॥ किराटार्जुनीय भारवीरचितम् ॥
श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ १. १ ॥
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ १. २ ॥
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमादधे ॥ १. ३ ॥
क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ १. ४ ॥
स किंसखा साधु न शास्ति योऽधिपं हितान् न यः संशृणुते स किंप्रभुः
।
सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥ १. ५ ॥
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमबोधि यन् मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ १. ६ ॥
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ १. ७ ॥
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन् भूतिमनार्यसंगमाद् वरं विरोधोऽपि समं महात्मभिः ॥ १. ८ ॥
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तंदिनमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ १. ९ ॥
सखीन् इव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश् च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥ १. १० ॥
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागाद् इव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम् ॥ १. ११ ॥
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ १. १२ ॥
वसूनि वाञ्छन् न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ १. १३ ॥
विधाय रक्षान् परितः परेतरान् अशङ्किताकारमुपैति शङ्कितः ।
क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥ १. १४ ॥
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग् विनियोगसत्क्रियाम् ।
फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसम्पदः ॥ १. १५ ॥
अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम् ।
नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ १. १६ ॥
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृकाश् चिराय तस्मिन् कुरवश् चकासति ॥ १. १७ ॥
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ १. १८ ॥
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ १. १९ ॥
महीभुजां सच्चरितैश् चरैः क्रियाः स वेद निःशेसमशेषितक्रियः ।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥ १. २० ॥
न तेन सज्यं क्वचिद् उद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् ।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥ १. २१ ॥
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ १. २२ ॥
प्रलीनभूपालमपि स्थिरायति प्रशासद् आवारिधि मण्डलं भुवः ।
स चिन्तयत्येव भियस्त्वद् एष्यतीरहो दुरन्ता बलवद्विरोधिता ॥ १. २३ ॥
कथाप्रसङ्गेन जनैरुदाहृताद् अनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद् व्यथते नताननः स दुःसहान् मन्त्रपदाद् इवोरगः ॥ १. २४ ॥
तद् आशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥ १. २५ ॥
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् ।
प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षेऽनुजसन्निधौ वचः ॥ १. २६ ॥
निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥ १. २७ ॥
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥ १. २८ ॥
अखण्डमाखण्डलतुल्यधामभिश् चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रग् इवापवर्जिता ॥ १. २९ ॥
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधान् असंवृताङ्गान् निशिता इवेषवः ॥ १. ३० ॥
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इवापहारयेन् मनोरमामात्मवधूमिव श्रियम् ॥ १. ३१ ॥
भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥ १. ३२ ॥
अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ १. ३३ ॥
परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति ते कच्चिद् अयं वृकोदरः ॥ १. ३४ ॥
विजित्य यः प्राज्यमयच्छद् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनंजयः ॥ १. ३५ ॥
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वग् इवागजौ गजौ ।
कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम् ॥ १. ३६ ॥
इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ १. ३७ ॥
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥ १. ३८ ॥
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यद् एतद् अन्धसा ।
तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥ १. ३९ ॥
अनारतं यौ मणिपीठशायिनावरञ्जयद् राजशिरःस्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ १. ४० ॥
द्विषन्निमित्ता यद् इयं दशा ततः समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥ १. ४१ ॥
विहाय शान्तिं नृप धाम तत् पुनः प्रसीद संधेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ १. ४२ ॥
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् ।
भवादृशाश् चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्विता ॥ १. ४३ ॥
अथ क्षमामेव निरस्तसाधनश् चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ् जुहुधीह पावकम् ॥ १. ४४ ॥
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥ १. ४५ ॥
विधिसमयनियोगाद् दीप्तिसंहारजिह्मं शिथिलबलमगाधे मग्नमापत्पयोधौ
।
रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु
भूयः ॥ १. ४६ ॥
विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमद् ऊर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ २. १ ॥
यद् अवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् ॥ २. २ ॥
विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः ।
स तु तत्र विशेषदुर्लभः सद् उपन्यस्यति कृत्यवर्त्म यः ॥ २. ३ ॥
परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् ।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥ २. ४ ॥
इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ २. ५ ॥
चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता ।
कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ॥ २. ६ ॥
विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् ।
अवसीदति यत् सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ २. ७ ॥
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महान् अपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥ २. ८ ॥
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ २. ९ ॥
अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया ।
अपयान्त्यचिरान् महीभुजां जननिर्वादभयाद् इव श्रियः ॥ २. १० ॥
क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ २. ११ ॥
प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ २. १२ ॥
अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।
विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ २. १३ ॥
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान् न पदं नृपश्रियः ॥ २. १४ ॥
तद् अलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ २. १५ ॥
अथ चेद् अवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यज्याश् चिरमास्वाद्य नरेन्द्रसम्पदः ॥ २. १६ ॥
द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥ २. १७ ॥
मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयति स्वयं हतैः ।
लघयन् खलु तेजसा जगन् न महान् इच्छति भूतिमन्यतः ॥ २. १८ ॥
अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश् चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ २. १९ ॥
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
अभिभूतिभयाद् असून् अतः सुखमुज्झन्ति न धाम मानिनः ॥ २. २० ॥
किमवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ २. २१ ॥
कुरु तन् मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् ।
ध्रुवमेतद् अवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ २. २२ ॥
द्विरदान् इव दिग्विभावितांश् चतुरस्तोयनिधीन् इवायतः ।
प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ २. २३ ॥
ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि ।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ २. २४ ॥
इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टमिवोपचक्रमे ॥ २. २५ ॥
अपवर्जितविप्लवे शुचय् हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ २. २६ ॥
स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ २. २७ ॥
उपपत्तिरुदाहृता बलाद् अनुमानेन न चागमः क्षतः ।
इदमीदृग् अनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥ २. २८ ॥
अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ २. २९ ॥
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ २. ३० ॥
अभिवर्षति योऽनुपालयन् विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ २. ३१ ॥
शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया ।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ २. ३२ ॥
मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।
सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ २. ३३ ॥
स्पृहणीयगुणैर्महात्मभिश् चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ २. ३४ ॥
शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् ।
विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ २. ३५ ॥
अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥ २. ३६ ॥
बलवान् अपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः ।
क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥ २. ३७ ॥
समवृत्तिरुपैति मार्दवं समये यश् च तनोति तिग्मताम् ।
अधितिष्ठति लोकमोजसा स विवस्वान् इव मेदिनीपतिः ॥ २. ३८ ॥
क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।
शरदभ्रचलाश् चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ॥ २. ३९ ॥
किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥ २. ४० ॥
श्रुतमप्यधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः ।
जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ॥ २. ४१ ॥
अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
जनवन् न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ २. ४२ ॥
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥ २. ४३ ॥
प्रणतिप्रवणान् विहाय नः सहजस्नेहनिबद्धचेतसः ।
प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ २. ४४ ॥
सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये ।
विनयाद् इव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥ २. ४५ ॥
अभियोग इमान् महीभुजो भवता तस्य ततः कृतावधेः ।
प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरान् इव ॥ २. ४६ ॥
उपजापसहान् विलङ्घयन् स विधाता नृपतीन् मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥ २. ४७ ॥
असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।
प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥ २. ४८ ॥
मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।
अतिमूढ उदस्यते नयान् नयहीनाद् अपरज्यते जनः ॥ २. ४९ ॥
अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः ।
सुकरस्तरुवत् सहिष्णुना रिपुरुन्मूलयितुं महान् अपि ॥ २. ५० ॥
अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृतिप्रकोपजः ।
अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥ २. ५१ ॥
मतिमान् विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।
सुजयः खलु तादृग् अन्तरे विपदन्ता ह्यविनीतसम्पदः ॥ २. ५२ ॥
लघुवृत्तितया भिदां गतं बहिरन्तश् च नृपस्य मण्डलम् ।
अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः ॥ २. ५३ ॥
अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् ।
स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ॥ २. ५४ ॥
मधुरैरवशानि लम्भयन्न् अपि तिर्यञ्चि शमं निरीक्षितैः ।
परितः पटु बिभ्रद् एनसां दहनं धाम विलोकनक्षमम् ॥ २. ५५ ॥
सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसाम् ।
ददृशे जगतीभुजा मुनिः स वपुष्मान् इव पुण्यसंचयः ॥ २. ५६ ॥
अथोच्चकैरासनतः परार्ध्याद् उद्यन् स धूतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः शृङ्गात् सुमेरोरिव तिग्मरश्मिः ॥ २. ५७ ॥
अवहितहृदयो विधाय स अर्हाम् ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् ।
तदनुमतमलंचकार पश्चात् प्रशम इव श्रुतमासनं नरेन्द्रः ॥ २. ५८ ॥
व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन् मुनेरभिमुखं स
विकीर्णधाम्नः ।
तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य
शशाङ्कमूर्तेः ॥ २. ५९ ॥
ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुमिवांशुजालैः ।
बिभ्राणमानीलरुचं पिशङ्गीर्जटास्तडित्वन्तमिवाम्बुवाहम् ॥ ३. १ ॥
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।
प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥ ३. २ ॥
अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् ।
माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषमिवेक्षितेन ॥ ३. ३ ॥
धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् ।
हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे ॥ ३. ४ ॥
अनाप्तपुण्योपचरैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
तुल्या भवद्दर्शनसम्पद् एषा वृष्टेर्दिवो वीतबलाहकायाः ॥ ३. ५ ॥
अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः ।
आ संसृतेरस्मि जगत्सु जातस्त्वय्यागते यद् बहुमानपात्रम् ॥ ३. ६ ॥
श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्नौति तनोति कीर्तिम् ।
संदर्शनं लोकगुरोरमोघममोघं तवात्मयोनेरिव किं न धत्ते ॥ ३. ७ ॥
श्च्योतन्मयूखेऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिमेति चक्षुः ।
समुज्झितज्ञातिवियोगखेदं त्वत्संनिधावुच्छ्वसतीव चेतः ॥ ३. ८ ॥
निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् ।
तथापि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ॥ ३. ९ ॥
इत्युक्तवान् उक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥ ३. १० ॥
चिचीषतां जन्मवतामलघ्वीं यशोवतंसामुभयत्र भूतिम् ।
अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ॥ ३. ११ ॥
तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः ।
वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ ३. १२ ॥
सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः ।
यस्त्यक्तवान् वः स वृथा बलाद् वा मोहं विधत्ते विषयाभिलाषः ॥ ३. १३ ॥
जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः ।
असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ ३. १४ ॥
पथश् च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय ।
त्वया विपत्स्वप्यविपत्ति रम्यमाविष्कृतं प्रेम परं गुणेषु ॥ ३. १५ ॥
विधाय विध्वंसनमात्मनीनं शमैकवृत्तेर्भवतश् छलेन ।
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥ ३. १६ ॥
लभ्या धरित्री तव विक्रमेण ज्यायांश् च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ ३. १७ ॥
त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः ।
वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥ ३. १८ ॥
यस्मिन्न् अनैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि ।
धुन्वन् धनुः कस्य रणे न कुर्यान् मनो भयैकप्रवणं स भीष्मः ॥ ३. १९ ॥
सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः ।
परिस्फुरल्लोलशिखाग्रजिह्वं जगज् जिघत्सन्तमिवान्तवह्निम् ॥ ३. २० ॥
निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम् ।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥ ३. २१ ॥
यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्यमुन्मीलितारः कपिकेतनेन ॥ ३. २२ ॥
महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप देवतानाम् ।
दातुं प्रदानोचित भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् ॥ ३. २३ ॥
इत्युक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यमजातशत्रोः ।
प्रसेदिवांसं तमुपाससाद वसन्न् इवान्ते विनयेन जिष्णुः ॥ ३. २४ ॥
निर्याय विद्या+थ दिनादिरम्याद् बिम्बाद् इवार्कस्य मुखान् महर्षेः ।
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥ ३. २५ ॥
योगं च तं योग्यतमाय तस्मै तपःप्रभावाद् विततार सद्यः ।
येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥ ३. २६ ॥
आकारमाशंसितभूरिलाभं दधानमन्तःकरणानुरूपम् ।
नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥ ३. २७ ॥
अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥ ३. २८ ॥
करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि ।
शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान् नेष्यति गुह्यकस्त्वाम् ॥ ३. २९ ॥
इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे ।
तं राजराजानुचरोऽस्य साक्षात् प्रदेशमादेशमिवाधितस्थौ ॥ ३. ३० ॥
कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ ।
इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ॥ ३. ३१ ॥
अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानान् उदयाय तेन ।
बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥ ३. ३२ ॥
असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः ।
तुल्याद् विभागाद् इव तन्मनोभिर्दुःखातिभारोऽपि लघुः स मेने ॥ ३. ३३ ॥
धैर्येण विश्वास्यतया महर्षेस्तीव्राद् अरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥ ३. ३४ ॥
तान् भूरिधाम्नश् चतुरोऽपि दूरं विहाय यामान् इव वासरस्य ।
एकौघभूतं तद् अशर्म कृष्णां विभावरीं ध्वान्तमिव प्रपेदे ॥ ३. ३५ ॥
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥ ३. ३६ ॥
अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् ।
मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः ॥ ३. ३७ ॥
धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः ।
निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छ्राद् इति राजपुत्री ॥ ३. ३८ ॥
मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिमिवोद्धरिष्यन् ।
आधिद्विषामा तपसां प्रसिद्धेरस्मद् विना मा भृशमुन्मनीभूः ॥ ३. ३९ ॥
यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोग्गभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ ३. ४० ॥
लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन् वसु जैत्रमोजः ।
तेजस्विताया विजयैकवृत्तेर्निघ्नन् प्रियं प्राणमिवाभिमानम् ॥ ३. ४१ ॥
व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः ।
वितानभूतं विततं पृथिव्यां यशः समूहन्न् इव दिग्विकीर्णम् ॥ ३. ४२ ॥
वीर्यावदानेषु कृतावमर्षस्तन्वन्न् अभूतामिव सम्प्रतीतिम् ।
कुर्वन् प्रयामक्षयमायतीनामर्कत्विषामह्न इवावशेषः ॥ ३. ४३ ॥
प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किमुताधिकर्तुम् ।
नवीकरिष्यत्युपशुष्यद् आर्द्रः स त्वद् विना मे हृदयं निकारः ॥ ३. ४४ ॥
प्राप्तोऽभिमानव्यसनाद् असह्यं दन्तीव दन्तव्यसनाद् विकारम् ।
द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः ॥ ३. ४५ ॥
सव्रीडमन्दैरिव निष्क्रियत्वान् नात्यर्थमस्त्रैरवभासमानः ।
यशःक्षयक्षीणजलार्णवाभस्त्वमन्यमाकारमिवाभिपन्नः ॥ ३. ४६ ॥
दुःशासनामर्षरजोविकीर्णैरेभिर्विनार्थैरिव भाग्यनाथैः ।
केशैः कदर्थीकृतवीर्यसारः कच्चित् स एवासि धनंजयस्त्वम् ॥ ३. ४७ ॥
स क्षत्त्रियस्त्राणसहः सतां यस्तत् कार्मुकं कर्मसु यस्य शक्तिः ।
वहन् द्वयीं यद्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥ ३. ४८ ॥
वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिमपेक्षमाणाः ।
समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥ ३. ४९ ॥
आक्षिप्यमाणं रिपुभिः प्रमादान् नागैरिवालूनसटं मृगेन्द्रम् ।
त्वां धूरियं योग्यतयाधिरूढा दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ॥ ३. ५० ॥
करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः ।
संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ३. ५१ ॥
प्रियेषु यैः पार्थ विनोपपत्तेर्विचिन्त्यमानैः क्लममेति चेतः ।
तव प्रयातस्य जयाय तेषां क्रियाद् अघानां मघवा विघातम् ॥ ३. ५२ ॥
मा गाश् चिरायैकचरः प्रमादं वसन्न् असम्बाधशिवेऽपि देशे ।
मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥ ३. ५३ ॥
तद् आशु कुर्वन् वचनं महर्षेर्मनोरथान् नः सफलीकुरुष्व ।
प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा ॥ ३. ५४ ॥
उदीरितां तामिति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् ।
आसाद्य वाचं स भृशं दिदीपे काष्ठामुदीचीमिव तिग्मरश्मिः ॥ ३. ५५ ॥
अथाभिपश्यन्न् इव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः ।
बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥ ३. ५६ ॥
अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् ।
अगतावरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ ३. ५७ ॥
यशसेव तिरोदधन् मुहुर्महसा गोत्रभिदायुधक्षतीः ।
कवचं च सरत्नमुद्वहञ् ज्वलितज्योतिरिवान्तरं दिवः ॥ ३. ५८ ॥
अकलाधिपभृत्यदर्शितं शिवमुर्वीधरवर्त्म सम्प्रयान् ।
हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥ ३. ५९ ॥
अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः+ सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्
वितेने ।
प्रियमिव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः
पयोधिः ॥ ३. ६० ॥
ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् ।
उपाससादोपजनं जनप्रियः प्रियामिवासादितयौवनां भुवम् ॥ ४. १ ॥
विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्न् उपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥ ४. २ ॥
निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरीविवृत्तयः ॥ ४. ३ ॥
तुतोष पश्यन् कलमस्य स अधिकं सवारिजे वारिणि रामणीयकम् ।
सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे ॥ ४. ४ ॥
नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृतफेनसंतति ।
अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृत्तपाठीनपराहतं पयः ॥ ४. ५ ॥
कृतोर्मिरेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ ४. ६ ॥
मनोरमं प्रापितमन्तरं भ्रुवोरलंकृतं केसररेणुणाणुना ।
अलक्तताम्राधरपल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ॥ ४. ७ ॥
नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ ।
चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ ४. ८ ॥
कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ ४. ९ ॥
उपारताः पश्चिमरात्रिगोचराद् अपारयन्तः पतितुं जवेन गाम् ।
तमुत्सुकाश् चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ॥ ४. १० ॥
परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् ।
ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥ ४. ११ ॥
विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥ ४. १२ ॥
गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।
ददर्श गोपान् उपधेनु पाण्डवः कृतानुकारान् इव गोभिरार्जवे ॥ ४. १३ ॥
परिभ्रमन् मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः ।
मुखैश् चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥ ४. १४ ॥
निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः ।
व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥ ४. १५ ॥
व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः ।
मुहुः प्रणुन्नेषु मथां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ ४. १६ ॥
स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः ।
निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ॥ ४. १७ ॥
पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः ।
रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥ ४. १८ ॥
जनैरुपग्राममनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणैर्वृताः ।
भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥ ४. १९ ॥
ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् ।
उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥ ४. २० ॥
इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः ।
जयश्रियं पार्थ पृथूकरोतु ते शरत् प्रसन्नाम्बुरनम्बुवारिदा ॥ ४. २१ ॥
उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यमपङ्कता महीम् ।
नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ ४. २२ ॥
पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः ।
तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥ ४. २३ ॥
विपाण्डुभिर्ग्लानतया पयोधरैश् च्युताचिराभागुणहेमदामभिः ।
इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ॥ ४. २४ ॥
विहाय वाञ्छामुदिते मदात्ययाद् अरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः
॥ ४. २५ ॥
अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ॥ ४. २६ ॥
मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डमिवाहिविद्विषः ॥ ४. २७ ॥
विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः ।
अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥ ४. २८ ॥
अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् ।
ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ ४. २९ ॥
सितच्छदानामपदिश्य धावतां रुतैरमीषां ग्रथिताः पतत्रिणाम् ।
प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः ॥ ४. ३० ॥
विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश् च्युतयूथपङ्क्तयः ।
असक्तमूधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥ ४. ३१ ॥
जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी ।
द्युतिं समग्रां समितिर्गवामसावुपैति मन्त्रैरिव संहिताहुतिः ॥ ४. ३२ ॥
कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने ।
इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥ ४. ३३ ॥
असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्न् अपि ।
उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ ४. ३४ ॥
अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ ४. ३५ ॥
मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती ।
शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदोऽनुगच्छति ॥ ४. ३६ ॥
इति कथयति तत्र नातिदूराद् अथ ददृशे पिहितोष्णरश्मिबिम्बः ।
विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥ ४. ३७ ॥
तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासद्य जिष्णुः ।
व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमधरवासो बिभ्रतः सीरपाणेः
॥ ४. ३८ ॥
अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया ।
अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥ ५. १ ॥
तपनमण्डलदीतितमेकतः सततनैशतमोवृतमन्यतः ।
हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ ५. २ ॥
क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः ।
प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शम्भुना ॥ ५. ३ ॥
भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना ।
समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ ५. ४ ॥
मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः ।
दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ ५. ५ ॥
अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा ।
उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥ ५. ६ ॥
दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ ५. ७ ॥
नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् ।
विहितसांध्यमयूखमिव क्वचिन् निचितकाञ्चनभित्तिषु सानुषु ॥ ५. ८ ॥
पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् ।
लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥ ५. ९ ॥
रहितरत्नचयान् न शिलोच्चयान् अफलताभवना न दरीभुवः ।
विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान् दधतं न महीरुहः ॥ ५. १० ॥
व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ५. ११ ॥
ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः ।
अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ॥ ५. १२ ॥
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।
शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥ ५. १३ ॥
ग्रहविमानगणान् अभितो दिवं ज्वलयतौषधिजेन कृशानुना ।
मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुपापतिसेविनः ॥ ५. १४ ॥
विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः ।
दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥ ५. १५ ॥
अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः ।
स जगदे वचनं प्रियमादरान् मुखरतावसरे हि विराजते ॥ ५. १६ ॥
अलमेष विलोकितः प्रजानां सहसा संहतिमंहसां विहन्तुम् ।
घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैरचलाधिपः शिरोभिः ॥ ५. १७ ॥
इह दुरधिगमैः किंचिद् एवागमैः सततमसुतरं वर्णयन्त्यन्तरम् ।
अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ ५. १८ ॥
रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः ।
नयति संततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥ ५. १९ ॥
सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः ।
अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥ ५. २० ॥
अखिलमिदममुष्य गैरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् ।
अधिवसति सदा यद् एनं जनैरविदितविभवो भवानीपतिः ॥ ५. २१ ॥
वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् ।
आगमाद् इव तमोपहाद् इतः सम्भवन्ति मतयो भवच्छिदः ॥ ५. २२ ॥
दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन् सुरतविशेषं शय्याः ॥ ५. २३ ॥
गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् ।
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥ ५. २४ ॥
कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश् च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ ५. २५ ॥
सादृश्यं गतमपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः ।
एतस्मिन् मदयति कोकिलान् अकाले लीनालिः सुरकरिणां कपोलकाषः ॥ ५. २६ ॥
सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् ।
मता फलवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ ५. २७ ॥
श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन् रतिश्रमनुदश् च सरोजवाताः स्मर्तुं दिशन्ति न दिवः
सुरसुन्दरीभ्यः ॥ ५. २८ ॥
ईशार्थमम्भसि चिराय तपश् चरन्त्या यादोविलङ्घनविलोलविलोचनायाः ।
आलम्बताग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ ५. २९ ॥
येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्न् इव विभाति स
मन्दराद्रिः ॥ ५. ३० ॥
नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैरानीलाभैर्विरचितपरभागा
रत्नैः ।
ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी मध्येऽप्यह्नः
स्फटिकरजतभित्तिच्छाया ॥ ५. ३१ ॥
दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि ।
इह ललितविलासिनीजनभ्रू गतिकुटिलेषु पयःसु पङ्कजानि ॥ ५. ३२ ॥
अस्मिन्न् अगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ५. ३३ ॥
क्रामद्भिर्घनपदवीमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः
।
उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्न् इह निचयः सहस्रसंख्याम् ॥ ५. ३४ ॥
व्यधत्त यस्मिन् पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः ।
स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥ ५. ३५ ॥
नानारत्नज्योतिषां संनिपातैश् छन्नेष्वन्तःसानु वप्रान्तरेषु ।
बद्धां बद्धां भित्तिशङ्काममुष्मिन् नावानावान् मातरिश्वा निहन्ति ॥ ५. ३६ ॥
रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि
।
अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ ५. ३७ ॥
परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः ।
इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥ ५. ३८ ॥
उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् उद्धूतः सरसिजसम्भवः परागः ।
वात्याभिर्वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥ ५. ३९ ॥
इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरेखा ।
कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥ ५. ४० ॥
संमूर्छतां रजतभित्तिमयूखजालैरालोकपादपलतान्तरनिर्गतानाम् ।
घर्मद्युतेरिह मुहुः पटलानि धाम्नामादर्शमण्डलनिभानि समुल्लसन्ति ॥ ५. ४१ ॥
शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः ।
शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन् वधूजनमनःसु
शशाङ्कशङ्काम् ॥ ५. ४२ ॥
सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां
जलधरपटले ।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः
शिखरमणिरुचः ॥ ५. ४३ ॥
स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः ।
सततमसितयामिनीषु शम्भो अमलयतीह वनान्तमिन्दुलेखा ॥ ५. ४४ ॥
क्षिपति योऽनुवनं विततां बृहद् बृहतिकामिव रौचनिकीं रुचम् ।
अयमनेकहिरण्मयकंदरस्तव पितुर्दयितो जगतीधरः ॥ ५. ४५ ॥
सक्तिं लवाद् अपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः
।
रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥ ५. ४६ ॥
कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः ।
इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ ५. ४७ ॥
जलदजालघनैरसिताश्मनामुपहतप्रचयेह मरीचिभिः ।
भवति दीप्तिरदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥ ५. ४८ ॥
भव्यो भवन्न् अपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य
हतप्रमादः ।
प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि
विनान्तरायैः ॥ ५. ४९ ॥
मा भूवन्न् अपथहृतस्तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां
प्रसक्तिम् ।
रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियायुः ॥ ५. ५० ॥
इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये ।
सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ संधत्ते भृशमरतिं हि
सद्वियोगः ॥ ५. ५१ ॥
तमनतिशयनीयं सर्वतः सारयोगाद् अविरहितमनेकेनाङ्कभाजा फलेन ।
अकृशमकृशलक्ष्मीश् चेतसाशंसितं स स्वमिव पुरुषकारं शैलम्
अभ्याससाद ॥ ५. ५२ ॥
रुचिराकृतिः कनकसानुमथो परमः पुमान् इव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥ ६. १ ॥
तमनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥ ६. २ ॥
अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः ।
परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः ॥ ६. ३ ॥
उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।
मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥ ६. ४ ॥
अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।
स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥ ६. ५ ॥
प्रबभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् ।
सरिदुत्तरीयमिव संहतिमत् स तरङ्गरङ्गि कलहंसकुलम् ॥ ६. ६ ॥
दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः ।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्न् अपि गुणाय महान् ॥ ६. ७ ॥
अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीमभिननन्द रुतैः ॥ ६. ८ ॥
सितवाजिने निजगदू रुचयश् चलवीचिरागरचनापटवः ।
मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥ ६. ९ ॥
उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता ।
स ददर्श केतकशिखाविशदं सरितः प्रहासमिव फेनमपाम् ॥ ६. १० ॥
बहु बर्हिचन्द्रिकनिभं विदधे धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिवैभपतिं विकसद्विलोचनशतं सरितः ॥ ६. ११ ॥
प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ ६. १२ ॥
शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः ।
स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥ ६. १३ ॥
उपलभ्य चञ्चलतरङ्गहृतं मदगन्धमुत्थितवतां पयसः ।
प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान् करिणः ॥ ६. १४ ॥
स जगाम विस्मयमुद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।
प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रममपां पटलम् ॥ ६. १५ ॥
स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः ।
ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगामुपयतीः सरितः ॥ ६. १६ ॥
अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।
मनसः प्रसत्तिमिव मूर्ध्नि गिरेः शुचिमाससाद स वनान्तभुवम् ॥ ६. १७ ॥
अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।
धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः ॥ ६. १८ ॥
प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनिताम् ।
श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम् ॥ ६. १९ ॥
शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥ ६. २० ॥
अधरीचकार च विवेकगुणाद् अगुणेषु तस्य धियमस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ ६. २१ ॥
मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवान् अधिपतिं स दिवः ।
सहजेतरे जयशमौ दधती बिभरांबभूव युगपन् महसी ॥ ६. २२ ॥
शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जटाः ।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥ ६. २३ ॥
धृतहेतिरप्यधृतजिह्ममतिश् चरितैर्मुनीन् अधरयञ् शुचिभिः ।
रजयांचकार विरजाः स मृगान् कमिवेशते रमयितुं न गुणाः ॥ ६. २४ ॥
अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् ।
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥ ६. २५ ॥
नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून् गमयतावनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥ ६. २६ ॥
पतितैरपेतजलदान् नभसः पृषतैरपां शमयता च रजः ।
स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥ ६. २७ ॥
महते फलाय तद् अवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः ।
न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यमनुभावगुणः ॥ ६. २८ ॥
तद् अभूरिवासरकृतं सुकृतैरुपलभ्य वैभवमनन्यभवम् ।
उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ ६. २९ ॥
विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ ।
अनपेतकालमभिरामकथाः कथयांबभूवुरिति गोत्रभिदे ॥ ६. ३० ॥
शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः ।
महते जयाय मघवन्न् अनघः पुरुषस्तपस्यति तपज् जगतीम् ॥ ६. ३१ ॥
स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः ।
अमलेन तस्य धृतसच्चरिताश् चरितेन चातिशयिता मुनयः ॥ ६. ३२ ॥
मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् ।
गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणः ॥ ६. ३३ ॥
इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ ६. ३४ ॥
उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् ।
शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयमेति जनः ॥ ६. ३५ ॥
ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् ।
चरतस्तपस्तव वनेषु सदा न वयं निरूपयितुमस्य गतिम् ॥ ६. ३६ ॥
विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया ।
असद् अप्यदः सहितुमर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥ ६. ३७ ॥
अधिगम्य गुह्यकगणाद् इति तन् मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ ६. ३८ ॥
प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः ।
उपलब्धुमस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥ ६. ३९ ॥
सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया ।
अविपक्षमस्त्रमपरं कतमद् विजयाय यूयमिव चित्तभुवः ॥ ६. ४० ॥
भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् ।
परिपीयमाणमिव वोऽसकलैरवसादमेति नयनाञ्जलिभिः ॥ ६. ४१ ॥
बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।
उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ ६. ४२ ॥
तद् उपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥ ६. ४३ ॥
अविमृष्यमेतद् अभिलष्यति स द्विषतां वधेन विषयाभिरतिम् ।
भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ ६. ४४ ॥
पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद् विकृतिः ।
स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृष्यन्ति धियः ॥ ६. ४५ ॥
आशंसितापचितिचारु पुरः सुराणामादेशमित्यभिमुखं समवाप्य भर्तुः ।
लेभे परां द्युतिममर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति
तेजः ॥ ६. ४६ ॥
प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः
प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां
सहस्रम् ॥ ६. ४७ ॥
श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानामथ सचिवैस्त्रिलोकभर्तुः
।
संमूर्छन्न् अलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः
॥ ७. १ ॥
सोत्कण्ठैरमरगणैरनुप्रकीर्णान् निर्याय ज्वलितरुचः पुरान् मघोनः ।
रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥ ७. २ ॥
धूतानामभिमुखपातिभिः समीरैरायासाद् अविशदलोचनोत्पलानाम् ।
आनिन्ये मदजनितां श्रियं वधूनामुष्णांशुद्युतिजनितः कपोलरागः ॥ ७. ३ ॥
तिष्ठद्भिः कथमपि देवतानुभावाद् आकृष्टैः प्रजविभिरायतं
तुरङ्गैः ।
नेमीनामसति विवर्तनई रथौघैरासेदे वियति विमानवत् प्रवृत्तिः ॥ ७. ४ ॥
कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभः ।
सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥ ७. ५ ॥
राजद्भिः पथि मरुतामभिन्नरूपैरुल्कार्चिः स्फुटगतिभिर्
ध्वजाङ्कुशानाम् ।
तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ॥ ७. ६ ॥
रामाणामवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वमातपस्य ।
गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥ ७. ७ ॥
सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं
क्षरन्तः ।
सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतह्रदैः
पयोदैः ॥ ७. ८ ॥
अत्यर्थं दुरुपसदाद् उपेत्य दूरं पर्यन्ताद् अहिममयूखमण्डलस्य ।
आशानामुपरचितामिवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर्बलानि ॥ ७. ९ ॥
आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्भूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥ ७. १० ॥
सम्भिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः ।
तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥ ७. ११ ॥
क्रान्तानां ग्रहचरितात् पथो रथानामक्षाग्रक्षतसुरवेश्मवेदिकानाम् ।
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥ ७. १२ ॥
तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥ ७. १३ ॥
संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् ।
पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकमिवान्तरीयमूर्वोः ॥ ७. १४ ॥
प्रत्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।
कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ ७. १५ ॥
यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले ।
आतेनुस्त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥ ७. १६ ॥
संसिद्धाविति करणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीम् ।
आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ॥ ७. १७ ॥
आकीर्णा मुखनलिनैर्विलासिनीनामुद्भूतस्फुटविशदातपत्रफेना ।
सा तूर्यध्वनितगभीरमापतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥ ७. १८ ॥
सेतुत्वं दधति पयोमुचां विताने संरम्भाद् अभिपततो रथाञ् जवेन ।
आनिन्युर्नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिमवनामितस्तुरङ्गाः
॥ ७. १९ ॥
माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।
सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः
॥ ७. २० ॥
उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।
आ मूलाद् उपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥ ७. २१ ॥
सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन् प्रतिनिनदैरधित्यकासु ।
उद्ग्रीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम्
॥ ७. २२ ॥
सम्भिन्नामविरलपातिभिर्मयूखैर्नीलानां भृशमुपमेखलं मणीनाम् ।
विच्छिनामिव वनिता नभोन्तराले वप्राम्भःस्रुतिमवलोकयांबभूवुः ॥ ७. २३ ॥
आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् ।
सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथंचिद् ईषुः ॥ ७. २४ ॥
नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन् नवसलिलारुणं वहन्ती ।
आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥ ७. २५ ॥
सम्भोगक्षमगहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश् च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ ७. २६ ॥
भूभर्तुः समधिकमादधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः ।
संसक्तौ किमसुलभं महोदयानामुच्छ्रायं नयति यदृच्छयापि योगः ॥ ७. २७ ॥
सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् ।
साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ ७. २८ ॥
क्लान्तोऽपि त्रिदशवधूजनः पुरस्ताल्लीनाहिश्वसितविलोलपल्लवानाम् ।
सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥ ७. २९ ॥
उत्सृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् ।
आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥ ७. ३० ॥
प्रस्थानश्रमजनितां विहाय निद्रामामुक्ते गजपतिना सदानपङ्के ।
शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतमिव शृङ्खलं
चकाशे ॥ ७. ३१ ॥
आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयांचकार नागः ॥ ७. ३२ ॥
आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण ।
संमार्जन्न् अरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥ ७. ३३ ॥
आघ्राय क्षणमतितृष्यतापि रोषाद् उत्तीरं निहितविवृत्तलोचनेन ।
सम्पृक्तं वनकरिनां मदाम्बुसेकैर्नाचेमे हिममपि वारि वारणेन ॥ ७. ३४ ॥
प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।
किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ ७. ३५ ॥
आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।
मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनमिवाम्बु निर्बभासे ॥ ७. ३६ ॥
श्रीमद्भिर्नियमितकन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् ।
सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा
॥ ७. ३७ ॥
निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् ।
आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥ ७. ३८ ॥
सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि ।
आतेनुश् चकितचकोरनीलकण्ठान् कच्छान्तान् अमरमहेभबृंहितानि ॥ ७. ३९ ॥
सास्रावसक्तकमनियपरिच्छदानामध्वश्रमातुरवधूजनसेवितानाम् ।
जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ ७. ४० ॥
अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् ।
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ ८. १ ॥
यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥ ८. २ ॥
निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः ।
नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणाद् अवनौ परिक्रमः ॥ ८. ३ ॥
घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥ ८. ४ ॥
तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ ८. ५ ॥
निपीयमानस्तबका शिलीमुखैरशोकयष्टिश् चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥ ८. ६ ॥
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् ।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ८. ७ ॥
जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः ।
इति प्रियं कांचिद् उपैतुमिच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ॥ ८. ८ ॥
समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः ।
प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ॥ ८. ९ ॥
विदूरपातेन भिदामुपेयुषश् च्युताः प्रवाहाद् अभितः प्रसारिणः ।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥ ८. १० ॥
सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः ।
स्थिरद्विरेफाञ्जनशरितोदरैर्विसारिभिः पुष्पविलोचनैर्लताः ॥ ८. ११ ॥
उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् ।
कपोलकाषैः करिणां मदारुणैरुपाहितश्यामरुचश् च चन्दनाः ॥ ८. १२ ॥
स्वगोचरे सत्यपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् ।
नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥ ८. १३ ॥
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिद् ऊचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥ ८. १४ ॥
प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ ८. १५ ॥
सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् ।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज् जघनेन कान्तया ॥ ८. १६ ॥
कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
बलिव्यपायस्फुटरोमराजिना निरायतत्वाद् उदरेण ताम्यता ॥ ८. १७ ॥
विलम्बमानाकुलकेशपाशया कयाचिद् आविष्कृतबाहुमूलया ।
तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ ८. १८ ॥
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिद् उन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ ८. १९ ॥
इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे ।
विहाय निःसारतयेव भूरुहान् पदं वनश्रीर्वनितासु संदधे ॥ ८. २० ॥
प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः ।
महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायमिवाङ्गनाजनः ॥ ८. २१ ॥
वरोरुभिर्वारणहस्तपीवरैश् चिराय खिन्नान् नवपल्लवश्रियः ।
समेऽपि यातुं चरणान् अनीश्वरान् मदाद् इव प्रस्खलतः पदे पदे ॥ ८. २२ ॥
विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया ।
स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ॥ ८. २३ ॥
समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः ।
दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभाराद् उदराणि नम्रताम् ॥ ८. २४ ॥
समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः ।
चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥ ८. २५ ॥
विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानामनुसानुवर्त्मनः ।
सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वमिवेक्षणादरः ॥ ८. २६ ॥
अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः ।
पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ ८. २७ ॥
प्रशान्तघर्माभिभवः शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ ८. २८ ॥
गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान् निरासिरे ॥ ८. २९ ॥
विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः ।
कथंचिद् आपः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ८. ३० ॥
विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः ।
विभिद्यमाना विससार सारसान् उदस्य तीरेषु तरङ्गसंहतिः ॥ ८. ३१ ॥
शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश् च वधूपयोधरैः ।
तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ ८. ३२ ॥
विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।
अतिप्रसङ्गाद् विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ८. ३३ ॥
विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये ।
हृतस्य शेषान् इव कुङ्कुमस्य तान् विकत्थनीयान् दधुरन्यथा स्त्रियः ॥ ८. ३४ ॥
सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विद् अमू विलोचने ।
शिरोरुहाः स्विन् नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ ८. ३५ ॥
अगूढहासस्फुटदन्तकेसरं मुखं स्विद् एतद् विकसन् नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥ ८. ३६ ॥
प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ ८. ३७ ॥
असंशयं न्यस्तमुपान्तरक्ततां यद् एव रोद्धुं रमणीभिरञ्जनम् ।
हृतेऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ ८. ३८ ॥
द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभाद् इव वेगिभिर्जलैः ।
उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥ ८. ३९ ॥
विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् ।
निरीक्ष्य रामा बुबुधे नभश्चरैरलंकृतं तद्वपुषैव मण्डनम् ॥ ८. ४० ॥
तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः ।
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश् च विपक्षयोषिताम् ॥ ८. ४१ ॥
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश् चलफेनपङ्क्तिषु ।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु ॥ ८. ४२ ॥
ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरमुज्झति ।
मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥ ८. ४३ ॥
श्रिया हसद्भिः कलमानि सस्मितैरलंकृताम्बुः प्रतिमागतैर्मुखैः ।
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्वनी ॥ ८. ४४ ॥
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ ८. ४५ ॥
भयाद् इवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी ।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥ ८. ४६ ॥
तिरोहितान्तानि नितान्तमाकुलैरपां विगाहाद् अलकैः प्रसारिभिः ।
ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ८. ४७ ॥
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा ।
सखीषु निर्वाच्यमधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ८. ४८ ॥
प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः ।
सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥ ८. ४९ ॥
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् ।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनाद् इवाददे ॥ ८. ५० ॥
विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः ।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् ॥ ८. ५१ ॥
निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् ।
नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥ ८. ५२ ॥
निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ ८. ५३ ॥
प्रियेण सिक्ता चरमं विपक्षतश् चुकोप काचिन् न तुतोष सान्त्वनैः ।
जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते ॥ ८. ५४ ॥
इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
उत्सर्पितोर्मिचयलङ्घिततीरदेशमौत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे
॥ ८. ५५ ॥
तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इव यामवत्यः ॥ ८. ५६ ॥
संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम्
।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम्
॥ ८. ५७ ॥
वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः ।
तत्प्रियार्थमिव यातुमथास्तं भानुमान् उपपयोधि ललम्बे ॥ ९. १ ॥
मध्यमोपलनिभे लसदंशावेकतश् च्युतिमुपेयुषि भानौ ।
द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ ९. २ ॥
अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं वपुरुवाह पतङ्गः ॥ ९. ३ ॥
गम्यतामुपगते नयनानां लोहितायाति सहस्रमरीचौ ।
आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥ ९. ४ ॥
मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः ।
सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ ९. ५ ॥
कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभि त्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ ९. ६ ॥
अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान् मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वान् आविवेश जलधिं नु महीं नु ॥ ९. ७ ॥
आकुलश् चलपतत्रिकुलानामारवैरनुदितौषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ ९. ८ ॥
आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ ९. ९ ॥
प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।
संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ ९. १० ॥
औषसातपभयाद् अपलीनं वासरच्छविविरामपटीयः ।
संनिपत्य शनकैरिव निम्नाद् अन्धकारमुदवाप समानि ॥ ९. ११ ॥
एकतामिव गतस्य विवेकः कस्यचिन् न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषाः ॥ ९. १२ ॥
इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ ९. १३ ॥
यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ ९. १४ ॥
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥ ९. १५ ॥
रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय ।
स्पष्टतारकमियाय नभः श्रीर्वस्तुमिच्छति निरापदि सर्वः ॥ ९. १६ ॥
व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।
चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ ९. १७ ॥
उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे ।
दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ ९. १८ ॥
नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।
खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥ ९. १९ ॥
द्यां निरुन्धद् अतिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् ।
क्षिप्यमाणमसितेतरभासा शम्भुनेव करिचर्म चकासे ॥ ९. २० ॥
अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
निःसृतस्तिमिरभारनिरोधाद् उच्छ्वसन्न् इव रराज दिगन्तः ॥ ९. २१ ॥
लेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ ९. २२ ॥
दीपयन्न् अथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः ॥ ९. २३ ॥
उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः ।
व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥ ९. २४ ॥
न प्रसादमुचितं गमिता द्यैर्नोद्धृतं तिमिरमद्रिवनेभ्यः ।
दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥ ९. २५ ॥
मानिनीजनविलोचनपातान् उष्णबाष्पकलुषान् प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ ९. २६ ॥
श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः ।
उद्वमन्न् अभिरराज समन्ताद् अङ्गराग इव लोहितरागः ॥ ९. २७ ॥
प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि ।
क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥ ९. २८ ॥
शारतां गमितया शशिपादैश् छायया विटपिनां प्रतिपेदे ।
न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥ ९. २९ ॥
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ९. ३० ॥
गन्धमुद्धतरजःकणवाही विक्षिपन् विकसतां कुमुदानाम् ।
आदुधाव परिलीनविहङ्गा यामिनीमरुद् अपां वनराजीः ॥ ९. ३१ ॥
संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ९. ३२ ॥
ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
यद् विभुः शशिमयूखसखः सन्न् आददे विजयि चापमनङ्गः ॥ ९. ३३ ॥
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥ ९. ३४ ॥
न स्रजो रुरुचिरे रमणीभ्यश् चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ ९. ३५ ॥
प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।
मानिनीभिरपहस्तितधैर्यः सादयन्न् इव मदोऽवललम्बे ॥ ९. ३६ ॥
कान्तवेश्म बहु संदिशतीभिर्यातमेव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ९. ३७ ॥
आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् ।
निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ ९. ३८ ॥
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्न् अनुनेयः ॥ ९. ३९ ॥
किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः ।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ ९. ४० ॥
योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म ।
कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ ९. ४१ ॥
शीधुपानविधुरासु निगृह्णन् मानमाशु शिथिलीकृतलज्जः ।
संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ ९. ४२ ॥
द्वारि चक्षुरधिपाणि कपोलौ कीवितं त्वयि कुतः कलहोऽस्याः ।
कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥ ९. ४३ ॥
साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् ।
सुभ्रुवो जनयति स्म विभूषां संगतावुपरराम च लज्जा ॥ ९. ४४ ॥
सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृद् इव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः ॥ ९. ४५ ॥
शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखितां दयिताय ।
मानिनिमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ ९. ४६ ॥
लोलदृष्टि वदनं दयितायाश् चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बाद् अंशुकं शिथिलतामुपपदे ॥ ९. ४७ ॥
ह्रीतय अगलितनीवि निरस्यन्न् अन्तरीयमवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ ९. ४८ ॥
आदृता नखपदैः परिरम्भाश् चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥ ९. ४९ ॥
पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥ ९. ५० ॥
पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि ।
सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥ ९. ५१ ॥
कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥ ९. ५२ ॥
कुप्यताशु भवतानतचित्ताः कोपितांश् च वरिवस्यत यूनः ।
इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥ ९. ५३ ॥
भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीमतिरसां रसयित्वा ।
ह्रीविमोहविरहाद् उपलेभे पाटवं नु हृदयं नु वधूभिः ॥ ९. ५४ ॥
स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥ ९. ५५ ॥
भ्रूविलाससुभगान् अनुकर्तुं विभ्रमान् इव वधूनयनानाम् ।
आददे मृदुविलोकपलाशैरुत्पलैश् चषकवीचिषु कम्पः ॥ ९. ५६ ॥
ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् ।
फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥ ९. ५७ ॥
प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः ।
तत् तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ ९. ५८ ॥
वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् ।
जज्ञिरे बहुमताः प्रमदानामोष्ठयावकनुदो मधुवाराः ॥ ९. ५९ ॥
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ ९. ६० ॥
तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुहृद् इव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥ ९. ६१ ॥
क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसम्भृतशोभः ।
आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥ ९. ६२ ॥
रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ९. ६३ ॥
बद्धकोपविकृतीरपि रामाश् चारुताभिमततामुपनिन्ये ।
वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥ ९. ६४ ॥
वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि ।
योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ ९. ६५ ॥
भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् ।
व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥ ९. ६६ ॥
रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥ ९. ६७ ॥
योषिद् उद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् ।
कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ ९. ६८ ॥
आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।
आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥ ९. ६९ ॥
मा गमन् मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः ।
योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि ॥ ९. ७० ॥
चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।
संगमश् च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ९. ७१ ॥
धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।
मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रममाप ॥ ९. ७२ ॥
शीधुपानविधुरेषु वधूनां विघ्नतामुपगतेषु वपुःषु ।
ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥ ९. ७३ ॥
अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् ।
वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय
रात्रिः ॥ ९. ७४ ॥
निद्राविनोदितनितान्तरतिक्लमानामायामिमङ्गलनिनादविबोधितानाम् ।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥ ९. ७५ ॥
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयान् इव मन्दमन्दम् ।
हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ॥ ९. ७६ ॥
आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु
मदावशेषः ॥ ९. ७७ ॥
गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् ।
विरहविधुरमिष्टा सत्सखीवङ्गनानां हृदयमवललम्बे
रात्रिसम्भोगलक्ष्मीः ॥ ९. ७८ ॥
अथ परिमलजामवाप्य लक्ष्मीमवयवदीपितमण्डनश्रियस्ताः ।
वसतिमभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥ १०. १ ॥
द्रुतपदमभियातुमिच्छतीनां गमनपरिक्रमलाघवेन तासाम् ।
अवनिषु चरणैः पृथुस्तनीनामलघुनितम्बतया चिरं निषेदे ॥ १०. २ ॥
निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् ।
अविरलविततेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ॥ १०. ३ ॥
ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।
प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुकहंससारसानि ॥ १०. ४ ॥
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥ १०. ५ ॥
नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः ।
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥ १०. ६ ॥
सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः ।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥ १०. ७ ॥
अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् ।
ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥ १०. ८ ॥
मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः ।
बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ १०. ९ ॥
यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिरथर्वणेव वेदः ॥ १०. १० ॥
शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयमेकसानुसद्मा सकलमिवापि दधन् महीधरस्य ॥ १०. ११ ॥
सुरसरिति परं तपोऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः ।
हविरिव विततः शिखासमूहैः समभिलषन्न् उपवेदि जातवेदाः ॥ १०. १२ ॥
सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् ।
दधद् अलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥ १०. १३ ॥
चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या ।
ससचिव इव निर्जनेऽपि तिष्ठन् मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥ १०. १४ ॥
तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥ १०. १५ ॥
मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि ।
अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥ १०. १६ ॥
अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन ।
प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥ १०. १७ ॥
सपदि हरिसखैर्वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः ।
युगपद् ऋतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥ १०. १८ ॥
सजलजलधरं नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम् ।
व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ १०. १९ ॥
परिसुरपतिसूनुधाम सद्यः समुपदधन् मुकुलानि मालतीनाम् ।
विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥ १०. २० ॥
प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।
नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश् च जीवलोकः ॥ १०. २१ ॥
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥ १०. २२ ॥
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
जन इव न धृतेश् चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः
॥ १०. २३ ॥
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा ।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ १०. २४ ॥
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या ।
श्रियमतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥ १०. २५ ॥
सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥ १०. २६ ॥
मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ १०. २७ ॥
अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणमसमयजं चिराय लेभे विरलतुषारकण्ऽस्तुषारकालः ॥ १०. २८ ॥
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् ।
विकृतिमुपययौ न पाण्डुसूनुश् चलति नयान् न जिगीषतां हि चेतः ॥ १०. २९ ॥
कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः ।
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ १०. ३० ॥
कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् ।
क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ १०. ३१ ॥
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् ।
ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥ १०. ३२ ॥
मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन ।
अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ १०. ३३ ॥
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती ।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश् चुचुम्बे ॥ १०. ३४ ॥
प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यद् आत्मरक्षा ।
अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥ १०. ३५ ॥
कथमिव तव संमतिर्भवित्री समम् ऋतुभिर्मुनिनावधीरितस्य ।
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ १०. ३६ ॥
बलवद् अपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत् तदानीं तम् ऋतुगणः क्षणमुन्मनीचकार ॥ १०. ३७ ॥
श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश् च कालाः ।
अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥ १०. ३८ ॥
न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।
अभिरतुमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ १०. ३९ ॥
मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ १०. ४० ॥
प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा ।
प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ १०. ४१ ॥
अभिनयमनसः सुराङ्गनाया निहितमलक्तकवर्तनाभिताम्रम् ।
चरणमभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥ १०. ४२ ॥
अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु ।
सवपुषामिव चित्तरागमूहुर्नमितशिखानि कदम्बकेसराणि ॥ १०. ४३ ॥
नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।
स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥ १०. ४४ ॥
अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ १०. ४५ ॥
धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् ।
नृपसुतमपरा स्मराभितापाद् अमधुमदालसलोचनं निदध्यौ ॥ १०. ४६ ॥
सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥ १०. ४७ ॥
चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥ १०. ४८ ॥
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा
॥ १०. ४९ ॥
तद् अनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥ १०. ५० ॥
जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् ।
उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिद् एवमूचे ॥ १०. ५१ ॥
सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ १०. ५२ ॥
कुसुमितमवलम्ब्य चूतमुच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखमनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचित् ॥ १०. ५३ ॥
सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् ।
अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥ १०. ५४ ॥
यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः ।
भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ॥ १०. ५५ ॥
इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् ।
अगणितगुरुमानलज्जयासौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ १०. ५६ ॥
सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः ।
श्रवणनियमितेन तं निदध्य सकलमिवासकलेन लोचनेन ॥ १०. ५७ ॥
करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः ।
प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ॥ १०. ५८ ॥
असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः ।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ १०. ५९ ॥
अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् ।
स्थितमुरुजघनस्थलातिभाराद् उदितपरिश्रमजिह्मितेक्षणं वा ॥ १०. ६० ॥
भृशकुसुमशरेषुपातमोहाद् अनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनामयुगपद् उन्नमितभ्रु वीक्षितं च ॥ १०. ६१ ॥
रुचिकरमपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥ १०. ६२ ॥
स्वयं संराध्यैवं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्याम्
अभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम
त्रिदशवनिताः स्वं प्रतिययुः ॥ १०. ६३ ॥
अथामर्षान् निसर्गाच्च जितेन्द्रियतया तया ।
आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ ११. १ ॥
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ ११. २ ॥
जटानां कीर्णया केशैः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥ ११. ३ ॥
विशदभ्रूयुगच्छन्न वलितापाङ्गलोचनः ।
प्रालेयावततिम्लान पलाशाब्ज इव ह्रदः ॥ ११. ४ ॥
आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥ ११. ५ ॥
गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।
अंशुमान् इव तन्वभ्र पटलच्छन्नविग्रहः ॥ ११. ६ ॥
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रयम् ॥ ११. ७ ॥
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात् प्रह्लादते मनः ॥ ११. ८ ॥
आतिथेयीमथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ११. ९ ॥
त्वया साधु समारम्भि नवे वयसि यत् तपः ।
ह्रियते विषयैः प्रायो वर्षीयान् अपि मादृशः ॥ ११. १० ॥
श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११. ११ ॥
शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ११. १२ ॥
अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ॥ ११. १३ ॥
चित्तवान् असि कल्याणी यत् त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ ११. १४ ॥
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥ ११. १५ ॥
प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥ ११. १६ ॥
भयंकरः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमम् ॥ ११. १७ ॥
जयमत्रभवान् नूनमरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ ११. १८ ॥
यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ ११. १९ ॥
मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ ११. २० ॥
अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः ।
उदन्वान् इव सिन्धूनामापदामेति पात्रताम् ॥ ११. २१ ॥
या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन् न दुःखाय विपदामिव सम्पदाम् ॥ ११. २२ ॥
दुरासदान् अरीन् उग्रान् धृतेर्विश्वासजन्मनः ।
भोगान् भोगान् इवाहेयान् अध्यास्यापन् न दुर्लभा ॥ ११. २३ ॥
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ ११. २४ ॥
कोऽपवादः स्तुतिपदे यद् अशीलेषु चञ्चलाः ।
साधुवृत्तान् अपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥ ११. २५ ॥
कृतवान् अन्यदेहेषु कर्ता च विधुरं मनः ।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ ११. २६ ॥
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ ११. २७ ॥
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्न् इष्टेन रहितो यदा ॥ ११. २८ ॥
युक्तः प्रमाद्यसि हिताद् अपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ ११. २९ ॥
जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् ।
भवान् मा स्म वधीन् न्याय्यं न्यायाधारा हि साधवः ॥ ११. ३० ॥
विजहीहि रणोत्साहं मा तपः साधि नीनशः ।
उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥ ११. ३१ ॥
जीयन्तां दुर्जया देहे रिपवश् चक्षुरादयः ।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ११. ३२ ॥
परवान् अर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैतेइ विधेयताम् ॥ ११. ३३ ॥
श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम् ॥ ११. ३४ ॥
श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ ११. ३५ ॥
विविक्तेऽस्मिन् नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ११. ३६ ॥
व्याहृत्य मरुतां पत्याविति वाचमवस्थिते ।
वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥ ११. ३७ ॥
प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् ।
साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥ ११. ३८ ॥
न्यायनिर्णीतसारत्वान् निरपेक्षमिवागमे ।
अप्रकम्प्यतयान्येषामाम्नायवचनोपमम् ॥ ११. ३९ ॥
अलङ्घ्यत्वाज् जनैरन्यैः क्षुभितोदन्वदूर्जितम् ।
औदार्याद् अर्थसम्पत्तेः शान्तं चित्तम् ऋषेरिव ॥ ११. ४० ॥
इदमीदृग्गुणोपेतं लब्धावसरसाधनम् ।
व्याकुर्यात् कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ ११. ४१ ॥
न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ११. ४२ ॥
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव ।
व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ११. ४३ ॥
श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ ११. ४४ ॥
क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥ ११. ४५ ॥
कृष्णद्वैपायनादेशाद् बिभर्मि व्रतमीदृशम् ।
भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ ११. ४६ ॥
दुरक्षान् दीव्यता राज्ञा राज्यमात्मा वयं वधूः ।
नीतानि पणतां नूनमीदृशी भवितव्यता ॥ ११. ४७ ॥
तेनानुजसहायेन द्रौपद्या च मया विना ।
भृशमायामियामासु यामिनीष्वभितप्यते ॥ ११. ४८ ॥
हृतोत्तरीयां प्रसभं सभायामागतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्न् अरातयः ॥ ११. ४९ ॥
उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।
भावमानयने सत्याः सत्यंकारमिवान्तकः ॥ ११. ५० ॥
तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् ।
अभिसायार्कमावृत्तां छायामिव महातरोः ॥ ११. ५१ ॥
अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।
अरुध्येतामितीवास्या नयने बाष्पवारिणे ॥ ११. ५२ ॥
सोढवान् नो दशामन्त्यां ज्यायान् एव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ ११. ५३ ॥
स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ११. ५४ ॥
धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत ।
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ ११. ५५ ॥
अपवादाद् अभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ॥ ११. ५६ ॥
ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ ११. ५७ ॥
अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ११. ५८ ॥
शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥ ११. ५९ ॥
अलङ्घ्यं तत् तद् उद्वीक्ष्य यद् यद् उच्चैर्महीभृताम् ।
प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥ ११. ६० ॥
तावद् आश्रीयते लक्ष्म्या तावद् अस्य स्थिरं यशः ।
पुरुषस्तावद् एवासौ यावन् मानान् न हीयते ॥ ११. ६१ ॥
स पुमान् अर्थवज् जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्यामङ्गुलिमभ्येति संख्यायामुद्यताङ्गुलिः ॥ ११. ६२ ॥
दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ ११. ६३ ॥
गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैर्वसुंधरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ ११. ६४ ॥
उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ ११. ६५ ॥
न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम् ।
नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ ११. ६६ ॥
प्रमार्ष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् ।
वैधव्यतापिताराति वनितालोचनाम्बुभिः ॥ ११. ६७ ॥
अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः ।
अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥ ११. ६८ ॥
वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् ।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥ ११. ६९ ॥
अजन्मा पुरुषस्तावद् गतासुस्तृणमेव वा ।
यावन् नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ११. ७० ॥
अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ ११. ७१ ॥
कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ११. ७२ ॥
ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान् ॥ ११. ७३ ॥
यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्न् इव जलाञ्जलेः ॥ ११. ७४ ॥
स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥ ११. ७५ ॥
कथं वादीयतामर्वाङ् मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ ११. ७६ ॥
आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश् चाचारवान् नृपः ॥ ११. ७७ ॥
स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान् मानशालिनः ॥ ११. ७८ ॥
विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ ११. ७९ ॥
इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश ॥ ११. ८० ॥
प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषामुच्चार्य वाचमिति तेन
तिरोबभूवे ॥ ११. ८१ ॥
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥ १२. १ ॥
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः ।
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ॥ १२. २ ॥
वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः ।
व्याप नगपतिरिव स्थिरतां महतां हि धैर्यमविभाव्यवैभवम् ॥ १२. ३ ॥
न पपात संनिहितपक्ति सुरभिषु फलेषु मानसम् ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥ १२. ४ ॥
न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे ।
सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ १२. ५ ॥
तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयम् ।
त्रासजननमपि तत्त्वविदां किमिवास्ति यन् न सुकरं मनस्विभिः ॥ १२. ६ ॥
ज्वलतोऽनलाद् अनुनिशीथमधिकरुचिरम्भसां निधेः ।
धैर्यगुणमवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥ १२. ७ ॥
जपतः सदा जपमुपांशु वदनमभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥ १२. ८ ॥
कवचं स बिभ्रद् उपवीत पदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुः परिवीतभीमगहनो विदिद्युते ॥ १२. ९ ॥
प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ १२. १० ॥
परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान् मुनिदिवौकसां पथः ॥ १२. ११ ॥
रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः ।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥ १२. १२ ॥
महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना ।
ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥ १२. १३ ॥
तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः ।
रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥ १२. १४ ॥
मरुतां पतिः स्विद् अहिमांशुरुत पृथुशिखः शिखी तपः ।
तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ १२. १५ ॥
न ददाह भूरुहवनानि हरितनयधाम दूरगम् ।
न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ १२. १६ ॥
विनयं गुणा इव विवेकमपनयभिदं नया इव ।
न्यायमवधय इवाशरणाः शरणं ययुः शिवमथो महर्षयः ॥ १२. १७ ॥
परिवीतमंशुभिरुदस्त दिनकरमयूखमण्डलैः ।
शम्भुमुपहतदृशः सहसा न च ते निचायितुमभिप्रसेहिरे ॥ १२. १८ ॥
अथ भूतभव्यभवदीशमभिमुखयितुं कृतस्तवाः ।
तत्र महसि ददृशुः पुरुषं कमनीयविग्रहमयुग्मलोचनम् ॥ १२. १९ ॥
ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि ।
स्पर्शसुखमनुभवन्तमुमा कुचयुग्ममण्डल इवार्द्रचन्दने ॥ १२. २० ॥
स्थितमुन्नते तुहिनशैल शिरसि भुवनातिवर्तिना ।
साद्रिजलधिजलवाहपथं सदिगश्नुवानमिव विश्वमोजसा ॥ १२. २१ ॥
अनुजानुमध्यमवसक्त विततवपुषा महाहिना ।
लोकमखिलमिव भूमिभृता रवितेजसामवधिनाधिवेष्टितम् ॥ १२. २२ ॥
परिणाहिना तुहिनराशि विशदमुपवीतसूत्रताम् ।
नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ १२. २३ ॥
प्लुतमालतीसितकपाल कमुदमुपरुद्धमूर्धजम् ।
शेषमिव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ १२. २४ ॥
मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः ।
पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥ १२. २५ ॥
तरसैव कोऽपि भुवनैक पुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥ १२. २६ ॥
स धनुर्महेषुधि निभर्ति कवचमसितमुत्तमं जटाः ।
वल्कमजिनमिति चित्रमिदं मुनिताविरोधि न च नास्य राजते ॥ १२. २७ ॥
चलनेऽवनिश् चलति तस्य करणनियमे सदिङ्मुखम् ।
स्तम्भमनुभवति शान्तमरुद् ग्रहतारकागणयुतं नभस्तलम् ॥ १२. २८ ॥
स तदोजसा विजितसारममरदितिजोपसंहितम् ।
विश्वमिदमपिदधाति पुरा किमिवास्ति यन् न तपसामदुष्करम् ॥ १२. २९ ॥
विजिगीषते यदि जगन्ति युगपद् अथ संजिहीर्षति ।
प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुचः ॥ १२. ३० ॥
किमुपेक्षसे कथय नाथ न तव विदितं न किंचन ।
त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥ १२. ३१ ॥
इति गां विधाय विरतेषु मुनिषु वचनं समाददे ।
भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरमन्धकान्तकः ॥ १२. ३२ ॥
बदरीतपोवननिवास निरतमवगात मान्यथा ।
धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥ १२. ३३ ॥
द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः ।
क्रान्तकुलिशकरवीर्यबलान् मदुपासनं विहितवान् महत् तपः ॥ १२. ३४ ॥
अयमच्युतश् च वचनेन सरसिरुहजन्मनः प्रजाः ।
पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥ १२. ३५ ॥
सुरकृत्यमेतद् अवगम्य निपुणमिति मूकदानवः ।
हन्तुमभिपतति पाण्डुसुतं त्वरया तद् अत्र सह गम्यतां मया ॥ १२. ३६ ॥
विवरेऽपि नैनमनिगूढमभिभवितुमेष पारयन् ।
पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥ १२. ३७ ॥
निहते विडम्बितकिरात नृपतिवपुषा रिपौ मया ।
मुक्तनिशितविशिखः प्रसभं मृगयाविवादमयमाचरिष्यति ॥ १२. ३८ ॥
तपसा निपीडितकृशस्य विरहितसहायसम्पदः ।
सत्त्वविहितमतुलं भुजयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥ १२. ३९ ॥
इति तान् उदारमनुनीय विषमहरिचन्दनालिना ।
घर्मजनितपुलकेन लसद् गजमौक्तिकावलिगुणेन वक्षसा ॥ १२. ४० ॥
वदनेन पुष्पितलतान्त नियमितविलम्बितमौलिना ।
बिभ्रद् अरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ १२. ४१ ॥
बृहदुद्वहञ् जलदनादि धनुरुपहितैकमार्गणम् ।
मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ १२. ४२ ॥
अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः ।
शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥ १२. ४३ ॥
विरचय्य काननविभागमनुगिरमथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥ १२. ४४ ॥
क्षुभिताभिनिःसृतविभिन्न शकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा भयाद् इव ररास भूधरः ॥ १२. ४५ ॥
न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः ।
घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ॥ १२. ४६ ॥
चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विषक्तपृथु प्रियबालवालधिभिराददे धृतिः ॥ १२. ४७ ॥
हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः ।
स्वस्थमभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर्मृगाधिपैः ॥ १२. ४८ ॥
बिभरांबभूवुरपवृत्त जठरशफरीकुलाकुलाः ।
पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥ १२. ४९ ॥
महिषक्षतागुरुतमाल नलदसुरभिः सदागतिः ।
व्यस्तशुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥ १२. ५० ॥
मथिताम्भसो रयविकीर्ण मृदितकदलीगवेधुकाः ।
क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसम्प्लवः ॥ १२. ५१ ॥
इति चालयन्न् अचलसानु वनगहनजान् उमापतिः ।
प्राप मुदितहरिणीदशन क्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ १२. ५२ ॥
स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः ।
पित्रनिकषणविभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥ १२. ५३ ॥
कच्छान्ते सुरसरितो निधाय सेनामन्वतिः सकतिपयैः किरातवर्यैः ।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवान् अनुपदमस्य सम्प्रतस्थे
॥ १२. ५४ ॥
वपुषां परमेण भूधराणामथ सम्भाव्यपराक्रमं विभेदे ।
मृगमाशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १३. १ ॥
स्फुटबद्धसटोन्नतिः स दूराद् अभिधावन्न् अवधीरितान्यकृत्यः ।
जयमिच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कम् ॥ १३. २ ॥
घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।
अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥ १३. ३ ॥
इह वीतभयास्तपोनुभावाज् जहति व्यालमृगाः परेषु वृत्तिम् ।
मयि तां सुतरामयं विधत्ते विकृतिः किं नु भवेद् इयं नु माया ॥ १३. ४ ॥
अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः ।
अवधूय विरोधिनीः किमारान् मृगजातीरभियाति मां जवेन ॥ १३. ५ ॥
न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो
मे ।
विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥ १३. ६ ॥
मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥ १३. ७ ॥
दनुजः स्विद् अयं क्षपाचरो वा वनजे नेति बलं बद् अस्ति सत्त्वे ।
अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ १३. ८ ॥
अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया शमस्थे ।
पृथुभिर्ध्वजिनीस्रवैरकार्षीच्चकितोद्भ्रान्तमृगाणि काननानि ॥ १३. ९ ॥
बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्न् अथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगाद् गणमाशिश्रियद् आकुलं तिरश्चाम् ॥ १३. १० ॥
अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा ।
प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥ १३. ११ ॥
बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः ।
नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥ १३. १२ ॥
कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान् मुनिर्माम् ।
बलिनश् च वधाद् ऋतेऽस्य शक्यं व्रसंरक्षणमन्यथा न कर्तुम् ॥ १३. १३ ॥
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे ।
उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥ १३. १४ ॥
अनुभाववता गुरु स्थिरत्वाद् अविसंवादि धनुर्धनंजयेन ।
स्वबलव्यसनेऽपि पीड्यमानं गुणवन् मित्रमिवानतिं प्रपेदे ॥ १३. १५ ॥
प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् ।
अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥ १३. १६ ॥
ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं वधमात्मेव भयानकः परेषाम् ॥ १३. १७ ॥
विचकर्ष च संहितेषुरुच्चैश् चरणास्कन्दननामिताचलेन्द्रः ।
धनुरायतभोगवासुकिज्या वदनग्रन्थिविमुक्तवह्नि शम्भुः ॥ १३. १८ ॥
स भवस्य भवक्षयैकहेतोः सितसप्तेश् च विधास्यतोः सहार्थम् ।
रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः ॥ १३. १९ ॥
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणाद् अवार्यः ।
निपपात जवादिषु पिनाकान् महतोऽभ्राद् इव वैद्युतः कृशानुः ॥ १३. २० ॥
व्रजतोऽस्य बृहत् पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।
प्रतिनादमहान् महोरगाणां हृदयश्रोत्रभिद् उत्पपात नादः ॥ १३. २१ ॥
नयनाद् इव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥ १३. २२ ॥
अपयन् धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिख्यया जिहानः ।
युगपद् ददृशे विशन् वराहं तदुपोढैश् च नभश्चरैः पृषत्कः
॥ १३. २३ ॥
स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतमीक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ १३. २४ ॥
सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खमाससाद ।
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन् प्राणभृतः कपिध्वजेषु ॥ १३. २५ ॥
परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु ।
स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ १३. २६ ॥
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः ।
सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ॥ १३. २७ ॥
स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥ १३. २८ ॥
अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ १३. २९ ॥
अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्ण्रयः स सम्भ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ १३. ३० ॥
स गतः क्षितिमुष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणमीक्षितेन्द्रसूनिर्विहितामर्षगुरुध्वनिर्निरासे ॥ १३. ३१ ॥
स्फुटपौरुषमापपात पार्थस्तमथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्यन् प्रियतामेति यथा कृतावदानः ॥ १३. ३२ ॥
उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् ।
कृतशक्तिरवाङ्मुखो गुरुत्वाज् जनितव्रीड इवात्मपौरुषेण ॥ १३. ३३ ॥
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तमुच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥ १३. ३४ ॥
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् ।
संनिकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ १३. ३५ ॥
स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिम् ।
सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥ १३. ३६ ॥
शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् ।
प्राह ते नु सदृशी दिवौकसामन्ववायमवदातमाकृतिः ॥ १३. ३७ ॥
दीपितस्त्वमनुभावसम्पदा गौरवेण लघयन् महीभृतः ।
राजसे मुनिरपीह कारयन्न् आधिपत्यमिव शातमन्यवम् ॥ १३. ३८ ॥
तापसोऽपि विभुतामुपेयिवान् आस्पदं त्वमसि सर्वसम्पदाम् ।
दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ॥ १३. ३९ ॥
विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेद् उपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ १३. ४० ॥
ह्रेपयन्न् अहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः ।
हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ १३. ४१ ॥
स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥ १३. ४२ ॥
आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान् महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ १३. ४३ ॥
तिष्ठतां तपसि पुण्यमासजन् सम्पदोऽनुगुणयन् सुखैषिणाम् ।
योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥ १३. ४४ ॥
नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः ।
सोऽयमित्यनुपपन्नसंशयः कारितस्त्वमपथे पदं यया ॥ १३. ४५ ॥
अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते ।
निघ्नतः परनिबर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ १३. ४६ ॥
संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः ।
कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥ १३. ४७ ॥
अन्यदोषमिव सः स्वकं गुणं ख्यापयेत् कथमधृष्टताजडः ।
उच्यते स खलु कार्यवत्तया धिग् विभिन्नबुधसेतुमर्थिताम् ॥ १३. ४८ ॥
दुर्वचं तद् अथ मा स्म भून् मृगस्त्वावसौ यद् अकरिष्यद् ओजसा ।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ १३. ४९ ॥
को न्विमं हरितुरङ्गमायुध स्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूपतेर्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥ १३. ५० ॥
मित्रमिष्टमुपकारि संशये मेदिनीपतिरयं तथा च ते ।
तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥ १३. ५१ ॥
लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः ।
स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ॥ १३. ५२ ॥
चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः ।
भूधरस्थिरमुपेयमागतं मावमंस्त सुहृदं महीपतिम् ॥ १३. ५३ ॥
जेतुमेव भवता तपस्यते नायुधानि दधते मुमुक्षवः ।
प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥ १३. ५४ ॥
वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश् च भूरिशः ।
काञ्चनेन किमिवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥ १३. ५५ ॥
सावलेपमुपलिप्सते परैरभ्युपैति विकृतिं रजस्यपि ।
अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥ १३. ५६ ॥
तत् तदीयविशिखातिसर्जनाद् अस्तु वां गुरु यदृच्छयागतम् ।
राघवप्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ १३. ५७ ॥
नाभियोक्तुमनृतं त्वमिष्यते कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥ १३. ५८ ॥
मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः ।
त्वद्विधं सुहृदमेत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ १३. ५९ ॥
तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा ।
सीदतामनुभवन्न् इवार्थिनां वेद यत् प्रणयभङ्गवेदनाम् ॥ १३. ६० ॥
शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् ।
कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥ १३. ६१ ॥
अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः ।
जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम् ॥ १३. ६२ ॥
अभ्यघानि मुनिचापलात् त्वया यन् मृगः क्षितिपतेः परिग्रहः ।
अक्षमिष्ट तद् अयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥ १३. ६३ ॥
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् ।
आपद् एत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥ १३. ६४ ॥
यष्टुमिच्छसि पितॄन् न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥ १३. ६५ ॥
सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते ।
वारिधीन् इव युगान्तवायवः क्षोभयन्त्यनिभृता गुरून् अपि ॥ १३. ६६ ॥
अस्त्रवेदविद् अयं महीपतिः पर्वतीय इति मावजीगणः ।
गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥ १३. ६७ ॥
तत् तितिक्षितमिदं मया मुनेरित्यवोचत वचश् चमूपतिः ।
बाणमत्रभवते निजं दिशन्न् आप्नुहि त्वमपि सर्वसम्पदः ॥ १३. ६८ ॥
आत्मनीनमुपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भूद् अर्थिता कथमिवार्यसंगमे ॥ १३. ६९ ॥
दृश्यतामयमनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥ १३. ७० ॥
सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ् जयन्
हरितुरङ्गमकेतुलक्ष्मीम् ।
अस्यानुकूलय मतिं मतिमन्न् अनेन सख्या सुखं समभियास्यसि चिन्तितानि ॥ १३. ७१ ॥
ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥ १४. १ ॥
सलेशमुल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे ।
अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥ १४. २ ॥
विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ १४. ३ ॥
भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा गम्भीरमर्थं कतिचित् प्रकाशताम् ॥ १४. ४ ॥
स्तुवन्ति गुर्वीमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः ।
इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ १४. ५ ॥
समस्य सम्पादयता गुणैरिमां त्वया समारोपितभार भारतीम् ।
प्रगल्भमात्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥ १४. ६ ॥
प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् ।
तथाभियुक्तं च शिलीमुखार्थिना यथेतरन् न्याय्यमिवावभासते ॥ १४. ७ ॥
विरोधि सिद्धेरिति कर्तुमुद्यतः स वारितः किं भवता न भूपतिः ।
हिते नियोज्यः खलु भूतिमिच्छता सहार्थनाशेन नृपोऽनुजीविना ॥ १४. ८ ॥
ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः ।
न युक्तमत्रार्यजनातिलङ्घनं दिशत्यपायं हि सतामतिक्रमः ॥ १४. ९ ॥
अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवमत्तुमिच्छता ।
अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ॥ १४. १० ॥
यदि प्रमाणीकृतमार्यचेष्टितं किमित्यदोषेण तिरस्कृता वयम् ।
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते ॥ १४. ११ ॥
गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम् ।
द्विधेव कृत्वा हृदयं निगूहतः स्फुरद् असाधोर्विवृणोति वागसिः ॥ १४. १२ ॥
वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान् प्रसभेन तस्य ते ।
प्रहीयतामत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥ १४. १३ ॥
न वर्त्म कस्मैचिद् अपि प्रदीयतामिति व्रतं मे विहितं महर्षिणा ।
जिघांसुरस्मान् निहतो मया मृगो व्रताभिरक्षा हि सतामलंक्रिया ॥ १४. १४ ॥
मृगान् विनिघ्नन् मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः ।
कृपेति चेद् अस्तु मृगः क्षतः क्षणाद् अनेन पूर्वं न मयेति का गतिः ॥ १४. १५ ॥
अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा ।
शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥ १४. १६ ॥
अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकायसाधनम् ।
अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ॥ १४. १७ ॥
यद् आत्थ कामं भवता स याच्यतामिति क्षमं नैतद् अनल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥ १४. १८ ॥
अभूतमासज्य विरुद्धमीहितं बलाद् अलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥ १४. १९ ॥
असिः शरा वर्म धनुश् च नोच्चकैर्विविच्य किं प्रार्थितमीश्वरेण ते
।
अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥ १४. २० ॥
सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस्तपस्यते ।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥ १४. २१ ॥
वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।
सहापकृष्टैर्महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥ १४. २२ ॥
परोऽवजानाति यद् अज्ञताजडस्तद् उन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ १४. २३ ॥
यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥ १४. २४ ॥
मया मृगान् हन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम् ।
शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्
जिघृक्षतः ॥ १४. २५ ॥
इतीरिताकूतमनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीमुपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ १४. २६ ॥
ततोऽपवादेन पताकिनीपतेश् चचाल निर्ह्रादवती महाचमूः ।
युगान्तवाताभिहतेव कुर्वती निनादमम्भोनिधिवीचिसंहतिः ॥ १४. २७ ॥
रणाय जैत्रः प्रदिशन्न् इव त्वरां तरङ्गितालम्बितकेतुसंततिः ।
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥ १४. २८ ॥
जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः ।
असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन् गामवतस्तरे दिशः ॥ १४. २९ ॥
निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभामिवान्तरम् ।
वनेसदां हेतिषु भिन्नविग्रहैर्विपुस्फुरे रश्मिमतो मरीचिभिः ॥ १४. ३० ॥
उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।
वितत्य पक्षद्वयमायतं बभौ विभुर्गुणानामुपरीव मध्यगः ॥ १४. ३१ ॥
सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवाद् अहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धमाबभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥ १४. ३२ ॥
तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम् ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ १४. ३३ ॥
पृथूरुपर्यस्तबृहल्लताततिर्जवानिलाघूर्णितशालचन्दना ।
गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ॥ १४. ३४ ॥
ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षाममिवैकवारणम् ।
परिज्वलन्तं निधनाय भूभृतां दहन्तमाशा इव जातवेदसम् ॥ १४. ३५ ॥
अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् ।
शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ १४. ३६ ॥
निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि ।
अलङ्घनीयं प्रकृतावपि स्थितं निवातनिष्कम्पमिवापगापतिम् ॥ १४. ३७ ॥
उपेयुषीं बिभ्रतमन्तकद्युतिं वधाद् अदूरे पतितस्य दंष्ट्रिणः ।
पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे ॥ १४. ३८ ॥
निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।
वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतमुत्तमाचलम् ॥ १४. ३९ ॥
महर्षभस्कन्धमनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा ।
समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवाद् इव ॥ १४. ४० ॥
हरिन्मणिश्याममुदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥ १४. ४१ ॥
गुरुक्रियारम्भफलैरलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनीलवाजिनं तपात्यये तोयघना घना इव ॥ १४. ४२ ॥
यथास्वमाशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे ।
ययुः क्षणाद् अप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥ १४. ४३ ॥
ततः प्रजह्रे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः ।
महोदयानामपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ १४. ४४ ॥
किरातसैन्याद् उरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः ।
महावनाद् उन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ १४. ४५ ॥
गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुन्नमितेन सानुषु ।
धनुर्निनादेन जवाद् उपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥ १४. ४६ ॥
विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।
महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ १४. ४७ ॥
त्रयीम् ऋतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं घनत्वमीये शिथिलेन वर्मणा ॥ १४. ४८ ॥
पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः ।
सरोषमुल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी ॥ १४. ४९ ॥
दिशः समूहन्न् इव विक्षिपन्न् इव प्रभां रवेराकुलयन्न् इवानिलम् ।
मुनिश् चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्न् इवेषुभिः ॥ १४. ५० ॥
विमुक्तमाशंसितशत्रुनिर्जयैरनेकमेकावसरं वनेचरैः ।
स निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ १४. ५१ ॥
गतैः परेषामविभावनीयतां निवारयद्भिर्विपदं विदूरगैः ।
भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥ १४. ५२ ॥
दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बाद् उत तिग्मतेजसः ।
सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः शराः शरीराद् इति तेऽभिमेनिरे ॥ १४. ५३ ॥
गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जवाद् अतीये हिमवान् अधोमुखैः कृतापराधैरिव तस्य पत्त्रिभिः ॥ १४. ५४ ॥
द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुनेररुंतुदत्वं महतां ह्यगोचरः ॥ १४. ५५ ॥
समुज्झिता यावदराति निर्यती सहैव चापान् मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचमुमापतेश् चमूम् ॥ १४. ५६ ॥
अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृथङ् नियोजितम् ।
प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥ १४. ५७ ॥
शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुगेषुमयूखमालिनम् ।
तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत् प्रजा इव ॥ १४. ५८ ॥
मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपाद् इव विष्वग् आयता ।
विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ १४. ५९ ॥
तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विद् इषून् निरस्यति ।
अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥ १४. ६० ॥
हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित् प्रहरन्ति देवताः ।
कथं न्वमी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥ १४. ६१ ॥
जयेन कच्चिद् विरमेद् अयं रणाद् भवेद् अपि स्वस्ति चराचराय वा ।
तताप कीर्णा नृपसूनुमार्गणैरिति प्रतर्काकुलिता पताकिनी ॥ १४. ६२ ॥
अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।
बलीयसा तद् विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ १४. ६३ ॥
प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।
रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे ॥ १४. ६४ ॥
प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं
पाण्डुसूनौ ।
कथमपि जयलक्ष्मीर्भूतभूता विहातुं विषमनयनसेनापक्षपातं
विषेहे ॥ १४. ६५ ॥
अथ भूतानि वार्त्रघ्न शरेभ्यस्तत्र तत्रसुः ।
भेजे दिशः परित्यक्त महेष्वासा च सा चमूः ॥ १५. १ ॥
अपश्यद्भिरिवेशानं रणान् निववृते गणैः ।
मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ १५. २ ॥
खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ १५. ३ ॥
आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ १५. ४ ॥
स सासिः सासुसूः सासो येयायेयाययाययः ।
ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन् ॥ १५. ५ ॥
त्रासजिह्मं यतश् चैतान् मन्दमेवान्वियाय सः ।
नातिपीडयितुं भग्नान् इच्छन्ति हि महौजसः ॥ १५. ६ ॥
अथाग्रे हसता साचि स्थितेन स्थिरकीर्तिना ।
सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥ १५. ७ ॥
मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥ १५. ८ ॥
विवस्वदंशुसंश्लेष द्विगुणीकृततेजसः ।
अमी वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ १५. ९ ॥
वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् ।
वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १५. १० ॥
पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।
गुर्वीं कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ १५. ११ ॥
नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १५. १२ ॥
मन्दमस्यन्न् इषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशून् इव ॥ १५. १३ ॥
न नोननुन्नोऽनुन्नेनो न ना नानानना ननु ।
नुन्नोऽनुन्नो न नुन्नेनो नानेनानुन्ननुन् न नुत् ॥ १५. १४ ॥
वरं कृतध्वस्तगुणाद् अत्यन्तमगुणः पुमान् ।
प्रकृत्या ह्यमणिः श्रेयान् नालंकारश् च्युतोपलः ॥ १५. १५ ॥
स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः ।
स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ १५. १६ ॥
भवद्भिरधुनाराति परिहापितपौरुषैः ।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ॥ १५. १७ ॥
वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ १५. १८ ॥
अयं वः क्लैब्यमापन्नान् दृष्टपृष्ठान् अरातिना ।
इच्छतीशश् च्युताचारान् दारान् इव निगोपितुम् ॥ १५. १९ ॥
ननु हो मथना राघो घोरा नाथमहो नु न ।
तयदातवदा भीमा माभीदा बत दायत ॥ १५. २० ॥
किं त्यक्तापास्तदेवत्व मानुष्यकपरिग्रहैः ।
ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मान्यता ॥ १५. २१ ॥
निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवान् उत ॥ १५. २२ ॥
तनुवारभसो भास्वान् अधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ १५. २३ ॥
निर्भिन्नपातिताश्वीय निरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूत रुधिराम्बुनदाकुले ॥ १५. २४ ॥
देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ १५. २५ ॥
प्रनृत्तशववित्रस्त तुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीर विक्रुष्टहतसादिनि ॥ १५. २६ ॥
ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वमकर्षति ॥ १५. २७ ॥
आसुरे लोकवित्रास विधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ १५. २८ ॥
इति शासति सेनान्यां गच्छतस्तान् अनेकधा ।
निषिध्य हसता किंचित् तत्र तस्थेऽन्धकारिणा ॥ १५. २९ ॥
मुनीषुदहनातप्तांल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान् निषेधहिमाम्बुना ॥ १५. ३० ॥
दूनास्तेऽरिबलाद् ऊना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शंकरं तत्र शंकरम् ॥ १५. ३१ ॥
महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाशश्वास पताकिनी ॥ १५. ३२ ॥
स बभार रणापेतां चमूं पश्चाद् अवस्थिताम् ।
पुरः सूर्याद् उपावृत्तां छायामिव महातरुः ॥ १५. ३३ ॥
मुञ्चतीशे शराञ् जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्न् आशाः स्फुटन्न् इव धराधरः ॥ १५. ३४ ॥
तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ १५. ३५ ॥
परिमोहयमाणेन शिक्षालाघवलीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ १५. ३६ ॥
अवद्यन् पत्रिणः शम्भोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ १५. ३७ ॥
चारचुञ्चुश् चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश् चारु चारैराचारचञ्चुरः ॥ १५. ३८ ॥
स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः ।
धृतोल्कानलयोगेन तुल्यमंशुमता बभौ ॥ १५. ३९ ॥
पार्थबाणाः पशुपतेरावव्रुर्विशिखावलिम् ।
पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् ॥ १५. ४० ॥
शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ १५. ४१ ॥
तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ १५. ४२ ॥
द्युवियद्गामिनी तार संरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ १५. ४३ ॥
विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ॥ १५. ४४ ॥
जगतीशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षीकृताशंसो नागराज इवाबभौ ॥ १५. ४५ ॥
विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना ।
गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ॥ १५. ४६ ॥
स पिशङ्गजटावलिः किरन्न् उरुतेजः परमेण मन्युना ।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ १५. ४७ ॥
शतशो विशिखान् अवद्यते भृशमस्मै रणवेगशालिने ।
प्रथयन्न् अनिवार्यवीर्यतां प्रजिगायेषुमघातुकं शिवः ॥ १५. ४८ ॥
शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलाद् अंशुमिवांशुभर्तुः ।
निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ १५. ४९ ॥
घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुग् अलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ॥ १५. ५० ॥
रुजन् परेषून् बहुधाशुपातिनो मुहुः शरौघैरपवारयन् दिशः ।
चलाचलोऽनेक इव क्रियावशान् महर्षिसंघैर्बुबुधे धनंजयः ॥ १५. ५१ ॥
विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ।
विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ॥ १५. ५२ ॥
सम्पश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम्
।
अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं
बिभराम्बभूवुः ॥ १५. ५३ ॥
ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः ।
स तर्कयामास विविक्ततर्कश् चिरं विचिन्वन्न् इति कारणानि ॥ १६. १ ॥
मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः ।
सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥ १६. २ ॥
विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥ १६. ३ ॥
समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।
विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥ १६. ४ ॥
हताहतेत्युद्धतभीष्मघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् ।
न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ १६. ५ ॥
अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य ।
रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ १६. ६ ॥
भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् ।
नास्त्यत्र तेजस्विभिरुत्सुकानामह्नि प्रदोषः सुरसुन्दरीणाम् ॥ १६. ७ ॥
रथाङ्गसंक्रीडितमश्वहेषा बृहन्ति मत्तद्विपबृंहितानि ।
संघर्षयोगाद् इव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ १६. ८ ॥
अस्मिन् यशःपौरुषलोलुपानामरातिभिः प्रत्युरसं क्षतानाम् ।
मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ १६. ९ ॥
असृङ्नदीनामुपचीयमानैर्विदारयद्भिः पदवीं ध्वजिन्याः ।
उच्छ्रायमायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥ १६. १० ॥
परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती ।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥ १६. ११ ॥
निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण ।
अर्कत्विषोन्मीलितमभ्युदेति न खण्डमाखण्डलकार्मुकस्य ॥ १६. १२ ॥
महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
नावर्तमाना निनदन्ति भीममपां निधेराप इव ध्वजिन्यः ॥ १६. १३ ॥
महारथानां प्रतिदन्त्यनीकमधिस्यदस्यन्दनमुत्थितानाम् ।
आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ॥ १६. १४ ॥
धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः ।
न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलमातनोति ॥ १६. १५ ॥
उज्झत्सु संहार इवास्तसंख्यमह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननमत्र मृत्युः ॥ १६. १६ ॥
इयं च दुर्वारमहारथानामाक्षिप्य वीर्यं महतां बलानाम् ।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ १६. १७ ॥
माया स्विद् एषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः ।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ १६. १८ ॥
पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः ।
नूनं तथा नैषा यथास्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥ १६. १९ ॥
धनुः प्रबन्धध्वनितं रुषेव सकृद् विकृष्टा विततेव मौर्वी ।
संधानमुत्कर्षमिव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ॥ १६. २० ॥
अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ १६. २१ ॥
प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश् च लक्ष्येषु पातः सदृशः शराणाम् ॥ १६. २२ ॥
परस्य भूयान् विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ १६. २३ ॥
अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥ १६. २४ ॥
स सम्प्रधार्यैवमहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥ १६. २५ ॥
प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ १६. २६ ॥
आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ १६. २७ ॥
गुरुस्थिराण्युत्तमवंशजत्वाद् विज्ञातसाराण्यनुशीलनेन ।
केचित् समाश्रित्य गुणान् वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ १६. २८ ॥
कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान् निपेतुः क्रियाफलानीव तदायुधानि ॥ १६. २९ ॥
अंसस्थलैः केचिद् अभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् ।
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ १६. ३० ॥
तिरोहितेन्दोरथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृङ्गाद् इव बिम्बमार्कं पिशङ्गमुच्चैरुदियाय तेजः ॥ १६. ३१ ॥
छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् ।
ययौ विकासं द्युतिरिन्दुमौलेरालोकमभ्यादिशती गणेभ्यः ॥ १६. ३२ ॥
त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।
निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥ १६. ३३ ॥
पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते ।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥ १६. ३४ ॥
द्यौरुन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर्मयूखैः ।
क्षयं गतायामिव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥ १६. ३५ ॥
महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे ।
भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥ १६. ३६ ॥
जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोलविषानलानि ।
त्रासान् निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ॥ १६. ३७ ॥
दिङ्नागहस्ताकृतिमुद्वहद्भिर्भोगैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥ १६. ३८ ॥
निःश्वासधूमैः स्थगितांशुजालं फणावतामुत्फणमण्डलानाम् ।
गच्छन्न् इवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः ॥ १६. ३९ ॥
प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ १६. ४० ॥
आक्षिप्तसम्पातमपेतशोभमुद्वह्नि धूमाक्कुलदिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ १६. ४१ ॥
तमाशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ १६. ४२ ॥
प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजामपि लोचनानि ।
गरुत्मता संहतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ॥ १६. ४३ ॥
ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ् जवेन ।
जरत्तृणानीव वियन् निनाय वनस्पतीनां गहनानि वायुः ॥ १६. ४४ ॥
मनःशिलाभङ्गनिभेन पश्चान् निरुध्यमानं निकरेण भासाम् ।
व्यूढैरुरोभिश् च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ १६. ४५ ॥
दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा ।
जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ॥ १६. ४६ ॥
प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभस्तलं गां च पिशङ्गयष्टिः ।
अन्तर्हितार्कैः परितः पतद्भिश् छायाः समाचिक्षिपिरे वनानाम् ॥ १६. ४७ ॥
स भोगसंघः शममुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् ।
महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥ १६. ४८ ॥
साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ १६. ४९ ॥
ऊर्ध्वं तिरश्चीनमधश् च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्तसिंहाकृतिरुत्पपात प्राण्यन्तमिच्छन्न् इव जातवेदाः ॥ १६. ५० ॥
भित्त्वेव भाभिः सवितुर्मयूखाञ् जज्वाल विष्वग् विसृतस्फुलिङ्गः ।
विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्न् अकृशः कृशानुः ॥ १६. ५१ ॥
चयान् इवाद्रीन् इव तुङ्गशृङ्गान् क्वचित् पुराणीव हिरण्मयानि ।
महावनानीव च किंशुकानामत्तान वह्निः पवनानुवृत्त्या ॥ १६. ५२ ॥
मुहुश् चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥ १६. ५३ ॥
लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाहमस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ १६. ५४ ॥
ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः ।
अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः ॥ १६. ५५ ॥
पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ १६. ५६ ॥
महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम् ।
व्रजद्भिरार्द्रेन्धनवत् परिक्षयं जलैर्वितेने दिवि धूमसंततिः ॥ १६. ५७ ॥
स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितामादधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥ १६. ५८ ॥
जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः ।
प्रशान्तिमेष्यन् धृतधूममण्डलो बभूव भूयान् इव तत्र पावकः ॥ १६. ५९ ॥
प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ १६. ६० ॥
उपैत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥ १६. ६१ ॥
अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानाम्
।
विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियमधिकविशुद्धां वह्निदाहाद् इव
द्यौः ॥ १६. ६२ ॥
इति विविधमुदासे सव्यसाची यद् अस्त्रं बहुसमरनयज्ञः सादयिष्यन्न्
अरातिम् ।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तद् उपनिन्ये रिक्ततां
नीलकण्ठः ॥ १६. ६३ ॥
वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं
भुजवीर्यलक्ष्मीम् ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु
लोकः ॥ १६. ६४ ॥
अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥ १७. १ ॥
भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश् च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥ १७. २ ॥
तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधैर्यम् ।
आसादयन्न् अस्खलितस्वभावं भीमे भुजालम्बमिवारिदुर्गे ॥ १७. ३ ॥
वंशोचितत्वाद् अभिमानवत्या सम्प्राप्तया सम्प्रियतामसुभ्यः ।
समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ १७. ४ ॥
पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥ १७. ५ ॥
संस्कारवत्त्वाद् रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ १७. ६ ॥
भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् ।
स निर्ववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ १७. ७ ॥
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्न् इव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ १७. ८ ॥
क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वांशुराजीरिव तिग्मरश्मिः ॥ १७. ९ ॥
स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शम्भोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ १७. १० ॥
सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वाग् इव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ १७. ११ ॥
उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्बमर्कस्य पादा इव हैमनस्य ॥ १७. १२ ॥
सम्प्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् ।
विषाणभेदं हिमवान् असह्यं वप्रानतस्येव सुरद्विपस्य ॥ १७. १३ ॥
तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् ।
चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥ १७. १४ ॥
प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥ १७. १५ ॥
दृष्टावदानाद् व्यथतेऽरिलोकः प्रध्वंसमेति व्यथिताच्च तेजः ।
तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥ १७. १६ ॥
ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ १७. १७ ॥
एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शम्भुरनुक्रमेण ॥ १७. १८ ॥
मुनेर्विचित्रैरिषुभिः स भूयान् निन्ये वशं भूतपतेर्बलौघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ॥ १७. १९ ॥
वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ १७. २० ॥
स सायकान् साध्वसविप्लुतानां क्षिपन् परेषामतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां विभिद्यमानः पृथग् आबभासे ॥ १७. २१ ॥
क्षोभेण तेनाथ गणाधिपानां भेदं ययवाकृतिरीश्वरस्य ।
तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ १७. २२ ॥
प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन् पुरुषे विकारः ।
आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ १७. २३ ॥
विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य ।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य ॥ १७. २४ ॥
स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के ।
पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालमिवापराद्धः ॥ १७. २५ ॥
निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ १७. २६ ॥
विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेतारिलोकेषु करोति यद् यत् तत् तच्चकारास्य शरेषु शम्भुः ॥ १७. २७ ॥
सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ १७. २८ ॥
अलंकृतानाम् ऋजुतागुणेन गुरूपदिष्टां गतिमास्थितानाम् ।
सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥ १७. २९ ॥
बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः ।
अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥ १७. ३० ॥
चित्रीयमाणान् अतिलाघवेन प्रमाथिनस्तान् भवमार्गणानाम् ।
समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्वरातिः ॥ १७. ३१ ॥
तस्यातियत्नाद् अतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥ १७. ३२ ॥
अनामृशन्तः क्वचिद् एव मर्म प्रियैषिणानुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ १७. ३३ ॥
अस्त्रैः समानामतिरेकिणीं वा पश्यनीषूणामपि तस्य शक्तिम् ।
विषादवक्तव्यबलः प्रमाथी स्वमाललम्बे बलमिन्दुमौलिः ॥ १७. ३४ ॥
तपस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ॥ १७. ३५ ॥
रिक्ते सविस्रम्भमथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः ।
अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥ १७. ३६ ॥
च्युते स तस्मिन्न् इषुधौ शरार्थाद् ध्वस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ १७. ३७ ॥
आघट्टयामास गतागताभ्यां सावेगमग्राङ्गुलिरस्य तूणौ ।
विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः ॥ १७. ३८ ॥
बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ ।
युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥ १७. ३९ ॥
तेनातिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयानुतेपे ।
स्वामापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षम् ॥ १७. ४० ॥
प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषमियाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारात् तूणीमुखान् मित्रकुलाद् इवार्यः ॥ १७. ४१ ॥
पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीमुपकारिणीव ।
सम्भावनायामधरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥ १७. ४२ ॥
तं शम्भुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद ।
हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ १७. ४३ ॥
जहार चास्माद् अचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् ।
चण्डः पतङ्गान् मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥ १७. ४४ ॥
विकोशनिर्धौततनोर्महासेः फणावतश् च त्वचि विच्युतायाम् ।
प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ १७. ४५ ॥
विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रुचिं स भेजे ॥ १७. ४६ ॥
अचित्ततायामपि नाम युक्तामनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।
महीं गतौ ताविषुधी तदानीं विवव्रतुश् चेतनयेव योगम् ॥ १७. ४७ ॥
स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तमजस्रमीशस्त्वष्टा विवस्वन्तमिवोल्लिलेख ॥ १७. ४८ ॥
संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यमुपागतेषु ।
मुनेर्बभूवागणितेषुराशेर्लौहस्तिरस्कार इवात्ममन्युः ॥ १७. ४९ ॥
ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्न् इव पार्ष्णिघातैः ॥ १७. ५० ॥
साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।
शम्भुं बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महान् इवेभः ॥ १७. ५१ ॥
रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः ।
समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ १७. ५२ ॥
विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः ।
विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥ १७. ५३ ॥
उपोढकल्याणफलोऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः ।
जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥ १७. ५४ ॥
ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः ।
तेजःश्रियामाश्रयमुत्तमासिं साक्षाद् अहंकारमिवाललम्बे ॥ १७. ५५ ॥
शरान् अवद्यन्न् अनवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।
हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ॥ १७. ५६ ॥
यथा निजे वर्त्मनि भाति भाभिश् च्यायामयश् चाप्सु सहस्ररश्मिः ।
तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥ १७. ५७ ॥
शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशाद् अपवर्जिताङ्गः ।
ज्वलन्न् असिस्तस्य पपात पाणेर्घनस्य वप्राद् इव वैद्युतोऽग्निः ॥ १७. ५८ ॥
आक्षिप्तचापावरणेषुजालश् छिन्नोत्तमासिः स मृधेऽवधूतः ।
रिक्तः प्रकाशश् च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ॥ १७. ५९ ॥
स खण्डनं प्राप्य पराद् अमर्षवान् भुजद्वितीयोऽपि विजेतुमिच्छया ।
ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसामिवाश्मनाम् ॥ १७. ६० ॥
नीरन्ध्रं परिगमिते क्षयं पृषत्कैर्भूतानामधिपतिना शिलाविताने ।
उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥ १७. ६१ ॥
निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम्
।
ईशानः सकुसुमपल्लवैर्नगैस्तैरातेने बलिमिव रङ्गदेवताभ्यः ॥ १७. ६२ ॥
उन्मज्जन् मकर इवामारापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ॥ १७. ६३ ॥
अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योरसुगममरिसैन्यैरङ्कम्
अभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः
॥ १७. ६४ ॥
तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुधे ।
धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैरिव मुष्टिभिः ॥ १८. १ ॥
हरपृथासुतयोर्ध्वनिरुत्पतन्न् अमृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥ १८. २ ॥
शिवभुजाहतिभिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवेद् अनुकृतेरपि सत्त्ववतां क्षमः ॥ १८. ३ ॥
व्रणमुखच्युतशोणितशीकर स्थगितशैलतटाभभुजान्तरः ।
अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः ॥ १८. ४ ॥
उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः ।
भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥ १८. ५ ॥
निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदाद् इव चस्खले ॥ १८. ६ ॥
अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा ।
भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ १८. ७ ॥
प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः ।
करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ॥ १८. ८ ॥
अयमसौ भगवान् उत पाण्डवः स्थितमवाङ् मुनिना शशिमौलिना ।
समधिरूढमजेन नु जिष्णुना स्विद् इति वेगवशान् मुमुहे गणैः ॥ १८. ९ ॥
प्रचलिते चलितं स्थितमास्थिते विनमिते नतमुन्नतमुन्नतौ ।
वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयाद् इव भूभृता ॥ १८. १० ॥
करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः ।
चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥ १८. ११ ॥
वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः ।
चरणयोश् चरणानमितक्षितिर्निजगृहे तिसृणां जयिनं पुराम् ॥ १८. १२ ॥
विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ १८. १३ ॥
तपसा तथा न मुदमस्य ययौ भगवान् यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ॥ १८. १४ ॥
अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥ १८. १५ ॥
सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् ।
निहितमपि तथैव पश्यन्न् असिं वृषभगतिरुपाययौ विस्मयम् ॥ १८. १६ ॥
सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः ।
विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलमनाहतस्यानशे ॥ १८. १७ ॥
आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ॥ १८. १८ ॥
हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः ।
चक्रुः प्रयत्नेन विकीर्यमाणैर्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥ १८. १९ ॥
मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः ।
जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥ १८. २० ॥
कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः ।
तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥ १८. २१ ॥
शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः ।
जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥ १८. २२ ॥
विपद् एति तावद् अवसादकरी न च कामसम्पद् अभिकामयते ।
न नमन्ति चैकपुरुषं पुरुषास्तव यावद् ईश न नतिः क्रियते ॥ १८. २३ ॥
संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः ।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत् कारुण्यं केवलं न स्वकार्यम् ॥ १८. २४ ॥
प्राप्यते यद् इह दूरमगत्वा यत् फलत्यपरलोकगताय ।
तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतस्तत् ॥ १८. २५ ॥
व्रजति शुचि पदं त्वति प्रीतिमान् प्रतिहतमतिरेति घोरां गतिम् ।
इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥ १८. २६ ॥
दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीमविदित्वा ।
रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥ १८. २७ ॥
दृष्ट्वा दृश्यान्याचरणीयानि विधाय
प्रेक्षाकारी याति पदं मुक्तम् अपायैः ।
सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां
यश् चोपास्ति साधु विधेयं स विधत्ते ॥ १८. २८ ॥
युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः ।
समुच्छिनत्सि त्वमचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ॥ १८. २९ ॥
संनिबद्धमपहर्तुमहार्यं भूरि दुर्गतिभयं भुवनानाम् ।
अद्भुताकृतिमिमामतिमायस्त्वं बिभर्षि करुणामय मायाम् ॥ १८. ३० ॥
न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः ।
नमस्क्रिया चोषसि दातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥ १८. ३१ ॥
तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः ।
स्रग् आस्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश् च समं चकासति ॥ १८. ३२ ॥
अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।
तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ १८. ३३ ॥
आत्मलाभपरिणामनिरोधैर्भूतसंघ इव न त्वमुपेतः ।
तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपेमयः ॥ १८. ३४ ॥
त्वमन्तकः स्थावरजङ्गमानां त्वया जगत् प्राणिति देव विश्वम् ।
त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ १८. ३५ ॥
रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम्
।
पाविन्याः शरणगतार्तिहारिणे तन् माहात्म्यं भव भवते नमस्क्रियायाः ॥ १८. ३६ ॥
तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् ।
परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस्ते ॥ १८. ३७ ॥
भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् ।
दहते भवबीजसंततिं शिखिनेऽनेकशिखाय ते नमः ॥ १८. ३८ ॥
आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन ।
निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥ १८. ३९ ॥
यः सर्वेषामावरीता वरीयान् सर्वैर्भावैर्नावृतोऽनादिनिष्ठः ।
मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्योमरूपाय तस्मै ॥ १८. ४० ॥
अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे ।
अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥ १८. ४१ ॥
असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि ।
विरोध्य मोहात् पुनरभ्युपेयुषां गतिर्भवान् एव दुरात्मनापि ॥ १८. ४२ ॥
आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं
धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
सम्प्राप्नुयां विजयमीश यया समृद्ध्या
तां भूतनाथ विभुतां वितराहवेषु ॥ १८. ४३ ॥
इति निगदितवन्तं सूनुमुच्चैर्मघोनः
प्रणतशिरसमीशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रमस्त्रं दधानं
धनुरुपपदमस्मै वेदमभ्यादिदेश ॥ १८. ४४ ॥
स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा
तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः ।
परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः
सुतं पाण्डोर्वीरं जलदमिव भास्वान् अभिययौ ॥ १८. ४५ ॥
अथ शशधरमौलेरभ्यनुज्ञामवाप्य
त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।
अवितथफलमाशिर्वादमारोपयन्तो विजयि
विविधमस्त्रं लोकपाला वितेरुः ॥ १८. ४६ ॥
असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा
धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः ।
स्वधाम्ना लोकानां तमुपरि कृतस्थानममरास्तपोलक्ष्म्या
दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥ १८. ४७ ॥
व्रज जय रिपुलोकं पादपद्मानतः सन्
गदित इति शिवेन श्लाघितो देवसंघैः ।
निजगृहमथ गत्वा सादरं पाण्डुपुत्रो
धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥ १८. ४८ ॥
Encoded by Harunaga Isaacson for indology use at GRETIL.
http://fiindolo.sub.uni-goettingen.de/gretil/1_sanskr/5_poetry/2_kavya/bhakirpu.htm
Text follows that commented on by Mallinaatha, also as regards e.g./
worddivision; note that there are often other possible worddivisions
(especially in the citraverses of sarga 15) and quite a few variants in the
texts of other commentators.
Processed for Devanagari display on sanskritdocuments.org
Proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% File name : kirATArjunIya.itx
%--------------------------------------------
% Text title : kirATArjunIya bhAsakR^ita
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Transliterated by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Translation by :
% Latest update : APril 6, 2014
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .