॥ हितोपदेशः ॥
मङ्गलाचरणम्-
सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः ।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला ॥ १ ॥
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥ २ ॥
विद्याप्रशंसा-
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ३ ॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥ ४ ॥
संयोजयति विद्यैव नीचगापि नरं सरित्।
समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम् ॥ ५ ॥
विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वात्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥ ६ ॥
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत्।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥ ८ ॥
मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च ।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते ॥ ९ ॥
अथ कथामुखम्
अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम् । तत्र
सर्वस्वामिगुणोपेतः सुदर्शनो नाम नरपतिरासीत्। स भूपतिरेकदा
केनापि पाठ्यमानं श्लोकद्वयं शुश्राव
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ १० ॥
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ११ ॥
इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिनां
शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ १२ ॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ १३ ॥
किं च
वरं गर्भस्रावो वरमपि च नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यावजनिता ।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति-
र्न वाविद्वान्रूपद्रविणगुणयुक्तोऽपि तनयः ॥ १४ ॥
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ १५ ॥
अन्यच्च
गुणिगणगणनाऽरम्भे
न पतति कठिनी ससम्भ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी भवति? ॥ १६ ॥
अपि च
दाने तपसि शौर्ये च यस्य न प्रथितं मनः ।
विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ १७ ॥
अपरं च
वरमेको गुणी पुत्रो न च मूर्खशतैरपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणैरपि ॥ १८ ॥
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ १९ ॥
तथा चोक्तं
अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड् जीवलोकस्य सुखानि राजन् ॥ २० ॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ २१ ॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ २२ ॥
यस्य कस्य प्रसूतोऽपि गुणवान्पूज्यते नरः ।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥ २३ ॥
हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ २४ ॥
तत्कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्तां? यतः
आहारनिद्राभयमैथुनानि
सामान्यमेतत्पशुभिर्नराणाम् ।
ज्ञानं नराणामधिको विशेषो var धर्मो हि तेषामधिको
ज्ञानेन हीनाः पशुभिः समानाः ॥ २५ ॥ var धर्मेण हीनाः
यतः
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ २६ ॥
यच्चोच्यते
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ २७ ॥
किं च
अवश्यं भाविनो भावा भवन्ति महतामपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ २८ ॥
अन्यच्च
यदभावि न तद्भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ २९ ॥
एतत्कार्याक्षमाणां केषाञ्चिदालस्यवचनम् ।
पुरुषकारौत्कर्ष्यमाह
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ३० ॥
तथा च
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥ ३१ ॥
न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ३२ ॥
अन्यच्च
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ३३ ॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ३४ ॥
काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ३६ ॥
तथा चोक्तं
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ३७ ॥
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ३८ ॥
अपरञ्च
पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सभामध्ये जारगर्भ इव स्त्रियाः ॥ ३९ ॥
एतच्चिन्तयित्वा
राजा पण्डितसभां कारितवान्। राजोवाच भो भोः पण्डिताः !
श्रूयतां मम वचनम् । अस्ति कश्चिदेवम्भूतो विद्वान्यो
मम पुत्राणां नित्यमुन्मार्गगामिनामनधिगतशास्त्राणामिदानीं
नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः? यतः
काचः काञ्चनसंसर्गाद्धत्ते मारकतीर्द्युतीः ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥ ४० ॥
उक्तं च
हीयते हि मतिस्तात हीनैः सह समागमात्।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ४१ ॥
अत्रान्तरे विष्णुशर्मनामा महापण्डितः
सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत्देव
महाकुलसम्भूता
एते राजपुत्राः । तत्मया नीतिं ग्राहयितुं शक्यन्ते । यतः
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत्।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः ॥ ४२ ॥
अन्यच्च
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते ।
आकरे पद्यरागानां जन्म काचमणेः कुतः ॥ ४३ ॥
अतोऽहं षण्मासाभ्यन्तरे भवत्पुत्रान्
नीतिशास्त्राभिज्ञान्करिष्यामि । राजा सविनयं पुनरुवाच ।
कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ४४ ॥
अन्यच्च
यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते ॥ ४५ ॥
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्युपेयाः ॥ ४६ ॥
तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः
प्रमाणमित्युक्त्वा तस्य विष्णुशर्मणो करे बहुमानपुरःसरं पुत्रान्
समर्पितवान् ॥
१ मित्रलाभः
अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात्
प्रस्तावक्रमेण पण्डितोऽब्रवीत्भो राजपुत्राः शृणुत
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ १ ॥
तद्भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि ।
राजपुत्रैरुक्तमार्य ! कथ्यतां । विष्णुशर्मोवाच
शृणुत यूयम् ।
सम्प्रति मित्रलाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ २ ॥
राजपुत्रा ऊचुः कथमेतत्?
सोऽब्रवीतस्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र
नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद्
अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके
चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तमिव
द्वितीयमटन्तं पाशहस्तं व्याघमपश्यत्। तमालोक्याचिन्तयत्
अद्य प्रातरेवानिष्टदर्शनं जातम् ।
न जाने किमनभिमतं दर्शयिष्यति ।
इत्युक्त्वा तदनुसरणक्रमेण व्याकुलश्चलति । यतः
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ३ ॥
अन्यच्च विषयिणामिदमवश्यं कर्तव्यम् ।
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ ४ ॥
अथ तेन व्याधेन
तण्डुलकणान्विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो
भूत्वा स्थितः । अस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः
सपरिवारो वियति विसर्पंस्तण्डुलकणानवलोकयामास । ततः
कपोतराजस्तण्डुलकणलुब्धान्कपोतान्प्राह कुतोऽत्र निर्जने
वने तण्डुलकणानां सम्भवः । तन्निरूप्यतां तावत्। भद्रमिदं न
पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम् ।
कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ ५ ॥
कपोता ऊचुः कथमेतत्?
कथा १
सोऽब्रवीतहमेकदा दक्षिणारण्ये चरन्न्
अपश्यमेको वृद्धो व्याघ्रः स्नातः कुशहस्तः सरस्तीरे
ब्रूते भो भो पन्थाः ! इदं सुवर्णकङ्कणं गृह्यताम् ।
ततो लोभाकृष्टेन केनचित्पान्थेन आलोचितं भाग्येन एतत्
सम्भवति ।
किन्तु अस्मिनात्मसन्देहे प्रवृत्तिर्न विधेया । यतः
अनिष्टादिष्टलाभे पि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥ ६ ॥
किन्तु सर्वत्रार्थार्जनप्रवृत्तौ सन्देह एव । तथा चोक्तम्
न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ७ ॥
तन्निरूपयामि तावत्।
प्रकाशं ब्रूते । कुत्र तव कङ्कणम्? व्याघ्रो हस्तं प्रसार्य
दर्शयति । पान्थोऽवदत्कथं मारात्मके त्वयि विश्वासः?
व्याघ्र उवाच शृणु रे पान्थ ! प्रागेव
यौवनदशायामहमतीव दुर्वृत्त आसम् । अनेकगोमानुषाणां वधाद्
मे पुत्रा मृता दाराश्च । वंशहीनश्चाहम् ।
ततः केनचिद्धार्मिकेणाहमुपदिष्टः । दानधर्मादिकं चरतु
भवानिति । तदुपदेशादिदानीमहं स्नानशीलो दाता वृद्धो
गलितनखदन्तः न कथं विश्वासभूमिः? उक्तं च
इज्याऽध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ८ ॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ ९ ॥
मम चैतावान्लोभविरहः । येन
स्वहस्तस्थमपि सुवर्णकङ्कणं यस्मै कस्मैचिद्दातुमिच्छामि
तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः
गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् ।
प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ १० ॥
मया च धर्मशास्त्राणि अधीतानि । शृणु
मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ ११ ॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ १२ ॥
अपरं च
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १३ ॥
अन्यच्च
मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत्।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १४ ॥
त्वं च अतीवदुर्गतः । तेन तत्तुभ्यं दातुं सयत्नोऽहम् ।
तथा चोक्तम्
दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १५ ॥
अन्यच्च
दातव्यमिति यद्दानं दीयते नुपकारिणि ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥ १६ ॥
तदत्र सरसि स्नात्वा सुवर्णकङ्कणमिदं गृहाण । ततो यावदसौ
तद्वचःप्रतीतो लोभात्सरः स्नातुं प्रविष्टः,तावन्महापङ्के
निमग्नः पलायितुमक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदत्
अहह महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा
शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत्
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥ १७ ॥
किं च
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ १८ ॥
तन्मया भद्रं
न कृतम् । यदत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्
नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ १९ ॥
अपरं च
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥ २० ॥
अन्यच्च
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद्ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितं कः समर्थः ॥ २१ ॥
इति चिन्तयन्नेवासौ व्याघ्रेण धृत्वा व्यापादितः
खादितश्च । अतोऽहं ब्रवीमि कङ्कणस्य तु लोभेनेत्यादि ।
अत एव सर्वथाविचारितं कर्म न कर्तव्यमिति । यतः
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं
सुदीर्घकाले पि न याति विक्रियाम् ॥ २२ ॥
एतद्वचनं
श्रुत्वा कश्चित्कपोतः सदर्पमाह आः ! किमेवमुच्यते?
वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारे च भोजने पि प्रवर्तताम् ॥ २३ ॥
यतः
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा? ॥ २४ ॥
यथा चोक्तम्
ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ २५ ॥
एतच्छ्रुत्वा तण्डुल्कणलोभेन
नभोमण्डलादवतीर्यसर्वे कपोतास्तत्रोपविष्टाः । यतः
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्ताः संअयानां च क्लिश्यन्ते लोभमोहिताः ॥ २६ ॥
अन्यच्च
लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ २७ ॥
अन्यच्च
असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति ॥ २८ ॥
अनन्तरं ते सर्वे जालनिबद्धा बभूवुः,
ततो यस्य वचनात्तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः,
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ २९ ॥
तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच नायमस्य दोषः,यतः
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ ३० ॥
अन्यच्च
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ३१ ॥
विपत्काले विस्मय एव कापुरुषलक्षणम् ।
तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्,यतः
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ३२ ॥
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ ३३ ॥
अन्यच्च
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ३४ ॥
इदानीमपि एवं क्रियतां सर्वैरेकचित्तीभूय जालमादाय
उड्डीयताम् । यतः
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ ३५ ॥
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ ३६ ॥
इति विचित्य पक्षिणः सर्वे जालमादाय उत्पतिताः । अनन्तरं च व्याधः
सुदूराज्जालापहारकांस्तानवलोक्य पश्चाद्धावितोऽचिन्तयत्
संहतास्तु हरन्त्येते मम जालं विहङ्गमाः ।
यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ ३७ ॥
ततस्तेषु चक्षुर्विषयमतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः ।
अथ लुब्धकं निवृत्तं
दृष्ट्वा कपोता ऊचुः स्वामिन्! किमिदानीं कर्तुमुचितम्?
चित्रग्रीव उवाच
माता मित्रं पिता चेति स्वभावात्त्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ ३८ ॥
तन्मे मित्रं हिरण्यको नाम मूषिकराजो
गण्डकीतीरे चित्रवने निवसति । सोऽस्माकं पाशांश्छेत्स्यति
इत्यालोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च
सर्वदा अपायशङ्कया शतद्वारं विवरं कृत्वा निवसति ।
ततो हिरण्यकः कपोतावपातभयाच्चकितः तूष्णीं स्थितः ।
चित्रग्रीव उवाच सखे हिरण्यक ! कथमस्मान्न सम्भाषसे?
ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञाय
ससम्भ्रमं बहिर्निःसृत्य अब्रवीत्
आः ! पुण्यवानस्मि प्रियसुहृन्मे चित्रग्रीवः समायातः ।
यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ ३९ ॥
अथ पाशबद्धांश्चैतान्
दृष्ट्वा सविस्मयः क्षणं स्थित्वा उवाच सखे ! किमेतत्?
चित्रग्रीव उवाच
सखे ! अस्माकं प्राक्तनजन्मकर्मणः फलमेतत्।
यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति ॥ ४० ॥
रागशोकपरीतापबन्धनव्यसनानि च ।
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥ ४१ ॥
एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं
सत्वरमुपसर्पति । तत्र चित्रग्रीव उवाच मित्र ! मा मैवं
कुरु । प्रथममस्मदाश्रितानामेतेषां तावत्पाशांश्छिन्धि । मम
पाशं पश्चाच्छेत्स्यसि ।
हिरण्यकोऽप्याह अहमल्पशक्तिः । दन्ताश्च मे कोमलाः । तद्
एतेषां पाशांश्छेत्तुं कथं समर्थो भवामि? तत्यावन्मे दन्ता
न त्रुट्यन्ति,तावत्तव पाशं छिनद्मि । तदनन्तरमप्येतेषां
बन्धनं यावत्शक्यं छेत्स्यामि । चित्रग्रीव उवाच
अस्त्वेवम् । तथापि यथाशक्ति बन्धनमेतेषां खण्डय ।
हिरण्यकेनोक्तमात्मपरित्यागेन
यदाश्रितानां परिरक्षणं तन्न नीतिवेदिनां सम्मतम् । यतः
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ४२ ॥
अन्यच्च
धर्मार्थकाममोक्षाणां प्राणाः संस्थितहेतवः ।
तान्निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ ४३ ॥
चित्रग्रीव उवाच सखे ! नीतिस्तावदीदृश्येव,
किन्त्वहमस्मदाश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं
ब्रवीमि । यतः
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ४४ ॥
अयमपरश्चासाधारणो हेतुः ।
जातिद्रव्यबलानां च साम्यमेषां मया सह ।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति ॥ ४५ ॥
अन्यच्च
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् ।
तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ ४६ ॥
किं च
मांसमूत्रपुरीषास्थिपूरिते त्र कलेवरे ।
विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ ४७ ॥
अपरं च पश्य
यदि नित्यमनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम् ॥ ४८ ॥
यतः
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ ४९ ॥
इत्याकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सनब्रवीत्साधु
मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं
त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि ।
ततो हिरण्यकः सर्वान्सादरं सम्पूज्य आह सखे चित्रग्रीव !
सर्वथात्र जालबन्धनविधौ सति दोषमाशङ्क्य आत्मनि अवज्ञा
न कर्तव्या । यतः योऽधिकाद्योजनशतान्पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ ५० ॥
अपरं च
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ ५१ ॥
अन्यच्च
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि ।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ ५२ ॥
इति प्रबोध्य आतिथ्यं
कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो
यथेष्टदेशान्ययौ,हिरण्यकोऽपि स्वविवरं प्रविष्टः ।
यानि कानि च मित्राणि कर्तव्यानि शतानि च ।
पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ ५३ ॥
अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी
साश्चर्यमिदमाह अहो हिरण्यक ! श्लाघ्योऽसि,अतोऽहमपि
त्वया सह
मैत्रीं कर्तुमिच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुमर्हसि ।
एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाह कस्त्वम्?
स ब्रूते लघुपतनकनामा
वायसोऽहम् । हिरण्यको विहस्याह का त्वया सह मैत्री? यतः
यद्येन युज्यते लोके बुधस्तत्तेन योजयेत्।
अहमन्नं भवान्भोक्ता कथं प्रीतिर्भविष्यति ॥ ५४ ॥
अपरं च
भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।
शृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥ ५५ ॥
वायसोऽब्रवीत्कथमेतत्?
हिरण्यकः कथयति
कथा २
अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । तस्यां चिरात्महता
स्नेहेन मृगकाकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन्
हृष्टपुष्टाङ्गः केनचित्शृगालेनावलोकितः ।
तं दृष्ट्वा शृगालोऽचिन्तयताः !
कथमेतन्मांसं सुललितं भक्षयामि? भवतु,विश्वासं तावद्
उत्पादयामि इत्यालोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते?
मृगेणोक्तं कस्त्वम्?
स ब्रूते क्षुद्रबुद्धिनामा जम्बुकोऽहम् । अत्रारण्ये
बन्धुहीनो मृतवतेकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः
सबन्धुर्जीवलोकं प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा
भवितव्यमिति । मृगेणोक्तमेवमस्तु । ततः पश्चादस्तं गते
सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ ।
तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य
चिरमित्रं निवसति । तौ दृष्ट्वा काकोऽवदत्सखे चित्राङ्ग !
कोऽयं द्वितीयः?
मृगो ब्रूते मित्र !
अकस्मादागन्तुना सह मैत्री न युक्ता । तन्न भद्रमाचरितम् ।
तथा चोक्तम् अज्ञातकुलशीलस्य वासो देयो न कस्यचित्।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ ५६ ॥
तौ आहतुःकथमेतत्?
काकः कथयति
कथा ३
अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान्पर्कटीवृक्षः
तस्य कोटरे दैवदुर्विपाकात्गलितनखनयनो जरद्गवनामा
गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद्वृक्षवासिनः
पक्षिणः स्वाहारात्किञ्चित्किञ्चिदुद्धृत्य तस्मै ददति,तेनासौ
जीवति,तेषां शावकरक्षां च करोति । अथ कदाचित्
दीर्घकर्णनामा मार्जारः पक्षिशावकान्भक्षयितुं तत्रागतः ।
ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैः कोलाहलः कृतः ।
तच्छ्रुत्वा जरद्गवेन उक्तं कोऽयमायाति? दीर्घकर्णो
गृध्रमवलोक्य सभयमाह हा हतोऽस्मि यतोऽयं मां
व्यापादयिष्यति । अथवाऽ तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् ॥ ५७ ॥
अधुनातिसन्निधाने पलायितुमक्षमः । तद्यथा भवितव्यं तथा
भवतु,तावत्विश्वासमुत्पाद्यास्य समीपमुपगच्छामीत्यालोच्य
तमुपसृत्याब्रवीतार्य ! त्वामभिवन्दे ।
गृध्रोऽवदत्कस्त्वम्?
सोऽवदत्मार्जारोऽहम् ।
गृध्रो ब्रूते दूरमपसर नो चेथन्तव्योऽसि मया ।
मार्जारोऽवदत्श्रूयतां
तावत्मद्वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । यतः
जातिमात्रेण किं कश्चिद्वध्यते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ ५८ ॥
गृध्रो ब्रूते ब्रूहि किमर्थमागतोऽसि?
सोऽवदतहमत्र गङ्गातीरे नित्यस्नायी
निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि । युष्मान्
धर्मज्ञानरताः प्रेमविश्वासभूमयः इति पक्षिणः सर्वे
सर्वदा ममाग्रे प्रस्तुवन्ति,अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो
धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञाः,
यन्मामतिथिं हन्तुमुद्यताः? गृहस्थधर्मश्च एषः
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ ५९ ॥
किं च
यदि अन्नं नास्ति,तदा सुप्रीतेनापि वचसा तावदतिथिः पूज्य एव ।
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ६० ॥
अन्यच्च
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ ६१ ॥
अपरं च
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ ६२ ॥
अन्यच्च
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ६३ ॥
अन्यच्च
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ ६४ ॥
गृध्रोऽवदत्मार्जारो
हि मांसरुचिः । पक्षिशावकाश्चात्र निवसन्ति । तेनाहमेव ब्रवीमि ।
तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति,ब्रूते
च मया धर्मशास्त्रं श्रुत्वा वीतरागेनेदं दुष्करं
व्रतं चान्द्रायणमध्यवसितम् । यतः परस्परं विवदमानानामपि
धर्मशास्त्राणामहिंसा परमो धर्मः इत्यत्रैकमत्यम् । यतः
सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये ।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ ६५ ॥
अन्यच्च
एक एव सुहृद्धर्मो निधने प्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यधि गच्छति ॥ ६६ ॥
किं च
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ६७ ॥
अपि च
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते ।
शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ ६८ ॥
शृणु पुनः
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत् ॥ ६९ ॥
एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः । ततो दिनेषु गच्छत्सु
असौ पक्षिशावकानाक्रम्य स्वकोटरमानीय प्रत्यहं खादति ।
अथ येषामपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो
जिज्ञासा समारब्धा । तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः
पलायितः । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे
शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो
व्यापादितः । अतोऽहं ब्रवीमि अज्ञातकुलशीलस्य इत्यादि ।
इत्याकर्ण्य स जम्बुकः सकोपमाह मृगस्य प्रथमदर्शनदिने
भवानपि अज्ञातकुलशील एव आसीत्। तत्कथं
भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते? अथवाऽ
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥ ७० ॥
अन्यच्च
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ७१ ॥
यथा चायं मृगो मम बन्धुस्तथा भवानपि ।
मृगोऽब्रवीत्कमनेन उत्तरोत्तरेण?
सर्वैरेकत्र विश्रम्भालापैः सुखमनुभवद्भिः स्थीयताम् । यतः
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ ७२ ॥
काकेन उक्तमेवमस्तु । अथ प्रातः सर्वे यथाभिमतदेशं गताः ।
एकदा निभृतं शृगालो ब्रूते सखे मृग ! एतस्मिन्नेव
वनैकदेशे सस्यपूर्णं क्षेत्रमस्ति । तदहं त्वां तत्र नीत्वा
दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं
खादति । ततो दिनकतिपयेन क्षेत्रपतिना तद्दृष्ट्वा पाशास्तत्र
योजिताः । अनन्तरं
पुनरागतो मृगः तत्र चरन्पाशैर्बद्धोऽचिन्तयत्को
मामितः कालपाशादिव व्याधपाशात्त्रातुं मित्रादन्यः समर्थः?
अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत्फलितस्तावद्
अस्माकं कपटप्रबन्धः । मनोरथसिद्धिरपि बाहुल्यान्
मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्लिप्तानि
अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि
भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूते सखे !
छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः
आपत्सु मित्रं जानीयाद्रणे शूरं ऋणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ ७३ ॥
अपरं च
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ७४ ॥
जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत्दृढस्तावदयं बन्धः ।
ब्रूते च सखे ! स्नायुनिर्मिताः पाशाः,तदद्य भट्टारकवारे
कथमेतान्दन्तैः स्पृशामि? मित्र ! यदि चित्ते न अन्यथा
मन्यसे,तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यमिति । अनन्तरं
स काकः प्रदोषका मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन्
तथाविधं तं दृष्ट्वा उवाच सखे ! किमेतत्? मृगेणोक्तं
अवधीरितसुहृद्वाक्यस्य फलमेतत्तथा चोक्तम्
सुहृदां हितकामानां यः शृणोति न भाषितम् ।
विपत्सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ ७५ ॥
काको ब्रूते स वञ्चकः क्वास्ते?
मृगेणोक्तं मन्मांसार्थी तिष्ठत्यत्रैव ।
काको ब्रूते मित्र ! उक्तमेव मया पूर्वम् ।
अपराधो न मे स्तीति नैतद्विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ७६ ॥
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ ७७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ७८ ॥
ततः काको दीर्घं निःश्वस्य उवाच
अरे वञ्चक ! किं त्वया पापकर्मणा कृतम् । यतः
संलापितानां मधुरैर्वचोभि-
र्मिथ्योपचारैश्च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके
किमर्थिनां वञ्चयितव्यमस्ति ॥ ७९ ॥
अन्यच्च
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥ ८० ॥
दुर्जनेन समं सख्यं वैरं चापि न कारयेत्।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ८१ ॥
अथवा स्थितिरियं दुर्जनानाम्
प्राक् पादयोः पतति खादति पृष्ठमांसं
कर्णे फलं किमपि रौति शनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति ॥ ८२ ॥
तथा च
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ८३ ॥
अथ प्रभाते स क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन्
काकेनावलोकितः । तमवलोक्य काकेनोक्तं सखे मृग ! त्वमात्मानं
मृतवत्सन्दर्श्य वातेनोदरं पूरयित्वा पादान्स्तब्धीकृत्य तिष्ठ ।
अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि,
यदाहं शब्दं करोमि,तदा त्वमुत्थाय सत्वरं पलायिष्यसे ।
मृगस्तथैव काकवचनेन
स्थितः । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो
मृग आलोकितः । अथासौ आः ! स्वयं मृतोऽसि? इत्युक्त्वा
मृगं बन्धनात्मोचयित्वा पाशान्संवरीतुं सत्वरो बभूव ।
ततः कियद्दूरे अन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्दं
श्रुत्वा सत्वरमुत्थाय पलायितः । तमुद्दिश्य तेन क्षेत्रपतिना
प्रकोपात्क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥ ८४ ॥
अतोऽहं ब्रवीमि भक्ष्यभक्ष्यकयोः प्रीतिरित्यादि ।
इति मृगवायसशृगालकथा
काकः पुनराह
भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ ८५ ॥
अन्यच्च
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ॥ ८६ ॥
किं च
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ ८७ ॥
हिरण्यको ब्रूते चपलस्त्वम् ।
चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्
मार्जारो महिषो मेषः काकः कापुरुषस्तथा ।
विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ ८८ ॥
किं चान्यत्शत्रुपक्षो
भवानस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत्
शत्रुणा न हि सन्दध्यात्संश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ८९ ॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ९० ॥
यदशक्यं न तच्छक्त्यं यच्छक्त्यं शक्यमेव तत्।
नोदके शकटं याति न च नौर्गच्छति स्थले ॥ ९१ ॥
अपरं च
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ ९२ ॥
लघुपतनको ब्रूते श्रुतं मया सर्वं,तथापि ममैतावन्
एव सङ्कल्पः । यत्त्वया सह सौहृद्यमवश्यं करणीयमिति ।
अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि
मृद्घटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशु सन्धेयः ॥ ९३ ॥
किं च
द्रवत्वात्सर्वलोहानां निमित्ताद्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां सङ्गतः दर्शनात्सताम् ॥ ९४ ॥
किं च
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ ९५ ॥
अन्यच्च
स्नेहच्छेदे पि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गे पि हि मृणालानामनुबध्नन्ति तन्तवः ॥ ९६ ॥
अन्यच्च
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ ९७ ॥
एतैर्गुणैरुपेतो भवदन्यो मया कः सुहृत्
प्राप्तव्यः? इत्यादि तद्वचनमाकर्ण्य हिरण्यको बहिः निःसृत्याह
आप्यायितोऽहं भवतामेतेन वचनामृतेन । तथा चोक्तम्
घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥ ९८ ॥
अन्यच्च
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तया ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ ९९ ॥
अनेन वचनक्रमेण ततेकमपि दूषणं त्वयि न लक्ष्यते । यतः
पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते ।
अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥ १०० ॥
अपरं च
अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः ।
प्रवर्तते न्यथा वाणी शाठ्योपहतचेतसः ॥ १०१ ॥
मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद्दुरात्मनाम् ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १०२ ॥
तद्भवतु भवतः अभिमतमेव इत्युक्त्वा हिरण्यको मैत्र्यं विधाय
भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि
स्वस्थानं गतः ततःप्रभृति तयोः अन्योऽन्याहारप्रदानेन
कुशलप्रश्नैः विश्रम्भालापैश्च कियत्कालोऽतिवर्तने ।
एकदा लघुपतनको हिरण्यकमाह सखे ! वायसस्य
कष्टतरलभ्याहारमिदं स्थानम् । तदेतत्परित्यज्य स्थानान्तरं
गन्तुमिच्छामि ।
हिरण्यको ब्रूते
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥ १०३ ॥
काको ब्रूते मित्र ! कापुरुषस्य वचनमेतत्। यतः
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १०४ ॥
अन्यच्च
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिन्नत्त्यात्मनः ॥ १०५ ॥
हिरण्यको ब्रूते मित्र क्व गन्तव्यम्? तथा चोक्तम्
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १०६ ॥
वायसो ब्रूते मित्र ! अस्ति सुनिरूपितं स्थानम् ।
हिरण्यकोऽवदत्किं तत्?
वायसः कथयति अस्ति दण्डकारण्ये
कर्पूरगौराभिधानं सरः । तत्र चिरकालोपार्जितः प्रियसुहृन्मे
मन्थराभिधानः कूर्मः सहजधार्मिकः प्रतिवसति । पश्य मित्र !
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ १०७ ॥
स च भोजनविशेषैर्मां संवर्धयिष्यति ।
हिरण्यकोऽप्याह तत्किमत्रावस्थाय मया कर्तव्यम्? यतः
यस्मिन्देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १०८ ॥
अपरं च
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १०९ ॥
अपरं च
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ११० ॥
अन्यच्च
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १११ ॥
अतो मामपि तत्र नय ।
वायसोऽवदतेवमस्तु ।
अथ वायसस्तेन मित्रेण सह विचित्रालापसुखेन तस्य सरसः
समीपं ययौ । ततो मन्थरो दूरादेव लघुपतनकमवलोक्य उत्थाय
यथोचितमातिथ्यं विधाय मूषिकस्याप्यतिथिसत्कारं चकार ।
यतः
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ ११२ ॥
तथाऽ
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ ११३ ॥
अपरं च
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ ११४ ॥
वायसोऽवदत्सखे ! मन्थर ! सविशेषपूजामसमि विधेहि,
यतोऽयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा
मूषिकराजः । एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि
सर्पराजः कदाचित्कर्तुं समर्थः स्यातित्युक्त्वा चित्रग्रीवोपाख्यानं
वर्णितवान्। ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह
भद्र ! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि?
हिरण्यकोऽवदत्कथयामि,श्रूयताम् ।
कथा ४
अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः ।
तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च
भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तके
वस्थाप्य स्वपिति ।
अहं च तदन्नमुत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं
तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजकः समायातः,तेन सह
नानाकथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन
चूडाकर्णो भूमिमताडयत्। तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच
सखे ! किमिति मम कथाविरक्तोऽन्यासक्तो भवान्? यतः
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥ ११५ ॥
अदृष्टिदानं कृतपूर्वनाशनं
आननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृति-
र्विरक्तभावस्य जनस्य लक्षणम् ॥ ११६ ॥
चूडाकर्णेनोक्तं भद्र ! नाहं विरक्तः,किन्तु पश्य अयं मूषिको
ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति । वीणाकर्णो
नागदन्तमवलोक्याह कथमयं मूषिकः स्वल्पबलोऽप्येतावद्
दूरमुत्पतति? तदत्र केनापि कारणेन भवितव्यम् ।
क्षणं विचिन्त्य परिव्राजकेनोक्तं कारणं चात्र
धनबाहुल्यमेव प्रतिभाति । यतः
धनवान्बलवान्लोके सर्वः सर्वत्र सर्वदा ।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ ११७ ॥
ततः खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिरसञ्चितं
मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निजशक्तिहीनः
सत्त्वोत्साहरहितः स्वाहारमप्युत्पादयितुमक्षमः सन्नासं
मन्दं मन्दमुपसर्पन्चूडाकर्णेनावलोकितः । ततस्तेनोक्तम्
धनेन बलवान्लोको धनाद्भवति पण्डितः ।
पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ ११८ ॥
किं च
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ११९ ॥
अपरं च
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान्लोके यस्यार्थाः स हि पण्डितः ॥ १२० ॥
अपरं च
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥ १२१ ॥
अपरं च
दारिद्र्यान्मरणाद्वापि दारिद्र्यमवरं स्मृतम् ।
अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥ १२२ ॥
अन्यच्च
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १२३ ॥
एतत्सर्वमाकर्ण्य
मयालोचितं ममान्नावस्थानमयुक्तमिदानीम् । तथा चोक्तम्
अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १२४ ॥
अन्यच्च
मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥ १२५ ॥
किं च
कुसुमस्तवकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्येत वने थवा ॥ १२६ ॥
यच्चान्यस्मै एतद्वृत्तान्तकथनं तदप्यनुचितम् । यतः
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १२७ ॥
यच्चात्रैव याच्ञया जीवनं तदप्यतीवगर्हितम् । यतः
वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ १२८ ॥
अन्यच्च
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते
निःसत्त्वं परिभूयते परिभवान्निर्वेदमापद्यते ।
निर्विण्णः शुचमेति शोकफिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १२९ ॥
किं च
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ १३० ॥
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः ।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ १३१ ॥
अपि च
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १३२ ॥
तत्किमहं परपिण्डेन आत्मानं पोषयामि?
कष्टं भोः ! तदपि द्वितीयं मृत्युद्वारम् । अन्यच्च
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ १३३ ॥
इत्यालोच्यापि लोभात्
पुनरपि तदीयमन्नं ग्रहीतुं ग्रहमकरवम् । तथा चोक्तम्
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ १३४ ॥
ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन
जर्जरवंशखण्डेन ताडितश्चाचिन्तयं
लुब्धो ह्यसन्तुष्टो नियतमात्मद्रोही भवति । तथा च
धनलुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥ १३५ ॥
सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥ १३६ ॥
अपरं च
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १३७ ॥
किं च
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १३८ ॥
अपि च
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥ १३९ ॥
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य करप्राप्ते प्यर्थे भवति नादरः ॥ १४० ॥
तदत्र अवस्थोचितकार्यपरिच्छेदः श्रेयान्।
को धर्मो भूतदया किं सौख्यं नित्यमरोगिना जगति ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ १४१ ॥
तथा च
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तृणां विपदः स्युः पदे पदे ॥ १४२ ॥
तथा हि
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १४३ ॥
अपरं च
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।
विचार्यं खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १४४ ॥
इत्यालोच्याहं निर्जनवनमागतः । यतः
वरं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयः पत्रफलाम्बुभक्षितम् ।
तृणानि शय्या वसनं च वल्कलं
न बन्धुमध्ये धनहीनजीवनम् ॥ १४५ ॥
अतः
संसारविषयवृक्षस्य द्वे एव रसवत्फले ।
काव्यामृतरसास्वादः सङ्गमः सज्जनैः सह ॥ १४६ ॥
अपरं च
सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् ।
असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ १४७ ॥
मन्थर उवाच
अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं
आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् ।
धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं
पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥ १४८ ॥
युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाहैवाम्भसाम् ॥ १४९ ॥
अन्यच्च
यदधोऽधः क्षितौ वित्तं निचखान मितम्पचः ।
तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १५० ॥
यतः
निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति ।
परार्थभारवाहीव स क्लेशस्यैव भाजनम् ॥ १५१ ॥
तथा चोक्तं
दानोपभोगहीनेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयम् ॥ १५२ ॥
यतः
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून्न याधत्ते ।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ १५३ ॥
अन्यच्च
असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥ १५४ ॥
अपि च
न देवाय न विप्राय न बन्धुभ्यो न चात्मने ।
कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ १५५ ॥
तथा चोक्तम्
दानं प्रियवाक्सहितं
ज्ञानमगर्वं क्षमान्वितं सौर्यम् ।
त्यागं सहितं च वित्तं
दुर्लभमेतच्चतुर्भद्रम् ॥ १५६ ॥
उक्तं च
कर्तव्यः सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः ।
अतिसञ्चयशीलोऽयं धनुषा जम्बुको हतः ॥ १५७ ॥
तावाहतुः कथमेतत्?
मन्थरः कथयति
कथा ५
आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः ।
स चैकदा मांसलुब्धो धनुरादाय
मृगमन्विष्यन्विन्ध्याटवीमध्यं गतः । तत्र तेन मृग
एको व्यापादितः । ततो मृगमादाय गच्छता तेन घोराकृतिः
शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण
हतः । शूकरेणाप्यागत्य प्रलयघनघोरगर्जनं कुर्वाणेन स
व्याधो मुष्कदेशे हतः छिन्नद्रुम इव पपात । तथा चोक्तम्
जलमग्निर्विषं शस्तं क्षुद्व्याधिः पतनं गिरेः ।
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥ १५८ ॥
अथ तयोः पादास्फालनेन एकः सर्पोऽपि मृतः । अत्रान्तरे
दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान्मृतान्
मृगव्याधसर्पशूकरानपश्यत्। आलोक्याचिन्तयच्च अहो
भाग्यं ! अद्य महद्भोज्यं मे समुपस्थितम् ।
अथवा
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १५९ ॥
मासमेकं नरो याति द्वौ मासौ मृगशूकरौ ।
अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ १६० ॥
ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं
खादामि,इत्युक्त्वा तथाकरोत्। ततश्छिन्ने स्नायुबन्धने
द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं
गतः । अतोऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यमित्यादि । तथा च
यद्ददाति यदश्नाति तदेव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १६१ ॥
किं च
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने ।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ १६२ ॥
यातु,किमिदानीमतिक्रान्तोपवर्णनेन । यतः
नाप्रायमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १६३ ॥
तत्सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्,यतः
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान्पुरुषः स विद्वान्।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥ १६४ ॥
अन्यच्च
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि ।
अन्धस्य किं हस्ततलस्थितोऽपि
प्रकाशयत्यर्थमिह प्रदीपः ॥ १६५ ॥
तदत्र सखे दशातिशेषेण शान्तिः करणीया ।
एतदप्यतिकष्टं त्वया न मन्तव्यम् ।
सुखमापतितं सेव्यं दुःखमापतितं तथा ।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ १६६ ॥
अपरं च
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।
सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः ॥ १६७ ॥
अपि च
उत्साहसम्पन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च
लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ १६८ ॥
विशेषतश्च
विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः ।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां
द्युतिं सैंहीं श्वा किं धृतकनकमालोऽपि लभते ॥ १६९ ॥
किं च
धनवानिति हि मदस्ते किं गतविभवो विषादमुपयासि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ १७० ॥
अन्यच्च
वृत्त्यर्थं नातिचेष्टते सा हि धात्रैव निर्मिता ।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १७१ ॥
अपि च सखे शृणु
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ १७२ ॥
अपरं च सतां रहस्यं शृणु,मित्र !
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु ।
मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः ॥ १७३ ॥
अपरं च
धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १७४ ॥
यतः
यथाआमिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ १७५ ॥
अन्यच्च
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ १७६ ॥
तथा हि
जन्मनि क्लेशबहुले किं नु दुःखमतः परम् ।
इच्छासम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ १७७ ॥
अन्यच्च भ्रातः शृणु
धनं तावदसुलभं लब्धं कृच्छ्रेण पाल्यते ।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ १७८ ॥
सा तृष्णा चेत्परित्यक्ता को दरिद्रः क ईश्वरः ।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ १७९ ॥
अपरं च
यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्तते ।
प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ १८० ॥
किं बहुना,विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः
आम्रणान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।
परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ १८१ ॥
इति श्रुत्वा लघुपतनको ब्रूते
धन्योऽसि मन्थर ! सर्वथा आश्रयणीयोऽसि । यतः
सन्त एव सतां नित्यमापदुद्धरणक्षमाः ।
गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ १८२ ॥
अपरं च
श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्पुरुषः स धन्यः ।
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गा विमुखाः प्रयान्ति ॥ १८३ ॥
तदेवं ते स्वेच्छाहारविहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म ।
अथ कदाचित्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः ।
तत्पश्चादायान्तं भयहेतुं सम्भाव्य मन्थरो जलं प्रविष्टः ।
मूषिकश्च विवरं गतः,काकोऽपि उड्डीय वृक्षाग्रमारूढः । ततो
लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोऽप्यवलम्बितः ।
पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः ।
मन्थरेणोक्तं भद्र मृग ! कुशलं ते? स्वेच्छया
उदकाद्याहारोऽनुभूयताम् । अत्रावस्थानेन वनमिदं सनाथीक्रियताम् ।
चित्राङ्गो ब्रूते लुब्धकत्रासितोऽहं भवतां शरणमागतः ।
ततश्च,भवद्भिः सह
मित्रत्वमिच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः
लोभाद्वाथ भयाद्वापि यस्त्यजेच्छरणागतम् ।
ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ १८४ ॥
हिरण्यकोऽप्यवदत्मित्रत्वं
तावदस्माभिः सह,अयत्नेन निष्पन्नं भवतः । यतः
औरसं कृतसम्बन्धं तथा वंशक्रमागतम् ।
रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ १८५ ॥
तदत्र भवता स्वगृहनिर्विशेषेण स्थीयताम् । तच्छ्रुत्वा
मृगः सानन्दो भूत्वा कृतस्वेच्छाहारः पानीयं पीत्वा
जलासन्नवटतरुच्छायायामुपविष्टः ।
अथ मन्थरो ब्रूते सखे मृग ! केन
त्रासितोऽसि? अस्मिन्निर्जने वने कदाचित्किं व्याधाः सञ्चरन्ति?
मृगेणोक्तमस्ति कलिङ्गविषये रुक्माङ्गदो नाम नृपतिः ।
स च दिग्विजयव्यापारक्रमेण आगत्य चन्द्रभागानदीतीरे
समावेशितकटको वर्तते,प्रातश्च तेनात्रागत्य कर्पूरसरः
समीपे भवितव्यमिति व्याधानां मुखात्किंवदन्ती श्रूयते । तद्
अत्रापि प्रातरवस्थानं भयहेतुकमित्यालोच्य यथा कार्यं तथा
आरभ्यताम् ।
तच्छ्रुत्वा
कूर्मः सभयमाह मित्र ! जलाशयान्तरं गच्छामि ।
काकमृगावपि उक्तवन्तौ मित्र ! एवमस्तु !
हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये
प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोऽस्य का विधा?
अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् ।
स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ १८६ ॥
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥ १८७ ॥
तद्यथाऽ
कथा ६
अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती । तमवलोक्य सर्वे
शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाप्युपायेन मिर्यते,
तदास्माकमेतेन देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत्।
ततस्तन्मध्यादेकेन वृद्धशृगालेन प्रतिज्ञा कृता । मया
बुद्धिप्रभावादस्य मरणं
साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा
साष्टाङ्गपातं प्रणम्योवाच देव ! दृष्टिप्रसादं कुरु ।
हस्ती ब्रूते कस्त्वम्? कुतः समायातः?
सोऽवदत्
जम्बुकोऽहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं
प्रस्थापितः । यद्विना राज्ञा स्थातुं न युक्तम् । तदत्राटवीराज्ये
भिषेक्तुं भवान्सर्वस्वामिगुणोपेतो निरूपितः । यतः
कुलाचारजनाचारैरतिशुद्धः प्रतापवान्।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि ॥ १८८ ॥
अपरं च पश्य
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
राजन्यसति लोके स्मिन्कुतो भार्या कुतो धनम् ॥ १८९ ॥
अन्यच्च
पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।
विकले पि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ १९० ॥
किं च
नियतविषयवर्ती प्रायशो दण्डयोगाज्
जगति परवशे स्मिन्दुर्लभः साधुवृत्तेः ।
कृशमपि विकलं वा व्याधितं वाधनं वा
पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ १९१ ॥
तद्यथा लग्नवेला न चलति तथा कृत्वा
सत्वरमागम्यतां देवेन । इत्युक्त्वा उत्थाय चलितः । ततोऽसौ
राज्यलाभाकृष्टः कर्पूरतिलकः शृगालदर्शितवर्त्मना धावन्
महापङ्के निमग्नः । हस्तिनोक्तं सखे शृगाल ! किमधुना
विधेयम्? महापङ्के पतितोऽहं म्रिये । परावृत्य पश्य !
शृगालेन विहस्योक्तं देव ! मम पुच्छाग्रे हस्तं दत्त्वा
उत्तिष्ठ । यस्मात्मद्विधस्य वचसि त्वया विश्वासः कृतः,
तस्य फलमेतत्। तदनुभूयतामशरणं दुःखम् । तथा चोक्तम्
यदासत्सङ्गरहितो भविष्यसि भविष्यसि ।
यदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ १९२ ॥
ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः ।
अतोऽहं ब्रवीमि उपायेन हि यच्छक्यमित्यादि ।
ततस्तद्धितवचनमवधीर्य महता भयेन विमुग्ध इव
मन्थरस्स्तज्जलाशयमुत्सृज्य प्रचलितः । ते पि हिरण्यकादयः
स्नेहादनिष्टं
शङ्कमानास्तमनुजग्मुः । ततः स्थले गच्छन्केनापि व्याधेन वने
पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि
बद्ध्वा धन्योऽस्मीत्यभिधाय भ्रमणक्लेशात्क्षुत्पिपासाकुलः
स्वगृहाभिमुखं प्रयातः । अथ ते मृगवायसमूषिकाः परं
विषादमुपगताः तमनुगच्छन्ति स्म । ततो हिरण्यको विलपति
एकस्य दुःखस्य न यावदन्तं
गच्छाम्यहं पारमिवार्णवस्य ।
तावद्द्वितीयं समुपस्थितं मे
छिद्रेष्वनर्था बहुलीभवन्ति ॥ १९३ ॥
स्वभावजं तु यन्मित्रं भाग्येनैवाभिजायते ।
तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १९४ ॥
अपि च
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस्तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ १९५ ॥
इति मुहुः विचिन्त्य प्राह अहो मे दुर्दैवम् । यतः
स्वकर्मसन्तानविचेष्टितानि
कालान्तरावर्तिशुभाशुभानि ।
इहैव दृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि ॥ १९६ ॥
अथवा इत्थमेवैतत्।
कायः संनिहितापायः सम्पदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ १९७ ॥
पुनर्विमृश्याह
शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १९८ ॥
किं च
मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः
पात्रं यत्सुखदुःखयोः सममिदं पुण्यात्मना लभ्यते ।
ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्
ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १९९ ॥
इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह यावदयं
व्याधो वनान्न निःसरति,तावन्मन्थरं मोचयितुं यत्नः क्रियताम् ।
तावूचतुः सत्वरं यथाकार्यमुपदिश ।
हिरण्यको ब्रूते चित्राङ्गो जलसमीपं गत्वा मृतमिवात्मानं
निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा
किमपि विलिखतु । नूनमनेन लुब्धकेन मृगमांसार्थिना तत्र
कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोऽहं मन्थरस्य
बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् ।
ततश्चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति
स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्तादुपविष्टः सन्
तथाविधं मृगमपश्यत्। ततः कच्छपं जलसमीपे निधाय
कर्तरिकामादाय प्रहृष्टमना मृगान्तिकं चलितः । अत्रान्तरे
हिरण्यकेन आगत्य मन्थरस्य बन्धनं
छिन्नम् । छिन्नबन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः ।
स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः ।
प्रत्यावृत्त्य लुब्धको यावत्तरुतलमायाति तावत्कूर्ममपश्यन्न्
अचिन्तयतुचितमेवैतत्ममासमीक्ष्यकारिणः । यतः
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ २०० ॥
ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्टः ।
मन्थरादयश्च सर्वे मुक्तापदः स्वस्थानं गत्वा
यथासुखमास्थिताः ।
अथ राजपुत्रैः सानन्दमुक्तं
सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् ।
विष्णुशर्मोवाच
एतद्भवतामभिलषितमपि सम्पन्नम् । अपरमपीदमस्तु
मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः ।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ॥ २०१ ॥
२ सुहृद्भेदः
अथ राजपुत्रा ऊचुः आर्य ! मित्रलाभः
श्रुतस्तावदस्माभिः । इदानीं सुहृद्भेदं श्रोतुमिच्छामः ।
विष्णुशर्मोवाच-
सुहृद्भेदं तावच्छृणुत,यस्यायमाद्यः श्लोकः
वर्धमानो महान्स्नेहो मृगेन्द्रवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥
राजपुत्रैरुक्तं कथमेतत्?
विष्णुशर्मा कथयति अस्ति दक्षिणापथे
सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति ।
तस्य प्रचुरे पि वित्ते परान्बन्धूनतिसमृद्धान्
समीक्ष्य पुनरर्थवृद्धिः करणीयेति मतिर्बभूव । यतः,
अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २ ॥
अपरं च-
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ ३ ॥
अन्यच्च
अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणम् ।
प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ ४ ॥
किं च
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥ ५ ॥
यतः
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ६ ॥
अपरं च
निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् ।
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥ ७ ॥
तथा चोक्तम्
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ८ ॥
यतोऽलब्धमिच्छतोऽर्थयोगादर्थस्य
प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः । अपि
च,अवर्धमानश्चार्थः काले स्वल्पव्ययोऽप्यञ्जनवत्क्षयमेति ।
नौपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम्
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून्न बाधते ।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ ९ ॥
यतः,
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ १० ॥
दानोपभोगरहिता दिवसा यस्य यान्ति वै ।
स कर्मकारभस्त्रेव श्वसन्नपि न जीवति ॥ ११ ॥
इति संचिन्त्य नन्दकसजीवकनामानौ वृषभौ धुरि नियोज्य
शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्येन गतः कश्मीरं
प्रति । अन्यच्च
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ १२ ॥
यतः
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ १३ ॥
अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये
सञ्जीवको भग्नजानुर्निपतितः । तमालोक्य वर्धमानोऽचिन्तयत्
करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ १४ ॥
किन्तु
विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् ।
तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥ १५ ॥
इति संचिन्त्य सञ्जीवकं तत्र परित्यज्य
वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायमन्यं
वृषभमेकं समानीय धुरि नियोज्य चलितः । ततः सञ्जीवकोऽपि
कथं कथमपि खुरत्रये भरं कृत्वोत्थितः । यतः
निमग्नस्य पयोराशौ पर्वतात्पतितस्य च ।
तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ॥ १६ ॥
नाकाले मिर्यते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ १७ ॥
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे न जीवति ॥ १८ ॥
ततो दिनेषु
गच्छत्सु सञ्जीवकः स्वेच्छाहारविहारं कृत्वारण्यं भ्राम्यन्
हृष्टपुष्टाङ्गो बलवन्ननाद । तस्मिन्वने पिङ्गलकनामा सिंहः
स्वभुजोपार्जितराज्यसुखमनुभवन्निवसति । तथा चोक्तम्
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ १९ ॥
स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छमगच्छत्।
तेन च तत्र सिंहेनाननुभूतपूर्वकमकालघनगर्जितमिव
सञ्जीवकनर्दितमश्रावि । तच्छ्रुत्वा पानीयमपीत्वा सचकितः
परिवृत्य स्वस्थानमागत्य किमिदमित्यालोचयंस्तूष्णीं स्थितः ।
स च तथाविधः करटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्यां
दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकमाह सखे
करटक ! किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दं
मन्दमवतिष्ठते ।
करटको ब्रूते मित्र
दमनक ! अस्मन्मतेनास्य सेवैव न क्रियते । यदि तथा भवति
तर्हि किमनेन स्वामिचेष्टानिरूपेणास्माकम् । यतोऽनेन राज्ञा
विनापराधेन चिरमवधीरिताभ्यामावाभ्यां महद्दुःखमनुभूतम् ।
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ २० ॥
अपरं च
शीतवातातपक्लेशान्सहन्ते यान्पराश्रिताः ।
तदंशेनापि मेधावी तपस्तप्त्वा मुखी भवेत् ॥ २१ ॥
अन्यच्च
एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥ २२ ॥
अपरं च
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥ २३ ॥
किं च
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २४ ॥
किं च
या प्रकृत्यैव चपला निपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ २५ ॥
अपरं च
मौनान्मूर्खः प्रवचनपटुर्बातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ २६ ॥
विशेषतश्च
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान्।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ २७ ॥
दमनको ब्रूते मित्र सर्वथा मनसापि नैतत्कर्तव्यम्,यतः
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ २८ ॥
अन्यच्च
कुतः सेवाविहीनानां चामरोद्धूतसम्पदः ।
उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥ २९ ॥
करटको ब्रूते तथापि किमनेनास्माकं व्यापारेण ।
यतोऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य
अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः ॥ ३० ॥
दमनकः पृच्छतिकथमेतत्?
करकटः कथयति
कथा १
अस्ति मगधदेशे धर्मारण्यसंनिहितवसुधायां
शुभदत्तनाम्ना कायस्थेन विहारः कर्तुमारब्धः । तत्र
करपत्रदार्यमाणैकस्तम्भस्य कियद्दूरस्फाटितस्य
काष्ठखण्डद्वयमध्ये कीलकः सूत्रधारेण निहितः । तत्र
बलवान्वानरयूथः क्रीडन्नागतः । एको वानरः कालप्रेरित
इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च
सहजचपलतया महता प्रयत्नेन
तं कीलकमाकृष्टवान्। आकृष्टे च कीलके चूर्णिताण्डद्वयः
पञ्चत्वं गतः । अतोऽहं ब्रवीमि अव्यापरेषु व्यापारमित्यादि ।
दमनको ब्रूते
तथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम् ।
करटको ब्रूते
सर्वस्मिन्नधिकारे य एव नियुक्तः प्रधानमन्त्री स करोतु ।
यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या । पश्य
पराधिकारचर्चा यः कुर्यात्स्वामिहितेच्छया ।
स विषीदति चीत्काराद्गर्दभस्ताडितो यथा ॥ ३१ ॥
दमनकः पृच्छतिकथमेतत्?
करटको ब्रूते
कथा २
अस्ति वाराणस्यां
कर्पूरपटको नाम रजकः । स रात्रौ गाढनिद्रायां प्रसुप्तः ।
तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य
प्राङ्गणे गर्दभो बद्धस्तिष्ठति । कुक्कुरश्चोपविष्टोऽस्ति ।
अथ गर्दभः श्वानमाह सखे ! भवतस्तावदयं व्यापारः ।
तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ।
कुक्कुरो ब्रूते
भद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वमेव किं न
जानासि यथा तस्याहर्निशं गृहरक्षां करोमि । यतोऽयं चिरान्
निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहारदाने मन्दादरः ।
यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति ।
गर्दभो ब्रूते शृणु रे बर्बर !
याचते कार्यकाले यः स किंभृत्यः स किंसुहृत्।
कुक्कुरो ब्रूते
भृत्यान्सम्भाषयेद्यस्तु कार्यकाले स किंप्रभुः ॥ ३२ ॥
यतः
आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने ।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ ३३ ॥
ततो गर्दभः सकोपमाह अरे दुष्टमते !
पापीयांस्त्वं यद्विपत्तौ स्वामिकार्ये उपेक्षां करोषि । भवतु
तावत्। यथा स्वामी जागरिष्यति,तन्मया कर्तव्यम् । यतः
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।
स्वामिनं सर्वभावेन परलोकममायया ॥ ३४ ॥
इत्युक्त्वातीव चीत्कारशब्दं कृतवान्। ततः स
रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय
गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वमगमत्।
अतोऽहं ब्रवीमि पराधिकारचर्चामित्यादि । पश्य,
पशूनामन्वेषणमेवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् ।
किन्त्वद्य तया चर्चया
न प्रयोजनम् । यत आवयोर्भक्षितशेषाहारः प्रचुरोऽस्ति ।
दमनकः सरोषमाह कथमाहारार्थी
भवान्केवलं राजानं सेवते? एतदयुक्तमुक्तं त्वया । यतः
सुहृदामुपकारकारणाद्
द्विषतामप्यपकारकारणात्।
नृपसंश्रय इष्यते बुधै-
र्जठरं को न बिभर्ति केवलम् ॥ ३५ ॥
जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ ३६ ॥
अपि च
यस्मिन्जीवति जीवन्ति बहवः स तु जीवतु ।
काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ ३७ ॥
पश्य
पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः ।
कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते ॥ ३८ ॥
अन्यच्च
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम् ।
प्रथमो यो न तन्नापि स किं जीवत्सु गण्यते ॥ ३९ ॥
तथा चोक्तं
वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं हदहन्तरम् ॥ ४० ॥
तथा हि स्वल्पमप्यतिरिच्यते
स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ४१ ॥
अपरं च,सेव्यसेवकयोरन्तरं पश्य
लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ४२ ॥
किं च
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभज्यमानम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ ४३ ॥
अपरं च
यो नात्मजे न च गुरौ न च भृत्यवर्गे
दीने दयां न कुरुते न च बन्धुवर्गे ।
किं तस्य जीवितफलेन मनुष्यलोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ ४४ ॥
अपरमपि
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्च को विशेषः ॥ ४५ ॥
करटको ब्रूते
आवां तावदप्रधानौ । तदाप्यावयोः किमनया विचारणया ।
दमनको ब्रूते
कियता कालेनामात्याः प्रधानतामप्रधानतां वा लभन्ते,यतः
न कस्यचित्कश्चिदिह स्वभावाद्
भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां वा
स्वचेष्टितान्येव नरं नयन्ति ॥ ४६ ॥
किं च
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ ४७ ॥
यात्यधोऽधः व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः ।
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः ॥ ४८ ॥
तद्भद्रम् । स्वयत्नायत्तो ह्यात्मा सर्वस्य ।
करटको ब्रूते अथ भवान्किं ब्रवीति?
स आह अयं तावत्स्वामी
पिङ्गलकः कुतोऽपि कारणात्सचकितः परिवृत्योपविष्टः ।
करटको ब्रूते
उदीरितोऽर्थः पशुनापि गृह्यते
हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः ॥ ४९ ॥
आकाररिङ्गतैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारेण लक्ष्यते न्तर्गतं मनः ॥ ५० ॥
अत्र भयप्रस्तावे
प्रज्ञाबलेनाहमेनं स्वामिनमात्मीयं करिष्यामि । यतः
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ ५१ ॥
करटको ब्रूते सखे त्वं सेवानभिज्ञः । पश्य
अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते ।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ ५२ ॥
दमनको ब्रूते भद्र ! कथमहं सेवानभिज्ञः? पश्य
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ ५३ ॥
यतः
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ ५४ ॥
अन्यच्च
कोऽत्रेत्यहमिति ब्रूयात्सम्यगादेशयेति च ।
आज्ञामवितथां कुर्याद्यथाशक्ति महीपतेः ॥ ५५ ॥
अपरं च
अल्पेच्छुर्धृतिमान्प्राज्ञश्छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ ५६ ॥
करटको ब्रूते कदाचित्त्वामनवसरप्रवेशादवगम्यते स्वामी ।
स चाह अस्त्वेवम् ।
तथाप्यनुजीविना स्वामिसांनिध्यमवश्यं करणीयम् । यतः
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् ।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ ५७ ॥
पश्य
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदालताश्च
यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ ५८ ॥
करटको ब्रूते अथ तत्र गत्वा किं वक्ष्यति भवान्।
स आह शृणु ! किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि ।
करटको ब्रूते किं तज्ज्ञानलक्षणम् ।
दमनको ब्रूते शृणु
दूरादवेक्षणं हासः सम्प्रश्नेष्वादरो भृशम् ।
परोक्षे पि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ ५९ ॥
असेवके चानुरक्तिर्दानं सप्रियभाषणम् ।
अनुरक्तस्य चिह्नानि दोषे पि गुणसङ्ग्रहः ॥ ६० ॥
अन्यच्च
कालयापनमाशानां वर्धनं फलखण्डनम् ।
विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः ॥ ६१ ॥
एतज्ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि ।
अपायसं दर्शनजां विपत्तिं
उपायसन्दर्शनजां च सिद्धिम् ।
मेधाविनो नीतिविधिप्रयुक्तां
पुरः स्फुरन्तीमिव दर्शयन्ति ॥ ६२ ॥
करटको ब्रूते तथाप्यप्राप्ते प्रस्तावे न वक्तुमर्हसि,यतः
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्।
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ ६३ ॥
दमनको ब्रूते मित्र !
मा भैषीः ! नाहमप्राप्तावसरं वचनं वदिष्यामि । यतः
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
अपृष्टोऽपि हितान्वेषी ब्रूयात्कल्याणभाषितम् ॥ ६४ ॥
यदि च प्राप्तावसरेणापि मया
मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममानुपपन्नम् । यतः
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते ।
स गुणस्तेन गुणिना रक्ष्यः संवर्धनीयश्च ॥ ६५ ॥
तद्भद्र ! अनुजानीहि माम् । गच्छामि ।
करटको ब्रूते
शुभमस्तु । शिवास्ते पन्थानः । यथाभिलषितमनुष्ठीयतामिति ।
ततो दमनको विस्मित इव पिङ्गलकसमीपं गतः । अथ दूरादेव
सादरं राज्ञा प्रवेशितः साष्टाङ्गप्रणिपातं प्रणिपत्योपविष्टः ।
राजाह चिराद्दृष्टोऽसि ।
दमनको ब्रूते यद्यपि मया सेवकेन श्रीमद्देवपादानां न किञ्चित्
प्रयोजनमस्ति,तथापि प्राप्तकालमनुजीविना सांनिध्यमवश्यं
कर्तव्यमित्यागतोऽस्मि । किं च
दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किमङ्गवाक्पाणिमता नरेण ॥ ६६ ॥
यद्यपि चिरेणावधीरितस्य देवपादैर्मे
बुद्धिनाशः शक्यते,तदपि न शङ्कनीयम् । यतः
कदर्थितस्यापि च धैर्यवृत्ते-
र्बुद्धेर्विनाशो नहि शङ्कनीयः ।
अधःकृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिदेव ॥ ६७ ॥
देव ! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः
मणिर्लुठति पादेषु काचः शिरसि धार्यते ।
यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ ६८ ॥
अन्यच्च
निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ ६९ ॥
किं च
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु ॥ ७० ॥
यतः
स्थान एव निज्योज्यन्ते भृत्याश्चाभरणानि च ।
नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ ७१ ॥
अपि च
कनकभूषणसङ्ग्रहणोचितो
यदि मणिस्त्रपुणि प्रणिधीयते ।
न स विरौति न चापि न शोभते
भवति योजयितुर्वचनीयता ॥ ७२ ॥
अन्यच्च
मुकुटे रोपिता काचश्चरणाभरणे मणिः ।
नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता ॥ ७३ ॥
पश्य
बुद्धिमाननुरक्तोऽयमयं शूर इतो भयम् ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ७४ ॥
तथा हि
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ७५ ॥
अन्यच्च
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥ ७६ ॥
यतः
अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनस्
ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः ।
बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती
विपन्नायां नीतौ सकलमवशं सीदति जगत् ॥ ७७ ॥
अपरं च
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् ।
नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ ७८ ॥
किं च
बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ ७९ ॥
पिङ्गलकोऽवदत्भद्र दमनक ! किमेतत्?
त्वमस्मदीयप्रधानामात्यपुत्र इयन्तं कालं यावत्कुतोऽपि
खलवाक्यान्नागतोऽसि । इदानीं यथाभिमतं ब्रूहि ।
दमनको ब्रूते देव ! पृच्छामि किञ्चित्।
उच्यताम् ।
उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति ।
पिङ्गलकोऽवदत्भद्रमुक्तं त्वया । किन्त्वेतद्रहस्यं वक्तुं
काचिद्विश्वासभूमिर्नास्ति । तथापि निभृतं कृत्वा कथयामि ।
शृणु,सम्प्रति वनमिदमपूर्वसत्त्वाधिष्ठितमतोऽस्माकं
त्याज्यम् । अनेन हेतुना विस्मितोऽस्मि । तथा च श्रुतो मयापि महान्
अपूर्वशब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् ।
दमनको ब्रूते देव ! अस्ति तावदयं
महान्भयहेतुः । स शब्दोऽस्याभिरप्याकर्णितः । किन्तु स किं
मन्त्री यः प्रथमं भूमित्यागं पश्चाद्युद्धं चोपविशति
अस्मिन्कार्यसन्देहे भृत्यानामुपयोग एव ज्ञातव्यः । यतः
बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥ ८० ॥
सिंहो ब्रूते भद्र ! महती शङ्का मां बाधते ।
दमनकः पुनराह स्वगतमन्यथा राज्यसुखं परित्यज्य
स्थानान्तरं गन्तुं कथं मां सम्भाषसे? प्रकाशं ब्रूते
देव ! यावदहं जीवामि तावद्भयं न कर्तव्यम् । किन्तु
करटकादयोऽप्याश्वास्यन्तां यस्मादापत्प्रतीकारकाले दुर्लभह्
पुरुषसमवायः ।
ततस्तौ दमनककरटकौ राज्ञा सर्वस्वेनापि पूजितौ भयप्रतीकारं
प्रतिज्ञाय चलितौ । करटको गच्छन्दमनकमाह सखे ! किं
शक्त्यप्रतीकारो भयहेतुरशक्यप्रतीकारो वेति न ज्ञात्वा
भयोपशमं
प्रतिज्ञाय कथमयं महाप्रसादो गृहीतः? यतोऽनुपकुर्वाणो
न कस्याप्युपायनं गृह्णीयाद्विशेषतो राज्ञः । पश्य
यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ८१ ॥
तथा हि
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥ ८२ ॥
दमनको विहस्याह मित्र !
तूष्णीमास्यताम् । ज्ञातं मया भयकारणम् । बलीवर्दनर्दितं
तत्। वृषभाश्चास्माकमपि भक्ष्याः । किं पुनः सिंहस्य ।
करटको ब्रूते
यद्येवं तदा किं पुनः स्वामित्रासस्तत्रैव किमिति नापनीतः ।
दमनको ब्रूते यदि स्वामित्रासस्तत्रैव
मुच्यते तदा कथमयं महाप्रसादलाभः स्यात्। अपरं च
निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन ।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद्दधिकर्णवत् ॥ ८३ ॥
करटकः पृच्छतिकथमेतत्?
दमनकः कथयति
कथा ३
अस्त्युत्तरपथे र्बुदशिखरनाम्नि पर्वते दुर्दान्तो
नाम महाविक्रमः सिंहः । तस्य पर्वतकन्दरमधिशयानस्य
केसराग्रं कश्चिन्मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं
लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकमलभमानोऽचिन्तयत्
क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते ।
तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ ८४ ॥
इत्यालोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा
दधिकर्णनामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्वकन्दरे
स्थापितः । अनन्तरं तद्भयान्मूषिकोऽपि विलान्न निःसरति ।
तेनासौ सिंहोऽक्षतकेशरः सुखं स्वपिति । मूषिकशब्दं यदा
यदा शृणोति,तदा तदा मांसाहारदानेन तं बिडालं संवर्धयति ।
आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः ।
पृथक् शय्या च नारीणामशस्त्रविहितो वधः ॥ ८५ ॥
ततो देशव्यवहारानभिज्ञः सञ्जीवकः सभयमुपसृत्य
साष्टाङ्गपातं करटकं प्रणतवान्। तथा चोक्तम्
मतिरेव बलाद्गरीयसी यदभावे करिणामियं दशा ।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ ८६ ॥
अथ सञ्जीवकः
साशङ्कमाह सेनापते ! किं मया कर्तव्यम् । तदभिधीयताम् ।
करटको ब्रूते वृषभ ! अत्र कानने तिष्ठसि ।
अस्मद्देवपादारविन्दं प्रणय ।
सञ्जीवको ब्रूते तदभयवाचं मे यच्छ । गच्छामि ।
करटको ब्रूते शृणु रे बलीवर्द ! अलमनया शङ्कया । यतः
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ ८७ ॥
अन्यच्च
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणलानि सर्वतः ।
समुच्छ्रितानेव तरून्प्रबाधते
महान्महत्येव करोति विक्रमम् ॥ ८८ ॥
ततस्तौ सञ्जीवकं कियद्दूरे संस्थाप्य पिङ्गलकसमीपं गतौ ।
ततो राजा सादरमवलोकितौ प्रणम्योपविष्टौ ।
राजाह त्वया स दृष्टः?
दमनको ब्रूते देव !
दृष्टः । किन्तु यद्देवेन ज्ञातं तत्तथा । महानेवासौ देवं
द्रष्टुमिच्छति । किन्तु महाबलोऽसौ ततः सज्जीभूयोपविश्य
दृश्यताम् । शब्दमात्रादेव न भेतव्यम् । तथा चोक्तम्
शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम् ।
शब्दहेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ ८९ ॥
राजाह कथमेतत्?
दमनकः कथयति
कथा ४
अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम् ।
तच्छिखरप्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति
जनप्रवादः श्रूयते । एकदा घण्टामादाय पलायमानः कश्चिच्चौरो
व्याघ्रेण व्यापादितः । तत्पाणिपतिता घण्टा वानरैः प्राप्ता ।
वानरास्तां घण्टामनुक्षणं वादयन्ति । ततो नगरजनैः स मनुष्यः
खादितो दृष्टः प्रतिक्षणं घण्टारवश्च
श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान्खादति घण्टां
च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिताः । ततः करालया नाम
कुट्टन्या विमृश्यानवरोऽयं घण्टानादः । तत्किं मर्कटा
घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः देव !
यदि कियद्धनोपक्षयः क्रियते,तदाहमेनं घण्टाकर्णं साधयामि ।
ततो राजा तस्यै धनं दत्तम् ।
कुट्टन्या मण्डलं कृत्वा तत्र गणेशादिपूजागौरवं दर्शयित्वा
स्वयं वानरप्रियफलान्यादाय वनं प्रविश्य फलान्याकीर्णानि ।
ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च
घण्टां गृहीत्वा नगरमागता सर्वजनपूज्याभवत्। अतोऽहं
ब्रवीमि शब्दमात्रान्न भेतव्यमित्यादि । ततः सञ्जीवकमानीय
दर्शनं कारितवन्तौ । पश्चात्तत्रैव परमप्रीत्या निवसति ।
अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः समागतः ।
तस्यातिथ्यं कृत्वा सिंहमुपवेश्य पिङ्गलकस्तदाहाराय पशुं
हन्तुं चलितः । अत्रान्तरे
सञ्जीवको वदति देव ! अद्य हतमृगाणां मांसानि क्व?
राजाह दमनककरटकौ जानीतः ।
सञ्जीवको ब्रूते ज्ञायतां किमस्ति नास्ति वा?
सिंहो विमृश्याह नास्त्येव तत्।
सञ्जीवको ब्रूते कथमेतावन्मांसं ताभ्यां खादितम्?
राजाह खादितं व्ययितमवधीरितं च । प्रत्यहमेष क्रमः ।
सञ्जीवको ब्रूते कथं श्रीमद्देवपादानां अगोचरेणैव क्रियते?
राजाह मदीयागोचरेणैव क्रियते ।
अथ सञ्जीवको ब्रूते नैतदुचितम् । तथा चोक्तम्
नानिवेद्य प्रकुर्वीत भर्तुः किञ्चिदपि स्वयम् ।
कार्यमापत्प्रतीकारादन्यत्र जगतीपते ॥ ९० ॥
अन्यच्च
कमण्डलूपमोऽमात्यस्तनुत्यागी बहुग्रहः ।
नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ ९१ ॥
स ह्यमात्यः सदा श्रेयान्काकिनीं यः प्रवर्धयेत्।
कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ ९२ ॥
किं चार्थैर्न कुलाचारैः सेवतामेति पूरुषः ।
धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः ॥ ९३ ॥
एतच्च राज्ञः प्रधानं दूषणम्
अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः ।
मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥ ९४ ॥
यतः
क्षिप्रमायतमनालोच्य व्ययमानः स्ववाञ्छया ।
परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ ९५ ॥
स्तब्धकर्णो ब्रूते शृणु भ्रातः चिराश्रितादेतौ
दमनककरटकौ सन्धिविग्रहकार्याधिकारिणौ च कदाचिद्
अर्थाधिकारे न
नियोक्तव्यौ । अपरं च नियोगप्रस्तावे यन्मया श्रुतं तत्कथ्यते ।
ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते ।
ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ ९६ ॥
नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् ।
सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥ ९७ ॥
अपराधे पि निःशङ्को नियोगी चिरसेवकः ।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥ ९८ ॥
उपकर्ताधिकारस्थः स्वापराधं न मन्यते ।
उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ॥ ९९ ॥
उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः ।
अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम् ॥ १०० ॥
अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १०१ ॥
सदामत्यो न साध्यः स्यात्समृद्धः सर्व एव हि ।
सिद्धानामयमादेशः ऋद्धिश्चित्तविकारिणी ॥ १०२ ॥
प्राप्तार्थग्रहणं द्रव्यपरीवर्तोऽनुरोधनम् ।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ १०३ ॥
नियोग्यर्थग्रहोपायो राज्ञा नित्यपरीक्षणम् ।
प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥ १०४ ॥
निपीडिता वमन्त्युच्चैरन्तःसारं महीपतेः ।
दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ १०५ ॥
मुहुर्नियोगिनी बाध्या वसुधारा महीपते ।
सकृत्किं पीडितं स्नानवस्त्रं मुञ्चेद्धृतं पयः ॥ १०६ ॥
एतत्सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् ।
सिंहो ब्रूते
अस्ति तावदेवम् । किन्त्वेतौ सर्वथा न मम वचनकारिणौ ।
स्तब्धकर्णो ब्रूते एतत्सर्वमनुचितं सर्वथा । यतः
आज्ञाभङ्गकरान्राजा न क्षमेत सुतानपि ।
विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ १०७ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ १०८ ॥
अपरं च
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात्।
नृपतिर्निजलोभाच्च प्रजा रक्षेत्पितेव हि ॥ १०९ ॥
भ्रातः ! सर्वथास्मद्वचनं क्रियताम् । व्यवहारोऽप्यस्माभिः
कृत एव । अयं सञ्जीवकः सस्यभक्षकोऽर्थाधिकारे नियुज्यताम् ।
एतद्वचनात्तथानुष्ठिते सति तदारभ्य पिङ्गलकसञ्जीवकयोः
सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते ।
ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्
दमनककरटकावन्योन्यं चिन्तयतः । तदाह दमनकः
करटकं मित्र ! किं कर्तव्यम्? आत्मकृतोऽयं दोषः ।
स्वयं कृते पि दोषे परिदेवनमप्यनुचितम् । तथा चोक्तम्
स्वर्णरेखामहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका ।
आदित्सुश्च मणिं साधुः स्वदोषाद्दुःखिता इमे ॥ ११० ॥
करटको ब्रूतेकथमेतत्?
दमनकः कथयति
कथा ५
अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा
कश्चिन्नापितो वध्यभूमिं नीयमानः कन्दर्पकेतुनाम्ना परिव्राजकेन
साधुद्वितीयकेन नायं हन्तव्यः इत्युक्त्वा
वस्त्राञ्चलेन धृतः । राजपुरुषा ऊचुः किमिति नायं वध्यः ।
स आह श्रूयताम् । स्वर्णरेखामहं स्पृष्ट्वा इत्यादि पठति ।
त आहुःकथमेतत्?
परिव्राजकः कथयति अहं सिंहलद्वीपस्य भूपतेर्जीमूतकेतः
पुत्रः दन्दर्पकेतुर्नाम । मध्ये चतुर्दश्यामाविर्भूतकल्पतरुतले
रत्नावलीकिरणकबूतरपर्यङ्कस्थिता सर्वालङ्कारभूषिता
लक्ष्मीरिव वीनां वादयन्ती कन्या काचिद्दृश्यते इति ।
ततोऽहं पोतव्णिजमादाय पोतमारुह्य तत्र गतः ।
अनन्तरं तत्र गत्वा पर्यङ्के धमग्रा तथैव सावलोकिता ।
ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज्झम्पो दत्तः ।
तदनन्तरं कनकपत्तनं प्राप्य सुवर्णप्रासादे तथैव पर्यङ्के
स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता । तथाप्यहं दूरादेव
दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः । तत्सख्या
च मया पृष्टया समाख्यातमेषा कन्दर्पकेलिनाम्नो
विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता
विद्यते । यः कनकवर्तनं स्वचक्षुषागत्य पश्यति,स एव
पितुरगोचरोऽपि मां परिणेष्यतीति
मनसः सङ्कल्पः । तदेनां गान्धर्वविवाहेन परिणयतु भवान्।
अथ तत्र वृत्ते गन्धर्वविवाहे
तथा सह रममाणस्तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तं
स्वामिन्! स्वेच्छया सर्वमिदमुपभोक्तव्यम् । एषा चित्रगता
स्वर्णरेखा नाम विद्याधरी न कदाचित्स्प्रष्टव्या । पश्चाद्
उपजातकौतुकेन मया स्वर्णरेखा स्वहस्तेन स्पृष्टा । तथा
चित्रतयाप्यहं चरणपद्मेन ताडित आगत्य स्वराष्ट्रे पतितः ।
अथ दुःखितोऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्न्
इमां न्गरीमनुप्राप्तः । अत्र चातिकान्ते दिवसे गोपगृहे सुप्तः
सन्नपश्यम् । प्रदोषसमये पशूनां पालनं कृत्वा स्वगेहमागतो
गोपः स्ववधूं दूत्या सह किमपि मन्त्रयन्तीमपश्यत्। ततस्तां गोपीं
ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततोऽर्धरात्रे एतस्य नापितस्य
वधूर्दूती पुनस्तां गोपीमुपेत्यावदत्तव विरहानलदग्धोऽसौ
स्मरशरजर्जरितो मुमूर्षुरिव वर्तते । तथा चोक्तम्
रजनीचरनाथेन खण्डिते तिमिरे निशि ।
यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ १११ ॥
तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वामनुवर्तितुमागता ।
तदहमत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं
सन्तोष्य सत्वरमागमिष्यसि ।
तथानुष्ठिते सति स गोपः प्रबुद्धोऽवदतिदानीं त्वां पापिष्ठां
जारान्तिकं नयामि । ततो यदासौ न किञ्चिदपि ब्रूते तदा क्रुद्धो गोपः
दर्पान्मम वचसि प्रत्युत्तरमपि न ददासि इत्युक्त्वा कोपेन
तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो
निद्रामुपगतः । अथागत्य गोपी दूतीमपृच्छत्का वार्ता?
दूत्योक्तं पश्य माम् । मुखमेव वार्तां कथयति ।
अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च
दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता ।
ततः प्रातरेवानेन नापितेन स्ववधूः क्षुरभाण्डं याचिता सती
क्षुरमेकं प्रादात्। ततोऽसमग्रभाण्डे प्राप्ते समुपजातकोपोऽयं
नापितस्तं क्षुरं दूरादेव गृहे क्षिप्तवान्। अथ कृतार्तरायेयं
मे नासिकानेन छिन्नेत्युक्त्वा धर्माधिकारिसमीपमेतमानीतवती ।
सा च गोपी तेन गोपेन पुनः
पृष्टोवाच अरे पाप ! को मां महासती विरूपयितुं समर्थः ।
मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति,यतः
आदित्यचन्द्रावनिलानलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥ ११२ ॥
अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः ।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ ११३ ॥
उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते ।
स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ ११४ ॥
करटकः पृच्छति कथमेतत्?
कथा ६
दमनकः कथयति अस्ति
द्वारवत्यां पुर्यां कस्यचिद्गोपस्य वधूर्बन्धकी । सा ग्रामस्य
दण्डनायकेन तत्पुत्रेण च समं रमते । तथा चोक्तम्
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ११५ ॥
न दानेन न मानेन नार्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ ११६ ॥
यतः
गुणाश्रयं कीर्तियुतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शीलगुणादिहीनम् ॥ ११७ ॥
अपरं च
न तादृशीं प्रीतिमुपैति नारी
विचित्रशय्या शयितापि कामम् ।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तिसङ्गात् ॥ ११८ ॥
अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ
दण्डनायकोऽपि रन्तुं तत्रागतः । तमायान्तं दृष्ट्वा तत्पुत्रं
कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य
भर्ता गोपो गोष्ठात्समागतः । तमवलोक्य गोप्योक्तं दण्डनायक !
त्वं लगुडं गृहीत्वा कोपं दर्शयन्सत्वरं गच्छ । तथा
तेनानुष्ठिते गोपेन गृहमागत्य पृष्ठाऽकेन कार्येण दण्डनायकः
समागत्यात्र स्थितः?
सा ब्रूते अन्यं
केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणोऽप्यत्रागत्य
प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्पित्रा चान्विष्यात्र
न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति ।
ततः सा
तत्पुत्रं कुषुलाद्बहिष्कृत्य दर्शितवती । तथा चोक्तम्
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ ११९ ॥
अतोऽहं ब्रवीमि उतपन्नेष्वपि कार्येषु इत्यादि ।
करटको ब्रूते अस्त्वेवम् । किन्त्वनयोर्महानन्योग्न्यनिसर्गोपजातस्नेह
कथं भेदयितुं शक्यः?
दमनको ब्रूते उपायः क्रियताम् । तथा चोक्तम्
उपायेन जयो यादृग् रिपोस्तादृङ् न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ १२० ॥
करटकः पृच्छति कथमेतत्?
दमनकः कथयति
कथा ७
कस्मिंश्चित्तरौ वायसदम्पती निवसतः । तयोश्चापृत्यानि
तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि । ततः
पुनर्गर्भवती वायसी वायस्माह नाथ ! त्यज्यतामयं वृक्षः ।
अत्रावस्थितकृष्णसर्पेणावयोः सन्ततिः सततं भक्ष्यते ।
यतः
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ १२१ ॥
वायसो ब्रूते प्रिये ! न
भेतव्यम् ।
वारं वारं मवैतस्य सोढः । इदानीं पुनर्न क्षन्तव्यः ।
वायस्याह कथमेतेन बलवता सार्धे भवान्विग्रहीतुं समर्थः ।
वायसो ब्रूते अलमनया शङ्कया । यतः
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ १२२ ॥
वायसी विहस्याहकथमेतत्?
वायसः कथयति
कथा ८
अस्ति मन्दरनाम्नि पर्वते
दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्नास्ते ।
ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तः मृगेन्द्र !
किमर्थमेकदा बहुपशुघातः क्रियते । यदि प्रसादो भवति तदा
वयमेव भवदाहाराय प्रत्यहमेकैकं पशुमुपढौकयामः । ततः
सिंहेनोक्तं यद्येतदभिमतं भवतां तर्हि भवतु तत्।
ततःप्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते । अथ
कदाचिद्वृद्धशशकस्य वारः समायातः । सोऽचिन्तयत्
त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया ।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ १२३ ॥
तन्मन्दं मन्दं गच्छामि । ततः सिंहोऽपि
क्षुधापीडितः कोपात्तमुवाच कुतस्त्वं विलम्ब्य समागतोऽसि ।
शशकोऽब्रवीत्देव !
नाहमपराधी । आगच्छन्पथि सिंहान्तरेण बलाद्धृतः । तस्याग्रे
पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽसिम् ।
सिंहः सकोपमाह
सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति ।
ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः । तत्रागत्य
स्वयमेव पश्यतु स्वामीत्युक्त्वा तस्मिन्कूपजले तस्य सिंहस्यैव
प्रतिबिम्बं दर्शितवान्। ततोऽसौ क्रोधाध्मातो दर्पात्तस्योपर्यात्मानं
निक्षिप्य पञ्चत्वं गतः । अतोऽहं ब्रवीमि बुद्धिर्यस्य इत्यादि ।
वायस्याह श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि ।
वायसोऽवदतत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य
स्नाति । स्नानसमये मदङ्गादवतारितं तीर्थशिलानिहितं
कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन्कोटरे धारयिष्यसि ।
अथ कदाचित्स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् ।
अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र
तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमि
उपायेन हि यच्छक्यमितेन हि यच्छक्यमित्यादि । करटको
ब्रूते यद्येवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः । ततो
दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाच देव ! आत्यन्तिकं
किमपि महाभयकारि कार्यं मन्यमानः समागतोऽस्मि । यतः
आपद्युन्मार्गगमने कार्यकालात्ययेषु च । कल्याणवचनं ब्रूयाद्
अपृष्टोऽपि हितो नरः ॥ १२४ ॥
अन्यच्च
भोगस्य भाजनं राजा न राजा कार्यभाजनम् ।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ १२५ ॥
तथा हि पश्य । अमात्यानामेष क्रमः ।
वरं प्राणपरित्यागः शिरसा वापि कर्तनम् ।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ १२६ ॥
पिङ्गलकः सादरमाह अथ भवान्किं वक्तुमिच्छति ।
दमनको ब्रूते देव ! सञ्जीवकस्तवोपयसदृशव्यवहारीव
लक्ष्यते । तथा चास्मत्सन्निधाने श्रीमद्देवपादानां
शक्तित्रयनिन्दां कृत्वा राज्यमेवाभिलषति ।
एतच्छ्रुत्वा,पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः ।
दमनकः पुनराह देव ! सर्वामात्यपरित्यागं कृत्वैक
एवायं यत्त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति ॥ १२७ ॥
अपरं च
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहात्श्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ १२८ ॥
अन्यच्च
विषदग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ १२९ ॥
किं च
यः कुर्यात्सचिवायत्तां श्रियं तद्व्यसने सति ।
सोऽन्धवज्जगतीपालः सीदेत्सञ्चारकैर्विना ॥ १३० ॥
सर्वकार्येषु
स्वेच्छातः प्रवर्तते । तदत्र प्रमाणं स्वामी । एतं च जानाति ।
न सोऽस्ति पुरुषो लोके यो न कामयते श्रियम् ।
परस्य युवतिं रम्यां सादरं नेक्षते त्र कः ॥ १३१ ॥
सिंहो विमृश्याह भद्र !
यद्यप्येवं तथापि सञ्जीवकेन सह मम महान्स्नेहः । पश्य
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ।
अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ १३२ ॥
अन्यच्च
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः ।
दग्धमन्दिरसारे पि कस्य वह्नावनादरः ॥ १३३ ॥
दमनकः पुनरे एवाह देव ! स एवातिदोषः,यतः
यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः ।
सुते मात्ये प्युदासीने स लक्ष्म्याश्रीयते जनः ॥ १३४ ॥
शृणु देव !
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ १३५ ॥
त्वया च मूलभृत्यानपास्यायमागन्तुकः पुरस्कृतः ।
एतच्चानुचितं कृतम् । यतः
मूलभृत्यान्परित्यज्य नागन्तून्प्रतिमानयेत्।
नातः परतरो दोषो राज्यभेदकरो यतः ॥ १३६ ॥
सिंहो ब्रूते किमाश्चर्यम् । मया यद्
अभयवाचं दत्त्वानीतः संवर्धितश्च तत्कथं मह्यं द्रुह्यति ।
दमनको ब्रूते देव !
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः ।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ १३७ ॥
अपरं च
स्वेदितो मर्दितश्चैव रञ्जुभिः परिवेष्टितः ।
मुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥ १३८ ॥
अन्यच्च
वर्धनं वा सम्मानं खलानां प्रीतये कुतः ।
फलन्त्यमृतसेके पि न पथ्यानि विषद्रुमाः ॥ १३९ ॥
अतोऽहं ब्रवीमि
अपृष्टस्तस्य न ब्रूयाद्यश्च नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतोऽसतां मतः ॥ १४० ॥
तथा चोक्तम्
स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यातुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तन्मित्रं यत्कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ १४१ ॥
यदि सञ्जीवकव्यसनादितोऽविज्ञापितोऽपि
स्वामी न निवर्तते,तदीदृशे भृत्ये न दोषः । तथा च
नृपः कामासक्तो गणयति न कार्ये न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान्क्षिपति न निजं वेत्त्यविनयम् ॥ १४२ ॥
पिङ्गलकः स्वगतम्
न परस्यापराधेन परेषां दण्डमाचरेत्।
आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा ॥ १४३ ॥
तथा चोक्तम्
गुणदोषावनिश्चित्य विधिनं ग्रहनिग्रहे ।
स्वनाशाय यथा न्यस्तो दर्पात्सर्पमुखे करः ॥ १४४ ॥
प्रकाशं ब्रूते तदा सञ्जीवकः किं प्रत्यादिश्यताम् ।
दमनकः ससम्भ्रममाह
देव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ह्युक्तम्
मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा ।
मनागपि न भिद्येत तद्भिन्नं न प्ररोहति ॥ १४५ ॥
किं च
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ १४६ ॥
तदवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च
मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ १४७ ॥
यद्यसौ दृष्टदोषोऽपि दोषान्निवत्यं सन्धातव्यस्तदतीवानुचितम् ।
यतः
सकृद्दुष्टं तु यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युरेव गृह्णाति गर्भमश्वतरी यथा ॥ १४८ ॥
अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः ।
पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ १४९ ॥
सिंहः पृच्छतिकथमेतत्?
दमनकः कथयति
कथा ९
दक्षिणसमुद्रतीरे टिट्टिभदम्पती निवसतः ।
तत्र चासन्नप्रसदा टिट्टिभी भर्तारमाह
नाथ ! प्रसवयोग्यस्थानं निभृतमनुसन्धीयताम् ।
टिट्टिभोऽवदत्भार्ये,नन्विदमेव स्थानं प्रसूतियोग्यम् ।
सा ब्रूते समुद्रवेलया व्याप्यते स्थानमेतम् ।
टिट्टिभोऽवदत्किमहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः ।
टिट्टिभी विहस्याह स्वामिन्! त्वया समुद्रेण च महदन्तरम् । अथवाऽ
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ १५० ॥
अपि च
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ १५१ ॥
ततः कृच्छ्रेण स्वामिवचनात्मा तत्रैव प्रसूता । एतत्सर्वं
श्रुत्वा समुद्रेणापि यच्छक्तिज्ञानार्थं तदण्डान्यवहृतानि ।
ततष् टिट्टिभी शोकार्ता
भर्तारमाह नाथ ! कष्टमापतितम् । तान्यण्डानि मे नष्टानि ।
टिट्टिभोऽवदत्प्रिये ! मा भैषीः इत्युक्त्वा पक्षिणां मेलकं
कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा
सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितं
देव,
समुद्रेणाहं स्वगृहावस्थितो विनापराधनेनैव निगृहीतः ।
ततस्तद्वचनमाकर्ण्य गरुत्मना प्रभुर्भगवान्
नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः । स
समुद्रमण्डदानायादिदेश । ततो
भगवदाज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय
समर्पितानि । अतोऽहं ब्रवीमि अङ्गाङ्गिभावमज्ञात्वा इत्यादि ।
राजाह कथमसौ ज्ञातव्यो द्रोहबुद्धिरिति ।
दमनको ब्रूते यदासौ सदर्पः
शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति
स्वामी । एवमुक्त्वा सञ्जीवकसमीपं गतः । तत्र गतश्च मन्दं
मन्दमुपसर्पन्विस्मितमिवात्मानमदर्शयत्। सञ्जीवकेन सादरमुक्तं
भद्र ! कुशलं ते ।
दमनको ब्रूते अनुजीविनां कुतः कुशलम् । यतः
सम्पत्तयः पराधीनाः सदा चित्तमनिर्वृत्तम् ।
स्वजीइविते प्यविश्वासस्तेषां ये राजसेवकाः ॥ १५२ ॥
अन्यच्च
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया ।
कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ १५३ ॥
सञ्जीवकेनोक्तं सखे ! ब्रूहि किमेतत्?
दमनक आह किं ब्रवीमि मन्दभाग्यः । पश्य
मज्जन्नपि पयोराशौ लब्ध्वा सर्पावलम्बनम् ।
न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि सम्प्रति ॥ १५४ ॥
यतः
एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः ।
किं करोमि क्व गच्छामि पतितो दुःखसागरे ॥ १५५ ॥
इत्युक्त्वा दीर्घः निःश्वस्योपविष्टः ।
सञ्जीवको ब्रूते मित्र ! तथापि सविस्तरं मनोगतमुच्यताम् ।
दमनकः सुनिभृतमाह यद्यपि राजविश्वासो न कथनीयस्तथापि
भवानस्मदीयप्रत्ययादागतः । मया परलोकार्थिनावश्यं तव
हितमाख्येयम् । शृणु,अयं स्वामी तवोपरि विकृतबुद्धी
रहस्युक्तवान् सञ्जीवकमेव हत्वा स्वपरिवारं तर्पयामि ।
एतच्छ्रुत्वा सञ्जीवकः परं विषादमगमत्। दमनकः पुनराह
अलं विषादेन । प्राप्तकालकायमनुष्ठीयताम् । सञ्जीवकः
क्षणं विमृश्याह स्वगतं सुष्ठु खल्विदमुच्यते । किं
वा दुर्जनचेष्टितं न वेत्येतद्व्यवहारान्निर्णेतुं न शक्यते ।
यतः
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा ।
कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥ १५६ ॥
कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः ।
प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ १५७ ॥
आराध्यमानो नृपतिः प्रयत्नान्
न तोषमायाति किमत्र चित्रम् ।
अयं त्वपूर्वप्रतिमाविशेषो
यः सेव्यमानो रिपुतामुपैति ॥ १५८ ॥
तदयमशक्यर्थः प्रमेयः,यतः
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै
कथं जनस्तं परितोषयिष्यति ॥ १५९ ॥
किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः ।
दमनको ब्रूते एवमेतत्। शृणु
विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कैश्चित्
साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १६० ॥
अन्यच्च
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १६१ ॥
किं च
चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः ।
गुणघातिनश्च भोगे खला न च सुखान्यविघ्नानि ॥ १६२ ॥
मूलं भुजङ्गैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भल्लैः ।
नास्त्येव तच्चन्दनपादपस्य
यन्नाश्रितं दुष्टतरैश्च हिंस्रैः ॥ १६३ ॥
अयं तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञातः । यतः
दूरादुच्छ्रितपाणिराद्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः ।
अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ १६४ ॥
तथा हि
पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः ।
इत्थं तद्भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये
दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ १६५ ॥
सञ्जीवकः पुनर्निःश्वस्य कष्टं भोः !
कथमहं सस्यभक्षकः सिंहेन निपातयितव्यः? यतः
ययोरेव समं वित्तं ययोरेव समं बलम् ।
तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ १६६ ॥
अयुद्धे हि यदा पश्येन्न काञ्चिधितमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ १७० ॥
अपरं च
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशः ।
भृत्यप्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः ॥ १७७ ॥
दमनको ब्रूते स्वामिन्! कोऽयं
नूतनो न्यायो यदरातिं हत्वा सन्तापः क्रियते? तथा चोक्तम्
पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत्।
प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ १७८ ॥
अपि च
धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत्।
नहि हस्तस्थमप्यन्नं क्षमावान्भक्षितुं क्षमः ॥ १७९ ॥
किं च
क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् ।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ १८० ॥
अपरं च
राज्यलोभादहङ्कारादिच्छतः स्वामिनः पदम् ।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ १८१ ॥
अन्यच्च
राजा घृणी ब्राह्मणः सर्वभक्षी
स्त्री चावज्ञा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या इमे यश्च कृतं न वेत्ति ॥ १८२ ॥
विशेषतश्च
सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुररत्नधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा ॥ १८३ ॥
इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिमापन्नः
सिंहासने समुपविष्टः । दमनकः प्रहृष्टमनाः विजयतां
महाराजः शुभमस्तु सर्वजगतामित्युक्त्वा यथासुखमवस्थितः ।
विष्णुशर्मोवाच सुहृद्भेदः श्रुतस्तावद्भवद्भिः ।
राजपुत्रा ऊचुः भवत्प्रसादाच्छ्रुतः । सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीतपरमपीदमस्तु
सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये
खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः ।
जनो नित्यं भूयात्सकलसुखसम्पत्तिवसतिः
कथारम्भे रम्भ्ये सततमिह बालोऽपि रमताम् ॥ १८४ ॥
इति हितोपदेशे सुहृद्भेदो नाम द्वितीयः
कथासङ्ग्रहः समाप्तः ॥
३ विग्रहः
अथ पुनः कथारम्भकाले राजपुत्रा ऊचुः आर्य !
राजपुत्रा वयम् । तद्विग्रहं श्रोतुं नः कुतूहलमस्ति ।
विष्णुशर्मणोक्तं यदेवं भवद्भ्यो रोचते
तत्कथयामि । विग्रहः श्रूयतां,यस्यायमाद्यः श्लोकः
हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे ।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमन्दिरे ॥ १ ॥
राजपुत्रा ऊचुः कथमेतत्? विष्णुशर्मा कथयति
अस्ति कर्पूरद्वीपे पद्मकेलिनामधेयं सरः । तत्र हिरण्यगर्भो नाम
राजहंसः प्रतिवसति । स च सर्वैर्जलचरैः पक्षिभिर्मिलित्वा
पक्षिराज्ये भिषिक्तः । यतः
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा ।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ २ ॥
अपरं च
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत् ॥ ३ ॥
एकदासौ राजहंसैः सुविस्तीर्णकमलपर्यङ्के सुखासीनः
परिवारपरिवृतस्तिष्ठति । ततः कुतश्चिद्देशादागत्य
दीर्घमुखो नाम बकः प्रणम्योपविष्टः । राजोवाच दीर्घमुख !
दशान्तरादागतोऽसि । वार्तां कथय । स ब्रूते देव ! अस्ति
महती वार्ता । तामाख्यातुकाम एव सत्वरमागतोऽहम् । श्रूयताम् अस्ति
जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो
निवसति । तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्यमध्ये
चरन्नवलोकितः । पृष्टश्च कस्त्वम्? कुतः समागतोऽसि?
तदा मयोक्तं कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य
र्जहंसस्यानुचरोऽहं,कौतुकाद्देशान्तरं द्रष्टुमागतोऽस्मि ।
एतच्छ्रुत्वा पक्षिभिरुक्तमनयोर्देशयोः को देशो भद्रतरो
राजा च? ततो मयोक्तमाः किमेवमुच्यते महदन्तरम् ।
यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश्च द्वितीयः स्वर्गपतिः
कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ ।
अस्मद्देशे गम्यताम् ।
ततोऽस्मद्वचनमाकर्ण्य सर्वपक्षिणः सकोपा बभूवुः ।
तथा चोक्तम्
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ ४ ॥
अन्यच्च
विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन ।
वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः ॥ ५ ॥
राजोवाच कथमेतत्?
दीर्घमुखः कथयति
कथा १
अस्ति नर्मदातीरे पर्वतोपत्यकायां विशालः शाल्मलीतरुः ।
तत्र निर्मितनीडकोडे पक्षिणः सुखेन निवसन्ति । अथैकदा
वर्षासु नीलपटैरिव जलधरपटलैरावृते नभस्तले ।
धारासारैर्महती वृष्टिर्बभूव ।
ततो वानरांश्च तरुतले वस्थितान्शीताकुलान्कम्पमानान्
अवलोक्य,कृपया पक्षिभिरुक्तं भो भो वानराः ! शृणुत
अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः ।
हस्तपादादिसंयुक्ता यूयं किमवसीदथ ॥ ६ ॥
तच्छ्रुत्वा
वानरैर्जातामर्षैरालोचितमहो ! निर्वातनीडगर्भावस्थिताः
सुखिनः पक्षिणोऽस्मान्निन्दन्ति । तद्भवतु तावद्वृष्टेरुपशमः ।
अनन्तरं शान्ते पानीयवर्षे
तैर्वानरैर्वृक्षमारुह्य,सर्वे नीडा भग्नाः,तेषामण्डानि
चाधः पातितानि । अतोऽहं ब्रवीमि विद्वानेवोपदेष्टव्यः इत्यादि ।
राजोवाच ततस्तैः पक्षिभिः किं कृतम्?
बकः कथयति ततस्तैः पक्षिभिः कोपादुक्तं
केनासौ राजहंसो राजा कृतः? ततो मयोपजातकोपेनोक्तं
अयं युष्मदीयो मयूरः केन राजा कृतः? एतच्छ्रुत्वा
ते पक्षिणो मां हन्तुमुद्यताः । ततो मयापि स्वविक्रमो दर्शितः ।
यतः
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ७ ॥
राजा विहस्याह
आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियते रिभिः ॥ ८ ॥
सुचिरं हि चरन्नित्यं क्षेत्रे सत्यमबुद्धिमान्।
द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्गर्दभो हतः ॥ ९ ॥
बकः पृच्छति कथमेतत्?
राजा कथयति
कथा २
अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिभारवहनाद्
दुर्बलो मुमूर्षुरिवाभवत्। ततस्तेन रजकेनासौ व्याघ्रचर्मणा
प्रच्छाद्यारण्यकसमीपे सस्यक्षेत्रे विमुक्तः । ततो दूरात्
तमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते ।
अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन
धनुष्काण्डं सज्जीकृत्यानतकायेनैकान्ते स्थितम् । तं च दूराद्
दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्टसस्यभक्षणजातबलो
गर्दभोऽयमिति मत्वोच्चैः शब्दं कुर्वाणस्तदभिमुखं धावितः ।
ततस्तेन सस्यरक्षकेण चीत्कारशब्दाद्गर्दभोऽयमिति
निश्चित्य,लीलयैव व्यापादितः । अतोऽहं ब्रवीमि सुचिरं हि
चरन्नित्यमित्यादि ।
दीर्घमुखो ब्रूते ततः पश्चात्तैः पक्षिभिरुक्तमरे पापा
दुष्टबक ! अस्माकं भूमौ चरन्नस्माकं स्वामिनमधिक्षिपसि । तन्
न क्षन्तव्यमिदानीम् । इत्युक्त्वा सर्वे मां चञ्चुभिर्हत्वा,सकोपा ऊचुः
पश्य रे मूर्ख ! स हंसस्तव राजा सर्वथा मृदुः । तस्य
राज्याधिकारो नास्ति । यत एकान्तमृदुः करतलस्थमप्यर्थं
रक्षितुमक्षमः । स कथं पृथिवीं शास्ति? राज्यं वा तस्य किम्?
त्वं च कूपमण्डूकः । तेन तदाश्रयमुपदिशसि । शृणु
सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात्फलं नास्ति च्छाया केन निवार्यते ॥ १० ॥
अन्यच्च
हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः ।
पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ११ ॥
अन्यच्च
महानप्यल्पतां याति निर्गुणे गुणविस्तरः ।
आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ १२ ॥
किन्तु
अजा सिंहप्रसादेन वने चरति निर्भयम् ।
राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ १३ ॥
विशेषतश्च
व्यपदेशे पि सिद्धिः स्यादतिशक्ते नराधिपे ।
शशिनो व्यपदेशेन शशकाः सुखमासते ॥ १४ ॥
मयोक्तं कथमेतत्?
पक्षिणः कथयन्ति
कथा ३
कदाचिद्वर्षास्वपि वृष्टेरभावात्
तृषार्तो गजयूथो यूथपतिमाह नाथ ! कोऽभ्युपायोऽस्माकं
जीवनाय? नास्ति क्षुद्रजन्तूनां अपि निमज्जनस्थानम् । वयं च
निमज्जनस्थानाभावान्मृताः । अन्धा इव किं कुर्मः? क्व यामः?
ततो हस्तिराजो
नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान्। ततो दिनेषु गच्छत्सु
तत्तीरावस्थिताः क्षुद्रशशका गजपादाहतिभिश्चूर्णिताः ।
अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामास अनेन गजयूथेन
पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम् । ततो विनष्टमस्मत्कुलम् ।
ततो विजयो नाम वृद्धशशकोऽवदत्मा विषीदत ।
मयात्र प्रतीकारः कर्तव्यः ।
ततोऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितं
कथं
मया गजयूथनाथसमीपे स्थित्वा वक्तव्यम् । यतः
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ।
पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः ॥ १५ ॥
अतोऽहं पर्वतशिखरमारुह्य यूथनाथं संवादयामि ।
तथानुष्ठिते सति यूथनाथ उवाच कस्त्वम्? कुतः समायातः?
स ब्रूते
शशकोऽहम् । भगवता चन्द्रेण भवदन्तिकं प्रेषितः ।
यूथपतिराह कार्यमुच्यताम् ।
विजयो ब्रूते
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥ १६ ॥
तदहं तदाज्ञया ब्रवीमि,शृणु । यदेते चन्द्रसरोरक्षकाः
शशकास्त्वया निःसारितास्तदनुचितं कृतम् । ते
शशकाश्चिरमस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः ।
एवमुक्तवति दूते यूथपतिर्भयादिदमाह प्रणिधे ! इदमज्ञानतः
कृतम् । पुनर्न तत्र गमिष्यामि । दूत उवाच यद्येवं तद्
अत्र सरसि कोपात्कम्पमानं भगवन्तं शशाङ्कं प्रणम्य,
प्रसाद्य च गच्छ । ततस्तेन रात्रौ यूथपतिं नीत्वा,तत्र जले
चञ्चलं चन्द्रबिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः ।
उक्तं च तेन देव ! अज्ञानादनेनापराधः कृतः । ततः
क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्युक्त्वा प्रस्थापितः ।
अतो वयं ब्रूमः व्यपदेशे पि सिद्धिः स्यातिति । ततो
मयोक्तं स एवास्मत्प्रभू राजहंसो महाप्रतापोऽतिस्मर्थः ।
त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते,किं पुना राज्यमिति । तदाहं
तैः पक्षिभिः दुष्ट ! कथमस्मद्भूमौ चरसि इत्यभिधाय
राज्ञश्चित्रवर्णस्य समीपं नीतः । ततो
राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तं देव ! अवधीयताम् ।
एष दुष्टोऽस्मद्देशे चरन्नपि देवपादानधिक्षिपति ।
राजाह कोऽयम्? कुतः समायातः?
ते ऊचुः
हिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपादागतः ।
अथाहं गृध्रेण मन्त्रिणा पृष्टः कस्तत्र मुख्यो मन्त्री? इति ।
मयोक्तं सर्वशास्त्रार्थपारगः शर्वज्ञो नाम चक्रवाकः ।
गृध्रो ब्रूते युज्यते । स्वदेशजोऽसौ । यतः
स्वदेशजं कुलाचारविशुद्धमुपधाशुचिम् ।
मन्त्रज्ञमवसनिनं व्यभिचारविवर्जितम् ॥ १७ ॥
अधीतव्यवहारार्थं मौलं ख्यातं विपश्चितम् ।
अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ॥ १८ ॥
अत्रान्तरे शुकेनोक्तं देव !
कर्पूरद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि
देवपादानामेवाधिपत्यम् । ततो राज्ञाप्युक्तमेवमेव । यतः
राजा मत्तः शिशुश्चैव प्रमदा धनगर्वितः ।
अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यते पि यत् ॥ १९ ॥
ततो मयोक्तं यदि वचनम्मात्रेणैवाधिपत्यं सिद्ध्यति ।
तदा जम्बूद्वीपे प्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति ।
शुको ब्रूते कथमत्र निर्णयः?
मयोक्तं सङ्ग्राम एव ।
राज्ञा विहस्योक्तं स्वस्वामिनं गत्वा सज्जीकुरु ।
तदा मयोक्तं स्वदूतोऽपि प्रस्थाप्यताम् ।
राजोवाच कः प्रयास्यति दौत्येन? यत एवम्भूतो दूतः कार्यः
भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी ।
ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ २० ॥
गृध्रो वदति सन्त्येव दूता बहवः,किन्तु ब्राह्मण एव कर्तव्यः ।
यतः,
प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति ।
कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥ २१ ॥
राजाह ततः शुक एव व्रजतु ।
शुक ! त्वमेवानेन सह तत्र गत्वास्मदभिलषितं ब्रूहि ।
शुको ब्रूते यथाज्ञापयति देवः । किन्त्वयं
दुर्जनो बकः । तदनेन सह न गच्छामि । तथा चोक्तम्
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः ॥ २२ ॥
अपरं च
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित्।
काकसङ्गाद्धतो हंसस्तिष्ठन्गछंश्च वर्तकः ॥ २३ ॥
राजोवाच कथमेतत्?
शुकः कथयति
कथा ४
अस्त्युज्जयिनीवर्त्मप्रान्तरे प्लक्षतरुः । तत्र हंसकाकौ
निवसतः । कदाचित्ग्रीष्मसमये परिश्रान्तः कश्चित्पथिकस्तत्र
तरुतले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे
तन्मुखाद्वृक्षच्छायापगता । ततः सूर्यतेजसा तन्मुखं
व्याप्तमवलोक्य,तद्वृक्षस्थितेन पुण्यशीलेन शुचिना
राजहंसेन कृपया पक्षौ प्रसार्य
पुनस्तन्मुखे छाया कृता । ततो निर्भरनिद्राशुखिना
पथिभ्रमणपरिश्रान्तेन पान्थेन मुखव्यादानं कृतम् ।
अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे
पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावदसौ पान्थ उत्थायोर्ध्वं
निरीक्षते,तावत्तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतोऽहं
ब्रवीमि न स्थातव्यमिति । देव ! वर्तककथामपि कथयामि ।
श्रूयताम्
कथा ५
एकत्र वृक्षे काकवर्तुकौ सुखं निवसतः । एकदा भगवतो
गरुडस्य यात्राप्रसङ्गेन सर्वे पक्षिणः समुद्रतीरं गताः ।
ततः काकेन सह वर्तकश्चलितः । अथ गच्छतो गोपालस्य
मस्तकावस्थितदधिभाण्डाद्वारं वारं तेन काकेन दधि खाद्यते ।
ततो यावदसौ दधिभाण्डं भूमौ निधायोर्ध्वमवलोकते,तावत्
तेन काकवर्तकौ दृष्टौ । ततस्तेन दृष्टः काकः पलायितः ।
वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः ।
अतोऽहं ब्रवीमि न गन्तव्यमित्यादि । ततो मयोक्तं भ्रातः शुक !
किमेवं ब्रवीषि? मां प्रति यथा श्रीमद्देवपादास्तथा भवान्
अपि । शुकेनोक्तमस्त्वेवम् । किन्तु,दुर्जनैरुच्यमानानि संमतानि
प्रियाण्यपि ।
अकालकुसुमानीव भयं सञ्जनयन्ति हि ॥ २४ ॥
दुर्जनत्वं च भवतो वाक्यादेव ज्ञातम् ।
यदनयोर्भूपालयोर्विग्रहे भवद्वचनमेव निदानम् । पश्य
प्रत्यक्षे पि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथकारो निजां भार्यां सजारां शिरसाकरोत् ॥ २५ ॥
राज्ञोक्तम्कथमेतत्?
शुकः कथयति
कथा ६
अस्ति यौवनश्रीनगरे
मन्दमतिर्नाम रथकारः । स च स्वभार्यां बन्धकीं जानाति ।
किन्तु जारेण समं स्वचक्षुषा नैकस्थाने पश्यति । ततोऽसौ
रथकारः अहमन्यं ग्रामं गच्छामीत्युक्त्वा चलितः । स कियद्
दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतं
स्थितः । अथ रथकारो ग्रामान्तरं गत इत्युपजातविश्वासः स
जारः सन्ध्याकाल एवागतः । पक्ष्चात्तेन जारेण समं तस्मिन्पर्यङ्के
निर्भरं क्रीडन्ती,पर्यङ्कतलस्थितस्य भर्तुः किञ्चिद्
अङ्गस्पर्शात्स्वामिनं मायाविनं विज्ञाय,मनसि सा विषण्णाभवत्।
ततो जारेणोक्तं किमिति त्वमद्य
मया सह निर्भरं न रमसे? विस्मितेव प्रतिभासि मे त्वम् ।
अथ तयोक्तं
अनभिज्ञोऽसि । योऽसौ मम प्राणेश्वरो,येन ममाकौमारं
सख्यं सोऽद्य ग्रामान्तरं गतः । तेन विना सकलजनपूर्णोऽपि
ग्रामो मां प्रत्यरण्यवत्प्रतिभाति । किं भावि? तत्र परस्थाने
किं खादितवान्? कथं वा प्रसुप्तः? इत्यस्मद्धृदयं विदीर्यते ।
जारो ब्रूते तव किमेवंविधा स्नेहभूमी रथकारः?
बन्धक्यवदत्रे बर्बर ! किं वदसि? शृणु
परुषाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा ।
सुप्रसन्नमुखी भर्तुः सा नारी धर्मभाजनम् ॥ २६ ॥
अपरं च
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ २७ ॥
अन्यच्च
भर्ता हि परमं नार्या भूषणं भूषणैर्विना ।
एषा विरहिता तेन शोभनापि न शोभते ॥ २८ ॥
त्वं च जारः पापमतिः,
मनोलौल्यात्पुष्पताम्बूलसदृशः कदाचित्सेव्यसे,कदाचिन्न
सेव्यसे च । स च पुनर्मे स्वामी ,मां विक्रेतुं,देवेभ्यो,
ब्राह्मणेभ्यो वा दातुमीश्वरः । किं बहुना? तस्मिन्जीवति जीवामि ।
तन्मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः
तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे ।
तावत्कालं वसेत्स्वर्गे भर्तारं योऽनुगच्छति ॥ २९ ॥
अन्यच्च
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्।
तद्वद्भर्तारमादाय स्वर्गलोके महीयते ॥ ३० ॥
अपरं च
चितौ परिष्वज्य विचेतनं पतिं
प्रिया हि या मुञ्चति देहमात्मनः ।
कृत्वापि पापं शतलक्षमप्यसौ
पतिं गृहीत्वा सुरलोकमाप्नुयात् ॥ ३१ ॥
यतः
यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ३२ ॥
एतत्सर्वं श्रुत्वा मन्दमतिः स रथकारः धन्योऽहं
यस्येदृशी प्रियवादिनी,स्वामिवत्सला च भार्या इति मनसि
निधाय,तां खट्वां स्त्रीपुरुषसहितां मूर्ध्नि कृत्वा सानन्दं
ननर्त । अतोऽहं ब्रवीमि प्रयक्षे पि कृते दोषे इत्यादि ।
अतोऽहं तेन राज्ञा यथाव्यवहारं सम्पूज्य प्रस्थापितः ।
शुकोऽपि मम पश्चादागच्छन्नास्ते । एतत्सर्वं परिज्ञाय
यथाकर्तव्यमनुसन्धीयताम् । चक्रवाको
विहस्याह देव ! बकेन तावद्देशान्तरमपि गत्वा यथाशक्ति
राजकार्यमनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः,
शतं दद्यान्न विवदेदिति विज्ञस्य संमतम् ।
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥ ३३ ॥
राजाह अलमनेनातीतोपालम्भनेन । प्रस्तुतमनुसन्धीयताम् ।
चक्रवाको ब्रूते देव ! विजने ब्रवीमि । यतः,
वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारतः ।
अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत् ॥ ३४ ॥
ततो राजा मन्त्री च तत्र स्थितौ अन्ये
न्यत्र गताः । चक्रवाको ब्रूते देव ! अहमेवं जानां
कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदमनुष्ठितम् । यतः,
वेद्यानामातुरः श्रेयान्व्यसनी यो नियोगिनाम् ।
विदुषां जीवनं मूर्खः सद्वर्णो जीवनं सताम् ॥ ३५ ॥
राजाब्रवीत्भवतु,कारणमत्र
पश्चान्निरूपणीयम् । सम्प्रति यत्कर्तव्यं तन्निरूप्यताम् ।
चक्रवाको ब्रूते देव ! प्रणिधिस्तावत्तत्र
प्रहीयताम् । ततस्तदनुष्ठानं बलाबलं च जानीमः । तथा हि
भवेत्स्वपरराष्ट्राणां कार्याकार्यावलोकने ।
चारश्चक्षुर्महीभर्तुर्यस्य नास्त्यन्ध एव सः ॥ ३६ ॥
स च द्वितीयं विश्वासपात्रं गृहीत्वा यातु ।
तेनासौ स्वयं तत्रावस्थाय,द्वितीयं तत्रत्यमन्त्रकार्यं
सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं
तीर्थाश्रमसुरस्थाने शास्तरविज्ञानहेतुना ।
तपस्विव्यञ्जनोपेतैः स्वचरैः सह संवसेत् ॥ ३७ ॥
गूढचारश्च यो जले स्थले
च चरति । ततोऽसावेव बको नियुज्यताम् । एतादृश एव कश्चिद्
बको द्वितीयत्वेन प्रयातु । तद्गृहलोकाश्च राजद्वारे
तिष्ठन्तु । किन्तु एतदपि सुगुप्तमनुष्ठातव्यम् । यतः
षट्कर्णो भिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया ।
इत्यात्मना द्वितीयेन मन्त्रः कार्यो महीभृता ॥ ३८ ॥
पश्य
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीपतेः ।
न शक्यास्ते समाधातुमिति नीतिविदां मतम् ॥ ३९ ॥
राजा विमृश्योवाच प्राप्तस्तावन्मयोत्तमः प्रतिनिधिः ।
मन्त्री ब्रूते देव ! सङ्ग्रामे विजयोऽपि प्राप्तः ।
अत्रान्तरे प्रतीहारः प्रविश्य
प्रणम्योवाच देव ! जम्बूद्वीपादागतो द्वारि शुकस्तिष्ठति ।
राजा चक्रवाकमालोकते । चक्रवाकेनोक्तं
कृतावासे तावद्गत्वा तिष्ठतु,पश्चादानीय द्रष्टव्यः ।
यथाज्ञापयति देवः इत्यभिधाय प्रतीहारः शुकं गृहीत्वा
तमावासस्थानं गतः । राजाह विग्रहस्तावत्समुपस्थितः ।
चक्रवाको
ब्रूते देव ! तथापि प्रागेव विग्रहो न विधिः । यतः
स किं भृत्यः स किं मन्त्री य आदावेव भूपतिम् ।
युद्धोद्योगं स्वभूत्यागं निर्दिशत्यविचारितम् ॥ ४० ॥
अपरं च
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ।
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ॥ ४१।
अन्यच्च
साम्ना दानेन भेदेन समस्तैरथवा पृथक् ।
साधितुं प्रयतेतारीन्न युद्धेन कदाचन ॥ ४२ ॥
अपरं च
सर्व एव जनः शूरो ह्यनासादितविग्रहः ।
अदृष्टपरसामर्थ्यः सदर्पः को भवेन्न हि ॥ ४३ ॥
किं च
न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा ।
अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ ४४ ॥
किन्तु विग्रहमुपस्थितं विलोक्य व्यवह्रियताम्,यतः
यथा कालकृतोद्योगात्कृषिः फलवती भवेत्।
तद्वन्नीतिरियं देव चिरात्फलति न क्षणात् ॥ ४५ ॥
अपरं च
दूरे भीरुत्वमासन्ने शूरता महतो गुणः ।
विपत्तौ हि महान्लोके धीरत्वमधिगच्छति ॥ ४६ ॥
अन्यच्च
प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल ।
अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः ॥ ४७ ॥
बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
तद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत् ॥ ४८ ॥
अन्यच्च
स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते ।
कलिर्बलवता सार्धं कीटपक्षोद्गमो यथा ॥ ४९ ॥
किं च
कौर्मं सङ्कोचमास्थाय प्रहारमपि मर्षयेत्।
प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत् ॥ ५० ॥
महत्यल्पे प्युपायज्ञः सममेव भवेत्क्षमः ।
समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥ ५१ ॥
अतो दूतोऽयं
शुकोऽत्राश्वास्य तावद्ध्रियतां यावद्दुर्गं सज्जीक्रियते,यतः
एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
शतं शतसहस्राणि तस्माद्दुर्गं विशिष्यते ॥ ५२ ॥
किं च
अदुर्गविषयः कस्य नारेः परिभवास्पदम् ।
अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥ ५३ ॥
दुर्गं कुर्यान्महाखातमुच्चप्राकारसंयुतम् ।
सयन्त्रं सजलं शैलसरिन्मरुवनाश्रयम् ॥ ५४ ॥
विस्तीर्णतातिवैषम्यं रसधान्येध्मसङ्ग्रहः ।
प्रवेशश्चापसारश्च सप्तैता दुर्गसम्पदः ॥ ५५ ॥
राजाह दुर्गानुसन्धाने को नियुज्यताम्?
चक्रवाको ब्रूते
यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत्।
कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति ॥ ५६ ॥
तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसमवलोक्य
राजोवाच भोः सारस ! त्वं सत्वरं दुर्गमनुसन्धेहि ।
सारसः प्रणम्योवाच देव ! दुर्गं तावदिदमेव चिरात्
सुनिरूपितमास्ते महत्सरः ।
किन्त्वेतन्मध्यद्वीपे द्रव्यसङ्ग्रहः क्रियताम् । यतः
धान्यानां सङ्ग्रहो राजन्नुत्तमः सर्वसङ्ग्रहात्।
निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम् ॥ ५७ ॥
किं च
ख्यातः सर्वरसानां हि लवणो रस उत्तमः ।
गृह्णीयात्तं विना तेन व्यञ्जनं गोमयायते ॥ ५८ ॥
राजाह सत्वरं गत्वा सर्वमनुष्ठीयताम् ।
पुनः प्रविश्य
प्रतीहारो ब्रूते देव ! सिंहलद्वीपादागतो मेघवर्णो नाम वायसः
सपरिवारो द्वारि वर्तते । स च देवपादान्द्रष्टुमिच्छति ।
राजाह
काकः प्राज्ञो बहुदृश्वा च तद्भवति स सङ्ग्राह्यः ।
चक्रवाको ब्रूते देव ! अस्त्येवं । किन्तु अस्मद्विपक्षः काकः
स्थलचरः । तेनास्मद्विपक्षपक्षे नियुक्तः कथं सङ्गृह्यते?
तथा चोक्तम्
आत्मपक्षं परित्यज्य परपक्षेषु यो रतः ।
स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥ ५९ ॥
राजोवाचकथमेतत्?
मन्त्री कथयति
कथा ७
अस्त्यरण्ये कश्चिच्छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन्नीलीभाण्डे
निपतितः । पश्चात्तत उत्थातुमसमर्थः,प्रातरात्मानं मृतवत्
सन्दर्श्य स्थितः । अथ नीलीभाण्डस्वामिना मृति इति ज्ञात्वा,
तस्मात्समुत्थाप्य,दूरे नीत्वासौ परित्यक्तः । तस्मात्पलायितः ।
ततोऽसौ वने गत्वा आत्मानं नीलप्वर्णमवलोक्याचिन्तयत्
अहमिदानीमुत्तमवर्णः । तदहं स्वकीयोत्कर्षं किं न साधयामि
इत्यालोच्य
शृगालानाहूय,तेनोक्तं अहं भगवत्या वनदेवतया
स्वहस्तेनारण्यराज्ये सर्वौषधिरसेनाभिषिक्तः । पश्यन्तु मम
वर्णम् । तदद्यारभ्यास्मदाज्ञयास्मिन्नरण्ये व्यवहारः कार्यः ।
शृगालाश्च तं विशिष्टवर्णमवलोक्य,साष्टाङ्गपातं
प्रणम्योचुः यथाज्ञापयति देवः इति । अनेनैव क्रमेण
सर्वेष्वरण्यवासिष्वाधिपत्यं तस्य बभूव । ततस्तेन
स्वज्ञातिभिरावृतेनाधिक्यं साधितम् । ततस्तेन व्याघ्रसिंहादीन्
उत्तमपरिजनान्प्राप्य,सदसि शृगालानवलोक्य लज्जमानेनावज्ञया
स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान्शृगालानवलोक्य
केनचिद्वृद्धशृगालेनैतत्प्रतिज्ञातं मा विषीदत,
यदनेनानीतिज्ञेन
वयं मर्मज्ञाः । स्वसमीपात्परिभूतास्तद्यथायं नश्यति
तथा विधेयम् । यतोऽमी व्याघ्रादयो वर्णमात्रविप्रलब्धाः
शृगालमज्ञात्वा राजानमिमं मन्यन्ते । तद्यथायं परिचीयते
तथा कुरुत । तत्र चैवमनुष्ठेयम्,यथा वदामि सर्वे
सन्ध्यासमये तत्सन्निधाने महारावमेकदैव करिष्यथ । ततस्तं
शब्दमाकर्ण्य जातिस्वभावात्तेनापि शब्दः कर्तव्यः । यतः
यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः ।
श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम् ॥ ६० ॥
ततः शब्दादभिज्ञाय स व्याघ्रेण
हन्तव्यः । ततस्तथानुष्ठिते सति तद्वृत्तम् । तथा चोक्तम्
छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः ।
दहत्यन्तर्गतश्चैव शुष्कं वृक्षमिवानलः ॥ ६१ ॥
अतोऽहं ब्रवीमि आत्मपक्षं परित्यज्येत्यादि ।
राजाह यद्येवं तथापि
दृश्यतां तावदयं दूरादागतः । तत्सङ्ग्रहे विचारः कार्यः ।
चक्रो ब्रूते देव ! प्रणिधिस्तावत्
प्रहितो,दुर्गं च सज्जीकृतम् । अतः शुकोऽप्यानीय प्रस्थाप्यताम् ।
किन्तु योधबलसमन्वितो भूत्वा,दूरादेव तमवलोकय । यतः
नन्दं जघान चाणक्यस्तीक्ष्णदूतप्रयोगतः ।
तद्दूरान्तरितं दूतं पश्येद्वीरसमन्वितः ॥ ६२ ॥
ततः सभां कृत्वाहूतः शुकः काकश्च । शुकः किञ्चिदुन्नतशिरा
दत्तासने उपविश्य ब्रूते भो हिरण्यगर्भ ! त्वां महाराजाधिराजः
श्रीमच्चित्रवर्णः समाज्ञापयति यदि जीवितेन श्रिया वा
प्रयोजनमस्ति,तदा सत्वरमागत्यास्मच्चरणौ प्रणम । नो चेद्
अवस्थातुं स्थानान्तरं परिचिन्तय ।
राजा सकोपमाह आः,
सभायामस्माकं न कोऽपि विद्यते य एनं गलहस्तयति? तत उत्थाय
मेघवर्णो ब्रूते देव ! आज्ञापय,हमि चैनं दुष्टशुकम् ।
सर्वज्ञो राजानं
काकं च सान्त्वयन्ब्रूते भद्र ! मा मैवम् । शृणु तावत्
न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यमस्ति
सत्यं न तद्यच्छलमभ्युपैति ॥ ६३ ॥
यतो राजधर्मश्चैषः
दूतो म्लेच्छोऽप्यवध्यः स्याद्राजा दूतमुखो यतः ।
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ॥ ६४ ॥
अन्यच्च
स्वापकर्षं परोत्कर्षं दूतोक्तैर्मन्यते तु कः ।
सदैवावध्यभावेन दूतः सर्वं हि जल्पति ॥ ६५ ॥
ततो राजा काकश्च स्वां
प्रकृतिमापन्नौ । शुकोऽप्युत्थाय चलितः । पश्चाच्चक्रवाकेणानीय
प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ ।
शुकोऽपि विन्ध्याचलं गत्वा,स्वस्य राजानं चित्रवर्णं प्रणतवान्।
तं विलोक्य राजोवाच शुक ! का वार्ता? कीदृशोऽसौ देशः?
शुको ब्रूते देव ! संक्षेपादियं वार्ता । सम्प्रति युद्धोद्योगः
क्रियताम् । देशश्चासौ कर्पूरद्वीपः स्वर्गैकदेशो,राजा
च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । ततः सर्वान्
शिष्टानाहूय राजा मन्त्रयितुमुपविष्टः । आह च तान्सम्प्रति
कर्तव्ये विग्रहे यथाकर्तव्यमुपदेशं ब्रूत । विग्रहः पुनरवश्यं
कर्तव्यः । तथा चोक्तम्
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ ६६ ॥
दूरदर्शी नाम गृध्रो
मन्त्री ब्रूते देव ! व्यसनितया विग्रहो न विधिः । यतः
मित्रामात्यसुहृद्वर्गा यदा स्युर्दृढभक्तयः ।
शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा ॥ ६७ ॥
अन्यच्च
भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् ।
यदैतन्निश्चितं भावि कर्तव्यो विग्रहस्तदा ॥ ६८ ॥
राजाह
मद्बलं तावदवलोकयतु मन्त्री । तदैतेषामुपयोगो ज्ञायताम् ।
एवमाहूयतां मौहूर्तिकः । स यात्रार्थं शुभलग्नं निर्णीय ददातु ।
मन्त्री ब्रूते
देव ! तथापि सहसा यात्राकरणमनुचितम् । यतः
विशन्ति सहसा मूढा ये विचार्य द्विषद्बलम् ।
खड्गधारापरिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥ ६९ ॥
राजाह मन्त्रिन्! ममोत्साहभङ्गं सर्वथा
मा कृथाः । विजिगीषुर्यथा परभूमिमाक्रमति तथा कथय ।
गृध्रो ब्रूते देव ! तत्कथयामि ।
किन्तु तदनुष्ठितमेव फलप्रदम् । तथा चोक्तम्
किं मन्त्रेणाननुष्ठाने शास्त्रवित्पृथिवीपतेः ।
न ह्यौषधपरिज्ञानाद्व्याधेः शान्तिः क्वचिद्भवेत् ॥ ७० ॥
राजादेशश्चानतिक्रमणीय इति यथाश्रुतं निवेदयामि शृणु देव !
नद्यद्रिवनदुर्गेषु यत्र यत्र भयं नृप ।
तत्र तत्र च सेनानीर्यायाद्व्यूहीकृतैर्बलैः ॥ ७१ ॥
बलाध्यक्षः पुरो यायात्प्रवीरपुरुषान्वितः ।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद्बलम् ॥ ७२ ॥
पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः ।
रथानां पार्श्वतो नागा नागानां च पदातयः ॥ ७३ ॥
पश्चात्सेनापतिर्यायात्खिन्नानाश्वासयन्छनैः ।
मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः ॥ ७४ ॥
समेयाद्विषमं नागैर्जलाढ्यं समहीधरम् ।
सममश्वैर्जलं नीमिः सर्वत्रैव पदातिभिः ॥ ७५ ॥
हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे ।
तदन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥ ७६ ॥
शैलेषु दुर्गमार्गेषु विधेयं नृपरक्षणम् ।
स्वयोधै रक्षितस्यापि शयनं योगनिद्रया ॥ ७७ ॥
नाशयेत्कर्षयेच्छत्रून्दुर्गकण्टकमर्दनैः ।
परदेशप्रवेशे च कुर्यादाटविकान्पुरः ॥ ७८ ॥
यत्र राजा तत्र कोशो विना कोशं न राजता ।
सुभटेभ्यस्ततो दद्यात्को हि दातुर्न युध्यते ॥ ७९ ॥
यतः
न नरस्य नरो दासो दासस्त्वर्थस्य भूपते ।
गौरवं लाघवं वापि धनाधननिबन्धनम् ॥ ८० ॥
अभेदेन च युध्येत रक्षेच्चैव परस्परम् ।
फल्गु सैन्यं च यत्किंचिन्मध्ये व्यूहस्य कारयेत् ॥ ८१ ॥
पदातींश्च महीपालः पुरोऽनीकस्य योजयेत्।
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ॥ ८२ ॥
स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा ।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ ८३ ॥
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ।
भिन्द्याच्चैव तडागानि प्रकारारान्परिखास्तथा ॥ ८४ ॥
बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः ।
निजैरवयवैरेव मातङ्गोऽष्टायुधः स्मृतः ॥ ८५ ॥
बलमश्वश्च सैन्यानां प्राकारो जङ्गमो यतः ।
तस्मादश्वाधिको राजा विजयी स्थलविग्रहे ॥ ८६ ॥
तथा चोक्तम्
युध्यमाना हयारूढा देवानामपि दुर्जयाः ।
अपि दूरस्थितास्तेषां वैरिणो हस्तवत्तिनः ॥ ८७ ॥
प्रथमं युद्धकारित्वं समस्तबलपालनम् ।
दिङ्मार्गाणां विशोधित्वं पत्तिकर्म प्रचक्षते ॥ ८८ ॥
स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम् ।
प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः ॥ ८९ ॥
यथा प्रभुकृतान्मानाद्युध्यन्ते भुवि मानवाः ।
न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते ॥ ९० ॥
वरमल्पबलं सारं न कुर्यान्मुण्डमण्डलीम् ।
कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम् ॥ ९१ ॥
अप्रसादोऽनधिष्ठानं देयांशहरणं च यत्।
कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम् ॥ ९२ ॥
अपीडयन्बलं शत्रूञ्जिगीषुरभिषेणयेत्।
सुखसाध्यं द्विषां सैन्यं दीर्घप्रयाणपीडितम् ॥ ९३ ॥
दायादादपरो यस्मान्नास्ति भेदकरो द्विषाम् ।
तस्मादुत्थापयेद्यत्नाद्दायादं तस्य विद्विषः ॥ ९४ ॥
सन्धाय युवराजेन यदि वा मुख्यमन्त्रिणा ।
अन्तःप्रकोपणं कुर्यादभियोक्ता स्थिरात्मनः ॥ ९५ ॥
क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत्।
अथवा गोग्रहाकृष्ट्या तन्मुख्याश्रितबन्धनात् ॥ ९६ ॥
स्वराज्यं वासयेद्राजा परदेशापहरणात्।
अथवा दानमानाभ्यां वासितं धनदं हि तत् ॥ ९७ ॥
अथवा बहुनोदितेन
आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ॥ ९८ ॥
राज्ञा विहस्योक्तं सर्वमेतद्विशेषतश्चोच्यते । किन्तु,
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ९९ ॥
तत उत्थाय राजा मौहूर्तिकावेदितलग्ने प्रस्थितः । अथ
प्रहितप्रणिधिश्चरो हिरण्यगर्भमागत्य प्रणम्योवाच देव !
समागतप्रायो राजा चित्रवर्णः । सम्प्रति मलयपर्वताधित्यकायां
समावासितकटको वर्तते । दुर्गशोधनं प्रतिक्षणमनुसन्धातव्यम् ।
यतोऽसौ गृध्रो महामन्त्री । किं च केनचित्सह तस्य
विश्वासकथाप्रसङ्गेनेतदिङ्गितमवगतं मया । यतनेन
कोऽप्यस्मद्दुर्गे प्रागेव नियुक्तः ।
चक्रवाको ब्रूते देव ! काक एवासौ सम्भवति ।
राजाह न कदाचिदेतत्।
यद्येवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः? अपरं
च,शुकस्यागमनात्तस्य विग्रहोत्साहः । स च चिरादत्रास्ते ।
मन्त्री ब्रूते तथाप्यागन्तुकः शङ्कनीयः ।
राजाह
आगन्तुका अपि कदाचिदुपकारका दृश्यन्ते । शृणु
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १०० ॥
अपरं च
आसीद्वीरवरो नाम शूद्रकस्य महीभृतः ।
सेवकः स्वल्पकालेन स ददौ सुतमात्मनः ॥ १०१ ॥
चक्रवाकः पृच्छतिकथमेतत्?
राजा कथयति
कथा ८
अहं पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो
राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवानभवम् । वीरवरो नाम
राजपुत्रः कुतश्चिद्देशादागत्य राजद्वारमुपगम्य प्रतीहारमुवाच
अहं तावद्वर्तनार्थी राजपुत्रः । मां रजदर्शनं कारय ।
ततस्तेनासौ राजदर्शनं कारितो ब्रूते देव !
यदि मया सेवकेन प्रयोजनमस्ति,तदास्मद्वर्तनं क्रियताम् ।
शूद्रक उवाच किं ते वर्तनम्?
वीरवरो ब्रूते प्रत्यहं सुवर्णपञ्चशतानि देहि ।
राजाह का ते सामग्री?
वीरवरो ब्रूते द्वौ बाहू । तृतीयश्च खड्गः ।
राजाह नैतच्छक्यम् ।
तच्छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिरुक्तं
देव ! दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य
स्वरूपम् । किमुपयुक्तोऽयमेतावद्वर्तनं गृह्णाति अनुपयुक्तो वेति ।
ततो मन्त्रिवचनादाहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्चशतानि
सुवर्णानि दत्तानि । वर्तनविनियोगश्च राज्ञा सुनिभृतं निरूपितः ।
तदर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं
दुःखितेभ्यः । तदवशिष्टं भोज्यविलासव्ययेन । एतत्सर्वं
नित्यकृत्यं कृत्वा,राजद्वारमहर्निशं खड्गपाणिः सेवते ।
यदा च राजा स्वयं समादिशति तदा स्वगृहमपि याति । अथैकदा
कृष्णचतुर्दश्यां रात्रौ स राजा सकरुणक्रन्दनध्वनिं
शुश्राव । तत्श्रुत्वा राजा ब्रूते कः कोऽत्र द्वारि तिष्ठति?
तदा तेनोक्तं देव ! अहं वीरवरः ।
राजोवाच क्रन्दनानुसरणं क्रियताम् ।
वीरवरोऽपि यथाज्ञापयति देवः,इत्युक्त्वा चलितः ।
राज्ञा च चिन्तितमयमेकाकी राजपुत्रो मया सूचीभेद्ये तमसि
प्रहितः । नैतदुचितम् । तदहमपि गत्वा किमेतदिति निरूपयामि ।
ततो राजापि
खड्गमादाय तदनुसरणक्रमेण नगराद्बहिर्निर्जगाम । गत्वा च
वीरवरेण रुदती रुपयौवनसम्पन्ना सर्वालङ्कारभूषिता काचित्
स्त्री दृष्टा,पृष्टा च का त्वम्? किमर्थं रोदिषि? इति ।
स्त्रियोक्तमहमेतस्य शूद्रकस्य राजलक्ष्मीः । चिरादेतस्य
भुजच्छायायां महता सुखेन विश्रान्ता । इदानीमन्यत्र गमिष्यामि ।
वीरवरो ब्रूते यतापायः सम्भवति,तत्रोपायोऽप्यस्ति ।
तत्कथं स्यात्पुनरिहावासो भवत्याः?
लक्ष्मीरुवाच यदि त्वमात्मनः पुत्रं शक्तिधरं
द्वात्रिंशल्लक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि,
तदाहं पुनरत्र सुचिरं निवसामि । इत्युक्त्वादृश्याभवत्।
ततो वीरवरेण स्वगृहं
गत्वा निद्रायमाणा स्ववधूः प्रबोधिता पुत्रश्च । तौ निद्रां
परित्यज्योत्थायोपविष्टौ । वीरवरस्तत्सर्वं लक्ष्मीवचनमुक्तवान्।
तच्छ्रुत्वा सानन्दः शक्तिधरो ब्रूते धन्योऽहमेवम्भूतः ।
स्वामिराज्यरक्षार्थं यस्योपयोगः । तात ! तत्कोऽधुना विलम्बस्य
हेतुः? एवंविधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
तन्निमित्तो वरं त्यागो विनाशे नियते सति ॥ १०२ ॥
शक्तिधरमातोवाच यद्येतन्न कर्तव्यं तत्केनान्येन
कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्यालोच्य
सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य
वीरवरो ब्रूते देवि ! प्रसीद । विजयतां शूद्रको महाराजः ।
गृह्यतामयमुपहारः । इत्युक्त्वा पुत्रस्य शिरश्चिच्छेद । ततो
वीरवरश्चिन्तयामास गृहीतराजवर्तनस्य निस्तारः कृतः ।
अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्यालोच्यात्मनः शिरश्चिच्छेद ।
ततः स्त्रियापि स्वामिपुत्रशोकार्तया
तदनुष्ठितम् । तत्सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास
जायन्ते च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः ।
अनेन सदृशो लोके न भूतो न भविष्यति ॥ १०३ ॥
तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः
शूद्रकेणापि स्वशिरश्छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या
सर्वमङ्गलया प्रत्यक्षभूतया राजा हस्ते धृतः । उक्तं च
पुत्र ! प्रसन्नोऽस्मि ते,
एतावता साहसेनालम् । जीवनान्ते पि तव राजभङ्गो नास्ति ।
राजा च साष्टाङ्गपातं प्रणम्योवाच देवि ! किं मे राज्येन?
जीवितेन वा मम किं प्रयोजनम्?
यद्यहमनुकम्पनीयस्तदा ममायुःशेषेणाप्ययं सदारपुत्रो
वीरवरो जीवतु । अन्यथाहं यथाप्राप्तां गतिं गच्छामि ।
भगवत्युवाच पुत्र ! अनेन ते सत्त्वोत्कर्षेण
भृत्यवात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव ।
अयमपि सपरिवारो राजपुत्रो जीवतु । इत्युक्त्वा देव्यदृश्याभवत्।
ततो वीरवरः सपुत्रदारः प्राप्तजीवनः स्वगृहं
गतः । राजापि तैरलक्षितः सत्वरमन्तःपुरं प्रविष्टः ।
अथ प्रभाते
वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्नाह देव !
सा रुदती मामवलोक्यादृश्याभवत्। न काप्यन्या वार्ता विद्यते ।
तद्वचनमाकर्ण्य सन्तुष्टो राजा साश्चर्यं
चिन्तयामास कथमयं श्लाघ्यो महासत्त्वः? यतः
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापात्रवर्षी च प्रगल्भः स्यादनिष्ठुरः ॥ १०४ ॥
एतन्महापुरुषलक्षणमेतस्मिन्
सर्वमस्ति । ततः स राजा प्रातः शिष्टसभां कृत्वा,सर्वं
वृत्तान्तं प्रस्तुत्य प्रसादात्तस्मै कर्णाटकराज्यं ददौ । तत्
किमागन्तुको जातिमात्राद्दुष्टः? तत्राप्युत्तमाधममध्यमाः सन्ति ।
चक्रवाको ब्रूते
योऽकार्यं कार्यवच्छास्ति स किं मन्त्री नृपेच्छया ।
वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्यतः ॥ १०५ ॥
वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदाः ।
शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ १०६ ॥
शृणु देव !
पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति ।
हत्वा भिक्षुं यतो मोहान्निध्यर्थी नापितो हतः ॥ १०७ ॥
राजा पृच्छतिकथमेतत्?
मन्त्री कथयति
कथा ९
अस्त्ययोध्यायां पुरि चूडामणिर्नाम क्षत्रियः । तेन धनार्थिना
महता क्लेशेन भगवांश्चन्द्रार्धचूडामणिश्चिरमाराधितः ।
ततः क्षीणपापोऽसौ स्वप्ने दर्शनं दत्त्वा,
भगवदादेशाद्यक्षेश्वरेणादिष्टो यत्त्वमद्य प्रातः क्षौरं
कारयित्वा,लगुडहस्तः सन्स्वगृहद्वारि निभृतं स्थास्यसि,
ततो यमेवागतं भिक्षुकं प्राङ्गणे
पश्यसि तं निर्दक्षं लगुडप्रहारेण हनिष्यसि । ततोऽसौ
भिक्षुकस्तत्क्षणात्सुवर्णकलसो भविष्यति । तेन त्वया
यावज्जीवं सुखिना भवितव्यम् । ततस्तथानुष्ठिते तद्वृत्तम् ।
तत्र क्षौरकरणायानीतेन नापितेन तत्सर्वमालोक्य चिन्तितं
अये निधिप्राप्तेरयमुपायः । तदहमप्येवं किं न करोमि? ततः
प्रभृति स नापितः प्रत्यहं तथाविधो लगुडहस्तः सुनिभृतं
भिक्षोरागमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर्लगुडेन
व्यापादितः । तस्मादपराधात्सोऽपि नापितो राजपुरुषैर्व्यापादितः ।
अतोऽहं ब्रवीमि पुण्याल्लब्धं यदेकेन इत्यादि ।
राजाह
पुरावृत्तकथोद्गारैः कथं निर्णीयते परः ।
स्यान्निष्कारणबन्धुर्वा किं वा विश्वासघातकः ॥ १०८ ॥
यातु,प्रस्तुतमनुसन्धीयताम् । मलयाधित्यकायां चेच्चित्रवर्णस्तद्
अधुना किं विधेयम्? मन्त्री वदति देव ! आगतप्रणिधिमुखान्
मया श्रुतं,यत्महामन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः
कृतः ततोऽसौ मूढो जेतुं शक्यः । तथा चोक्तम्
लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः ।
मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः ॥ १०९ ॥
ततोऽसौ यावदस्मद्दुर्गद्वाररोधं न करोति,
तावन्नद्यद्रिवनवर्त्मसु तद्बलानि
हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम्
दीर्घवर्त्मपरिश्रान्तं नद्यद्रिवनसङ्कुलम् ।
घोराग्निभयसन्त्रस्तं क्षुत्पिपासार्दितं तथा ॥ ११० ॥
प्रमत्तं भोजनव्यग्रं व्याधिदुर्भिक्षपीडितम् ।
असंस्थितमभूयिष्ठं वृष्टिवातसमाकुलम् ॥ १११ ॥
पङ्कपांशुजलाच्छन्नं सुव्यस्तं दस्युविद्रुतम् ।
एवम्भूतं महीपालः परसैन्यं विघातयेत् ॥ ११२ ॥
अन्यच्च
अवस्कन्दभयाद्राजा प्रजागरकृतश्रमम् ।
दिवासुप्तं सदा हन्यान्निद्राव्याकुलसैनिकम् ॥ ११३ ॥
अतस्तस्य प्रमादितो बलं गत्वा यथावकाशं दिवानिशं
घ्नन्त्वस्मत्सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः
सेनापतयश्च बहवो निहताः । ततश्चित्रवर्णो विषण्णः
स्वमन्त्रिणं दूरदर्शिनमाह तात ! किमित्यस्मदुपेक्षा
क्रियते? किं क्वाप्यविनयो ममास्ति? तथा चोक्तम्
न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् ।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ ११४ ॥
अपि च
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी ।
उद्युक्तो वियान्तं धर्मार्थयशांसि च विनीतः ॥ ११५ ॥
गृध्रोऽवदत्देव ! शृणु
अविद्वानपि भूपालो विद्यावृद्धोपसेवया ।
परां श्रियमवाप्नोति जलासन्नतरुर्यथा ॥ ११६ ॥
अन्यच्च
पापं स्त्री मृगया द्यूतमर्थदूषणमेव च ।
वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ॥ ११७ ॥
किं च
न साहसैकान्तरसानुवर्तिना
न चाप्युपायोपहतान्तरात्मना ।
विभूतयः शक्यमवाप्तुमूर्जिता
नये च शौर्ये च वसन्ति सम्पदः ॥ ११८ ॥
त्वया स्वबलोत्साहमवलोक्य,साहसैकरसिकेन मयोपन्थस्तेष्वपि
मन्त्रेष्वनवधानं,वाक्पारुष्यं च कृतम् । अतो दुर्नीतेः
फलमिदमनुभूयते । तथा चोक्तम्
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः?
सन्तापयन्ति कमपथ्यभुजं न रोगाः?
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परितापयन्ति ॥ ११९ ॥
अपरं च
मुदं विषादः शरदं हिमागमस्
तमो विवस्वान्सुकृतं कृतघ्नता ।
प्रियोपपत्तिः शुचमापदं नयः
श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ १२० ॥
ततो मयाप्यालोचितं प्रज्ञाहीनोऽयं राजा । न चेत्कथं
नीतिशास्त्रकथाकौमुदीं वागुल्काभिस्तिमिरयति । यतः
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्?
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ १२१ ॥
इत्यालोच्याहमपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिराह तात !
अस्त्ययं ममापराधः,इदानीं यथाहमवशिष्टबलसहितः
प्रत्यावृत्त्य विन्ध्याचलं गच्छामि,तथोपदिश ।
गृध्रः स्वगतं चिन्तयति क्रियतामत्र प्रतीकारः । यतः,
देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च ॥ १२२ ॥
मन्त्री प्रहस्य ब्रूते देव मा भैषीः । समाश्वसिहि । शृणु देव
मन्त्रिणां भिन्नसन्धाने भिषजां सांनिपातिके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ १२३ ॥
अपरं च
आरम्भन्ते ल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ १२४ ॥
तदत्र भवत्प्रतापादेव दुर्गं भङ्क्त्वा,
कीर्तिप्रतापसहितं त्वामचिरेण कालेन विन्ध्याचलं नेष्यामि ।
राजाह कथमधुना स्वल्पबलेन तत्सम्पद्यते?
गृध्रो वदति देव ! सर्वं भविष्यति । यतो
विजिगीषोरदीर्घसूत्रता विजयसिद्धेरवश्यम्भावि लक्षणम् ।
तत्सहसैव दुर्गद्वारावरोधः क्रियताम् ।
अथ प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितं देव !
स्वल्पबल एवायं राजा चित्रवर्णो
गृध्रस्य वचनोपष्टम्भादागत्य दुर्गद्वारावरोधं करिष्यति ।
राजहंसो ब्रूते स्वबले सारासारविचारः क्रियताम् । तज्ज्ञात्वा
सुवर्णवस्त्रादिकं यथार्हं प्रसादप्रदानं च क्रियताम् । यतः
यः काकिणीमप्यपथप्रपन्नां
समुद्धरेन्निष्कसहस्रतुल्याम् ।
कालेषु कोटिष्वपि मुक्तहस्तस्
तं राजसिंहं न जहाति लक्ष्मीः ॥ १२५ ॥
अन्यच्च
क्रतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसङ्ग्रहे ।
प्रियासु नारीष्वधनेषु बान्धवेष्व्
अतिव्ययो नास्ति नराधिपाष्टसु ॥ १२६ ॥
यतः
मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि ।
कः सुधीः सन्त्यजेद्भाण्डं शुक्लस्यैवातिसाध्वसात् ॥ १२७ ॥
राजाह कथमिह समये
तिव्ययो युज्यते? उक्तं च आपदर्थे धनं रक्षेदिति ।
मन्त्री ब्रूते श्रीमतां कथमापदः?
राजाह कदाचिच्चलिता लक्ष्मीः ।
मन्त्री ब्रूते सञ्चितापि विनश्यति । तद्देव ! कार्पण्यं
विमुच्य स्वभटा दानमानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम्
परस्परज्ञाः संहृष्टास्त्यक्तुं प्राणान्सुनिश्चिताः ।
कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्बलम् ॥ १२८ ॥
अपरं च
सुभटाः शीलसम्पन्नाः संहताः कृतनिश्चयाः ।
अपि पञ्चशतं शूरा निघ्नन्ति रिपुवाहिनीम् ॥ १२९ ॥
किं च
शिष्टैरप्यवशेषज्ञ उग्रश्च कृतनाशकः ।
त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मम्भरिर्नरः ॥ १३० ॥
यतः
सत्यं शौर्यं दया त्यागो नृपस्यैते महागुणाः ।
एतैस्त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥ १३१ ॥
ईदृशि प्रस्तावे
मात्यास्तावदवश्यमेव पुरस्कर्तव्याः । तथा चोक्तम्
यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी ।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ १३२ ॥
यतः
धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः ।
अनीतिपवनक्षिप्तोऽकार्याब्धौ स निमज्जति ॥ १३३ ॥
शृणु देव!
हर्षक्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस्तथा ।
नित्यं भृत्यानुपेक्षा च तस्य स्याद्धनदा धरा ॥ १३४ ॥
येषां राज्ञा सह स्यातामुच्चयापचयौ ध्रुवम् ।
अमात्या इति तान्राजा नावमन्येत्कदाचन ॥ १३५ ॥
महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः ।
स्खलतो हि करालम्बः सुशिष्टैरेव कीयते ॥ १३६ ॥
अथागत्य प्रणम्य मेघवर्णो ब्रूते देव !
दृष्टिप्रसादं कुरु । इदानीं
विपक्षो दुर्गद्वारि वर्तते । तद्देवपादादेशाद्बहिर्निःसृत्य
स्वविक्रमं दर्शयामि । तेन देवपादानामानृण्यमुपगच्छामि ।
चक्रवाको ब्रूते मैवम् । यदि बहिर्निःसृत्य
योद्धव्यम् । तदा दुर्गाश्रयणमेव निष्प्रयोजनम् । अपरं च
विषमोऽपि यथा नक्रः सलिलान्निसृतो वशः ।
वनाद्विनिर्गतः शूरः सिंहोऽपि स्याच्छगालवत् ॥ १३७ ॥
अथ ते सर्वे दुर्गद्वारं गत्वा महाहवं कृतवन्तः ।
अपरेद्युश्चित्रवर्णो राजा गृध्रमुवाच तात
! स्वप्रतिज्ञातमधुना निर्वाहय । वायसो
ब्रूते देव ! स्वयं गत्वा दृश्यतां युद्धम् । यतः
पुरस्कृत्य बलं राजा योधयेदवलोकयन्।
स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥ १३८ ॥
गृध्रो ब्रूते देव ! शृणु तावत्
अकालसहमत्यल्पं मूर्खव्यसनिनायकम् ।
अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥ १३९ ॥
तत्तावदत्र नास्ति
उपजापश्चिरारोधोऽवस्कन्दस्तीव्रपौरुषम् ।
दुर्गस्य लङ्घनोपायाश्चत्वारः कथिता इमे ॥ १४० ॥
अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयति एवमेवम् ।
ततोऽनुदित एव भास्करे चतुर्ष्वपि दुर्गद्वारेषु प्रवृत्ते युद्धे,
दुर्गाभ्यन्तरगृहेष्वेकदा काकैरग्निनिक्षिप्तः । ततः गृहीतं
गृहीतं दुर्गमिति
कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निमवलोक्य राजहंससैनिका
बहवो दुर्गवासिनश्च सत्वरं ह्रदं प्रविष्टाः,यतः
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
कार्यकाले यथाशक्ति कुर्यान्न तु विचारयेत् ॥ १४१ ॥
राजा हंसश्च स्वभावान्मन्दगतिः । सारसद्वितीयश्चित्रवर्णस्य
सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसमाह
सेनापते ! सारस ! ममानुरोधादात्मानं कथं व्यापादयसि ।
अधुनाहं गन्तुमसमर्थः । त्वं गन्तुमधुनापि समर्थः । तद्गत्वा
जलं प्रविश्यात्मानं परिरक्ष । अस्मत्पुत्रं चूडामणिनामानं
सर्वज्ञस्य संमत्या राजानं करिष्यसि ।
सारसो ब्रूते देव ! न वक्तव्यमेवं
दुःसहं वचः,यावच्चन्द्रार्कौ दिवि तिष्ठतस्तावद्विजयतां
देवः । अहं देव दुर्गाधिकारी । तन्मम मांसासृग् विलिप्तेन
द्वारवर्त्मना तावत्प्रविशतु शत्रुः । अपरं च,देव
दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते ।
राजाह सत्यमेवैतत्। किन्तु
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ १४२ ॥
सारसो ब्रूते शृणु देव!
यदि समरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः क्रियते? ॥ १४३ ॥
अन्यच्च
भवे स्मिन्पवनोद्भ्रान्तवीचिविभ्रमभङ्गुरे ।
जायते पुणय्योगेन परार्थे जीवितव्ययः ॥ १४४ ॥
स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत्।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ १४५ ॥
देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः
प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति ।
अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि ॥ १४६ ॥
अपरं च
नरेशे जीवलोकोऽयं निमीलति निमीलति ।
उदेत्युदीयमाने च रवाविव सरोरुहम् ॥ १४७ ॥
अत्रापि प्रधानाङ्गं राजा ।
अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतरनखाघातः कृतः ।
तदा सत्वरमुपसृत्य सारसेन स्वदेहान्तरितो राजा जले क्षिप्तः ।
अथ कुक्कुटनखप्रहारजर्जरीकृतेनापि सारसेन
कुक्कुटसेना बहुशो हता । पश्चात्सारसोऽपि बहुभिः
पक्षिभिः समेत्य चञ्चुप्रहारेण विभिद्य व्यापादितः । अथ
चित्रवर्णो दुर्गं प्रविश्य,दुर्गावस्थितं द्रव्यं ग्राहयित्वा
वन्दिभिर्जयशब्दैरानन्दितः स्वस्कन्धावारं जगाम । अथ
राजपुत्रैरुक्तं तस्मिन्राजहंसपक्षे पुण्यवान्स सारस एव,
येन स्वदेहत्यागेन स्वामी रक्षितः । यतः
जनयन्ति सुतान्गावः सर्वा एव गवाकृतीन्।
विषाणोल्लिखितस्कन्धं काचिदेव गवां पतिम् ॥ १४८ ॥
विष्णुशर्मोवाच स तावत्सत्त्वक्रीतानक्षयलोकान्
विद्याधरीपरिवृत्तोऽनुभवतु महासत्त्वः । तथा चोक्तम्
आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः ।
भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥ १४९ ॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयान्लभते लोकान्यदि क्लैब्यं न गच्छति ॥ १५० ॥
अथ विष्णुशर्मा प्राह विग्रहः श्रुतो भवद्भिः ।
राजपुत्रैरुक्तं श्रुत्वा सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीतपरमप्येवमस्तु
विग्रहः करितुरङ्गपत्तिभि-
र्नो कदापि भवतान्महीभुजाम् ।
नीतिमन्त्रपवनैः समाहताः
संश्रयन्तु गिरिगह्वरं द्विषः ॥ १५१ ॥
इति श्रीनारायणपण्डितकृते हितोपदेशे नीतिशास्त्रे
विग्रहो नाम तृतीयः कथासङ्ग्रहः ।
४ सन्धिः पुनः कथारम्भकाले राजपुत्रैरुक्तम्
आर्य ! विग्रहः श्रुतोऽस्माभिः । सन्धिरधुनाभिधीयताम् ।
विष्णुशर्मेणोक्तम्-
श्रूयताम् । सन्धिमपि कथयामि । यस्यायमाद्यः श्लोकः
वृत्ते महति सङ्ग्रामे राज्ञोर्निहतसेनयोः ।
स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥ १ ॥
राजपुत्रा ऊचुः कथमेतत्?
विष्णुशर्मा कथयति-
ततस्तेन राजहंसेन उक्तं केनास्मद्दुर्गे निक्षिप्तोऽग्निः?
किं पारक्येण? किं वास्मद्दुर्गवासिना केनापि विपक्षप्रयुक्तेन?
चक्रवाको ब्रूते देव ! भवतो निष्कारणबन्धुरसौ मेघवर्णः
सपरिवारो न दृश्यते । तन्मन्ये तस्यैव विचेष्टितमिदम् ।
राजा क्षणं
विचिन्त्याह अस्ति तावदेवम् । मम दुर्दैवमेतत्। तथा चोक्तम्
अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् ।
कार्यं सुचरितं क्वापि दैवयोगाद्विनश्यति ॥ २ ॥
विषमां हि दशां प्राप्य दैवं गर्हयते नरः ।
आत्मनः कर्मदोषांश्च नैव जानात्यपण्डितः ॥ ३ ॥
अपरं च
सुहृदां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ ४ ॥
अन्यच्च
रक्षितव्यं सदा वाक्यं वाक्याद्भवति नाशनम् ।
हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ ५ ॥
राहाह कथमेतत्?
मन्त्री कथयति
कथा १
अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं
सङ्कटविकटनामानौ हंसौ निवसतः । तयोर्मित्रं कम्बुग्रीवनामा
कूर्मश्च प्रतिवसति । अथैकदा धीवरैरागत्य तथोक्तं
यतत्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्याः ।
तदाकर्ण्य कूर्मो हंसावाह
सुहृदौ ! श्रुतोऽयं धीवरालापः । अधुना किं मया कर्तव्यम्?
हंसावाहतुः
ज्ञायतां तावत्। पुनस्तावत्प्रातर्यदुचितं तत्कर्तव्यम् ।
कूर्मो ब्रूते
मैवम् । यतो दृष्टव्यतिकरोऽहमत्र । यथा चोक्तम्
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा ।
द्वावेव सुखमेधेते यद्भविष्यो विनश्यति ॥ ६ ॥
तावूचतुः कथमेतत्?
कूर्मः कथयति
कथा २
पुरास्मिन्नेव सरस्येवंविधेष्वेव
धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम् । तत्रानागतविधाता
नामैको मत्स्यः । तेनोक्तं अहं तावज्जलाशयान्तरं गच्छामि ।
इत्युक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमतिनाम्ना
मस्त्येनाभिहितं भविष्यदर्थे प्रमाणाभावात्कुत्र मया गन्तव्यम्?
तदुत्पन्ने यथाकार्यं तदनुष्ठेयम् । तथा चोक्तम्
उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान्।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ ७ ॥
यद्भविष्यः पृच्छति कथमेतत्?
प्रत्युत्पन्नमतिः कथयति
कथा ३
पुरा विक्रमपुरे समुद्रदत्तो नाम वणिगस्ति । तस्य
रत्नप्रभा नाम गृहिणी स्वसेवकेन सह सदा रमते । यतः
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते ।
गावस्तृणमिवारण्ये प्रार्थयन्ते नवं नवम् ॥ ८ ॥
अथैकदा सा
रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता ।
ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह नाथ !
एतस्य सेवकस्य महती निकृतिः । यतोऽयं चौरिकां कृत्वा
कर्पूरं खादतीति । मयास्य मुखमाघ्राय ज्ञातम् । तथा चोक्तम्
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ ९ ॥
तच्छ्रुत्वा सेवकेनापि
प्रकुप्योक्तं नाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या
तत्र सेवकेन कथं स्थातव्यम्? यत्र च प्रतिक्षणं गृहिणी
सेवकस्य मुखं जिघ्रति । ततोऽसावुत्थाय चलितः । साधुना च
यत्नात्प्रबोध्य धृतः । अतोऽहं ब्रवीमि उत्पन्नामापदमित्यादि ।
ततो यद्भविष्येणोक्तम्
यदभावि न तद्भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ १० ॥
ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्मृतवदात्मानं सन्दर्श्य
स्थितः । ततो जालादपसारितो यथाशक्त्युत्प्लुत्य गभीरं नीरं
प्रविष्टः । यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः । अतोऽहं
ब्रवीमि अनागतविधाता च इत्यादि । तद्यथाहमन्यं ह्रदं
प्राप्नोमि तथा क्रियताम् । हंसावाहतुः जलाशयान्तरे प्राप्ते तव
कुशलम् । स्थले गच्छतस्ते को विधिः? कूर्म आह
यथाहं भवद्भ्यां सहाकाशवर्त्मना यामि,तथा विधीयताम् ।
हंसाव्ब्रूतः कथमुपायः सम्भवति?
कच्छपो वदति युवाभ्यां चञ्चुधृतं काष्ठखण्डमेकं
मया मुखेनावलम्बितव्यम् । ततश्च युवयोः पक्षबलेन मयापि
सुखेन गन्तव्यम् ।
हंसौ ब्रूतः सम्भवत्येष उपायः । किन्तु
उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत्।
पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥ ११ ॥
कूर्मः पृच्छतिकथमेतत्?
तौ कथयतः
कथा ४
अस्त्युत्तरापथे गृध्रकूटनाम्नि पर्वते महान्पिप्पलवृक्षः ।
तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद्विवरे सर्पस्तिष्ठति ।
स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा
केनचिद्वृद्धबकेनाभिहितं भो एवं कुरुत,यूयं मत्स्यान्
उपादाय नकुलविवरादारभ्य सर्पविवरं यावत्पङ्क्तिक्रमेण
एकैकशो विकिरत । ततस्तदाहारलुब्धैर्नकुलैरागत्य सर्पो
द्रष्टव्यः । स्वभावद्वेषाद्व्यापदयितव्यश्च । तथानुष्ठिते
सति तद्वृत्तम् ।
अथ नकुलैर्वृक्षोपरि
बकशावकानां रावः श्रुतः । पश्चात्तद्वृक्षमारुह्य
बकशावकाः खादिताः । अत आवां ब्रूवः उपायं चिन्तयनित्यादि ।
आवाभ्यां नीयमानं त्वामवलोक्य लोकैः किंचिद्वक्तव्यमेव । यदि
त्वमुत्तरं दास्यसि,तदा त्वन्मरणम् । तत्सर्वथैव स्थीयताम् ।
कूर्मो वदति किमहमप्राज्ञः?
नाहमुत्तरं दास्यामि । न किमपि मया वक्तव्यम् । तथानुष्ठिते
तथाविधं कूर्ममालोक्य सर्वे गोरक्षकाः पश्चाद्धावन्ति,
वदन्ति च अहो ! महदाश्चर्यं ! पक्षिभ्यां कूर्मो नीयते ।
कश्चिद्वदति यद्ययं कूर्मः पतति,तदात्रैव पक्त्वा खादितव्यः ।
कश्चिद्वदति सरसस्तीरे दग्ध्वा खादितव्योऽयम् ।
कश्चिद्वदति गृहं नीत्वा भक्षणीयः । इति ।
तद्वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः
प्राह युष्माभिर्भस्म भक्षितव्यमिति वदन्नेव
पतितस्तैर्व्यापादितश्च । अतोऽहं ब्रवीमि सुहृदां
हितकामानामित्यादि ।
अथ प्रणिधिर्बकस्तत्रागत्योवाच देव ! प्रागेव मया निगदितं
दुर्गशोध हि प्रतिक्षणं कर्तव्यमिति । तच्च युष्माभिर्न
कृतं,तदनवधानस्य फलमिदमनुभूतम् । दुर्गदाहो मेघवर्णेन
वायसेन गृध्रप्रत्युक्तेन कृतः । राजा निःश्वस्याह
प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु ।
स सुप्त इव वृक्षाग्रात्पतितः प्रतिबुध्यते ॥ १२ ॥
अथ प्रणिधिरुवाच इतो दुर्गदाहं विधाय,यदा यतो
मेघवर्णस्तदा चित्रवर्णेन प्रसादितेनोक्तमयं मेघवर्णोऽत्र
कर्पूरद्वीपराज्ये भिषिच्यताम् । तथा चोक्तम्
कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत्।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ १३ ॥
चक्रवाको ब्रूते देव ! श्रुतं यत्प्रणिधिः कथयति?
राजा प्राहततस्ततः?
प्रणिधिरुवाच ततः प्रधानमन्त्रिणा गृध्रेणाभिहितं
देव ! नेदमुचितम् । प्रसादान्तरं किमपि क्रियताम् । यतः
अविचारयतो युक्तिकथनं तुषखण्डनम् ।
नीचेषूपकृतं राजन्बालुकास्विव मूत्रितम् ॥ १४ ॥
महतामास्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम्
नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुमिच्छति ।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥ १५ ॥
चित्रवर्णः पृच्छतिकथमेतत्?
मन्त्री कथयति
कथा ५
अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः ।
तत्र तेन आश्रमसंनिधाने मूषिकशावकः काकमुखाद्
भ्रष्टो दृष्टः । ततो दयायुक्तेन तेन मुनिआ नीवारकणैः
संवर्धितः । ततो बिडालस्तं मूषिकं खादितुमुपधावति । तमवलोक्य
मूषिकस्तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तं मूषिक !
त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते ।
ततो मुनिनोक्तं कुक्कुराद्बिभेषि,त्वमेव कुक्कुरो भव । स
च कुक्कुरो व्याघ्राद्बिभेति ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः ।
अथ तं व्याघ्रं मुनिर्मूषिकोऽयमिति पश्यति । अथ तं मुनिं व्याघ्रं
च दृष्ट्वा सर्वे वदन्ति अनेन मुनिना मूषिको व्याघ्रतां नीतः ।
एतच्छ्रुत्वा सव्यथो व्याघ्रोऽचिन्तयत्यावदनेन मुनिना
स्थीयते,तावदिदं मे स्वरूपाख्यानमकीर्तिकरं न पलायिष्यते
इत्यालोच्य मूषिकस्तं मुनिं हन्तुं गतः ।
ततो मुनिना तज्ज्ञात्वाऽपुनर्मूषिको भव इत्युक्त्वा मूषिक
एव कृतः । अतोऽहं ब्रवीमि नीचः श्लाघ्यपदं प्राप्येत्यादि ॥
अपरं च,देव ! सुकरमिदमिति न मन्तव्यम् । शृणु
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान्।
अतिलोभाद्बकः पश्चान्मृतः कर्कटकग्रहात् ॥ १६ ॥
चित्रवर्णः पृच्छतिकथमेतत्?
मन्त्री कथयति
कथा ६
अस्ति मालवविषये पद्मगर्भाभिधानं
सरः । तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नमिवात्मानं
दर्शयित्वा स्थितः । स च केनचित्कुलीरणे दूरादेव दृष्टः ।
पृष्टश्च किमिति भवानत्राहारत्यागेन तिष्ठति?
बकेनोक्तं मत्स्या मम जीवनहेतवः । ते कैवर्तैरागत्य
व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद्
एवास्मन्मरणमुपस्थितमिति ज्ञात्वाहारे प्यनादरः कृतः । ततो
मत्स्यैरालोचितमिह समये तावदुपकारक एवायं लक्ष्यते ।
तदयमेव यथाकर्तव्यं पृच्छ्यताम् । तथा चोक्तम्
उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा ।
उपकारापकारो हि लक्ष्यं लक्षणमेतयोः ॥ १७ ॥
मत्स्या ऊचुः भो बक ! कोऽत्र अस्माकं रक्षनोपायः?
बको ब्रूते अस्ति
रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहमेकैकशो युष्मान्नयामि ।
मत्स्या आहुः एवमस्तु । ततोऽसौ दुष्टबकस्तान्मत्स्यानेकैकशो
नीत्वा खादति । अनन्तरं कुलीरस्तमुवाच भो बक ! मामपि तत्र
नय । ततो बकोऽप्यपूर्वकुलीरमांसार्थी सादरं तं नीत्वा स्थले
धृतवान्। कुलीरोऽपि
मस्त्यकण्टकाकीर्णं तं स्थलमालोक्याचिन्तयथा हतोऽस्मि
मन्दभाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः
तावद्भयेन भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहरत्वयमभीतिवत् ॥ १८ ॥
किं च
अभियुक्तो यदा पश्येन्न किञ्चिद्गतिमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ १९ ॥
इत्यालोच्य
स कुलीरकस्तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं
गतः । अतोऽहं ब्रवीमि भक्षयित्वा बहून्मत्स्यानित्यादि ।
ततश्चित्रवर्णोऽवदत्शृणु तावन्मन्त्रिन्! मयैतद्
आलोचितम् । अस्ति यदत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति
वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्यस्माकमुपनेतव्यानि ।
तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह
देव !
अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति ।
स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा ॥ २० ॥
राजाहकथमेतत्?
मन्त्री कथयति
कथा ७
अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन
महाविषुवत्सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः ।
ततस्तमादायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे
रौद्रेणाकुलितः सुप्तः । ततः सक्तुरक्षार्थं हस्ते
दण्डमेकमादायाचिन्तयतद्याहं सक्तुशरावं
विक्रीय दश कपर्दकान्प्राप्स्यामि,तदात्रैव तैः
कपर्दकैर्घटशरावादिकमुपक्रीयानेकधा वृद्धैस्तद्धनैः
पुनः पुनः पूर्गवस्त्रादिमुपक्रीय,विक्रीय लक्षसङ्ख्यानि
धनानि कृत्वा,विवाहचतुष्टयं करिष्यामि । अनन्तरं तासु
स्वपत्नीषु या रूपयौवनवती तस्यामधिकानुरागं करिष्यामि ।
सपत्न्यो यदा द्वन्द्वं करिष्यामि,तदा कोपाकुलोऽहं ताः सर्वा
लगुडेन ताडयिष्यामीत्यभिधाय तेन लगुडः प्रक्षिप्तः । तेन
सक्तुशरावश्चूर्णितो
भाण्डानि च बहूनि भग्नानि । ततस्तेन शब्देनागतेन कुम्भकारेण
तथाविधानि भाण्डान्यवलोक्य,ब्राह्मणस्तिरस्कृतो मण्डपाद्
बहिष्कृतश्च । अतोऽहं ब्रवीमि अनागतवतीं चिन्तामित्यादि ।
ततो राजा रहसि गृध्रमुवाच तात ! यथा कर्तव्यं तथोपदिश ।
गृध्रो ब्रूते
मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः ।
गच्छन्त्युन्मार्गयातस्य नेतारः खलु वाच्यताम् ॥ २१ ॥
शृणु देव ! किमस्माभिर्बलदर्पाद्दुर्गं भग्नम्?
उत तव प्रतापाधिष्ठितेनोपायेन?
राजाह भवतामुपायेन ।
गृध्रो ब्रूते यद्यस्मद्वचनं क्रियते,तदा
स्वदेशे गम्यताम् । अन्यथा वर्षाकाले प्राप्ते पुनस्तुल्यबलेन
विग्रहे सत्यस्माकं परभूमिष्ठानां स्वदेशगमनमपि दुर्लभं
भविष्यति । तत्सुखशोभार्थं सन्धाय गम्यताम् । दुर्गं
भग्नं,कीर्तिश्च लब्धेव । मम संमतं तावदेतत्। यतः
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ २२ ॥
अन्यच्च
सुहृद्बलं तथा राज्यमात्मानं कीर्तिमेव च ।
युधि सन्देहदोलास्थं को हि कुर्यादबालिशः ॥ २३ ॥
अपरं च
सन्धिमिच्छेत्समेनापि सन्दिग्धो विजयो युधि ।
नहि संशयितं कुर्यादित्युवाच बृहस्पतिः ॥ २४ ॥
अपि च
युद्धे विनाशो भवति कदाचिदुभयोरपि ।
सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम् ॥ २५ ॥
राजोवाचकथमेतत्?
मन्त्री कथयति
कथा ८
पुरा दैत्यौ सहोदरौ सुन्दोपसुन्दनामानौ महता कायक्लेशेन
त्रैलोक्यराज्यकामनया चिराच्चन्द्रशेखरमाराधितवन्तौ ।
ततस्तयोर्भगवान्परितुष्टः सन्वरं वरयतमित्युवाच ।
अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात्तावन्यद्
वक्तुकामावन्यदभिहितवन्तौ यद्यावयोर्भवान्परितुष्टस्तदा
स्वप्रियां पार्वतीं परमेश्वरो ददातु ।
अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया,विचारमूढयोः
पार्वती प्रदत्ता । ततस्तस्या रूपलावण्यलुब्धाभ्यां,
जगद्घातिभ्यां मससोत्सुकाभ्यां,पापतिमिराभ्याम्,ममेत्यन्योन्यं
कलहायमानाभ्यां,प्रमाणपुरुषः कश्चित्पृच्छ्यतामिति मतौ
कृतायां,स एव भट्टारको वृद्धद्विजरूपः समागत्य
तत्रोपस्थितः । अनन्तरं आवाभ्यामियं स्वबललब्धा,
कस्येयमावयोर्भवति इति ब्राह्मणमपृच्छताम् । ब्राह्मणो ब्रूते
ज्ञानश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवानपि ।
धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया ॥ २६ ॥
तद्युवां क्षात्रधर्मानुगौ । युद्द एव युवयोर्नियम
इत्यभिहिते सति साधूक्तमनेनेति कृत्वान्योन्यतुल्यवीर्यौ,
समकालमन्योन्यघातेन
विनाशमुपागतौ । अतोऽहं ब्रवीमि सन्धिमिच्छेत्समेनापि इत्यादि ।
राजाह तत्प्रागेव किं नेदमुपदिष्टं भवद्भिः?
मन्त्री ब्रूते तदा मद्वचनं किमवसानपर्यन्तं श्रुतं
भवद्भिः? तदापि मम संमत्या नायं विग्रहारम्भः । यतः
साधुगुणयुक्तोऽयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं
सत्यार्थौ धार्मिकोऽनार्यो भ्रातृसङ्हातवान्बली ।
अनेकयुद्धविजयी सन्धेयाः सप्त कीर्तिताः ॥ २७ ॥
सत्योऽनुपालयन्सत्यं सन्धितो नैति विक्रियाम् ।
प्राणबाधे पि सुव्यक्तमार्यो नायात्यनार्थताम् ॥ २८ ॥
धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते ।
प्रजानुरागाद्धर्माच्च दुःखोच्छेद्यो हि धार्मिकः ॥ २९ ॥
सन्धिः कार्योऽप्यनार्येण विनाशे समुपस्थिते ।
विना तस्याश्रयेणार्यो न कुर्यात्कालयापनम् ॥ ३० ॥
संहतत्वाद्यथा वेणुर्निविडैः कण्टकैर्वृतः ।
न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस्तथा ॥ ३१ ॥
बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥ ३२ ॥
जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा ।
अनेकयुद्धजयिनः प्रतापादेव भज्यते ॥ ३३ ॥
अनेकयुद्धविजयी सन्धानं यस्य गच्छति ।
तत्प्रतापेन तस्याशु वशमायान्ति शत्रवः ॥ ३४ ॥
तत्र तावद्बहुभिर्गुणैरुपेतः सन्धेयोऽयं राजा । चक्रवाकोऽवदत्
प्रणिधे ! सर्वमवगतम् । व्रज । पुनरागमिष्यसि ।
अथ राजा हिरण्यगर्भश्चक्रवाकं पृष्ठवान्मन्त्रिन्!
असन्धेयाः कति?
तान्श्रोतुमिच्छामि । मन्त्री ब्रूते देव ! कथयामि । शृणु
बालो वृद्धो दीर्घरोगी तथाज्ञातिबहिष्कृतः ।
भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ ३५ ॥
विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान्।
अनेकचित्तमन्त्रस्तु देवब्राह्मणनिन्दकः ॥ ३६ ॥
दैवोपहतकश्चैव तथा दैवपरायणः ।
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥ ३७ ॥
अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न ।
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥ ३८ ॥
एतैः सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम् ।
एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ॥ ३९ ॥
बालस्याल्पप्रभावत्वान्न लोको योद्धुमिच्छति ।
युद्धायुद्धफलं यस्माज्ज्ञातुं शक्तो न बालिशः ॥ ४० ॥
उत्साहशक्तिहीनत्वाद्वृद्धो दीर्घामयस्तथा ।
स्वैरेव परिभूयेते द्वावप्येतावसंशयम् ॥ ४१ ॥
सुखच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः ।
त एवैनं विनिघ्नन्ति ज्ञातयस्त्वात्मसात्कृताः ॥ ४२ ॥
भीरुर्युद्धपरित्यागात्स्वयमेव प्रणश्यति ।
तथैव भीरुपुरुषः सङ्ग्रामे तैर्विमुच्यते ॥ ४३ ॥
लुब्धस्यासंविभागित्वान्न युध्यन्ते नुजीविनः ।
लुब्धानुजीवी तैरेव दानभिन्नैर्निहन्यते ॥ ४४ ॥
सन्त्यज्यते प्रकृतिभिर्विरक्तप्रकृतिर्युधि ।
सुखाभियोज्यो भवति विषयेवतिसक्तिमान् ॥ ४५ ॥
अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थितचित्तत्वात्कर्यतः स उपेक्ष्यते ॥ ४६ ॥
सदाधर्मबलीयस्त्वाद्देव ब्राह्मणनिन्दकः ।
विशीर्यते स्वयं ह्येष दैवोपहतकस्तथा ॥ ४७ ॥
सम्पत्तेश्च विपत्तेश्च दैवमेव हि कारणम् ।
इति दैवपरो ध्यायन्नात्मना न विचेष्टते ॥ ४८ ॥
दुर्भिक्षव्यसनी चैव स्वयमेव विषीदति ।
बलव्यसनसक्तस्य योद्धुं शक्तिर्न जायते ॥ ४९ ॥
अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
ग्राहोऽल्पीयानपि जले जलेन्द्रमपि कर्षति ॥ ५० ॥
बहुशत्रुस्तु सन्त्रस्तः श्येनमध्ये कपोतवत्।
येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ ५१ ॥
अकालयुक्तसैन्यस्तु हन्यते कालयोधिना ।
कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥ ५२ ॥
सत्यधर्मव्यपेतेन सन्दध्यान्न कदाचन ।
स सन्धितोऽप्यसाधुत्वादचिराद्याति विक्रियाम् ॥ ५३ ॥
अपरमपि कथयामि
सन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् ।
कर्मणामारम्भोपायः । पुरुषद्रव्यसम्पत्।
देशकाळविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश्चेति
पञ्चाङ्गो मन्त्रः । सामदानभेददण्डाश्चत्वार उपायाः ।
उत्साहशक्तिः,मन्त्रशक्तिः,प्रभु शक्तिश्चेति शक्तित्रयम् ।
एतत्सर्वमालोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः
या हि प्राणपरित्यागमूल्येनापि न लभ्यते ।
सा श्रीर्नीतिविदं पश्य चञ्चलापि प्रधावति ॥ ५४ ॥
यथा चोक्तं
वित्तं सदा यस्य समं विभक्तं
गूढश्चरः संनिभृतश्च मन्त्रः ।
नचाप्रियं प्राणिषु यो ब्रवीति
स सागरान्तां पृथिवीं प्रशास्ति ॥ ५५ ॥
किन्तु देव यद्यपि महामन्त्रिणा गृध्रेण
सन्धानमुपन्यस्तं,तथापि तेन राज्ञा सम्प्रति भूतजयदर्पान्न
मन्तव्यम् । देव ! तदेवं क्रियतां । सिंहलद्वीपस्य महाबलो
नाम सारसो राजास्मन्मित्रं जम्बुद्वीपे कोपं जनयतु । यतः
सुगुप्तिमाधाय सुसंहतेन
बलेन वीरो विचरन्नरातिम् ।
सन्तापयेद्येन समं सुतप्तस्
तप्तेन सन्धानमुपैति तप्तः ॥ ५६ ॥
राज्ञा एवमस्त्विति निगद्य
विचित्रनामा बकः सुगुप्तलेखं दत्त्वा सिंहलद्वीपं प्रहितः ।
अथ प्रणिधिः
पुनरागत्योवाच देव ! श्रूयतां तावत्तत्रत्यप्रस्तावः ।
एवं तत्र गृध्रेणोक्तं देव ! मेघवर्णस्तत्र चिरमुषितः ।
स वेत्ति किं सन्धेयगुणयुक्तो हिरण्यगर्भो राजा,न वा? इति ।
ततोऽसौ मेघवर्णश्चित्रवर्णेन राज्ञा समाहूय पृष्टः वायस !
कीदृशो हिरण्यगर्भो राजा? चक्रवाको मन्त्री वा कीदृशः?
वायस उवाच देव ! स हिरण्यगर्भो राजा युधिष्ठिरसमो
महाशयः सत्यवाक् । चक्रवाकसमो मन्त्री न क्वाप्यवलोक्यते ।
राजाह यद्येवं तदा कथमसौ त्वया वञ्चितः?
विहस्य मेघवर्णः प्राह देव !
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥ ५७ ॥
शृणु देव ! तेन मन्त्रिणाहं प्रथमदर्शने एवं विज्ञातः,
किन्तु महाशयोऽसौ राजा,तेन मया विप्रलब्धः । तथा चोक्तम्
आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् ।
स तथा वञ्च्यते धूर्तैर्ब्राह्मणाश्छागतो यथा ॥ ५८ ॥
राजोवाच कथमेतत्?
मेघवर्णः कथयति
कथा ९
अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद्ब्राह्मणः । स च
यज्ञार्थं ग्रामान्तराच्छागमुपक्रीय,स्कन्धे नीत्वा,गच्छ
धूर्तत्रयेणावलोकितः ।
ततस्ते धूर्ताः यद्येष छागः केनाप्युपायेन लभ्यते,
तदा मतिप्रकर्षो भवतीति समालोच्य,वृक्षत्रयतले
क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः ।
तत्रैकेन धूर्तेन गच्छन्स ब्राह्मणोऽभिहितः भो ब्राह्मण !
किमिति त्वया कुक्कुरः स्कन्धेनोह्यते ।
विप्रेणोक्तं नायं श्वा,किन्तु यज्ञच्छागः ।
अथान्तरस्थितेनान्येन धूर्तेन तथैवोक्तम् । तदाकर्ण्य
ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य,पुनः स्कन्धे कृत्वा
दोलायमानमतिश्चलितः । यतः
मतिर्दोलायते सत्यं सतामपि खलोक्तिभिः ।
ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ॥ ५९ ॥
राजाहकथमेतत्?
स कथयति
कथा १०
अस्ति कस्मिंश्चिद्
वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रयः काको व्याघ्रो
जम्बुकश्च । अथ तैर्भ्रमद्भिः सार्थभ्रष्टः कश्चिदुष्ट्रो
दृष्टः । पृष्टश्च कुतो भवानागतः सार्थाद्भ्रष्टः?
स चात्मवृत्तान्तमकथयत्। ततस्तैर्नीत्वा सिंहायासौ
समर्पितः । तेन चाभयवाचं दत्त्वा,चित्रकर्ण इति नाम
कृत्वा स्थापितः । अथ कदाचित्सिंहस्य शरीरवैकल्याद्
भूरिवृष्टिकारणाच्चाहारमलभमानास्ते व्यग्रा बभूवुः ।
ततस्तैरालोचितम् । चित्रकर्णमेव यथा स्वामी व्यापादयति
तथानुष्ठीयताम् । किमनेन कण्टकभुजास्माकम्? व्याघ्र उवाच
स्वामिनाभयवाचं दत्त्वानुगृहीतोऽयं,तत्कथमेवं
सम्भवति? काको ब्रूते इह समये परिक्षीणः स्वामी पापमपि
करिष्यति । यतः
त्यजेत्क्षुधार्ता महिला स्वपुत्रं
खादेत्क्षुधार्ता भुजगी स्वमण्डम् ।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति ॥ ६० ॥
अन्यच्च
मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित् ॥ ६१ ॥
इति सञ्चिन्त्य
सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तमाहारार्थं किञ्चित्प्राप्तम्?
तैरुक्तं देव ! यत्नादपि प्राप्तं किञ्चित्?
सिंहेनोक्तं कोऽधुना जीवनोपायः?
काको वदति
देव ! स्वाधीनाहारपरित्यागात्सर्वनाशोऽयमुपस्थितः?
सिंहेनोक्तमत्राहारः कः स्वाधीनः?
काकः कर्णे कथयति चित्रकर्ण इति । सिंहो
भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच्च अभयवाचं
दत्त्वा धृतोऽयमस्माभिः । तत्कथमेवं सम्भवति? तथा हि
न भूतदानं न सुवर्णदानं
न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं
सर्वेषु दानेष्वभयप्रदानम् ॥ ६२ ॥
अन्यच्च
सर्वकामसमृद्धस्य अश्वमेधस्य यत्फलम् ।
तत्फलं लभते सम्यग् रक्षिते शरणागते ॥ ६३ ॥
काको ब्रूते नासौ स्वामिना व्यापादयितव्यः ।
किन्त्वस्माभिरेव तथा कर्तव्यं,यथासौ स्वदेहदानमङ्गीकरोति ।
सिंहस्तच्छ्रुत्वा तूष्णीं स्थितः । ततोऽसौ लब्धावकाशः कूटं
कृत्वा सर्वानादाय सिंहान्तिकं गतः । अथ काकेनोक्तं देव !
यत्नादप्याहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी । तद्
इदानीं मदीयमांसमुपभुज्यताम् । यतः
स्वामिमूला भवन्त्येव सर्वाः प्रकृतयः खलु ।
समूलेष्वपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ ६४ ॥
सिंहेनोक्तं भद्र !
वरं प्राणपरित्यागो,न पुनरीदृशे कर्मणि प्रवृत्तिः ।
जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तं मैवम् ।
अथ व्याघ्रेणोक्तं मद्देहेन जीवतु स्वामी ।
सिंहेनोक्तं न कदाचिदेवमुचितम् ।
अथ चित्रकर्णोऽपि जातविश्वासस्तथैवात्मदेहदानमाह
ततस्तद्वचनात्तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः ।
सर्वैर्भक्षितश्च । अतोऽहं ब्रवीमि मतिर्दोलायते सत्यमित्यादि ।
ततस्तृतीयधूर्तवचनं श्रुत्वा,स्वमतिभ्रमं निश्चित्य
छागं त्यक्त्वा,ब्राह्मणः स्नात्वा गृहं ययौ । छागश्च
तैर्धूर्तैर्नीत्वा भक्षितः । अतोऽहं ब्रवीमि आत्मौपम्येन यो
वेत्तीत्यादि । राजाह मेघवर्ण ! कथं शत्रुमध्ये त्वया
सुचिरमुषितम्? कथं वा तेषामनुनयः कृतः?
मेघवर्ण उवाच देव ! स्वामिकार्यार्थितया स्वप्रयोजनवशाद्
वा किं किं न क्रियते? पश्य
लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम् ।
क्षालयन्त्यपि वृक्षाङ्घ्रिं नदीवेला निकृन्तति ॥ ६५ ॥
तथा चोक्तम्
स्कन्धेनापि वहेच्छत्रून्कार्यमासाद्य बुद्धिमान्।
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ ६६ ॥
राजाह कथमेतत्?
मेघवर्णः कथयति
कथा ११
अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । सोऽतिजीर्णतया
स्वाहारमप्यन्वेष्टुमक्षमः सरस्तीरे पतित्वा स्थितः । ततो दूराद्
एव केनचिन्मण्डूकेन
दृष्टः,पृष्टश्च किमिति त्वामाहारं नान्विष्यति?
सर्पोऽवदत्गच्छ भद्र ! किं ते मम मन्दभाग्यस्य
वृत्तान्तप्रश्नेन? ततः सञ्जातकौतुकः स च भेकः सर्वथा
कथ्यतामित्याह । सर्पोऽप्याह भद्र ! पुरवासिनः श्रोत्रियस्य
कौण्डिन्यस्य पुत्रो विंशतिवर्षदेशीयः सर्वगुणसम्पन्नो
दुर्दैवान्मया नृशंसेन दष्टः । ततस्तं सुशीलनामानं पुत्रं
मृतमवलोक्य,शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ ।
अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः ।
तथा चोक्तम्
उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ६७ ॥
तत्र कपिलो नाम स्नातकोऽवदत्
अरे कौण्डिन्य ! मूढोऽसि येनैवं विलपसि । शृणु
क्रोडीकरोति प्रथमं यदा जातमनित्यता ।
धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ॥ ६८ ॥
तथा च
क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः ।
वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति ॥ ६९ ॥
तथा च
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ७० ॥
अपरं च
कायः संनिहितापायः सम्पदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ७१ ॥
प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते ।
आमकुम्भ इवाम्भःस्थो विशीर्णः सन्विभाष्यते ॥ ७२ ॥
आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने ।
आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ ७३ ॥
यतः
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ।
ऐश्वर्यं प्रियसंवासो मुह्येत्तत्र न पण्डितः ॥ ७४ ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७५ ॥
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति ।
विश्रम्य च पुनर्गच्छेद्तद्वद्भूतसमागमः ॥ ७६ ॥
अन्यच्च
पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते ।
स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना ॥ ७७ ॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान्।
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ ७८ ॥
नायमत्यन्तसंवासो लभ्यते येन केनचित्।
अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥ ७९ ॥
अपि च
संयोगो हि वियोगस्य संसूचयति सम्भवम् ।
अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ॥ ८० ॥
आपातरमणीयानां संयोगानां प्रियैः सह ।
अपथ्यानामिवान्नानां परिणामो हि दारुणः ॥ ८१ ॥
अपरं च
व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा ।
आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा ॥ ८२ ॥
सुखास्वादपरो यस्तु संसारे सत्समागमः ।
स वियोगावसानत्वाद्दुःखानां धुरि युज्यते ॥ ८३ ॥
अत एव हि नेच्छन्ति साधवः सत्समागमम् ।
यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥ ८४ ॥
सुकृतान्यपि कर्माणि राजभिः सगरादिभिः ।
अथ तान्येव कर्माणि ते चापि प्रलयं गताः ॥ ८५ ॥
संचिन्त्य संचिन्त्य तमुग्रदण्डं
मृत्युं मनुष्यस्य विचक्षणस्य ।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ ८६ ॥
यामेव रात्रिं प्रथमामुपैति
गर्भे निवासं नरवीर लोकः ।
ततः प्रभृत्यस्खलितप्रयाणः
स प्रत्यहं मृत्युसमीपमेति ॥ ८७ ॥
अज्ञानं कारणं न स्याद्वियोगो यदि कारणम् ।
शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥ ८८ ॥
तद्भद्र !
तदात्मानमनुसन्धेहि । शोकचर्चां च परिहर,यतः
अकाण्डपातजातानामस्त्राणां मर्मभेदिनाम् ।
गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ ८९ ॥
ततस्तद्वचनं
निशम्य,प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत्। तदलमिदानीं
गृहनरकवासेन वनमेव गच्छामि । कपिलः पुनराह
वने पि दोषाः प्रभवन्ति रागिणां
गृहे पि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते
त्रिवृत्तरागस्य गृहं तपोवनम् ॥ ९० ॥
यतः
दुःखितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ९१ ॥
उक्तं च
वृत्त्यर्थं भोजनं येषां सन्तानार्थं च मैथुनम् ।
वाक् सत्यवचनार्थाय दुर्गाण्यपि तरन्ति ते ॥ ९२ ॥
तथा हि
आत्मा नदी संयमपुण्यतीर्था
सत्योदका शीलतटा दयोर्मिः ।
तत्राभिषेकं कुरु पाण्डुपुत्र !
न वारिणा शुष्यति चान्तरात्मा ॥ ९३ ॥
विशेषतश्च
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् ।
संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥ ९४ ॥
यतः
दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते ।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥ ९५ ॥
कौण्डिन्यो ब्रूते एवमेव । ततोऽहं तेन शोकाकुलेन
ब्राह्मणेन शप्तो,यदद्यारभ्य मण्डूकानां वाहनं भविष्यतीति ।
कपिलो ब्रूते सम्प्रत्युपदेशासहिष्णुर्भवान्। शोकाविष्टं ते
हृदयम् । तथापि कार्यं शृणु
सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ ९६ ॥
अन्यच्च
कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते ।
स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ ९७ ॥
एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो
यथाविधि दण्डग्रहणं कृतवान्। अतो ब्राह्मणशापान्मण्डूकान्
वोढुमत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य
जालपादनाम्नोऽग्रे तत्कथितम् ।
ततोऽसावागत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठमारूढवान्।
स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम ।
परेद्युश्चलितुमसमर्थं तं मण्डूकनाथमवदत्किमद्य भवान्
मन्दगतिः?
सर्पो ब्रूते देव ! आहारविरहादसमर्थोऽस्मि ।
मण्डूकनाथोऽवदत्
अस्मादाज्ञया मण्डूकान्भक्षय । ततः गृहीतोऽयं महाप्रसाद
इत्युक्त्वा क्रमशो मण्डूकान्खादितवान्। अथ निर्मण्डूकं सरो विलोक्य
मण्डूकनाथोऽपि तेन खादितः । अतोऽहं ब्रवीमि स्कन्धेनापि
वहेच्छत्रूनित्यादि । देव ! यात्विदानीं पुरावृत्ताख्यानकथनं
सर्वथा सन्धेयोऽयं हिरण्यगर्भराजा सन्धीयतामिति मे मतिः ।
राजोवाच कोऽयं भवतो विचारः? यतो जितस्तावदयमस्माभिः ।
ततो यद्यस्मत्सेवया वसति,तदास्ताम् । नो चेद्विगृह्यताम् ।
अत्रान्तरे जम्बूद्वीपादागत्य शुकेनोक्तं देव !
सिंहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपमाक्रम्यावतिष्ठते ।
राजा ससम्भ्रमं ब्रूते किं किम्?
शुकः पूर्वोक्तं कथयति ।
गृध्रः स्वगतमुवाच साधु रे चक्रवाक मन्त्रिन्! साधु !
राजा सकोपमाह आस्तां तावदयं गत्वा तमेव समूलमुन्मूलयामि ।
दूरदर्शी विहस्याह
न शरन्मेघवत्कार्यं वृथैव घनगर्जितम् ।
परस्यार्थमनर्थं वा प्रकाशयति नो महान् ॥ ९८ ॥
अपरं च
एकदा न विगृह्णीयाद्बहून्राजाभिघातिनः ।
सदर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥ ९९ ॥
देव ! किमितो विना सन्धानं गमनमस्ति?
यतस्तदास्माकं पश्चात्प्रकोपोऽनेन कर्तव्यः । अपरं च
योऽर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः ।
स तथा तप्यते मूढो ब्राह्मणो नकुलाद्यथा ॥ १०० ॥
राजाहकथमेतत्?
दूरदर्शी कथयति
कथा ११
अस्त्युज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता,
बालापत्यस्य रक्षार्थं ब्राह्मणमवस्थाप्य स्थातुं गता । अथ
ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुमाह्वानमागतम् । तच्छ्रुत्वा
ब्राह्मणोऽपि सहजदारिद्र्यादचिन्तयत्यदि सत्वरं न
गच्छामि,तदान्या कश्चिच्छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ १०१ ॥
किन्तु बालाकस्यात्र रक्षको नास्ति । तत्किं करोमि? यातु,
चिरकालपालितमिमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां
व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः ।
ततस्तेन नकुलेन बालकसमीपमागच्छन्कृष्णसर्पो
दृष्टो व्यापाद्य कोपात्खण्डं खण्डं कृत्वा भक्षितश्च ।
ततोऽसौ नकुलो ब्राह्मणमायान्तमवलोक्य रक्तविलिप्तमुखपदः
सत्वरमुपगम्य तच्चरणयोर्लुलोठ । ततः स विप्रस्तथाविधं
दृष्ट्वा मम बालकोऽनेन खादित इत्यवधार्य नकुलः व्यापादितवान्।
अनन्तरं यावदुपसृत्यापत्यं पश्यति ब्राह्मणस्तावद्बालकः
सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति । ततस्तमुपकारकं
नकुलं निरीक्ष्य,भावितचेताः स ब्राह्मणः परं विषादमगमत्।
अतोऽहं ब्रवीमि योऽर्थतत्त्वमविज्ञाय इत्यादि । अपरं च
कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।
षड्वर्गमुत्सृजेदेनं तस्मिंस्त्यक्ते सुखी नृपः ॥ १०२ ॥
राजाह मन्त्रिन्! एष ते निश्चयः?
मन्त्री ब्रूते एवमेव । यतः
स्मृतिस्तत्परतार्थेषु वितर्को ज्ञाननिश्चयः ।
दृढता मन्त्रगुप्तिश्च मन्त्रिणः परमो गुणः ॥ १०३ ॥
तथा च
सहसा विदधीत न क्रियां
अविवेकः परमापदां पदम् ।
वृणुते हि विमृश्य कारिणं
गुणलुब्धाः स्वयमेव सम्पदः ॥ १०४ ॥
तद्देव !
यदीदानीमस्मद्वचनं क्रियते,तदा सन्धाय गम्यताम् । यतः
यद्यप्युपायाश्चत्वारो निर्दिष्टाः सध्यसाधने ।
सङ्ख्यामात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥ १०५ ॥
राजाह कथमेवं सत्वरं सम्भाव्यते?
मन्त्री ब्रूते देव ! सत्वरं भविष्यति । यतः
मृद्घटवत्सुखभेद्यो
दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद्
दुर्भेद्यश्चाशु सन्धेयः ॥ १०६ ॥
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ १०७ ॥
कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
तस्मात्परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥ १०८ ॥
राजाह अलमुत्तरोत्तरेण,
यथाभिप्रेतमनुष्ठीयताम् । एतन्मन्त्रयित्वा गृध्रो महामन्त्री
तत्र यथार्हं कर्तव्यमित्युक्त्वा दुर्गाभ्यन्तरं चलितः । ततः
प्रणिधिबकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं देव !
सन्धिकर्तुं महामन्त्री गृध्रोऽस्मत्समीपमागच्छति ।
राजहंसो ब्रूते मन्त्रिन्! पुनरभिसन्धिना केनचिदत्रागमनम् ।
सर्वज्ञो विहस्याह देव ! न शङ्कास्पदमेतत्। यतोऽसौ महाशयो
दूरदर्शी । अथवा स्थितिरियं मन्दमतीनां,कदाचिच्छङ्कैव
न क्रियते,कदाचित्सर्वत्र शङ्का । तथा हि
सरसि बहुशस्ताराच्छायेक्षणात्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहुकचकितो लोकः सत्ये प्यपायमपेक्षते ॥ १०९ ॥
दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः ।
बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥ ११० ॥
तद्देव ! यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री
सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो
दुर्गद्वाराच्चक्रवाकेणोपगम्य,सत्कृत्यानीय राजदर्शनं कारितो
दत्तासने चोपविष्टः । चक्रवाक उवाच मन्त्रिन्!
युष्मदायत्तं सर्वं स्वेच्छयोपभुज्यतामिदं राज्यम्
राजहंसो ब्रूते एवमेव ।
दूरदर्शी कथयति एवमेवैतत्।
किन्त्विदानीं बहुप्रपञ्चवचनं निष्पर्योजनम् । यतः
लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा ।
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ १११ ॥
अन्यच्च
सद्भावेन हरेन्मित्रं सम्भ्रमेण तु बान्धवान्।
स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतरान्जनान् ॥ ११२ ॥
तदिदानीं सन्धातुं गम्यताम् । महाप्रतापश्चित्रवर्णो राजा ।
चक्रवाको ब्रूते यथा सन्धानं कार्यम् । तदप्युच्यताम् ।
राजहंसो ब्रूते कति प्रकाराः सन्धीनां सम्भवन्ति?
गृध्रो ब्रूते कथयामि श्रूयताम्
बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः ।
आपन्नः सन्धिमन्विच्छेत्कुर्वाणः कालयापनम् ॥ ११३ ॥
कपाल उपहारश्च सन्तानः सङ्गतस्तथा ।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ ११४ ॥
अदृष्टनर आदिष्ट आत्मामिष उपग्रहः ।
परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ॥ ११५ ॥
स्कन्धोपनेयः सन्धिश्च षोडशः परकीर्तितः ।
इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ ११६ ॥
कपालसन्धिर्विज्ञेयः केवलं समसन्धिकः ।
सम्प्रदानाद्भवति य उपहारः स उच्यते ॥ ११७ ॥
सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्वकः ।
सद्भिस्तु सङ्गतः सन्धिर्मैत्रीपूर्व उदाहृतः ॥ ११८ ॥
यावदायुःप्रमाणस्तु समानार्थप्रयोजनः ।
सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते ॥ ११९ ॥
सङ्गतः सन्धिरेवायं प्रकृष्टत्वात्सुवर्णवत्।
तथान्यैः सन्धिकुशलैः काञ्चनः समुदाहृतः ॥ १२० ॥
आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः ।
स उपन्यासकुशलैरुपन्यास उदाहृतः ॥ १२१ ॥
मयास्योपकृतं पूर्वं ममाप्येष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ १२२ ॥
उपकारं करोम्यस्य ममाप्येष करिष्यति ।
अयं चापि प्रतीकारो रामसुगृईवयोरिव ॥ १२३ ॥
एकार्थां सम्यगुद्दिश्य यात्रां यत्र हि गच्छतः ।
सुसंहितप्रयाणस्तु सन्धिः संयोग उच्यते ॥ १२४ ॥
आवयोर्योधमुख्याभ्यां मदर्थः साध्यतामिति ।
यस्मिन्पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ १२५ ॥
त्वयैकेन मदीयोऽर्थः सम्प्रसाध्यस्त्वसाविति ।
यत्र शत्रुः पणं कुर्यात्सोऽदृष्टपुरुषः स्मृतः ॥ १२६ ॥
यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः ।
सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहृतः ॥ १२७ ॥
स्वसैन्येन तु सन्धानमात्मादिष्ट उदाहृतः ।
क्रियते प्राणरक्षार्थं सर्वदानादुपग्रहः ॥ १२८ ॥
कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः ।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ १२९ ॥
भुवां सारवतीनां तु दानादुच्छिन्न उच्यते ।
भूम्युत्थफलदानेन सर्वेण परभूषणः ॥ १३० ॥
परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।
स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ १३१ ॥
परस्परोपकारस्तु मैत्री सम्बन्धकस्तथा ।
उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ॥ १३२ ॥
एक एवोपहारस्तु सन्धिरेतन्मतं हि नः ।
उपहारस्य भेदास्तु सर्वे न्ये मैत्रवर्जिताः ॥ १३३ ॥
अभियोक्ता बली यस्मादलब्ध्वा न निवर्तते ।
उपहारादृते तस्मात्सन्धिरन्यो न विद्यते ॥ १३४ ॥
राजाह भवन्तो
महान्तः पण्डिताश्च । तदत्रास्माकं यथाकार्यमुपदिश्यताम् ।
दूरदर्शी ब्रूते आः किमेवमुच्यते?
आधिव्याधिपरीतापादद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ १३५ ॥
जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम् ।
तथाविधमिति ज्ञात्वा शश्वत्कल्याणमाचरेत् ॥ १३६ ॥
वाताभ्रविभ्रममिदं वसुधाधिपत्यं
आपातमात्रमधुरो विषयोपभोगः ।
प्राणास्तृणाग्रजलबिन्दुसमानलोला
धर्मः सखा परमहो परलोकयाने ॥ १३७ ॥
मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् ।
सज्जनैः सङ्गतं कुर्याद्धर्माय च सुखाय च ॥ १३८ ॥
तन्मम संमतेन तदेव क्रियताम् । यतः
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ १३९ ॥
अतः सत्याभिधानदिव्यपुरःसरमनयोर्भूपालयोः काञ्चनाभिधानः
सन्धिर्विधीयताम् । सर्वज्ञो ब्रूते एवमस्तु । ततो राजहंसेन
राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः ।
प्रहृष्टमनाश्चक्रवाकं गृहीत्वा,राज्ञो मयूरस्य संनिधानं
गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद्
बहुमानदानपुरःसरं सम्भाषितस्तथाविधं सन्धिं
स्वीकृत्य राजहंससमीपं प्रस्थापितः ।
दूरदर्शी ब्रूते देव ! सिद्धं नः समीहितम् ।
इदानीं स्वस्थानमेव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् ।
अथ सर्वे स्वस्थानं प्राप्य,मनाभिलषितं फलं प्राप्नुवन्निति ।
विष्णुशर्मेनोक्तं अपरं किं कथयामि,तदुच्यताम् ।
राजपुत्रा ऊचुः आर्य ! तव प्रसादात्
सकलराज्यव्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् ।
विष्णुशर्मोवाच यद्यप्येवं तथाप्यपरमपीदमस्तु ।
सन्धिः सर्वमहीभुजां विजयिनामस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् ।
नीतिवारविलासिनीव सततं वक्षःस्थले संस्थिता
वक्त्रं चुम्बतु मन्त्रिणामहरहर्भूयान्महानुत्सवः ॥ १४० ॥
अन्यच्चास्तु
प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स यावद्
यावल्लक्ष्मीर्मुरारेर्जलद इव तडिन्मानसे विस्फुरन्ती ।
यावत्स्वर्णाचलोऽयं दवदहनसमो यस्य सूर्यः स्फुलिङ्गस्
तावन्नारायणेन प्रचरतु रचितः सङ्ग्रहोऽयं कथानाम् ॥ १४१ ॥
किं च
उर्वीमुद्दामसस्यां जनयतु विसृजन्वासवो वृष्टिमिष्टां
इष्टैस्त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयात्स्थिरसमुपचिता सङ्गतिः सज्जनानां
निःशेषं
यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥ १४२ ॥
अपरं च
श्रीमान्धवलचन्द्रोऽसौ जीयान्माण्डलिको रिपून्।
येनायं सङ्ग्रहो यत्नाल्लेखयित्वा प्रचारितः ॥ १४३ ॥
इति हितोपदेशे सन्धिर्नाम चतुर्थः कथासङ्ग्रहः
॥ समाप्तश्चायं हितोपदेशः ॥
% Text title : hitopadesha
% File name : hitopadesha.itx
% itxtitle : hitopadeshaH (viShNusharmAvirachitaH)
% engtitle : hitopadesha
% Category : major_works, advice
% Location : doc_z_misc_major_works
% Sublocation : major_works
% Texttype : pramukha
% Author : viShNusharmA
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : jagat janbrz at videotron.ca
% Proofread by : jagat janbrz, Avinash awinasz at wanadoo.nl
% Description/comments :
% Indexextra : (Text Scan, 2, 3, 4, English 1, 2, 3, Hindi 1, 2, 3, 4, TOC 1, 2, Bengali, Audio)
% Acknowledge-Permission:
% Latest update : February 16, 2020
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .