २२ ॥
दासानां दासिकानां च देवादीनां तथैव च ।
शरीरिणां च सर्वेषां हितमेतद् व्रतं वरम् ॥ २३ ॥
माघस्य ह्यसिते पक्षे विशिष्टा साति कीर्तिता ।
निशीथव्यापिनी ग्राह्या हत्याकोटिविनाशिनी ॥ २४ ॥
तद्दिने चैव यत्कार्यं प्रातरारभ्य केशव ।
श्रूयतां तन्मनो दत्त्वा सुप्रीत्या कथयामि ते ॥ २५ ॥
प्रातरुत्थाय मेधावी परमानन्दसंयुतः ।
समाचरेन्नित्यकृत्यं स्नानादिकमतन्द्रितः ॥ २६ ॥
शिवालये ततो गत्वा पूजयित्वा यथाविधि ।
नमस्कृत्य शिवं पश्चात्सङ्कल्पं सम्यगाचरेत् ॥ २७ ॥
देवदेव महादेव नीलकण्ठ नमोऽस्तु ते ।
कर्तुमिच्छाम्यहं देव शिवरात्रिव्रतं तव ॥ २८ ॥
तव प्रभावाद्देवेश निर्विघ्नेन भवेदिति ।
कामाद्याः शत्रवो मां वै पीडां कुर्वन्तु नैव हि ॥ २९ ॥
एवं सङ्कल्पमास्थाय पूजाद्रव्यं समाहरेत् ।
सुस्थले चैव यल्लिङ्गं प्रसिद्धं चागमेषु वै ॥ ४. ३८. ३० ॥
रात्रौ तत्र स्वयं गत्वा सम्पाद्य विधिमुत्तमम् ॥
शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे ॥ ३१ ॥
निधाय चैव तद द्रव्यं पूजार्थं शिवसन्निधौ ।
पुनः स्नायात्तदा तत्र विधिपूर्वं नरोत्तमः ॥ ३२ ॥
परिधाय शुभं वस्त्रमन्तर्वासः शुभं तथा.
आचम्य च त्रिवारं हि पूजारंभं समाचरेत् ॥ ३३ ॥
यस्य मन्त्रस्य यद द्रव्यं तेन पूजां समाचरेत् ।
अमंत्रकं न कर्तव्यं पूजनं तु हरस्य च ॥ ३४ ॥
गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितैः ।
पूजनं प्रथमे यामे कृत्वा मंत्रं जपेद् बुधः ॥ ३५ ॥
पार्थिवं च तदा श्रेष्ठं विदध्यान्मन्त्रवान्यदि ।
कृतनित्यक्रियः पश्चात्पार्थिवं च समर्चयेत् ॥ ३६ ॥
प्रथमं पार्थिवं कृत्वा पश्चात्स्थापनमाचरेत् ।
स्तोत्रैर्नानाविधैर्देवं तोषयेद् वृषभध्वजम् ॥ ३७ ॥
माहात्म्यं व्रतसम्भूतं पठितव्यं सुधीमता ।
श्रोतव्यं भक्तवर्येण व्रतसम्पूर्तिकाम्यया ॥ ३८ ॥
चतुर्ष्वपि च यामेषु मूर्तीनां च चतुष्टयम् ।
कृत्वावाहनपूर्वं हि विसर्गावधि वै क्रमात् ॥ ३९ ॥
कार्यं जागरणं प्रीत्या महोत्सवसमन्वितम् ।
प्रातः स्नात्वा पुनस्तत्र स्थापयेत्पूजयेच्छिवम् ॥ ४. ३८. ४० ॥
ततः सम्प्रार्थयेच्छम्भुं नतस्कन्धः कृताञ्जलिः ।
कृतसम्पूर्णव्रतको नत्वा तं च पुनः पुनः ॥ ४१ ॥
नियमो यो महादेव कृतश्चैव त्वदाज्ञया ।
विसृज्यते मया स्वामिन् व्रतं जातमनुत्तमम् ॥ ४२ ॥
व्रतेनानेन देवेश यथाशक्तिकृतेन च ।
सन्तुष्टो भव शर्वाद्य कृपां कुरु ममोपरि ॥ ४३ ॥
पुष्पाञ्जलिं शिवे दत्त्वा दद्याद्दानं यथाविधि ।
नमस्कृत्य शिवायैव नियमं तं विसर्जयेत् ॥ ४४ ॥
यथाशक्ति द्विजाञ्छैवान्यतिनश्च विशेषतः ।
भोजयित्वा सुसन्तोष्य स्वयं भोजनमाचरेत् ॥ ४५ ॥
यामे यामे यथा पूजा कार्या भक्तवरैर्हरे ।
शिवरात्रौ विशेषेण तामहं कथयामि ते ॥ ४६ ॥
प्रथमे चैव यामे च स्थापितं पार्थिवं हरे ।
पूजयेत्परया भक्त्या सूपचारैरनेकशः ॥ ४७ ॥
पञ्चद्रव्यैश्च प्रथमं पूजनीयो हरः सदा ।
तस्य तस्य च मन्त्रेण पृथग्द्रव्यं समर्पयेत् ॥ ४८ ॥
तच्च द्रव्यं समर्प्यैव जलधारां ददेत वै ।
पश्चाच्च जलधाराभिर्द्रव्याणुत्तारयेद बुधः ॥ ४९ ॥
शतमष्टोत्तरं मन्त्रं पठित्वा जलधारया ।
पूजयेच्च शिवं तत्र निर्गुणं गुणरूपिणम् ॥ ४. ३८. ५० ॥
गुरुदत्तेन मंत्रेण पूजयेद् वृषभध्जम् ।
अन्यथा नाममन्त्रेण पूजयेद्वै सदाशिवम् ॥ ५१ ॥
चन्दनेन विचित्रेण तण्डुलैश्चाप्यखण्डितैः ।
कृष्णैश्चैव तिलैः पूजा कार्या शम्भोः परात्मनः ॥ ५२ ॥
पुष्पैश्च शतपत्रैश्च करवीरैस्तथा पुनः ।
अष्टभिर्नाममन्त्रैश्चार्पयेत्पुष्पाणि शङ्करे ॥ ५३ ॥
भवः शर्वस्तथा रुद्रः पुनः पशुपतिस्तथा ।
उग्रो महांस्तथा भीम ईशान इति तानि वै ॥ ५४ ॥
श्रीपूर्वैश्च चतुर्थ्यन्तैर्नामभिः पूजयेच्छिवम् ।
पश्चाद्धूपं च दीपं च नैवेद्यं च ततः परम् ॥ ५५ ॥
आद्ये यामे च नैवेद्यं पक्वान्नं कारयेद् बुधः ।
अर्घं च श्रीफलं दत्त्वा ताम्बूलं च निवेदयेत् ॥ ५६ ॥
नमस्कारं ततो ध्यानं जपः प्रोक्तो गुरोर्मनोः ।
अन्यथा पञ्चवर्णेन तोषयेत्तेन शङ्करम् ॥ ५७ ॥
धेनुमुद्रां प्रदर्श्याथ सुजलैस्तर्पणं चरेत् ।
पञ्चब्राह्मणभोजं च कल्पयेद्वै यथाबलम् ॥ ५८ ॥
महोत्सवश्च कर्तव्यो यावद्यामो भवेदिह ।
ततः पूजाफलं तस्मै निवेद्य च विसर्जयेत् ॥ ५९ ॥
पुनर्द्वितीये यामे च सङ्कल्पं सुसमाचरेत् ।
अथवैकदैव सङ्कल्प्य कुर्यात्पूजां तथाविधाम् ॥ ४. ३८. ६० ॥
द्रव्यैः पूर्वैस्तथा पूजां कृत्वा धारां समर्पयेत् ।
पूर्वतो द्विगुणं मन्त्रं समुच्चार्यार्चयेच्छिवम् ॥ ६१ ॥
पूर्वैस्तिलयवैश्चाथ कमलैः पूजयेच्छिवम् ।
बिल्वपत्रैर्विशेषेण पूजयेत्परमेश्वरम् ॥ ६२ ॥
अर्घ्यं च बीजपूरेण नैवेद्यं पायसं तथा ।
मन्त्रावृत्तिस्तु द्विगुणा पूर्वतोऽपि जनार्दन ॥ ६३ ॥
ततश्च ब्राह्मणानां हि भोज्यसङ्कल्पमाचरेत् ।
अन्यत्सर्वं तथा कुर्याद्यावच्च द्वितयावधि ॥ ६४ ॥
यामे प्राप्ते तृतीये च पूर्ववत्पूजनं चरेत् ।
यवस्थाने च गोधूमाः पुष्पाण्यर्कभवानि च ॥ ६५ ॥
धूपैश्च विविधैस्तत्र दीपैर्नानाविधैरपि ।
नैवेद्यापूपकैर्विष्णो शाकैर्नानाविधैरपि ॥ ६६ ॥
कृत्वैवं चाथ कर्पूरैरारार्तिकविधिं चरेत् ।
अर्घ्यं सदाडिमं दद्याद द्विगुणं जपमाचरेत् ॥ ६७ ॥
ततश्च ब्रह्मभोजस्य सङ्कल्पं च सदक्षिणम् ।
उत्सवं पूर्ववत्कुर्याद्यावद्यामावधिर्भवेत् ॥ ६८ ॥
यामे चतुर्थे सम्प्राते कुर्यात्तस्य विसर्जनम् ।
प्रयोगादि पुनः कृत्वा पूजां विधिवदाचरेत् ॥ ६९ ॥
माषैः प्रियङ्गुभिर्मुद्गैः सप्तधान्यैस्तथाथवा ।
शङ्खीपुष्पैर्बिल्वपत्रैः पूजयेत्परमेश्वरम् ॥ ४. ३८. ७० ॥
नैवेद्यं तत्र दद्याद्वै मधुरैर्विविधैरपि ।
अथवा चैव माषान्नैस्तोषयेच्च सदाशिवम् ॥ ७१ ॥
अर्घं दद्यात्कदल्याश्च फलेनैवाथ वा हरे ।
विविधैश्च फलैश्चैव दद्यादर्घ्यं शिवाय च ॥ ७२ ॥
पूर्वतो द्विगुणं कुर्यान्मंत्रजापं नरोत्तमः ।
सङ्कल्पं ब्रह्मभोजस्य यथाशक्ति चरेद् बुधः ॥ ७३ ॥
गीतैर्वाद्यैस्तथा नृत्यैर्नयेत्कालं च भक्तितः ।
महोत्सवैर्भक्तजनैर्यावत्स्यादरुणोदयः ॥ ७४ ॥
उदये च तथा जाते पुनः स्नात्वार्चयेच्छिवम् ।
नानापूजोपहारैश्च स्वाभिषेकमथाचरेत् ॥ ७५ ॥
नानाविधानि दानानि भोज्यं च विविधं तथा ।
ब्राह्मणानां यतीनां च कर्तव्यं यामसङ्ख्यया ॥ ७६ ॥
शङ्कराय नमस्कृत्य पुष्पाञ्जलिमथाचरेत् ।
प्रार्थयेत्सुस्तुतिं कृत्वा मन्त्रैरेतैर्विचक्षणः ॥ ७७ ॥
तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिधे इति ज्ञात्वा यथायोग्यं तथा कुरु ॥ ७८ ॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृपानिधित्वाज्ज्ञात्वैव भूतनाथ प्रसीद मे ॥ ७९ ॥
अनेनैवोपवासेन यज्जातं फलमेव च ।
तेनैव प्रीयतां देवः शङ्करः सुखदायकः ॥ ४. ३८. ८० ॥
कुले मम महादेव भजनं तेऽस्तु सर्वदा ।
माभूत्तस्य कुले जन्म यत्र त्वं नहि देवता ॥ ८१ ॥
पुष्पाञ्जलिं समर्प्यैवं तिलकाशिष एव च ।
गृह्णीयाद् ब्राह्मणेभ्यश्च ततः शम्भुं विसर्जयेत् ॥ ८२ ॥
एवं व्रतं कृतं येन तस्माद दूरो हरो न हि ।
न शक्यते फलं वक्तुं नादेयं विद्यते मम ॥ ८३ ॥
अनायासतया चेद्वै कृतं व्रतमिदं परम् ।
तस्य वै मुक्तिबीजं च जातं नात्र विचारणा ॥ ८४ ॥
प्रतिमासं व्रतं चैव कर्तव्यं भक्तितो नरैः ।
उद्यापनविधिं पश्चात्कृत्वा साङ्गफलं लभेत् ॥ ८५ ॥
व्रतस्य करणान्नूनं शिवोऽहं सर्वदुःखहा ।
दद्मि भुक्तिं च मुक्तिं च सर्वं वै वाञ्छितं फलम् ॥ ८६ ॥
सूत उवाच ।
इति शिववचनं निशम्य विष्णु-
र्हिततरमद्भुतमाजगाम धाम ।
तदनु व्रतमुत्तमं जनेषु
समचरदात्महितेषु चैतदेव ॥ ८७ ॥
कदाचिन्नारदायाथ शिवरात्रिव्रतं त्विदम् ।
भुक्तिमुक्तिप्रदं दिव्यं कथयामास केशवः ॥ ८८ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणं
नामाष्टत्रिंशोऽध्यायः.३८ ॥
४. ३९ एकोनचत्वारिंशोऽध्यायः
ऋषय उचुः ॥
उद्यापनविधिं ब्रूहि शिवरात्रिव्रतस्य च ।
यत्कृत्वा शङ्करः साक्षात्प्रसन्नो भवति ध्रुवम् ॥ १ ॥
सूत उवाच ।
श्रूयतामृषयो भक्त्या तदुद्यापनमादरात् ।
यस्यानुष्ठानतः पूर्णं व्रतं भवति तद् ध्रुवम् ॥ २ ॥
चतुर्दशाब्दं कर्तव्यं शिवरात्रिव्रतं शुभम् ।
एकभक्तं त्रयोदश्यां चतुर्दश्यामुपोषणम् ॥ ३ ॥
शिवरात्रिदिने प्राप्ते नित्यं सम्पाद्य वै विधिम् ।
शिवालयं ततो गत्वा पूजां कृत्वा यथाविधि ॥ ४ ॥
ततश्च कारयेद्दिव्यं मण्डलं तत्र यत्नतः ।
गौरीतिलकनाम्ना वै प्रसिद्धं भुवनत्रये.५ ॥
तन्मध्ये लेखयेद्दिव्यं लिङ्गतोभद्रमण्डलम् ।
अथवा सर्वतोभद्रं मण्डपान्तः प्रकल्पयेत् ॥ ६ ॥
कुंभास्तत्र प्रकर्तव्याः प्राजापत्यविसंज्ञया ।
सवस्त्राः सफलास्तत्र दक्षिणासहिताः शुभाः ॥ ७ ॥
मण्डलस्य च पार्श्वे वै स्थापनीयाः प्रयत्नतः ।
मध्ये चैकश्च संस्थाप्यः सौवर्णो वापरो घटः ॥ ८ ॥
तत्रोमासहितां शंभुमूर्तिं निर्माय हाटकीम् ।
पलेन वा तदर्धेन यथाशक्त्याथवा व्रती ॥ ९ ॥
निधाय वामभागे तु शिवामूर्तिमतन्द्रितः ।
मदीयां दक्षिणे भागे कृत्वा रात्रौ प्रपूजयेत् ॥ ४. ३९. १० ॥
आचार्यं वरयेत्तत्र चर्त्विग्भिः सहितं शुचिम् ।
अनुज्ञातश्च तैर्भक्त्या शिवपूजां समाचरेत् ॥ ११ ॥
रात्रौ जागरणं कुर्यात्पूजां यामोद्भवां चरन् ।
रात्रिमाक्रमयेत्सर्वां गीतनृत्यादिना व्रती ॥ १२ ॥
एवं सम्पूज्य विधिवत्सन्तोष्य प्रातरेव च ।
पुनः पूजां ततः कृत्वा होमं कुर्याद्यथाविधि ॥ १३ ॥
यथाशक्ति विधानं च प्राजापत्यं समाचरेत् ।
ब्राह्मणान्भोजयेत्प्रीत्या दद्याद्दानानि भक्तितः ॥ १४ ॥
ऋत्विजश्च सपत्नीकान्वस्त्रालङ्कारभूषणैः ।
अलङ्कृत्य विधानेन दद्याद्दानं पृथक्पृथक् ॥ १५ ॥
गां सवत्सां विधानेन यथोपस्करसंयुताम् ।
उक्त्वाचार्याय वै दद्याच्छिवो मे प्रीयतामिति ॥ १६ ॥
ततः सकुम्भां तन्मूर्तिं सवस्त्रां वृषभे स्थिताम् ।
सर्वालङ्कारसहितामाचार्याय निवेदयेत् ॥ १७ ॥
ततः सम्प्रार्थयेद्देवं महेशानं महाप्रभुम् ।
कृताञ्जलिर्नतस्कन्धः सुप्रीत्या गद्गदाक्षरः ॥ १८ ॥
देवदेव महादेव शरणागतवत्सल ।
व्रतेनानेन देवेश कृपां कुरु ममोपरि ॥ १९ ॥
मया भक्त्यनुसारेण व्रतमेतत्कृतं शिवा ।
न्यूनं सम्पूर्णतां यातु प्रसादात्तव शङ्कर ॥ ४. ३९. २० ॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृतं तदस्तु कृपया सफलं तव शङ्कर ॥ २१ ॥
एवं पुष्पाञ्जलिं दत्त्वा शिवाय परमात्मने ।
नमस्कारं ततः कुर्यात्प्रार्थनां पुनरेव च ॥ २२ ॥
एवं व्रतं कृतं येन न्यूनं तस्य न विद्यते ।
मनोभीष्टां ततः सिद्धिं लभते नात्र संशयः ॥ २३ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवरात्रिव्रतोद्यापनं नाम एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
४. ४० चत्वारिंशोऽध्यायः
ऋषय ऊचुः ॥
सूत ते वचनं श्रुत्वा परानन्दं वयं गताः ।
विस्तरात्कथय प्रीत्या तदेव व्रतमुत्तमम् ॥ १ ॥
कृतं पुरा च केनेह सूतैतद् व्रतमुत्तमम् ।
कृत्वाप्यज्ञानतश्चैव प्राप्तं किं फलमुत्तमम् ॥ २ ॥
सूत उवाच ।
श्रूयतामृषयः सर्वे कथयामि पुरातनम् ।
इतिहासं निषादस्य सर्वपापप्रणाशनम् ॥ ३ ॥
पुरा कश्चिद्वने भिल्लो नाम्ना ह्यासीद् गुरुद्रुहः ।
कुटुम्बी बलवान्क्रूरः क्रूरकर्मपरायणः ॥ ४ ॥
निरन्तरं वने गत्वा मृगान् हन्ति स्म नित्यशः ।
चौर्यं च विविधं तत्र करोति स्म वने वसन् ॥ ५ ॥
बाल्यादारभ्य तेनेह कृतं किंचिच्छुभं न हि ।
महान्कालो व्यतीयाय वने तस्य दुरात्मनः ॥ ६ ॥
कदाचिच्छिवरात्रिश्च प्राप्तासीत्तत्र शोभना ।
न दुरात्मा स्म जानाति महद्वननिवासकृत् ॥ ७ ॥
एतस्मिन् समये भिल्लो मात्रा पित्रा स्त्रिया तथा ।
प्रार्थितश्च क्षुधाविष्टैर्भक्ष्यं देहि वनेचर ॥ ८ ॥
इति सम्प्रार्थितः सोऽपि धनुरादाय सत्वरम् ।
जगाम मृगहिंसार्थं बभ्राम सकलं वनम् ॥ ९ ॥
दैवयोगात्तदा तेन न प्राप्तं किञ्चिदेव हि ।
अस्तं प्राप्तस्तदा सूर्यः स वै दुःखमुपागतः ॥ ४. ४०. १० ॥
किं कर्तव्यं क्व गन्तव्यं न प्राप्तं मेऽद्य किञ्चन ।
बालाश्च ये गृहे तेषां किं पित्रोश्च भविष्यति ॥ ११ ॥
मदीयं वै कलत्रं च तस्याः किञ्चिद्भविष्यति ।
किञ्चिद् गृहीत्वा हि मया गन्तव्यं नान्यथा भवेत् ॥ १२ ॥
इत्थं विचार्य स व्याधो जलाशयसमीपगः ।
जलावतरणं यत्र तत्र गत्वा स्वयं स्थितः ॥ १३ ॥
अवश्यमत्र कश्चिद्वै जीवश्चैवागमिष्यति ।
तं हत्वा स्वगृहं प्रीत्या यास्यामि कृतकार्यकः ॥ १४ ॥
इति मत्वा स वै वृक्षमेकं बिल्वेति संज्ञकम् ।
समारुह्य स्थितस्तत्र जलमादाय भिल्लकः ॥ १५ ॥
कदायास्यति कश्चिद्वै कदा हन्यामहं पुनः ।
इति बुद्धिं समास्थाय स्थितोऽसौ क्षुत्तृषान्वितः ॥ १६ ॥
तद्रात्रौ प्रथमे यामे मृगी त्वेका समागता ।
तृषार्ता चकिता सा च प्रोत्फालं कुर्वती तदा ॥ १७ ॥
तां दृष्ट्वा च तदा तेन तद्वधार्थमथो शरः ।
संहृष्टेन द्रुतं बाणं धनुषि स्वे हि संदधे ॥ १८ ॥
इत्येवं कुर्वतस्तस्य जलं बिल्वदलानि च ।
पतितानि ह्यधस्तत्र शिवलिङ्गमभूत्ततः ॥ १९ ॥
यामस्य प्रथमस्यैव पूजा जाता शिवस्य च ।
तन्महिम्ना हि तस्यैव पातकं गलितं तदा ॥ ४. ४०. २० ॥
तत्रत्यं चैव तच्छब्दं श्रुत्वा सा हरिणी भिया ।
व्याधं दृष्ट्वा व्याकुला हि वचनं चेदमब्रवीत् ॥ २१ ॥
मृग्युवाच ।
किं कर्तुमिच्छसि व्याध सत्यं वद ममाग्रतः ।
तच्छ्रुत्वा हरिणीवाक्यं व्याधो वचनमब्रवीत् ॥ २२ ॥
व्याध उवाच ।
कुटुम्बं क्षुधितं मेऽद्य हत्वा त्वां तर्पयाम्यहम् ।
दारुणं तद्वचः श्रुत्वा दृष्ट्वा तं दुर्धरं खलम् ॥ २३ ॥
किं करोमि क्व गच्छामि ह्युपायं रचयाम्यहम् ।
इत्थं विचार्यं सा तत्र वचनं चेदमब्रवीत् ॥ २४ ॥
मृग्युवाच ।
मन्मांसेन सुखं ते स्याद्देहस्यानर्थकारिणः ।
अधिकं किं महत्पुण्यं धन्याहं नात्र संशयः ॥ २५ ॥
उपकारकरस्यैव यत्पुण्यं जायते त्विह ।
तत्पुण्यं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५ ॥
परं तु शिशवो मेऽद्य वर्तन्ते स्वाश्रमेऽखिलाः ।
भगिन्यै तान्समर्प्यैव प्रायास्ये स्वामिनेऽथवा ॥ २७ ॥
न मे मिथ्यावचस्त्वं हि विजानीहि वनेचर ।
आयास्येऽहं पुनश्चेह समीपं ते न संशयः ॥ २८ ॥
स्थिता सत्येन धरणी सत्येनैव च वारिधिः ।
सत्येन जलधाराश्च सत्ये सर्वं प्रतिष्ठितम् ॥ २९ ॥
सूत उवाच ।
इत्युक्तोऽपि तया व्याधो न मेने तद्वचो यदा ।
तदा सुविस्मिता भीता वचनं साब्रवीत्पुनः ॥ ४. ४०. ३० ॥
मृग्युवाच ।
शृणु व्याध प्रवक्ष्यामि शपथं हि करोम्यहम् ।
आगच्छेयं यथा ते न समीपं स्वगृहाद्गता ॥ ३१ ॥
ब्राह्मणो वेदविक्रेता सन्ध्याहीनस्त्रिकालकम् ।
स्त्रियः स्वस्वामिनो ह्याज्ञां समुल्लंघ्य क्रियान्विताः ॥ ३२ ॥
कृतघ्ने चैव यत्पापं यत्पापं विमुखे हरे ।
द्रोहिणश्चैव यत्पापं यत्पापं धर्मलङ्घने ॥ ३३ ॥
विश्वासघातके यच्च तथा वै छलकर्तरि ।
तेन पापेन लिम्पामि यद्यहं नागमे पुनः ॥ ३४ ॥
इत्याद्यनेकशपथान्मृगी कृत्वा स्थिता यदा ।
तदा व्याधः स विश्वस्य गच्छेति गृहमब्रवीत् ॥ ३५ ॥
मृगी हृष्टा जलं पीत्वा गता स्वाश्रममण्डलम् ।
तावच्च प्रथमो यामस्तस्य निद्रां विना गतः ॥ ३६ ॥
तदीया भगिनी या वै मृगी च परिभाविता ।
तस्या मार्गं विचिन्वन्ती ह्याजगाम जलार्थिनी ॥ ३७ ॥
तां दृष्ट्वा च स्वयं भिल्लोऽकार्षीद्बाणस्य कर्षणम् ।
पूर्ववज्जलपत्राणि पतितानि शिवोपरि ॥ ३८ ॥
यामस्य च द्वितीयस्य तेन शम्भोर्महात्मनः ।
पूजा जाता प्रसङ्गेन व्याधस्य सुखदायिनी ॥ ३९ ॥
मृगी सा प्राह तं दृष्ट्वा किं करोषि वनेचर ।
पूर्ववत् कथितं तेन तच्छ्रुत्वाह मृगी पुनः ॥ ४. ४०. ४० ॥
मृग्युवाच ।
धन्याहं श्रूयतां व्याध सफलं देहधारणम् ।
अनित्येन शरीरेण ह्युपकारो भविष्यति ॥ ४१ ॥
परन्तु मम बालाश्च गृहे तिष्ठन्ति चार्भकाः ।
भर्त्रे तांश्च समर्प्यैव ह्यागमिष्याम्यहं पुनः ॥ ४२ ॥
व्याध उवाच ।
त्वया चोक्तं न मन्येऽहं हन्मि त्वां नात्र संशयः ।
तच्छ्रुत्वा हरिणी प्राह शपथं कुर्वती हरेः ॥ ४३ ॥
मृग्युवाच ।
शृणु व्याध प्रवक्ष्यामि नागच्छेयं पुनर्यदि ।
वाचा विचलितो यस्तु सुकृतं तेन हारितम् ॥ ४४ ॥
परिणीतां स्त्रियं हित्वा गच्छत्यन्यां च यः पुमान् ।
वेदधर्मं समुल्लंघ्य कल्पितेन च यो व्रजेत् ॥ ४५ ॥
विष्णुभक्तिसमायुक्तः शिवनिन्दां करोति यः ।
पित्रोः क्षयाहमासाद्य शून्यं चैवाक्रमेदिह ॥ ४६ ॥
कृत्वा च परितापं हि करोति वचनं पुनः ।
तेन पापेन लिम्पामि नागच्छेयं पुनर्यदि ॥ ४७ ॥
सूत उवाच ।
इत्युक्तश्च तया व्याधो गच्छेत्याह मृगीं च सः ।
सा मृगी च जलं पीत्वा हृष्टागच्छत्स्वमाश्रमम् ॥ ४८ ॥
तावद् द्वितीयो यामो वै तस्य निद्रां विना गतः ।
एतस्मिन्समये तत्र प्राप्ते यामे तृतीयके ॥ ४९ ॥
ज्ञात्वा विलम्बं चकितस्तदन्वेषणतत्परः ।
तद्यामे मृगमद्राक्षीज्जलमार्गगतं ततः ॥ ४. ४०. ५० ॥
पुष्टं मृगं च तं दृष्ट्वा हृष्टो वनचरः स वै ।
शरं धनुषि सन्धाय हन्तुं तं हि प्रचक्रमे ॥ ५१ ॥
तदैवं कुर्वतस्तस्य बिल्वपत्राणि कानिचित् ।
तत्प्रारब्धवशाद् द्विजाः पतितानि शिवोपरि ॥ ५२ ॥
तेन तृतीययामस्य तद्रात्रौ तस्य भाग्यतः ।
पूजा जाता शिवस्यैव कृपालुत्वं प्रदर्शितम् ॥ ५३ ॥
श्रुत्वा तत्र च तं शब्दं किं करोषीति प्राह सः ।
कुटुम्बार्थमहं हन्मि त्वां व्याधश्चेति सोऽब्रवीत् ॥ ५४ ॥
तच्छ्रुत्वा व्याधवचनं हरिणो हृष्टमानसः ।
द्रुतमेव च तं व्याधं वचनं चेदमब्रवीत् ॥ ५५ ॥
हरिण उवाच ।
धन्योऽहं पुष्टिमानद्य भवत्तृप्तिर्भविष्यति ।
यस्याङ्गं नोपकारार्थं तस्य सर्वं वृथा गतम् ॥ ५६ ॥
यो वै सामर्थ्ययुक्तश्च नोपकारं करोति वै ।
तत्सामर्थ्यं भवेद व्यर्थं परत्र नरकं व्रजेत् ॥ ५७ ॥
परन्तु बालकान् स्वांश्च समर्प्य जननीं शिशून् ।
आश्वास्याप्यथ तान् सर्वानागमिष्याम्यहं पुनः ॥ ५८ ॥
इत्युक्तस्तेन स व्याधो विस्मितोऽतीव चेतसि ।
मनाक् शुद्धमना नष्टपापपुञ्जो वचोऽब्रवीत् ॥ ५९ ॥
व्याध उवाच ।
ये ये समागताश्चात्र ते ते सर्वे त्वया यथा ।
कथयित्वा गता ह्यत्र नायान्त्यद्यापि वञ्चकाः ॥ ४. ४०. ६० ॥
त्वं चापि सङ्कटे प्राप्तो व्यलीकं च गमिष्यसि ।
मम सञ्जीवनं चाद्य भविष्यति कथं मृग ॥ ६१ ॥
मृग उवाच ।
शृणु व्याध प्रवक्ष्यामि नानृतं विद्यते मयि ।
सत्येन सर्वं ब्रह्माण्डं तिष्ठत्येव चराचरम् ॥ ६२ ॥
यस्य वाणी व्यलीका हि तत्पुण्यं गलितं क्षणात् ।
तथापि शृणु वै सत्यां प्रतिज्ञां मम भिल्लक ॥ ६३ ॥
सन्ध्यायां मैथुने घस्रे शिवरात्र्यां च भोजने ।
कूटसाक्ष्ये न्यासहारे सन्ध्याहीने द्विजे तथा ॥ ६४ ॥
शिवहीनं मुखं यस्य नोपकर्ता क्षमोऽपि सन् ।
पर्वणि श्रीफलस्यैव त्रोटनेऽभक्ष्यभक्षणे ॥ ६५ ॥
असम्पूज्य शिवं भस्मरहितश्चान्नभुक् च यः ।
एतेषां पातकं मे स्यान्नागच्छेयं पुनर्यदि ॥ ६६ ॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य गच्छ शीघ्रं समाव्रज ।
स व्याधेनैवमुक्तस्तु जलं पीत्वा गतो मृगः ॥ ६७ ॥
ते सर्वे मिलितास्तत्र स्वाश्रमे कृतसुप्रणाः ।
वृत्तान्तं चैव तं सर्वं श्रुत्वा सम्यक् परस्परम् ॥ ६८ ॥
गन्तव्यं निश्चयेनेति सत्यपाशेन यन्त्रिताः ।
आश्वास्य बालकांस्तत्र गन्तुमुत्कण्ठितास्तदा ॥ ६९ ॥
मृगी ज्येष्ठा च या तत्र स्वामिनं वाक्यमब्रवीत् ।
त्वां विना बालका ह्यत्र कथं स्थास्यन्ति वै मृग ॥ ४. ४०. ७० ॥
प्रथमं तु मया तत्र प्रतिज्ञा च कृता प्रभो ।
तस्मान्मया च गन्तव्यं भवद्भ्यां स्थीयतामिह ॥ ७१ ॥
इति तद्वचनं श्रुत्वा कनिष्ठा वाक्यमब्रवीत् ।
अहं त्वत्सेविका चाद्य गच्छामि स्थीयतां त्वया ॥ ७२ ॥
तच्छ्रुत्वा च मृगः प्राह गम्यते तत्र वै मया ।
भवत्यौ तिष्ठतां चात्र मातृतः शिशुरक्षणम् ॥ ७३ ॥
तत्स्वामिवचनं श्रुत्वा मेनाते तन्न धर्मतः ।
प्रोचुः प्रीत्या स्वभर्तारं वैधव्ये जीवितं च धिक् ॥ ७४ ॥
बालानाश्वास्य तांस्तत्र समर्प्य सहवासिनः ।
गतास्ते सर्व एवाशु यत्रास्ते व्याधसत्तमः ॥ ७५ ॥
ते बाला अपि सर्वे वै विलोक्यानुसमागताः ।
एतेषां या गतिः स्याद्वै ह्यस्माकं सा भवत्विति ॥ ७६ ॥
तान् दृष्ट्वा हर्षितो व्याधो बाणं धनुषि सन्दधे ।
पुनश्च जलपत्राणि पतितानि शिवोपरि ॥ ७७ ॥
तेन जाता चतुर्थस्य पूजा यामस्य वै शुभा ।
तस्य पापं तदा सर्वं भस्मसादभवत् क्षणात् ॥ ७८ ॥
मृगी मृगी मृगश्चोचुः शीघ्रं वै व्याधसत्तम ।
अस्माकं सार्थकं देहं कुरु त्वं हि कृपां कुरु ॥ ७९ ॥
इति तेषां वचः श्रुत्वा व्याधो विस्मयमागतः ।
शिवपूजाप्रभावेण ज्ञानं दुर्लभमाप्तवान् ॥ ४. ४०. ८० ॥
एते धन्या मृगाश्चैव ज्ञानहीनाः सुसम्मताः ।
स्वीयेनैव शरीरेण परोपकरणे रताः ॥ ८१ ॥
मानुष्यं जन्म सम्प्राप्य साधितं किं मयाधुना ।
परकायं च सम्पीड्य शरीरं पोषितं मया ॥ ८२ ॥
कुटुम्बं पोषितं नित्यं कृत्वा पापान्यनेकशः ।
एवं पापानि हा कृत्वा का गतिर्मे भविष्यति ॥ ८३ ॥
कां वा गतिं गमिष्यामि पातकं जन्मतः कृतम् ।
इदानीं चिंतयाम्येवं धिग् धिक् च जीवनं मम ॥ ८४ ॥
इति ज्ञानं समापन्नो बाणं संवारयंस्तदा ।
गम्यतां च मृगश्रेष्ठा धन्याः स्थ इति चाब्रवीत् ॥ ८५ ॥
इत्युक्ते च तदा तेन प्रसन्नः शंकरस्तदा ।
पूजितं च स्वरूपं हि दर्शयामास सम्मतम् ॥ ८६ ॥
संस्पृश्य कृपया शम्भुस्तं व्याधं प्रीतितोऽब्रवीत् ।
वरं ब्रूहि प्रसन्नोऽस्मि व्रतेनानेन भिल्लक ॥ ८७ ॥
व्याधोऽपि शिवरूपं च दृष्ट्वा मुक्तोऽभवत्क्षणात् ।
पपात शिवपादाग्रे सर्वं प्राप्तमिति बुवन् ॥ ८८ ॥
शिवोऽपि सुप्रन्नात्मा नाम दत्वा गुहेति च ।
विलोक्य तं कृपादृष्ट्या तस्मै दिव्यान्वरानदात् ॥ ८९ ॥
शिव उवाच ।
शृणु व्याधाद्य भोगांस्त्वं भुङ्क्ष्व दिव्यान्यथेप्सितान् ।
राजधानीं समाश्रित्य शृङ्गवेरपुरे पराम् ॥ ४. ४०. ९० ॥
अनपाया वंशवृद्धिः श्लाघनीयः सुरैरपि ।
गृहे रामस्तव व्याध समायास्यति निश्चितम् ॥ ९१ ॥
करिष्यति त्वया मैत्रीं मद्भक्तस्नेहकारकः ।
मत्सेवासक्तचेतास्त्वं मुक्तिं यास्यसि दुर्लभाम् ॥ ९२ ॥
सूत उवाच ।
एतस्मिन्नन्तरे ते तु कृत्वा शङ्करदर्शनम् ।
सर्वे प्रणम्य सन्मुक्तिं मृगयोनेः प्रपेदिरे ॥ ९३ ॥
विमानं च समारुह्य दिव्यदेहा गतास्तदा ।
शिवदर्शनमात्रेण शापान्मुक्ता दिवं गताः ॥ ९४ ॥
व्याधेश्वरः शिवो जातः पर्वते ह्यर्बुदाचले ।
दर्शनात्पूजनात्सद्यो भुक्तिमुक्तिप्रदायकः ॥ ९५ ॥
व्याधोऽपि तद्दिनान्नूनं भोगान्स भूसुरसत्तमाः.
भुक्त्वा रामकृपां प्राप्य शिवसायुज्यमाप्तवान् ॥ ९६ ॥
अज्ञानात्स व्रतं चैतत् कृत्वा सायुज्यमाप्तवान् ।
किं पुनर्भक्तिसम्पन्ना यान्ति तन्मयतां शुभाम् ॥ ९७ ॥
विचार्य सर्वशास्त्राणि धर्मांश्चैवाप्यनेकशः ।
शिवरात्रिव्रतमिदं सर्वोत्कृष्टं प्रकीर्तितम् ॥ ९८ ॥
व्रतानि विविधान्यत्र तीर्थानि विविधानि च ।
दानानि च विचित्राणि मखाश्च विविधास्तथा ॥ ९९ ॥
तपांसि विविधान्येव जपाश्चैवाप्यनेकशः ।
नैतेन समतां यान्ति शिवरात्रिव्रतेन च ॥ ४. ४०. १०० ॥
तस्माच्छुभतरं चैतत्कर्तव्यं हितमीप्सुभिः ।
शिवरात्रिव्रतं दिव्यं भुक्तिमुक्तिप्रदं सदा ॥ १०१ ॥
एतत्सर्वं समाख्यातं शिवरात्रिव्रतं शुभम् ।
व्रतराजेति विख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ १०२ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
४. ४१ एकचत्वारिंशोऽध्यायः
ऋषय ऊचुः ॥
मुक्तिर्नाम त्वया प्रोक्ता तस्यां किं नु भवेदिह ।
अवस्था कीदृशी तत्र भवेदिति वदस्व नः ॥ १ ॥
सूत उवाच ।
मुक्तिश्चतुर्विधा प्रोक्ता श्रूयतां कथयामि वः ।
संसारक्लेशसंहर्त्री परमानन्ददायिनी ॥ २ ॥
सारूप्या चैव सालोक्या सान्निध्या च तथा परा ।
सायुज्या च चतुर्थी सा व्रतेनानेन या भवेत् ॥ ३ ॥
मुक्तेर्दाता मुनिश्रेष्ठाः केवलं शिव उच्यते ।
ब्रह्माद्या न हि ते ज्ञेयाः केवलं च त्रिवर्गदाः ॥ ४ ॥
ब्रह्माद्यास्त्रिगुणाधीशाः शिवस्त्रिगुणतः परः ।
निर्विकारी परब्रह्म तुर्यः प्रकृतितः परः ॥ ५ ॥
ज्ञानरूपोऽव्ययः साक्षी ज्ञानगम्योऽद्वयः स्वयम् ।
कैवल्यमुक्तिदः सोऽत्र त्रिवर्गस्य प्रदोऽपि हि ॥ ६ ॥
कैवल्याख्या पञ्चमी च दुर्लभा सर्वथा नृणाम् ।
तल्लक्षणं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ॥ ७ ॥
उत्पद्यते यतः सर्वं येनैतत्पाल्यते जगत् ।
यस्मिंश्च लीयते तद्धि येन सर्वमिदं ततम् ॥ ८ ॥
तदेव शिवरूपं हि पठ्यते च मुनीश्वराः ।
सकलं निष्कलं चेति द्विविधं वेदवर्णितम् ॥ ९ ॥
विष्णुना तच्च न ज्ञातं ब्रह्मणा न च तत्तथा ।
कुमाराद्यैश्च न ज्ञातं न ज्ञातं नारदेन वै ॥ ४. ४१. १० ॥
शुकेन व्यासपुत्रेण व्यासेन च मुनीश्वरैः.
तत्पूर्वैश्चाखिलैर्देवैर्वेदैः शास्त्रैस्तथा न हि ॥ ११ ॥
सत्यं ज्ञानमनन्तं च सच्चिदानन्दसंज्ञितम् ।
निर्गुणो निरुपाधिश्चाव्ययः शुद्धो निरंजनः ॥ १२ ॥
न रक्तो नैव पीतश्च न श्वेतो नील एव च ।
न ह्रस्वो न च दीर्घश्च न स्थूलः सूक्ष्म एव च ॥ १३ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
तदेव परमं प्रोक्तं ब्रह्मैव शिवसंज्ञकम् ॥ १४ ॥
आकाशं व्यापकं यद्वत्तथैव व्यापकं त्विदम् ।
मायातीतं परात्मानं द्वन्द्वातीतं विमत्सरम् ॥ १५ ॥
तत्प्राप्तिश्च भवेदत्र शिवज्ञानोदयाद् ध्रुवम् ।
भजनाद्वा शिवस्यैव सूक्ष्ममत्या सतां द्विजाः ॥ १६ ॥
ज्ञानं तु दुष्करं लोके भजनं सुकरं मतम् ।
तस्माच्छिवं च भजत मुक्त्यर्थमपि सत्तमाः ॥ १७ ॥
शिवो हि भजनाधीनो ज्ञानात्मा मोक्षदः परः ।
भक्त्यैव बहवः सिद्धा मुक्तिं प्रापुः परां मुदा ॥ १८ ॥
ज्ञानमाता शम्भुभक्तिर्मुक्तिभुक्तिप्रदा सदा ।
सुलभा यत्प्रसादाद्धि सत्प्रेमांकुरलक्षणा ॥ १९ ॥
सा भक्तिर्विविधा ज्ञेया सगुणा निर्गुणा द्विजाः ।
वैधी स्वाभाविकी या या वरा सा सा स्मृता परा ॥ ४. ४१. २० ॥
नैष्ठिक्यनैष्ठिकीभेदाद् द्विविधैव हि कीर्तिता ।
षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ २१ ॥
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।
तयोर्बहुविधत्वाच्च विस्तारो न हि वर्ण्यते ॥ २२ ॥
ते नवाङ्गे उभे ज्ञेये श्रवणादिकभेदतः ।
सुदुष्करे तत्प्रसादं विना च सुकरे ततः ॥ २३ ॥
भक्तिज्ञाने न भिन्ने हि शंभुना वर्णिते द्विजाः ।
तस्माद्भेदो न कर्तव्यः तत्कर्तुः सर्वदा सुखम् ॥ २४ ॥
विज्ञानं न भवत्येव द्विजा भक्तिविरोधिनः ।
शम्भुभक्तिकरस्यैव भवेज्ज्ञानोदयो द्रुतम् ॥ २५ ॥
तस्माद्भक्तिर्महेशस्य साधनीया मुनीश्वराः ।
तयैव निखिलं सिद्धं भविष्यति न संशयः ॥ २६ ॥
इति पृष्टं भवद्भिर्यत्तदेव कथितं मया ।
तच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २७ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां मुक्तिनिरूपणं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
४. ४२ द्विचत्वारिंशोऽध्यायः
ऋषय ऊचुः ॥
शिवः को वा हरिः को वा रुद्रः को वा विधिश्च कः ।
एतेषु निर्गुणः को वा ह्येतं नश्छिन्धि संशयम् ॥ १ ॥
सूत उवाच ।
यच्चादौ हि समुत्पन्नं निर्गुणात्परमात्मनः ।
तदेव शिवसंज्ञं हि वेदवेदान्तिनो विदुः ॥ २ ॥
तस्मात्प्रकृतिरुत्पन्ना पुरुषेण समन्विता ।
ताभ्यां तपः कृतं तत्र मूलस्थे च जले सुधीः ॥ ३ ॥
पञ्चक्रोशीति विख्याता काशी सर्वातिवल्लभा ।
व्याप्तं च सकलं ह्येतत्तज्जलं विश्वतो गतम् ॥ ४ ॥
सम्भाव्य मायया युक्तस्तत्र सुप्तो हरिः स वै ।
नारायणेति विख्यातो माया नारायणी मता ॥ ५ ॥
तन्नाभिकमले यो वै जातः स च पितामहः ।
तेनैव तपसा दृष्टः स वै विष्णुरुदाहृतः ॥ ६ ॥
उभयोर्वादशमने यद्रूपं स दर्शितं बुधाः ।
महादेवेति विख्यातं निर्गुणेन शिवेन हि ॥ ७ ॥
तेन प्रोक्तमहं शम्भुर्भविष्यामि कभालतः ।
रुद्रो नाम स विख्यातो लोकानुग्रहकारकः ॥ ८ ॥
ध्यानार्थं चैव सर्वेषामरूपो रूपवानभूत् ।
स एव च शिवः साक्षाद्भक्तवात्सल्यकारकः ॥ ९ ॥
शिवे त्रिगुणसम्भिन्ने रुद्रे तु गुणधामनि ।
वस्तुतो न हि भेदोऽस्ति स्वर्णे तद्भूषणे यथा ॥ ४. ४२. १० ॥
समानरूपकर्माणौ समभक्तगतिप्रदौ ।
समानाखिलसंसेव्यौ नानालीलाविहारिणौ ॥ ११ ॥
सर्वथा शिवरूपो हि रुद्रो रौद्रपराक्रमः ।
उत्पन्नो भक्तकार्यार्थं हरिब्रह्मसहायकृत् ॥ १२ ॥
अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ।
यान्ति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥ ४३ ॥
ते वै रुद्रं मिलित्वा तु प्रयान्ति प्रकृता इमे ।
इमान् रुद्रो मिलित्वा तु न याति श्रुतिशासनम् ॥ १४ ॥
सर्वे रुद्रं भजन्त्येव रुद्रः कञ्चिद्भजेन्न हि ।
स्वात्मना भक्तवात्सल्याद्भजत्येव कदाचन ॥ १५ ॥
अन्यं भजन्ति ये नित्यं तस्मिंस्ते लीनतां गताः ।
तेनैव रुद्रं ते प्राप्ताः कालेन महता बुधाः ॥ १६ ॥
रुद्रभक्तास्तु ये केचित्तत्क्षणं शिवतां गताः ।
अन्यापेक्षा न वै तेषां श्रुतिरेषा सनातनी ॥ १७ ॥
अज्ञानं विविधं ह्येतद्विज्ञानं विविधं न हि ।
तत्प्रकारमहं वक्ष्ये शृणुतादरतो द्विजाः ॥ १८ ॥
ब्रह्मादितृणपर्यन्तं यत्किञ्चिद् दृश्यते त्विह ।
तत्सर्वं शिव एवास्ति मिथ्या नानात्वकल्पना ॥ १९ ॥
सृष्टेः पूर्वं शिवः प्रोक्तः सृष्टेर्मध्ये शिवस्तथा ।
सृष्टेरन्ते शिवः प्रोक्तः सर्वशून्ये सदाशिवः ॥ ४. ४२. २० ॥
तस्माच्चतुर्गुणः प्रोक्तः शिव एव मुनीश्वराः ।
स एव सगुणो ज्ञेयः शक्तिमत्त्वाद् द्विधापि सः ॥ २१ ॥
येनैव विष्णवे दत्ताः सर्वे वेदाः सनातनाः ।
वर्णा मात्रा ह्यनेकाश्च ध्यानं स्वस्य च पूजनम् ॥ २२ ॥
ईशानः सर्वविद्यानां श्रुतिरेषा सनातनी ।
वेदकर्ता वेदपतिस्तस्माच्छम्भुरुदाहृतः ॥ २३ ॥
स एव शङ्करः साक्षात्सर्वानुग्रहकारकः ।
कर्ता भर्ता च हर्ता च साक्षी निर्गुण एव सः ॥ २४ ॥
अन्येषां कालमानं च कालस्य कलना न हि ।
महाकालः स्वयं साक्षान्महाकालीसमाश्रितः ॥ २५ ॥
तथा च ब्राह्मणा रुद्रं तथा कालीं प्रचक्षते ।
सर्वं ताभ्यां ततः प्राप्तमिच्छया सत्यलीलया ॥ २६ ॥
न तस्योत्पादकः कश्चिद्भर्ता हर्ता न तस्य हि ।
स्वयं सर्वस्य हेतुस्ते कार्यभूताच्युतादयः ॥ २७ ॥
स्वयं च कारणं कार्यं स्वस्य नैव कदाचन ।
एकोऽप्यनेकतां यातोऽप्यनेकोऽप्येकतां व्रजेत् ॥ २८ ॥
एकं बीजं बहिर्भूत्वा पुनर्बीजं च जायते ।
बहुत्वे च स्वयं सर्वं शिवरूपी महेश्वरः ॥ २९ ॥
एतत्परं शिवज्ञानं तत्त्वतस्तदुदाहृतम् ।
जानाति ज्ञानवानेव नान्यः कश्चिदृषीश्वराः ॥ ४. ४२. ३० ॥
मुनय ऊचुः ॥
ज्ञानं सलक्षणं ब्रूहि यज्ज्ञात्वा शिवतां व्रजेत् ।
कथं शिवश्च तत्सर्वं सर्वं वा शिव एव च ॥ ३१ ॥
व्यास उवाच ।
एतदाकर्ण्य वचनं सूतः पौराणिकोत्तमः ।
स्मृत्वा शिवपदाम्भोजं मुनींस्तानब्रवीद्वचः ॥ ३२ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सगुणनिर्गुणभेदवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
४. ४३ त्रिचत्वारिंशोऽध्यायः
सूत उवाच ।
श्रूयतामृषयः सर्वे शिवज्ञानं यथा श्रुतम् ।
कथयामि महागुह्यं परमुक्तिस्वरूपकम् ॥ १ ॥
कनारदकुमाराणां व्यासस्य कपिलस्य च ।
एतेषां च समाजे तैर्निश्चित्य समुदाहृतम् ॥ २ ॥
इति ज्ञानं सदा ज्ञेयं सर्वं शिवमयं जगत् ।
शिवः सर्वमयो ज्ञेयः सर्वज्ञेन विपश्चिता ॥ ३ ॥
आब्रह्मतृणपर्यन्तं यत्किञ्चिद् दृश्यते जगत् ।
तत्सर्वं शिव एवास्ति स देवः शिव उच्यते ॥ ४ ॥
यदेच्छा तस्य जायेत तदा च क्रियते त्विदम् ।
सर्वं स एव जानाति तं न जानाति कश्चन ॥ ५ ॥
रचयित्वा स्वयं तच्च प्रविश्य दूरतः स्थितः ।
न तत्र च प्रविष्टोऽसौ निर्लिप्तश्चित्स्वरूपवान् ॥ ६ ॥
यथा च ज्योतिषश्चैव जलादौ प्रतिबिम्बता ।
वस्तुतो न प्रवेशो वै तथैव च शिवः स्वयम् ॥ ७ ॥
वस्तुतस्तु स्वयं सर्वं क्रमो हि भासते शुभः ।
अज्ञानं च मतेर्भेदो नास्त्यन्यच्च द्वयं पुनः ॥ ८ ॥
दर्शनेषु च सर्वेषु मतिभेदः प्रदर्श्यते ।
परं वेदान्तिनो नित्यमद्वैतं प्रतिचक्षते ॥ ९ ॥
स्वस्याप्यंशस्य जीवांऽशो ह्यविद्यामोहितोऽवशः ।
अन्योऽहमिति जानाति तया मुक्तो भवेच्छिवः ॥ ४. ४३. १० ॥
सर्वं व्याप्य शिवः साक्षाद् व्यापकः सर्वजन्तुषु ।
चेतनाचेतनेशोऽपि सर्वत्र शङ्करः स्वयम् ॥ ११ ॥
उपायं यः करोत्यस्य दर्शनार्थं विचक्षणः ।
वेदान्तमार्गमाश्रित्य तद्दर्शनफलं लभेत् ॥ १२ ॥
यथाग्निर्व्यापकश्चैव काष्ठे काष्ठे च तिष्ठति ।
यो वै मन्थति तत्काष्ठं स वै पश्यत्यसंशयम् ॥ १३ ॥
भक्त्यादिसाधनानीह यः करोति विचक्षणः ।
स वै पश्यत्यवश्यं हि तं शिवं नात्र संशयः ॥ १४ ॥
शिवःशिवःशिवश्चैव नान्यदस्तीति किञ्चन ।
भ्रान्त्या नानास्वरूपो हि भासते शङ्करः सदा ॥ १५ ॥
यथा समुद्रो मृच्चैव सुवर्णमथवा पुनः ।
उपाधितो हि नानात्वं लभते शङ्करस्तथा ॥ १६ ॥
कार्यकारणयोर्भेदो वस्तुतो न प्रवर्तते ।
केवलं भ्रान्तिबुद्ध्यैव तदभावे स नश्यति ॥ १७ ॥
यदा बीजात्प्ररोहश्च नानात्वं हि प्रकाशयेत् ।
अन्ते च बीजमेव स्यात्तत्प्ररोहश्च नश्यति ॥ १८ ॥
ज्ञानी च बीजमेव स्यात्प्ररोहो विकृतीर्मता ।
तन्निवृत्तौ पुनर्ज्ञानी नात्र कार्या विचारणा ॥ १९ ॥
सर्वं शिवः शिवः सर्वो नास्ति भेदश्च कश्चन ।
कथं च विविधं पश्यत्येकत्वं च कथं पुनः ॥ ४. ४३. २० ॥
यथैकं चैव सूर्याख्यं ज्योतिर्नानाविधं जनैः ।
जलादौ च विशेषेण दृश्यते तत्तथैव सः ॥ २१ ॥
सर्वत्र व्यापकश्चैव स्पर्शत्वं न विबध्यते ।
तथैव व्यापको देवो बध्यते न क्वचित्स वै ॥ २२ ॥
साहङ्कारस्तथा जीवस्तन्मुक्तः शङ्करः स्वयम् ।
जीवस्तुच्छः कर्मभोगी निर्लिप्तः शङ्करो महान् ॥ २३ ॥
यथैकं च सुवर्णादि मिलितं रजतादिना ।
अल्पमूल्यं प्रजायेत तथा जीवोऽप्यहंयुतः ॥ २४ ॥
यथैव हि सुवर्णादि क्षारादेः शोधितं शुभम् ।
पूर्ववन्मूल्यतां याति तथा जीवोऽपि संस्कृतेः ॥ २५ ॥
प्रथमं सद्गुरुं प्राप्य भक्तिभावसमन्वितः ।
शिवबुद्ध्या करोत्युच्चैः पूजनं स्मरणादिकम् ॥ २६ ॥
तद्बुध्या देहतो याति सर्वपापादिको मलः ।
तदाज्ञानं च नश्येत ज्ञानवाञ्जायते यदा ॥ २७ ॥
तदाहङ्कारनिर्मुक्तो जीवो निर्मलबुद्धिमान् ।
शङ्करस्य प्रसादेन याति शङ्करतां पुनः ॥ २८ ॥
यथादर्शस्वरूपे च स्वीयरूपं प्रदृश्यते ।
तथा सर्वत्रगं शम्भुं पश्यतीति सुनिश्चितम् ॥ २९ ॥
जीवन्मुक्तः स एवासौ देहः शिर्णः शिवे मिलेत् ।
प्रारब्धवशगो देहस्तद्भिन्नो ज्ञानवान् मतः ॥ ४. ४३. ३० ॥
शुभं लब्ध्वा न हृष्येत कुप्येल्लब्ध्वाशुभं न हि ।
द्वन्द्वेषु समता यस्य ज्ञानवानुच्यते हि सः ॥ ३१ ॥
आत्मयोगेन तत्त्वानामथवा च विवेकतः ।
यथा शरीरतो यायाच्छरीरं मुक्तिमिच्छता ॥ ३२ ॥
सदाशिवो विलीयेत मुक्तो विरहमेव च ।
ज्ञानमूलं तथाध्यात्म्यं तस्य भक्तिः शिवस्य च ॥ ३३ ॥
भक्तेश्च प्रेम संप्रोक्तं प्रेम्णश्च श्रवणं तथा ।
श्रवणाच्चापि सत्सङ्गः सत्सङ्गाच्च गुरुर्बुधः ॥ ३४ ॥
सम्पन्ने च तथा ज्ञाने मुक्तो भवति निश्चितम् ।
इति चेज्ज्ञानवान्यो वै शम्भुमेव सदा भजेत् ॥ ३५ ॥
अनन्यया च भक्त्या वै युक्तः शम्भुं भजेत्पुनः ।
अन्ते च मुक्तिमायाति नात्र कार्या विचारणा ॥ ३६ ॥
अतोऽधिको न देवोऽस्ति मुक्तिप्राप्त्यै च शङ्करात् ।
शरणं प्राप्य यं चैव संसाराद्विनिवर्तते ॥ ३७ ॥
इति मे विविधं वाक्यमृषीणां च समागतैः ।
निश्चित्य कथितं विप्रा धिया धार्यं प्रयत्नतः ॥ ३८ ॥
प्रथमं विष्णवे दत्तं शंभुना लिङ्गसम्मुखे ।
विष्णुना ब्रह्मणे दत्तं ब्रह्मणा सनकादिषु ॥ ३९ ॥
नारदाय ततः प्रोक्तं तज्ज्ञानं सनकादिभिः ।
व्यासाय नारदेनोक्तं तेन मह्यं कृपालुना ॥ ४. ४३. ४० ॥
मया चैव भवद्भ्यश्च भवद्भिर्लोकहेतवे ।
स्थापनीयं प्रयत्नेन शिवप्राप्तिकरं च तत् ॥ ४१ ॥
इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ।
गोपनीयं प्रयत्नेन किमन्यच्छ्रोतुमिच्छथ ॥ ४२ ॥
व्यास उवाच ।
एतचछ्रुत्वा तु ऋषय आनन्दं परमं गताः ।
हर्षगद्गदया वाचा नत्वा ते तुष्टुवुर्मुहुः ॥ ४३ ॥
ऋषय ऊचुः ॥
व्यासशिष्य नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ।
श्रावितं नः परं वस्तु शैवं ज्ञानमनुत्तमम् ॥ ४४ ॥
अस्माकं चेतसो भ्रान्तिर्गता हि कृपया तव ।
सन्तुष्टाः शिवसज्ज्ञानं प्राप्य त्वत्तो विमुक्तिदम् ॥ ४५ ॥
सूत उवाच ।
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ।
अभक्ताय महेशस्य न चाशुश्रुषवे द्विजाः ॥ ४६ ॥
इतिहासपुराणानि वेदाच्छास्त्राणि चासकृत् ।
विचार्य्योद्धृत्य तत्सारं मह्यं व्यासेन भाषितम् ॥ ४७ ॥
एतच्छ्रुत्वा ह्येकवारं भवेत्पापं हि भस्मसात् ।
अभक्तो भक्तिमाप्नोति भक्तस्य भक्तिवर्धनम् ॥ ४८ ॥
पुनः श्रुते च सद्भक्तिर्मुक्तिः स्याच्च श्रुतेः पुनः ।
तस्मात्पुनः पुनः श्राव्यं भुक्तिमुक्तिफलेप्सुभिः ॥ ४९ ॥
आवृत्तयः पञ्च कार्याः समुद्दिश्य फलं परम् ।
तत्प्राप्नोति न सन्देहो व्यासस्य वचनं त्विदम् ॥ ४. ४३. ५० ॥
न दुर्लभं हि तस्यैव येनेदं श्रुतमुत्तमम् ।
पञ्चकृत्वस्तदावृत्त्या लभ्यते शिवदर्शनम् ॥ ५१ ॥
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ।
इदं श्रुत्वा पञ्चकृत्वो धिया सिद्धिं परां गताः ॥ ५२ ॥
श्रोष्यत्यद्यापि यश्चेदं मानवो भक्तितत्परः ।
विज्ञानं शिवसंज्ञं वै भुक्तिं मुक्तिं लभेच्च सः ॥ ५३ ॥
व्यास उवाच ।
इति तद्वचनं श्रुत्वा परमानन्दमागताः ।
समानर्चुश्च ते सूतं नानावस्तुभिरादरात् ॥ ५४ ॥
नमस्कारैः स्तवैश्चैव स्वस्तिवाचनपूर्वकम् ।
आशीर्भिर्वर्धयामासुः संतुष्टाश्छिन्नसंशयाः ॥ ५५ ॥
परस्परं च सन्तुष्टाः सूतस्ते च सुबुद्धयः ।
शम्भुं देवं परं मत्वा नमन्ति स्म भजन्ति च ॥ ५६ ॥
एतच्छिवसुविज्ञानं शिवस्यातिप्रियं महत् ।
भुक्तिमुक्तिप्रदं दिव्यं शिवभक्तिविवर्धनम् ॥ ५७ ॥
इयं हि संहिता पुण्या कोटिरुद्राह्वया परा ।
चतुर्थी शिवपुराणस्य कथिता मे मुदावहा ॥ ५८ ॥
एतां यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
स भुक्त्वेहाखिलान्भोगानन्ते परगतिं लभेत् ॥ ५९ ॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्ञाननिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
॥ समाप्तेयं शिवमहापुराणान्तर्गतकोटिरुद्रसंहिता चतुर्थी ॥
% Text title : shivapurANam 4
% File name : shivapurANam4.itx
% itxtitle : shivapurANam 4
% engtitle : shivapurANam 4
% Category : shiva, purANa
% Location : doc_shiva
% Sublocation : shiva
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Revathy Rajaraman and team members
% Description/comments :
% Indexextra : (Scan, Hindi)
% Acknowledge-Permission:
% Latest update : May 11, 2024
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From http://sanskritdocuments.org
Questions, comments? Write to sanskrit@cheerful.com .