॥ मल्लारिमाहात्म्यम् ॥
श्रीगणेशायनमः ।
१. आश्रमपीडनं नाम प्रथमोऽध्यायः
वाग्वल्लीपल्लवोलोलसरागकर भासुरम् ।
गजास्यं सुन्दरवन्दे वृन्दारकगणार्चितम् ॥ १ ॥
विघ्नेशचरणाम्भोजमकरन्दोदबिन्दवः ।
सिञ्चन्तुभारतीं वल्लीन्नतानां वरदालये ॥ २ ॥
कैलासाचलचूडाग्रेमणिसुन्दरमन्दिरे ।
पपृच्छ पार्वतीकान्तं रहस्यानन्दसुन्दरम् ॥ ३ ॥
प्रियङ्किन्दुर्लभं लोके किमाश्चर्यकरं परम् ।
क्षेत्रं तीर्थं सदा नृणां भुक्तिमुक्तिफलप्रदम् ॥ ४ ॥
अवतारेणकेनत्वं सर्वेषां सुलभः सदा ।
कैर्व्रतैस्त्वं समाराध्यः कथयाशुममप्रभो ॥ ५ ॥
श्रीशिव उवाच ।
पुराकृतयुगे काले भ्रष्टवीर्यान्मुनीश्वरान् ।
सनत्कुमारोकथयद्दुःखदारिद्र्यपीडितान् ॥ ६ ॥
तत्क्षेत्रन्तीर्थमप्येकं भुक्तिमुक्तिप्रदं शिवम् ।
अधिष्ठितम्मयादेवित्वया चकृपयानृणाम् ॥ ७ ॥
तद्वक्ष्यामि महादेविप्रेम्णातववरानने ।
सनत्कुमार उवाच ।
पुराधर्मसुताः सप्तमणिचूलङ्गिरिङ्गताः ॥ ८ ॥
तपस्तेपुस्तदातीब्रमेकाग्रहृदयस्थिताः ।
शान्तादान्ताः सदाचाराःसदाराः सपरिग्रहाः ॥ ९ ॥
आश्रमेरमणीयेऽस्मि वृक्षवल्ली जलाकुले ।
शान्तवैरमृगव्याध बभ्रुरगसमाकुले ॥ १० ॥
सर्वर्तुफलसम्पूर्णे कदलीखण्डमण्डिते ।
रसालसरलोल्लोलतरुणारुणपल्लवे ॥ ११ ॥
सुच्छायशीत लोपान्ते मयूरावलिकूजिते ।
कदाचित्तत्रमल्लाख्योदैत्यराजः समागतः ॥ १२ ॥
ज्वालाकरालवदनोराक्षसैः परिवारितः ।
उदग्र करवालाग्रधाराछिन्नमहीरुहः ॥ १३ ॥
पदातिरथनागाश्वघोषव्याकुलितामरः ।
लोहसन्नाह किरणोन्मिश्रिताकांशुमण्डलः ॥ १४ ॥
आश्रमास्तेनविध्वस्ताः समस्ताअपिविस्तृताः ॥
आक्रान्तास्तरवस्तुङ्गाः सामरैः कुञ्जरैः करैः ॥ १५ ॥
लोललाङ्गूलचरणैर्घटीयन्त्रावलिर्हता ।
कुण्डस्थावर्हिषस्तत्रतस्यपुत्रैर्निषेचिताः ॥ १६ ॥
विदार्यदेवतार्चायाः कुसुमानिमहीरुहाम् ।
पूजावेदिपुरम्यासुपानकेलीचकारसः ॥ १७ ॥
जहौतदाश्रमपदं सौन्दर्यदुःखतोनिजम् ।
मुखं सद्योविशस्तायास्तरुण्याइवतत्क्षणात् ॥ १८ ॥
निपेतुः शाखिनां शाखा यत्रकीर्णामहीतले ।
वेदानामिव शङ्खेनग्रस्तानां शतशः कृताः ॥ १९ ॥
बटवः पटवोध्यायनस्फूर्जितर्जनतर्जिताः ।
हताःकामदुघागावोयज्ञियाः पीवरोधसः ॥ २० ॥
व्याकुलीकारयामासशान्तादान्ताः पतिव्रताः ।
ऋषयः कण्ठपाशाद्यैर्वध्वावापीषुमज्जिताः ॥ २१ ॥
इतिदुःखाभिभूतास्तेगतेतस्मिन्दुरात्मनि ।
किङ्कुर्मःकचगच्छामः कवसामः सुदुःखिताः ॥ २२ ॥
कंविभुङ्कथयिष्यामोविभुः कः पालयिष्यति ।
कृतमस्माभिरतुलन्दुष्कृतन्तन्नविद्महे ॥ २३ ॥
कष्टङ्कष्टमहोत्रातानास्त्यनाथावयंवत ।
यन्नालञ्जेतुमिन्द्रोपिकथं जेष्यन्तितन्नृपाः ॥ २४ ॥
शपामश्चेद्दुरात्मानन्तपोहानिर्भविष्यति ।
जजल्पुरितिते सर्वेभयविह्वलचेतसः ॥ २५ ॥
वृत्तान्तमेनन्देवेशन्नारायणमथाब्जजम् ।
किंवा महेशं सर्वेशङ्कथयामः सुदुःखिताः ॥ २६ ॥
अस्तिगूढतमं किञ्चित्स्थानं यत्पर्वतान्तरे ।
कुटुम्बान्यग्निहोत्राणि नेष्यामस्तत्रकिं वयम् ॥ २७ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
आश्रमपीडनं नाम प्रथमोऽध्यायः ॥ १ ॥
२. शदेओङ्काभिगमनन्नाम द्वितीयोऽध्यायः
सनत्कुमार उवाच ।
अथ ते मुनयः सर्वेदूनचित्ताः सुदुःखिताः ।
गोपाय्यचकुटुम्बानिकस्मिंश्चित्पर्वतान्तरे ॥ १ ॥
ययुः सहस्रनयननगरीममरावतीम् ।
सुधर्मायां सभायान्तमासीनन्ददृशुः क्षणात् ॥ २ ॥
ज्वलद्रत्नावलिप्रांशुतेजोज्वालासुशोभिते ।
सिंहासनेवीज्यमानञ्चामरैर्हरिणीदृशाम् ॥ ३ ॥
यमभिः सेवतेनित्यन्दाहकर्मविहायच ।
मूर्त्यासुन्दरयारम्यपुञ्जवच्छान्ततेजसा ॥ ४ ॥
सरोषङ्कर्ममुक्त्वावायमोभूत्वाकृताञ्जलिः ।
त्यक्त्वासराक्षसींवृत्तिमुपास्तेनैरृतः स्वयम् ॥ ५ ॥
पाशभृत्पुरतः स्तिष्ठन्वरुणः किङ्कराकृतिः ।
वायुर्मूर्तिधरःशान्तःप्राञ्जलिः परिसेवते ॥ ६ ॥
निधिहस्तः सदाराजराजस्तिष्ठतितत्पुरः ।
रम्यमूर्तिधरः श्रीमानुपास्तेऽसौदिवाकरः ॥ ७ ॥
भजतेसर्वभावेनदेवः कुमुदबान्धवः ।
सन्तोषयतिदेवानामाचार्य चारुवर्णनैः ॥ ८ ॥
गायन्तिललितङ्गीतङ्गन्धर्वाः सुमनोहरम् ।
सिद्धचारणनागाद्यानिज विद्याभिरावृताः ॥ ९ ॥
अतोषयन्स्वभावेनभत्तया सम्पूर्णयापृथक् ।
कान्तारम्भादयोनित्यं ललितैर्यमुपासते ॥ १० ॥
तत्रागतान्समालोक्यधर्मपुत्रान्मुनीश्वरान् ।
सिंहासनात्समुत्थायभक्तिपूर्वननामसः ॥ ११ ॥
शक्र उवाच ।
पूर्वपूर्वमयायञ्चजन्मजन्मान्तरादपि ।
उपार्जितं महत्पुण्यं फलितं दर्शनेनवः ॥ १२ ॥
अस्मासुकृतपुण्यानां महती भवताङ्कृपा ।
स्वयमुत्कण्ठितायूयम्प्रीत्यायत्स्वयमागताः ॥ १३ ॥
धन्योस्मिकृतपुण्योस्मिकृतकृत्योस्मिसर्वथा ।
सत्यं स्वर्गाधिपत्यं भवतामद्यदर्शनात् ॥ १४ ॥
अद्यप्रभृतिनिर्विघ्नम्ममकार्यं भविष्यति ।
निर्विघ्नकरणायूयङ्गणेशाइवनिष्कराः ॥ १५ ॥
आदिशध्वंयथाकार्यकेनयूयं सुदुःखिताः ।
श्रान्ताःक्कान्ताः पथायासादतिम्लानमुखश्रियः ॥ १६ ॥
ऋषय ऊचुः ।
हर्ताकर्तास्वयं शास्ताभवांस्त्रिजगतांविभुः ।
तपःस्वमनुतिष्ठामोभवद्दत्ता भयोत्सवैः ॥ १७ ॥
कदाचिन्मृगयाव्याजाद्राक्षसैः परिवारितः ।
आजगामाश्रमान्नो सौमलोकारिमहाव्यथाम् ॥ १८ ॥
वयं सन्त्रासितास्तेनजीवशेषाइवस्थिताः ।
अतीतानागतज्ञानाद्देवो जानाति वर्तनम ॥ १९ ॥
किम्ब्रूमः कष्टमतुलामास्तान्तौमणिमल्लकौ ।
दुष्टौसुरेन्द्रहन्तव्यौदेवेन श्रीमतात्वया ॥ २० ॥
शक्र उवाच ।
ताभ्यान्तुमणिमल्लाभ्यामब्जयोनिः सुतोषितः ।
एकाङ्गुष्ठेनतपसा धूम्रपानक्रियाविधेः ॥ २१ ॥
नाहन्तयोर्वधार्थाय समर्थोब्राह्मणोत्तमाः ।
पराक्रमदुराधर्षेतपोवीर्यमदोद्धतौ ॥ २२ ॥
विनेश्वरमजेयौतादुष्टदुष्टबलोत्कटौ ।
प्रयातयूयंवैकुण्ठविभुर्नारायणः स्वयम् ॥ २३ ॥
इत्थङ्कदर्शितान्दृष्ट्वा भवतःक्षान्ततेजसः ।
सपक्षपाताद्विप्राणान्दानवान्हं तुमर्हति ॥ २४ ॥
शश्वन्नियोगीतस्याहं स विष्णुर्जगताम्पतिः ।
कर्तुचनैवचाकर्तुमन्यथाकर्तुमीश्वरः ॥ २५ ॥
सृष्टेःकर्तास्वयं साक्षात्स्वयम्पालयिताविभुः ।
हर्ता सौरुद्ररूपेणतस्मानास्त्यपरःप्रभुः ॥ २६ ॥
ऋषय ऊचुः ।
वयङ्किं वैभवं विष्णोर्न विद्यो वेदशास्त्रतः ।
इति हासपुराणेभ्यागमेभ्योविशेषतः ॥ २७ ॥
देवोवदतिकिन्तस्यवात्सल्यञ्चपराक्रमम् ।
अस्माकं दैवयोगेनशक्रोप्यक्षमताङ्गतः ॥ २८ ॥
स्वस्त्यस्तुभवतेशक्रवयंयामोहरेर्गिरिम् ।
जयशत्रुगणान्सर्वान्पा हिसाधुबुधादिकान् ॥ २९ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
शदेओङ्काभिगमनन्नाम द्वितीयोऽध्यायः ॥ २ ॥
३. वैकुण्ठाभिगमनं नाम तृतीयोऽध्यायः
सनत्कुमार उवाच ।
अथतेमुनयः सर्वेवैकुण्ठङ्गगनाध्व ॥ ३ ॥
ना ।
ध्यायन्तश्चित्तपद्मेषु हृषीकेशं सुरेश्वरम् ॥ १ ॥
तेजसासप्तगुणितं सूर्यमण्डलसुन्दराः ।
व्योनोवतेरुः सहसाविष्णोः प्रासादजाजिरे ॥ २ ॥
ददृशुस्तेसभांरम्यां वैष्णवींयत्रराजते ।
सिंहास नसमारूढःपुण्डरीकविलोचनः ॥ ३ ॥
नीलोत्पलदलश्यामोनीलमेघघनच्छविः ।
पीताम्बरकृतोत्तर्यवसनः पुण्यदर्शनः ॥ ४ ॥
चामीकरलसद्दीप्तिः केयूरकटकोज्वलः ।
चं डांशुचण्ड किरणश्चारुकुण्डलमण्डितः ॥ ५ ॥
ज्वलद्रत्नप्रभापुञ्जग्रैवेयकविराजितः ।
गम्भीरनाभिविलसत्रिवलीललितोदरः ॥ ६ ॥
उल्लसत्स्मेरवदनः सुताम्राधरपल्लवः ।
आनन्दानन्दसुखदचन्दनेकविशेषकः ॥ ७ ॥
स्वर्णयज्ञोपवीती चसर्वसौन्दर्यसागरः ।
रत्नमालोज्ज्वलत्प्रांशुः सुवर्णमुकुटाकृतिः ॥ ८ ॥
नारायणः सुराधीशः ऋतुभोक्ताचतुर्भुजः ।
बद्धपर्यङ्कचतुरोनिबद्धस्वस्तिकासनः ॥ ९ ॥
कृताञ्जलिर्वैनतेयः स्वामिनोयस्यसेवकः ।
आसीनः पक्षिराजोसौयज्ञागारेध्वजोयथा ॥ १० ॥
शङ्खचक्रगदापद्मान्यायुधानिसमन्ततः ।
मूर्तिमन्तिसदारेजुस्तेजःपुञ्जाकृतीनिच ॥ ११ ॥
कृपयायेपरेशस्य भक्त्याविष्णोः सनातनः ।
स्वरूपमुक्तिभाजस्तेशङ्खचक्रगदामृतः ॥ १२ ॥
अतसीकुसुमश्यामाः सर्वेकमलधारिणः ।
पीताम् ॥ ३ ॥
बरधराः सर्वेवनमालोपशोभिताः ॥ १३ ॥
किरीटकेयूरधरामणिभूषाविराजिताः ।
विमलाम्भोजनयनाः कुण्डलैः कर्णभूषणाः ॥ १४ ॥
प्रियायेभक्तवात्सल्यादृषयोनारदादयः ।
कपिलाद्याश्वयेसिद्धायेचान्येसनकादयः ॥ १५ ॥
जगुर्गन्धर्वपतयोगीतञ्चित्ररथादयः ।
अङ्गहारैः सुमधुरैर्ललितैः श्रुतितोषकृत् ॥ १६ ॥
प्राङ्गणेननृतुः कान्तानीलोत्पलदलेक्षणाः ।
इवकन्दर्पमत्तास्तास्तारुण्यरस निर्भराः ॥ १७ ॥
चेतांसि व्याकुलीचक्रुर्मुनीनामपिसुन्दराः ।
भ्रमरीवेगतः स्वाङ्गविकीर्णकनकप्रभाः ॥ १८ ॥
नीलजीमूतसुच्छायेस्वामिसेवकसङ्कुले ।
चञ्चलेवहिरेजुस्ताः सभागारेनिजत्विषा ॥ १९ ॥
तस्यां सभायान्दृट्दैवमुकुन्दं सुरपूजितम् ।
प्रणेमुर्गद्गदगिरः कम्पमानाङ्गयष्टयः ॥ २० ॥
गात्रस्वेदजलाकीर्णविकीर्णमुखमण्डलाः ।
रोमाञ्चाञ्चितगात्रास्तेवाष्पपूरितलोचनाः ॥ २१ ॥
निपेतुर्दण्डवद्भूमौक्षणमुत्थायतेपुनः ।
तुष्टुवुः श्रीमहाविष्णुधर्मपुत्राः सुसंयताः ॥ २२ ॥
ऋषय उचुः ।
जयनित्यपरानन्दकुन्दमन्दारजार्चित ।
जयलक्ष्मीकुचाम्भोजराजहं स जगत्पते ॥ २३ ॥
जयनीलोत्पलाभासहासचन्द्रांशुशोभन ।
जयप्रपञ्चरहितत्रिलोकीलोकपालक ॥ २४ ॥
जयखण्डेन्दुसद्भालामितचित्रचरित्रकृत् ।
जयविश्वेशविश्वात्मनविश्वसर्गविधायक ॥ २५ ॥
श्रीभगवानुवाच ।
तुष्टोहमेकभावेनपरिष्वजतमां लघु ।
सङ्कल्पाइवचित्तस्ययूयमे मुनयः सदा ॥ २६ ॥
क्लान्ताः सन्त्रासिताः केनहतभाग्येनदुर्भदात् ।
कृतङ्केनतपोविघ्नं भवश्चित्तसौख्यकम् ॥ २७ ॥
निरूपयततच्छीत्र्येन कुर्मः प्रतिक्रियाम् ।
ऋषय ऊचुः ।
शक्रोविभेतिसमरेयाभ्यान्तौमणिमलकौ ॥ २८ ॥
यस्यमन्त्रीसुराचार्यः सैनिकाअमराः सदा ।
क्षीराम्भोधिसमुद्भूतोवाहनं श्वेतकुञ्जरः ॥ २९ ॥
तथैवोच्चैःश्रवास्तस्यतुरङ्गः सुरसेवितः ।
दुर्गस्वर्गः कल्पशाखी भौरिरुः कुसुमायुधः ॥ ३० ॥
सम्भेदजनकोदूतः परिघायुधमुत्तमम् ।
ताभ्यां युद्धेजितः सोऽपिकथनीयङ्किमस्तिनः ॥ ३१ ॥
वेत्सिसर्वं त्रिकालज्ञयद्वृत्तन्देव केशव ।
नारायण उवाच ।
विख्यातावमुरौधोरौब्रह्माराधनतत्परौ ॥ ३२ ॥
तपः प्रभावेन तयोरजेयत्वमभूत्तदा ।
महेश्वरमृतेतौनोभवेतां मृत्युगोचरौ ॥ ३३ ॥
वयंयूयञ्च कैलासं गमिष्यामोद्विजोत्तमाः ।
तत्रविज्ञाप्यतन्दैत्यौहन्मस्तौमणिमल्लकौ ।
नारायणवचः श्रुत्वा ऋषयः शान्तिमागताः ॥ ३४ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
वैकुण्ठाभिगमनं नाम तृतीयोऽध्यायः ॥ ३ ॥
४. कैलासवर्णनन्नामचतुर्थोऽध्यायः
सनत्कुमारौवाच ।
ततस्तेमुनयः सर्वे नभोमार्गानुगामिनः ।
ददृशुचन्द्रशुभ्रांशु कैलासं गिरिशालयम् ॥ १ ॥
चन्द्रकान्तोत्पलैः शुभ्रैः सञ्जातामलशेखरम् ।
किंवाकर्पूर पूरेण पूरितन्धवलोज्ज्वलम् ॥ २ ॥
अथवामौक्तिकं चूर्णं तेनप्रावरणीकृतम् ।
अमन्दचन्दनस्यन्दसुत्रात इव निर्मलम् ॥ ३ ॥
सारिताराजतीपिष्टिः किंवातस्यामलत्विषः ।
पीयूषरस सन्धौतशिखरालिमितोज्ज्वलम् ॥ ४ ॥
यत्रस्वप्रतिबिं बानिदृष्ट्वागहनकुञ्जराः ।
प्रमत्तादन्त कुलिशैर्जघ्नुः सानूनिलीलया ॥ ५ ॥
विचेरुस्तुरगास्तुङ्गाः कौमुदी महसोज्ज्वलाः ।
उपत्यकायामिवते समीरा मूर्तिधारिणः ॥ ६ ॥
सिद्धामृतस्यकुण्डानिकल्पवल्लीवनाश्रये ।
कल्पभूरुहशाखाग्रच्छायाच्छन्नानिसर्वतः ॥ ७ ॥
चन्द्रकान्त शिलासङ्घबद्धसोपानकाध्वनि ।
कस्तूरीहरिणाश्चेरुः कर्पूरकदलीवने ॥ ८ ॥
चचत्काञ्चनरम्भासुस्वर्णवर्ण फलोत्कराः ।
आचकर्षुः स्वपाकस्यदशया जगतोदृशः ॥ ९ ॥
घनैः फलैरिवानग्रामातुलिङ्ग्यः सकण्टकाः ।
बभुर्घनकुचाः कान्ताः सम्भोगपुलकाङ्किताः ॥ १० ॥
फलोपहारैः क्रमुकाः प्रयच्छन्तीहवर्द्धिताः ।
सुरवर्त्मनिसूर्यायप्रोन्नतास्तेनताइव ॥ ११ ॥
नागवलचञ्चलव्याप्तानारिकेलाः फलोत्कराः ।
एलाकङ्कोलवल्लीनामामोदः प्रसरत्यलम् ॥ १२ ॥
सदाफलरसालानाम्पाकवन्तिफलानिच ।
सिन्दूररञ्जितानीवविरेजुः परितोदिशम् ॥ १३ ॥
महारि सेविनान्तापदलना भुजङ्गावलिभूषणाः ।
शिवाहवशिवोला साविबभुश्चन्दनद्रुमाः ॥ १४ ॥
वनकुञ्जरकण्डूतिकर्मणाभमशाखिनाम् ।
देवदारुतरूणां वै गन्धः शैलेससारखै ॥ १५ ॥
तमालतरुखण्डानिजीमूतपटलान्यपि ।
अविभक्तविवेकानिबभूवस्तत्र चूलके ॥ १६ ॥
मन्दारतरुशाखाग्र कुसुमानिसुयौवनाः ।
चिन्वन्तिचपलापाङ्ग्यः पार्वत्यायत्रसेविकाः ॥ १७ ॥
पार्यातकपरागोत्थपुञ्जपिञ्जरितस्तनाः ।
हरन्तिवनपालानाम्मुनीनाङ्कन्यकामनः ॥ १८ ॥
रामाकटाक्षसम्भमः कृष्णचन्दनचर्चिताः ।
इवाबभौचूततरुः प्रफुल्लः षट्पदान्वितः ॥ १९ ॥
उत्फुल्लफलनप्राणान्निधानानीवतेजसाम् ।
स्वर्णचम्पकवृक्षाणांराजन्तेरत्नवेदिकाः ॥ २० ॥
प्रतिबिम्बितचूतानाम्फलौघान्रत्नसानुषु ।
शुकामोघोद्यमाग्रा से अहोनिर्धारणात्फलम् ॥ २१ ॥
शैवानां शिवपूजासुनिकुञ्जेषु दिवानिशम् ।
भवत्यौषधयोदीपायत्रतैलादिवर्जिताः ॥ २२ ॥
चन्द्रकान्ताश्मशिखरेचं द्रमण्डलवासिनः ।
चेरुः कुरङ्ग्यः सर्वत्र कुरङ्गस्यनिजेच्छया ॥ २३ ॥
कान्ताङ्गसङ्गसञ्जातपुलकस्तनमण्डलाः ।
किन्नयों मरुवृक्षाधः शैवङ्गायन्ति सद्यशः ॥ २४ ॥
गीताकृष्टमृगीणाञ्चलोचनानिस्वलोचनैः ।
उन्मेनिरेविनोदाययत्रविद्याधराङ्गनाः ॥ २५ ॥
सुपुष्पाणाम्माणाञ्चमन्दः परिमलंवहन् ।
निर्ववापश्रमवतः पान्थान्वासन्तिकोमरुत् ॥ २६ ॥
खेलन्तिमुष्टिभिः सिद्धवालिकारत्नसंयुतैः ।
समासनविभागेनछायेत्रिदशवीरुधाम् ॥ २७ ॥
चक्रिरे सलिलक्रीडां यत्र किं पुरुषाङ्गनाः ।
वापीषु कान्तसहिताः स्वर्णसोपानपङ्क्तिषु ॥ २८ ॥
माणिक्यसानुगेहेषु कान्तगण्डस्थलेषु च ।
रूपंविलोक्यगन्धर्वाः स्पृशन्तिदशनक्षतम् ॥ २९ ॥
किराताददृशुर्मार्गसिंहानाङ्करिमर्दिनाम् ।
मुक्तावमद्धिरतुलैः पदैः शोणनखाङ्कुरैः ॥ ३० ॥
चन्द्रचन्द्रोपलस्पर्शजलस्वल्पनदीतटे ।
अमरत्वप्रदानाञ्चकन्दानामुद्गमोऽभवत् ॥ ३१ ॥
अधित्यकासुतुङ्गासुचमर्यश्चारुदर्शनाः ।
विचलन्तिचलचञ्चच्चामरक्षेपविभ्रमाः ॥ ३२ ॥
वृन्दानिकामधेनूनांहरिचन्दनकानने ।
आसीनानिघनच्छायेरोमन्थान्यत्रकुर्वते ॥ ३३ ॥
सुवर्णवर्णाः कपिलाः क्वचिन्मरकतत्विषः ।
कचित्कर्पूरपूराभागावो रेजुश्वभूमयः ॥ ३४ ॥
स्मरन्तोननृतुः प्रावृट्कालंसमदकेकिनः ।
यन्त्रवल्लीतरुस्मेरकुसुमासवसिञ्चनैः ॥ ३५ ॥
शुका इव कथालापान्कीराहं साश्चकोकिलाः ।
चक्रिरे सद्विजाश्रान्ये चूतचूलाग्रनिश्चलाः ॥ ३६ ॥
समाधिशान्तहृदयरहसस्तापसाभुवि ।
निश्चलाइवकुञ्जेषु महेशालिङ्गरूपिणः ॥ ३७ ॥
सालक्तकपदन्यासैर्व्रजन्तीनाम्प्रियान्तिकम् ।
पूजावानिवरक्ताब्जैः शैलोभूत्सिद्धयोषिताम् ॥ ३८ ॥
विकचेषु रसालेषु मकरन्दप्रवर्तिषु ।
काकलीचञ्चरीकाणाञ्जहारयमिनाम्मनः ॥ ३९ ॥
तन्दृष्ट्वाशैलममलंविमलीकृतमानसाः ।
सभामालोकयां चक्रुश्चक्रिणायोजिताद्विजाः ॥ ४० ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
कैलासवर्णनन्नामचतुर्थोऽध्यायः ॥ ४ ॥
५. चन्द्रचूडसभावर्णनन्नामपञ्चमोऽध्यायः
सनत्कुमार उवाच ।
ददृशुस्तेसभांशम्भोर्याकृताविश्वकर्मणा ।
शिलाभीरत्नरूपाभिःक्राञ्चनाद्यैः सचन्दनैः ॥ १ ॥
लसत्सिंहावलीयत्ररचिताप्रथमास्तरे ।
ततः किन्नरपत्रालीततोयुद्धयगजावली ॥ २ ॥
ततस्तुरङ्गपङ्क्तिःस्यात्पत्रवल्लीविलासनम् ।
ततः कमलबन्धश्वरत्नबन्धस्तथोपरि ॥ ३ ॥
निस्तलाञ्छोणललितान्सोमकान्तमयास्तरान् ।
निर्मायसप्तरचिताश्चञ्चत्काञ्चनभूमिकाः ॥ ४ ॥
मुक्तासुधाधवलिताभित्तयःस्फटिकत्विषः ।
माणिक्यवद्धसोपानमार्गाः शुण्डद्वयाङ्किताः ॥ ५ ॥
इन्द्रनीलोपरिस्तम्भोपरिस्तम्भावलिप्रभाः ।
पद्मरागकृतोत्तालकुलिशग्रहणानिच ॥ ६ ॥
जाग्रत्प्रभापुष्परागचतुः पट्टिकसंवृताः ।
दण्डाप्रचण्डाचण्डांशुदृषत्खण्डेर्विनिर्मिताः ॥ ७ ॥
पद्मरागशलाकाभिर्वलभीर्यत्रशोभते ।
इन्द्रनीलकृताः सार्योमुक्तास्तवकसुं दराः ॥ ८ ॥
नीराजनकृतोद्योगाःसौवर्णाःशालभञ्जिकाः ।
कर्पूरपात्रविन्यस्तरत्नदीपानिरन्तरम् ॥ ९ ॥
इत्यादिसप्तभूमीनांशेखरेकनकोद्भवः ।
कलशःसूर्यतेजस्वी पताकाञ्चलवीजितः ॥ १० ॥
यस्यान्देवगुरुर्वक्ताकवि दैत्यगुरुः स्वयम् ।
सकलानाङ्कलानाञ्चज्ञाताविद्वद्विभुर्बुधः ॥ ११ ॥
शिवस्यमान्यः शिरसासर्वज्ञस्यकलानिधिः ।
जगन्निर्वापकत्वंहिगुणः सर्वत्र पूज्यते ॥ १२ ॥
उपतस्थुर्महेशस्य दृगञ्चलमतन्द्रिताः ।
रूपवत्योणिमामुख्याः किङ्कर्य इव सिद्धयः ॥ १३ ॥
मरुतोवसवो रुद्राः सिद्धविद्याधरादयः ।
कुबेरप्रमुखायक्षाहाहाद्याः सुरगायकाः ॥ १४ ॥
एकाग्रमनसस्तिष्ठन्नारदाद्याः सुरर्षयः ।
कुबेरप्रमुखाश्चान्येगीतज्ञाः परितोषकाः ॥ १५ ॥
तिलोत्तमाद्यास्तारुण्यभरस्फारमदोद्धृताः ।
वीक्षन्तेनृत्यसमयं समुदायैर्निजैर्वृताः ॥ १६ ॥
निधयः शङ्खपद्माद्याः कुन्दाद्यामूर्तिधारिणः ।
सेवन्तेशूलिनोदृष्टिम्प्रह्वीकृतमनोम्बुजाः ॥ १७ ॥
इन्द्रः सिंहासनासीनंस्वामिनम्प्रणनामच ।
सहस्रदृष्टिपातेनकराभ्यां जगदीश्वरम् ॥ १८ ॥
ज्वालारोमाङ्कुरः शीत इव शान्त्याकुलाचलः ।
उपतस्थेशिवंयत्ररूपधारीधनञ्जयः ॥ १९ ॥
दंष्ट्राकरालवदनः प्रज्वलद्वह्निलोचनः ।
नमस्करोतिभूतेशङ्कृतान्तःशान्तमानसः ॥ २० ॥
विकोशकरवालेन दीव्यन्मुष्टिवनैरृतः ।
प्रह्वीकृतदृशानित्यमुपास्तेचन्द्रशेखरम् ॥ २१ ॥
अङ्गने परमेशस्य सेकसम्मार्जनादिकम् ।
स्थीयतेकुर्वतोदास्यञ्चरमाचलभूभुजा ॥ २२ ॥
रजोनुजगतः प्राणः सभाजिरगतः क्षणात् ।
समरुचन्द्रचूडस्ययत्रकिङ्करताङ्गतः ॥ २३ ॥
निधीन्सर्वान्पुरस्कृत्यकुबेरो भौरिकींश्रियम् ।
आस्थायलोचनंशम्भोः पर्युपास्तेसुभक्तिमान् ॥ २४ ॥
मार्तण्डचण्डकिरण इवलोकसुखप्रदः ।
मूर्त्याप्रसन्नयायत्रभजतेपार्वतीपतिम् ॥ २५ ॥
स्थितोपिशेखरे शम्भोः कलयामूर्तिमाञ्छशी ।
वृन्देवृन्दारकाणाञ्चसमयेसेवतेशिवम् ॥ २६ ॥
नन्दयन्तिसुराः केचिन्नित्यंसदसिशूलिनः ।
स्वेदक्कान्त्यपनोदायप्रलंव्यव्यजनानिलम् ॥ २७ ॥
सुगन्धिद्रव्यसम्पूर्णास्त्रिदशानाङ्करेस्थिताः ।
तन्वन्तिसौरभन्धूमञ्ज्वलन्त्योधूपवर्तयः ॥ २८ ॥
धारागृहगलद्वारिसीकराचन्द्रिकोज्ज्वलाः ।
निर्वापयन्तिसूर्याभ्योर्मध्यदेशेस्थितान्सुरान् ॥ २९ ॥
उत्तानानिसुरत्नानिदीप्तिमन्तिमहान्तिच ।
वितानस्थानिसुस्थानिजज्वलुर्यत्रसुन्दरे ॥ ३० ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
चन्द्रचूडसभावर्णनन्नामपञ्चमोऽध्यायः ॥ ५ ॥
६. शिववर्णनन्नामषष्ठोऽध्यायः
सनत्कुमार उवाच ।
दृष्ट्वातेत्राह्मणाः शम्भोः संसदरत्ननिर्मिताम् ।
विस्मयम्बहुलञ्जग्मुः कलावद्भिर्निषेविताम् ॥ १ ॥
ततस्तैर्भाग्यसंरम्भैः सभायामभयप्रदः ।
दृष्टः कपर्दीभगवाञ्छृणुध्वं तद्विजोत्तमाः ॥ २ ॥
येनश्रुतेनभवतदुःखोपहतचेतसा ।
कंलिकालाभिभूतानामानन्दोजायतेहदि ॥ ३ ॥
द्वात्रिंशत्सिंहकलितेरत्नपङ्क्तिविराजिते ।
जाम्बूनदसुवर्णेनघटितेनिस्तुलेऽमले ॥ ४ ॥
नानाप्रभासमाकीर्णेविद्युत्पुञ्जज्ज्वलत्विषि ।
मरालगलतूलौघतूलिकोत्तरसुच्छदे ॥ ५ ॥
समासीनंशिवं साक्षाद्ददृशुश्चर्मचक्षुषा ।
धर्मस्यपुत्रास्तेसप्तपूर्वपुण्यफलोदयात् ॥ ६ ॥
कुन्देन्दुचन्द्रिका चक्रकाश्मीरमहसाञ्चयम् ।
पुण्यराशिमिवोत्तुङ्गमुत्तुङ्गस्फटिकोपमम् ॥ ७ ॥
नानाचरित्रयशसामुच्छ्रायोपनतंशिरः ।
क्षुब्धक्षीराब्धिकलोलमालास्नातमिवामलम् ॥ ८ ॥
गोक्षीरधामधवलन्धवलाम्भोजपूजितम् ।
लेपितञ्चन्दनेनेव कर्पूरपुलकार्जितम् ॥ ९ ॥
वीतरागानुरागाणांविराजेतेनिधीइव ।
सरागेयस्यदेवस्य चञ्चचरणयोस्तले ॥ १० ॥
सर्वलक्षणसम्पूर्णेलक्षणातिगतस्यच ।
आरक्ताम्भोजदपौघदलनेशोक सुन्दरे ॥ ११ ॥
तमांसिमानस स्थानिविनश्यन्तिप्रणामतः ।
पादयोर्यस्यनमतान्नखचन्द्रमहांशवः ॥ १२ ॥
कालव्यालमिषेणैवराजतेयस्यतोडरे ।
विश्वग्रासोत्सुकः कालश्चरणेकटकाकृतिः ॥ १३ ॥
आसनम्बद्धपर्यङ्कंस्वस्तिकंस्व ।
स्तिदायकम् ।
सम्यग्विलोकमानानांशम्भोर्यस्यविराजते ॥ १४ ॥
व्याघ्राजिनपरीधानम्भुजं गेनदृढीकृतम् ।
ध्यायताङ्का ममदनन्देवानांयस्यसेविनाम् ॥ १५ ॥
नाभिनासुन्दरन्तुन्दगम्भीरेण अध्यायमनोहरम् ।
वलित्रयविलासेनयस्यविश्वावकाशकृत् ॥ १६ ॥
नाभी हदतटोल्लासानन्दवल्लीवसुं दरा ।
यस्यत्वन्मण्डपंयातारोमराजिर्विराजते ॥ १७ ॥
राजतन्निर्मितंयस्यसुविशालमुरस्थलम् ।
पार्वतीप्रेममञ्जूषाकपाटमिवराजते ॥ १८ ॥
त्रिशूलण्ड मरुङ्खपानपात्रंशरासनम् ।
खाङ्गम्बाणसहितं परशुम्मृगमङ्कुशम् ॥ १९ ॥
दशायुधानियस्यैवंविलसन्तिकपर्दिनः ।
दोर्दडेषु प्रचण्डेषु चण्डाहिवलयेषु च ॥ २० ॥
अम्भोरुहाणाम्पञ्चानामेकनाल इवस्थितः ।
विभातिभक्तवात्सल्याद्यस्यकालगिलद्गलः ॥ २१ ॥
प्रालेयशुद्धमीशस्यकन्दर्पदहनोद्यतम् ।
लोचनत्रितयं यस्यपश्चिमाननमुत्तमम् ॥ २२ ॥
गौरंस तिलकम्पाण्डुगण्डप्रहसितम्मुखम् ।
औत्तरंयस्यदेवस्यवकमलसन्निभम् ॥ २३ ॥
कल्पान्त ज्वलनज्वालातडित्पुञ्जप्रभारुणम् ।
इन्दुगङ्गाजटासपैः पूर्ववत्रंविराजते ॥ २४ ॥
नीलजीमूतसङ्काशञ्ज्वलद्दंष्ट्रंसुभैरवम् ।
सर्पप्रेतकपालालिशेखरन्दक्षिणमुखम् ॥ २५ ॥
व्यक्ताव्यक्तङ्गुणातीतं सगुणं लक्षणातिगम् ।
पञ्चमंवदनंयस्यतडिन्मालाकुलंयथा ॥ २६ ॥
यस्यदेवस्यवामाङ्गसङ्गिनीतिहिमाद्रिजा ।
दिव्यरत्नमणेचञ्च त्प्रभेवप्रतिभातिया ॥ २७ ॥
यस्यामङ्गलसूत्रस्यबलेनगरलम्पपौ ।
कातकालकलालील' त्रैलोक्यग्राससाहसम् ॥ २८ ॥
रतिकन्दर्पयोश्चित्तपझेरक्तांवरद्युतिः ।
तलेचरणयोर्यस्याः सानुरागेदिवानिशम् ॥ २९ ॥
मञ्जीरसिञ्जितंयस्याः पादयोर्विरुदावलिः ।
वाग्विलासायतनुतेनिजाम्माधुर्यतामिव ॥ ३० ॥
बन्धूकपटलालक्तदाडिमीकुसुमोपमम् ।
उवासवसनन्देवीया सन्ध्यारागसन्निभम् ॥ ३१ ॥
पीनोत्तुङ्गेकुचतटेकञ्चुकङ्काञ्चनप्रभम् ।
भां डागारमिवोत्तानंयस्याः कन्दर्पभूभुजः ॥ ३२ ॥
ग्रीवाविलासललिताराजतेमौक्तिकावलिः ।
सौन्दर्य सूत्रङ्कन्दर्पवदनस्तनयोरिव ॥ ३३ ॥
नानारत्नसमुच्छ्रायविस्फुरत्किरणावलिः ।
यस्याग्रैवेयकम्भातिनिधानमिवतेजसाम् ॥ ३४ ॥
यस्याः कनकताटङ्कनेमिमुक्ताफलानिच ।
अनङ्गवक्त्रनिपतन्मनांसीयवतात्मनाम् ॥ ३५ ॥
वदनेमदनोल्लासान्यस्याः कलयितुंशिवः ।
नयनानिवहून्येवबभारजगताम्पतिः ॥ ३६ ॥
विवेयदिस्याच्छशिनोनीलोत्पलदलद्वयम् ।
तदोपमानयनयोस्तस्यस्याच्चारुचक्षुषः ॥ ३७ ॥
यदिशौक्रस्यबिम्बस्यकनकाम्भोजमासनम् ।
भवेन्ना सामणेस्तस्य सादृश्यञ्चम्पकत्विषः ॥ ३८ ॥
मुखचन्द्रामृतस्येवधारा दन्तोच्छलत्विषः ।
यस्याः शिवचकोरायराजतेऽधरपल्लवः ॥ ३९ ॥
उत्तरङ्गैरिवाकीर्णकालिन्द्यानीलिमावृतम् ।
यस्याः कटाक्षविक्षेपैरभूत्प्रतिदिशन्नभः ॥ ४० ॥
अष्टमीचन्द्रसदृशं ललाटम्प्रतिभातियत् ।
ज्यावकार्मुकाकारंयस्याः कुसुमधन्विनः ॥ ४१ ॥
मालतीकलिकागर्भेगुञ्जन्तीभ्रमरावलिः ।
लक्ष्यतेलक्षणोपेतेयस्याश्चिकुरपञ्जरे ॥ ४२ ॥
अगाधेस्मिन्सुधासिन्धौगङ्गेवैकमुखीशिवा ।
शिवेमिलद्रसमयीरोमाञ्चैः पुलकाङ्कितैः ॥ ४३ ॥
विद्याविद्याधरैर्वैद्यादेवानामधिदेवता ।
जगन्मन्दिरनिर्माणस्थाणौयाशालभञ्जिका ॥ ४४ ॥
याचैतन्यकलाविश्वरूपिणः परमेशितुः ।
नित्यासत्यास्वयम्मायामोहिनी लीलयाशिवा ॥ ४५ ॥
तयान्वितंशिवन्दृष्ट्वा कृतकृत्यामुनीश्वराः ।
पेतुस्तेदण्डवद्भूमौवाष्पपूरितलोचनाः ॥ ४६ ॥
उत्थापिताभृङ्गिणातेपृष्ट्वाकेयूयमित्यपि ।
विप्राः प्रवेशिताः स्वर्णवेत्रहस्तेननन्दिना ॥ ४७ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
शिववर्णनन्नामषष्ठोऽध्यायः ॥ ६ ॥
७. शिवविज्ञापनोनामसप्तमोऽध्यायः
सनत्कुमार उवाच ।
कथन्तेमुनयः सप्त तन्दृष्ट्वागिरिजापतिम् ।
स्तोत्रम्प्रचक्रुर्भावेनशुद्धेनजगतां विभोः ॥ १ ॥
ऋषय ऊचुः ।
नमोस्तुते महादेवनमस्तेजगदीश्वर ।
नमोस्तुतेजटाजूटसंराजचन्द्रभूषण ॥ २ ॥
नमो रुद्राय महते नमस्तेगिरिजाप्रिय ।
नमस्तेजगतान्नाथनमस्तेभक्तवत्सल ॥ ३ ॥
नमस्ते देवदेवेशनमस्ते लोकपालक ।
नमस्तेजगदाधारनमस्तेवरदेश्वर ॥ ४ ॥
नमस्तेभूतभव्येशनमस्ते भूतभावन ।
नमस्त्रिपुरहन्त्रेचनमस्तेत्रिदशेश्वर ॥ ५ ॥
नमस्तेस्तुज्ञानदात्रेनमस्तेवाग्विभूषण ।
नमस्तेवेदविदुषेनमस्तेवेदधारिणे ॥ ६ ॥
नमस्ते भूतदमननमस्तेसुरमर्दन ।
नमस्तेजगदाधारनमस्ते जगताम्प्रिय ॥ ७ ॥
नमः पिनाकहस्तायनमस्तेकृत्तिवाससे ।
नमोऋषिगणाध्यक्षनमस्ते सन्मुनिप्रिय ॥ ८ ॥
नमस्तेमुनिपालायनमस्तेमुनिसंश्रय ।
नमस्तेवरदेशायनमस्तेधर्मपालक ॥ ९ ॥
नमस्ते धर्मकर्तृणाम्मार्गादेशकरप्रभो ।
नमस्तेस्तुतपःप्राप्यनमस्तेतापसप्रियः ॥ १० ॥
नमस्तपोनिधानायनमः पालायते नमः ।
सृष्टिस्थितिविनाशानाङ्कत्रे तुभ्यन्नमोनमः ॥ ११ ॥
सभामध्यगतान्दृष्ट्वाविह्वलीकृतमानसः ।
उवाचब्राह्मणाञ्छम्भुः केनयूयंसुदुः खिताः ॥ १२ ॥
ऋषय ऊचुः ।
मणिमल्लौमहादैत्यौमणिशैलाधिवासिनौ ।
ब्रह्माणन्तपसाराध्यतावजेयत्वमागतौ ॥ १३ ॥
नवध्यौपञ्चवक्रेणचतुर्वक्त्रेणवाक्कचित् ।
षण्मुखेनदशास्येनदशबाहुवतापिवा ॥ १४ ॥
सहस्रबाहुनावापिदेवधुर्येण केनचित् ।
राक्षसेनापिमनुजैः सिद्धविद्याधरादिभिः ॥ १५ ॥
वरदानव लोन्मत्तौदुर्मदोदुष्टमानसौ ।
ताभ्याम्महीतलेराज्यङ्क्रियतेलोकपीडनम् ॥ १६ ॥
याभ्याम्बिभेतिशकोपिनृपाणान्तत्रकाकथा ।
ऋषीणामाश्रमाः सर्वेविध्वस्तास्तेनपीडिताः ॥ १७ ॥
उन्मूलितानिलिङ्गानिस्वयम्भूनिविनोदतः ।
जलतीर्थेषु रम्येषु विचेरुः कुञ्जरास्तयोः ॥ १८ ॥
तयोरनुचरैः स्वर्गात्केशाकर्षणविह्वलाः ।
दिव्याः सुरविलासिन्योभुक्ताः प्रापय्यभूतलम् ॥ १९ ॥
पानकेलिविलासायप्रेमपात्रम्मरुत्वतः ।
आनीतममरावत्यामेनकाख्यम्मनोहरम् ॥ २० ॥
प्रत्यहन्नन्दनोद्यानात्तत्तुष्टयैकुसुमानिच ।
पारिजातस्यमघवाप्रस्थापयतितद्भयात् ॥ २१ ॥
आसेवायघटीर्वद्धास्तद्धृत्यैः कल्पशाखिनाम् ।
दातव्यङ्कल्पितन्तैर्हिसुष्टदुष्टमथापिवा ॥ २२ ॥
निक्षेपितः सुरमणिः कञ्चित्कालम्मरुत्वता ।
संरम्भाच्चैववैकुण्ठसुराणां सुरभिर्ययौ ॥ २३ ॥
पीयूषरसपूर्णानिस्वर्णवर्णानिनित्यशः ।
अत्यर्पयतिसुत्रामाप्रीत्या भीत्याफलानिच ॥ २४ ॥
यत्किञ्चिन्नागलोकेस्मिन्नपूर्वंवस्तुसुन्दरम् ।
भोग्यन्तयोर्विभोगायशक्रः प्रापयतिक्षणात् ॥ २५ ॥
अभिस्तयोः प्रतापेनदाहभीत इवानिशम् ।
सुकम्पमानहृदयः स्वाम्पुरीमधितिष्ठति ॥ २६ ॥
विश्वसंहाररसिकः कृतान्तः शासनात्तयोः ।
नविभर्तिकरेदण्डं चण्डविक्रममण्डलम् ॥ २७ ॥
कोणेशः कौणपोजातिमात्रभावेनगोचरः ।
दानादानादिकं प्रेमतनुते सततन्तयोः ॥ २८ ॥
वरुणोवारुणी भ्रान्त इवभीत्यैववेपते ।
शिरसावन्दतेसम्यक्तदादेशविचेष्टितम् ॥ २९ ॥
सर्वदा सर्वगोवायुस्तत्कान्तासुरतश्रमम् ।
हरतेस्वल्पभावेन भयोत्कर्षमुपागतः ॥ ३० ॥
सम्प्रापयतियक्षेशः प्रीत्यैवभयगर्भतः ।
नृत्यगीतेषु चतुराः कामिनीरलकापुरात् ॥ ३१ ॥
माणिक्यदीप्तिरत्नानिचिन्तामणिसमानिच ।
ददात्यब्धिः किमाश्चर्यययोरिन्द्रोऽपिसेवकः ॥ ३२ ॥
तपोव्ययभयाद्दैत्यान्नशपतिमुनीश्वराः ।
शूनिदण्डाहतेशौचहानिः किन्नैवजायते ॥ ३३ ॥
तयोर्मुख्यस्तुमल्लाख्यः समदोपिप्रतापवान् ।
आश्रमान्नः समभ्येत्यनानादुः खन्तदाकरोत् ॥ ३४ ॥
सर्वज्ञः सर्वदर्शी त्वंयहृतन्त्तन्नवेत्सिकिम् ।
सर्वथापीडितास्तेन त्वयिस्वामिन्यनाथवत् ॥ ३५ ॥
कथंयामः कथन्देवज्ञातात्वं दोषदण्डयोः ।
तेषामितिवचः श्रुत्वा शिवोवचनमब्रवीत् ॥ ३६ ॥
श्रीशिव उवाच ।
महतात्राह्मणादुष्टकर्मणाभिगतायुषा ।
भग्नास्तेनमनोरम्यारुद्र हंसस्यपञ्जराः ॥ ३७ ॥
प्रध्वस्तामममलेन कालसर्पस्यपेटकाः ।
विप्रालौल्यवशेनेवमूषकेणक्षतायुषा ॥ ३८ ॥
दैत्याधमङ्ग्रसामीतिसाट्टहासंसमुत्थितः ।
जटाः सन्त्रासयामासफटाटोपाहिनाभुवि ॥ ३९ ॥
अजायतमहामहारि मारीदीप्तदावानलप्रभा ।
सिक्तातैर्मुनिभिर्दीप्तैरोषोत्कर्षेण सर्पिषा ॥ ४० ॥
ततः साघृतमारीतिनामधेयमुपागमत् ।
दंष्ट्राकरालवदनाजिह्वाललनभीषणा ॥ ४१ ॥
नानायुधधरात्युग्राशतभैरवनादिनी ।
ज्वलच्छिखेवकल्पामेर्वर्द्धिताभुवनत्रये ॥ ४२ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
शिवविज्ञापनोनामसप्तमोऽध्यायः ॥ ७ ॥
८. शिवसैन्यवर्णनन्नामाष्टमोऽध्यायः
सनत्कुमार उवाच ।
शृणुध्वन्त्राह्मणायूयङ्कलिसन्तप्तमानसाः ।
कलौसिद्धिप्रदन्नृणां भक्त्यायत्स्वल्पयापिवा ॥ १ ॥
मार्तण्ड भैरवरूपन्दधारसहसाविभुः ।
महाहिवलयोत्तर्यञ्चण्डमार्तण्डकुण्डलम् ॥ २ ॥
डमरुत्रिशूलसहितङ्खङ्गपात्रसुशोभितम् ।
तप्तकाञ्चनसङ्काशम्मुण्डमालाविभूषितम् ॥ ३ ॥
माणिक्यपङ्क्तिसदृशन्दशनावलिशोभितम् ।
खण्डेन्दुशेख रन्त्र्यक्षम्महामुकुटमण्डितम् ॥ ४ ॥
वसन्त खेलनोडूलद्रजनी चूर्णगुण्ठितम् ।
तापिच्छछविपिच्छालिचलच्चामरवीजितम् ॥ ५ ॥
उत्तुङ्गस्तनसम्भारतरुणीकरपल्लवैः ।
क्रुध्यमानमहारावसारमेयसमाकुलम् ॥ ६ ॥
सप्तकोटिगणाकीर्णं पिशाचावलिपालितम् ।
एवमास्थायतद्रूपं तेजसातीवभासुरम् ॥ ७ ॥
सूर्यकोटिप्रतीकाराञ्चन्द्रकोटिसमप्रभम् ।
आदिदेशसुरान्सर्वान्निर्यातसमरोद्धुराः ॥ ८ ॥
शस्त्रैरस्त्रैः समायुक्तावाहनैः स्वैरलङ्कृताः ।
सन्नाहैर्वज्रकवचैस्तडिद्दीप्तिसमप्रभैः ॥ ९ ॥
अथतेत्रिदशाःसर्वेनिजसेनासमावृताः ।
सैनिकाः समरानन्द सन्दोहेर्मुहुरावभुः ॥ १० ॥
उपत्यकासुकैलासगिरेः सुसमभूमिषु ।
तेषांसेनापृथक्स्वामीदर्शयामासशूलिनः ॥ ११ ॥
आरूढस्यवृषस्कन्धेक्रोधज्वलितचक्षुषः ।
मयूरचामरस्फारप्रभामुकुटशोभिनः ॥ १२ ॥
शुभ्रांशुमण्डलाकारधवलछत्रशोभिनः ।
प्राक्प्रतापयशः पाटबन्दिसं घनुतस्यच ॥ १३ ॥
स्कन्द उवाच ।
मयूरवाहनादेवाः शक्तिकुन्तायुधोद्यताः ।
उल्लसन्नीलसन्नाहावीरास्तेममसैनिकाः ॥ १४ ॥
आदिगन्तङ्गजारूढास्फूर्जत्कुलिशशोभिताः ।
शोभतेपलवछत्रैर्देवेन्द्रस्यचमूरियम् ॥ १५ ॥
गतेर्विलासं कुर्वतितुरङ्गाः सादिनोदिताः ।
मनोरथमयंयन्त्रसासेनावज्रिणोपरा ॥ १६ ॥
शक्तिशस्त्रज्वलद्दीप्तिर्वाहिनीमेषवाहना ।
दावदीप्ताद्रि सङ्काशा सेनेयं जातवेदसः ॥ १७ ॥
गलघण्टालुललोलनादसैरिभभासुरा ।
प्रचण्डोदण्ड दोर्दण्डासेनेयंशामनीविभो ॥ १८ ॥
दंष्ट्राकरालवदनं क्रव्यादबलमुत्कटम् ।
दर्पधारावली खङ्गदेवनैरृतमास्थितम् ॥ १९ ॥
चलत्पाशावलीहस्तावारुणीयमनीकिनी ।
कुङ्कुमारुणनासीराराजतेचन्द्रशेखर ॥ २० ॥
ध्वजपल्लवसञ्छन्नासेनेयन्तातवायवी ।
ध्वजायुधामहाघोरामर्मराभासुरारुणा ॥ २१ ॥
चञ्चत्काञ्चनसन्नाहाकाञ्चनछत्रभूषिता ।
स्वर्णोदग्राङ्कुशैर्भातिसेनेयन्नारवाहिनी ॥ २२ ॥
यत्रद्रुमुखावाहागजास्यायत्रसादिनः ।
दीप्ताङ्कुशकुठारश्रीलम्बोदरचमूरियम् ॥ २३ ॥
मृगास्यास्तुरगायत्रछत्राणिधवलानिच ।
चामराणिप्रभावन्ति साचान्द्रीसबलाचमूः ॥ २४ ॥
स्यन्दनाःसप्ततुरगास्तडिन्मालोल्लसत्प्रभाः ।
उल्लोलछत्रसङ्काशाहरिदश्वस्यसाचमूः ॥ २५ ॥
हंसकान्तिमयोत्तुङ्गास्तुरगायत्रकुञ्जराः ।
अब्जयोनेरियंसेनाकमण्डलुकृतध्वजा ॥ २६ ॥
नीलमेघाञ्जनच्छायसन्नाहाशङ्खचक्रिणी ।
देवपीताम्बरच्छन्नासेनागारुडवाहिनी ॥ २७ ॥
शूलखट्वाङ्गहस्तेयङ्गजचर्मपरिच्छदा ।
सेनेयन्तावकीशम्भोलोचनत्रयभूषिता ॥ २८ ॥
इतिदर्शयतिस्कन्धेक्रोधान्मलवधोद्यतः ।
मार्तण्ड भैरवः शीघ्रं ययौमणिमयाचलम् ॥ २९ ॥
चलन्तिरौद्रा वेताला भूताः प्रेताश्चडामराः ।
शाकिन्योमातरोत्युग्रानानायुधकरोद्यताः ॥ ३० ॥
भ्रमत्खवाङ्गहस्ताग्राः केचिन्मुसलपाणयः ।
चलच्छक्तिधराः केचित्केचित्परशुधारिणः ॥ ३१ ॥
त्रिशूलतुलनोत्साहाः केचिल्लाङ्गलपाणयः ।
शोभितामुद्गरैः केचित्केचित्तुङ्गगदाधराः ॥ ३२ ॥
केचिल्लोहार्गलास्कन्धाश्चक्रचालनतत्पराः ।
शङ्खचक्रभृतः केचित्कालदण्डास्त्रमण्डिता ॥ ३३ ॥
केचिच्चशवराभिल्लाः कुन्तपट्टिशधारिणः ।
धनुर्बाणधराः केचिद्धिण्डिमालाकरोद्यताः ॥ ३४ ॥
चर्मखड्गधराश्चान्येखेटकुन्तामहाबलाः ।
मुद्गरान्भ्रामयत्येकेकेचित्कङ्कणदण्डकान् ॥ ३५ ॥
नाभिचुंविप्रलम्बोष्ठादंष्ट्रालं कृतवक्षसः ।
केचित्प्रचण्डनयनाव्याजृम्भास्याश्चकेचन ॥ ३६ ॥
केचिद्विस्तृतसिंहास्याः केचिद्वीराः षडाननाः ।
शुण्डानासावक्रतुण्डास्त्रिशीर्षाः सप्तशीर्षकाः ॥ ३७ ॥
षट्सप्ताष्टकराः केचिद्विलंविहनुकुन्तलाः ।
ललाटभृङ्गविकृताः केचिद्भालविलोचनाः ॥ ३८ ॥
केचिद्धर्घरिकावक्चानाभिस्पृग्रसनाञ्चलाः ।
तिर्यक्कूर्चछटाटोपाजटाछन्नाङ्गयष्टयः ॥ ३९ ॥
केचिदूर्ध्वकराक्रूराकेचिद्दीप्तविलोचनाः ।
मुण्डमालाधराः केचित्केचित्कर्णावृताननाः ॥ ४० ॥
केचिदूर्ध्वपदाःशीर्षकरयानमहोत्कटाः ।
केचिन्नीलाननाः केचिद्रक्ताङ्गादन्तुराननाः ॥ ४१ ॥
केचिद्रलण्ड भूषाङ्गाववल्गुः सत्वसम्भ्रमाः ।
महामान्यामहोत्साहामहादेवात्मजाइव ॥ ४२ ॥
त्रिसप्तन३ वजिह्वाश्चपञ्चसप्तदशाधराः ।
चतुष्कर्णास्त्रिकर्णाश्चज्वालास्याः पञ्चतुन्दिलाः ॥ ४३ ॥
वाद्यत्सङ्ग्राममुरजाध्वनिनाद्यामपूरयन् ।
रणदुन्दुभयोढक्कानिः साणाघनघोषिणः ॥ ४४ ॥
उद्घोषारणकङ्कालारणतालाः सुनादिताः ।
जयघण्टादिवाद्यानियुगपद्दध्वनुस्तदा ॥ ४५ ॥
रेणुश्चरणमोहेयाजुघुषुर्युद्धभैरवाः ।
सस्वनुर्युद्धकांसोलाश्चक्कणूरणघोलकाः ॥ ४६ ॥
तथापिनाकिवाद्यानिजगर्जुडिण्डिमादयः ।
ववदुर्दीर्घशृङ्गाणितस्तनुः पटहादयः ॥ ४७ ॥
गगनम्प्रावृतम्भातिनानावर्णध्वजाञ्चलैः ।
शूलिनःक्रोधवीरस्यवितानमिवविस्तृतम् ॥ ४८ ॥
छत्रैर्मूर्धसुवीराणाञ्चलद्भिःस्वर्णदण्डकैः ।
चन्द्रिका पूरितंव्योमतदाभूद्रजनींविना ॥ ४९ ॥
शिरस्सुरथिनान्तद्वत्करिस्कन्धाधिरोहिणाम् ।
चलन्मयूरकुञ्चानान्दीत्याशून्यमभूद्वनम् ॥ ५० ॥
ततः फणिफणाटोपैः पृथिवीमज्जनोन्मुखी ।
वराहदंष्ट्रा भङ्गश्चचतुरङ्गस्यभारतः ॥ ५१ ॥
सेनाघोषेणदुग्धाब्धिः क्षोभितोमधुसूदनः ।
तेनैव जागराञ्चक्रे शेषपर्यङ्कलालितः ॥ ५२ ॥
जङ्गमागिरयोनीलाइवधावन्तिकुञ्जराः ।
महावदङ्कुशानुग्रानगणय्य मदोद्धृताः ॥ ५३ ॥
तत्रतेषामभून्मार्गेमदासारैस्तरङ्गिणी ।
ताञ्चतेरुर्हयाःसादियुक्तायद्युद्धरंहसः ॥ ५४ ॥
क्षुभ्यद्वाहखुराघातैवर्णीभूताश्मः जंरजः ।
घर्षणैश्चक्रनेमीनामस्पृशद्दिवमध्वनि ॥ ५५ ॥
इत्यस्वल्पबलोपेतं श्रीमन्मार्तण्ड भैरवम् ।
विलोक्यानुचरामलङ्कथयामासुरासुराः ॥ ५६ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
शिवसैन्यवर्णनन्नामाष्टमोऽध्यायः ॥ ८ ॥
९. दैत्यसैन्यवर्णनन्नामनवमोऽध्यायः
सनत्कुमार उवाच ।
अथागतं महेशस्य सैन्यंसर्वदिगन्तरात् ।
असङ्ख्येयमनाख्येयं दीप्तशस्त्रावलीवृतम् ॥ १ ॥
इतितङ्कथयामासुर्दैत्यानामधिपेश्वरम् ।
मलन्तस्यासुरें द्रस्यदूताविभ्रान्तचेतसः ॥ २ ॥
मल्ल उवाच ।
कोसौमहेशः किंसैन्यंवृषभेणसमृद्धिमान् ।
यस्यप्रावरणं भस्म भूषणानिभुजङ्गमाः ॥ ३ ॥
इतिवित्तपतेर्वैरंरङ्कोयङ्कथयत्यलम् ।
रेदूताहनतैनंहिविपरीतार्थभाषिणम् ॥ ४ ॥
सुहृदाममतस्याद्रिः कैलासोभुजपञ्जरे ।
निधायान्दोलितस्तस्यबलम्मत्पुरतः कथम् ॥ ५ ॥
अथासौलीलयोत्तिष्ठन्नुत्तुङ्गशिखरङ्गतः ।
तस्मादालोकयामासशं भोः सैन्यं सदैत्यराट् ॥ ६ ॥
तद्दृष्ट्वानिर्भयोदैत्यः शूरेभ्योदत्तवान्गजान् ।
सुरार्दनायशूराय ददावेरावतङ्गजम् ॥ ७ ॥
निर्जरध्वंसिनेवैरिसेनाकोलाहलाभिधम् ।
विद्युत्पातायशकटं चतुर्वाजिविराजितम् ॥ ८ ॥
उद्धृतायचमलायचतुर्दतम्महागजम् ।
देवशल्यायवीराय ददौसुरपतेर्गजम् ॥ ९ ॥
तस्मैचवाजीचित्राङ्गोदत्तः काश्मीरसद्वपुः ।
रत्नकाञ्चनपल्याणसंराजत्पृष्ठमण्डलः ॥ १० ॥
कुञ्जरंसैरिभास्याय हिमवन्तम्महाबलम् ।
इन्द्रगोपन्तुरङ्गञ्चचतुश्चामरवीजितम् ॥ ११ ॥
सुरेन्द्रदर्पदलनो बहूनांरक्षसाम्पतिः ।
तस्मैकर्पूरतिलकंवाजिनञ्चगजाधिपम् ॥ १२ ॥
चामराणिप्रभावन्ति सन्नाहंसूर्यतेजसम् ।
वैरिदर्पहरङ्खताम्बूलंशशिनासह ॥ १३ ॥
सुरग्रासायदेवारिंहस्तिनं जयमङ्गलम् ।
अश्वञ्चन्द्रांशुसन्नाहं भलन्निजकरेस्थितम् ॥ १४ ॥
नरविध्वंसकायेभं कस्तूरीकवचाभिधम् ।
नन्दनोद्यानदलनं कुञ्जरञ्चमहामदम् ॥ ५ ॥
वाहैश्चतुर्भिसंयुक्तम्पझरागसमप्रभैः ।
काम्बोजैचण्डकोपायरथञ्चविजयध्वजम् ॥ १६ ॥
सिन्धुनादायमत्तालिमालाव्याकुलिताननम् ।
प्राक्सङ्ग्राममहाशौर्यपरितोषेण सिन्धुरम् ॥ १७ ॥
इन्द्रनीलप्रभावाहाः शिविरङ्कनकप्रभम् ।
यस्यतंस्यन्दनवरम्प्रायच्छगोमुखायच ॥ १८ ॥
यत्रसिन्दूरवर्णाश्चश्यामकर्णामरुज्जवाः ।
तंरथं धूम्रवर्णायगजन्नीलगिरिन्ददौ ॥ १९ ॥
उल्लसन्नीलमकरंस्वर्णवर्णाश्वभूषितम् ।
कृष्णध्वजंरथंशूर्पकर्णायव्यतरत्तदा ॥ २० ॥
ज्वालामुखः शूलजिह्वः सुरारिः सुरसूदनः ।
करालः पावकाक्षश्चशक्तिदण्डः प्रतापवान् ॥ २१ ॥
भीमाक्षोभीषणमुखोदेवमलोबुधान्तकः ।
निर्जरारिर्गजमुखोरक्ताक्षस्त्रिदशार्दनः ॥ २२ ॥
कलाध्वंसीकुम्भनासः सिंहपादो मरान्तकः ।
खराननः खररथः खररोमाखरान्त्रियुक् ॥ २३ ॥
ऊर्ध्वकेशः सप्तबाहुनववक्रश्चतुर्भुजः ।
हलदन्तः क्रूरदृष्टिलाङ्गलीकलभाननः ॥ २४ ॥
वक्रदन्तः खरनखः खड्गकेशः सुराननः ।
असिजिह्वःकुं तजिह्वः कूर्मकर्णस्त्रिलोचनः ॥ २५ ॥
उदग्रास्योदुर्भदचचामरश्मश्रुरुन्नतः ।
व्यात्रांश्रिदुर्धरोदुष्टः शूलरोमाविनाशिकः ॥ २६ ॥
त्रिनासःसप्तरसनस्त्रिशिराश्चचतुः शिराः ।
विद्युत्केशोज्ज्वलद्दष्टोव्याघ्रवक्त्रःसुदुर्मतिः ॥ २७ ॥
दुर्मुखः शरभाकारः पवित्रासिबृहज्जटः ।
तडित्कर्णः क्रोधमूर्तिः पाशकर्णः प्रमोटकः ॥ २८ ॥
सिंहनादः क्रूरनादः खरनादोश्वहेषितः ।
गुण्डाहस्तः क्रोशवाहुस्तडीक्षास्त्रिपाइली ॥ २९ ॥
नीलाननस्तित्तिराङ्गस्त्रिकर्णश्चण्डविक्रमः ।
श्वेतोदरःक्षताक्षश्चधूम्राशीवीरखादनः ॥ ३० ॥
सुग्रीवः शृङ्खला हस्तः शूलग्रीवः शिवारुतः ।
क्रोशमूर्तिर्महा मूर्तिर्नभोमूर्तिर्महोत्कटः ॥ ३१ ॥
इत्याद्यनेकदैत्यौघानवाजिकुञ्जरचामरैः ।
केयूरशस्त्रसन्नाहैः प्रियवाक्यैः सदुक्तिभिः ॥ ३२ ॥
वस्त्रालङ्कृतिताम्बूलैरर्हयामासतत्क्षणात् ।
आदिदेशततः सर्वांस्त्वर्यतां लघुसङ्गरे ॥ ३३ ॥
स्वयमारुह्यचोत्तुङ्गंसहस्राक्षं महारथम् ।
सर्वशस्त्रास्त्रसम्पूर्णम्मन्त्रयन्त्रविधानवित् ॥ ३४ ॥
क्षणम्मल्लासुरोदैत्यस्तेजसादीर्घतोबभौ ।
निर्वाणसमयम्प्राप्तः प्रदीप इवदुःसहः ॥ ३५ ॥
तद्वच्चमणिदैत्येशः कुञ्जरस्कन्धलालितः ।
चलच्चामरवृन्दानियद्गजेविलसन्तिच ॥ ३६ ॥
तत्सेनावाद्यनिर्घोषैः क्षुभितास्तोयराशयः ।
वेमुर्जलतुरङ्गालिमिषेणसहसातदा ॥ ३७ ॥
उच्छलत्तुङ्गसलिलप्रकाशद्रवजातयः ।
आलिलिङ्गहरेः कण्ठलक्ष्मीर्दुग्धाम्बुधिस्थिता ॥ ३८ ॥
आरक्तनीलपीताभैःछत्रैरापूरितन्नभः ।
सिंहनादैश्वदैत्यानाम्प्रतिशब्दैर्महीभृताम् ॥ ३९ ॥
शिखराणिजहुस्तेषांसहसा वासलालसः ।
उद्वेजिनः किन्नरास्तेसेनाघोषैर्दिवंययुः ॥ ४० ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
दैत्यसैन्यवर्णनन्नामनवमोऽध्यायः ॥ ९ ॥
१०. मल्लासुरसैन्यवधोनामदशमोऽध्यायः
सनत्कुमार उवाच ।
शृणुध्वम्ब्राह्मणादुष्टकलिकालमलापहम् ।
चित्रञ्चरित्रम्मल्लारेः श्रोतॄणां सर्वकामदम् ॥ १ ॥
सप्तकोटिगुणाकीर्णोदेवोमार्तण्ड भैरवः ।
ततः सैन्याधिसङ्केन मल्लोदैत्यः परिवृतः ॥ २ ॥
रोषेणतेमहासैन्येमीलितेतुपरस्परम् ।
सिंहनादैश्ववीराणां भूतलम्बधिरीकृतम् ॥ ३ ॥
मिथोमकरतुण्डानां सङ्घट्टैश्वशिरांसि ।
फेलरुद्दोलयामासुर्ध्वजानामुन्नताञ्चलाः ॥ ४ ॥
ललाटपट्टान्यमिलन्कुञ्जराणांसमन्ततः ।
आचकर्षुर्महावन्ताः स्वाङ्कुशैरङ्कुशान्मिथः ॥ ५ ॥
योधाः कुन्तैश्चशूलैश्चताडयामासुरद्भुतम् ।
स्वैरङ्कूर्चकचाक्रान्ताअन्योन्यमतुलोत्सवाः ॥ ६ ॥
शुण्डादण्डान्कुञ्जराणान्निर्जघ्रः करवालतः ।
नाडीर्वामकराग्रेणधारन्धारम्महायशः ॥ ७ ॥
चिखेलगोलैर्लाक्षायाः कालवाल इवाजिगः ।
मिलत्कपोलनिनदैः कुञ्जरैः कुङ्कुमारुणैः ॥ ८ ॥
कल्पान्त इवतत्रासीत्सङ्ग्रामेविश्वभीषणे ।
टणत्कारैश्चशस्त्राणां भीरुणांव्याकुलात्मनाम् ॥ ९ ॥
विचकेरुर्विस्फुलिङ्गाः शस्त्रसङ्घट्टसम्भवाः ।
रणाङ्गणे रजः कीर्णं खद्योताइवतेनिशि ॥ १० ॥
कुञ्जरस्कन्धसंरूढाःकालसन्नाहसंवृताः ।
ववर्षुः समरेयोधाः शरधाराइवाम्बुदाः ॥ ११ ॥
निजघ्नुःसादयःसादीन्नलैः खङ्गैर्भुशुण्डिभिः ।
चक्रिकामुष्टिघातैश्चघनकङ्कणदण्डकैः ॥ १२ ॥
आमुष्टियमदंष्ट्राणाम्प्रहारैर्दारुणैर्मिथः ।
अत्यासन्नतुरङ्गा स्तेकेशाकेशिमहाबलाः ॥ १३ ॥
वाणैरुत्तमलोहाग्रैर्विविधुस्तुरगान्मिथः ।
रथिनः सारथीन्रोषाद्रथीनान्तुमुलोत्सवे ॥ १४ ॥
बभञ्जुःशूलशकटान्कृत्तिकाशतशोभितान् ।
धावत्पदातिवृन्दानिपक्षैरावृत्यघोटकान् ॥ १५ ॥
अहोपदातयः शूरालोहसन्नाहसंवृताः ।
निर्जघ्नुःक्षुरिकाघातैस्तुरगान्सादिनोदितान् ॥ १६ ॥
ज्वलत्फलाभिर्भल्लीभिःकुञ्जरान्समराजिरे ।
धनुयस्फालमुक्ताभिस्ताडयामासुरद्भुतम् ॥ १७ ॥
तीक्ष्णशूलप्रहारैश्चरथिनःसहघोटकान् ।
जीविताशाम्परित्यज्यप्रजघ्नुश्चक्ररक्षकान् ॥ १८ ॥
अक्षान्विघटयामासुःकुठारैरतितीक्ष्णकैः ।
सोढारोस्त्रप्रहाराणांस्यन्दनानाम्पदातयः ॥ १९ ॥
केचित्कांश्चिच्चमुसलैः शूलैर्लोहार्गलादिभिः ।
समरेचूर्णयामासुः प्रहारारुधिरारुणाः ॥ २० ॥
केचित्खट्टाङ्गसञ्जातैर्घातैः शीर्षाण्यचूर्णयन् ।
तथानिष्कासयामासुर्वहिर्लोचनपिण्डकाः ॥ २१ ॥
कांश्चिदेकेहलाग्रैश्चव्याचकर्षुः पदातयः ।
तांस्तान्निहन्युरपरेनिस्त्रिंशैरस्त्रचञ्चुरैः ॥ २२ ॥
केचिच्चक्राणिमुमुचुस्तीक्ष्णधाराणिपजवाः ।
विसखुस्तान्परेशस्त्रैर्नित्यंसङ्ग्रामपण्डिताः ॥ २३ ॥
आफलम्भलघातेननिर्गच्छम् तियथातथाः ।
जघ्नुः कराभ्यांसुभटाः कांश्चिदेकेपरस्परम् ॥ २४ ॥
ज्वलन्निस्त्रिंशसञ्जातघातैः क्षुण्णाङ्गयष्टयः ।
परेषाङ्घोण देशस्थं सरोषाद्रुधिरम्पपुः ॥ २५ ॥
हाकेचिदूरुसन्देशपीडनादहरन्नसून ।
अन्येषाङ्कोपबहुलाः पतिताद्यवनीतले ॥ २६ ॥
उदथैरङ्कुशैरुयान्पराक्रमवतोद्विपान् ।
बबन्धुः पाशजालेनविषयानिवयोगिनः ॥ २७ ॥
झलझलायमानांशुसन्नाहानुद्यतायुधान् ।
केचिदुलोलयाञ्च कुत्रिशूलाग्रेणभेदितान् ॥ २८ ॥
सेहिरेपतिताञ्छीषेङ्गदाघातान्भ्रमप्रदान् ।
धीमन्तोदुर्वचांसीवतत्प्राणहरणेच्छवः ॥ २९ ॥
हेतिघातछलच्छोणशोणितच्छत्र मण्डलाः ।
स्वामिसन्तोषजनकाद्युयुधुः शस्त्रपाणयः ॥ ३० ॥
सुराङ्गनानान्नैपुण्यन्ददृशुर्भ्रातचक्षुषः ।
वीरामुद्गरघातैश्चशत चन्द्रनभस्तलम् ॥ ३१ ॥
प्रस्तराभिन्दिपालोत्थाः सुवृत्ताघटिताअपि ।
लेगुः ।
परेषां हृदये कुशब्दाइवदौर्जनाः ॥ ३२ ॥
कुठारदुःकुठारैकधाराद्वैधीभवद्वपुः ।
कीर्तेः पुण्यात्परं किञ्चिन्नास्तीतिचावदन्भटाः ॥ ३३ ॥
शितशस्त्रोच्छलद्रक्तपूरस्नातारणेभटाः ।
अवनीशो भयामासुरुत्फुल्लाः किंशुकाइव ॥ ३४ ॥
मुष्टिप्रहारैर्युयुधुः कबन्धादिव्यचक्षुषः ।
स्वामिभक्तिप्रभावस्यकः पारंवेत्तितत्वतः ॥ ३५ ॥
छिन्नकण्ठाः कुठाराग्रैर्ननृतुःसुभटारणे ।
गजग्रीवाधराः केचिद्दणेशाइवदुर्मदाः ॥ ३६ ॥
रणेविशिरसोवीरादुद्रुवुः खड्गपाणयः ।
दोर्मूलावर्तमत्युग्रन्दर्शयन्तःस्वसाधनम् ॥ ३७ ॥
दर्पादुरसिसञ्छिन्नास्तिर्यग्यज्ञोपवीतवत् ।
तेभित्वामण्डलम्भानोः सुभटास्त्रिदिवंययुः ॥ ३८ ॥
पतिताःकरिकुम्भानाम्पतितानांरथोपरि ।
श्रृङ्गाररसनिर्मनमानसाइवतेवभुः ॥ ३९ ॥
नद्योबभूवुरस्त्रस्यशोणफेणावलीयुतः ।
हयानांरौप्यवर्णानांया सुहंसायितङ्गलैः ॥ ४० ॥
कर्तरीभिः समायुक्ताःपत्रैर्वाणाविचित्रिताः ।
तरङ्गालिषुलोलासुशफराइवरेजिरे ॥ ४१ ॥
मांसाशकर्मनिरताः कृत कोलाहलारवाः ।
इवभान्तिमदोन्मत्ताः शाकिन्योवनदेवताः ॥ ४२ ॥
तोमराणित रङ्गतियासुकूर्माइवोन्नताः ।
शिरांसिहतवीराणाङ्कमलत्वमुपाययुः ॥ ४३ ॥
कुञ्जराणान्तुरङ्गाणांयास्वत्राणिमहान्तिच ।
ग्राहतामाययुः सद्यश्चलन्तिचवलं तिच ॥ ४४ ॥
जग्मुः शैवलतांया सुकेशपाशाः सुविस्तृताः ।
केशाकेशिमिथोयुद्धेशीर्षेभ्योयेवियोजिताः ॥ ४५ ॥
आध्मातजठरास्तासान्तीरेतीरेविशेरते ।
परान्नभोजनैस्तृप्तात्राह्मणाइवतुन्दिलाः ॥ ४६ ॥
सद्यः शिवप्रभावेणगणानिपतिताअपि ।
उत्तस्थुःस्वायुधैर्युक्तायथापूर्वंरणाङ्गणे ॥ ४७ ॥
दैत्यानां सुभटाः सर्वेनोत्तस्थुः समरेहताः ।
आर्द्राइवमृदः पिण्डाः प्राणहीनादिवङ्गताः ॥ ४८ ॥
तुष्टुवुः प्रमथाः सर्वेदेवम्मार्तण्ड भैरवम् ।
जयेतिमुनयस्तोषादवदन्युगपत्तदा ॥ ४९ ॥
अवाद्यञ्जयवाद्यानिकुसुमानिदिवः सुराः ।
ववुर्षुर्ललितङ्गीतमगायन्सुरगायकाः ॥ ५० ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
मल्लासुरसैन्यवधोनामदशमोऽध्यायः ॥ १० ॥
११. खङ्गदंष्ट्रवधो नाम एकादशोऽध्यायः
सनत्कुमारौवाच ।
अथस्वेनिहते सैन्येसदैत्योमर्षपूरितः ।
ध्मातनासपुटोमल्लः क्रोधाग्निःश्वासयोगतः ॥ १ ॥
वह्निकुण्डेक्षणः कम्पमानखङ्गस्तुभीषणः ।
शीघन्नुदेतितुरगानुवाच निजसारथिम् ॥ २ ॥
ततः सेनाधिपोदैत्यः खङ्गदंष्ट्रः प्रतापवान् ।
सुव्याज्ञापयदीशंस्वम्मल्लाख्यमसुरेश्वरम् ॥ ३ ॥
कियत्सैन्यमिदं देवग्रासमात्रमिवाधुना ।
नालन्तवप्रकोपायताम्बूलम्ममदीयताम् ॥ ४ ॥
तवमूर्त्तः प्रतापोहंसङ्ग्रामेजयनिश्चयः ।
हन्तावीरसहस्राणामेकाकीमान्नवेत्सिकिम् ॥ ५ ॥
मयितिष्ठतिदैत्येन्द्रकथं त्वं युद्धयसेस्वयम् ।
क्षणं स्थित्वाद्यभृत्यस्यपश्यमेरणकौशलम् ॥ ६ ॥
अथासौदैत्यराजेनखङ्गदंष्ट्रः समीरितः ।
स्वामिसन्मानतोषेणययौयुद्धायसन्मनाः ॥ ७ ॥
वाजिनाम्पञ्च ॥ १७ ॥
भिर्लक्षैः रथैस्तद्विगुणैः सह ।
चतुर्गुणैश्चकरिभिर्गजारूढश्चशस्त्रवान् ॥ ८ ॥
वाद्यदुन्दुभिनिर्घोपसिन्धुपानस्फुरन्मदः ।
कृतबन्दीजनस्तोत्रश्चतुश्चामरवीजितः ॥ ९ ॥
तमायान्तंसमालोक्यसमादिष्टः षडाननः ।
युध्यस्वेति महेशेन खङ्गदंष्ट्रेणसत्वरम् ॥ १० ॥
प्रसादयेत्युवाचेशंसेनयानिजयावृतः ।
अनेकशस्त्रयुक्स्वामीचतुरङ्गपरिवृतः ॥ ११ ॥
मयूरपिच्छचमरैः सेवितच्छत्रमं डलः ।
मयूरवाहनस्तत्रतस्थौससमराङ्गणे ॥ १२ ॥
आवयोः समरोयस्मात्सेनाभ्याङ्किम्प्रयोजनम् ।
युद्धस्वेत्यवदद्वाक्यं खङ्गदंष्ट्रः षडाननम् ॥ १३ ॥
बालस्त्वंशूलिनःसर्वसैन्येनकिलरभ्यसे ।
सङ्ग्रामायससैन्यस्त्वन्नभृत्यशरणावयम् ॥ १४ ॥
याचस्वपोलिकान्दुर्गान्नासाभ्याञ्जहिरेकफम् ।
नवनीतादनेशक्तः कथंयुद्धायवल्गसे ॥ १५ ॥
उत्सङ्गंयाहिरेमातुर्मुचमुञ्चाजिसम्भ्रमम् ।
कोमलानितवाङ्गानिनिर्द्दयाममभल्लयः ॥ १६ ॥
इति तस्यवचः श्रुत्वा चुकोपसुतरामसौ ।
विव्याधदैत्यंवाणानां सहस्रेणासिदंष्ट्रकम् ॥ १७ ॥
तेनतेङ्खङ्गचालेनबाणाः छिन्नास्तुलाघवात् ।
विव्याधचस सेनान्यंवाणैः शतसहस्रशः ॥ १८ ॥
बाणजालं समायान्तंवीक्ष्यासौपार्वतीसुतः ।
शक्त्यानिवारयामास भ्रमत्याशिखिवाहनः ॥ १९ ॥
ततः सकुञ्जरारूढः शफरीव्याधलमहारि क्षितः ।
जघान षण्मुखंवाणैरुचस्थः समरेबली ॥ २० ॥
व्यर्थीकृतम्मयूरेणसमुत्पत्यनभस्तलम् ।
सन्धानन्तस्य दैत्यस्यस्वामिनाधिष्ठितेनच ॥ २१ ॥
सन्धानंव्यर्थताम्मत्वावीक्ष्याकाशेतथोन्मुखम् ।
जघानकेकिनं सद्यः शरेणसरुषङ्गले ॥ २२ ॥
ततः कोपेन पूर्णोसावविध्यत्तस्यकुञ्जरम् ।
निमज्जत्करिपिच्छाग्रमर्द्धचन्द्रेषुणालघु ॥ २३ ॥
षण्मुखस्य धनुर्वंशङ्क्षुरप्रेणाशुगेनच ।
चिच्छेदप्रोन्नतं दैत्योध्वजम्भल्लासिधारया ॥ २४ ॥
रत्नैर्विनिर्मितांस्तुङ्गान्किरीटानाशुगैः क्षणात् ।
पैभिस्तद्विगुणैः कर्णकुण्डलानीषुजन्मनः ॥ २५ ॥
व्याकुलीभूतचित्तोसौबाणजालैरभूत्तदा ।
ततः कोपेनमहतास्फुरदंष्ट्राग्रभीषणः ॥ २६ ॥
मुमोचशक्तिमत्युग्रांशतघण्टाविलम्बिनीम् ।
तां कल्पान्तज्वलज्वालानिर्मितामिवदुर्धराम् ॥ २७ ॥
दैत्याधमसहस्वेतिसातेनाशुगवृष्टिभिः ।
वार्यमाणापिहृदयेऽपतत्तस्यचपापिनः ॥ २८ ॥
विह्वलःशक्तिघातेनमुमोचान्मदोद्धतः ।
पलायमानन्तत्सैन्यम्मारयामासुरेश्वराः ॥ २९ ॥
केचिन्मुसलघातेननितराम्पीडितोरसः ।
रक्तञ्चराक्षसावेमुर्दिग्भ्रान्ताभ्रान्तचेतसः ॥ ३० ॥
परिघाघातसम्भ्रान्तमानसाराक्षसाः परे ।
आसन्नमरणामूर्च्छामाययुस्तत्र सङ्गरे ॥ ३१ ॥
पतितानाञ्चशस्त्राणान्धाराभिर्गलितान्त्रयः ।
केचिद्धावन्तिस ॥ १८ ॥
मरेभीरवस्तुपराङ्मुखाः ॥ ३२ ॥
पपुः स्वेदजलङ्केचित्तुरङ्गाणाञ्चदन्तिनाम् ।
भङ्गभीतितृषाक्रान्ताःकोणपा जीविताशयाः ॥ ३३ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
खङ्गदंष्ट्रवधो नाम एकादशोऽध्यायः ॥ ११ ॥
१२. उल्कामुखकुन्तलो मवधोनामद्वादशोऽध्यायः
सनत्कुमार उवाच ।
हतेसेनाधिपेतस्मिन्ससैन्येऽथ शिवात्मना ।
कोपेनराक्षसांस्वामीहेमदण्डैश्चचामरैः ॥ १ ॥
वीज्यमानोरथारूढः शस्त्रविद्याविशारदः ।
उल्कामुखो महावीर्यः क्रोधेनरणमाययौ ॥ २ ॥
वाजिनां लक्षविंशत्यारथानाङ्कोटिभिर्युतः ।
कोव्यर्धकुञ्जरैर्युक्तोह्यसङ्ख्यैः पदगैर्वृतः ॥ ३ ॥
तमालोक्यकृतोत्साहंसमराभिमुखंशिवः ।
गणानामधिदेव नुनोदरथिनन्तदा ॥ ४ ॥
दैत्येनाभिहितः सोथकिन्तेयुद्धेनबालक ।
मधुराणिचखाद्यानिमोदकप्रमुखानिच ॥ ५ ॥
कुमारादसुखं गेहे खाद्यंशस्त्राणिसङ्गरे ।
सतेनव्याहृतः पश्चाद्वाचालत्वमलन्तव ॥ ६ ॥
दैत्यसेनासुवृत्तान्वोमोदकान्भक्षयाम्यहम् ।
शिवस्यबालको नूनं भवतामं तकोधुना ॥ ७ ॥
इत्युक्तोराक्षसः कोपात्प्रज्वलद्द हनेक्षणः ।
मुमोचतीक्ष्णधाराणांशराणांशतमहृतम् ॥ ८ ॥
ताञ्छरान्परशुघातेनगणेशोलीलयाऽच्छिनत् ।
सन्दधेसौततोदैत्यः शराणान्द्विसहस्रकम् ॥ ९ ॥
तेशरावाजिनामङ्गे केचिन्मनाः सपत्रकाः ।
उन्मार्गगामिनो भूवन्हयाः सारथिनावृताः ॥ १० ॥
अक्षोबभञ्जमकरणभूतो भवत्तदा ।
हाहाकृतंसुरैस्तत्रतलज्जाकोपपूरितः ॥ ११ ॥
विव्याधतुरगांस्तस्यवाणैः सारथिनन्ध्वजम् ।
तञ्चदैत्यङ्गणाध्यक्षोविरथं प्राकरोत्तदा ॥ १२ ॥
लोहभारसहस्रस्यगदाञ्जग्राहदानवः ।
भ्रमन्तीताङ्कुठारेणचिच्छेदचगणाधिपः ॥ १३ ॥
गृहीतुमुद्यतः शक्तिंयावक्रोधान्महासुरः ।
तावज्जघानगणपःसदन्तेनाशुमुष्टिना ॥ १४ ॥
तावत्स नरसिंहो भूल्लिलेखनखरैः करम् ।
तस्यदन्तप्रहारेणप्राणाञ्जग्राहविवराट् ॥ १५ ॥
शिरोभिर्व्यात्तनयनं ललज्जिह्वञ्चलत्सटम् ।
छिन्नम्पदातिघातेनपपातविशिराभुवि ॥ १६ ॥
विलोक्यतं हतन्दैत्यन्तत्सैन्यं योद्धुमुत्सुकम् ।
अभूत्तस्यगणैः क्रोधाद्युद्धेनीतंयमक्षयम् ॥ १७ ॥
तुरगं कुञ्जरमहारथः सारथिभिः सह ।
अथतंसमरेदृष्ट्वादीर्घनिद्रामुपागतम् ॥ १८ ॥
उल्कामुखं महासैन्यंसमरेरविलोचनः ।
अशीत्यावाजिलक्षाणांरथकोटीयेनच ॥ १९ ॥
कुञ्जराणाञ्चतुःषष्टचाऽसङ्ख्येयैः पदगैर्वृतः ।
अयुतैर्जयवाद्यानांसहस्रेणोन्नतध्वजैः ॥ २० ॥
स्वामिसन्मानतोषेणस्फुरन्नासापुटद्वयः ।
स्फूर्जचण्ड भुजादण्ड ः स्वर्ण दण्डै श्रवीजितः ॥ २१ ॥
चामरैः कुन्तलोमाख्यः सङ्ग्रामायसमाययौ ।
तमायान्तंशिवोवीक्ष्यदिदेशजयनन्दिनम् ॥ २२ ॥
प्राप्तवन्तं महेशस्य सारूप्यन्नागभूषणम् ।
त्रिनेत्रपञ्चवक्त्रञ्चचन्द्रम्मुक्ताद्युतिप्रभम् ॥ २३ ॥
त्रिशूलादीनिशस्त्राणिदधानञ्चन्द्रशेखरम् ।
काञ्चनस्यन्दनारूढंसङ्ग्रामोत्सवपीवरम् ॥ २४ ॥
तमुवाच शिवाकारं त्वम्महेशोसिहेसुर ।
तेनोक्तङ्कृपयाशम्भोः स्वरूपम्प्राप्तवानहम् ॥ २५ ॥
किङ्करः शङ्करस्याहन्त्वद्रधार्थमुपागतः ।
तमाहकुन्तलोमासावमरत्वङ्गतन्तव ॥ २६ ॥
रेरेदैत्यकृतान्तोहङ्कस्त्रातातेद्यरक्षतु ।
तमित्युक्त्वाललाटस्यस्वेदेनज्याम्ममर्दच ॥ २७ ॥
तत्रसन्धायवाणानांशतं लक्षप्रसूतिमत् ।
आकर्णधनुरापूर्यकुन्तलोम्निमुमोचसः ॥ २८ ॥
खद्वाङ्गचालनोच्छालैः शरांस्तान्सनिराकरोत् ।
जयनन्दीगणः शम्भोर्धनुरादायसुप्रभम् ॥ २९ ॥
सन्दधेबाणमत्युग्रन्दिग्धंहालाहलेनच ।
आपूयोरस्थलंस्फालन्तेनदैत्यमताडयत् ॥ ३० ॥
वार्यमाणोपिबाणानांशतैर्वक्षस्थलेऽपतत् ।
निर्गतः पृष्ठरन्त्रेणवाणेनानेन सव्यथम् ॥ ३१ ॥
अथासौशरजालेनत्रासयामासनन्दिनम् ।
ससैन्यंसमरेतत्रयुद्धमन्त्रप्रभाववान् ॥ ३२ ॥
पराङ्मुखो भवन्नन्दीरथाश्वैर्वलितङ्क्षणात् ।
सारथिः शरनिभिन्नः पपात धरणीतले ॥ ३३ ॥
धनुर्मुष्टियुतंसद्यचिच्छेदध्वजमुन्नतम् ।
तेनद्रवद्रथेनान्धिः क्षोभितोमुखनोदनात् ॥ ३४ ॥
पलायमानन्देवानांसैन्यञ्चूर्णीचकारसः ।
मर्दनैश्चक्रनेमीनां स्वाङ्गकुन्ता हतैर्गजान् ॥ ३५ ॥
घातयामासतुरगाञ्छस्त्रपातैश्चदारुणैः ।
एवंसङ्क्षीयमाणेऽथसैन्येनन्द्यवलद्रणे ॥ ३६ ॥
क्रोधेन पूरितः स्वान्तः संवर्त्ताग्निविलोचनः ।
अन्यसारथिनायुक्तः सिं हनादं चकारसः ॥ ३७ ॥
तेनसर्वहतंसैन्यं दैत्यानां शरवृष्टिभिः ।
विव्याधकुन्त रोमाणमाभेयेनाशुपत्रिणा ॥ ३८ ॥
सपत्रीशोषयामासामृतन्तस्यहृदिस्थितम् ।
ततःसविह्वलोदैत्यो भ्रमचक्षुरभूत्तदा ॥ ३९ ॥
हतेतस्मिन्दुराधर्षे श्रीमता जयनन्दिना ।
पुष्पाणिमुमुचुर्देवाआशीर्वादानृषीश्वराः ॥ ४० ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
उल्कामुखकुन्तलो मवधोनामद्वादशोऽध्यायः ॥ १२ ॥
१३. मणिकासुरवधोनामत्रयोदशोऽध्यायः
सनत्कुमार उवाच ।
ततोहतेषुदैत्येषुसेनानीसैनिकेषुच ।
यद्वृत्तंसङ्गरेतस्मिञ्छ्रूयतान्तदृषीश्वराः ॥ १ ॥
मणिमल्लौरुषापूर्णोरणवाद्यमहोत्सवे ।
तावुभावपि सङ्ग्रामेतिष्ठताङ्क्रोधनिर्भरौ ॥ २ ॥
उवाच भ्रातरं मलम्मणिः क्रोधोद्धुरस्तदा ।
दैत्यराजमहाभाग्योदयमे पश्यसङ्गरे ॥ ३ ॥
यः स्वयं जगतान्नाथः शक्रादिसुरपूजितः ।
सयोद्धाद्यजयन्तोस्मिल्लेॅभेवानलभेथवा ॥ ४ ॥
पराजयजयाभ्याम्मेजय एवसुनिश्चितः ।
इत्युक्त्वासिंहनादेन जगर्जमणिकासुरः ॥ ५ ॥
त्रैलोक्यं पूरयामासस्वशब्दप्रतिरावतः ।
चेलुःकैलासशिखरेबद्धसिद्धसमाधयः ॥ ६ ॥
इन्द्वानाङ्किन्नराणाञ्चदृढान्या लिङ्गनानिच ।
कण्ठमुरारेः कमलालिलिङ्गप्रतिशब्दभीः ॥ ७ ॥
सिन्दूरोडूलनशिरामायावी तुङ्गमूर्तिमान् ।
लिखन्रत्नकिरीटस्यको व्यावारिदमण्डलम् ॥ ८ ॥
शोभितोवाहुविंशत्यारत्नचन्दनचर्चितः ।
तडिलक्षप्रतीकाशकर्ण कुण्डलमण्डितः ॥ ९ ॥
नीलमेघावलिच्छाय सर्वायुधलसत्करः ।
जपाकुसुममालाभिर्युक्तऊर्ध्वभुजार्गलः ॥ १० ॥
पदातिर्गिरिसारैः स्वैः पादन्यासैर्महीतलम् ।
पदेपदेविनमयन्योद्धमभ्याययौरणे ॥ ११ ॥
तमभ्यागतमालोक्य श्रीमन्मार्तण्ड भैरवः ।
प्रहसन्वारयामाससङ्ग्रामायगणान्निजान् ॥ १२ ॥
मार्तण्डभैरव उवाच ।
रेरेगणाःक्षणंयुद्धमीक्षध्वङ्खलु मामकम् ।
शौर्यंवीक्षामहेचास्यराक्षसस्यतथाबलम् ॥ १३ ॥
बभूव भैरवस्तद्वत्पदातिः समरेच्छया ।
सिंहनादेनमहताक्षोभयामासरोदसी ॥ १४ ॥
तमुवाच महादैत्यः केनत्वमभिवञ्चितः ।
भैक्ष्यंयाचसदाश्रेयोभिक्षूणांसमरेणकिम् ॥ १५ ॥
श्रुत्वेतितस्यक्चनन्त्रिनेत्रः क्रोधपूरितः ।
दुद्रावतन्दुरात्मानंस्फुरन्नासापुटद्वयः ॥ १६ ॥
लोह भारसहस्राणां गदयाकाशतुङ्गया ।
जघानमूर्ध्निसहसाजहौतांस च खेटकात् ॥ १७ ॥
अवीवदचयोद्धारन्तुच्छं भैरवतेवलम् ।
उत्तुङ्गोसिचपीनोसिनिःसारत्वान्महालघुः ॥ १८ ॥
तदाकमल्लारिर्ण्यवचस्तस्यपुनारोषान्मदोद्धतम् ।
जिहिंस बाणैवेङ्गेन सहस्रप्रसवक्षमैः ॥ १९ ॥
तानागताञ्छरान्वीक्ष्यकरवालेनसोऽच्छिनत् ।
सम्यजितेन्द्रियोयोगीचित्तेनविषयानिव ॥ २० ॥
ततः स राक्षसः क्रूरोक्षुरप्राणांशताधिकम् ।
सहस्रंसन्दधे ज्यायांशराणाममितेजसाम् ॥ २१ ॥
भस्मीचकारतान्वाणान्हुङ्कारेणमहेश्वरः ।
तमताडयदुश्रेणकिरीटेचमहेषुणा ॥ २२ ॥
उज्जग्मुस्तत्ररत्नानिखनित्रेणाकरेयथा ।
अभ्यधावत्ततोदैत्यंसंहर्त्ताभैरवः स्वयम् ॥ २३ ॥
चन्द्रहासेनतीक्ष्णेनरंहसास्यशिरोऽच्छिनत् ।
तावत्सशरभास्यो भृद्भजंशम्भोददंशच ॥ २४ ॥
ततः कृत्तिकयाशम्भुस्तञ्जघानरिपुंरुषा ।
शस्त्रिकान्ताम्मुखेनैव जग्राहघुटिकामिव ॥ २५ ॥
अथशम्भुस्त्रिशूलेनछेदयामासतञ्जवात् ।
उरस्थलम्पृष्ठवंशंयथाभिद्यतितत्क्षणात् ॥ २६ ॥
दैत्येशोथाभवत्तुङ्गस्तुरङ्गवदनः क्षणात् ।
चकारहेषामत्युग्राञ्जगत्क्षोभविधायिनीम् ॥ २७ ॥
अर्धचन्द्रेणवाणेनग्रीवान्तस्याच्छिनच्छिवः ।
तस्याभूत्कौञ्जरीग्रीवाशुण्डादण्डविराजिता ॥ २८ ॥
ताञ्जघानकुठारेणतीक्ष्णधारेणमूर्धनि ।
ततोऽसौतुरगारूढः साद्यभृदुग्रखङ्गवान् ॥ २९ ॥
निहन्यमानः शस्त्रौघैर्दुर्धरोऽसौमहेश्वरम् ।
जघानकरवालेनभुजमध्येमदोद्धतः ॥ ३० ॥
तेनभूषणनागेन्द्रः प्रहारेणचखण्डच ।
ततोमुमोचसहसावह्नयस्त्रं गिरिजापतिः ॥ ३१ ॥
सतेनव्याकुली भूतोपपाताश्वेनसंयुतः ।
जलेयत्रतुरङ्गाख्यमभूत्तीर्थं सुपुण्यदम् ॥ ३२ ॥
अथनाराचतीक्ष्णायैर्ब्रह्माण्डं समपूरयत् ।
दैत्यराजः शिवं लक्षीकृत्य सर्वनिरन्तरम् ॥ ३३ ॥
अङ्गेतस्यशराः शम्भोर्विश्वनाट्यनटस्यच ।
ललाटपट्टेमुकुटेकपोलेकुण्डलद्वये ॥ ३४ ॥
भुजेषुवक्षसिक्रूरालमा मग्नाः समन्ततः ।
स्कन्धयोर्नाभिदेशेचग्रीवास्कन्ध इयान्तरे ॥ ३५ ॥
मुण्डमालाशरैर्भिन्नाशम्भोर्देत्यस्यसङ्गरे ।
मृतस्य मरणम्प्राप्तमहोचित्राविधेर्गतिः ॥ ३६ ॥
क्रुध्यन्तिशरनिर्भिन्नाः शिवभूषाभुजङ्गमाः ।
दैत्येनामन्त्रिताःकालाइवरेजुः फणान्विताः ॥ ३७ ॥
अदुनोचन्द्रमाः शम्भोर्जटाजूटगतस्तदा ।
दैत्यराजस्यवाणैर्हिवैरस्थानस्थितेः फलम् ॥ ३८ ॥
अथतन्दुर्धरन्दृष्ट्वा महावीरम्मणिः शिवः ।
ज्वलज्ज्वलन सङ्काशंश१ लमुग्रम्मुमोचह ॥ ३९ ॥
तदाहतं परशुनाचक्रखङ्गशरोत्करैः ।
निवार्यमाणोदैत्येनप्राप्तङ्कर्मेवपूर्वजम् ॥ ४० ॥
तेनोरविसिनिर्भिन्नस्त्रिशूलेन सदैत्यराट् ।
पपातविह्वलो भूमौ भ्रमल्लोचनपुत्रिकः ॥ ४१ ॥
तदामूर्ध्निपदंशम्भुर्यावदुच्चालयत्यहो ।
दैत्येनपरया भक्त्यास्थापितन्निजमूर्धनि ॥ ४२ ॥
कयास्यसिचदेवेशवैरेणपरितोषितः ।
दृष्टोऽस्यन्तेरणेमृत्युस्त्वां नमुचामिसर्वथा ॥ ४३ ॥
निजशौर्येण सन्तुष्टं नुनावजगदीश्वरम् ।
दृष्टं साक्षात्कृपापात्री भूतोऽसौदैत्यपुङ्गवः ॥ ४४ ॥
मणिरुवाच ।
नमस्ते भूतनाथायसर्वान्तर्यामिणेनमः ।
नमो रुद्रायरौद्राय नमस्तेदानवारये ॥ ४५ ॥
नमःशुद्वायशान्तायकैवल्यपतयेनमः ।
नमोरत्नावलीचञ्चन्मुकुटायासिपाणये ॥ ४६ ॥
नमोदेवायमहते नमोगङ्गाप्रियायते ।
नमः कमलकिञ्जल्कपुञ्जपिञ्जररेतसे ॥ ४७ ॥
चन्द्रचञ्चत्कलामौलेत्रिनेत्रायनमोनमः ।
नमोदया समुद्राय देवदेवायशास्खते ॥ ४८ ॥
मयूरपिच्छचमरैवज्यमानायतेनमः ।
सप्तकोटिगणाकीर्णसैन्यायशिवतेनमः ॥ ४९ ॥
नमस्त्रिशूलहस्तायनमस्तेत्रिगुणात्मने ।
नमः परमहंसायनमःपात्रधरायते ॥ ५० ॥
नमः कारुण्यपूर्णायनमस्तेस्वस्तिकारिणे ।
नमोभक्तजनानन्दविधानविधयेनमः ॥ ५१ ॥
नमः परमकैवल्यदायिनेविश्वधारिणे ।
डमड्डमरुडाङ्कारकारिणेतेनमोनमः ॥ ५२ ॥
मार्तण्ड भैरव उवाच ।
तुष्टोहमेकभावेनमणेभत्त्याचपूर्णया ।
वरंवृणीष्वचित्तस्थन्तुभ्यन्दास्यामिनिश्चितम् ॥ ५३ ॥
मणिरुवाच ।
यदितुष्टोऽसिदेवेशकृपयामणिसूदन ।
मत्कृतंयद्भवत्स्तोत्रममुष्यपठनान्नृणाम् ॥ ५४ ॥
जायतेलक्ष्मीरतुलादानाद्विश्वोपकारिणी ।
सर्वभोगप्रदापुत्रवाजिवारणसुन्दरा ॥ ५५ ॥
मोक्षश्रान्तेरणेशौर्यं वाणीनवर सोज्ज्वला ।
मच्छिरस्तवपादाधोभूयाद्देवनिरन्तरम् ॥ ५६ ॥
तुरङ्गसहितंरूपम्मदीयन्तवसन्निधौ ।
श्रीमार्तण्ड भैरव उवाच ।
मणेवृत्तन्त्वयायद्यत्तत्तत्ते भवतुध्रुवम् ॥ ५७ ॥
त्वंयाहिपरमम्मोक्षंशाश्वतम्ममशासनात् ।
शृण्वतामावयोयुद्धंसिद्धयः सन्तुसर्वदा ॥ ५८ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
मणिकासुरवधोनामत्रयोदशोऽध्यायः ॥ १३ ॥
१४. दैत्याभिगमनन्नामचतुर्दशोऽध्यायः
सनत्कुमार उवाच ।
अथतुष्टोमहादेवोमणेर्भक्क्याप्रसन्नधीः ।
भ्रातातस्येतिकृपयामलंरक्षितुमिच्छति ॥ १ ॥
उवाच विष्णदेवेशं मलमाज्ञामयेतिच ।
तङ्गत्वाब्रूहिपातालंयाहिशेषैर्जनैर्वृतः ॥ २ ॥
भवन्तुसर्वेमुनयः स्वाश्रमेऽध्ययनोत्सवाः ।
प्रभवन्तुसुराःक्ष्मायाम्प्रतिमापूजनानिच ॥ ३ ॥
सन्तुयज्ञक्रियाविप्रानिर्व्याकुलितमानसाः ।
दीव्यं सर्वेराजानः पालयन्तुमहीतलम् ॥ ४ ॥
यज्ञभागभुजोदेवाः सन्तुत्रिदिववासिनः ।
नोचेत्वामधुनायुद्धे भैरवोऽयंहनिष्यति ॥ ५ ॥
इति शम्भोर्वचः श्रुत्वा दैत्यराजञ्जगामसः ।
एकाकीगजमारूढोविशस्त्रः शान्तमूर्तिमान् ॥ ६ ॥
उवाचतम्महादैत्यम्मलम्मलेनपूजितः ।
विष्णुरुवाच ।
नीतारणेक्षयं दैत्याबहवस्तेतथाबलम् ॥ ७ ॥
अन्येऽपिभ्रातरः पुत्राः सगोत्रामित्रबान्धवाः ।
शालकाःश्वशुराः क्रूराः सेवकाहृदयङ्गमाः ॥ ८ ॥
प्रमत्तादन्तिनःप्रौढावाजिनश्चमनोजवाः ।
अनर्घ्यरत्नघटिताशकटारथिभिः सह ॥ ९ ॥
पदातयोप्यसङ्ख्येयाभ्राताचप्राणवलभः ।
त्वयाघातयितायुद्धेदुर्मदान्धेनमलरे ॥ १० ॥
इदानीं शरणं गत्वा देवं मार्तण्ड भैरवम् ।
शीरसातलंयाहिशेषैर्दैत्यैः परिवृतः ॥ ११ ॥
प्राणानवनिजान्मलक्रोधीमार्तण्ड भैरवः ।
कल्पान्तकेलिरसिकस्तेनयोद्धुन्नचार्हसि ॥ १२ ॥
तस्यक्रोधानलेदैत्यमाते देहोहुतिर्भवेत् ।
प्रत्ययेऽपि च सञ्जाते मा पुनर्विषभक्षणम् ॥ १३ ॥
प्रह्लादस्यकुलोत्पन्नस्तस्मात्त्वांयोजयाम्यहम् ।
हितायकृपयामल्लमद्वचः शृणुसर्वथा ॥ १४ ॥
मल्लासुर उवाच ।
भगवंस्त्वामहंयाचेतन्मेदेहिप्रसादतः ।
स्थातव्यमस्मिन्भवतायावद्योत्स्याम्यहङ्क्षणम् ॥ १५ ॥
तत्सैन्यंसशिवंवक्रेजानीहिपतितम्मम ।
त्वांरक्षामियतः पूज्यः पूर्वजानाङ्गदाधरम् ॥ १६ ॥
स्थित्वास्यशिखरेतुङ्गेयुद्धं पश्यममेशितुः ।
शम्भुनातद्गणैर्वापिभ्रातासैन्यसमावृतः ॥ १७ ॥
गिलितस्त्वङ्क्क मृगयेप्रज्वलज्जठरानलः ।
निदार्यजठराण्येषान्तद्रक्ततटिनीषुच ॥ १८ ॥
नावगाहे भृशंयावत्तावद्दे होनशाम्यति ।
बुभुक्षितानिशस्त्राणिदेवशोणितपानिमे ॥ १९ ॥
तृप्तिन्नयामिपरमान्नयावज्जीवितेन किम् ।
सुरदेहोच्छलद्रक्तबिन्दुसिक्तमिवाम्बरम् ॥ २० ॥
यावन्नकुर्वेगोविन्दसुखन्तावल्लभेकथम् ।
भैरवश्चगणास्तस्यकिंयोत्स्यन्तिमयाहरे ॥ २१ ॥
तृणानिपावकेनैवशुष्काणिबलवत्यपि ।
अद्यनिस्त्रिदशः स्वर्गः पृथ्वीनिर्मानुषापिच ॥ २२ ॥
रसातलमनागञ्चक्रुद्धेमयिसुरान्तके ।
दंष्ट्राचर्वणनिर्घोषन्निर्जरान्मयिखादति ॥ २३ ॥
भ्रातृशोकज्वलच्चितेनालम्पानाय सागरः ।
श्रीनारायण उवाच ।
रेमलशृणुमेमन्त्रंवैतसींवृत्तिमाश्रय ॥ २४ ॥
पतङ्गवृत्तौमरणनीतिदोषास्पदंवृथा ।
मल्लासुर उवाच ।
निजप्राणभयात्केचित्सत्यम्मुञ्चतियेजनाः ॥ २५ ॥
पच्यन्तेकुम्भिपाकेषुनरकेषुसमाः शतम् ।
इत्याद्यनेकशपथान्कथयामासदैत्यराट् ॥ २६ ॥
शूराणान्तृणवत्प्राणाः कृतनिश्चयिनांरणे ॥ २७ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
दैत्याभिगमनन्नामचतुर्दशोऽध्यायः ॥ १४ ॥
१५. घृतमारीयुद्धवर्णनं नामपञ्चदशोऽध्यायः
सनत्कुमार उवाच ।
विष्णुनावार्यमाणोऽपिक्रोधाक्रान्तः सदैत्यराट् ।
सङ्ग्रामायययौमल्लोजयवाद्यमहोत्सवः ॥ १ ॥
सर्वशस्त्रास्त्रसंयुक्तः सर्वमायान्वितोर थी ।
हरिचन्दनकस्तूरीकुङ्कुमागरुलेपनः ॥ २ ॥
सिन्दूररेणुनिकरसंराजन्मूर्धजच्छटः ।
आमेघमण्डलतनूर्नीलजीमूतसन्निभः ॥ ३ ॥
रचितःकालकूटेनधात्राकिङ्कज्जलेनवा ।
पतद्वयोमाश्रयस्तम्भः शक्रनीलमयोयथा ॥ ४ ॥
चलच्चामरवृन्देनतुङ्गोनीलगिरिर्यथा ।
रत्नभूषणमालाभिर्मेरुशृङ्गाकृतिर्वभौ ॥ ५ ॥
उत्तुं गेन किरीटेनलिलेखजलदावलिम् ।
तस्यतोडरडङ्कारैः क्षुभितः क्षीरसागरः ॥ ६ ॥
कृतबन्दिजनस्तोत्रः समरोत्सवपीवरः ।
महाकालस्ययोद्धासौवर्णनातिगसद्यशः ॥ ७ ॥
सङ्ग्राममेदिनीम्प्राप्यसिंहनादञ्चकारसः ।
तेनमेरुस्थनक्षत्रमालातलमिवागता ॥ ८ ॥
कैलासेभीतिकं पेनपार्वत्या मुकुटोऽपतत् ।
वाडवः सेवतेचाधितत्कं पशमनेच्छया ॥ ९ ॥
भूमिभारभराक्रान्तःशेषोपिचलनोद्यतः ।
गिरयः कम्पिताःसर्वेससिद्धमिथुनास्तदा ॥ १० ॥
उल्बणेनससैन्येनबहुलेन परिवृतः ।
तस्यतत्सैन्यमालोक्यघृतमारीसमुत्थिता ॥ ११ ॥
मुष्टिमादायवेगेन भ्रामयन्तीहकुञ्जरान् ।
कुञ्जरेणजघानैवतुरङ्गेणतुरङ्गमान् ॥ १२ ॥
हयान्सारथियुक्तांश्वरथांश्चिक्षेपसामुखे ।
पलायमानान्पदगान्ञ्जिह्वयालम्बयावृतान् ॥ १३ ॥
चचर्वचमहारावैः सशस्त्रान्दैत्यपुङ्गवान् ।
दुर्धराञ्छत्रसङ्घातैर्माययापिह्यनावरा ॥ १४ ॥
चूर्णीकृतंशस्त्रलोहन्दशनैर्वज्रसन्निभैः ।
भस्मीकृतञ्जाठरेणतस्यास्यात्तद्रसायनम् ॥ १५ ॥
ववृधेवलमत्युग्रं परापुष्टिश्चतत्क्षणात् ।
तामाहक्षोभितोदैत्यः पुष्टासिपशुभक्षणात् ॥ १६ ॥
सैन्यग्रा सेनहेमारित्रासमात्रम्ममासिह ।
दैत्येनाभिहितासैवरूपं दिव्यंवभारच ॥ १७ ॥
ववर्षसायकैदैत्यम्मेघमालेवपर्वतम् ।
नाल्पामपिव्यथां चक्रुस्तेवाणादैत्य पुङ्गवे ॥ १८ ॥
रणकंइतिकण्डूलेकण्डूशान्त्यैवचाभवत् ।
उद्धाम्यगदयाव्योम्निजघान सहसा चताम् ॥ १९ ॥
ताङ्गदातलहस्तेन धृत्वा शूलम्मुमोचतम् ।
तंशूलम्मुष्टिनादायताञ्चचिक्षेपदैत्यराट् ॥ २० ॥
अताडयत्साखङ्गेनस्कन्धेदैत्यञ्चरं हसा ।
सबाहुः पतितस्तस्यस्कन्धेनसहभूतले ॥ २१ ॥
सुनावशोणितं तत्रशोणतीर्थमभूत्तदा ।
अन्योपिबाहुरजनिदैत्यराजस्यतत्क्षणात् ॥ २२ ॥
तथाकटककेयूरमुद्रिका खड्गमण्डितः ।
अथसा भैरवनादं विधाय गगनङ्गता ॥ २३ ॥
तस्माद्ववर्षसमरेशिलावृष्टिम्महोपलाम् ।
उत्पपातसदैत्येन्द्रो व्योम्नस्तावन्महीङ्गतः ॥ २४ ॥
भूयमभ्यागतो दैत्यः शरैस्तामप्यताडयत् ।
अमोघास्तेशरास्तस्यविभिदुःसहसावपुः ॥ २५ ॥
शतंशिरसिवाणानां कुचयोः सप्तविंशतिम् ।
ग्रीवायामुरसिस्कन्धेशतानिचपृथक्पृथक् ॥ २६ ॥
नाभिदेशेललाटेचवक्षस्यूर्वोश्चजानुनोः ।
असङ्ख्येयाः शरालेगुरितितांविह्वलीकृताम् ॥ २७ ॥
विलोक्यशम्भुः समरे दैत्यस्याभिमुखोऽभवत् ।
हय्यङ्गवीनराशेश्चकल्पान्तदहनोयथा ॥ २८ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
घृतमारीयुद्धवर्णनं नामपञ्चदशोऽध्यायः ॥ १५ ॥
१६. मल्लासुरमार्तण्ड भैरवयुद्धन्नामषोडशोऽध्यायः
सनत्कुमार उवाच ।
मार्तण्ड भैरवदेवंव्याजहारासुरस्तदा ।
शौर्यसत्वप्रमत्तो सौयाही तिनिजपर्वतम् ॥ १ ॥
मदीयं भवदीयञ्चदेवं तुलयहेशिव ।
त्वमेकाकीवृषारूढः सेवितः कुञ्जरैरिह अध्याय ॥ २ ॥
मयिदिव्यानिवासांसित्वयिचर्मास्रगाविलम् ।
मय्यस्तिकाञ्चनीभूषाकालास्त्वयि भुजङ्गमाः ॥ ३ ॥
सुवर्णरजसामिश्रलेपनञ्चन्दनस्यमे ।
प्रेतास्थिचूर्णसहितं भस्मतेप्रेतभूमिजम् ॥ ४ ॥
एकातेऽपिपुराणास्त्री मे सहस्राणियोषिताम् ।
इदानीं मत्परः कोऽस्ति विभु स्त्रिभुवनेश्वरः ॥ ५ ॥
योद्धुं त्वयेति सहसानुवाणः किन्नलज्जसे ।
उन्मत्तकरिणांस्पद्धदर्पात्पोत्रीकरोतिकिम् ॥ ६ ॥
अलंसागरपानायमशकेनपिपासुना ।
प्रलयाग्निमहाज्वालाकिं पतङ्गेनशाम्यति ॥ ७ ॥
किं कल्पमेघनाशायकल्पतेव्यजनानिलः ।
मेरोरुन्मीलनोद्योगङ्कुरुतेकिम्महोन्दुरुः ॥ ८ ॥
वदन्तमितिदैत्येन्द्रञ्जघान निशितैः शरैः ।
दुर्वाक्यकोपसम्पूर्णः शिवोमार्तण्ड भैरवः ॥ ९ ॥
शरांस्तान्पट्टिशेनैवनिवार्यदनुजेश्वरः ।
उदग्र करवालो सौशिवन्दुद्राववेगवान् ॥ १० ॥
तमायान्तंसमालोक्यदुर्धरन्धीरमानसः ।
तीक्ष्णाग्रैः सायकैरुयैस्ताडयामास भैरवः ॥ ११ ॥
आकर्तरीमुखंवाणामनास्तेतुपिनाकिनः ।
दैत्याङ्गेषुनमेनेसौनखक्षतरुजामपि ॥ १२ ॥
अथशम्भुःसमुत्पत्यदर्पधाराशिनाजवात् ।
बाहौवा मेमहादैत्यमताडयदनन्तरम् ॥ १३ ॥
अवादयड्डमरुकमाब्रह्माण्डमहारवम् ।
शिवश्चसिंहनादेनजगर्जदितिजेश्वरः ॥ १४ ॥
तयोः प्रववृतेयुद्धमद्भुतञ्चतयोरिव ।
सुमेरुस्तुलनांयातिगिरिणान्यतमेनकिम् ॥ १५ ॥
तत्राभूत्कुञ्जरो दैत्योव्योमोत्तुङ्गः सुदारुणः ।
यस्यलाङ्गूलविक्षेपैःक्षोभितःक्षीरसागरः ॥ १६ ॥
रसेनप्लावयामासगिरीन्सर्वान्द्विजोत्तमाः ।
प्रचण्ड शुण्डादण्डस्य भीताः प्रोच्चलितस्यच ॥ १७ ॥
पलायन्ते ग्रहाः सर्वेनक्षत्राणीन्दुभास्करौ ।
विहायशैलगेहानिसिद्धानां मिथुनानिच ॥ १८ ॥
ननर्दगजराजोसौ सहस्रघनगर्जितः ।
तेनवृन्दानिमेघानां भूमौपेतुर्नभस्थलात् ॥ १९ ॥
तटत्कारयुतेनासावताडिशशिसम्भृता ।
खट्टाङ्गेनप्रलम्बे नसप्राणेनेवमूर्द्धनि ॥ २० ॥
चर्मणातचखद्वाङ्गम्ब भारोपरिचोपरि ।
जहासतम्महादैत्योजातन्त्र लमितिब्रुवन् ॥ २१ ॥
ततोभ्यस्त्रकपर्दीशस्तम्मुमोचरुषावशः ।
आताम्रज्वलनज्वालाबभूवुगिरयस्तदा ॥ २२ ॥
अस्त्रपातेनयादांसिसमुद्रेपाकमाययुः ।
आमेघमण्डलन्धूमस्तदाभमाश्चतारकाः ॥ २३ ॥
लोचनानिमहेन्द्रस्यवारिमुञ्चन्तिहेद्विजाः ।
विस्फुलिङ्गैर्दिशोदग्धास्तरवोभस्मताङ्गताः ॥ २४ ॥
तदाकराङ्घ्रिसङ्घट्टाद्वयोमस्फुटितुमिच्छति ।
धावन्तितुरगाःस्वैरमर्धदं ताश्रदन्तिनः ॥ २५ ॥
अभूवन्रथसज्जानिलोहशेषाणितत्क्षणात् ।
तत्यजुर्लोहसन्नाहान्दावैः हकर्मकरान्भृशम् ॥ २६ ॥
वीराः पदातयोवाहाः सादिनोवाहकाअपि ।
अहोशस्त्राणितप्तानिकरतोमुमुचूरणे ॥ २७ ॥
प्लष्टमुष्टिमतोयुद्धेप्रज्वलन्मुक्तमूर्द्धजाः ।
चलन्तिचामरायत्रमुच्छत्राणिध्वजाञ्चलाः ॥ २८ ॥
तत्रकज्जलतामा पुरस्त्रज्वालावलीवृताः ।
कीलाचिटिपिटारासर्वमापूरितन्नभः ॥ २९ ॥
तटतटत्करास्फोटामल्लस्याङ्गेसमुद्गताः ।
क्षणव्याकुलितोदैत्यस्तस्यास्त्रस्यप्रभावतः ॥ ३० ॥
ततोसौधैर्यधीराशिमेलनामा महासुरः ।
अमुञ्चन्मौदिरञ्चाततः श्यामलितं नभः ॥ ३१ ॥
अग्निरस्त्रस्यनिर्वातस्तेनधाराभिवर्षिणा ।
वाष्पोष्मणापितत्सैन्यंव्यथामापद्विजोत्तमः ॥ ३२ ॥
लेगुःपयांसिधाराणां सन्तप्ताः शैलसानवः ।
दाहोत्तीर्णतया मेरुर्वर्णोत्कर्षमुपागमत् ॥ ३३ ॥
सिंसिङ्कारकराण्यत्रशस्त्राणिसकलन्दधुः ।
पानीयस्यपदंसद्यः सेनयोरुभयोरपि ॥ ३४ ॥
लम्बमानैस्तदामेधैव्र्व्योमनीलाञ्जनप्रभम् ।
रराजकालखेलस्यश्रीभाजनमिवापरम् ॥ ३५ ॥
वर्षोपलैरतिस्थूलैः पतद्भिव्यममण्डलात् ।
शिरांसिस्फोटिवीराणान्दानवानां समन्ततः ॥ ३६ ॥
करकाधातदूनास्तेपश्चाद्धर्घरगर्जनैः ।
तुरङ्गापूर्वचरणैर्दुद्रुवुव्योन्निसाम्बुनि ॥ ३७ ॥
वर्षादृषद्भिर्निहताः सशीर्षत्राणमूर्धसु ।
पदातयोरणव्यग्राः पलायन्ते पराङ्मुखाः ॥ ३८ ॥
धारासारसमूहैश्वव्याप्तः स्वर्गश्चभूतलम् ।
प्रलयार्णवमालेनचचालसलिलङ्क्षणात् ॥ ३९ ॥
शम्भोगणानांवाद्यन्तिदन्त तूर्याणिसर्वशः ।
वारुणास्त्रजलौघेनपीडितानान्द्विजोत्तमाः ॥ ४० ॥
तरन्तितुरगावारिस्फुरन्नासापुटद्वयाः ।
खेलन्तिकरिणः शुण्डादण्डताण्डवडम्बराः ॥ ४१ ॥
निमज्जयन्तिभारेणलोहनेमिरथाङ्गकाः ।
तत्रास्त्रसलिलाम्भो धौवाजिलवतोरथाः ॥ ४२ ॥
इतिसैन्यञ्जलेममन्दृष्ट्वासौमणिखण्डनः ।
जलन्निवारयामासमारुतास्त्रेणसत्वरम् ॥ ४३ ॥
शोणितञ्जलविस्तारिनभोगञ्जलधिस्थितम् ।
दिगन्तन्तुलवन्नीतं दैत्यसैन्यन्तथालघु ॥ ४४ ॥
मुमोचाथमहादैत्यः पन्नगास्त्रंसुदारुणम् ।
तेनास्त्रवायुर्गिलितः सेनादृष्टाचशां भवी ॥ ४५ ॥
गरुडास्त्रन्ततः शम्भुर्मुमुचेतेनपन्नगाः ।
सैन्यम्म लासुरस्यापिययौभीत्यारसातलम् ॥ ४६ ॥
शम्भुःपाशुपतास्त्रेणमन्त्रितेनजघानतम् ।
त्रिशूलेनसुतीक्ष्णेनदैत्यं मलंरणाङ्गणे ॥ ४७ ॥
निवार्यमाडणन्तच्छलङ्गदयामुद्गरेणच ।
शरैर्मुसलघातैश्चशत्याचब्रह्मदत्तया ॥ ४८ ॥
चक्रेण परशुनाकुन्तैः करवालेन कुन्तलैः ।
पपातत्वादिमल्लस्यवृक्षेपविरिवाद्भुतम् ॥ ४९ ॥
ततोहाहाकृतन्दैत्यैः क्षणादपिपलायितम् ।
रणेमलो भ्रमच्चक्षुः पपातवसुधातले ॥ ५० ॥
युद्धयसेरेमयासार्द्धप्रहसन्नितितंहरः ।
चरसथ्गम्मूर्धनिरुषाददौमलस्यसङ्गरे ॥ ५१ ॥
शम्भोः पादाब्जसंस्पर्शात्तस्यशान्ताथदुर्मतिः ।
निधायमूर्ध्निचरणंवाष्पपूरितलोचनः ॥ ५२ ॥
सर्वाङ्गजातपुलकःकम्पीगद्गदकण्ठवान् ।
नुनावशम्भुम्परयाभक्त्यामल्लासुरस्तदा ॥ ५३ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
मल्लासुरमार्तण्ड भैरवयुद्धन्नामषोडशोऽध्यायः ॥ १६ ॥
१७. मल्लासुरकृतासदाशिवस्तुतिर्नाम सप्तदशोऽध्यायः
सनत्कुमार उवाच ।
जीवशेषोरणेदैत्यः परेशकृपयावृतः ।
स्तोत्रञ्चकारमलारेः शृणुध्वन्तद्विजोत्तमाः ॥ १ ॥
मल्लासुर उवाच ।
पपोहम्पापकर्मा हपापात्मापापसम्भवः ।
मान्दुर्मतिपङ्काब्धौमांसमुद्धरशङ्कर ॥ २ ॥
जीवाः स्वतन्त्राः कर्तृत्वेनैवशम्भोभवन्त्यपि ।
त्वंसूत्रधारः सर्वेषां कर्मणीशशुभाशुभे ॥ ३ ॥
त्वंसृष्टिकर्ताजगतान्त्वयासर्वमिदन्ततम् ।
तस्माद्दैत्याविभिन्नाः किन्त्वञ्जानासिपरेशतत् ॥ ४ ॥
बुद्धिरूपस्त्वमेवेशयथानुदसिलीलया ।
तथाचराचरङ्काजगदेतत्प्रवर्तते ॥ ५ ॥
योदेवः सर्वभूतेषुबुद्धिरूपेण वर्तते ।
नमस्तस्मै नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ ६ ॥
योदेवः सर्वभूतेषुमोहरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ ७ ॥
योदेवः सर्वभूतेषुशमरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमोनमः ॥ ८ ॥
योदेवः सर्वभूतेषुकामरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ ९ ॥
योदेवः सर्वभूतेषुभ्रमरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १० ॥
योदेवः सर्वभूतेषुधर्मरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ ११ ॥
योदेवः सर्वभूतेषुहर्षरूपेण वर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १२ ॥
योदेवः सर्वभूतेषुक्रोधरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १३ ॥
योदेवः सर्वभूतेषुमदरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १४ ॥
योदेवः सर्वभूतेषुदम्भरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १५ ॥
योदेवः सर्वभूतेषुअहंरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १६ ॥
योदेवः सर्वभूतेषुआत्मरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १७ ॥
योदेवः सर्वभूतेषुवीररूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १८ ॥
योदेवः सर्वभूतेषुक्रियारूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ १९ ॥
योदेवः सर्वभूतेषुशक्तिरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २० ॥
योदेवः सर्वभूतेषुशौर्यरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २१ ॥
योदेवः सर्वभूतेषुमृत्युरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २२ ॥
योदेवः सर्वभूतेषुज्ञानरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २३ ॥
योदेवःसर्वभूतेषुलोभरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २४ ॥
योदेवः सर्वभूतेषुविद्यारूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २५ ॥
योदेवः सर्वभूतेषु क्षुधारूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २६ ॥
योदेवः सर्वभूतेषुनिद्रारूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २७ ॥
योदेवः सर्वभूतेषुभक्तिरूपेणवर्तते ।
नमस्तस्मैनमस्तस्मैनमस्तस्मैनमोनमः ॥ २८ ॥
नमःकारुण्यरूपायनमः संहारहेतवे ।
नमःप्रपञ्च विदुषेप्रपञ्चरहितायते ॥ २९ ॥
नमस्तेविष्णुरूपायशिवरूपायतेनमः ।
नमः परमहंसायनमश्चिन्मात्ररूपिणे ॥ ३० ॥
नमः सूक्ष्मायभव्यायस्थूलरूपायतेनमः ।
नमस्त्रैलोक्यनाथायभैरवायनमोनमः ॥ ३१ ॥
भक्तवात्सल्यरूपायनमस्त्रिपुरभेदिने ।
स्तोत्रेणमल्लदैत्यस्यपरितुष्टः सदाशिवः ॥ ३२ ॥
प्रत्युवाचरणे देवोवृणीष्वेतिवरं परम् ।
मल्लासुर उवाच ।
देवेन्द्रोदासतान्नीतः प्रतापेनमहीयसा ॥ ३३ ॥
निर्विशङ्कंसुखम्भुक्तमप्राप्यन्त्रिदशैरपि ।
परलोकस्यकाचिन्तात्वयिदृष्टेपरावरे ॥ ३४ ॥
कीर्तिलोङ्केरणेमृत्युर्भवतोजगतःपते ।
प्रार्थनीयं किमस्त्यन्यत्तथापिप्रार्थयेशिव ॥ ३५ ॥
ममाभिधानपूर्वतेनामभूयात्सुरेश्वर ।
शिरःप्रेतञ्चपादाधःस्थातुतेमम सर्वदा ॥ ३६ ॥
छेदपातादिभक्तायेभवन्तं पर्युपासते ।
तेषांशीघ्रतरंवाञ्छांयदितुष्टोसिपूरय ॥ ३७ ॥
यन्मयाभवतः स्तोत्रङ्कृतम्प्राणप्रयाणके ।
प्रत्यहन्तस्यपाठेननृणां सिद्धिप्रदोभव ॥ ३८ ॥
नरोगोनचदारिद्र्यन्नलोभोनाशुभामतिः ।
नासौख्यन्नचमात्सयतेषाम्भवतुसर्वदा ॥ ३९ ॥
सरस्वतीरसमयीवलक्ष्मीर्गृहेषुच ।
भक्त्युद्रेकेण देवेशत्वाञ्जनाः पर्युपासते ॥ ४० ॥
तेषान्त्वंसुलभः स्वामी प्रसन्नःस्यात्सदाशिवः ।
श्रीमार्तण्ड भैरव उवाच ।
तुष्टोहन्तवयुद्धेनभक्त्याच परिपूर्णया ।
त्वयायत्प्रार्थितम्मलतदस्तुममशासनात् ॥ ४१ ॥
सनत्कुमार उवाच ।
मल्लेचविलयम्प्राप्तेयुद्धायाजग्मुरुद्धताः ।
मल्लस्यपुत्राः पञ्चैवकुम्भः शूलधरस्तदा ॥ ४२ ॥
देवगन्धर्वनामासौतथालोहार्गलाभिधः ।
महाबाहुरितिख्याताभक्तजाइत्युपेक्षिताः ॥ ४३ ॥
तथापिप्रोच्छलद्दर्पास्ताञ्छशापसदाशिवः ।
यूयमेवंविधा मूर्खाः शैलतान्त्रजताशुच ॥ ४४ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
मल्लासुरकृतासदाशिवस्तुतिर्नाम सप्तदशोऽध्यायः ॥ १७ ॥
१८. सुरर्षिवरप्रदानन्नामाष्टादशोऽध्यायः
सनत्कुमारौवाच ।
अथसप्तसमाहूयपुत्राधर्मस्यतान्मुनीन् ।
सन्मानपूर्वमानन्दंव भाषेचन्द्रशेखरः ॥ १ ॥
निहतो सौमहादैत्यः शत्रुर्मदबलोत्कटः ।
लीलयानिजयेदानींसेवध्वंसुखमीप्सितम् ॥ २ ॥
महाप्रसाद इत्युक्त्वाप्रणिपत्यमहेश्वरम् ।
शिवंविज्ञापयामासुर्भवितव्यंस्वयम्भुवः ॥ ३ ॥
देवेनश्रीमताचात्ररक्षार्थन्नः कृपाकृता ।
कलिकालकृतैर्दोषैः पीडितानांसुखायच ॥ ४ ॥
तथास्त्वितिप्रतिज्ञायनिजशक्त्यायुतः शिवः ।
लिङ्गद्वयमभूत्तत्रचं चत्कल्पतरोरधः ॥ ५ ॥
मार्गशीर्षामलेपक्षेषष्ठयांवारेंशुमालिनः ।
शततारागते चन्द्रेलिङ्गंस्यादृष्टिगोचरम् ॥ ६ ॥
आगताः सुदिनेतस्मिन्यात्रार्थं त्रिदशात्सुराः ।
सकलत्राः सपुत्राश्चमुनयः सकुटुम्बकाः ॥ ७ ॥
नागाङ्गनायुताः सर्पाः सिद्धाः स्वतरुणीयुताः ।
गन्धर्वाः किन्नरायक्षाः स्ववैश्यामेनकादयः ॥ ८ ॥
तत्रप्रेमपुरञ्जातंराजधानीमणिद्विषः ।
सर्वासांवर्णजातीनां ध्यानगम्यासुरैः कृता ॥ ९ ॥
मूर्तिर्महीमयीशम्भोर्यमहारि थामार्तण्डभैरवी ।
अश्वेनसादिनापार्श्ववर्तिनामणिनायुता ॥ १० ॥
मः शम्भुरश्वविष्णुश्चताविलायांयदास्थितौ ।
तदामेलापदञ्जातन्तामारातीतिविग्रहात् ॥ ११ ॥
मैलार इतिमल्लारेनमधे यमभूत्तदा ।
सावर्ण्यंरलयोः प्रोक्तम्मैराल इति तेनवा ॥ १२ ॥
तस्मैमैरालदेवायनम इत्यवदन्सुराः ।
अभ्यर्च्य पार्थिवन्देवम्पुष्पैनन्दनसम्भवैः ॥ १३ ॥
धूपैर्दीपैश्चताम्बूलैः पशुभिःपात्रपूरणैः ।
लेह्यचोष्योपहारैश्चगीतैर्नृत्यैर्मनोहरैः ॥ १४ ॥
भक्ष्यैः खाद्यैर्दर्पणस्यदर्शनैश्चामरैरपि ।
चन्द्रकस्तूरिकालेपैर्हरिद्राचूर्णचन्दनैः ॥ १५ ॥
सिन्दूर पूरैः पाच्याचकृष्णशीरैः सुतण्डुलैः ।
मयूरचामरव्रातैस्तरुणीनाम्महोत्सवैः ॥ १६ ॥
सन्तोष्यतुष्टुवुर्देवामल्लारिम्मुनयोपिच ।
देवा ऊचुः ।
जयदेव जगन्नाथजय खण्डेन्दुशेखर ।
जयगङ्गाजटाजूटजयविश्वैकपालक ॥ १७ ॥
जयमल महादेत्यसैन्यदेहविमर्दन ।
जयलोलमहाखड्गजयपात्रोल्लसत्कर ॥ १८ ॥
जयश्रीह्मालसाकान्त त्रि शूलधरमल्लहन् ।
जयप्रतापविस्तारिञ्जयत्वम्मणिसूदन ॥ १९ ॥
जयप्रेतासनाधीशजय मार्तण्ड भैरव ।
जयत्रिपुरविच्छेदजयमल्लासुरान्तक ॥ २० ॥
नमःसङ्गरवीरायनमो रुद्रायशूलिने ।
अन्धकध्वंसिने तुभ्यं नमोवागीश्वरायते ॥ २१ ॥
निहन्त्रेमलदैत्यस्यभत्रेंविश्वस्यतेनमः ।
सुरार्चितां प्रयेनित्यन्नमः कन्दर्पमर्दिने ॥ २२ ॥
नमोमल्लारिदेवाय मैरालायनमोनमः ।
कलिदोषविनाशायनमोभक्तप्रियायच ॥ २३ ॥
नमःकारुण्यपूर्णायनमःसंहारकेलये ।
नमःकनकगौरायनमश्चाम्पेयरोचिषे ॥ २४ ॥
मृन्मयोपिचमल्लारेश्चेतनात्माभवत्तदा ।
उवाचसमुनीन्देवान्वृणुध्वमितिसत्वरम् ॥ २५ ॥
देवा ऊचुः ।
देवेनश्रीमतासर्वकृतंविश्वस्ययद्धितम् ।
उत्तीर्णोवसुधाभारोमल्लदैत्यचमूकृतः ॥ २६ ॥
तथापिदेवकर्तव्यंयेषाञ्चेतसिवर्तसे ।
गेहेषुतेषामतुलाकमलात्यागभोगदा ॥ २७ ॥
बहवः पशवःपुत्रास्तुरङ्गाः सुखमीप्सितम् ।
राज्ञान्निष्कण्टकंराज्यंवाजिकुञ्जरसङ्कुलम् ॥ २८ ॥
कोशदेशपरीवारललनारत्नसुन्दरम् ।
सौभाग्ययोषितां भूरिसौख्यम्पुत्राः शतायुषः ॥ २९ ॥
नित्यम्भूपालमान्यत्वंसर्वदाविजयोरणे ।
विवादेवादिनान्तेषांविपरीतार्थवादिनाम् ॥ ३० ॥
ब्रह्माण्डखण्डविस्तारियशोभूयात्समुज्ज्वलम् ।
अन्तेमोक्षपदन्देहिपाहिनोमलमर्दन ॥ ३१ ॥
शतानिसप्तश्लोकानाम्माहात्म्यन्त वशङ्कर ।
नित्यं पठतिमल्लारेतेषां त्वंवरदो भव ॥ ३२ ॥
लिखितम्पुस्तकं चैतत्पूजयन्तिनिरन्तरम् ।
सुखन्धान्यन्धनंस्वर्गंयशोभाग्यञ्जयोदयः ॥ ३३ ॥
तेषां भवन्तुमल्लारेपुत्राविद्याविशारदाः ।
अरयः सङ्क्षयंयान्तुगृहन्नन्दतु सर्वदा ॥ ३४ ॥
ग्रहभूतपिशाचाद्याडाकिन्योयक्षराक्षसाः ।
तत्रबाधानकुर्वन्तुसर्पाद्याः क्रूरजातयः ॥ ३५ ॥
स्थावरं अध्यायजङ्गमञ्चापिकृत्रिमञ्चापियद्विषम् ।
मन्त्रयन्त्राभिचाराद्यास्तत्रकुण्ठीभवत्विति ॥ ३६ ॥
श्रीमन्मल्लारिरुवाच ।
इदानीम्प्रार्थितन्देवायुष्माभिर्मुनिभिश्चयत् ।
सर्वमस्तुमनुष्याणां सर्वदामदनुग्रहात् ॥ ३७ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
सुरर्षिवरप्रदानन्नामाष्टादशोऽध्यायः ॥ १८ ॥
१९. अष्टतीर्थवर्णनन्नामैकोनविंशोऽध्यायः
ऋषय ऊचुः ।
कलिकालमलध्वंसिमल्लारेश्वरितंश्रुतम् ।
ब्रह्मनन्दनते वाक्यात्तेनाभून्नः कृतार्थता ॥ १ ॥
लब्धानिमन्त्रवीर्याणिदारिद्रेणपलायितम् ।
फलिष्यन्तितपांसीहत्वत्प्रसादान्महामुने ॥ २ ॥
इदानीं श्रोतुमिच्छामोमलनाथप्रभावतः ।
मुनेप्रेमपुरस्थानितीर्थानित्वन्मुखाम्बुजात ॥ ३ ॥
सनत्कुमार उवाच ।
श्रृणुध्वन्त्राह्मणायूयमस्मिन्प्रेमपुरोत्तमे ।
सार्धङ्कोटित्रयम्पुण्यन्तीथनां वर्ततेऽधुना ॥ ४ ॥
तेषाम्प्रशंसाकथनेनविभुःपद्मसम्भवः ।
नषण्मुखोनशेषोपिशोच्यः कोतथापिच ॥ ५ ॥
मुखानान्तत्रकेषाचित्कथयामिस्वभावतः ।
श्रृणुध्वम्ब्राह्मणानृणां सर्वसिद्धिप्रदायकम् ॥ ६ ॥
देवस्यचोत्तरे भागेशक्तिकुण्डन्तुतिष्ठति ।
तत्रचाम्पेयषष्ठयांवाभानुवारेणवैधृतौ ॥ ७ ॥
व्यतीपातेचसङ्क्रान्तौनवम्यामाश्विनस्यच ।
चैत्रेचैवतथापष्ट्याङ्कार्तिक्याङ्कृत्ति कासुच ॥ ८ ॥ अथवाजन्मनक्षत्रेस्त्रानङ्कृत्वाचमौनवान् ।
मूलीभूतः स्थितः पूर्वविष्णुर्दैत्यंसमागतः ॥ ९ ॥
मृलदेवैतिप्रोक्तः सुरैः सम्पूजितः स्वयम् ।
सम्पूज्यष्टतमारीञ्चदेवींसिद्धिप्रदायिनीम् ॥ १० ॥
यस्तुपश्यतिदेवेशम्मल्लारिम्पूजयत्यपि ।
सप्तजन्मकृतं पापन्दर्शनात्तस्यनश्यति ॥ ११ ॥
ब्रह्मन्नोवासुरापोवा स्वर्णहद्वृषलीपतिः ।
कृतघ्नः सुरभिन्नश्वतथाविश्वासघातकः ॥ १२ ॥
अगम्यागमनीयश्चपूजनाच्छुद्धिमाप्नुयात् ।
लभन्तेशाश्वतीं लक्ष्मींराज्यवश्यं महद्यशः ॥ १३ ॥
कैलासशिखरेवासः प्रज्वलन्द्रत्नमण्डपे ।
भोगान्भुनक्तिविविधान्यावचन्द्रार्कतारकाः ॥ १४ ॥
देवादाभेयदिग्भागेगयातीर्थं सुदुर्लभम् ।
पदन्तत्रास्तिमल्लारेः शृणुध्वन्त द्विजोत्तमाः ॥ १५ ॥
तत्रस्नात्वातिलैर्युक्तं कुशदश्वसंयुतम् ।
पिण्डन्ददातियस्तत्रपदेगोत्रंसमुच्चरन् ॥ १६ ॥
पितॄणामक्षयातृप्तिर्जायतेतस्यहेद्विजाः ।
तत्राख्यानम्पुरावृत्तं शृणुध्वम्मेघवाहने ॥ १७ ॥
कल्पेपुरा धनोत्साहेनगरे भून्महाधनी ।
वणिक्चन्द्राननस्तस्यपुत्रो भूत्कृटदुर्मतिः ॥ १८ ॥
तेनकूटतुलाङ्कृत्वावञ्चिताःक्रयविक्रये ।
जनास्तेनैवपापेनवायसोभूद्विहङ्गमः ॥ १९ ॥
विचरस्वेच्छया खेसौयावनालार्द्धकन्दधन् ।
प्रयातितस्यगलितन्तचञ्चुपुटतः पदे ॥ २० ॥
तेनतस्याभवत्तृप्तिः पितृणान्तोषकारिणी ।
विमुक्तस्तेन देहेनययस्वर्गसनातनम् ॥ २१ ॥
देवादुत्तरदि ग्भागेतीर्थङ्कपिलसंज्ञितम् ।
तस्मिन्कपिलषष्ठ्यांयः स्नात्वा मल्लारिभैरवम् ॥ २२ ॥
पूजयेदुत्तमैः पुष्पैः पाच्ययादूर्वयापिवा ।
सयातिचर्म देहेन स्वर्गम्भोगप्रदं शिवम् ॥ २३ ॥
विनाकपिलषष्ठीं चयादृशेतादृशेदिने ।
स्नानमात्रं विधायैवमलारिम्पश्यतिक्षणात् ॥ २४ ॥
तस्यप्राक्तनपापानिब्रह्महत्या समानिच ।
नश्यन्तितत्क्षणादेवभोगान्भुङ्क्तेचशाश्वतान् ॥ २५ ॥
ईशानकोणेमलारेर्गुप्तम्मल्लेश्वराभिधम् ।
तीर्थं वापीमयङ्क्रोशमात्रेतिष्ठतिपुण्यदम् ॥ २६ ॥
तस्योदकस्यपानेनचलकार्द्धेनतत्क्षणात् ।
सर्वपापैर्विनिर्मुक्तःपुमान्यान्तिपराङ्गतिम् ॥ २७ ॥
तत्रेतिहासमप्याद्यं कथयामासपद्मभूः ।
शृणुतब्राह्मणास्तञ्चविश्वविस्मयकारकम् ॥ २८ ॥
ब्रह्मा उवाच ।
पुरास्वारोचिषिमनौवर्तमाने प्रयागके ।
क्षेत्रे क्षत्री महाबाहुर्दैवाद्दारिद्र्यपीडितः ॥ २९ ॥
चोरःसजातोमार्गेषु जघानब्राह्मणान्दश ।
वधूवराणिसप्तैवसप्तकन्न्याः सुलक्षणाः ॥ ३० ॥
अङ्गण्यान्वणिजाच्छूद्रान्पथिकान्धनशङ्कया ।
वसन्नरण्येकस्मिंश्चिदसौव्याघ्रेणभक्षितः ॥ ३१ ॥
यमलोकगतस्तत्रभुक्त्वाथनिरयांस्ततः ।
तस्यपापेनपितरः कुम्भीपाकेनियोजिताः ॥ ३२ ॥
शेषकिल्बिषभोगायगर्दभोभूत्सपापवान् ।
पत्तनेनगचूलाख्येसोमदत्तस्यमन्दिरे ॥ ३३ ॥
यात्राप्रसङ्गात्तेनासौभारवाट्सतुगर्दभः ।
आनीतःसोमदत्तेनतदाप्रेमपुरम्प्रति ॥ ३४ ॥
पीडितोसौतृषातत्रबद्धकीलेनवर्तते ।
तत्तीर्थजलशेषस्तुकुम्भस्तेनावलेहितः ॥ ३५ ॥
तत्क्षणाद्गर्दभं रूपन्त्यक्त्वापञ्चत्वमागतः ।
स्वर्गगतोऽथबुभुजेशकसामीप्यमागतः ॥ ३६ ॥
स्रक्चन्दनानिदिव्यानिकामिन्यो मेनकामुखाः ।
नृत्यन्तः पितरस्तस्यकैलासं सहसागताः ॥ ३७ ॥
सक्षत्रीसार्वभौमो भूत्सिंहविक्रम केसरी ।
पपालमेदिनीं सर्वां समुद्रवलयाङ्किताम् ॥ ३८ ॥
मल्लारेर्दक्षिणे भागेतीर्थं पापविनाशनम् ।
तत्रस्नात्वा समालिङ्ग्याश्वत्थम्भैरवरूपिणम् ॥ ३९ ॥
मल्लारिञ्चततः पश्येत्सर्वपापैः प्रमुच्यते ।
यत्कृतं पूर्वजैः पुम्भिर्महापापादिकम्महत् ॥ ४० ॥
यत्कृतञ्जन्मनां लक्षैः स्वयमंहःसुदुस्तरम् ।
तत्सर्वं विलयं यातितस्यतीर्थस्यसेवनात् ॥ ४१ ॥
तस्यकुण्डस्यसा मीप्येनन्दिकुण्डं तुवर्तते ।
तत्र स्नातस्ययत्पुण्यं शृणुध्वन्त द्विजोत्तमाः ॥ ४२ ॥
गवां सुवर्णशृङ्गीणां लक्षं अध्यायताम्रांशुकावृतम् ।
दोहकांस्यैरपियुतन्तथारौप्यखरान्वितम् ॥ ४३ ॥
पयस्विनीनां सूर्येओर्ग्रहणे मन्त्र पूर्वकम् ।
वेदविद्धयःप्रदानेनयत्फलन्तद्भवेदुवम् ॥ ४४ ॥
पुनर्मलारिदेवेशंयः पश्येत्परमेश्वरम् ।
तस्य पुण्यस्य माहात्म्यम्ब्रह्माजानातिवानवा ॥ ४५ ॥
धन्वन्तरशतादस्तिदेवादीशानकोणतः ।
रुद्रकुण्डं महातीर्थं योगिनामपि दुर्लभम् ॥ ४६ ॥
स्नानमात्रेणतत्रैवपुनर्जन्मनविद्यते ।
ज्ञानमुत्पद्यतेसद्यः स्वात्मनः परिपूर्णता ॥ ४७ ॥
भोगेच्छुभिर्नतत्सेव्यं भवबन्धविधूननम् ।
श्रीगुरोः करुणापाङ्गेर्यत्कृतन्तद्भवेदुवम् ॥ ४८ ॥
पुरातनमितीहासंशृणुध्वन्तन्द्विजोत्तमाः ।
इन्द्रनीलपुरेतिष्ठञ्छम्भुदत्तोद्विजः पुरा ॥ ४९ ॥
कर्मैकनिष्ठः सततंसदाचारप्रियः सदा ।
नसाध्वितिकृतं कर्म मन्यते हृदिसर्वदा ॥ ५० ॥
पुनः शङ्काकुलङ्कर्मकरोत्येवसदादरात् ।
कृत्वाविरुद्धम्मनुतेविषादङ्गाहतेपुनः ॥ ५१ ॥
इति संशयबुद्धेऽस्तु तस्या भूदायुषः क्षयः ।
ततो सौर्धमसदने पुण्यपापविचारणे ॥ ५२ ॥
चित्रेण चित्रगुप्तेन कर्मतस्येति निश्चितम् ।
कृत्वा यद्वैदिकङ्कर्मवृथागतमितिस्फुटम् ॥ ५३ ॥
मेनेतेनास्ययत्पापंयेनस्यान्नरकेस्थितिः ।
सभुक्त्वानरकानुग्रान्कोटिजन्मशतानिच ॥ ५४ ॥
अभूत्पक्षी सतत्तीर्थे पीत्वाचञ्च्वाजलङ्क्षणात् ।
विमुक्तः पक्षि देहेनत्राह्मणो भूत्सबुद्धिमान् ॥ ५५ ॥
उत्पन्नंसहजंज्ञानंयेन पश्यतिचिन्मयम् ।
विश्वञ्चराचरंस्वात्मरूपञ्जलतरङ्गवत् ॥ ५६ ॥
अम्बुधाराभिधन्तीर्थमुत्तरस्यांशिवालयात् ।
तत्रस्नात्वाम्बुपीत्वाचमल्लारिंयस्तुपश्यति ॥ ५७ ॥
मुच्यतेप्राक्तनैः पापैः सयातित्रिदशालयम् ।
अत्रेतिहासमप्येकमवदन्नृषयः पुरा ॥ ५८ ॥
आसीदवन्त्याङ्कन्दप भूपतिः श्रीप्रतापवान् ।
तेनराज्यमदान्धेनप्रलोभम्प्रापिताः स्त्रियः ॥ ५९ ॥
अन्येषान्दूतिकायोगैर्वस्त्रालङ्कारभूषणैः ।
अन्यैश्वविविधैर्भोगैः सुवर्णेनयदृच्छया ॥ ६० ॥
बभूवगोचरोमृत्योः सराजाकालशासनात् ।
लिङ्गदेहस्ययोगेनदृतैर्नीतोयमालयम् ॥ ६१ ॥
बहुधातत्रनरकान्बुभुजेतीवदुःसहान् ।
चिरन्ततोभुक्तशेषपापभुक्त्यैभुवंययौ ॥ ६२ ॥
विधात्रा भृङ्गरूपेण संसारेविनियोजितः ।
कदाचिदम्बुधारेस्मिन्सभृङ्गचालुतः क्षणम् ॥ ६३ ॥
स्थितः कल्हारकेयस्मिन्नुनन्तत्पूजनेनच ।
तद्धलुब्धो भ्रमरः सहतेनशिवंययौ ॥ ६४ ॥
अपश्यंस्तत्रमंएदिअलारिञ्जहौभृङ्गः कलेवरम् ।
पुनःकन्दर्परूपोसौकन्दर्पः क्षितिपालकः ॥ ६५ ॥
बुभुजेसकलां थ्वींसान्धिद्वीपांसपर्वताम् ।
चन्द्रांशुधवलाङ्कीर्तिलेभेधर्मरतः सदा ॥ ६६ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
अष्टतीर्थवर्णनन्नामैकोनविंशोऽध्यायः ॥ १९ ॥
२०. षष्टितीर्थवर्णनन्नामविंशतितमोऽध्यायः
ऋषिरुवाच ।
मुनीशश्रुतमस्माभिरष्टतीर्थफलम्महत् ।
तथापि श्रोतुमिच्छामितीर्थान्यन्यानितेमुखात् ॥ १ ॥
सनत्कुमार उवाच ।
श्रूयतामृषयस्तीर्थफलम्प्रेमपुरःसरम् ।
मुख्यानांषष्टिमतुलान्तीर्थानां कथयाम्यहम् ॥ २ ॥
रामतीर्थेमहापुण्येस्नात्वापश्येन्मणिद्विषम् ।
सप्तजन्मकृतम्पापन्तत्क्षणादेवनश्यति ॥ ३ ॥
स्नात्वामलेश्वरेतीर्थेमल्लारिंयस्तुपश्यति ।
ब्रह्महत्त्यादिकम्पापन्तस्यनश्यतितत्क्षणात् ॥ ४ ॥
स्नात्वासूर्याभिधेतीर्थेमासमेकं सुधीर्नरः ।
मल्लारेः प्राङ्गणेनक्तन्दिवं सेवेतबुद्धिमान् ॥ ५ ॥
तस्याष्टादशकुष्ठानिनश्यन्तिशिवतांव्रजेत् ।
लभेतभोगानखिलान्यशोलक्ष्मींसुखायुषम् ॥ ६ ॥
क्षेत्रस्य पूर्वदिग्भागेशोण तीर्थमनुत्तमम् ।
तत्रस्नात्वाशिवनत्वामुच्यते दैन्यपातकैः ॥ ७ ॥
वैतरण्यान्तुयः स्वायात्सूर्येद्वोर्ग्रहणेनरः ।
मल्लारिञ्चततः पश्येद्विष्णुलोकंसगच्छति ॥ ८ ॥
परशुरामाभितीर्थस्नानान्मुक्तिप्रदन्नृणाम् ।
शिवतीर्थे महापुण्येस्नात्वापश्यतियः शिवम् ॥ ९ ॥
माक्षार्थी लभते मोक्षम्भोगार्थी भोगमाप्नुयात् ।
क्षेत्रस्यदक्षिणे भागेकोटितीर्थमहाफलम् ॥ १० ॥
तत्रस्नातस्यपापानां नाशमायातिकोटयः ।
तत्समीपेमहापुण्यमश्वतीर्थं सुदुर्लभम् ॥ ११ ॥
तत्रस्नात्वाचदत्वाच स्वर्गयान्तिनराः स्वयम् ।
तत्सन्निधौशक्तितीर्थंशक्तिलोकप्रदायकम् ॥ १२ ॥
स्नानमात्रेणलोकानां भुक्तिमुक्तिञ्चयच्छति ।
क्षेत्रस्यपूर्वदिग्भागेकुण्डमौग्रसुतीर्थकम् ॥ १३ ॥
तत्रस्त्रानेनदानेनदशयज्ञफलं लभेत् ।
तीर्थङ्गणपतेस्तत्रस्नात्वायेलड्डकान्बहून् ॥ १४ ॥
सदक्षिणान्ब्राह्मणेभ्यः प्रयच्छन्तिगणाधिपम् ।
अर्चयन्तिनरास्तेषांविनोदूरात्पलायते ॥ १५ ॥
भैरवेणस्वहस्तेनमृगयायांहतः किटिः ।
कालभैरवकुण्डाख्यञ्जातं भैरवशासनात् ॥ १६ ॥
प्रयागः सङ्गमौनद्योर्यत्रन्यग्रोधपादपः ।
आस्तेमहान्माघमासेरवावर्धोदितेनरः ॥ १७ ॥
तस्योदकस्पर्शमात्रान्मल्लारेः प्रियतांव्रजेत् ।
स्त्रानेनलभतेमुक्तिम्भोगान्मलारिशासनात् ॥ १८ ॥
यः स्त्रायान्मासमेकन्तुप्रयागफलमश्रुते ।
सर्वतीर्थेषुयःस्त्रायात्सवतीर्थे फलञ्चसः ॥ १९ ॥
तीर्थमेकादशाख्यंहितत्रैका दशवासरम् ।
स्नात्वामलद्विषं पश्येद्रुद्रलोकेस पूज्यते ॥ २० ॥
मल्लस्यवरुणं चास्त्रयन्त्रशान्तं महीतले ।
तत्राभूद्वारुणन्तीर्थं स्नानान्मुक्तिप्रदन्नृणाम् ॥ २१ ॥
यत्रप्रक्षालितौपादौ पार्वत्यालीलयानिजौ ।
तत्राभूत्पार्वतीतीर्थभैरवेणाभिवन्दितम् ॥ २२ ॥
यत्रोदबिन्दुसंसि क्ताकोपागङ्गामहीङ्गता ।
बभण्ड भैरवेणा सौपार्वत्याचसदाशिवः ॥ २३ ॥
पार्वतीगङ्गयोरैक्यङ्गङ्गाझालसिकाभिधम् ।
निर्ममेसूण्ढरंरूपम्प्रीत्याङ्गेस्वेदधारयत् ॥ २४ ॥
शक्तित्वेनजगत्पूज्यं सुरासुरनमस्कृतम् ।
तत्तीर्थस्नानमात्रेणसर्वान्भोगालभेत्पुमान् ॥ २५ ॥
अन्तेगुरुमुखाज्ज्ञानंसच्चिदानन्दविग्रहम् ।
श्रुत्वावतारम्मल्लारेर्नागैःप्रेमपुरम्प्रति ॥ २६ ॥
भोगावतीप्रेषितात्रस्नानाद्यज्ञफलप्रदा ।
अगस्त्योगौतमश्चात्रिः पुलस्त्योभृगुरङ्गिराः ॥ २७ ॥
भारद्वाजोवसिष्ठश्चकश्यपः शौनकस्तथा ।
जमदग्निर्भागुरिश्वच्यवनश्चसनातनाः ॥ २८ ॥
अम्बरीषःसुराचार्यः कहोलचपराशरः ।
मतङ्गः पौण्ड्रक चैव कौशिकः कण्वसंज्ञकः ॥ २९ ॥
वत्सोवैश्वानरोबोधिमाण्डव्यः कौण्डनाभिधः ।
व्यासःसाङ्ख्यायनःकुत्सोगालवः सौभरिर्यथा ॥ ३० ॥
वात्स्यायनश्चशाण्डिल्योमाण्डूकायन इत्यपि ।
वाल्मीकश्चैव जाबालिरेभिर्यत्रकृतन्तपः ॥ ३१ ॥
तत्तत्तीर्थं तदाख्येयन्नृणाम्मुक्तिप्रदंशिवम् ।
मलारेराज्ञयास्नानमात्रात्प्रेमपुरस्थितम् ॥ ३२ ॥
ऋषिनामानितीर्थानिपञ्चत्रिंशद्विजोत्तमाः ।
अभिकुण्डाभिधन्तीर्थंस्नानमात्रेणयन्नृणाम् ॥ ३३ ॥
दहत्यश्रीपदंशीघ्रं महन्तामेनसाञ्चयम् ।
यमतीर्थेतुयःस्त्रायात्सयमनैवपश्यति ॥ ३४ ॥
अवगाहेनकन्दर्पतीर्थस्यसुभगोभवेत् ।
स्नायाद्योब्रह्मणस्तीर्थेब्रह्मलोकमवाप्नुयात् ॥ ३५ ॥
स्नात्वाहरिहरेतीर्थेहरीशप्रियतांव्रजेत् ।
कुबेरतीर्थेयः स्वायात्सधनीभवतिध्रुवम् ॥ ३६ ॥
स्नानेनवायुतीर्थस्यबलवाञ्जायतेनरः ।
देवेन्द्रतीर्थेयःस्नायाद्देवेन्द्रो जायतेनरः ॥ ३७ ॥
महिमाषष्टितीर्थानांह्मणाः समुदीरितः ।
सुलभःसर्वलोकानाम्भुक्तिमुक्तिफलप्रदः ॥ ३८ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
षष्टितीर्थवर्णनन्नामविंशतितमोऽध्यायः ॥ २० ॥
२१. शिवपूजाविधिनिरूपणनाम एकविंशतितमोऽध्यायः
ऋषय ऊचुः ।
ब्रह्मपुत्रत्वयाख्यातन्तीर्थानांवर्णनंशुभम् ।
तेनतृप्तावयन्नूनं त्वत्प्रसादान्महामुने ॥ १ ॥
कलौसिद्धिप्रदन्नृणाम्मल्लारेः पूजनात्फलम् ।
इच्छामः सर्वथा श्रोतुंयद्गुह्यं भुवनत्रये ॥ २ ॥
सनत्कुमार उवाच ।
कथयामिसमासे नरहस्यपारमेश्वरम् ।
पूजनस्यफलंविप्राःश्रवणात्सर्वकामदम् ॥ ३ ॥
येकुर्वन्तिसदा भक्तिम्मल्लारेस्ते जनाः प्रियाः ।
मल्लारिणाशिवेनोक्ताभक्तिरष्टविधायथा ॥ ४ ॥
श्रीमल्लारिरुवाच ।
भक्तिः प्रीतिःकथाकाङ्क्षाममध्यानन्तथाजपः ।
पूजानुमोदनंस्तोत्रमावेशेनोपजीवनम् ॥ ५ ॥
भक्तिरष्टविधाचैषायस्याम्म्लेञ्छोपिवर्तते ।
सविजेन्द्रोमुनिःश्रीमान्सयतिःसचपण्डितः ॥ ६ ॥
समुक्तःसर्वपापेभ्योशिवलोके महीयते ।
ग्रहभूतपिशाचोग्राडाकिन्यः पूतनादयः ॥ ७ ॥
चोराःसर्पागजाव्याघ्रानपीडान्तस्यकुर्वते ।
राजानोमित्रतांयान्तिवादिनोमूकतामपि ॥ ८ ॥
आपदःशत्रवोरोगाश्श्रेटकोपविषाणि च ।
अभिचाराः कुयन्त्राणिनस्पृशन्तिचतन्नरम् ॥ ९ ॥
नमेप्रियश्चतुर्वेदीविप्रोविद्याविशारदः ।
याज्ञिकः श्रोत्रियोवान्योऽवतारस्यास्यपूजकः ॥ १० ॥
प्रियोमे सर्वदायस्तु मद्भक्तः श्वपचोपिवा ।
तस्मै देयन्ततोग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ११ ॥
योमांसर्वगतम्पश्येत्सर्वञ्चमयिसंस्थितम् ।
तस्याहन्नित्यमात्मस्थस्तरङ्गैः सलिलंयथा ॥ १२ ॥
इतिभक्तिः समासेनकथितामुनिसत्तमाः ।
इदानींसविशेषेयं भक्तिः सम्यनिगद्यते ॥ १३ ॥
आचार्यञ्चसमभ्यर्च्य सर्वस्वेनस्वशक्तितः ।
सुवर्णवस्त्रभूषाद्यैः परितोषम्परन्नयेत् ॥ १४ ॥
लब्ध्वातस्यमुखां भोजान्मल्लारेमन्त्रमुत्तमम् ।
न्यासपूजाविधिंसर्वन्ध्यानम्मानसपूजनम् ॥ १५ ॥
योजपेत्तम्मनुन्धीमान्ध्यानपूर्वंसुभक्तितः ।
लभतेतत्फलं भक्तेः सदाचारः शुचिर्नरः ॥ १६ ॥
शुचौ पूजागृहेरम्येधौतेवागोमयाङ्किते ।
धौतांशुकवितानेथपुष्पमालोपशोभिते ॥ १७ ॥
स्वर्णस्यरञ्जितामूर्तिरुत्तमाकामदानृणाम् ।
तदभावेतुरौप्यस्यताम्रस्यैवापिदारुजा ॥ १८ ॥
शिलापृथ्वीमयीवापिप्रतिष्ठाविधिपूर्वकम् ।
त्रिशूलण्डम रुङ्खङ्गपानपात्रधरांशुभाम् ॥ १९ ॥
युक्ताञ्चगङ्गालालस्यासर्वालङ्कारशोभिताम् ।
वस्त्राद्यलङ्कृतान्ताञ्चमनसावापिचिन्तिताम् ॥ २० ॥
माहात्म्यपुस्तकञ्चैतदथवास्थापयेत्सुधीः ।
सौवर्णेराजतेपीठेताम्रजेदारुजेऽथवा ॥ २१ ॥
सुवस्त्रान्तरितेतस्मिन्संस्थाप्यार्घ्यं पुरस्ततः ।
कर्पूर चन्दनाद्यैस्तदा पूर्यमनुपूर्वकम् ॥ २२ ॥
तदम्बुबिन्दुसंसर्गिकुसुमाद्यैः समर्चयेत् ।
मल्लारिम्भावसंयुक्तः शृणुध्वन्तत्फलन्द्विजाः ॥ २३ ॥
पार्यातकस्यकुसुमैर्मल्लारिम्पूजयेत्तुयः ।
सयातीन्द्रपदंशक्रोब्रह्मत्वमधियच्छति ॥ २४ ॥
अर्चयेदम्बुजैः शुभ्रैर्नीलरक्तैर्मणिद्विषम् ।
कल्पलक्षंवसेत्स्वर्गं सशक्रसमताङ्गतः ॥ २५ ॥
शङ्खवर्णाशोणवर्णास्वर्णवर्णाचमालती ।
अर्चयेत्कु अध्यायसुभैस्तस्यामल्लारिन्देवभूपतिम् ॥ २६ ॥
आब्रह्मकल्पलभतेस्वस्थितिंशिवसन्निधौ ।
इहलोके शुभान्कामान्कमलालङ्कृतोनरः ॥ २७ ॥
कृष्णरक्तैः सितैः पीतैः शतपत्रैर्यजेच्छिवम् ।
पार्यातकसमन्त स्यफलं पूर्ण मनोरथम् ॥ २८ ॥
हेम्नः पुष्पाणियः कृत्वाकलधौतस्यवापुनः ।
मैरालमर्चयेद्देवम्पार्यातकफलं लभेत् ॥ २९ ॥
चाम्पेयैर्वकुलैः कुन्दैः पुन्नागैः सुरपर्णजैः ।
पाटलैर्मल्लिकाजातैः किंशुकैर्नागकेसरेः ॥ ३० ॥
मल्लारिमर्चयेद्यस्तु रुद्रलोके महीयते ।
अवाप्यभोगानखिलान्कीर्तिदिग्वलयाङ्किताम् ॥ ३१ ॥
कदम्बैः क्षेत्रकौसुम्भै रेलैरेवतिकाभवैः ।
मल्लारिम्भावयेत्पुष्पैः शिवभृत्यः प्रियोभवेत् ॥ ३२ ॥
चारुवर्णैः कर्णिकारैरशोकतरुसम्भवैः ।
काञ्चनारस्यकुसुमैः करवीरैः सितासितैः ॥ ३३ ॥
मलद्विषम्पूजयेद्यः कलिदोषैर्नबाध्यते ।
प्राप्नोतिविविधान्भोगानुद्रलोके महीयते ॥ ३४ ॥
अर्कमन्दारकनकसिन्धुवारसमुद्भवैः ।
जपावन्धूकसिन्दूरकर्णिकागिरिमलकैः ॥ ३५ ॥
पुष्पैः सम्पूजयेद्देवंसयातिपरमाङ्गतिम् ।
लक्षमेकन्तुशरदांवसेद्रुद्रस्यंअरसन्निधौ ॥ ३६ ॥
रुद्राह्वयसमाहूतैरागस्त्यैश्रुतवृक्षजैः ।
अर्चयेत्पार्वतीशंयः शतपत्रफलं लभेत् ॥ ३७ ॥
पाच्यासमर्चयेच्छं भुङ्कृष्णोशीरेणवापुनः ।
मल्लारेः प्रेमपात्रत्वम्माङ्गल्यं सव्रजेद्धनी ॥ ३८ ॥
नागवल्लीदलैः शुभैः कृष्णैर्वा पूजयेद्विभुम् ।
सयातिनागलोकस्य साम्यम्मल्लारिशासनात् ॥ ३९ ॥
सुकोमलश्चचूतायैर्जव्वथैर्नीललोहितैः ।
येपूजयन्ति मल्लारिंसर्वलोके प्रपूजिताः ॥ ४० ॥
सुरूपाःसुभगाधन्यास्तेभवन्तिशतायुषः ।
मञ्जुलावाग्विलासेनस्वात्मज्ञानैकतत्पराः ॥ ४१ ॥
बिल्वपत्रैश्वराजानोभूमौतेस्वर्गसन्निभाः ।
गङ्गापत्रीद्रोणपुष्पी सुरपर्णीम रुद्वकैः ॥ ४२ ॥
वर्वरीतुलसीभिश्रपूजितोमलसूदनः ।
यैस्तेवसन्ति कैलासेकल्पकोटिशतानिच ॥ ४३ ॥
दूर्वापामार्गजातीभिः परितुष्टः सदाशिवः ।
आयुरारोग्यमैश्वर्यन्नृणान्दत्तेनसंशयः ॥ ।४४ ॥
चैत्रशुक्लचतुर्दश्यामितरस्मिन्दिनेथवा ।
मल्लारिंस्वमतेनैव पूजयेत्सुमहोत्सवम् ॥ ४५ ॥
सयातिभोगानखिलान्परत्रेचपराङ्गतिम् ।
अरिन्दमयते श्रीमानित्याहभगवाञ्छिवः ॥ ४६ ॥
पूजयेत्तन्दुलैद्भूतैरजनीचूर्णरञ्जितैः ।
मुखस्तम्भङ्करोत्येवशूद्राणांवादिनामसौ ॥ ४७ ॥
धूपन्दीपञ्चनैवेद्य खाद्यपानं पशुन्तथा ।
ताम्बूलञ्चसकर्पूरञ्चन्दनम्मृगनाभिजम् ॥ ४८ ॥
वस्त्रालङ्काररत्ना अध्यायनिनार्यः कुसुममुत्तमम् ।
अश्वंवित्तानुसारेणसुवर्णचामरादिकम् ॥ ४९ ॥
गीतंवाद्यम्प्रेक्षणीयञ्ज यघण्टासमन्वितम् ।
अन्यांश्चविविधान्भोगान्येर्पयन्तिपरमेश्वरम् ॥ ५० ॥
मल्लारौतेनराश्चाष्टभागान्यान्तिकलौ भुवि ।
यद्यञ्चितेचिन्तयन्तिप्राप्नुवन्त्यखिलञ्चतत् ॥ ५१ ॥
सर्वोपभोग्याकमलारनालङ्कारयोषितः ।
वाजिनः कुञ्जरास्तुङ्गामल्लारेः पूजनात्फलम् ॥ ५२ ॥
वसन्तेकेलिलीलाभिरुपचारैर्यथाविधि ।
चैत्रशुक्लतृतीयादिमासमेकम्महोत्सवे ॥ ५३ ॥
पूजयन्ह्मालसाकान्तम्मलारिन्देवभृपतिम् ।
सुमुखाकामिनीहस्तचामरैवजितः क्षितौ ॥ ५४ ॥
कन्दर्पमूर्तिर्भवतिराजतुल्यप्रतापवान् ।
सेवन्तेसिद्धगन्धर्वायक्षविद्याधरास्तथा ॥ ५५ ॥
रम्भातिलोत्तमामुख्यास्तङ्कैलासेनरोत्तमम् ।
समलारिप्रसादेनशिवस्यानुचरोभवेत् ॥ ५६ ॥
आषाढेश्रावणेवापिपूजयेद्यः पवित्रकैः ।
दिनमेकन्तुचासाद्यपवित्रोजायतेनरः ॥ ५७ ॥
सप्तजन्मकृतम्पापंविलयंयाति तस्यवै ।
लभतेपरमाम्भक्तिंश्रीमन्मल्लारिशासनात् ॥ ५८ ॥
महानवम्यां मल्लारेर्देव्याः प्रीतिपुरःसरम् ।
शृणोतिकलहंयस्तुकुरुते पूजनन्द्वयोः ॥ ५९ ॥
नारीणां प्रेमपात्रंस्यान्नारीतुसुभगाभवेत् ।
मोक्षार्थी लभते मोक्षमन्यथास्वर्गमाष्टुयात् ॥ ६० ॥
मार्गादिदिवसान्यावदेकवृद्धयाद्विजातिकान् ।
आषष्टिभोजयेद्विप्रान्बहून्वावैभवेच्छया ।
लक्ष्मीस्तस्यकुलेगेहे सोल्लासन्नन्दते ध्रुवम् ॥ ६१ ॥
यात्राम्मल्लारिदेवस्यमार्गषष्ट्यादिपर्वसु ।
कुर्वतितेषांयज्ञस्यस्युः फलानिपदेपदे ॥ ६२ ॥
यद्वित्तंव्ययमाशोतिमार्गेतस्मिंस्तदक्षयम् ।
सुधारूपेणलभतेपुमान्स्वर्गेनसंशयः ॥ ६३ ॥
येमल्लारिंसमुद्दिश्यसुवर्णङ्गोतुरङ्गमान् ।
वस्त्रालङ्कृतधान्यानिवित्तंरत्नानिशक्तितः ॥ ६४ ॥
रवेर्दिने प्रयच्छन्तितेषांसन्निहितः शिवः ।
यज्ञकोटिफलं पूर्ण जायतेनात्र संशयः ॥ ६५ ॥
उपोष्यशनिवारं तुमल्लारिं पूजयन्तिये ।
पूर्णकामाः सलक्ष्मीकानराः सद्योभवन्तिते ॥ ६६ ॥
विघ्नानिनाशमायान्तितेषां नृणाम्म हान्तिच ।
एकभुक्तंरवेर्वारे कदाचित्कुरुतेनरः ॥ ६७ ॥
मल्लारेः प्रियभक्तोसौलभतेसुमनोरथान् ।
अन्नदानम्प्रकुर्वन्तिमल्लारिप्रीतयेनराः ।
सिक्थमात्राणियावन्तितावद्वर्षाणिभुञ्जते ॥ ६८ ॥
पीयूषन्नित्यसेवन्तेस्वर्गेशक्रस्यसन्निधौ ।
मल्लस्यहन्तुः प्रीत्यैयैकुङ्कुमाक्षतपूर्वकम् ॥ ६९ ॥
ताम्बूलदानं कुर्वन्तिदेवस्तेषांसमीपगः ।
प्राङ्गणे परमेशस्यहरिद्राचूर्णसम्भवाः ॥ ७० ॥
पतन्तिपांसवो भूमौयेषां पूजाविशेषतः ।
यावतोगगनोद्भूतास्तावद्वर्षशतानिच ॥ ७१ ॥
प्राप्नुवन्तिमहाभोगाञ्छिवलोकेसनातनान् ।
इह लोकेऽपि विविधान्सर्वाश्चर्यकराञ्छुभान् ॥ ७२ ॥
झालसाकान्तयोः पूजांयः कुर्यात्समुखीभवेत् ।
सन्देहोनात्रकर्तव्योमल्लारेवचनादुवम् ॥ ७३ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
शिवपूजाविधिनिरूपणनाम एकविंशतितमोऽध्यायः ॥ २१ ॥
२२. श्रीमल्लारिप्रसादवाक्यं नामद्वाविंशतितमोऽध्यायः
श्रीमल्लारिरुवाच ।
तस्मात्सर्वप्रयत्नेनमयिभक्तिस्तुदुर्लभा ।
लभ्यतेमानुषैः सातुनपूर्वसुकृतैर्विना ॥ १ ॥
येषां गृहेमदीयातुप्रतिमापूज्यतेसदा ।
तेषाङ्गृहेसदालक्ष्मीश्चिरवासाः सुरर्षयः ॥ २ ॥
इदम्मदीयम्माहात्म्यम्पुस्तकं लिखितङ्गृहे ।
तिष्ठतेतस्यमाहात्म्यंशृणुध्वन्तद्विजोत्तमाः ॥ ३ ॥
तत्रनोग्रहभूतेशाडाकिन्योवनदेवताः ।
पूतनाश्च महामार्यः कृत्यारक्षः पिशाचकाः ॥ ४ ॥
प्रेतभैरव कूष्माण्डास्तथैवोग्राचमातरः ।
आपदेशिकलोकाश्चतथाभूचरखेचराः ॥ ५ ॥
यक्षगन्धर्वयक्षिण्यश्श्रेटकोपविषाणिच ।
येचक्रुरग्रहाः सर्वेसहजाब्रह्मराक्षसाः ॥ ६ ॥
व्याघ्रसर्पभुजङ्गास्तुवह्निचोरादयोपिच ।
येपूर्वजन्मकलुषप्रभवारोगसञ्चयाः ॥ ७ ॥
उत्पाताश्चैवये चान्येदुष्टभूतसमुद्भवाः ।
नपीडान्तत्रकुर्वन्तीममाज्ञानान्यथाभवेत् ॥ ८ ॥
गृहेतस्यमहालक्ष्मीःकल्पान्तासन्ततिस्तथा ।
किमत्रबहुनोक्तेनतत्कुलंरक्ष्यतेमया ॥ ९ ॥
एतन्ममैतन्माहात्म्यंयः शृणोतिद्विजोत्तमाः ।
यावदक्षरमर्यादाता वत्स्वर्गे महीयते ॥ १० ॥
एतत्पठतियोमर्त्यःसोश्वमेधफलं लभेत् ।
यःश्रावयिष्यतिनरोमाहात्म्यमिदमुत्तमम् ॥ ११ ॥
सोहमेवनसन्देहः पूज्योवस्त्रैश्चभूषणैः ।
योस्याप्यक्षरमप्येकंशृणोत्यन्यमुखादपि ॥ १२ ॥
सोचिरेणैव कालेनममयातिसलोकताम् ।
एतन्ममैतन्माहात्म्यंयः पठेत्प्रयतोनरः ॥ १३ ॥
सोचिरेणैव कालेनलभतेवाञ्छितं फलम् ।
अष्टम्याञ्चचतुर्दश्यान्नवम्याञ्चविधूदये ॥ १४ ॥
शिवरात्र्यान्तथाचम्पाषष्ठ्यांयः प्रयतोनरः ।
पठतेशृणुतेवापितत्फलम्प्रोच्यते कथम् ॥ १५ ॥
त्रिंशत्कोट्योपियेदेवास्त्वधिका येऽपिसर्वशः ।
ममशासनतः सर्वेतस्यकिङ्करतामियुः ॥ १६ ॥
नानेनसदृशोयज्ञोनानेन सदृशोमनुः ।
नानेनसदृशम्पुण्यन्नानेनसदृशीगतिः ॥ १७ ॥
बहुनात्रकिमुक्तेन जपयज्ञत्रतानिच ।
तीर्थदानतपोधर्मदेवतायतनानिच ॥ १८ ॥
वापीकूपतडागानियेचान्ये धर्मसञ्चयाः ।
नार्हतिश्रवणाच्चास्य सर्वेसाहस्रिकीन्तनूम् ॥ १९ ॥
दम्भेनकपटेनापि बलाद्वापिप्रसङ्गतः ।
यःशृणोतिजपेत्सोपिममवल्लभतामियात् ॥ २० ॥
नमे प्रियस्तथास्वामीनमेलम्बोदरः प्रियः ।
नतथाप्रीयतेगौरीयथाश्रोतास्यमानवः ॥ २१ ॥
किं तेन जातेनसुतेन सर्वथायो भक्तिमान्योमयिसर्वभावैः ।
दहाम्यहम्पातकराशिसञ्चयम्मद्रोहकारीनहिविन्दतेसुखम् ॥ २२ ॥
अस्यस्तोत्रस्यमाहात्म्यंश्रुतस्यपठितस्यच ।
शेषोप्यनन्तवदनैर्वक्तुम्पारन्नयास्यति ॥ २३ ॥
दीर्घायुरत्रत्रह्मापिचतुर्वदनपङ्कजैः ।
नवक्तुम्पारमायातिमाहात्म्यश्रवणस्यच ॥ २४ ॥
तस्मात्किमत्रबहुनायोमद्भक्तःसदानरः ।
सोहमेवनसन्देहोममैतद्वचनंयथा ॥ २५ ॥
सनत्कुमार उवाच ।
एवमुक्त्वातुमल्लारिस्तान्सर्वान्विसर्जच ।
तेऽपि प्रहृष्टमनसः स्वस्थानञ्चसमाययुः ॥ २६ ॥
अष्टाशीतिसहस्राणितस्मात्पूर्वकलौयुगे ।
पक्षपातेनविप्राणामगात्कैलासभूपतिः ॥ २७ ॥
सतत्रभुक्तिम्मुक्तिं चकलौसिद्धिम्प्रयच्छति ।
तस्मात्कलौयुगेनान्यःप्रभावोविद्यतेसुराः ॥ २८ ॥
श्रीशिव उवाच ।
एवमुक्त्वातुविप्रर्षिर्मल्लारिम्मनसार्चयत् ।
ऋषयोपिमहात्मानन्तम्प्रणम्यप्रतुष्टुवुः ॥ २९ ॥
ऋषय ऊचुः ।
महर्षेदुःखपङ्क स्थावयमुद्धारितास्त्वया ।
श्रुत्वा मल्लारिमाहात्म्यं हर्षश्चेतसि जायते ॥ ३० ॥
ततोऽधिकोऽस्तिकोदेवो देवदेवान्महेश्वरात् ।
यस्य वेदानचत्वारो रूपं विन्दन्ति तत्वतः ॥ ३१ ॥
अतः कलौयुगे घोरे भयं कस्यास्ति नो मुने ।
किञ्चात्रव हुनोक्तेन जीवदानन्त्वयाकृतम् ॥ ३२ ॥
श्रीशिव उवाच ।
एवं स्तुत्वा महात्मानन्तंविप्रमुनिपुङ्गवाः ।
खाश्रमानाययुः सर्वेजपयज्ञमहोत्सवाः ॥ ३३ ॥
तस्मात्पार्वतितत्राहङ्कलौसिद्धिप्रदोनृणाम् ।
तत्क्षेत्रन्तीर्थमप्येकम्भुक्तिमुक्तिफलप्रदम् ॥ ३४ ॥
अधिष्ठितम्मयादेवित्वया चकृपयानृणाम् ।
येनकेनापिभावेनयद्यदिच्छन्तिमानवाः ॥ ३५ ॥
तत्तत्सर्वमवाशोतिनात्र कार्याविचारणा ।
तस्मात्सर्वप्रकारेणसर्वभावेनसर्वदा ॥ ३६ ॥
अहमेवबुधैःसेव्योनान्यः कश्चनविद्यते ।
यद्गुह्यम्परमन्देविभक्त्यातववरानने ॥ ३७ ॥
प्रेम्णासम्प्रोक्तमेतभस्मात्किमन्यच्छ्रोतुमिच्छसि ।
कस्मिंश्चिञ्चनदातव्यंश्रद्धाहीनेकदाचन ॥ ३८ ॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे श्रीमल्लारिमाहात्म्ये
श्रीमल्लारिप्रसादवाक्यं नामद्वाविंशतितमोऽध्यायः ॥ २२ ॥
श्रीम्हालसापति मार्तण्डार्पणमस्तु ।
आरती मार्तण्डाची (मराठी)
जेजुरगड हा पर्वत शिवलिङ्गाकार ।
मृत्युलोकीं दुसरें कैलासशिखर ।
नाना परिची रचना रचली अपार ।
तये स्थळीं हो नान्दे स्वामी शङ्कर ।
जय देव जय देव जय शिवमार्तण्डा ॥ धृ० ॥
अरिमर्दनमल्लारी तूंची प्रचण्डा ।
जय देव जय देव जय शिवमार्तण्डा ॥ १ ॥
मणिमल्लदैत्य दोघे प्रबळ ते झाले ।
सर्व त्रिभुवनी त्यान्नीं प्रळय माण्डीले ।
नाटोपतीकोणावरदेम्मातले ।
देवगणगन्धर्वकाम्पतीत्यांला ।
जय देव जय देव जय शिवमार्तण्डा ॥ २ ॥
चम्पाषष्ठी दिवशीं अवतार धरिसी ।
मणिमल्लदैत्यांचा संहार करिसी ।
चरणीं पृष्ठीं खङ्गेवमर्मी स्थापिसी ।
अन्तीं वरदे दैत्या मुक्ति पैं देसी ।
जय देव जय देव जय शिवमार्तण्डा ॥ ३ ॥
मणिमल्लना मेन्दैत्यमल्लारी ।
देवां सङ्कटपडलें राहे जेजोरी ।
अर्धाङ्गीं म्हाळसा शोभे सुन्दरी ।
देवा ठाव मागे दास नरहरी ।
जय देव जय देव जय शिवमार्तण्डा ॥ ४ ॥
आरती मल्लारीची ।
जय देव अजय देव जय शिवमल्लारी ।
वारी दुर्जनवारी निन्दक अपहारी ॥ धृ० ॥
पञ्चानन हयवाहन सुभूषित नीळा ।
खण्डा मण्डित दण्डित दानवि अवलीळा ।
मणिमल्ल मर्दुनियां जो शिरी पिंवळा ।
हीरे कङ्कण बासिङ्गें सुमनाञ्च्या माळा ॥ १ ॥
जय देव अजय देव जय शिवमल्लारी ।
सुरवर संवर वरदे मजलागीं देवा ।
नाना नामें गाइन ही तुमची सेवा ।
अघटित गुण गावया वाटतसे हेवा ।
फणिवर शिणला कीती नरपामर केवा ॥ २ ॥
जय देव जय देव जय शिवमलारी ।
रघुविरस्मरणींशङ्करहृदयीन्निवाला ।
तोहामदनान्तक अवतारझाला ।
यालागींआवडीम्भावेंवर्णिला ।
रामरामदासाजिवलगभेटला ॥ ३ ॥
जय देव जय देव जय शिवमलारी ।
% Text title : Malhari Mahatmyam
% File name : malhArimAhAtmyam.itx
% itxtitle : malhArimAhAtmyam
% engtitle : malhArimAhAtmyam
% Category : shiva
% Location : doc_shiva
% Sublocation : shiva
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Indexextra : (Scan, Manuscripts)
% Acknowledge-Permission:
% Latest update : April 10, 2024
% Send corrections to : sanskrit at cheerful dot c om
% Site access : https://sanskritdocuments.org
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From http://sanskritdocuments.org
Questions, comments? Write to sanskrit@cheerful.com .