॥ भावप्रकाशनिघण्टुः ०१ ॥
श्रीभावमिश्रविरचितभावप्रकाशनिघण्टुः
अथ हरीतक्यादिवर्गः ।
दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः ।
कुतो हरीतकी जाता तस्यास्तु कति जातयः ॥ १ ॥
रसाः कति समाख्याताः कति चोपरसाः स्मृताः ।
नामानि कति चोक्तानि किं वा तासां च लक्षणम् ॥ २ ॥
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते ।
केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति ॥ ३ ॥
प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि ।
अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ॥ ४ ॥
पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् ।
ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ॥ ५ ॥
हरीतक्यभया पथ्या कायस्था पूतनाऽमृता ।
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ६ ।
वयस्था विजया चापि जीवन्ती रोहिणीति च ॥ ७ ॥
विजया रोहिणी चैव पूतना चामृताऽभया ।
जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ॥ ८ ॥
अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता ।
पूतनाऽस्थिमती सूक्ष्मा कथिता मांसलाऽमृताः ॥ ९ ॥
पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ।
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ॥ १० ॥
विजया सर्वरोगेषु रोहिणी व्रणरोहिणी ।
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ॥ ११ ॥
अक्षिरोगेऽभयाशस्ता जीवन्ती सर्वरोगृहृत् ।
चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ १२ ॥
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ।
षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता ॥ १३ ॥
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् ।
काचित्स्पर्शेन दृष्ट्याञ्या चतुद्र्धा भेदयेच्छिवा ॥ १४ ॥
चेतकीपादपच्छायामुपसर्पन्ति ये नराः ।
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥ १५ ॥
चेतकी तु ह्लता हस्ते यावत्तिष्ठति देहिनः ।
तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ॥ १६ ॥
नृपाणां सुकुमाराणां कृशानां भेषजद्विषाम् ।
चेतकी परमा शस्ता हिता सुखविरेचनी ॥ १७ ॥
सप्तानामपि जातीनां प्रधाना विजया स्मृता ।
सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ॥ १८ ॥
हरीतकी पञ्चरसाऽलवणातुवरा परम् ।
रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ॥ १९ ॥
चक्षुष्या लहृरायुष्या बृंहणी चानुलोमिनी ।
श्वासकासप्रमेहार्शः कुष्ठशोथोदरकृमीन् ॥ २० ॥
वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् ।
गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् ॥ २१ ॥
कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा ।
अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत् ॥ २२ ॥
स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा ।
कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा २३ ।
पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा ॥ २४ ॥
प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते ।
हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ॥ २५ ॥
कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः ।
यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ॥ २६ ॥
पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः ।
वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः ॥ २७ ॥
नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि ।
निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा ॥ २८ ॥
नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता ।
हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ॥ २९ ॥
चर्विता वद्र्धयत्यग्निं पेषिता मलशोधिनी ।
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ॥ ३० ॥
उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् ।
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन ॥ ३१ ॥
अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् ।
हरीतकी हरत्याशु भुक्तस्योपरि योजिता ॥ ३२ ॥
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा ।
ह्लतेन वातजान् रोगान्सर्वरोगान्गुडान्विता ॥ ३३ ॥
सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥ ३४ ॥
अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च ।
पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ॥ ३५ ॥
विभीतकस्त्रिलिङ्गं स्यादक्षः कर्षफलस्तु सः
कलिद्रुमो भूतवासस्तथा कलियुगालयः
विभीतकं स्वादुपाकं कषायं कफपित्तनुत् ।
उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम् ॥ ३६ ॥
रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम्
विभीतमज्जातृट्छर्दिकफवातहरी लहृः ।
कषायो मदकृच्चाथ धात्रीमज्जाऽपि तद्गुणः ॥ ३७ ॥
वयस्यामलकी वृष्या जातीफलरसं शिवम्
धात्रीफलं श्रीफलं च तथामृतफलं स्मृतम् ।
त्रिष्वामलकमाख्यातं धात्री तिष्यफलाऽमृता ॥ ३८ ॥
हरीतकीसमं धात्रीफलं किन्तु विशेषतः ।
रक्तपित्तप्रमेहफलं परं वृष्यं रसायनम् ॥ ३९ ॥
हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः ।
कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित् ॥ ४० ॥
यस्य यस्य फलस्येह वीर्यं भवति यादृशम् ।
तस्य तस्यैव वीय्र्येण मज्जानमपि निर्दिशेत् ॥ ४१ ॥
पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः ।
फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता ॥ ४२ ॥
त्रिफला कफपित्तफली मेहकुष्ठहरा सरा ।
चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥ ४३ ॥
शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् ।
ऊषणं कटुभद्रञ्च शृङ्गवेरं मह्षधम् ॥ ४४ ॥
शुण्ठी रुच्यामवातफली पाचनी कटुका लहृः ।
स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ॥ ४५ ॥
वृष्या स्वय्र्यावमिश्वासशूलकासहृदामयान् ।
हन्ति श्लीपदशोथार्श आनाहोदरमारुतान् ॥ ४६ ॥
आग्नेयगुणभूयिष्ठात् तोयांशपरिशोषि यत् ।
संगृधति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ॥ ४७ ॥
विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् ।
शक्तिर्विबन्धभेदे स्याद्यतो न मलपातनो ॥ ४८ ॥
आद्र्रकं शृङ्गवेरं स्यात्कटुभद्रंतथाऽद्रिका ।
आद्र्रिका भेदिनी गुर्वीतीक्ष्णोष्णा दीपनी मता ॥ ४९ ॥
कटुका मधुरा पाके रूक्षा वातकफापहा ।
ये गुणाः कथिता शुण्ठ्यास्तेऽपि सन्त्याद्र्रकेऽखिलाः ॥ ५० ॥
भोजनाग्रे सदा पथ्यं लवणाद्र्रकभक्षणम् ।
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥ ५१ ॥
कुष्ठपाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे ।
दाहे निदाघशरदोर्नैव पूजितमाद्र्रकम् ॥ ५२ ॥
पिप्पली मागधी कृष्णा वैदेही चपला कणा ।
उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला ॥ ५३ ॥
पिप्पली दीपना वृष्या स्वादुपाका रसायनी ।
अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लहृः ॥ ५४ ॥
पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् ।
कुष्ठप्रमेहगुल्मार्शः प्लीहशूलाममारुतान् ॥ ५५ ॥
आद्र्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः ।
पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी ॥ ५६ ॥
पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी ।
श्वासकासज्वरहरी वृष्या मेध्याऽग्निवद्र्धिनी ॥ ५७ ॥
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली
कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् ।
द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ५८ ।
मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम् ॥ ५९ ॥
मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् ।
उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् ॥ ६० ॥
तदाद्र्रं मधुरं पाके नात्युष्णं कटुकं गुरु ।
किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम् ॥ ६१ ॥
विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते ।
कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते ॥ ६२ ॥
त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् ।
गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥ ६३ ॥
ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः ।
दीपनं पिप्पलीमूलं कटूष्णं पाचनं लहृ ॥ ६४ ॥
रूक्षं पित्तकरं भेदि कफवातोदरापहम् ।
आनाहप्लीहगुल्मफलं कृमिश्वासक्षयापहम् ॥ ६५ ॥
त्र्यूषणं सकणामूलं कथितं चतुरूषणम् ।
व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे ॥ ६६ ॥
भवेच्चव्यं तु चविका कथिता सा तथोषणा ।
कणामूलगुणं चव्यं विशेषाद्गुदजापहम् ॥ ६७ ॥
चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली ।
कपिवल्ली कोलवल्ली श्रेयसीवशिरश्च सा ॥ ६८ ॥
गजकृष्णा कटुर्वातश्लेप्महृद्वह्निवर्धिनी ।
उष्णा निहन्त्यतीसारं श्वासकण्ठामयकृमीन् ॥ ६९ ॥
चित्रकोञलनामाच पाठी व्यालस्तथोषणः ।
चित्रकः कटुकः पाके वह्निकृत्पाचनो लहृः ॥ ७० ॥
रूक्षोष्णो ग्रहणीकुष्ठशोथार्शः कृमिकासनुत् ।
वातश्लेष्महरो ग्राही वातफलः श्लेष्मपित्तहृत् ॥ ७१ ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः ।
पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ॥ ७२ ॥
पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम्
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् ।
गुल्मप्लीहोदरानाहशूलफलं पित्तकोपनम् ॥ ७३ ॥
पञ्चकोलं समरिचं षडूषणमुदाहृतम् ।
पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ७४ ।
यवानिकोग्रगन्धा च ब्रह्मदर्भाऽजमोदिका ॥ ७५ ॥
सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया ।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लहृः ॥ ७६ ॥
दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् ।
वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ॥ ७७ ॥
अजमोदा खराश्वा च मायूरो दीप्यकस्तथा ।
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ॥ ७८ ॥
अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत्
उष्णा विदाहिनी हृद्या वृष्या बलकरी लहृः ।
नेत्रामय कृमिच्छर्दिहिक्कावस्तिरुजो हरेत् ॥ ७९ ॥
पारसीकयवानी तु यवानीसदृशी गुणैः ।
विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः ८० ।
जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः ॥ ८१ ॥
कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ।
कालाजाजी तु सुषवी कालिका चोपकालिका ॥ ८२ ॥
पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका ।
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥ ८३ ॥
जीरकत्रितयं रूक्षं कटूष्णं दीपनं लहृ ।
संग्राही पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥ ८४ ॥
ज्वरफलं पाचनं वृष्यं बल्यं रुच्यं कफापहम् ।
चक्षुष्यं पवनाघ्मानगुल्मच्छद्र्यतिसार हृत् ॥ ८५ ॥
धान्यकं धानकं धान्यं धाना धानेयकं तथा ।
कुनटी धेनुका छत्रा कुस्तुम्बुरु वितुन्नकम् ॥ ८६ ॥
धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लहृ ।
तिक्तं कटूष्णवीर्यञ्च दीपनं पाचनं स्मृतम् ॥ ८७ ॥
ज्वरफलं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत्
तृष्णादाहवमिश्वासकासकाश्र्यकृमिप्रणुत् ।
आद्र्रन्तु तद्गुणं स्वादु विशेषात्पित्तनाशनम् ॥ ८८ ॥
शतपुष्पा शताह्वा च मधुरा कारवी मिसिः ।
अतिलम्बी सितच्छत्रा संहितच्छत्रिकाऽपि च ॥ ८९ ॥
छत्रा शालेयशालीनो मिश्रेया मधुरा मिसिः ।
शतपुष्पा लहृस्तीक्ष्णा पित्तकृद्दीपनी कटुः ॥ ९० ॥
उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् ।
मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत् ॥ ९१ ॥
अग्निंमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत् ।
रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्हरेत् ॥ ९२ ॥
मेथिका मेथिनी मेथी दीपनी बहुपत्रिका ।
बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥ ९३ ॥
वल्लरी चन्द्रिका मन्था मिश्रपुष्पा च वैआरवी ।
कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥ ९४ ॥
मेथिकावातशमनीश्लेष्मफलीज्वरनाशिनी ।
ततः स्वल्पगुणावन्या वाजिनां सा तु पूजिता ॥ ९५ ॥
चन्द्रिका चर्महन्त्री च पशुमेहनकारिका ।
नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥ ९६ ॥
चन्द्रशूरं हितं हिक्कावातश्लेष्मातिसारिणाम् ।
असृग्वातगदद्वेषि बलपुष्टिविवद्र्धनम् ॥ ९७ ॥
मेथिका चन्द्रशूरश्च कालाऽजाजी यवानिका ।
एतच्चतुष्टयं युक्तं चतुर्बीजमिति स्मृतम् ॥ ९८ ॥
तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम् ।
अजीर्णं शूलमाध्मानं पाश्र्वशूलं कटिव्यथाम् ९९ ।
सहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम् ॥ १०० ॥
हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत् ।
शूलगुल्मोदरानाहकृमिफलं पित्तवद्र्धनम् ॥ १०१ ॥
वचोग्रगन्धा षड्र्गन्था गोलोमी शतपर्विका ।
क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ॥ १०२ ॥
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत्
विबन्धाध्मानशूलफली शकृन्मूत्रविशोधिनी ।
अपस्मारकफोन्मादभूतजन्त्वनिलान्हरेत् ॥ १०३ ॥
पारसीक वचा शुक्ला प्रोक्ता हैमवतीति सा ।
हैमवत्युदिता तद्वद्वातं हन्ति विशेषत ॥ १०४ ॥
सुगन्धाऽप्युग्रगन्धा च विशेषात्कफकासनुत् ।
सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी १०५ ।
स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता ॥ १०६ ॥
द्वीपान्तरवचा किञ्चित्तिक्तोष्णा वह्निदीप्तिकृत् ।
विबन्धाध्मानशूलफली शकृन्मूत्रविशोधिनी ॥ १०७ ॥
वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् ।
व्यपोहति विशेषेण फिरङ्गामयनाशिनी ॥ १०८ ॥
हपुषा हबुषा विस्रा पराऽश्वत्थफला मता ।
मत्स्यगन्धाप्लीहहन्त्री विषफली ध्वांक्षनाशिनी ॥ १०९ ॥
हपुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः
पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् ।
पराऽप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि ॥ ११० ॥
पुंसि क्लीवे विडङ्गः स्यात्कृमिफलो जन्तुनाशनः ।
तण्डुलश्च तथा वेल्लममोघा चित्रतण्डुलः ॥ १११ ॥
विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लहृ ।
शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत् ॥ ११२ ॥
नाडी हिङ्गु पलाशाख्या जन्तुका रामठी च सा
वंशपत्री च पिण्डाह्वा सुवीय्र्या हिङ्गुनाडिका ।
तुम्बुरुः सौरभः सौरो वनजः सानुजोञ्धकः ॥ ११३ ॥
तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु ।
रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लहृ विदाहि च ॥ ११४ ॥
वातश्लेष्माक्षिकर्णौष्ठशिरोरुग्गुरुताकृमीन् ।
कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत् ॥ ११५ ॥
स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥ ११६ ॥
वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला
तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः ।
हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ११७ ।
समुद्रफेनः फेनश्च हिण्डीरोऽब्धिकफस्तथा ॥ ११८ ॥
समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः ।
कषायो विषपित्तफलः कर्णरुक्कफहृत्सरः ११९ ।
जीवकर्षभकौ मेदे काकोल्यौ त्रऋद्धिवृद्धिके १२० ।
अष्टवर्गोऽष्टभिद्र्रव्यैः कथितश्चरकादिभिः ॥ १२१ ॥
अष्टवर्गो हिमः स्वादुर्बृंहणः शुक्रलो गुरुः
भग्नसन्धानकृत्कामबलासबलवद्र्धनः ।
वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत् ॥ १२२ ॥
जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ ।
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ ॥ १२३ ॥
जीवकः कूर्चकाकार त्रऋषभो वृष शृङ्गवत् ।
जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः ॥ १२४ ॥
जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ ।
मधुरौ पित्तदाहास्रकाश्र्यवातक्षयापहौ १२५ ।
महामेदाऽभिधः कन्दो मोरङ्गादौ प्रजायते १२६ ।
महामेदा वनीमेदा स्यादित्युक्तं मुनीश्वरैः ॥ १२७ ॥
शुक्लाद्र्रकनिभः कन्दो लताजातः सुपाण्डुरः ।
महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते ॥ १२८ ॥
शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् ।
यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः ॥ १२९ ॥
शल्यपर्णी मणिच्छिद्रा मेदा मेदाभवाध्वरा ।
महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः ॥ १३० ॥
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहम् ।
वृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् १३१ ।
जायते क्षीरकाकोली महामेदोद्भवस्थले ॥ १३२ ॥
यत्र स्यात्क्षीरकाकोली काकोली तत्र जायते ।
पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान् ॥ १३३ ॥
सा प्रोक्ताक्षीरकाकोली काकोलीलिङ्गमुच्यते ।
यथास्यात्क्षीरकाकोली काकोल्यपि तथा भवेत् ॥ १३४ ॥
एषा किञ्चिद्भवेत्कृष्णा भेदोऽयमुभयोरपि ।
काकोली वायसोली च वीरा कायस्थिका तथा ॥ १३५ ॥
सा शुक्ला क्षीरकाकोली वयस्था क्षीरवल्लिका ।
कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी ॥ १३६ ॥
काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु ।
वृंहणं वातदाहास्रपित्तशोषज्वरापहम् ॥ १३७ ॥
त्रऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशलेऽचले ।
श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ १३८ ॥
स एव त्रऋद्धिर्वृद्धिश्च भेदमप्येतयोब्र्रुवे ।
तूलग्रन्थिसमा त्रऋद्धिर्वामावत्र्तफला च सा ॥ १३९ ॥
वृद्धिस्तु दक्षिणावत्र्तफला प्रोक्ता महर्षिभिः ।
त्रऋद्धिर्योग्यं सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ १४० ॥
त्रऋद्धिर्बल्या त्रिदोषफली शुक्रला मधुरा गुरुः ।
प्राणैश्वर्यकरी मूच्र्छारक्तपित्तविनाशिनी ॥ १४१ ॥
वृद्धिर्गर्भप्रदा शीता वृंहणी मधुरा स्मृता ।
वृष्या पित्तास्रशमनी क्षतकासक्षयापहा ॥ १४२ ॥
राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्लभः ।
तस्मादस्य प्रतिनिधिं गृधीयात्तद्गुणं भिषक् ॥ १४३ ॥
मेदा जीवक काकोली त्रऋद्धि द्वन्द्वेऽपि चासति ।
वरीविदार्यश्वगन्धावाराहींश्च क्रमात् क्षिपेत् ॥ १४४ ॥
यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा ।
अन्यत्क्लीतनकं तत्तु भवेत्तोये मधूलिका ॥ १४५ ॥
यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत्
सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित् ।
व्रण शोथ विष च्छर्दि तृष्णाग्लानिक्षयापहा ॥ १४६ ॥
काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च
काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान् ।
हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत् ॥ १४७ ॥
आरग्बवधो राजवृक्षः शम्पाकश्चतुरङ्गुलः ।
आरेवतो व्याधिघातः कृतमालः सुवर्णकः ॥ १४८ ॥
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः ।
आरग्वधोगुरुःस्वादुः शीतलः स्रंसनोत्तमः ॥ १४९ ॥
ज्वरहृद्रोगापित्तास्रवातोदावत्र्तशूलनुत्
तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम् ।
ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम् ॥ १५० ॥
कट्वी तु कटुका तिक्ता कृष्णभेदा कटम्भरा
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ।
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी ॥ १५१ ॥
कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लहृः
भेदिनी दीपनी हृद्या कफपित्तज्वरापहा ।
प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत् १५२ ।
किराततिक्तः वैआरातः कटुतिक्तः किरातकः ॥ १५३ ॥
काण्डतिक्तोञार्यतिक्तो भूनिम्बो रामसेनकः ।
किरातकोञ्यो नैपालः सोऽद्धतिक्तो ज्वरान्तकः ॥ १५४ ॥
किरातः सारको रूक्षः शीतलस्तिक्तको लहृः
सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् ।
कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत् ॥ १५५ ॥
उक्तं कुटजबीजं तु यवमिन्द्रयवं तथा ।
कलिङ्गं चापि कालिङ्गं तथा भद्रयवा अपि ॥ १५६ ॥
क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकम् ।
फलानीन्द्रयवास्तस्य तथा भद्रयवा अपि १५७ ।
इन्द्रयवं त्रिदोषफलं संग्राहि कटु शीतलम् ॥ १५८ ॥
ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत् ।
दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित् ॥ १५९ ॥
मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा ।
करहाटो मरुवकः शल्यको विषपुष्पकः ॥ १६० ॥
मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लहृः
वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः ।
रूक्ष कुष्ठकफानाहशोथगुल्मव्रणापहः ॥ १६१ ॥
रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा १६२ ।
रास्नाऽमपाचिनी तिक्ता गुरूष्णा कफवातजित् ॥ १६३ ॥
शोथश्वाससमीरास्रवातशूलोदरापहा ।
कासज्वरविषाशीतिवातिकामयसिध्महृत् ॥ १६४ ॥
नाकुली सुरसा नागसुगन्धा गन्धनाकुली ।
नकुलेष्टा भुजङ्गाक्षी सर्पाङ्गी विषनाशिनी ॥ १६५ ॥
नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् ।
भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥ १६६ ॥
माचिकाप्रस्थिकाऽम्बष्ठा तथा चाम्बालिकांऽबिका ।
मयूरविदला केशीसहस्रा बालमूलिका ॥ १६७ ॥
माचिकाऽम्ला रसे पाके कषाया शीतला लहृः ।
पक्वातीसारपित्तास्रकफकण्ठामयापहा १६८ ।
तेजस्विनी तेजवती तेजोह्वा तेजनी तथा ॥ १६९ ॥
तेजस्विनी कफश्वासकासास्यामयवातहृत् ।
पाचन्युष्णाकटुस्तिक्तारुचिवह्निप्रदीपिनी ॥ १७० ॥
ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च ।
पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी ॥ १७१ ॥
ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित् ।
अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा ॥ १७२ ॥
कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम्
कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लहृ ।
हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान् ॥ १७३ ॥
उक्तं पुष्करमूलं तु पौष्करं पुष्करञ्च तत् ।
पद्धपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः ॥ १७४ ॥
पौष्करं कटुकं तिक्तमुक्तं वातकफज्वरान् ।
हन्ति शोथारुचिश्वासान्विशेषात्पाश्र्वशूलनुत् ॥ १७५ ॥
कटुपर्णी हैमवती हेमक्षीरी हिमावती ।
हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते ॥ १७६ ॥
हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी ।
कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत् ॥ १७७ ॥
शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका ।
अजशृङ्गी च चक्रा च कर्कटाख्या च कीत्र्तिता ॥ १७८ ॥
शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् ।
श्वासोध्र्ववाततृट्कासहिक्काऽरुचिवमीन्हरेत् ॥ १७९ ॥
कट्फलः सोमवल्कश्च वैआटय्र्यः कुम्भिकाऽपि च ।
श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥ १८० ॥
कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् ।
हन्ति श्वासप्रमेहार्शः कासकण्ठामयारुचीः ॥ १८१ ॥
भार्गी भृगुभवा पद्धा फञ्जी ब्राह्मणयष्टिका ।
ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका ॥ १८२ ॥
भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लहृः
दीपनी तुवरा गुल्मरक्तनुन्नाशयेद् ध्रुवम् ।
शोथकासकफश्वासपीनसज्वरमारुतान् ॥ १८३ ॥
पाषाणभेदकोऽश्मफलो गिरिभिद्भिन्नयोजिनी ।
अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः ॥ १८४ ॥
भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्द्रुजः ।
योनि रोगान्प्रमेहांश्च प्लीह शूल व्रणानि च ॥ १८५ ॥
धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा ।
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता ॥ १८६ ॥
धातकी कटुका शीता मृदुकृत्तुवरा लहृः ।
तृष्णाऽतीसारपित्तास्रविषकृमिविसर्पजित् १८७ ।
मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ १८८ ॥
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ।
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ॥ १८९ ॥
भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ।
मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत् ॥ १९० ॥
गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक् ।
रक्तातीसार कुष्ठास्र वीसर्पव्रणमेहनुत् ॥ १९१ ॥
स्यात्कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि ।
कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहम् ॥ १९२ ॥
लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः ।
लाक्षा वण्र्या हिमा बल्या स्निग्धा च तुवरा लहृः ॥ १९३ ॥
ब्रिआह्मण्यङ्गारवल्ली च खरशाखा च हञ्जिका ।
अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् ॥ १९४ ॥
व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा ।
अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः ॥ १९५ ॥
हरिद्रा काञ्चनी पीता निशाऽख्या वरवर्णिनी ।
कृमिफली हलदी योषित्प्रिया हट्टविलासिनी ॥ १९६ ॥
हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् ।
वण्र्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा ॥ १९७ ॥
दार्वी मेदाऽम्रगन्धा च सुरभीदारु दारु च ।
कर्पूरा पद्धपत्रा स्यात्सुरीमत्सुरतारका ॥ १९८ ॥
आम्रगंधिर्हरिद्रा या सा शीता वातला मता ।
पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी १९९ ।
अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः ॥ २०० ॥
दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च
कटङ्कटेरी पीता च भवेत्सैव पचम्पचा ।
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च ॥ २०१ ॥
पीतद्रुश्च हरिद्रुश्च पीतदारु च पीतकम् ।
दार्वी निशागुणा किन्तु नेत्र कर्णास्यरोगनुत् ॥ २०२ ॥
दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनम् ।
तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् ॥ २०३ ॥
रसाञ्जनं ताक्ष्र्यशैलं रसगर्भश्च ताक्ष्र्यजम् ।
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् २०४ ।
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥ २०५ ॥
अवल्गुजो वाकुची स्यात्सोमराजी सुपर्णिका ।
शशिलेखा कृष्णफला सोमा पूतिफलीति च ॥ २०६ ॥
सोमवल्ली कालमेषी कुष्ठफली च प्रकीत्र्तिता ।
बाकुची मधुरा तिक्ता कटुपाका रसायनी ॥ २०७ ॥
विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् ।
रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥ २०८ ॥
तत्फलं पित्तलं कुष्ठकफानिलहरं कटु ।
केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत् ॥ २०९ ॥
चक्रमर्दः प्रपुन्नाटो दद्रुफलो मेषलोचनः ।
पद्धाटः स्यादेडगजश्चक्री पुन्नाट इत्यपि ॥ ११० ॥
चक्रमर्दो लहृः स्वादू रूक्षः पित्तानिलापहः ।
हृद्यो हिमः कफश्वासकुष्ठदद्रुकृमीन्हरेत् ॥ २११ ॥
हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् ।
गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम् ॥ २१२ ॥
विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषाऽरुणा ।
शुक्लकन्दा चोपविषा भङ्गुरा हृणवल्लभा ॥ २१३ ॥
विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् ।
कफपित्तातिसारामविषकासवमिकृमीन् ॥ २१४ ॥
लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा
द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः ।
जीर्णपत्रो बृहत्पत्रः पट्टी लाक्षाप्रसादनः ॥ २१५ ॥
लोध्रो ग्राही लहृः शीतश्चक्षुष्यः कफपित्तनुत् ।
कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत् ॥ २१६ ॥
लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥ २१७ ॥
यदाऽमृतं वैनतेयो जहार सुरसत्तमात् ।
तदा ततोऽपतद् विन्दुः स रसोनोऽभवद्भश्वि ॥ २१८ ॥
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः ।
तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ २१९ ॥
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ।
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ॥ २२० ॥
रसोनो वृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः ।
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥ २२१ ॥
भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।
बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ २२२ ॥
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् ।
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ॥ २२३ ॥
मद्यं मांसं तथाऽम्लञ्च हितं लशुनसेविनाम् ।
व्यायाममातपं रोषमतिनीरं पयो गुडम् २२४ ।
रसोनमश्नन् पुरुषस्त्यजेदेतान् निरन्तरम् ॥ २२५ ॥
पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः ।
पलाण्डुस्तु बुधैज्र्ञेयो रसोनसदृशो गुणैः ॥ २२६ ॥
स्वादुः पाके रसेञुष्णः कफकृन्नातिपित्तलः ।
हरते केवलं वातं बलवीर्यकरो गुरुः ॥ २२७ ॥
भल्लातकं त्रिषु प्रोक्तमरुष्कोरुष्करोऽग्निकः ।
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् ॥ २२८ ॥
भल्लातकफलं पक्वं स्वादुपाकरसं लहृ ।
कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् ॥ २२९ ॥
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् ।
कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरकृमीन् ॥ २३० ॥
तन्मज्जा मधुरा वृष्या बृंहणी वातपित्तहा ।
वृन्तमारुष्करं स्वादु पित्तफलं केश्यमग्निकृत् ॥ २३१ ॥
भल्लातकः कषायोष्णः शुक्रलो मधुरो लहृः
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् ।
हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् २३२ ।
भङ्गा गञ्जा मातुलानी मादिनी विजया जया ॥ २३३ ॥
भङ्गा कफ हरी तिक्ता ग्राहिणी पाचनी लहृः ।
तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवद्र्धिनी ॥ २३४ ॥
तिलभेदः खसतिलः खाखसश्चापि स स्मृतः ।
स्यात् खाखसफलोद्भूतं वल्कलं शीतलं लहृ २३५ ।
ग्राहि तिक्तं कषायञ्च वातकृत् कफकासहृत् ॥ २३६ ॥
धातूनां शोषकं रूक्षंमदकृद्वाग्विवर्धनम् ।
मुहुर्मोहकरं रुच्यं सेवनात्पुंस्त्वनाशनम् ॥ २३७ ॥
उक्तं खसफलक्षीरमाफूकमहिफेनकम्
आफूकं शोषणं ग्राहि श्लेष्मफलं वातपित्तलम् ।
तथा खसफलोद्भूतवल्कलप्रायमित्यपि २३८ ।
उच्यन्ते खसबीजानि ते खाखसतिला अपि ॥ २३९ ॥
खसबीजानिबल्यानि वृष्याणि सुगुरूणि च ।
जनयन्ति कफं तानि शमयन्ति समीरणम् ॥ २४० ॥
सैन्धवोऽस्त्री शीतशिवं मणिमन्थञ्च सिन्धुजम्
सैन्धवं लवणं स्वादु दीपनं पाचनं लहृ ।
स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत् २४१ ।
शाकम्भरीयं कथितं गडाख्यं रोमकं तथा ॥ २४२ ॥
गडाख्यं लहृ वातफलमत्युष्णं भेदिपित्तलम् ।
तीक्ष्णोष्णं चापि सूक्ष्मञ्चाभिष्यन्दिकटुपाकि च ॥ २४३ ॥
सामुद्रं यत्तुलवणमक्षीवं वशिरञ्च तत् ।
समुद्रजं सागरजं लवणोदधिसम्भवम् ॥ २४४ ॥
सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु
नात्युष्णं दीपनं भेदि सक्षारमविदाहि च ।
श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलम् ॥ २४५ ॥
बिडं पाक्यञ्च कृतकं तथा द्राविडमासुरम् ।
बिडं सक्षारमूध्र्वाधः कफवातानुलोमनम् ॥ २४६ ॥
दीपनं लहृ तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च ।
विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत् ॥ २४७ ॥
सौवर्चलं स्याद्रुचकं मन्थपाकञ्च तन्मतम् ।
रुचकं रोचनं भेदि दीपनं पाचनं परम् ॥ २४८ ॥
सस्नेहं वातनुन्नातिपित्तलं विशदं लहृ ।
उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित् ॥ २४९ ॥
औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् ।
क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम् ॥ २५० ॥
णकाम्लकमत्युष्णं दीपनं दन्तहर्षणम् ।
लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत् ॥ २५१ ॥
पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः ।
स्वर्जिकाऽपि स्मृतः क्षारः कापोतः सुखवर्चकः ॥ २५२ ॥
कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका ।
यवक्षारो लहृः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥ २५३ ॥
निहन्ति शूलवातामश्लेष्मश्वासगलामयान् ।
पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥ २५४ ॥
स्वर्जिकाऽल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत् ।
सुवर्चिका स्वर्जिकावद् बोद्धव्या गुणतो जनैः ॥ २५५ ॥
सौभाग्यं टङ्कणं क्षारं धातुद्रावकमुच्यते ।
टङ्कणं वह्निकृद्रूक्षं कफहृद्वातपित्तकृत् ॥ २५६ ॥
स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम् ।
टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितम् ॥ २५७ ॥
मिलितं तूक्तगुणकृद्विशेषाद्गुल्महृत्परम् ।
पलाश वज्रि शिखरि चिञ्चाऽकतिलनालजाः ॥ २५८ ॥
यवजः स्वर्जिका चेति क्षाराष्टकमुदाहृतम् ।
क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम् ॥ २५९ ॥
चुक्रंसहस्रवेधि स्याद्रसाम्लं शुक्तमित्यपि ।
चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम् ॥ २६० ॥
शूलगुल्मविबन्धामवातश्लेष्महरं सरम् ।
वमितृष्णाऽस्यवैरस्यहृत्पीडावह्निमान्द्यहृत् ॥ २६१ ॥
॥ इति हरीतक्यादिवर्गः समाप्तः ॥
1st chapter of a text known as "bhavaprakasha nighantu" written
by Bhavamishra in 16th century. This is an authentic text in
Ayurveda dealing with the properties of about 900 herbs.
Encoded and proofread by Vaidya Megharaj Paradkar
dr.megharaj at gmail.com
% File name : bhAvaprakAshanighaNTu01.itx
%--------------------------------------------
% Text title : bhAvaprakAsha nighaNTu
% Author : bhAvamishrA
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : an authentic text Ayurveda dealing with the properties
% of about 900 herbs 16th century
% Transliterated by : Vaidya Megharaj Paradkar dr.megharaj at gmail.com
% Proofread by : Vaidya Megharaj Paradkar dr.megharaj at gmail.com
% Translated by :
% Latest update : 5/27/2011
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .