॥ श्रीनारदपञ्चरात्रम् १ २ ३ ॥
ॐ नमो भगवते वासुदेवाय
प्रथमैकरात्रे प्रथमोऽध्यायः
अथ मङ्गलाचरणम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
गणेशशेषब्रह्मेशदिनेशप्रमुखाः सुराः ।
कुमाराद्याश्च मुनयः सिद्धाश्च कपिलादयः ॥ १ ॥
लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा ।
भक्त्या नमन्ति यं शश्वत् तं नमामि परात् परम् ॥ २ ॥
ध्यायन्ते सततं सन्तो योगिनो वैष्णवास्तथा ।
ज्योतिरभ्यन्तरे रूपमतुलं श्यामसुन्दरम् ॥ ३ ॥
ध्यायेत् तं परमं ब्रह्म परमात्मानमीश्वरम् ।
निरीहमतिनिर्लिप्तम् निर्गुणं प्रकृतेः परम् ॥ ४ ॥
सर्वेशं सर्वरूपं च सर्वकारणकारणम् ।
सत्यं नित्यं च पुरुषं पुराणं परमव्ययम् ॥ ५ ॥
मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम् ।
स्वेच्छामयं परं धाम भगवन्तं सनातनम् ॥ ६ ॥
स्तुवन्ति वेदा यं शश्वन्न् आनन्तं जानन्ति यस्य ते ।
तं स्तौमि परमानन्दं सानन्दं नन्दनन्दनम् ॥ ७ ॥
भक्तप्रियं च भक्तेशं भक्तानुग्रहविग्रहम् ।
श्रीदं श्रीशं श्रीनिवासं श्रीकृष्णं राधिकेश्वरम् ॥ ८ ॥
ज्ञानामृतं ज्ञानसिन्धोः संप्राप्य शङ्कराद् गुरोः ।
परावराच्च परमाद् योगीन्द्राणां गुरोर्गुरोः ॥ ९ ॥
वेदेभ्यो दधिसिन्धुभ्यश्चतुर्भ्यः सुमनोहरम् ।
तज्ज्ञानमन्थदण्डेन संनिर्मथ्य नवं नवम् ॥ १० ॥
नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम् ।
विधिपुत्रो नारदोऽहं पञ्चरात्रं समारभे ॥ ११ ॥
ॐ नारायणाश्रमे पुण्ये पुण्यक्षेत्रे च भारत ।
सिद्धे नारायणक्षेत्रे वटमूले सुपुण्यदे ॥ १२ ॥
कृष्णांशं कृष्णभक्तं च पलं कृष्णपरायणम् ।
श्रीकृष्णचरणाम्भोजध्यानैकतानमानसम् ॥ १३ ॥
जपन्तं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम् ।
सुखासने सुखासीनं कृष्णद्वैपायनं मुनिम् ॥ १४ ॥
पप्रच्छ शुकदेवश्च सर्वज्ञं पितरं मुनिः ।
कारणण् च पुराणानां पुराणं परमव्ययम् ॥ १५ ॥
श्रीशुक उवाच
भगवन् सर्वतत्त्वज्ञ वेदवेदाङ्गपारग ।
यद् यत् प्रकारं ज्ञानं च निगूढं श्रुतिसम्मतम् ॥ १६ ॥
तेषु यत् सारभूतं चाप्यज्ञानान्धप्रदीपकम् ।
तत् तत् सर्वं समालोच्य मां बोधयितुमर्हसि ॥ १७ ॥
अथ श्रीकृष्णभक्तिप्रशंशा
स पिता ज्ञानदाता यो ज्ञानं तत् कृष्णभक्तिदम् ।
सा भक्तिः परमा शुद्धा कृष्णदास्यप्रदा च या ॥ १८ ॥
तद् एव दास्यं शस्तं यत् साक्षाच्चरणसेवनम् ।
नित्यं गोलोकवासं च पुरतः स्तवनं हरेः ॥ १९ ॥
शश्वन् निमेषरहितं तत्पादपद्मदर्शनम् ।
शश्वत् तत्सार्धमालापसेवाकर्मनियोजनम् ॥ २० ॥
तेन सार्धमविच्छेदस्थानं परं शोभनम् ।
भक्तानां वाञ्च्छितं वस्तु सारभूतं श्रुतौ श्रुतम् ॥ २१ ॥
पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः ।
विज्ञाय ज्ञानिनं पुत्रं परमाह्लादमाप ह ॥ २२ ॥
पुत्रं शुभाशिषं कृत्वा सर्वज्ञः सर्वभावनः ।
यथाप्राप्तं गुरुमुखात् प्रवक्तुमुपचक्रमे ॥ २३ ॥
श्रीव्यास उवाच
शुक धन्योऽसि मान्योऽसि पुण्यरूपोऽसि भारते ।
पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम् ॥ २४ ॥
स पुत्रः कृष्णभक्तो यो भारते सुयशस्करः ।
पुनाति पुंसां शतकं जन्ममात्रेण लीलया ॥ २५ ॥
मातामहानां शतकं मातरं मातृमातरम् ।
सोदरान् बान्धवांश्चैव भृत्यान् पत्नीं सहात्मजाम् ॥ २६ ॥
यत्कन्यां प्रतिगृह्णाति तदादिपुरुषत्रयम् ।
कन्याप्रदाता श्वशुरो जीवन्मुक्तः सभार्यकः ॥ २७ ॥
स्वयं विधाता भगवान् परं कृष्णपरायणः ।
कृष्णभक्तो वसिष्टस्तु तत् सुतो वैष्णवः स्वयम् ॥ २८ ॥
वैष्णवस्तत् सुतः शक्तिः कृष्णध्यानैकमानसः ।
पराशरश्च तत्पुत्रः कृष्णपादाब्जसेवया ॥ २९ ॥
जीवन्मुक्तो महाज्ञानी योगीन्द्राणां गुरोर्गुरुः ।
अहं वेदविभक्ता च श्रीकृष्णपादसेवया ॥ ३० ॥
गुरुर्मे भगवान् साक्षाद् योगीन्द्रो नारदो मुनिः ।
गुरोर्गुरुर्मे शम्भुश्च योगीन्द्राणां गुरोर्गुरुः ॥ ३१ ॥
तेषां पुण्येन पुत्रस्त्वं पुण्यराशिश्च मूर्तिमान् ।
पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम् ॥ ३२ ॥
श्रीकृष्णचरणाम्भोजं पादाब्जं नारदेशयोः ।
सरस्वतीं नमस्कृत्य ज्ञानं वक्ष्ये सनातनम् ॥ ३३ ॥
श्रूयताम् पञ्चरात्रं च वेदसारमभीप्सितम् ।
पञ्चसंवादमिष्टं च भक्तानामभिवाञ्च्छितम् ॥ ३४ ॥
प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभम् ।
अथ षट्संवादाः ? व्हत्? हि गोलोके शतशृङ्गे च पर्वते ॥ ३५ ॥
सुपुण्ये विरजातीरे वटमूले मनोहरे ।
पुरतो राधिकायाश्च ब्रह्माणं कमलोद्भवम् ॥ ३६ ॥
तमुवाच महाभक्तं स्तुवन्तं प्रणतं सुतम् ।
पञ्चरात्रमिदं पुण्यं श्रुत्वा च जगतां विधिः ॥ ३७ ॥
प्रणम्य राधिकां कृष्णं प्रययौ शिवमन्दिरम् ।
भक्त्या तम् पूजयामास शङ्करः परमादरम् ॥ ३८ ॥
सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम् ।
पप्रच्छ वार्तां विनयी विनयेन सुखावहाम् ॥ ३९ ॥
सर्वं तं कथयामास पञ्चरात्रादिकं शुभम् ।
वसन्तं वटमूले च स्वर्गे मन्दाकिनीतटे ॥ ४० ॥
योगीन्द्रैरपि सिद्धेन्द्रैर्मुनीन्द्रैश्च स्तुतं प्रभुम् ।
ज्ञानामृतं तमुक्त्वा स ब्रह्मलोकं जगाम ह ॥ ४१ ॥
शम्भुश्च कथयामास स्वशिष्यं नारदं मुनिम् ।
नारदः कथयामास पुष्करे सूर्यपर्वणि ॥ ४२ ॥
मां भक्तमनुरक्तं च पुण्याहे मुनिसंसदि ।
पञ्चरात्रमिदं शुद्धं भ्रमान्धध्वंसदीपकम् ॥ ४३ ॥
अथ पञ्चरात्रपदव्याख्या
रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् ।
तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ॥ ४४ ॥
ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहम् ।
ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ॥ ४५ ॥
ज्ञानम् द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितम् ।
परं मुक्तिप्रदं शुद्धं यतो लीनं हरेः पदे ॥ ४६ ॥
ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्णभक्तिदम् ।
तद्दास्यमधीष्टं च यतो दास्यं लभेद् धरेः ॥ ४७ ॥
चतुर्थं यौगिकं ज्ञानं सर्वसिद्धिप्रदं परम् ।
सर्वस्वं योगिनां पुत्र सिद्धानां च सुखप्रदम् ॥ ४८ ॥
अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथाकामावसायिता ॥ ४९ ॥
सावज्ञं दूरश्रवणं परकायप्रवेशनम् ।
कायव्यूहं जीवदानं परजीवहरं परम् ॥ ५० ॥
सर्गकर्तृत्वशिल्पं च सर्गसंहारकारणम् ।
सिद्धं च षोडशविधं ज्ञानिनां च यतो भवेत् ॥ ५१ ॥
ज्ञानं च परमं प्रोक्तं तद् वै वैषयिकं नृणाम् ।
यद् इष्टदेवी माया सा परं संमोहकारणम् ॥ ५२ ॥
विषये बद्धचितं च सर्वमिन्द्रियसेवनम् ।
पोषनं स्वकुटुम्बानां स्वात्मनश्च निरन्रतम् ॥ ५३ ॥
प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तद् एव च ।
नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम् ॥ ५४ ॥
चतुर्थम् च राजसिकं भक्तस्तन् नाभिवाञ्च्छति ।
पञ्चमं तामसं ज्ञानं विद्वांस्तन् नाभिवाञ्च्छति ॥ ५५ ॥
ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः ।
पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परम् ॥ ५६ ॥
ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम् ।
गौतमीयं नारदीयमिदं सप्तविधं स्मृतम् ॥ ५७ ॥
अथ ग्रन्थप्रशंसा
षट् पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः ।
इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजम् ॥ ५८ ॥
दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् ।
ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ॥ ५९ ॥
पुण्यं च पापविघ्नं भक्तिदास्यप्रदं हरेः ।
सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ॥ ६० ॥
सारभूतं च सर्वेषां वेदानां परमाद्भुतम् ।
नारदीयं पञ्चरात्रं पुराणेषु सुदुर्लभम् ॥ ६१ ॥
सर्वान्तरात्मा भगवान् ब्रह्मज्योतिः सनातनम् ।
परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च ॥ ६२ ॥
यथा देवीषु पूज्या सा मूलप्रकृतिरीश्वरी ।
वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ॥ ६३ ॥
विश्वस्तानां इन्द्रियानाम् मनश्च शीघ्रगामिनाम् ।
ब्रह्मा च वेदविदुषां पूज्यानां च गणेश्वरः ॥ ६४ ॥
सनत्कुमारो भगवान् मुनीनां प्रवरो यथा ।
बृहस्पतिर्बुद्धिमतां सिद्धानां कपिलो यथा ॥ ६५ ॥
योगीन्द्रानां सतां शुद्ध ऋषिर्नारायणो यथा ।
कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ॥ ६६ ॥
सरिताम् च यथा गङ्गा समुद्राणां जलार्णवः ।
वृन्दावनं वनानां च वर्षानां भारतं यथा ॥ ६७ ॥
पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा ।
आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ॥ ६८ ॥
वृक्षाणां कल्पवृक्षश्च सुरभी कामधेनुषु ।
पुष्पाणां पारिजातश्च पत्राणां तुलसी यथा ॥ ६९ ॥
मन्त्राणां कृष्णमन्त्रश्च यथा विद्या धनेष्वपि ।
यथा तेजस्विनां सूर्यो मिष्टानाममृतं यथा ॥ ७० ॥
आधाराणां च स्थूलानां महाविष्णुर्यथा सुत ।
सूक्ष्माणां परमाणुश्च गुरुणां मन्त्रतन्त्रदः ॥ ७१ ॥
पुत्रश्च स्नेहपात्राणां नक्षत्राणां यथा शशी ।
यथा घृतं च गव्यानां शस्यानां धान्यमीप्सितम् ॥ ७२ ॥
शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः ।
तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम् ॥ ७३ ॥
यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्वपि ।
पतिव्रतासु लक्स्मीश्च क्षमाशीलासु मेदिनी ॥ ७४ ॥
सौभाग्यासु सुन्दरीषु राधा कृष्णप्रियासु च ।
हनुमान् वानराणां च पक्षिणां गरुडो यथा ॥ ७५ ॥
वाहनानां बलवतां शङ्करस्य यथा वृषः ।
शालग्रामश्च यन्त्राणां पूजासु कृष्णपूजनम् ॥ ७६ ॥
एकादशी व्रतानां च तपःस्वनशनं यथा ।
यज्ञानां जपयज्ञश्च सत्यं धर्मेषु पुत्रक ॥ ७७ ॥
सुशीलं च गुणानां च पुण्येषु कृष्णकीर्तनम् ।
शोभाशु सुखदृश्येषु प्रभा तेजःसु सर्वतः ॥ ७८ ॥
पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा ।
लोकानामपि लोकेशः शेषो नागेषु पूजितः ॥ ७९ ॥
सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम् ।
धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ॥ ८० ॥
विष्णुभक्तेषु विज्ञेषु यथैव नारदो मुनिः ।
एवं च सर्वशास्त्रेषु पञ्चरात्रं च पूजितम् ॥ ८१ ॥
यथा निपीय पीयूषं न स्पृहा चान्यवस्तुषु ।
पञ्चरात्रमभिज्ञाय नान्येषु च स्पृहा सताम् ॥ ८२ ॥
सर्वार्थज्ञानबीजं चाप्यज्ञानान्धप्रदीपम् ।
वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम् ॥ ८३ ॥
इति श्रीनारदपञ्चरात्रे ग्रन्थप्रशंसनं नाम प्रथमोऽध्यायः
प्रथमैकरात्रे द्वितीयोऽध्यायः
शुक उवाच
कुत्र वा पञ्चरात्रं च नारदस्य च धीमते ।
प्रदत्तं शम्भुना तात तन् मे व्याख्यातुमर्हसि ॥ १ ॥
अथ नारदस्य तपोवर्णनम्
व्यास उवाच
अधीत्य सर्वान् वेदांश्च वेदाङ्गाण् पितुरन्तिके ।
जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते ॥ २ ॥
हिमालयस्य पूर्वे य गङ्गातीरे मनोहरे ।
सिद्धे नारायणक्षेत्रे सर्वेषां अभिवाञ्च्छिते ॥ ३ ॥
तपश्चकार स मुनिर्दिव्यं वर्षसहस्रकम् ।
पित्रोक्तेनैव विधिना सततं संयुतः शुचिः ॥ ४ ॥
शुश्रावाकाशवाणीं च तपसोऽन्ते महामुनिः ।
स्वल्पाक्षरां च बह्वर्थां परिणामसुखावहाम् ॥ ५ ॥
अथ नारदं प्रति दैववाणी
अशरीरिष्युवाच
आधारितो यदि हरिस्तपसा ततः किम् ।
नाधारितो यदि हरिस्तपसा ततः किम् ।
अन्तर्बहिर्यदि हरिस्तपसा ततः किम् ।
नान्तर्बहिर्यदि हरिस्तपसा ततः किम् ॥ ६ ॥
विरम विरम ब्रह्मन् किं तपस्यासु वत्स ।
व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञानसिन्धुम् ।
लभ लभ हरिभक्तिं वैष्णवोक्तां सुपक्वाम् ।
भवनिगडनिबन्धछेदिनीं कर्तनीं च ॥ ७ ॥
इति श्रुत्वा च स मुनिर्विमनाः स्वर्णदीतटे ।
चकारार्थानुसन्धानं न प्रसन्नम् च तन् मनः ॥ ८ ॥
रुरोद स्वर्णदीतीरे स्मारं स्मारं हरेः पदम् ।
ददर्श पुरतस्तातं ब्रह्माणं सकुमारकम् ॥ ९ ॥
ननाम सहसा मूर्ध्ना पितरं तं सहोदरम् ।
पाद्यमर्घ्यं च प्रददौ जवेन सादरं मुनिः ॥ १० ॥
श्लोकद्वयार्थं पप्रच्छ कुमारं जगतां विधिम् ।
सुखासीनं सुस्थिरं च सस्मितं च गतश्रमम् ॥ ११ ॥
स्वात्मारामं पूर्णकामं ज्ञानिनां च गुरोर्गुरुम् ।
साश्रुनेत्रः पुलकितो भक्त्या प्रणतकन्धरम् ॥ १२ ॥
नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः ।
पुत्रेण सार्द्धमालोच्य व्याख्यां कर्तुं समारेभे ॥ १३ ॥
अथ दैववाण्यर्थः
ब्रह्मोवाच
हे वत्स पूर्वश्लोकार्थं निगूढं श्रुतिसम्मतम् ।
वेदार्थं द्विविधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः ॥ १४ ॥
आराधितो यदि हरिर्येन पुंसा स्वभक्तितः ।
किं तस्य तपसा व्यर्थं तीर्थपूतस्य नारद ॥ १५ ॥
कृष्णमन्त्रोपासकस्य जीवन्मुक्तस्य भारते ।
तपश्चोपहासबीजं तथा चर्वितचर्वणम् ॥ १६ ॥
मन्त्रग्रहणमात्रेण पुरुषाणां शतं सुत ।
पुनाति स्वस्वभक्तं च चान्धवंश्चावलीलया ॥ १७ ॥
नहि धर्मो नहि तपः श्रीकृष्णसेवनात् परम् ।
परिश्रमं च विफलं तपसा वैष्णवस्य च ॥ १८ ॥
कृष्णमन्त्रोपासकस्य तीर्थपूतस्य पुत्रक ।
तीर्थस्नानमनशनं वेदेषु च विडम्बनम् ॥ १९ ॥
पूर्वकर्मानुरोधेन यत् पापं वैष्णवस्य च ।
मन्त्रग्रहणमात्रेण नष्टं वह्नौ यथा तृणम् ॥ २० ॥
पवित्रः परमो वह्निः पवित्रं चामलं जलम् ।
पवित्रं भारतं वर्षं तीर्थं यत् तुलसीदलम् ॥ २१ ॥
पुनाति लीलयैतानि शुद्धः कृष्णपरायणः ।
उपस्पर्श च भक्तस्याप्येते वाञ्च्छन्ति सादरम् ॥ २२ ॥
भक्तस्य पादरजसा सद्यः पूता वसुन्धरा ।
नहि पूतस्त्रिभुवने श्रीकृष्णसेवकात् परः ॥ २३ ॥
शालिग्रामशिलाचक्रे करोति कृष्णपूजनम् ।
तत्पादोदकनैवेद्यं नित्यं भुङ्क्ते च यः पुमान् ॥ २४ ॥
स वैष्णवो महापूतस्तन्मन्त्रोपासकः शुचिः ।
पुनाति पुंसां शतकं जन्ममात्रात् सबान्धवम् ॥ २५ ॥
वत्स श्लोकस्यैकपादं व्याख्यातं च यथागमम् ।
व्याख्यातं करोम्यन्यपादं यथाज्ञानं मिशामय ॥ २६ ॥
नाराधितो यदि हरिर्येन पुंसाधमेन च ।
किं तस्य तपसा व्यर्थं निष्फलं तत्परिश्रमः ॥ २७ ॥
व्रतान्येव हि दानानि तपांस्यनशनानि च ।
वेदोपयुक्ता यज्ञाश्च कर्माणि च शुभानि च ॥
न निष्पुनात्यभक्तं च सुराकुम्भमिवापगा ॥ २८ ॥
अभक्तस्पर्शमात्रेण तीर्थानि कम्पितानि च ।
अभक्तभारदुःखेन कम्पिता सा वसुन्धरा ॥ २९ ॥
श्लोकार्धं कथितं वत्स किंचिद् एव यथागमम् ।
तस्यार्धस्यापि व्याख्यानं करोमीति निशामय ॥ ३० ॥
वेदसारं कृष्णमतं ममापि नहि कल्पना ।
अन्तर्बहिर्यदि हैर्येषां पुंसां महात्मनां ॥ ३१ ॥
स्वप्ने जागरणे शश्वत् तपस्तेषां च निष्फलम् ।
स एव विष्णुतुल्यो हि तदंशो भारते मुने ॥ ३२ ॥
तस्य रक्षानिबन्धेन तदभ्यासे सुदर्शनम् ।
ध्यानमात्रेण निष्पापः पुनाति भुवनत्रयम् ॥ ३३ ॥
दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः ।
स्वयं तन् निकटं याति द्रष्टुं रक्षणाय च ॥ ३४ ॥
तत्परो हि प्रियो नास्ति कृष्णस्य परमात्मनः ।
नहि भक्तात् परश्चात्मा प्राणाश्चावयवादयः ॥
न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुरेव च ॥ ३५ ॥
भक्तप्राणो हि कृष्णश्च कृष्णप्राणा हि वैष्णवाः ।
ध्यायन्ते वैष्णवाः कृष्णं कृष्णश्च वैष्णवांस्तथा ॥ ३६ ॥
व्याख्यातम् च त्रिपादं च हे मुनीन्द्र यथागमम् ।
शेषपादस्य व्याख्यानं करोमीति निशामय ॥ ३७ ॥
नान्तर्बहिर्यदि हरिर्येषां पुंसां च नारद ।
तेषामपि तपो व्यर्थमन्तर्मलिनचेतसाम् ॥ ३८ ॥
किं तज्ज्ञानेन तपसा व्रतेन नियमेन च ।
तीर्थस्नानेन पुण्येनापि अभक्तमूढचेतसाम् ॥ ३९ ॥
कृष्णभक्तिविहीनेभ्यो द्विजेभ्यः श्वपचो महान् ।
शूकरो म्लेच्छनिवहः स्वधर्माचरेण च ॥ ४० ॥
स्वधर्महीना विप्राश्चाप्यभक्ष्यभक्षणेन च ।
नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः ॥ ४१ ॥
ब्रह्मणानां स्वधर्मश्च सन्ततं कृष्णसेवनम् ।
नित्यं ते भुञ्जते सन्तस्तन्नैवेद्यं पादोदकम् ॥ ४२ ॥
न दत्वा हरये यस्तु यदि भुङ्क्ते द्विजाधमः ।
अन्नं विष्ठासमं मूत्रसमं तोयं विदुर्बुधाः ॥ ४३ ॥
भुङ्क्ते स्वभक्ष्यं कोलश्च म्लेच्छश्च श्वपचाधमः ।
विप्रो नित्यमभक्ष्यं च भुङ्क्ते च पतितस्ततः ॥ ४४ ॥
श्लोकमेकं च व्याख्यातं यथाज्ञानं च नारद ।
सन्निबोध परस्यार्धं व्याख्यानं च यथोचितम् ॥ ४५ ॥
तपसो विरम ब्रह्मन् व्यर्थं भक्ततपो ध्रुवम् ।
शङ्करश्च गुरुं कृत्वा हरिभक्तिं लभाचिरम् ॥ ४६ ॥
सुपक्वा हरिभक्तिश्च तरणी भवतारणे ।
गुरुरेव परं ब्रह्म कर्णधारस्वरूपकः ॥ ४७ ॥
इत्येवमुक्त्वा त्वां देवी प्रजगाम सरस्वती ।
व्याख्यातस्तदभिप्रायः किं भूयः कथयामि ते ॥ ४८ ॥
ब्रह्माणश्च वचः श्रुत्वा जहास योगिनां गुरुः ।
सनत्कुमारो भगवान् उवाच पितरं शुक ॥ ४९ ॥
सनत्कुमार उवाच
पूर्वश्लोकस्य व्याख्यानं न बुद्धं शिशुना मया ।
पुत्रं शिष्यमबोधं च युक्तं बोधयितुम् पुनः ॥ ५० ॥
आराधितो हरिर्येन तस्य व्यर्थं तपो यदि ।
नाराधितो हैर्येन तस्य व्यर्तं तपो यदि ॥ ५१ ॥
तस्यारहितौ तौ द्वौ तपसश्च स्थलं कुतः ।
तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम् ॥ ५२ ॥
पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः ।
दध्यौ कृष्णपदाम्भोजं परं कल्पतरुं शुक ॥ ५३ ॥
क्षणं संचित्य पादाब्जं प्राप राद्धान्तमीप्सितम् ।
व्याख्यां कर्तुं समारेभे विधाता जगतामपि ॥ ५४ ॥
अथ नैवेद्यप्रशंसा
ब्रह्मोवाच
धन्योऽहं भवतः पुत्रात् ज्ञानिनां च गुरोर्गुरोः ।
विष्णुभक्ताच्च धर्मिष्ठात् सत्पुत्राच्च पिता सुखी ॥ ५५ ॥
धन्योऽसि पण्डितोऽसि त्वं हरिभक्तोऽसि पुत्रक ।
ममापि सफलं जन्म जीवनं च त्वया बुध ॥ ५६ ॥
निबोध पूर्वश्लोकार्थं पुनर्व्याख्यां करोमि च ।
तथापि चेन् न सन्तोषो भवान् व्याख्यां करिष्यति ॥ ५७ ॥
आशब्दः सम्यगर्थे च राधितः प्राप्तवाचकः ।
संप्राप्तश्च हरिर्येन व्यर्थस्तस्य तपःश्रमः ॥ ५८ ॥
येन सम्यक्प्रकारेण संप्राप्तो हरिरीश्वरः ।
स्वप्ने ज्ञाने च ज्ञातस्तेषां व्यर्थस्तपःश्रमः ॥ ५९ ॥
श्रीकृष्णविमुखं मूढं द्विजमेव नराधमम् ।
तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम् ॥ ६० ॥
यश्च मूढतमो लोके यश्च भक्तिं परां गतः ।
तावुभौ सुखसेधेते तपः कुर्वन्ति मध्यमाः ॥ ६१ ॥
देवान् अन्यांश्च भजते हरिं जानाति तत्परः ।
तपः करोति तं प्राप्तुमाकाङ्क्षन् मध्यमो जनः ॥ ६२ ॥
प्राक्तनाद् अनुरागी च गृही संसारसंवृतः ।
तपः करोति श्रीकृष्णपादपद्मार्थमीप्सितम् ॥ ६३ ॥
परं श्रीकृष्णभजनं ध्यानं तन्नामकीर्तनम् ।
तत्पादोदकनैवेद्यभक्षणं सर्ववाञ्च्छितम् ॥ ६४ ॥
अतीव मूढो विप्रश्च प्राक्तनाद् गुरुदोषतः ।
तामसो हि न जानाति श्रीकृष्णं त्रिगुणात् परम् ॥ ६५ ॥
अज्ञानाद् अथ वा ज्ञानात् सत्सङ्गाद् एव प्राक्तनात् ।
भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः ॥ ६६ ॥
स च मुक्तो भवेत् पुत्र मुच्यते सर्वपातकात् ।
स याति दिव्ययानेन गोलोकं लोकमुत्तमम् ॥ ६७ ॥
शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम् ।
अतीव सुश्रवं चारु मधुरं मुक्तिदं परम् ॥ ६८ ॥
कान्यकुब्जः सुक्षुब्धश्च ब्राह्मणो ग्रामयाजकः ।
देवलो वृषवाहश्च महामूढश्च पातकी ॥ ६९ ॥
स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्णपूजनम् ।
कृष्णभक्तसहालापदर्शनस्पर्शनं शुभम् ॥ ७० ॥
बभूव प्राक्तनात् तस्य क्षणमात्रं सुदुर्लभम् ।
तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः ॥ ७१ ॥
पितुः पुण्येन पुत्रश्च मार्गे पतितमल्पकम् ।
स्वयं भुक्तावशेषं च पतितं वैष्णवाज्जनात् ॥ ७२ ॥
सुस्निग्धाक्षतजीर्णं च रजसा मिश्रितं परम् ।
गच्छतस्तत्र विप्रस्य पतितं भक्ष्यवस्तु च ॥ ७३ ॥
नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक ।
तद्वस्तु भुक्तं विप्रेण कृष्णनैवेद्यमिश्रितम् ॥ ७४ ॥
सपुत्रेण क्षुधार्तेन तौ ययतुर्गृहम् ।
विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पतिव्रता ॥ ७५ ॥
परम्परानुसंबन्धात् पवित्रा सा बभूव ह ।
जीवन्मुक्तो ब्राह्मणश्च बभूव स सपुत्रकः ॥ ७६ ॥
कालेन तेन पुण्येन व्याघ्रभुक्तश्च कानने ।
सार्धं च व्याघ्रपुत्राभ्यां गोलोकं प्रययौ द्विज ।
पतिव्रता सहमृता भर्ता सार्धं जगाम सा ॥ ७७ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे नैवेद्यप्रशंसनं नाम द्वितीयोऽध्यायः
प्रथमैकरात्रे तृतीयोऽध्यायः
सनत्कुमार उवाच
अहो तात किमाश्चर्यं कृष्णस्य परमात्मनः ।
परं नैवेद्यमाहात्म्यं विस्तराद् वद साम्प्रतम् ॥ १ ॥
अथ श्रीकृष्णमहिमवर्णनम्
ब्रह्मोवाच
एकदा ब्राह्मणो हृष्टः प्रफुल्लवदनेक्षणः ।
पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा ॥ २ ॥
निमन्त्रितो विवाहेन महासंभारसंभृतः ।
भुक्त्वा पीत्वा च तद्गृहे स्वगृहं प्रययौ मुदा ॥ ३ ॥
सपुत्रो ब्राह्मणो मार्गे क्षुत्पिपासार्दितः सुतः ।
ददर्श चन्द्रभागां तां नदीमतिमनोहराम् ॥ ४ ॥
उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः ।
क्षुत्पिपासा बलवती वर्धते तात वर्त्मनि ॥ ५ ॥
पुत्रस्य वचनं श्रुत्वा तमुवाच द्विजः स्वयम् ।
भयंकरं वनमिदं समीपे सरितः सुतः ॥ ६ ॥
सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्यसरोवरम् ।
तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् ॥ ७ ॥
तातस्य वचनं श्रुत्वा जहास च चुकोप ह ।
पितरं वक्तुमारेभे रक्तपण्ग्कजलोचनः ॥ ८ ॥
शिशुरुवाच
बालोऽहं दशवर्षीयस्त्वं च वृद्धश्च ज्ञानदः ।
पिता ददाति पुत्राय ज्ञानं सर्वत्र भूतले ॥ ९ ॥
अहो दुरत्ययः कालो वृध्हो वदति बालवत् ।
कथं प्राक्तनमुल्लङ्घ्य ब्रूहि तात दुरत्ययम् ॥ १० ॥
प्राक्तनात् सुखदुःखं च रोगं शोकं भयं पितः ।
सुमृत्युरपमृत्युर्वा चिरायुरल्पजीवनः ॥ ११ ॥
यत्र काले च यन्मृत्युर्भवनं शुभकर्म च ।
न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते ॥ १२ ॥
यस्य हस्ते च यन्मृत्युर्विधात्रा लिखितः पुरा ।
न च तं खण्डितुं शक्तः स्वयं विष्णुश्च शङ्करः ॥ १३ ॥
तात व्यर्थमधीतं ते दुर्बुद्धेर्जन्म निष्फलम् ।
सुबुद्धेः सफलं जन्म तत्क्षणम् जीवनं सुखम् ॥ १४ ॥
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स मे रक्षां करिष्यति ॥ १५ ॥
येन कृष्णेन विश्वानि चासंख्यानि कृतानि च ।
चराचरं च यो रक्षेत् स मे रक्षां करिष्यति ॥ १६ ॥
घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः ।
निर्बन्धोऽपि यस्य मरणं तस्य मन्दिरे ॥ १७ ॥
यः शेते नागशय्यासु प्राक्तनान् मङ्गलाहितः ।
यो नागभक्षितो भोगात् स भृतो गरुडान्तिके ॥ १८ ॥
न समुद्रे च म्रियते नाग्निराशौ विषानले ।
न शस्त्रेण न चास्त्रेणायुर्मर्माणि रक्षति ॥ १९ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ २० ॥
कश्चिद् गर्भे च म्रियते कश्चिद् भूमिष्टमात्रतः ।
कश्चिद् यौवनकाले च कश्चिद् एव हि वार्द्धके ॥ २१ ॥
कश्चिद् चिरायु रोगी चाप्यरोगी चापि कश्चन ।
कश्चिद् धनी दरिद्रश्च कश्चिद् एव हि कर्मणा ॥ २२ ॥
कश्चित् कल्पान्तजीवी च चिरजीवी च कश्चन ।
प्राक्तनाद् अमरः कश्चिन् निषेको बलवत्तरः ॥ २३ ॥
कश्चिद् याति च राजेन्द्रो दिव्ययानेन कर्मणा ।
कश्चित् कीटपतङ्गेषु कश्चित् पश्वादियोनिषु ॥ २४ ॥
कश्चिद् एव हि सन्न्यासी कश्चिच्च नरघातकः ।
कश्चिद् गजेन्द्रगामी च पशुयायी च कश्चन ॥ २५ ॥
कश्चिद् सूक्ष्मांशुकाधारी कश्चिज्जीर्णपटी जनः ॥ २६ ॥
कश्चिन् नग्नोऽअप्यनाहारी सुधाभोजी च च कश्चन ।
कश्चिच्च सुन्दरः श्रीमान् गलत्कुष्टी च कश्चन ॥ २७ ॥
कश्चित् कुब्जश्चाङ्गहीनो बधिरः काण एव च ।
कश्चिद् दीर्घो मध्यमश्च कश्चित् खञ्जश्च वामनः ॥ २८ ॥
कश्चित् कृष्णश्च गौरश्च श्यामलश्च स्वकर्मणा ।
कश्चिद् भक्त्या च प्राप्नोति कृष्णदास्यं सुदुर्लभम् ॥ २९ ॥
ब्रह्मणः परमं स्थानं जन्ममृत्युजराहरम् ।
कश्चित् प्राप्नोति परमं ब्रह्मलोकं निरामयम् ॥ ३० ॥
कश्चित् स्वर्गमिन्द्रपदं शिवलोकं स्वकर्मणा ।
कश्चित् वर्गमिन्द्रलोकं यमलोकं च कश्चन ॥ ३१ ॥
कश्चिच्च नरके घोरे प्राप्नोति क्लेशमुल्वणम् ।
तादितो यमदूतेन क्षुधितस्तृषितः सदा ॥ ३२ ॥
भुङ्क्ते विण्मूत्रकीटं तन्मलं श्लेष्मं गरं वसाम् ।
क्षुरधारे तप्ततैले वह्नौ शिते जले स्थले ॥ ३३ ॥
प्राप्नोति दारुणं दुःखमाकल्पं पातकी पितः ।
तथा भोगावशेषे च लब्धा जन्म स्वकर्मणा ॥ ३४ ॥
व्याधियुक्तः प्रमुच्येत तया चेद् ईश्वरेच्छया ।
यद्भयाद् वाति वातोऽयं सूर्यस्तपति यद्भयात् ॥ ३५ ॥
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु ।
यस्याज्ञया सृष्टिविधौ मूर्मोऽनन्तं दधाति च ॥ ३६ ॥
स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया ।
यस्याज्ञया महाभीता सर्वाधारा वसुन्धरा ॥ ३७ ॥
धरा सा सर्वस्याद्या रत्नवांश्च हिमालयः ।
स्वयं विधाता भगवान् ध्यायते यमहर्निशम् ॥ ३८ ॥
यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः ।
सहस्रवक्त्रोऽयं स्तौति ध्यायते भजते सदा ॥ ३९ ॥
स्वय्ं सरस्वती स्तौति यमीश्वरमभीप्सितम् ।
सेवते पादपद्मं च स्वयं पद्मालया पितः ॥ ४० ॥
माया भीता च यं स्तौति दुर्गा दुर्गतिनाशिनी ।
स्तुवन्ति वेदाः सततं सावित्री वेदमातृका ॥ ४१ ॥
सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयः ।
राजेन्द्राश्चासुरेन्द्राश्च सुरेन्द्रा मनवस्तथा ॥ ४२ ॥
ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम् ।
केचिद् विदन्ति यं ब्रह्मां भगवन्तं सनातनम् ॥ ४३ ॥
केचित् प्रधानं सर्वाद्यं केचिच्च ज्योतिरीश्वरम् ।
केचिच्च सर्वरूपं च सर्वकारणकारणम् ॥ ४४ ॥
केचित् स्वेच्छाभयं रूपं भक्तानुग्रहविग्रहम् ।
केचित् सुरुचिरं श्यामसुन्दरं मनोहरम् ॥ ४५ ॥
सानन्दं परमानन्दं गोविन्दं नन्दनन्दनम् ।
भज तात परं ब्रह्म स्मर शश्वत् सुरेश्वरम् ॥ ४६ ॥
इत्येवमुक्त्वा पितरं चन्द्रभागानदीजले ।
स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्टमोदकम् ॥ ४७ ॥
पिता तद्वचनं श्रुत्वा सानन्दाश्रु मुमोच सः ।
चुचुम्ब गण्डं पुत्रस्य समाश्लेषणपूर्वकम् ॥ ४८ ॥
पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनम् ।
सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनम् ॥ ४९ ॥
पत्रं भोजनपात्रार्थमर्हतुं चञ्चलः शिशुः ।
चकार चयनं तूर्णं प्रशस्तं पत्रपञ्चकम् ॥ ५० ॥
सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस्तथा ।
ददर्श पुरतो बालः सुपक्वं वदरीफलम् ॥ ५१ ॥
चकार चयनं तानि फलानि शोभनानि च ।
धात्रीफलं सुपक्वं च पक्वमाम्रातकं तथा ॥ ५२ ॥
सुपक्वं च कदम्बं च चकार चयनं पुनः ।
सुपक्वं सुन्दरं रम्यं दाडिमं श्रीफलं तथा ॥ ५३ ॥
रम्यं जम्बुफलं चैव खर्जूरं सुमनोहरम् ।
करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा ॥ ५४ ॥
तत् सर्वं चयनं कृत्वा ददर्श पुरतः सरः ।
सुनिर्मलं जलं स्वच्छं श्वेतपद्मं मनोहरम् ॥ ५५ ॥
रुचिरं रक्तकह्लारं प्रस्फुटं च जलान्तिके ।
विहाय तानि सर्वाणि सरःशिरसि सुस्थले ॥ ५६ ॥
पपौ सरःस्वच्छतोयं जहार पद्ममुल्वणम् ।
किंचित् सुरक्तकह्लारं पक्वं पद्मफलं तथा ॥ ५७ ॥
सर्वमाहरणं कृत्वा पितरं गन्तुमुद्यतः ।
प्रफुल्लवदनः श्रीमान् सस्मितो द्विजबालकः ॥ ५८ ॥
प्रफुल्लचम्पकतरुं ददर्श पुरतः शिशुः ।
मल्लिकामालतीकुन्दयूथिकामाधवीलताः ॥ ५९ ॥
चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च ।
पुष्पेण फलपत्रेण तस्य भारो बभूव ह ॥ ६० ॥
बालो वोढुमशक्यन्तश्च ययौ गमनमन्थरः ।
न फलं बुभुजे सोऽपि धर्माधर्मभयेन च ॥ ६१ ॥
पुरो ददर्श स शिशुर्घोरं व्याघ्रालयं भिया ।
तात तातेति शब्दं च चकार ह पुनः पुनः ॥ ६२ ॥
न ददर्श च तातं च शार्दुलं च ददर्श सः ।
भिया सस्मार गोविन्दपादारवैन्दमीप्सितम् ॥ ६३ ॥
हरिं नरहरिं रामं कृष्णं विष्णुं च माध्वम् ।
दामोदरं हृषीकेशं मुकुन्दं मधुसूदनम् ॥ ६४ ॥
एतानि दश नामानि जपन् विप्रशिशुर्भिया ।
प्रययौ पुरतः शीघ्रं पुनरेव सरोवरम् ॥ ६५ ॥
सरसो निर्मले तीरे पुष्पाणि च फलानि च ।
ददौ भक्त्या भगवते कृष्णाय परमात्मने ॥ ६६ ॥
श्रीकृष्णपूजां कुर्वन्तं ध्यानमानां पदाम्बुजम् ।
निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः ॥ ६७ ॥
व्याघ्रं ददर्श बालश्च प्रकटास्यं भयानकम् ।
विकृताकारदशनं विकटाक्षं महोदरम् ॥ ६८ ॥
दृष्ट्वा च दुरतो व्याघ्रमुवास सरसस्तटे ।
दध्यौ कृष्णपदाम्भोजं जन्ममृत्युजराहरम् ॥ ६९ ॥
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धं च तथाज्ञाख्यं षट्चक्रं च विभाव्य च ॥ ७० ॥
कुण्डलिन्या स्वशक्त्या च सहितं परमेश्वरम् ।
सहस्रदलपद्मस्थं हृदये स्वात्मनः प्रभुम् ॥ ७१ ॥
ददर्श द्विभुजं कृष्णं पीतकौशेयवाससम् ।
सस्मितं सुन्दरं शुद्धं नवीनजलदप्रभम् ॥ ७२ ॥
कोटिकन्दर्पसौन्दर्यलीलाधाममनोहरम् ।
कोटिपार्वणपूर्णेन्दुप्रभाजुष्टं च सुन्दरम् ॥ ७३ ॥
सुखदृश्यं सुरूपं च भक्तानुग्रहकारकम् ।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ ७४ ॥
प्रफुल्लपद्मनयनं राधावक्षःस्थलस्थितम् ।
मालतीमाल्यसम्बद्धचूडाचारुसुशोभनम् ॥ ७५ ॥
धृतरत्नं रत्नपद्मं दक्षिणेन करेण च ।
वामेन मणिनिर्माणदीप्तदर्पणमुज्ज्वलम् ॥ ७६ ॥
रत्नकुण्डालयुग्मेन गण्डस्थलविराजितम् ।
कौस्थुभेन मणीन्द्रेण चारुवक्षःस्थलोज्ज्वलम् ॥ ७७।
मुक्ताराजिविनिन्दैकदन्तराजिविराजितम् ।
आजानुमालतीमालावनमालाविभूषितम् ॥ ७८ ॥
वेदाननसरस्वत्या स्तुतं ब्रह्मेशवन्दितम् ।
पद्मापद्मालयामायासंसेवितपदाम्बुजम् ॥ ७९ ॥
परिपूर्णतमम् ब्रह्म परमात्मानमीश्वरम् ।
निर्लिप्तं साक्षिभूतं च भगवन्तं सनातनम् ॥ ८० ॥
सर्वेशां सर्वरूपं च सर्वकारणकारणम् ।
पुरुषं परमात्मैकं परेशं प्रकृतेः परम् ॥ ८१ ॥
एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तम् ।
तुष्टाव परया भक्त्या तमीशं सम्पुटाञ्जलिः ॥ ८२ ॥
श्रीसुभद्र उवाच
हे नाथ दर्श्नं देहि मां भक्तं शरणागतम् ।
श्रीद श्रीश श्रीनिवास श्रीनिधे श्रीनिकेतन ॥ ८३ ॥
श्रिया सेवितपादाब्ज श्रीसमुत्पत्तिकारण ।
वेदानिर्वचनियेश निरीह निर्गुणाधिप ॥ ८४ ॥
सर्वाद्य सर्वनिलय सर्वबीज सनातन ।
शान्त सरस्वतीकान्त नितान्त सर्वकर्मसु ॥ ८५ ॥
सर्वाधार निराधार कामपूर परात् पर ।
दुष्पारासारसंसारकर्णधार नमोऽस्तु ते ॥ ८६ ॥
इत्येवमुक्त्वा स शिशु रुरोद च पुनः पुनः ।
ध्यायेन तत्पदाम्भोजं शरणं च चकार सः ॥ ८७ ॥
इति विप्रकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन् नरः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८८ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे श्रीकृष्णमहिमोपालम्भनं नाम तृतीयोऽध्यायः
प्रथमैकरात्रे चतुर्थोऽध्यायः
ब्रह्मोवाच
ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः ।
कृपां चकार भगवान् भक्तेशो भक्तवत्सलः ॥ १ ॥
एतस्मिन्न् अन्तरे तत्र भगवान् नन्दनन्दनः ।
नारायणर्षिः कृपया चाजगाम सरोवरम् ॥ २ ॥
ददर्श ब्राह्मणवटुं तमेव मुनिपुङ्गवम् ।
तेजसा सुखदृश्येन सुन्दरं सुमनोहरम् ॥ ३ ॥
पीतवस्त्रपरीधानं नवीनजलदप्रभम् ।
चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम् ॥ ४ ॥
प्रसन्नवदनं शुद्धं सस्मितं सर्वपूजितम् ।
विभान्तं च जपन्तं शुद्धस्फटिकमालया ॥ ५ ॥
दृष्ट्वा ननाम सहसा शिरसा विप्रपुङ्गवः ।
शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकम् ॥ ६ ॥
तमुवाच मुनिश्रेष्ठः कृपया दीनवत्सलः ।
हितं तथ्यं नीतिसारं परिणामसुखावहम् ॥ ७ ॥
श्रीनारायणर्षिरुवाच
अये विप्र महाभाग सफलं जीवनं तव ।
यस्मिन् कुले च जातोऽसि तद्धन्यं सुप्रशंसितम् ॥ ८ ॥
भज त्वं परमानन्दं सानन्दं नन्दनन्दनम् ।
ध्रुवं यास्यसि गोलोकं परमानन्दमीप्सितम् ॥ ९ ॥
तत् कुलं पावनं धन्यं यशस्यं च निरापदम् ।
यस्मिन् स्वयं भवान् जातः पुण्यः कृष्णपरायणः ॥ १० ॥
नैवेद्यं पतितं मार्गे जीर्नं श्वापदभक्षितम् ।
भुक्त्वा तवैषा बुद्धिश्च कृष्णभक्तिर्बभूव च ॥ ११ ॥
कृष्णनैवेद्यमाहात्म्यं को वत्स कथितुं क्षमः ।
यद् वक्तुं न हि शक्ताश्च वेदाश्चत्वार एव च ॥ १२ ॥
वरं वृणुष्व भद्रं ते सुभद्र द्विजपुङ्गव ।
सर्वं दातुमहं शक्तो यत् ते मनसि वाञ्च्छितम् ॥ १३ ॥
नारायणवचः श्रुत्वा तमुवाच शिषुः स्वयम् ।
पुनः कम्पितसर्वाङ्गः साश्रुनेत्रः पुटाञ्जलिः ॥ १४ ॥
सुभद्र उवाच
देहि मे कृष्णपादाब्जे दृढं भक्तिं सुदुर्लभम् ।
तद्दास्यं तत्पदे वासं जरामृत्युहरं परम् ॥ १५ ॥
अन्यं वरं न गृह्णामि न मे किंचित् प्रयोजनम् ।
नाहं वरार्थी कामी च रागी वेतनभुग् यथा ॥ १६ ॥
नारायणर्षिरुवाच
श्रीकृष्णो यस्य भक्तिश्च तस्यात्र किं सुदुर्लभम् ।
अणिमादिकद्वत्रिंशत्सिद्धिः करतले परा ॥ १७ ॥
निर्विकल्पो ददात्यस्य नैव गृह्णाति वैष्णवः ।
अनिमित्तां हरेर्भक्तिं भक्ता वाञ्च्छन्ति सन्ततम् ॥ १८ ॥
गृहाण मन्त्रं कृष्णस्य परं कल्पतरुं वरम् ।
भक्तिदं दास्यदं शुद्धं कर्ममूलनिकृन्तनम् ॥ १९ ॥
लक्ष्मीर्मायाकामबीजं ङेऽन्तं कृष्णपदं तथा ।
वह्निजायान्तमन्त्रं च मन्त्रराजं मनोहरम् ॥ २० ॥
इत्येवमुक्त्वा तत्कर्णे कथयामास दक्षिणे ।
वारत्रयं मुनिश्रेष्ठः शुद्धभावेन पुत्रक ॥ २१ ॥
येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम् ।
आज्ञां चकार स ऋषिस्तद् एव पठितुं मुदा ॥ २२ ॥
कवचं च ददौ तस्मै जगन्मङ्गलमङ्गलम् ।
ध्यानं च सामवेदोक्तं सर्वपूजाविधिक्रमम् ॥ २३ ॥
हरेर्दास्यं च तद्भक्तिर्गोलोकवासमीप्सितम् ।
जन्मद्वयान्तरे चैव कर्मभोगक्षये सति ॥ २४ ॥
सुभद्र उवाच
सत्यं कुरु महाभाग वरं मे यदि दास्यसि ।
वरं वृणोमि तत् पश्चात् यन् मे मनसि वाञ्च्छितम् ॥ २५ ॥
नारायणर्षिरुवाच
ॐ सत्यं वत्स दास्यामि वरं वृणु यथेप्सितम् ।
ममाशक्यं नास्ति किंचित् दाताहं सर्वसम्पदाम् ॥ २६ ॥
सुभद्र उवाच
कण्ठे ते किं च कवचं कस्य वा सर्वपूजितम् ।
अमूल्यरत्नगुटिकायुक्तं च सुमनोहरम् ॥ २७ ॥
कवचं देहि मे देव स्वसत्यरक्षणं कुरु ।
विप्रस्य वचनं श्रुत्वा शुष्ककण्ठौष्ठातालुकः ॥ २८ ॥
वक्तुं न शक्तस्तद् वाक्यं दध्यौ कृष्णपदाम्बुजम् ।
प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः ॥ २९ ॥
तमुवाच महर्षिश्च वितुष्टश्चोन्मनाः सुत ।
वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितम् ॥ ३० ॥
नारायणर्षिरुवाच
त्रिंषत्सहस्रवर्षं च भुङ्क्ष्व राज्यं सुदुर्लभम् ।
लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव ॥ ३१ ॥
मदिष्टदेवकवचं गृहीतं येन हेतुना ।
सप्तकल्पान्तजीवस्य परत्र च भविष्यति ॥ ३२ ॥
सुचिरेणैव कालेन गोलोकं च प्रायस्यसि ।
परे मृकण्डुपुत्रस्त्वं मार्कण्डेयो भविष्यसि ॥ ३३ ॥
मया दत्तं च कवचं त्वां च रक्षति पुत्रक ।
तव कण्ठे स्थितिश्चाश्य प्रति जन्मनि जन्मनि ॥ ३४ ॥
पुनश्च गुटिकायुक्तं कृत्वा च कवचं मुनिः ।
गले दधार भक्त्या च तद्भक्तो धर्मनन्दनः ॥ ३५ ॥
वरं दत्वा च स मुनिर्ययौ गेहं स उन्मनाः ।
विप्राय कवचं दत्वा नष्टवत्सा गौर्यथा ॥ ३६ ॥
भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना ।
मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ॥ ३७ ॥
विप्रः सम्प्राप्य कवचं मन्त्रं कल्पतरुं परम् ।
सरोवरात् समुत्थाय प्रज्वलन् ब्रह्मतेजसा ॥ ३८ ॥
क्षणं तस्थौ सरस्तीरे वटमूले मनोहरे ।
जजाप परमं मन्त्रं सम्पूज्य जगदीश्वरम् ॥ ३९ ॥
अथ तत्तातविप्रो हि समन्विष्य सुतं चिरम् ।
गत्वा च स्वगृहं दुःखी शोकार्तः स रुरोद च ॥ ४० ॥
समुद्यता तनुं त्यक्तुं तन्माता पुत्रवार्तया ।
न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नमुत्तमम् ॥ ४१ ॥
विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषणपूर्वकम् ।
प्रययौ काननं घोरं सर्वैश्च बान्धवैः सहः ॥ ४२ ॥
सर्वं वनं समन्विष्य प्रययुस्ते सरोवरम् ।
ददृशुस्ते शिशुं गृह्यं सूर्याभं वटमूलके ॥ ४३ ॥
चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदम् ।
आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ॥ ४४ ॥
पुत्रश्च सर्ववृत्तान्तं कथयामास सादरम् ।
श्रुत्वा पुत्रस्य विप्रश्च विप्रा बान्धवस्तथा ॥ ४५ ॥
ययुः सर्वे स्वदेशं च परमाह्लादमानसाः ।
चन्द्रभागां समुत्तीर्य विवेश नगरं परम् ॥ ४६ ॥
नगरस्थो नृपेन्द्रश्च दृष्ट्वा तेजस्विनं शिशुम् ।
ददौ तस्मै स्वकन्यां च रत्नालङ्कारभूषितम् ॥ ४७ ॥
युवतीं सुन्दरीं श्यामां तप्तकञ्चनसंनिभाम् ।
पतिव्रतां महाभागां सुन्दरीं कमलाकलाम् ॥ ४८ ॥
गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा ।
अश्वानां दशलक्षं च रत्नानां च सहस्रकम् ॥ ४९ ॥
दासीनां निष्ककण्ठीनां सौन्दरीणां सहस्रकम् ।
वस्त्ररत्नसहस्रं च बहुमूल्यं सुदुर्लभम् ॥ ५० ॥
दासानां च सहस्रं च पदातीनां त्रिलक्षकम् ।
दशलक्षं सुवर्णं च रत्नमालां सुदुर्लभाम् ॥ ५१ ॥
दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः ।
राजा च कन्यया सार्धं प्रययौ विप्रमन्दिरम् ॥ ५२ ॥
गत्वा चापि कियद् दूरं ददर्श नगरं नृपः ।
अतीव सुन्दरं रम्यं विजित्य चामरावतीम् ॥ ५३ ॥
शुद्धस्फटिकसंकाशं रत्नसारविनिर्मितम् ।
त्रिकोटिचट्टालिकागेहं नवकोटिसुमन्दिरम् ॥ ५४ ॥
सप्तप्राकारयुक्तं च परिखात्रयसम्युक्तम् ।
दुर्लङ्घ्यमतिदुर्गम्यं रिपूणामपि पुत्रक ॥ ५५ ॥
शिशोश्च स्वाश्रमं रम्यं सद्रत्नसारनिर्मितम् ।
स्फुरत् वज्रकपाटं च रत्नेन्द्रकलशान्वितम् ॥ ५६ ॥
सद्रत्नदर्पणाइर्दीपं रत्नकुम्भैर्विराजितम् ।
प्राङ्गणं रत्नसाराढ्यं रत्नसोपानशोभितम् ॥ ५७ ॥
मनोहरं राजमार्गं सिन्दूरादिपरिष्कृतम् ।
प्राकारं मणिभूषाढ्यमुच्चैराकाशस्पर्शि च ॥ ५८ ॥
जगाम विस्मयं राजा दृष्ट्वा नगरमुत्तमम् ।
पित्रा मात्रा सह शिशुर्विस्मयं च ययौ मुदा ॥ ५९ ॥
गजेन्द्राणां त्रिलक्षं च श्वानां शतलक्षकम् ।
चतुर्गुणं पदातीनामाययुस्तेऽप्यनुव्रजम् ॥ ६० ॥
वारणेन्द्रं पुरस्कृत्य वेश्यां च नर्तकं तथा ।
द्विजांश्च पूर्णकुम्भांश्च पतिपुत्रवतीं सतीम् ॥ ६१ ॥
महापात्रः शिशुं दृष्ट्वा गजेन्द्रोपरिसंस्थितम् ।
मूर्ध्ना ननाम वेगेनाप्यवरुह्य गजाद् अपि ॥ ६२ ॥
शिशुं प्रवेशयां आस रत्ननिर्माणमन्दिरम् ।
रत्नसिंहासनं तस्मै प्रददौ सादरं मुदा ॥ ६३ ॥
कन्यादात्रे च पित्रे च मात्रे च सादरं मुदा ।
रत्नसिंःआसनं रम्यं प्रददौ पात्र एव च ॥ ६४ ॥
शिशुम् सिषेव पात्रश्च स्वयं च श्वेतचामरैः ।
दधार रत्नछत्रं च हीराहारपरिष्कृतम् ॥ ६५ ॥
उवास स सभार्यां च सुधर्म्यां महेन्द्रवत् ।
श्वसुरश्च ययौ गेहं शिशुना च पुरस्कृतः ॥ ६६ ॥
त्रिंशत्सहस्रवर्षं च राजा राज्यं चकार सः ।
कालान्तरे तत्पिता च वने व्याघ्रेण भक्षितः ॥ ६७ ॥
पतिव्रता महाभागा माता सहमृता सुत ।
रत्नयानेन रम्येण सस्त्रीकः कृष्णमन्दिरम् ॥ ६८ ॥
प्रययौ सादरं विप्रः कृष्णनैवेद्यभक्षणात् ।
तदस्थि भुक्त्वा व्याघ्रश्च पूतः सद्यश्च सांप्रतम् ॥ ६९ ॥
ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरम् ।
शिशुर्देहं परित्यज्य हिमाद्रौ स्वर्णदीतटे ॥ ७० ॥
दत्वा पुत्राय राज्यं च स्वर्गाद् अपि सुदुर्लभम् ।
मृकण्डुपत्नीगर्भे च लेभे जन्म स्वकर्मणा ॥ ७१ ॥
मार्कण्डेयो मुनिश्रेष्ठो बभूव परजन्मनि ।
सप्तकल्पान्तजीवी च नारायणवरेण सः ॥ ७२ ॥
बभूव सांप्रतं विप्रः कृष्णनैवेद्यभक्षणात् ।
श्वभक्षितं च नैवेद्यं भुक्त्वा चेद् ईदृशी गतिः ।
अकामतश्चाप्यज्ञातो जीर्णमार्गस्थितं सुत ॥ ७३ ॥
यो भक्षेत् कामतो ज्ञातो नित्यं नैवेद्यमीप्सितम् ।
न जानन्ति गतिस्तस्य वेदाश्चत्वार एव च ॥ ७४ ॥
इति ते कथितं ब्रह्मन्न् इतिहासं पुरातनम् ।
आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुमिच्छसि ॥ ७५ ॥
श्रीनारद उवाच
श्रुतं नैवेद्यमाहात्म्यमतीव सुमनोहरम् ।
ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ॥ ७६ ॥
अधुना श्रोतुमिच्छामि स्वात्मसन्देहभञ्जनम् ।
नारायणर्षेर्कण्ठे च कवचं तस्य तद् वद ॥ ७७ ॥
अथ कवचप्रश्नः
सनत्कुमार उवाच
ममाप्यस्तीति सन्देहो वचने प्रपितामह ।
कस्य तत् कवचं ब्रह्मन्न् इदं वक्तुं त्वमर्हसि ॥ ७८ ॥
स पिता स गुरुः स्वच्छः करोति भ्रमभञ्जनम् ।
शीघ्रं ब्रूहि महाभाग नारदं मां सुतप्रिय ॥ ७९ ॥
पुत्रयोश्च वचः श्रुत्वा शुष्ककण्ठौष्ठतालुकः ।
उवाच वचनं ब्रह्मा स्मरन् कृष्णपदाम्बुजम् ॥ ८० ॥
ब्रह्मोवाच
नारायणेन मुनिना जगन्मङ्गलमङ्गलम् ।
विप्राय कवचं दत्तम् ध्यानं च पर्मात्मनः ॥ ८१ ॥
तद् ब्रवीमि महाभाग त्वामेव नारदं प्रति ।
कण्ठस्थं कवचं वक्तुं नैव शक्नोमि सांप्रतम् ॥ ८२ ॥
मत्कण्ठे कवचं यस्य गोपनीयं सुदुर्लभम् ।
नारायणर्षिकण्ठे च तद् एव परमाद्भुतम् ॥ ८३ ॥
तद् एव धर्मकण्ठे च नरस्य च महात्मनः ।
अगस्त्यस्य च कण्ठे च लोमशस्य महामुनेः ॥ ८४ ॥
तुलस्याश्चापि संज्ञायाः सावित्र्याश्चापि पुत्रक ।
अन्येषां च भाग्यवतां भारते च सुदुर्लभे ॥ ८५ ॥
नारद उवाच
पश्चात् श्रोष्यामि कवचं जगन्मङ्गलमङ्गलम् ।
ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः ॥ ८६ ॥
आदौ कथय भद्रं ते परं परमभद्रकम् ।
सुभद्रप्राप्तं कवचं माहात्म्यं यस्य दुर्लभम् ॥ ८७ ॥
ब्रह्मोवाच
सुभद्रप्राप्तं कवचं पश्चात् श्रोष्यसि पुत्रक ।
शङ्करस्य मुखाद् विप्र स्वगुरोर्ज्ञानिनस्तथा ॥ ८८ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे ब्रह्मानारदसंवादे
प्रथमैकरात्रे कवचप्रश्नो नाम चतुर्थोऽध्यायः
प्रथमैकरात्रे पञ्चमोऽध्यायः
श्रीसनत्कुमार उवाच
तवेच्छा यत्र कवचे ध्याने तद् वद साम्प्रतम् ।
यच्छृणोमि शुभं तच्च केन श्रेयसि तृप्यते ॥ १ ॥
ब्रमोवाच
ध्यानं सामवेदोक्तं दत्तम् नारायणेन वै ।
कवचं च सुभद्राय धर्मिष्ठाय महात्मने ॥ २ ॥
नवीनजलदश्यामं पीतकौशेयवाससम् ।
चन्दनोक्षितसर्वाङ्गं सस्मितं श्यामसुन्दरम् ॥ ३ ॥
मालतीमाल्यभूषाढ्यं रत्नभूषणभूषितम् ।
मुनीन्द्रेशसुसिद्धेशब्रह्मेशशेषवन्दितम् ॥ ४ ॥
सर्वस्वरूपं सर्वेशं सर्वबीजं सनातनम् ।
सर्वाद्यं सर्वज्ञं पुरुषं प्रकृतेः परम् ॥ ५ ॥
निर्गुणं च निरीहं च निर्लिप्तमीस्वरं भजे ।
ध्यात्वा मूलेन तस्मै च दद्यात् पाद्यादिकं मुदा ॥ ६ ॥
ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन् नरः ।
जप्त्वा च मन्त्रं भक्त्या दण्डवत् प्रणमेद् भुवि ।
इति ते कथितं वत्स किं भूयः श्रोतुमिच्छसि ॥ ७ ॥
श्रीसनत्कुमार उवाच
ब्रूहि मे कवचं ब्रह्मन् जगन्मङ्गलमङ्गलम् ।
पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥ ८ ॥
अथ जगन्मङ्गलमङ्गलकवचम्
ब्रह्मोवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।
श्रीकृष्णेनैव कथितं मह्यं च कृपया परा ॥ ९ ॥
मया दत्तं च धर्माय तेन नारायणर्षये ।
ऋषिणा तेन तद् दत्तं सुभद्राय महात्मने ॥ १० ॥
अतिगुह्यतमं शुद्धं परं स्नेहाद् वदाम्यहम् ।
यद् धृत्वा पठनात् सिद्धाः सिद्धानि प्राप्नुवन्ति च ॥ ११ ॥
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमाप्नुयुः ।
ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयम् ॥ १२ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
राधेशो मे शिरः पातु कण्ठं रधेश्वरः ॥ १३ ॥
गोपीशश्चक्षुषी पातु तालु च भगवान् स्वयम् ।
गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥ १४ ॥
गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः ।
वक्षस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥ १५ ॥
नभिं पातु पद्मनाभः कङ्कालं कंससूदनः ।
पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ।१६ ॥
पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयम् ।
नासां च नखरं पातु नरसिंहः स्वयं प्रभुः ॥ १७ ॥
सर्वेश्वरश्च सर्वाङ्गं सन्ततं मधुसूदनः ।
प्राच्यां पातु च रामश्च वह्नौ च वंशीधरः स्वयम् ॥ १८ ॥
पातु दामोदरो दक्षे नैरृते च नरोत्त्मः ।
पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥ १९ ॥
अनन्तश्चोत्तरे पातु ऐशान्यामीश्वरः स्वयम् ।
जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा ॥ २० ॥
पातु वृन्दावनेशश्च मां भक्तं शरणागतम् ।
इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ २१ ॥
सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् ।
इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥ २२ ॥
हरिदास्यमवाप्नोति गोलोके वासमुत्तमम् ।
इहैव हरिभक्तिं च जीवन्मुक्तो भवेन् नरः ॥ २३ ॥
नारद उवाच
नारायणर्षिणा दत्तं कवचं यत् सुदुर्लभम् ।
सुभद्राय ब्राह्मणाय तन् मे वक्तुमिहार्हसि ॥ २४ ॥
ब्रह्मोवाच
मदिष्टदेव्याः कवचं कथं तत् कथयामि ते ।
मत्कण्ठे पश्य कवचं सद्रत्नगुटिकान्वितम् ॥ २५ ॥
नारायणर्षिणा दत्तं कवचं गुटिकान्वितम् ।
तथापीदं न कथितं निषिद्धं हरिणा स्मृतम् ॥ २६ ॥
तस्यर्षेश्चेष्टदेव्याश्च नोक्तं तेनेदमीप्सितम् ।
मह्यं न दत्ता गुटिका बान्धवैर्भर्त्सितेन च ॥ २७ ॥
आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति ।
प्राणा नष्टाश्च दानेन चेति वेदविदो विदुः ॥ २८ ॥
शङ्करं गच्छ भगवन् जन्मान्तरगुरुं तव ।
स एव तुभ्यं कवचं दास्यस्येव न संशयः ॥ २९ ॥
त्वत्प्राक्तनेन विप्रेन्द्र सत्वरेण शुभेन च ।
ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत् सुदुर्लभम् ॥ ३० ॥
कुमार गच्छ वैकुण्ठं स्वगुरुं पश्य सत्वरम् ।
नारायणश्च कवचं तुभ्यं दास्यसि निश्चितम् ॥ ३१ ॥
सनत्कुमारो भगवान् गत्वा वैकुण्ठमीप्सितम् ।
संप्राप्य कवचं वत्स कवचं तत् सुदुर्लभम् ॥ ३२ ॥
आज्ञया ब्रह्मणश्चापि नारदो गन्तुमुद्यतः ।
ब्रह्मा ययौ ब्रह्मलोकं जन्ममृत्युजरापहम् ॥ ३३ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे पञ्चमोऽध्यायः
प्रथमैकरात्रे षष्ठोऽध्यायः
श्रीशुक उवाच
सनत्कुमारो वैकुण्ठं ब्रह्मलोकं च ब्रह्मणि ? व्हत्? ।
गते ब्रह्मन् किं चकार भगवान् नारदो मुनिः ॥ १ ॥
व्यासो उवाच
मुनिस्तयोश्च गतयोः स रुरोद सरित्तटे ।
इतस्ततश्च बभ्राम मद्वियोगशुचास्पद ॥ २ ॥
स्वमानसे समालोक्य मुनिश्रेष्ठः स उन्मनाः ।
ध्यायमानो हरिपदं शिवं द्रष्टुं समुत्सुकः ॥ ३ ॥
प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा ।
जगाम तपसस्थानात् कैलासाभिमुखे मुनिः ॥ ४ ॥
स्नात्वा च कृतमालायां संपूज्य परमेश्वरम् ।
भुक्त्वा फलं जलं पीत्वा प्रययौ गन्धमादनम् ॥ ५ ॥
ददर्श ब्राह्मणं तत्र वटमूले मनोहरे ।
कटमस्तम् ध्यायमानं श्रीकृष्णचरणाम्बुजम् ॥ ६ ॥
दीर्गं नग्नं गौराङ्गं दीर्घलोमभिरावृतम् ।
निमीलिताक्षं सानन्दं सानन्दाश्रुसमन्वितम् ॥ ७ ॥
पाद्मे पद्मेशशेषादिसुरपूजितवन्दिते ।
श्रीपादपद्मे शोभाढ्ये शश्वत्संन्यस्तमानसम् ॥ ८ ॥
बाह्यज्ञानपरित्यक्तं योगज्ञानविशारदम् ।
शिवस्य शिष्यं सद्भक्तं योगीन्द्राणां गुरोर्गुरोः ॥ ९ ॥
हृत्पद्मे पद्मनाभं च परमात्मानमीश्वरम् ।
प्रदीपकलिकाकारं ब्रह्मज्योतिःसनातनम् ॥ १० ॥
साक्षिस्वरूपं परमं भगवन्तमधोक्षजम् ।
पश्यन्तं सस्मितं कृष्णं पुलकाङ्कितविग्रहम् ॥ ११ ॥
सद्भावोद्रिक्तचित्तं च सद्भावं पुरुषोत्तमे ।
दृष्ट्वा महर्षिप्रवरं देवर्षिविस्मयम् ययौ ॥ १२ ॥
इतस्ततश्च बभ्राम ददर्श स्वाश्रमं मुनेः ।
अतीव सुरहःस्थानं रम्यं रम्यं नवं नवम् ॥ १३ ॥
सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम् ।
श्वेतरक्तोत्पलदलैः कमलैः कमनीयकम् ॥ १४ ॥
गुञ्जदिन्दिन्दवरैर्? व्हत्? मकरन्दोदरैस्तथा ।
व्याकुलैः संकुलैः शश्वद्राजितैश्च विराजितम् ॥ १५ ॥
वन्यैर्वृक्षैर्बहुविधैः फलशाखासुशोभितैः ।
करञ्जकैश्च करजैर्बिम्बैः शाखोटिकैस्तथा ॥ १६ ॥
तिन्तिडीभिः कपित्थैश्च वटशिंशपाचन्दनैः ।
मन्दारैः सिन्धुवारैश्च ताडिपत्रैः सुशोभनैः ॥ १७ ॥
गुवाकैर्नारिकेतैश्च खर्जुरैः पनसैस्तथा ।
तालैः शालैः पियालैश्च हिन्तालैर्वकुलैरपि ॥ १८ ॥
आम्रैराम्रातकैश्चैव जम्बीरैर्दाडिमैस्तथा ।
श्रीफलैर्वदरीभिश्च जम्बुभिर्नागरङ्गकैः ॥ १९ ॥
सुपक्वफलशोभाड्यैः सुस्निग्धैः सुमनोहरैः ।
तरुणैस्तरुराजैस्च नानाजातिभिरीप्सितम् ॥ २० ॥
मल्लिकामालतीकुन्दकेतकीकुसुमैः शुभैः ।
माधवीनां लताजालैश्चर्चितं चारुचम्पकैः ॥ २१ ॥
कदम्बानां कदम्बैश्च स्वच्छैः श्वेतैश्च पुष्पितैः ।
नागेश्वराणां वृन्दैश्च दीप्तं मन्दारकैर्वरैः ॥ २२ ॥
हंसकारण्डवकुलैः पुंस्कोकिलकुलैस्तथा ।
सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम् ॥ २३ ॥
शार्दूलैः शरभैः सिंहैर्गण्डकैर्महिषैः परम् ।
मनोहरैः कृष्णसारैश्चमरभिर्भावभूषितम् ॥ २४ ॥
महामुनिप्रभावेन हिंसादोषविवर्जितम् ।
दस्युचौरहिंस्रजन्तुभयशोकविवर्जितम् ॥ २५ ॥
सुपुण्यदं तीर्थवरं भारते सुप्रशंसितम् ।
सिद्धस्थलं सिद्धिदं तं मन्त्रसिद्धिकरं परम् ॥ २६ ॥
दृष्ट्वाश्रमं मुनिश्रेष्ठो जगाम मुनिसंसदि ।
आसने च समासीनं ध्यानहीनं ददर्श तम् ॥ २७ ॥
समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षिपुङ्गवम् ।
दत्वामलं फलं मूलं संभाषां स चकार ह ॥ २८ ॥
प्रश्नं चकार स मुनिवीणापाणिं नारदम् ।
सस्मितः सस्मितं शुद्धं शुद्धवंशसमुद्भवम् ॥ २९ ॥
सद्भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्मतेजसा ।
अतिथिं ब्राह्मणवरं ब्रह्मपुत्रं च पूजितम् ॥ ३० ॥
मुनिरुवाच
किं नाम भवतो विप्र क्व यासीति क्व चागतः ।
क्व ते पिता स को वापि क्व वासः कुत्र संभवः ॥ ३१ ॥
मां वा ममाश्रमं वापि पूतं कर्तुमिहागतः ।
मूर्तिमद्ब्रह्मतेजो हि मम भाग्याद् उपस्थितः ॥ ३२ ॥
अथ वैष्णवदर्शनफलम्
न ह्यम्मयानि तीर्थानि न देवा मृच्छितामयाः ।
ते पुनन्त्युरुकालेन वैष्णवो दर्शनेन च ॥ ३३ ॥
सद्यः पूतानि तीर्थानि सद्यः पूता ससागरा ।
सशैलकाननद्वीपा पादस्पर्शाद् वसुन्धरा ॥ ३४ ॥
धन्योऽहं कृतकृत्योऽहं सफलं मम जीवनम् ।
सहसोपस्थितो गेहे ब्राह्मणो वैष्णवोऽतिथिः ॥ ३५ ॥
पूजितो वैष्णवो येन विश्वं च तेन पूजितम् ।
आश्रमं वस्तुसहितं सर्वं तुभ्यं निवेदितम् ॥ ३६ ॥
फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् ।
सुवासितम् पिब स्वादु शीतलं निर्मलं जलम् ॥ ३७ ॥
दुग्धं च सुरभीदत्तं रम्यं मधुरितं मधु ।
परिपक्वं फलरसं पिब स्वादु मुहुर्मुहुः ॥ ३८ ॥
सुखबीज्ये सुतल्पे च शयनं कुरु सुन्दरे ।
सुशीतवातसौगन्ध्यपूतेन सुरभीकृते ॥ ३९ ॥
अथातिथिपूजनफलम्
अतिथिर्यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् ।
हरौ तुष्टे गुरुस्तुष्टो गुरौ तुष्टे जगत्त्रयम् ॥ ४० ॥
अधिष्ठातातिथिर्गेहे सन्ततं सर्वदेवताः ।
तीर्थान्येतानि सर्वाणि पुण्यानि च व्रतानि च ॥ ४१ ॥
तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च ।
अपूजितैरतिथिभिर्सार्धं सर्वे प्रयान्ति ते ॥ ४२ ॥
अथातिथिविमुखे दोषाः
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
पितरस्तस्य देवाश्च पुण्यं धर्मव्रताशनाः ॥ ४३ ॥
यमः प्रतिष्ठा लक्ष्मीश्चाभीष्टदेवो गुरुस्तथा ।
निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम् ॥ ४४ ॥
स्त्रीघ्नैश्चैव कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।
विश्वासघातिभिर्दुष्टैर्मित्रद्रोहिभिरेव च ॥ ४५ ॥
सत्यघ्नैश्च कृतघ्नैश्च पापिभिः स्थापिभिस्तथा ।
दानापहारिभिश्चैव कन्याविक्रियिभिस्तथा ॥ ४६ ॥
सीमापहारिभिश्चैव मिथ्यासाक्षिप्रदातृभिः ।
ब्रह्मस्वहारिभिश्चैव तथा स्थाप्यस्वहारिभिः ॥ ४७ ॥
वृषवाहैर्देवलैश्च तथैव ग्रामयाजिभिः ।
शूद्रान्नभोजिभिश्चैव शूद्रश्राद्धाहभोजिभिः ॥ ४८ ॥
श्रीकृष्णविमुखैर्विप्रैर्हिंस्रैर्नरविघातिभिः ।
गुरावभक्तै रोगार्तैः शश्वन्मिथ्याप्रवादिभिः ॥ ४९ ॥
विप्रस्त्रीगामिभिः शूद्रैर्मातृगामिभिरेव च ।
अश्वत्थघातिभिश्चैव पत्नीभिः पतिघातिभिः ॥ ५० ॥
पितृमातृघातिभिश्च शरणागतघातिभिः ।
ब्राह्मणक्षत्रविट्शूद्रैः शिलास्वर्णापहारिभिः ॥ ५१ ॥
तुल्यो भवति विप्रेन्द्रातिथिरेव त्वनर्चितः ।
इत्य एवमुक्त्वा मुनिः पूजयामास नारदम् ।
मिष्टं च भोजयामास शाययामास भक्तितः ॥ ५२ ॥
श्रीनारद उवाच
नारदोऽहं मुनिश्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः ।
तपःस्थलाद् आगतोऽहं यामि कैलासमीप्सितम् ॥ ५३ ॥
आत्मानं पावनं कर्तुं त्वां च द्रष्टुमिहागतः ।
पुनन्ति प्राणिनः सर्वे विष्णुभक्तप्रदर्शनात् ॥ ५४ ॥
को भवान् ध्यानपूतश्च नग्नश्च कटमस्तकः ।
किं ध्यायसे महाभाग श्रेष्ठदेवश्च को गुरुह् ॥ ५५ ॥
मुनिरुवाच
जीवमुक्तो भवान् एव पुनासि भुवनत्रयम् ।
यस्य तत्र कुले जन्म तस्य तत्तद्वचोमनः ॥ ५६ ॥
पुत्रे यशसि तोये च कवित्वेन च विद्यया ।
प्रतिष्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम् ॥ ५७ ॥
विधाता जगतां ब्रह्मा ब्रह्मैकतानमानसः ।
तत्पुत्रोऽसि महाख्यातो देवर्षिप्रवरो महान् ॥ ५८ ॥
लोमशोऽ हं महाभाग जगत्पावनपावन ।
नग्नोऽल्पायुर्विवेकी च वाससा किं प्रयोजनम् ॥ ५९ ॥
वृक्षमूले निवासे मे छत्रेण किं गृहेण च ।
रौद्रवृष्टिवारणार्थं सांप्रतं कटमस्तकः ॥ ६० ॥
जलबुद्बुदविद्युद्वत्त्रैलोक्यं कृत्रिमं द्विज ।
ब्रह्मादितृणपर्यन्तं सर्वं मिथ्याइव स्वप्नवत् ॥ ६१ ॥
किं कलत्रेण पुत्रेण धनेन संपदा श्रिया ।
किं वित्तेन च रूपेण जीवनाल्पायुषा मुने ॥ ६२ ॥
इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम ।
मनोश्च पतनं तत्र मायया किं प्रयोजनम् ॥ ६३ ॥
सर्वलोमकोत्पाटनेन केशौघोत्पाटनेन च ।
अल्पायुषो मम मुने मरणं निश्चितं भवेत् ॥ ६४ ॥
ध्याये श्रीपादपद्मं तत्पाद्मपद्मेशवन्दितम् ।
परस्य प्रकृतेस्तस्य कृष्णस्य परमात्मनः ॥ ६५ ॥
तस्य मेऽभीष्टदेवस्य सर्वेषां कारणस्य च ।
गुरुर्मे जगतां नाथो योगीन्द्राणां गुरुः शिवः ॥ ६६ ॥
मत्कण्ठे कवचं यस्य मद्गुरुः कथयिष्यति ।
गुरोर्निषेधो यत्रास्ते तद् वक्तुं कः क्षमो भुवि ॥ ६७ ॥
गुरोश्च वचनं यो हि पालनं न करोति च ।
गुरूक्तमुक्त्वा पापी स ब्रह्महत्यां लभेद् ध्रुवम् ॥ ६८ ॥
स्वगुरुं शिवरूपं च तद्भिन्नं मन्यते हि यः ।
ब्रह्महत्यां लभेत् सोऽपि विघ्नस्तस्य पदे पदे ॥ ६९ ॥
अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर्वचः ।
अपालने सर्वविघ्नं लभते नात्र संशयः ॥ ७० ॥
आशिषा पादरजसा चोच्छिष्टालिङ्गेन च ।
मुच्यते सर्वपापेभ्यो जीवन्मुक्तो भवेन् नरः ॥ ७१ ॥
स्वगुरुं शङ्करं पश्य गच्छ कैलासमीप्सितम् ।
मुच्यते विघ्नपापेभ्यो गुरोश्चरणदर्शनात् ॥ ७२ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथ्मैकरात्रे
लोमशनारदसंवादे षष्ठोऽध्यायः
प्रथमैकरात्रे सप्तमोऽध्यायः
संभाष्य लोमशं तस्माज्जगाम नारदो मुनिः ।
पुष्पभद्रानदीतीरमतीव सुमनोहरम् ॥ १ ॥
यत्रास्ते शृङ्गकूटश्च शुद्धस्फटिकसन्निभिः ।
नानावृक्षसमायुक्तैस्त्रिभिरन्यैः सरोवरैः ॥ २ ॥
हंसकारण्डवाकीर्णैर्भ्रमरैर्ध्वनिसुन्दरैः ।
पुंस्कोकिलनिनादैश्च सन्ततं सुमनोहरैः ॥ ३ ॥
शैत्यसौगन्ध्यमान्ध्यैश्च वायुभिः सुरभीकृतैः ।
समाधियुक्तो यत्रास्ते मार्कण्डेयो महामुनिः ॥ ४ ॥
स मुनिर्नारदं दृष्ट्वा भक्त्या च प्रणनाम च ।
पप्रच्छ कुशलं शान्तं शान्तः सत्त्वगुणाश्रयः ॥ ५ ॥
मार्कण्डेयो उवाच
अद्य मे सफलं जन्म जीवनं चातिसार्थकम् ।
ममाश्रमे पुण्यराशिर्ब्रह्मपुत्रश्च नारदः ॥ ६ ॥
अहो देवर्षिप्रवरो दीप्तमान् ब्रह्मतेजसा ।
क्व यासि कुत आयासि किं ते मनसि वर्तते ॥ ७ ॥
मानसं प्राणिनामेव सर्वकर्मैककारणम् ।
मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः ॥ ८ ॥
मुनेश्च वचनं श्रुत्वा वीणापाणि स्वमीप्सितम् ।
उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम् ॥ ९ ॥
नारद उवाच
हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम् ।
द्रष्टुं महादेवं च प्रणामं कर्तुमीश्वरम् ॥ १० ॥
पूजां गृहीत्वा चेत्युक्त्वा प्रययौ नारदो मुनिः ।
मार्कण्डेयश्च शोकार्तः सद्विच्छेदः सुदारुणः ॥ ११ ॥
हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया ।
स्वर्गमन्दाकिनीतीरं कैलासं प्रययौ मुनिः ॥ १२ ॥
ददर्श वटवृक्षं च योजनायतमुच्छ्रितम् ।
शोभितं शतकैः स्कन्धैः रक्तपक्वफलान्वितैः ॥ १३ ॥
सुस्निग्धैः सुन्दरैः रम्यै रम्यपक्षीन्द्रसंकुलैः ।
सिद्धेन्द्रैश्च मुनीन्द्रैश् योगीन्द्रैः परिशोभितम् ॥ १४ ॥
प्रणतांस्तांश्च संभाष्य पार्वतीकाननं ययौ ।
सुन्दरं वर्तुलाकारं चतुर्योजनमीप्सितम् ॥ १५ ॥
शोभितं सुन्दरै रम्यैः सप्तभिश्च सरोवरैः ।
शश्वन्मधुकरासक्तपद्मराजिविराजितैः ॥ १६ ॥
नीलरक्तोत्पलदलपटलैः परिशोभितैः ।
पुष्पोद्यानैश्च शतकैः पुष्पितैः सुमनोहरैः ॥ १७ ॥
मल्लिकामालतीकुन्दयूथिकामाधवीलता ।
केतकीचम्पकाशोकमन्दारकविराजिका ॥ १८ ॥
नागपुन्नागकुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका ।
विष्णुक्रान्ता च तुलसी शोफली सप्तला तथा ॥ १९ ॥
एतेषां च समूहैश्च पुष्पवल्लीविराजितैः ।
आम्रैराम्रातकैस्तालनारिकेलैः पियालकैः ॥ २० ॥
खर्जूरैश्च गुवाकैश्च पलासैर्जम्बुभिस्तथा ।
दाडिम्बैश्चापि जम्बीरैर्निम्बैश्चैव वटैस्तथा ॥ २१ ॥
करञ्जैर्वदरीभिश्च परितः श्रीफलोज्ज्वलैः ।
कदम्बानां कदम्बैश्च तिन्तिण्डीनां कदम्बकैः ॥ २२ ॥
अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः ।
वटशाखोटकैः कुन्दैः शंगुभिः सप्तपर्णकैः ॥ २३ ॥
पिच्छिलैः पर्णशालैश्च गम्भारिभिश्च वल्गुकैः ।
हिङ्गुलैरञ्जनैर्वल्कैर्भूर्जपत्रैः सपत्रकैः ॥ २४ ॥
अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विराजितम् ।
कल्पवृक्षैः पारिजातैश्चारुचन्दनपल्लवैः ॥ २५ ॥
सुस्निग्धस्थलपद्मैश्च चित्रितैर्भूमिचम्पकैः ।
अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विभूषितम् ॥ २६ ॥
सिंहेन्द्रैः शरभेन्द्रैश्च गजेन्द्रैर्गण्डकेन्द्रैः ।
शार्दूलेन्द्रैश्च महिषैरश्वैश्च वन्यशूकरैः ॥ २७ ॥
शल्लकैर्बल्लकैर्मर्कैः कूटैश्च शशकैः शकैः ।
कृष्णसारैश्च हरिणैश्चमरीचामरोज्ज्वलम् ॥ ।२८ ॥
पुंस्कोकोलकुलानां च गानैश्च विराजितम् ।
मत्तानां पल्लवस्थानां माधवेषु मनोहरम् ॥ २९ ॥
शुकानां राजहंसानां मयूराणां च पुत्रकैः ।
क्षेमकरीखञ्जनानां राजिभिश्च मनोहरम् ॥ ३० ॥
हरित्पीतरक्तकृष्णसुपक्वफलपत्रकैः ।
सुस्निग्धाक्षतपत्रैश्च नूतनैरभिभूषितम् ॥ ३१ ॥
हिंसाभयादिरहितं सर्वेषां पशुपक्षिणाम् ।
परस्परं च सुप्रीतं हिंस्राणां क्षुद्रजन्तुभिः ॥ ३२ ॥
तत्र क्रीडास्थलं रम्यं पार्वतीपरमेशयोः ।
मुनीन्द्रैरिन्द्रनीलैश्च पद्मरागैः परिष्कृतम् ॥ ३३ ॥
क्रोशायतं परिमितं वर्तुलं चन्द्रविम्बवत् ।
अम्लानरम्भास्तम्भानां लक्षलक्षैश्च वेष्टितम् ॥ ३४ ॥
चित्रितं सूक्ष्मसूत्राक्तैर्नूतनैरभिभूषितम् ।
नूतनाक्षतपत्रैश्च ललितैः परिशोभितम् ॥ ३५ ॥
रक्तपीतासितैः स्निग्धैरम्लानैः सुमनोहरैः ।
परितः परितः शश्वन् मालाजालैर्विभूषितम् ॥ ३६ ॥
शय्याभूतं सुतल्पैश्च स्निग्धचम्पकचन्दनैः ।
पुष्पचन्दनयुक्तेन वायुना सुरभीकृतम् ॥ ३७ ॥
कस्तूरीकुङ्कमासक्तसुगन्धिचन्दनैः सितैः ।
मार्जितं चित्रितं चित्रैः परितो रङ्गवस्तुभिः ॥ ३८ ॥
दृष्ट्वा तद् अद्भुतं शीघ्रं प्रययौ स्वर्णदीं मुनिः ।
शुद्धस्फटिकसंकासां सर्वपापविनाशिनीम् ॥ ३९ ॥
भवाब्धिघोरतरणे तरणीं नित्यनूतनाम् ।
कृष्णपादप्रसूतां च जगत्पूज्यां पतिव्रताम् ॥ ४० ॥
स्नाट्वा कृष्णं च संपूज्य परमात्मानमीश्वरम् ।
प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम् ॥ ४१ ॥
साक्षिणं कर्मणामेव ब्रह्म ज्योतिः सनातनम् ।
प्रययौ पुरतो रम्यं राजमार्गं ददर्श सः ॥ ४२ ॥
मणिभिः स्फटिकाकारैरमलैर्बहुमूल्यकैः ।
परिष्कृतं च सर्वत्र निर्मितं विश्वकर्मणा ॥ ४३ ॥
सतां पुण्यवतां दृष्टमदृष्टं कृतपापिनाम् ।
धनुः शतं परिमितं चित्रराजिविराजितम् ॥ ४४ ॥
दध्यं सर्वाश्रमान्तं च प्रख्यात् कोटिगुणोत्तरम् ।
रथं ददर्श पुरतो मनोयायि मनोहरम् ॥ ४५ ॥
अमूल्यरत्ननिर्माणविमाणसारसुन्दरम् ।
धनुर्लक्षं परिमितं परितो वर्तुलाकृतम् ॥ ४६ ॥
ऊर्ध्वस्थितमूर्ध्वगं च सहस्रचक्रसंयुतम् ।
धनुर्लक्षोऽपि सूतं च वह्निशुद्धांशुकान्वितम् ॥ ४७ ॥
हीरासारविनिर्माणं सुचारुकलशोज्ज्वलम् ।
रत्नप्रदीपदीप्ताढ्यं रत्नदर्पणभूषितम् ॥ ४८ ॥
मुक्ताशुक्तिनिबद्धैश्च शोभितं श्वेतचामरैः ।
माणिक्यसारहारेण मणिराजैर्विराजितम् ॥ ४९ ॥
पारिजाटप्रसूतानां मायाजालैः परिष्कृतम् ।
ग्रीष्ममध्याह्नमार्तण्डं सहस्रसदृशोज्ज्वलम् ॥ ५० ॥
ईश्वरेच्छाविनिर्माणं कामपुरं च कामिनाम् ।
सर्वभोगसमाविष्टं कल्पवृक्षपरं वरम् ॥ ५१ ॥
ससक्तचित्रितै रम्यै रतिमन्दिरसुन्दरैः ।
गोलोकाद् आगतं पूर्वं क्रीडार्थं शङ्करस्य च ॥ ५२ ॥
विवाहे परिनिष्पन्ने पार्वतीपरमेशयोः ।
रथं दृष्ट्वा च प्रययौ कियद् दूरं महामुनिः ॥ ५३ ॥
अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम् ।
रत्नेन्द्रसारनिर्माणं शिविरैः शतकोटिभिः ॥ ५४ ॥
मितैस्तस्मात् शतगुणैस्तत्र सुन्दरमन्दिरैः ।
युक्तं रत्नकपाटैश्च रत्नधातुविचित्रितैः ॥ ५५ ॥
परमस्तम्भसोपानैर्वज्रमिश्रैर्विभूषितम् ।
ददर्श शिविरं शम्भोः परिखाभिस्त्रिभिर्युतम् ॥ ५६ ॥
दुर्लघ्याभिरामित्राणां सुगम्याभिः सतामहो ।
प्रकारैश्च त्रिभिर्युक्तं धनुर्लक्षोच्छ्रितं सुत ॥ ५७ ॥
सम्मितं सप्तभिर्द्वारैर्नानारक्षकरक्षितैः ।
धनुःशतसहस्रं च चतुरस्रं च सम्मितम् ॥ ५८ ॥
अमूल्यरत्ननिर्माणं चतुःशालाशतैर्युतम् ।
अतीव रम्यं पुरतो पुरद्वारं ददर्श सः ॥ ५९ ॥
पुरतो रत्नभित्तौ च कृत्रिमं च सुशोभितम् ।
पुण्यं वृन्दावनं रम्यं तन्मध्ये रासमण्डलम् ॥ ६० ॥
सर्वत्र राधाकृष्णं च प्रत्येकं रतिमन्दिरे ।
रम्यं कुञ्जकुटीराणां सहस्रं सुमनोहरम् ॥ ६१ ॥
सुगन्धि पुष्पशय्यानां सहस्रं चन्दनोक्षितम् ।
द्वारपालं च तत्रैव मणिभद्रं भयंकरम् ॥ ६२ ॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम् ।
तं संभाष्य विलोक्यैवं द्वितीयद्वारमीप्सितम् ॥ ६३ ॥
जगाम च मुनिश्रेष्ठो ददर्श चित्रमुत्तमम् ।
कदम्बानां समूहं च तन्मूलं च मनोहरम् ॥ ६४ ॥
रत्नभित्तिसमायुक्तं कालिन्दीकूलमुत्तमम् ।
स्नातं गोपीसमूहं च नग्नसर्वाङ्गमद्भुतम् ॥ ६५ ॥
कदम्बाग्रे च श्रीकृष्णं वस्त्रपुञ्जकरं परम् ।
तत्रैव शूलहस्तं च महाकालं ददर्श च ॥ ६६ ॥
कृपालुं द्वारपालं तं संभाष्य नारदो मुनिः ।
प्रययौ शीघ्रगामी स तृतीयद्वारमुत्तमम् ॥ ६७ ॥
ददर्श तत्र पुरतः कृत्रिमं वटमूलकम् ।
गोपानां च समूहं च पीतम्बरधरं परम् ॥ ६८ ॥
बालक्रीडां च कुर्वन्तं तन्मध्ये कृष्णम् उत्तमम् ।
ब्राह्मणीभिः प्रदत्तम् च भुक्तवन्तं सुपायसम् ॥ ६९ ॥
कुर्वन्तं च समाधानं मुनेः वामकरेण च ।
गृहीत्वा तदनुज्ञां च चतुर्थं द्वारमीप्सितम् ॥ ७० ॥
प्रययौ ब्रह्मपुत्रश्च ददर्श चित्रमुत्तमम् ।
गोवर्धनं पर्वतं च तत्र कृष्णकरस्थितम् ॥ ७१ ॥
गोकुलं गोकुलस्थानां गोपीनां चैव रक्षणम् ।
व्याकुलं गोकुलं भीतं शक्रवृष्टिभयेन च ॥ ७२ ॥
अभयं दत्तवन्तं च कृष्णं दक्षकरेण च ।
नन्दिनं द्वारपालं च शूलहस्तं च सस्मितम् ॥ ७३ ॥
विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअमुत्तमम् ।
नानाकृतिमचित्राढ्यं वीरभद्रान्वितं परम् ॥ ७४ ॥
तत्रैव नीपमूलं च यमुनाकुलमेव च ।
कालीयदमनं तत्र कृतिमं च ददर्श ःअ ॥ ७५ ॥
तद् दृष्ट्वा सस्मितस्तुष्टः षष्टद्वाऋअं जगाम सः ।
द्वारे नियुक्तं बालं च शूलहस्तं चतुर्भुजम् ॥ ७६ ॥
रत्नसिंहासनस्थं च सस्मितं स्वगणाधिपम् ।
ददर्श चित्रं तत्रैव मथुरागमनं हरेः ॥ ७७ ॥
गोपिकानां विलापं च यशोदानन्दयोस्तथा ।
व्याकुलं गोकुलं चापि रथस्थं शरणं हरिम् ॥ ७८ ॥ ।
अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम् ।
तद् दृष्ट्वा सप्तमद्वारं द्वारपालं ददर्श सः ॥ ७९ ॥
चित्रं कौतुकयुक्तं च मथुरायाः प्रवेशनम् ।
सबलं गोपसहितं श्रीकृष्णं प्रकृतेः परम् ॥ ८० ॥
मथुरानागरीभिश्च बालकैर्वानिरर्गलैः ।
वीक्षन्तं सादरं सर्वैर्नगरस्थैर्मनोहरम् ॥ ८१ ॥
धनुर्भङ्गं तथा शंभोः कंसादिनिधनादिकम् ।
सभार्यं वसुदेवं च निगडान् मुक्तमीप्सितम् ॥ ८२ ॥
द्वारे नियुक्तं देवेशं गणेशं गणसंयुतम् ।
ध्यानस्थं च विभान्तं च शुद्धस्फटिकमालया ॥ ८३ ॥
जपन्तं परमं शुद्धं ब्रह्मज्योतिः सनातनम् ।
निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम् ॥ ८४ ॥
दृष्ट्वा तं च सुरश्रेष्ठं मुनिश्रेष्ठोऽपि नारदः ।
सामवेदोक्तस्तोत्रेण पुष्टाव परमेश्वरम् ।
साश्रुनेत्रः पुलकितो भक्तिनम्रात्मकंधरः ॥ ८५ ॥
अथ गणपतिस्तोत्रम्
भो गणेश सुरश्रेष्ठ लम्बोदर परात् पर ।
हेरम्ब मङ्गलारम्भ गजवक्त्र त्रिलोचन ॥ ८६ ॥
मुक्तिद शुभद श्रीद श्रीधरस्मरणे रत ।
परमानन्द परम पार्वतीनन्दन स्वयम् ॥ ८७ ॥
सर्वत्र पूज्य सर्वेश जगत्पूज्य महामते ।
जगद्गुरो जगन्नाथ जगदीश नमोऽस्तु ते ॥ ८८ ॥
यत्पूजा सर्वपरतो यः स्तुतः सर्वयोगिभिः ।
यः पूजितः सुरेन्द्रैश्च मुनीन्द्रैस्तं नमाम्यहम् ॥ ८९ ॥
परमाराधनेनैव कृष्णस्य परमात्मनः ।
पुण्यकेन व्रतेनैव यं प्राप पार्वती सती ॥ ९० ॥
तं नमामि सुरश्रेष्ठं सर्वश्रेष्ठं गरिष्ठकम् ।
ज्ञानिश्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम् ॥ ९१ ॥
इत्येवमुक्त्वा देवर्षिस्तत्रैवान्तर्दधे विभुः ।
नारदः प्रययौ शीघ्रमीश्वराभ्यन्तरं मुदा ॥ ९२ ॥
इदं लम्बोदरस्तोत्रं नारदेन कृतं पुरा ।
पूजाकाले पठेन् नित्यं जयस्तस्य पदे पदे ॥ ९३ ॥
संकल्पितं पठेद् यो हि वर्षमेकं सुसंयतः ।
विशिष्टपुत्रं लभते परं कृष्णपरायणम् ॥ ९४ ॥
यशस्विनं च विद्वांसं धनिनं चिरजीविनम् ।
विघ्ननाशो भवेत् तस्य महैश्वर्यं यशोऽमलम् ।
इहैव च सुखं भक्त्यान्ते याति हरेः पदम् ॥ ९५ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गणपतिस्तोत्रं नाम सप्तमोऽध्यायः
प्रथमैकरात्रे अष्टमोऽध्यायः
श्रीव्यास उवाच
अथ चाभ्यन्तरं गत्वा नारदो हृष्टमानसः ।
ददर्श स्वाश्रमं रम्यमतीव सुमनोहरम् ॥ १ ॥
पयः फेननिभशय्यासहितं रत्नमन्दिरम् ।
साक्षाद् गोरोचनाभैश्च मणिस्तम्भैर्विभूषितम् ॥ २ ॥
मणीन्द्रसारसोपानैः कपाटैश्च परिष्कृतम् ।
मुक्तामाणिक्यहीराणां मालाराजिविराजितम् ॥ ३ ॥
शुद्धस्फटिकसंकाशं प्राङ्गणं मणिसंस्कृतम् ।
सुन्दरं मन्दिरचयं सद्रत्नकलशोज्ज्वलम् ॥ ४ ॥
रत्नपत्रपटाकीर्णं वह्निशुद्धांशुकान्वितम् ।
सुधानां च मधूनाम् च पूर्णकुम्भकं शतं शतम् ॥ ५ ॥
दासदासीसमूहैश्च रत्नालङ्कारभूषितैः ।
पार्वतीप्रियसङ्गैश्च स्वकर्माकुलसङ्कल्पम् ॥ ६ ॥
तद् दृष्ट्वा च मुनिश्रेष्ठस्तत् पराभ्यन्तरं ययौ ।
रत्नसिंहासनस्थं च शङ्करं च ददर्श सः ॥ ७ ॥
व्याघ्रचर्माम्बरधरं सस्मितं चन्द्रशेखरम् ।
प्रसन्नवदनं स्वच्छं शान्तं श्रीमन्तमीश्वरम् ॥ ८ ॥
विभूतिभूषिताङ्गं च परं गङ्गाजटाधरम् ।
भक्तप्रियं च भक्तेशं ज्वलन्तं ब्रह्मतेजसा ॥ ९ ॥
त्रिनेत्रं पञ्चवक्त्रं च कोटिचन्द्रसमप्रभम् ।
जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम् ॥ १० ॥
निर्लिप्तं च निरीहं च दातारं सर्वसम्पदाम् ।
स्वेच्छामयं सर्वबीजं श्रीकृष्णं प्रकृतेः परम् ॥ ११ ॥
सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम् ।
पार्श्वदप्रवरश्रेष्ठसेवितं श्वेतचामरैः ॥ १२ ॥
दुर्गासेवितपादाब्जं भद्रकालीपरिष्टुतम् ।
पुरतो हि वसन्तं तं स्कन्दं गणपतीम् तथा ॥ १३ ॥
गले बद्ध्वा च वसनं भक्तिनम्रात्मकंधरः ।
योगीन्द्रं स्वगुरुं शंभुं शिरसा प्रणनाम सः ॥ १४ ॥
तुष्टाव परया भक्त्या देवर्षिर्जगतां पतिम् ।
स्वगुरुं च पशुपतिं वेदोक्तेन स्तवेन च ॥ १५ ॥
श्रीनारद उवाच
नमस्तुभ्यं जगन्नाथ मम नाथ मम प्रभो ।
भवरूपतरोर्बीज फलरूप फलप्रद ॥ १६ ॥
अबीजज प्रज प्राज सर्वबीज नमोऽस्तु ते ।
सद्भाव परमाभाव विभाव भावनाश्रय ॥ १७ ॥
भवेश भवबन्धेश भावाब्धिनाविनायक ।
सर्वाधार निराधार साधार धरणीधर ॥ १८ ॥
वेदविद्याधाराधार गङाधर नमोऽस्तु ते ।
जयेश विजयाधार जयबीज जयात्मक ॥ १९ ॥
जगदादे जयानन्द सर्वानन्द नमोऽस्तु ते।
इत्येवमुक्त्वा देवर्षिः शम्भोश्च पुरतः स्थितः ।
प्रसन्नवदनः श्रीमान् भगवांस्तमुवाच सः ॥ २० ॥
श्रीमहादेव उवाच
वरं वृणु महाभाग यत् ते मनसि वर्तते ।
दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्वसंपदाम् ॥ २१ ॥
सुखं मुक्तिं हरेर्भक्तिं निश्चलामविनाशिनीम् ।
हरेः पादं तद्दास्यं सालोक्यादिचतुष्टयम् ॥ २२ ॥
इन्द्रत्वममरत्वं वा यमत्वमनिलेश्वरम् ।
प्रजापतित्वं ब्रह्मत्वं सिद्धत्वं सिद्धसाधनम् ॥ २३ ॥
सिद्धैश्वर्यं सिद्धिबीजं वेदविद्याधिपं परम् ।
अणिमादिकसिद्धिं च मनोयायित्वमीप्सितम् ॥ २४ ॥
हरेः पदं च गमनं सशरीरेण लीलया ।
एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत ॥ २५ ॥
तन् मे ब्रूहि मुनिश्रेष्ठ सर्वं दातुमहं क्षमः ।
शङ्करस्य वचः श्रुत्वा तमुवाच महामुनिः ॥ २६ ॥
श्रीनारद उवाच
देहि मे हरिभक्तिं च तन्नामसेवने रुचिः ।
अतितृष्णा गुणाख्याने नित्यमस्तु ममेश्वर ॥ २७ ॥
नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम् ।
पार्वती भद्रकाली च कार्त्तिकेयो गणेश्वरः ॥ २८ ॥
सर्वं ददौ महादेवो नारदाय च धीमते ।
सर्वप्रदस्तु सर्वेशः सर्वकारणकारणः ॥ २९ ॥
नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत् शुचिः ।
हरिभक्तिर्भवेत् तस्य तन्नाम्नि गुणतो रुचिः ॥ ३० ॥
दशवारजपेनैव स्तोत्रसिद्धिर्भवेन् नृणाम् ।
सर्वसिद्धिर्भवेत् तस्य सिद्धस्तोत्रो भवेद् यदि ॥ ३१ ॥
इह प्राप्नोति लक्ष्मीं च निश्चलां लक्षपौरुषीम् ।
परिपूर्णमहैश्वर्यमन्ते याति हरेः पदम् ॥ ३२ ॥
पुत्रं विशिष्टं लभते हरिभक्तं जितेन्द्रियम् ।
सुसाध्यां सुविनीतां सुव्रतां च पतिव्रताम् ॥ ३३ ॥
प्रजां भूमिं यशः कीर्तिं विद्यां सकवितां लभेत् ।
प्रसूयते महाबन्ध्या वर्षमेकं शृणोति चेत् ॥ ३४ ॥
गलत्कुष्ठी महारोगी सद्यो रोगात् प्रमुच्यते ।
धनी महादरिद्रश्च कृपणः सत्यवान् भवेत् ।
विप्रद्ग्रस्तो राजबद्धो मुच्यते नात्र संशयः ॥ ३५ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे अष्टमोऽध्यायः
प्रथमैकरात्रे नवमोऽध्यायः
श्रीव्यास उवाच
वरं दत्वा महादेवो भक्त्या तं ब्राह्मणातिथिम् ।
पूजां चकार वेदोक्तां स्वयं वेदविदां वरः ॥ १ ॥
भुक्त्वा पीत्वा मुनिश्रेष्ठो महादेवस्य मन्दिरे ।
तिष्ठन्न् उपासानां चक्रे पार्वतीपरमेशयोः ॥ २ ॥
एकदा चिरकालान्ते तमुवाच महामुनिम् ।
महादेवः सभामध्ये कृपया च कृपानिधिः ॥ ३ ॥
श्रीमहादेव उवाच
किं वा ते वाञ्छितं वत्स ब्रूहि मां यदि रोचते ।
वरो दत्तः किमपरं यत् ते मनसि वर्तते ॥ ४ ॥
महादेववचः श्रुत्वा तमुवाच महामुनिः ।
कैलासे च सभामध्ये यत् तन्मनसि वाञ्छितम् ॥ ५ ॥
श्रीनारद उवाच
ज्ञानमाध्यात्मिकं नाम वेदसारं मनोहरम् ।
हरिभक्तिप्रदं ज्ञानं मुक्तिदं ज्ञानमीप्सितम् ॥ ६ ॥
योगयुक्तं च यज्ज्ञानं ज्ञानं यत् सिद्धिदं तथा ।
संसारविषयज्ञानमेव पञ्चविधं स्मृतम् ॥ ७ ॥
आश्रमाणां समाचारं तेषां धर्मपरिष्कृतम् ।
विधवानां च भिक्षूणां यतीनां ब्रह्मचारिणाम् ॥ ८ ॥
पूजाविधानं कृष्णस्य तत्स्तोत्रं कवचं मनुम् ।
पुरश्चर्याविधानं च सर्वाह्निकमभीप्सितम् ॥ ९ ॥
जीवकर्मविपाकं च कर्ममूलनिकृन्तनम् ।
संसारवासनां कां वा लक्षणं प्रकृतीशयोः ॥ १० ॥
तयोः परं वा किं वस्तु तस्यावतारवर्णमम् ।
को वा तदंशः कः पूर्णः परिपूर्णतमश्च कः ॥ ११ ॥
नारायणर्षिकवचं सुभद्रप्रवराय च ।
यद् दत्तं किं तद् देवेश तद् आराध्यं प्रयत्नतः ॥ १२ ॥
मया ज्ञानंमनापृष्ठं यद् यद् अस्ति सुरोत्तम ।
तन् मे कथय तत्त्वेन मामेवानुग्रहं कुरु ॥ १३ ॥
गुरोश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान् मन्त्रतन्त्रयोः ।
तत् तन्त्रं स च मन्त्रः स्याद् यतो भक्तिरधोक्षजे ॥ १४ ॥
ज्ञानं स्याद् विदुषां किंचिद् वेदव्याख्यानचिन्तया ।
स्वयं भवान् वेदकर्ता ज्ञानाधिष्ठातृदेवता ॥ १५ ॥
नारदस्य वचः श्रुत्वा सस्मितः पार्वतीपतिः ।
निरीक्ष्य पार्वतीवक्त्रं गजवक्त्रमुवाच सः ॥ १६ ॥
अथ नारदोपदेशग्रहणम्
श्रीमहादेव उवाच
अहो अनन्तदासानां माहात्म्यं परमाद्भुतम् ।
कुर्वन्त्यहैतुकीं भक्तिं ये च शश्वद् धरेः पदे ॥ १७ ॥
पद्मनाभपादपद्मं पद्मापद्मेश्वरार्चितम् ।
दिवानिशं ये ध्यायन्ते शेषादिसुरवन्दितम् ॥ १८ ॥
आलापं गात्रसंस्पर्शं पादरेणुमभीप्सितम् ।
वाञ्छन्त्येव हि तीर्थानि वसुधा चात्मशुद्धये ॥ १९ ॥
कृष्णमन्त्रोपासकानां शुद्धं पादोदकं सुत ।
पुनाति सर्वतीर्थानि वसुधामपि पार्वति ॥ २० ॥
कृष्णमन्त्रो द्विजमुखाद् यस्य कर्णं प्रयाति च ।
तं वैष्णवं जगत्पूतं प्रवदन्ति पुराविदः ॥ २१ ॥
मन्त्रग्रहणमात्रेण नरो नारायनात्मकः ।
पुनाति लीलामात्रेण पुरुषाणां शतं शतम् ॥ २२ ॥
यज्जन्ममात्रात् पूतं च तत् पितृणां शतं शतम् ।
प्रयाति सद्यो गोलोकं कर्मभोगात् प्रमुच्यते ॥ २३ ॥
मातामहादिकान् सप्त जन्ममात्रात् समुद्धरेत् ।
यत् कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया ॥ २४ ॥
मातरं तत्प्रशूं भार्यां पुत्राच्च सप्तपूरुषम् ।
भ्रातरं भगिनीं कन्यां कृष्णभक्तः समुद्धरेत् ॥ २४ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
फलं स लेभे पूजानां व्रती सर्वव्रतेषु च ॥ २६ ॥
विष्णुमन्त्रं यो लभेत् वैष्णवाच्च द्विजोत्तमात् ।
कोटिजन्मार्जितात् पापान् मुच्यते नात्र संशयः ॥ २७ ॥
कृष्णमन्त्रोपासकानां सद्यो दर्शनमात्रतः ।
शतजन्मार्जितात् पापान् मुच्यते नात्र संशयः ॥ २८ ॥
वैष्णवाद् दर्शनेनैव स्पर्शनेन च पार्वति ।
सद्यः पूतं जलं वह्निर्जगत् पूतः समीरणः ॥ २९ ॥
दर्शनं वैष्णवानां च देवा वाञ्छन्ति नित्यशः ।
न वैष्णवात् परः पूतो विश्वेषु निखिलेषु च ॥ ३० ॥
इत्युक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः ।
ययौ मन्दाकिनीतीरं नीरं क्षीरोपमं परम् ॥ ३१ ॥
तत्र स्नातो महादेवी नारदश्च महामुनिः ।
समाचान्तः शुचिस्तत्र धृत्वा धौते च वासवी ॥ ३२ ॥
कृष्णमन्त्रं ददौ तस्मै नारदाय महेश्वरः ।
परं कप्लतरुवरं सर्वसिद्धिप्रदं शुक ॥ ३३ ॥
लक्ष्मीर्मायाकामबीजं ङेन्तं कृष्णपदं ततः ।
जगत्पूतप्रियान्तं च मन्त्रराजं प्रकीर्तितम् ॥ ३४ ॥
मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणम् ।
सप्त वारान् नमस्कृत्य स्वात्मानं दक्षिणां ददौ ॥ ३५ ॥
तत्पादपद्मे विक्रीतमाजन्म मस्तकं परम् ।
मुनिना भक्तियुक्तेन स्वर्गमन्दाकिनीतटे ॥ ३६ ॥
एतस्मिन्न् अन्तरे वत्स पुष्पवृष्टिर्बभूव ह ।
नारदोपरि तत्रैव सुश्राव दुन्दुभिर्मुनिः ॥ ३७ ॥
ननर्त ब्रह्मणः पुत्रो ब्रह्मलोके निरामये ।
ब्रह्मा जगाम तत्रैव सुप्रसन्नश्च सस्मितः ॥ ३८ ॥
पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्रशेखरम् ।
शम्भुश्च पूजयामास ब्राह्मणमतिथिं तथा ।
शम्भुं शुभाशिषं कृत्वा ब्रह्मलोकं ययौ विधिः ॥ ३९ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
नारदोपदेशग्रहणं नाम नवमोऽध्यायः
प्रथमैकरात्रे दशमोऽध्यायः
श्रीशुक उवाच
नारदो हि महाज्ञानी देवर्षिर्ब्रह्मणः सुतः ।
सर्ववेदविदां श्रेष्ठो गरिष्ठश्च वरिष्ठकः ॥ १ ॥
कथं स नोपदिष्टश्च ज्ञानहीनो महामुनिः ।
तन् मां बोधय विभो सन्देहभञ्जनं कुरु ॥ २ ॥
श्रीव्यास उवाच
नारदो ब्रह्मणः पुत्रः पुराकल्पे बभूव सः ।
सर्वज्ञानं ददौ तस्मै विधाता जगतामपि ॥ ३ ॥
वेदांश्च पाठयामास वेदाङ्गान्यपि सुव्रत ।
सिद्धविद्यां शिल्पविद्यां योगशास्त्रं पुराणकम् ॥ ४ ॥
भगवान् एकदा पुत्रं कथयामास संसदि ।
सृष्टिं कुरु महाभाग कृत्वा दारपरिग्रहम् ॥ ५ ॥
ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।
उवाच पितरं कोपात् परं कृष्णपरायनः ॥ ६ ॥
श्रीनारद उवाच
सर्वेषामपि वन्द्यानां पिता चैव महागुरुः ।
ज्ञानदातुः परो वन्द्यो न भूतो न भविष्यति ॥ ७ ॥
स्तनदात्री गर्भधात्री स्नेहकर्त्री सदाम्बिका ।
जन्मदातान्नदाता स्यात् स्नेहकर्ता पिता सदा ॥ ८ ॥
न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुम् ।
करोति सद्गुरुः शिष्यकर्ममूलनिकृन्तनम् ॥ ९ ॥
गुरुश्च ज्ञानोद्गिरणात् ज्ञानं स्यान् मन्त्रतन्त्रयोः ।
तत् तन्त्रं स च मन्त्रश्च कृष्णभक्तिर्यतो भवेत् ॥ १० ॥
श्रीकृष्णविमुखो भूत्वा विषये यस्य मानसम् ।
विषमत्यमृतं त्यक्त्वा स च मूढो नराधमः ॥ ११ ॥
स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः ।
यो ददाति हरौ भक्तिं कर्ममूलनिकृन्तनी ॥ १२ ॥
श्रीकृष्णभजनं तात सर्वमङ्गलमङ्गलम् ।
कर्मोपभोगरोगआणामौषधं तन्निकृन्तनम् ॥ १३ ॥
अहो जगद्विधातुश्च धर्मशास्तुरियं मतिः ।
स्वयं मायामोहितश्च परं भ्रष्टं करोति च ॥ १४ ॥
विष्णुस्त्वां मोहिताम् कृत्वा युयोज स्रष्टुमीश्वरः ।
न ददौ स्वात्मभक्तिं तां स्वदास्यं चातिदुर्लभम् ॥ १५ ॥
माता ददाति पुत्राय मोदकं क्षुन्निवारकम् ।
स च बालो न जानाति कथंभूतं च मोदकम् ॥ १६ ॥
बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः ।
पिता प्रयाति कार्यार्थं विष्णुना मोहितस्तथा ॥ १७ ॥
संसारकूपपतितो विष्णुना प्रेरितो भवान् ।
न युक्तं पतनं तत्र तद् उद्धारमभीप्सितम् ॥ १८ ॥
ज्ञानी गुरुश्च बलवान् भवाब्धेः शिष्यमुद्धरेत् ।
गुरुः स्वयमसिद्धश्च दुर्बलः कथमुद्धरेत् ॥ १९ ॥
गुरोरत्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ २० ॥
स गुरुः परमो वैरी यो ददाति ह्यसन्मतिम् ।
तं नमस्कृत्य सत्शिष्यः प्रयाति ज्ञानदं गुरुम् ॥ २१ ॥
संसारविषयोन्मत्तो गुरुरार्तः स्वकर्मणि ।
दुर्बलो दुर्वहं भारं ददाति जनकाय च ॥ २२ ॥
नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रमुवाच सः ।
कम्पितस्तमसा धाता कोपरक्तास्यलोचनः ॥ २३ ॥
ब्रह्मोवाच
ज्ञानं ते भवतु भ्रष्टं स्त्रीजितो भव पामर ।
सर्वजातिषु गन्धर्वः कामी सोऽपि भवान् भव ॥ २४ ॥
पञ्चाशत्कामिनीनां च स्वयं भर्ता भवाचिरात् ।
तासां वशश्च सततं स्त्रीणां क्रीडा मृगो यथा ॥ २५ ॥
शृङ्गारशूरो भव रे शश्वत्सुस्थिरयौवनः ।
तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव ॥ २६ ॥
कामबाध्यो भव चिरं दिव्यवर्षसहस्रकम् ।
निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि ॥ २७ ॥
ततो वर्षसहस्रान्ते मया शप्तः स्वकर्मणा ।
विप्रदास्यां तु शूद्रायां जनिष्यसि न संशयः ॥ २८ ॥
ततो वैष्णवसंसर्गात् विष्णोरुच्छिष्टभोजनात् ।
विष्णुमन्त्रप्रसादेन विष्णुमायाविमोहितः ॥ २९ ॥
तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः ।
शशाप पितरं शिघ्रं दारुणं च यथोचितम् ॥ ३० ॥
अपूज्यो भव दुष्टं त्वं त्वन्मन्त्रोपासकः कुतः ।
अगम्यागमनेच्छा ते भविष्यति न संशयः ॥ ३१ ॥
नारदस्य तु शापेन सोऽपूज्यो जगतां विधिः ।
दृष्ट्वा स्वकन्यारूपं च पश्चाद् धावितवान् पुरा ॥ ३२ ॥
पुनः स्वदेहं तत्याज भर्त्सितः सनकादिभिः ।
लज्जितः कामयुक्तश्च पुनर्ब्रह्मा बभूव सः ॥ ३३ ॥
नारदस्तु नमस्कृत्य पितरं कमलोद्भवम् ।
विप्रदेहं परित्यज्य गन्धर्वश्च बभूव सः ॥ ३४ ॥
नवयौवनकालेन बलवान् मदनोद्धतः ।
जहार कन्याः पञ्चाशत् बलाच्चित्ररथस्य तु ॥ ३५ ॥
गान्धर्वेन विवाहेन ता उवाह च निर्जने ।
मूर्च्छां प्रापुश्च ताः कन्या दृष्ट्वा सुन्दरमीश्वरम् ॥ ३६ ॥
विसस्पुरुश्च पितरं मातरं भ्रातरं तथा ।
रेमिरे तेन सार्धं च कामुक्यः कामुकेन च ॥ ३७ ॥
कन्दरेर्कन्दरे रम्ये रम्ये सुन्दरमन्दिरे ।
शैले शैले सुरहसि कानने कानने तथा ॥ ३८ ॥
पुष्पोद्यने तरुद्याने नद्यां नद्यां नदे नदे ।
सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्रसरोवरे ॥ ३९ ॥
सुरेशस्यापि निकटे सुभद्रस्य तटे तटे ।
अगम्ये च महाघोरे गन्धमादनगह्वरे ॥ ४० ॥
परिजाततरुणां च पुष्पितानां मनोहरे ।
तदन्तरे सुन्दरे चामोदिते पुष्पवायुना ॥ ४१ ॥
मलये निलये रम्ये सुगन्धे चन्दनान्विते ।
चन्दनोक्षितसर्वाङ्गश्चन्दनाक्तेन कामिना ॥ ४२ ॥
रम्यचम्पकशय्यासु चन्दनाक्तासु सस्मिताः ।
दिवानिशं न जानन्ति कामिना सस्मितेन च ॥ ४३ ॥
विस्यन्दके शूरसेने नन्दने पुष्पभद्रके ।
स्वाहावने काम्यके च रम्यके पारिभद्रके ॥ ४४ ॥
सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रकेऽपि च ।
कालञ्जरे पञ्जरे च काञ्चीकाञ्चनकानने ॥ ४५ ॥
मधुमाधवमासे च मधूरे मधुकानने ।
वने कल्पतरूणां च विश्वकारुकृतस्थले ॥ ४६ ॥
रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे ।
सुवेले च सुपार्श्वे च प्रवालांकुरकानने ॥ ४७ ॥
मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे ।
वने केलिकदम्बानां केतकीनां मनोहरे ॥ ४८ ॥
माधवीमालतीनां च यूथिकानां वने वने ।
चम्पकानां पलाशानां कुन्दानां विपिने तथा ॥ ४९ ॥
नागेश्वरलवङ्गानां अन्तरे ललितालये ।
कुमुदानां पङ्कजानां पङ्किले कोमलस्थले ॥ ५० ॥
स्थलपद्मप्रकारो च भूमिचम्पककानने ।
लाङ्गलीनां रसालानां पनसानां सुखप्रदे ॥ ५१ ॥
कदलीबदरीणां च श्रीफलानां च श्रीयुते ।
जम्बीराणां च जम्बूनां करञ्जानां तथैव च ॥ ५२ ॥
कृत्वा बिहारं ताभिश्च गन्धर्वश्चोपवर्हणः ।
दिव्यं वर्षसहस्रं च स्वाश्रमं पुनराययौ ॥ ५३ ॥
श्रुत्वा विधातुराह्वानं पुष्करं च ययौ पुनः ।
ददर्श तत्र ब्रह्माणम् रत्नसिंहासनस्थितम् ॥ ५४ ॥
देवेन्द्रैश्चापि सिद्धेन्द्रैर्मुनीन्द्रैः सन्कादिभिः ।
समावृतं सभायां च रक्षोगन्धर्वकिन्नरैः ॥ ५५ ॥
सुशोभितं यथा चन्द्रं गगने भगणैः सह ।
प्रणनाम सभामध्ये ताभिः सार्धं जगद्विधिम् ॥ ५६ ॥
महेशं च गणेशं च धनेशं शेषमीश्वरम् ।
धर्मं धन्वन्तरिं स्कन्दं सूर्यसोमहुताशनम् ॥ ५७ ॥
उपेन्द्रेन्द्रं विश्वकारुं वरुणं पवनं स्मरम् ।
यममष्टौ वसून् रुद्रान् जयन्तं नलकूवरम् ॥ ५८ ॥
सर्वान् देवान् नमस्कृत्य ननाम मुनिपुङ्गवम् ।
अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसम् ॥ ५९ ॥
सर्वश्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा ।
सनकं सनन्दं च तृतीयं च सनातनम् ॥ ६० ॥
सनत्कुमारं योगीशं ज्ञानिनां च गुरोर्गुरुम् ।
वोढुं पञ्चशिखं सङ्खं भृगुमङ्गिरसं तथा ॥ ६१ ॥
आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरम् ।
मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविम् ॥ ६२ ॥
बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशम् ।
वाल्मीकिं परशुरामं संवर्तं च विभाण्डकम् ॥ ६३ ॥
देवलं च वामदेवम् ऋशयशृङ्गं पराशारम् ।
एतान् सर्वान् नमस्कृत्य तस्थौ स पुरतो विधेः ॥ ६४ ॥
तुष्टाव सर्वान् देवांश्च मुनीन्द्रांश्च तथैव च ।
तमुवाच सभामध्ये विधाता जगतामपि ।
सस्मितः सुप्रसन्नश्च गन्धर्वमुपवर्हणम् ॥ ६५ ॥
ब्रह्मोवाच
श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितम् ।
कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥ ६६ ॥
गोपीनां वस्त्रहरणं हरं रासमहोत्सवम् ।
ताभिः सार्धं जलक्रीडां हरेरुत्कीर्तनं कुरु ॥ ६७ ॥
कृष्णसङ्कीर्तनं तूर्णं पुनाति श्रुतिमात्रतः ।
श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह ॥ ६८ ॥
यत्रैव प्रभवेद् वत्स तन्नामगुणानुकीर्तनम् ।
तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥ ६९ ॥
तत्कीर्तनध्वनिं श्रुत्वा सर्वाणि पातकानि च ।
दूराद् एव पलायन्ते वैनतेयमिवोरगाः ॥ ७० ॥
तद् दिनं सफलं धन्यं यशस्यं सर्वमङ्गलम् ।
श्रीकृष्णकीर्तनं यत्र तत्रैव नायुषो व्ययः ॥ ७१ ॥
संकीर्तनध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः ।
तेषां पादरजःस्पर्शात् सद्यः पूता वसुन्धरा ॥ ७२ ॥
तत्कीर्तनं भवेद् यत्र कृष्णस्य परमात्मनः ।
स्थानं तच्च भवेत् तीर्थं मृतानां तत्र मुक्तिदम् ॥ ७३ ॥
नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च ।
तपस्विनां च व्रतिनां व्रतानां तपसां स्थलम् ॥ ७४ ॥
वर्तते पापिनां देहे पापानि त्रिविधानि च ।
महापापोपपापातिपापान्येव स्मृतानि च ॥ ७५ ॥
हन्ता यो विप्रभिक्षूणां यतीनां ब्रह्मचारिणाम् ।
स्त्रीणां च वैष्णवानां च स महापातकी स्मृतः ॥ ७६ ॥
भ्रूणाघ्नश्चापि गोघ्नश्च शूद्रघ्नश्च कृतघ्नकः ।
विश्वासघाती विड्भोजी स एव ह्युपपातकी ॥ ७७ ॥
अगम्यागमिनो ये च सुरविप्रस्वहारिणः ।
अतिपातकिनश्चैते वेदविद्भिः प्रकीर्तिताः ॥ ७८ ॥
कृष्णसंकीर्त्नध्यानात् तन्मन्त्रग्रहणाद् अहो ।
मुच्यन्ते पातकैस्तैस्तैः पापिनस्त्रिविधाः स्मृताः ॥ ७९ ॥
तपोयज्ञकृती पूतस्तीर्थस्नातव्रती तथा ।
भिक्षुर्यतिर्ब्रह्मचारी वानप्रस्थश्च तापसः ॥ ८० ॥
पवित्रः परमो वह्निः सुपवित्रं जलं यथा ।
एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीम् ॥ ८१ ॥
विष्णुपादोदकोच्छिष्टं भुञ्जते ये च नित्यशः ।
पश्यन्ति च शिलाचक्रं पूजां कुर्वन्ति नित्यशः ॥ ८२ ॥
जीवन्मुक्तास्च ते धन्या हरिदासाश्च भारते ।
पदे पदेऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवम् ॥ ८३ ॥
नहि तेषां पराभूताः पुण्यवन्तो जगत्त्रये ।
तेषां च पादरजसा तीर्थं पूतं तथा धरा ॥ ८४ ॥ ।
तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः ।
पुरुषाणां सहस्रं च पूतं तज्जन्ममात्रतः ॥ ८५ ॥
इत्युक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः ।
आश्चर्यं मेनिरे श्रुत्वा देवाश्च मुनयस्तथा ॥ ८६ ॥
एतस्मिन्न् अन्तरे तत्र विद्याधर्यः समागताः ।
गन्धर्वाश्चापि विविधा ननृतुः किन्नरा जगुः ॥ ८७ ॥
रम्भोर्वशी घृताची च मेनका च तिलोत्तमा ।
सुधामुखी पूर्णचित्ती मोहिनी कलिका तथा ॥ ८८ ॥
चम्पावती चन्द्रमुखी पद्मा पद्ममुखीति च ।
एताश्चान्याश्च बह्व्यश्च श्वश्वत् सुस्थिरयौवनाः ॥ ८९ ॥
बृहन्नितम्बश्रोणीकास्तनभारैः समानताः ।
ईषद्धास्याः प्रसन्नास्याः कामार्ताश्च समाययुः ॥ ९० ॥
वेदज्ञा मूर्तिमन्तश्च वेदाश्चात्वार एव च ।
ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्मचारिणः ॥ ९१ ॥
समाययुस्तथा मन्दा दैवज्ञाः स्तुतिपाठकाः ।
लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः ॥ ९२ ॥
तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा ।
वारुणी मनसेन्द्राणी ताः सर्वा देवयोषितः ॥ ९३ ॥
मुनिपत्न्यश्च गन्धर्व्यो हर्षयुक्ताः समाययुः ।
अहो महोत्सवं परमानन्दमानसाः ।
विचित्रां च ब्रह्मसभां पुष्करं तीर्थमाययुः ॥ ९४ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
महोत्सवारम्भो नाम दशमोऽध्यायः
प्रथमैकरात्रे एकादशोऽध्यायः
अथ महोत्सवदर्शनम्
श्रीव्यास उवाच
अथ गन्धर्वराजस्तु भगवान् आज्ञया विधेः ।
संगीतं च जगौ तत्र कृष्णरासमहोत्सवम् ॥ १ ॥
सुसमं तालमानं च सुतानं मधुरं श्रुतम् ।
वीणामृदङ्गमुरजयुक्तं ध्वनिसमन्वितम् ॥ २ ॥
रागिणीयुक्तरागेण समयोक्तेन सुन्दरम् ।
माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्षकारणम् ॥ ३ ॥
विचित्रं नृत्यरुचिरं रूपवेशमुत्तमम् ।
लोकानुरागबीजं च नाट्योपयुक्तहस्तकम् ॥ ४ ॥
दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्वयोषितः ।
मूर्च्छां प्रायुश्च सहसा चेतनां च पुनः पुनः ॥ ५ ॥
गोपीनां वस्त्रहरणं गोपीगणविलापनम् ।
ताभ्यो वस्त्रप्रदानं च संमानं वरदानकम् ॥ ६ ॥
कात्यायनीव्रतं चापि विप्रदारान्नभोजनम् ।
महेन्द्रदर्पपूजादि भञ्जनं शैलपूजनम् ॥ ७ ॥
पुनश्च शुश्रुवुः सर्वे श्रीवृन्दावनवर्णनम् ।
संप्रापुश्च पुनर्मूर्च्छां पुनः प्रापुश्च चेतनाम् ॥ ८ ॥
तस्मै ददौ पुरो ब्रह्मा वह्निशुद्धांशुकं परम् ।
परं शुभाशीर्वचनं यत् तन्मानसवाञ्छितम् ॥ ९ ॥
अमूल्यरत्ननिर्माणं चारुकुण्डालयुग्मकम् ।
मणीन्द्रसारमुकुटं परं रत्नाङ्गुरीयकम् ॥ १० ॥
सुगन्धि चन्दनं पुष्पं स्वपादरेणुमीप्सितम् ।
अमूल्यरत्नतिलकं रत्नभूषणमुज्ज्वलम् ॥ ११ ॥
प्रत्येकं वस्तु रुचिरं तद्योषिद्भ्यश्च संददौ ।
विश्वकर्मा च निर्माणमणिं भूषणमुत्तमम् ॥ १२ ॥
प्रत्येकं शङ्खसिन्दूरं कस्तूरीयुक्तचन्दनम् ।
सकर्पूरं च ताम्बूलं रत्नेन्द्रसारदर्पणम् ॥ १३ ॥
मणिनिर्माणामञ्जोरं श्वेतचामरशोभनम् ।
मनोयायि रथं दिव्यं ईस्वरेच्छाविनिर्मितम् ॥ १४ ॥
मुक्तामाणिक्यहीरेन्द्रैर्मणीन्द्रैश्च परिष्कृतम् ।
सद्रत्नमालाजालैश्च श्वेतचामरदर्पणैः ॥ १५ ॥
सुशोभितं च परितो लक्षैः सुन्दरमन्दिरैः ।
मणिमानिक्यहीराढ्यं सद्रत्नकलशोज्ज्वलम् ॥ १६ ॥
सहस्रचक्रसंसक्तं योजनायतसम्मितम् ।
धनुर्लक्षोच्छ्रितं चैव सहस्राश्वेन योजितम् ॥ १७।
एतद् एव ददौ ब्रह्मा प्रहृष्टस्तुष्ट एव च ।
शम्भुस्तुष्टो ददौ हृष्टो हरिभक्तिं च निश्चलाम् ॥ १८ ॥
ज्ञानमध्यात्मिकं चैव योगज्ञानं सुदुर्लभम् ।
नानाजन्मस्मृतिज्ञानं नैपुण्यं सर्वसिद्धिषु ॥ १९ ॥
हरेश्चर्चाविधानं च स्तवनं पूजनं तथा ।
माणिक्यहीराहारं च रत्नलक्षं सुदुर्लभम् ॥ २० ॥
नागहारं ददौ शेषो नागेन्द्रमौलिमण्डनम् ।
नागकन्याशतं चैव वरभूषणभूषितम् ॥ २१ ॥
नागेभ्यश्चाभ्यं नित्यं हिस्रजन्तुभ्य एव च ।
नृपालयगतिज्ञानं सर्वलोकविलोकनम् ॥ २२ ॥
निर्विघ्नत्वं ददौ तस्मै विघ्न्राजश्च संसदि ।
सुदुर्लभं पादपद्मयुग्मरेणुमभीप्सितम् ॥ २३ ॥
अमूल्यं च निरुपमं ग्रीष्मसूर्यप्रभोपमम् ।
मणिराजं सुदीप्तं च त्रिषु लोकेषु दुर्लभम् ॥ २४ ॥
सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः ।
संगीतविद्याविज्ञानं तन्नैपुण्यं मनोहरम् ॥ २५ ॥
लक्षस्वर्णं धनेशश्च दासानां च शतं शतम् ।
धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा ॥ २६ ॥
विषयजीर्णापहरणं ददौ धन्वन्तरिर्मनुम् ।
सूर्यः स्यमन्तकमणिं स्वर्णाभाराष्टकप्रसुम् ॥ २७ ॥
चन्द्रः श्वेताश्वरत्नं च ह्यमूल्यमुत्तमं ददौ ।
वह्निशुद्धांशुकयुगं ददौ वह्निश्च संसदि ॥ २८ ॥
उपेन्द्रो रत्नकोटिं च तद् एवेन्द्रो ददौ पुरा ।
वीणाशिल्पं विश्वकर्मा वरुणश्च मणिस्रजम् ॥ २९ ॥
स्मरः शृङ्गारनैपुण्यं वीर्यस्तम्भनमेव च ।
कामसन्दीपनं ज्ञानं कामिनीप्रेममूर्छनम् ॥ ३० ॥
कामिनीवशगं शिल्पं रतितत्त्वं ददौ तथा ।
पापदाहनमन्त्रं च रत्नछत्रं समीरणः ॥ ३१ ॥
यमश्च धर्मतत्त्वं च नरकत्राणकारणम् ।
वसवश्च वसून् दिव्यान् रुद्रस्तेभ्योऽभयं ददौ ॥ ३२ ॥
मधुपात्रं सुधापात्रं जयन्तो नलकूवरः ।
शुक्लपुष्पं शुक्लधान्यं पादरेणुमभीप्सितम् ॥ ३३ ॥
मनोभिरां मनुयो ददौ तस्मै शुभाशिषम् ।
लक्ष्मीश्च परमैश्वर्यं भारती हारमुत्तमम् ॥ ३४ ॥
रत्नमालां ददौ दुर्गा सर्वत्राभयमीप्सितम् ।
तत्पत्नीभ्यश्च रत्नानि सिन्दूराभरणानि च ॥ ३५ ॥
क्रीडापद्मं रोहिनी च रतिः सद्रत्नदर्पणम् ।
तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा ॥ ३६ ॥
गङ्गा च विपुलं पुण्यं स्वाहा सद्रत्नपाशकम् ।
यमुना जलजं पद्ममम्लानं सार्वकालिकम् ॥ ३७ ॥
वारुणीं वारुणी तुष्टा रत्नपात्रं शची ददौ ।
मनसा प्रददौ तस्मै नागानां मौलिमण्डनम् ॥ ३८ ॥
गन्धर्वाश्चापि तत्पत्न्यः स्वशिल्पं प्रददुस्तथा ।
परमानन्दयुक्ताश्च मुनिपत्न्यः शुभाशिषम् ॥ ३९ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
महोत्सवदर्शनं नाम एकादशोऽध्यायः
प्रथमैकरात्रे द्वादशोऽध्यायः
शुक उवाच
महोत्सवे सुनिष्पन्ने दानस्योत्तरकालतः ।
किं बभूव रहस्यं च तन् मां व्याख्यातुमर्हसि ॥ १ ॥
श्रीव्यास उवाच
संप्राप्य दानं देवानां गन्धर्वश्चोपवर्हणः ।
तेषां च पुरतो भक्त्या विदयामास वै सदा ॥ २ ॥
श्रुत्वा तद् वचनं ब्रह्मा तमुवाच च संसदि ।
शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगतामपि ॥ ३ ॥
मथुरागमनं चैव कृष्णस्य परमात्मनः ।
विलापं गोपगोपीनां श्रावयास्मांश्च साम्प्रतम् ॥ ४ ॥ ।
महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः ।
गायन्तु ताश्च संगीतं नृत्यन्त्वप्सरां गणाः ॥ ५ ॥
ब्रह्मणश्च वचः श्रुत्वा ननृत्युश्चाप्सरोगणाः ।
चक्रुस्ताः सरसं गीतं विद्याधर्यश्च संसदि ॥ ६ ॥
मायिनां चैव प्रवरो गन्धर्वश्चोपवर्हणः ।
जगौ सन्धानभावेन मथुरागमनं हरेः ॥ ७ ॥
विलापं गोकुलस्थानां श्रुत्वा विप्राः सुरादयः ।
मूर्च्छां प्रापुश्च रुरुदुर्ददुर्दानं पुनः पुनः ॥ ८ ॥
गोपीनां विरहालापैर्मूर्च्छितश्चोपवर्हणः ।
विस्वरेण वितनात् तु तालभङ्गो बभूव ह ॥ ९ ॥
तत् तालभङ्गं विज्ञाय देवाश्च मुनयस्तथा ।
चुकुपुः सहसा सर्वे निर्गतास्तन् मुखाग्नयः ॥ १० ॥
तद् दृष्ट्वा सहसा भीतो गन्धर्वश्चोपवर्हणः ।
सस्मार कृष्णं स्वभीष्टं परमात्मानमीश्वरम् ॥ ११ ॥
ददृशुः स्मृतिमात्रेण तत्तेजो नभसि स्थितम् ।
स्तम्भिता देवताः सर्वाशिचक्रपुत्तलिका यथा ॥ १२ ॥
स्तम्भिता वह्नयः सर्वे मुनयश्च विजृम्भिताः ।
हरिस्मृतिश्चाभयदा शुभदा विघ्ननाशिनी ॥ १३ ॥
ददृशुर्देवताः सर्वाः मुनयश्चापि योषितः ।
गन्धर्वाश्च तथैवान्ये तेजो दृश्यं सुखप्रदम् ॥ १४ ॥
परं कुञ्ज्ञटिकाकारं कोटीन्दुकिरणप्रभम् ।
योजनायतविस्तीर्णं सुस्निग्धं सुमनोहरम् ॥ १५ ॥
तत् तेजोऽभ्यन्तरे सर्वे ददृशू रथमुत्तमम् ।
गव्यूतिमानं विस्तीर्णं धनुष्कोटिसमुच्छ्रितम् ॥ १६ ॥
श्वेताश्वानां च चक्राणां सहस्रेण समावृतम् ।
अमूल्यरत्नरचितमीश्वरेच्छाविनिर्मितम् ॥ १७ ॥
नानाचित्रविचित्राढ्यं मनोयायि ममोहरम् ।
मुक्तामाणिक्यपरमहीराहारैर्विराजितम् ॥ १८ ॥
रत्नदर्पणलक्षैश्च त्रिलक्षैः श्वेतचामरैः ।
वह्निशुद्धांशुकानां च त्रिलक्षैः परिशोभितम् ॥ १९ ॥
त्रिकोटिभिश्च ज्वलितं क्रीडासुन्दरमन्दिरैः ।
पारिजातप्रसूनानां मन्दराणां मनोहरैः ॥ २० ॥
मालाजालैस्त्रिलक्षैश्च मालतीनां च मण्डितम् ।
एवंभूतं रथं दृष्ट्वा ददृशुस्ते तदनन्तरे ॥ २१ ॥
मध्यकोष्ठाभ्यन्तरे च किशोरं श्यामसुन्दरम् ।
वह्निशुद्धांशुकेनैव पीतवर्णेन शोभितम् ॥ २२ ॥
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वलम् ॥ ।२३ ॥
ईषद्धास्यप्रसन्नास्यं नित्योपास्यं सुरासुरैः ।
चन्दनोक्षितसर्वाङ्गं मालतीमाल्यमण्डितम् ॥ २४ ॥
मणिना कौस्तुभेन्द्रेण गण्डस्थलविभूषितम् ।
परं प्रधानं परमं परमात्मानमीश्वरम् ॥ २५ ॥
स्तुतं ब्रह्मेशशेषैश्च राधावक्षः स्थलस्थितम् ।
वेदानिर्वचनीयं च स्वेच्छामयमनीश्वरम् ॥ २६ ॥
नित्यं नित्यं निर्गुणं च ज्योतिरूपं सनातनम् ।
प्रकृतेः परमीशानं भक्तानुग्रहकातरम् ॥ २७ ॥
कोटिकन्दर्पलावण्यलीलाधाममनोहरम् ।
मयूरपुच्छचूडं च वरं वंशीधरं परम् ॥ २८ ॥
दृष्ट्वा तमद्भुतं रूपं तुष्टाव कमलोद्भवः ।
गणेशः शेषः शम्भुश्च तदन्ये मुनयः सुराः ॥ २९ ॥
ब्रह्मोवाच
परं ब्रह्म परं धाम परमात्मानमीश्वरम् ।
वन्दे वन्द्यं च सर्वेषां सर्वकारणकारणम् ॥ ३० ॥
सर्वेश्वरं सर्वरूपं सर्वाद्यं सद्भिरीडितम् ।
वेदावेद्यं च विद्वद्भिर्न दृष्टं स्वप्नगोचरे ॥ ३१ ॥
श्रीमहादेव उवाच
सिद्धस्वरूपं सिद्धाद्यं सिद्धबीजं सनातनम् ।
प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर्गुरुम् ॥ ३२ ॥
वन्दे वन्द्यं च महतां परात् परतरं विभुम् ।
स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरम् ॥ ३३ ॥
भक्तिप्रियं च भक्तेशं स्वभक्तिदास्यदं परम् ।
स्वपदप्रदमेकं च दातारं सर्वसम्पदाम् ॥ ३४ ॥
अनन्त उवाच
वक्त्राणां च सहस्रेण किं वा स्तौमि श्रुतिश्रुतम् ।
कोटिभिः कोटिभिर्वक्त्रैः को वा स्तोतुं क्षमः प्रभो ॥ ३५ ॥
किमु स्तोष्यति शम्भुश्च पञ्चवक्त्रेण वाञ्च्छितम् ।
कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्मुखः ॥ ३६ ॥
षड्वक्त्रो गजवक्त्रश्च देवाश्च मुनयोऽपि वा ।
वेदा वा किं वेदविदः स्तुवन्ति प्रकृतेः परम् ॥ ३७ ॥
वेदानिर्वचनीयं च वेदा निर्वक्तुमक्षमाः ।
वेदविज्ञातवाक्येन विद्वांसः किं स्तुवन्ति तम् ॥ ३८ ॥
श्रीगणेश उवाच
मूर्खो वदति विष्णाय बुधो वदति विष्णवे ।
नम इत्येवमर्थम् च द्वयोरेव समं फलम् ॥ ३९ ॥
यस्मै दत्तं च यज्ज्ञानं ज्ञानदाता हरिः स्वयम् ।
ज्ञानेन तेन स स्तौति भावग्राही जनार्दनः ॥ ४० ॥
एकवक्त्रोऽनेकवक्त्रो मूर्खो विद्वान् स्वकर्मणा ।
अधनी च धनी वापि सपुत्रो वाप्यपुत्रकः ॥ ४१ ॥
कर्मणा परमीशं च स्तोतुं को वाप्यनुत्तमम् ।
यथाशक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः ॥ ४२ ॥
संकीर्तनं च भजनं जपनं बुद्ध्यनुक्रमम् ।
कुर्वन्ति सन्तोऽसन्तश्च सन्ततं परमात्मनः ॥ ४३ ॥
कार्तिकेय उवाच
सर्वान्तरात्मा भगवान् ज्ञानं च सर्वजीविनाम् ।
ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तम् ॥ ४४ ॥
भवेषु त्रिविधो लोकोऽप्युत्तमो मध्यमोऽधमः ।
सर्वे स्वकर्मवशगा निषेकः केन वार्यते ॥ ४५ ॥
सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्प्रभुम् ।
मदीश्वरस्य समता सर्वेषु किंकरेषु च ॥ ४६ ॥
भजन्ति केचित् शुद्धान्तं परमात्मानमीश्वरम् ।
केचित् तदंशांशं प्राप्नुवन्ति क्रमेण तम् ॥ ४७ ॥
धर्म उवाच
अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा ।
विधातुश्च विधाता त्वं सर्वेश्वरं नमोऽस्तु ते ॥ ४८ ॥
देवा ऊचुः
यं स्तोतुमसमर्थश्च सहस्रायुः स्वयं विधिः ।
ज्ञानाधिदेवः शम्भुश्च तं स्तोतुं किं वयं क्षमाः ॥ ४९ ॥
वेदा ऊचुः
किं जानीमो वयं के वाप्यनन्तेशस्य यो गुणः ।
वयं वेदाश् त्वमस्माकं कारणस्यापि कारकः ॥ ५० ॥
मुनयः ऊचुः
यदि वेदा न जानन्ति माहात्म्यं परमात्मनः ।
न जानीमस्तव गुणं वेदानुसारिणो वयम् ॥ ५१ ॥
सरस्वत्युवाच
विद्याधिदेवताहं च वेदा विद्याधिदेवकाः ।
वेदाधिदेवो धाता च तदीशं स्तौमि किं प्रभो ॥ ५२ ॥
पद्मोवाच
यत् पादपद्मं पद्मेशः शेषाश्चान्ये सुरास्तथा ।
ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परम् ॥ ५३ ॥
सावित्र्युवाच
सावित्री वेदमाताहं वेदानां जनको विधिः ।
त्वामेव धत्ते धातरं नमामि त्रिगुणात् परम् ॥ ५४ ॥
श्रीपार्वत्युवाच
तव वक्षसि राधाहं रासे वृन्दावने वने ।
महालक्ष्मीश्च वैकुण्ठे पादपद्मार्चने रता ॥ ५५ ॥
श्वेतद्वीपे सिन्धुकन्या विष्णोरुरसि भूतले ।
ब्रह्मलोके च ब्रह्माणी वेदमाता च भारती ॥ ५६ ॥
तवाज्ञया च देवानामविर्भूता च तेजसि ।
निहत्य दैत्यान् देवारीन् दत्वा राज्यं सुराय च ॥ ५७ ॥
तत्पश्चाद् दक्षकन्याहमधुना पार्वती हरे ।
तवाज्ञया हरक्रोडे त्वद्भक्ता प्रतिजन्मनि ॥ ५८ ॥
नारायणप्रिया शश्वत् तेन नारायणी श्रुतौ ।
विष्णोरहं पराशक्तिर्विष्णुमाया च वैष्णवी ॥ ५९ ॥
अनन्तकोटि ब्रह्माण्डं मया सम्मोहितं सदा ।
विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती ॥ ६० ॥
महाविष्णोश्च माताहं विश्वानि यस्य लोमसु ।
रामेश्वरी च सर्वाद्या सर्वशक्तिस्वरूपिणी ॥ ६१ ॥
तद्रासे धारणाद् राधा विद्वद्भिः परिकीर्तिता ।
परमानन्दपादाब्जं वन्दे सानन्दपूर्वकम् ॥ ६२ ॥
यत्पादपद्मं ध्यायन्ते परमानन्दकारणम् ।
पादपद्मेशशेषाद्या मुनयो मनवः सुराः ॥ ६३ ॥
योगिनः सन्ततं सन्तः सिद्धाश्च वैष्णवास्तथा ।
अनुग्रहं कुरु विभो बुद्धिशक्तिरहं तव ॥ ६४ ॥
इति संवृतं स्तोत्रं यः पठेत् संयतः शुचिः ।
इहैव च सुखं भुङ्क्ते यात्यन्ते श्रीहरेः पदम् ॥ ६५ ॥
निवृत्तेषु च वेदेषु देवीषु मुनिपुङ्गवे ।
उपवर्हणगन्धर्वः स्तुतिं कर्तुं समुद्यतः ॥ ६६ ॥
अथ गन्धर्वकृतस्तोत्रम्
गन्धर्व उवाच
वन्दे नवघनश्यामं पीतकौशेयवाससम् ।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ ६७ ॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।
राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ ६८ ॥
राधानुरागं राधिकेष्टं राधापहृतमानसम् ।
राधाधरं भवाधारं सर्वाधारं नमामि तम् ॥ ६९ ॥
राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् ।
राधासहचरं शश्वत् राधाज्ञापरिपालकम् ॥ ७० ॥
ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम् ।
तं ध्याये सततं शुद्धं भगवन्तं सनातनम् ॥ ७१ ॥
सेवन्ते सन्ततं सन्तो ब्रह्मेशशेषसंज्ञकाः ।
सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ ७२ ॥
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।
नित्यं सत्यं च परं भगवन्तं सनातनम् ॥ ७३ ॥
यं सृष्टेरादिभूतं च सर्वबीजं परात् परम् ।
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ७४ ॥
बीजं नानावताराणां सर्वकारणकारणम् ।
वेदावेद्यं वेदबीजं वेदकारणकारणम् ॥ ७५ ॥
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।
इत्येवमुक्त्वा गन्धर्वः पपात धरणीतले ॥ ७६ ॥
ननाम दण्डवद् भूमौ देवदेवं परात् परम् ।
इति तेन कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ॥ ७७ ॥
इहैव जीवन्मुक्तश्च परे याति परां गतिम् ।
हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः ।
पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ ७८ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गन्धर्वकृतस्तोत्रं नाम द्वादशोऽध्यायः
प्रथमैकरात्रे त्रयोदशोऽध्यायः
श्रीशुक उवाच
स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह ।
तन् मे कथय भद्रं ते भगवन् भगवद्वचः ॥ १ ॥
श्रीव्यास उवाच
स्तोत्रान्तरे च काले च गन्धर्वश्चोपवर्हणः ।
उवाच ब्रह्मसंसदि भगवन्तं सनातनम् ॥ २ ॥
सर्वैर्देवैरहं शप्तश्चाधुना देवहेतुना ।
देवानामग्निपुञ्जश्च प्रदीप्तश्च सुमेरुवत् ॥ ३ ॥
अधुना च त्वयि गते भस्मासान् मां करिष्यति ।
अतो रक्ष जगन्नाथ मां समुद्धर्तुमर्हसि ॥ ४ ॥
त्वदंशशूकरेणैव धरोद्धारः कृतः पुरा ।
हिरण्याख्यं महादैत्यं निहत्य चावलीलया ॥ ५ ॥
पाद्मपद्मार्चितपदे पद्मे ते शरणागतम् ।
मामनाथं भयाक्रान्तं रक्ष रक्ष सुरानलात् ॥ ६ ॥
गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ।
उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्मसंसदि ॥ ७ ॥
अथ गन्धर्वमोक्षणम्
श्रीभगवान् उवाच
गन्धर्वराजप्रवर स्थिरो भव भयं त्यज ।
शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते ॥ ८ ॥
सर्वेभ्योऽपि भयं नास्ति मद्भक्तानामकर्मणाम् ।
जन्ममृत्युजराव्याधिभयं तेषां न विद्यते ॥ ९ ॥
मन्मन्त्रोपासकश्चैव स्वतन्त्रो नित्यविग्रहः ।
पुनर्न विद्यते जन्म मन्त्रग्रहणमात्रतः ॥ १० ॥
नास्ति कालाद् भयं तस्य न निषेकाद् विधेरपि ।
मन्त्रग्रहणमात्रेण मुच्यते सर्वकर्मणः ॥ ११ ॥
मन्मन्त्रो हि देहात् पापं कोटिजन्मकृतं च यत् ।
सुदीप्तो ज्वलदग्निश्च तृणपुञ्जं देहाद् यथा ॥ १२ ॥
मन्मन्त्रग्रहणाद् योगान् मन्नामग्रहणस्य वा ।
तेषां पापानि वेपन्ते कोटिजन्मकृतानि च ॥ १३ ॥
यमस्तन्नामलिखनं दूरीभूतं करोति च ।
अन्ते दास्यं च लभते गत्वा गोलोकमुत्तमम् ॥ १४ ॥
यावद् आयुर्भ्रमेत् तावत् स्वतन्त्रो मत्तकुञ्जरः ।
ततः पापाः फलायन्ते वैनतेयाद् इवोरगाः ॥ १५ ॥
तेषां च पादरजसा सद्यः पूता वसुन्धरा ।
पुनाति सर्वतीर्थानि दूरतो दर्शनाद् अपि ॥ १६ ॥
पूतश्च पवनो वह्निर्जलं च तुलसीदलम् ।
पूतान्येव हि तीर्थानि गङ्गादीनि च गायन ॥ १७ ॥
पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पतिव्रता ।
मन्मन्त्रोपासकाश्चैव तेभ्यः पूतोत्तमाः सदा ॥ १८ ॥
मन्त्रोपासकानां च तीर्थस्थानं व्रतं सुत ।
श्राद्धं दानं पूजनं च यथा चर्वितचर्वणम् ॥ १९ ॥
भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः ।
तत् तन्त्रं च तथा दानमलं श्राद्धं च निष्फलम् ॥ २० ॥
श्राद्धस्य सम्प्रदानं च कर्तुश्च पुरुषत्रयम् ।
पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्धवस्तु च ॥ २१ ॥
केचिद् एवं वदन्तीति पितृलोकार्थमेव च ।
तद्विरुद्धं च ते तुष्टा मन्त्रग्रहणमात्रतः ॥ २२ ॥
तेषां शुभाशिषं कर्म नैव भोगाय कल्पते ।
देवान् न प्रभवेद् वत्स सिद्धधान्ये यथाङ्कुरः ॥ २३ ॥
साक्षात् करोति तेषां च कर्ममूलनिकृन्तनम् ।
मन्त्रोपासकाद् अन्ये कर्मभोगं च भुञ्जते ॥ २४ ॥
मया स्वयं प्रदत्तश्च स्वमन्त्रः पुरुषाय च ।
परद्वाराद् ग्राहयित्वा भक्तं मुक्तं करोम्यहम् ॥ २५ ॥
मया प्रदत्तमन्त्रश्च पुरा मृत्युञ्जयस्तथा ।
मृत्युञ्जयाय गोलोके शुद्धसत्त्वगुणाय च ॥ २६ ॥
पुनः सनत्कुमाराय धर्माय ब्रह्मणे तथा ।
कपिलाय च शेषाय गणेशाय च महामते ॥ २७ ॥
नारायणर्षये चैव धर्मपुत्राय धीमते ।
पुनर्महाविष्णवे च विश्वानि यस्य लोमसु ॥ २८ ॥
कालाधिष्ठातृदेवाय तस्मै सर्वान्तकाय च ।
उपेन्द्राय च कामाय भृगवेऽङ्गिरसे तथा ॥ २९ ॥
सरस्वत्यै च पद्मायै राधायै विरजातटे ।
शवित्र्यै विष्णुमायायै पार्षदेभ्यश्च पुत्रक ॥ ३० ॥
तुभ्यं न दत्तो मन्त्रोऽत्र श्रूयतां तन् निमित्तकम् ।
जनिष्यसि शूद्रयोनौ ब्रह्मणो वाक्यपालनात् ॥ ३१ ॥
इत्येवं कथितं सर्वं गच्छ वत्स यथा सुखम् ।
द्वादशाब्दान्तरे शूद्रयोनौ देवाज्जनिष्यसि ॥ ३२ ॥
पञ्चवर्षाभ्यन्तरे च मन्मन्त्रं प्राप्य विप्रतः ।
दशाब्दान्ते वपुस्त्यक्त्वा ब्रह्मपुत्रो भविष्यसि ॥ ३३ ॥
मन्मन्त्रं पुनरेवेति शम्भुवक्त्राल् लभिष्यसि ।
इत्येवमुक्त्वा सर्वात्मा तत्रैवान्तरधीयत ॥ ३४ ॥
गन्धर्वः प्रययौ तस्माद् योषिद्भिः सह पुत्रक ।
इत्येवं कथितं सर्वं पूर्ववृत्तान्तमेव च ॥ ३५ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गन्धर्वमोक्षणं नाम त्रयोदशोऽध्यायः
प्रथमैकरात्रे चतुर्दशोऽध्यायः
श्रीशुक उवाच
प्रयाते राधिकानाथे गोलोकं च निरामयम् ।
बभूव किं रहस्यं च गते गन्धर्वपुङ्गवे ॥ १ ॥
श्रीव्यास उवाच
सर्वे देवाश्च मुनयः प्रयाते परमात्मनि ।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ २ ॥
उवाच शम्भुर्ब्रह्माणं नीतिसारविशारदम् ।
ज्ञानाधिदेवो भगवान् परिणामसुखं वचः ॥ ३ ॥
श्रीमहादेव उवाच
रक्षिता यस्य भगवान् कल्याणं तस्य सन्ततम् ।
स यस्य विघ्नकर्ता च रक्षितुं तं च कः क्षमः ॥ ४ ॥
स्मृतिमात्रेण निर्विघ्ना ये च कृष्णपरायणः ।
विघ्नं कर्तुं के समर्थास्तेषां च मुनयः सुराः ॥ ५ ॥
कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतम् ।
देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया ॥ ६ ॥
यदि तिष्ठन्ति भूमौ च दग्धशस्या वसुन्धरा ।
जले यदि ततस्तप्तं नष्ठास्ते जलजन्तवः ॥ ७ ॥
स्थाले दहन्ति लोकांश्च वृक्षांश्च प्रलयाग्नयः ।
विधानं कर्तुमुचितमेषां च जगतां विधे ॥ ८ ॥
त्वमेव धाता जगतां पिता च विष्णुरीश्वरः ।
कालाग्निरुद्रः संहर्ता नेदानी प्रलयक्षमः ॥ ९ ॥
एते विषयिणः सर्वे कृष्णस्य परमात्मनः ।
आज्ञावहाश्च सततं दिक्पालाश्च दिगीश्वराः ॥ १० ॥
तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणाम् ।
भ्रमन्ति विषये शश्वन् मोहिता मायया हरेः ॥ ११ ॥
अहं न पाता न स्रष्टा न संहर्ता च जीवनाम् ।
निर्लिप्तोऽ हं तपस्वी च हरेराराधनोन्मुखः ॥ १२ ॥
संहारविषयं मह्यं श्रीकृष्णश्च पुरा ददौ ।
दत्वा रुद्राय तद् अहं तपस्यासु रतो हरेः ॥ १३ ॥
तदर्चनेन ध्यानेन तपसा पूजनेन च ।
स्तवेन कवचनेनैव नाममन्त्रजपेन च ॥ १४ ॥
मृत्युञ्जयोऽ हं अधुना न च कालाद् भयं मम ।
कालः संहरते सर्वं मां विना च तथेश्वरम् ॥ १५ ॥
पुरा सर्वादिसर्गे च कस्यचित् स्रष्टुरेव च ।
भालोद्भवाश्च ते रुद्रास्तेष्वेकोऽ हं शङ्करः ॥ १६ ॥
कल्पश्च ब्रह्मणः पाते लये प्राकृतिके तथा ।
सर्वे नष्टा विषयिणो न भक्ताश्च यथेश्वरः ॥ १७ ॥
असंख्यब्रह्मणः पातः कल्पश्चासंख्य एव च ।
समतीतः कतिविधो भविता या पुनः पुनः ॥ १८ ॥
श्रीकृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत् ।
तत्र प्राकृतिकाः सर्वे तिरोभूताः पुनः पुनः ॥ १९ ॥
न प्राकृतो न विषयी नित्यदेही च वैष्णवः ।
हरेर्वरेणामरोऽहं शिवाधारस्ततस्ततः ॥ २० ॥
जलप्लुतं च विश्वौघं लये प्राकृतिके ध्रुवम् ।
आब्रह्मलोकपर्यन्तं परं कृष्णालयं विना ॥ २१ ॥
सर्वा देव्यो विलीनाश्च कृष्णः सत्यं सुनिश्चितम् ।
सर्वे पुमांसो लीनाश्च सत्ये नित्ये सनातने ॥ २२ ॥
अहं कृष्णश्च प्रकृतिः पार्षदप्रवरो हरेः ।
नित्यं नित्या विद्यमाना गोलोके च निरामये ॥ २३ ॥
एक ईशो न द्वितीय इति सर्वादिसर्गतः ।
नहि नश्यन्ति तद्भक्ताः प्रकृतिप्राकृते लये ॥ २४ ॥
तस्य भक्तोत्तमानां च सततं स्मरणेन च ।
आयुर्व्ययो नहि भवेत् कथं मृत्युर्भविष्यति ॥ २५ ॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
तेषां भक्तोत्तमानां च सततं स्मरणेन च ॥ २६ ॥
जन्ममृत्युजराव्याधिभयं नाप्युपजायते ।
अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु ॥ २७ ॥
स्थलं कोपानलानां च विधानं यद् विधे कुरु ।
शम्भोश्च वचनं श्रुत्वा कम्पितः कमलासनः ।
स्थलं चकार वह्नीनामाज्ञया शङ्करस्य च ॥ २८ ॥
ब्रह्मोवच
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥ २९ ॥
भवे भवतु सर्वत्र भवकोपानलोऽधुना ।
प्राकृतेषु च देहेषु व्यापारोऽस्य मया कृतः ॥ ३० ॥
मम कोपानलः शम्भो संस्कृताग्निर्द्विजस्य च ।
भवे भवतु सर्वत्र व्यापारोऽस्य मया कृतः ॥ ३१ ॥
शेषस्य कोपवह्निश्च शेषास्येऽस्त्वधुना शिव ।
यतो विश्वं च प्रलये दहेद् गोमयपिण्डवत् ॥ ३२ ॥
वह्नेर्मुख्यानलो विश्वे व्यवहाराग्निरीश्वरः ।
भ्वत्वेव हि सर्वत्र सर्वेषामुपकारकः ॥ ३३ ॥
धर्मास्यकोपवह्निश्च कृष्णाग्निश्च भवत्वयम् ।
अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति ॥ ३४ ॥
सूर्यकोपानलश्चायं दावाग्निश्च वनेषु च ।
स्थितिरस्य तरोः स्कन्धे तद्भक्ष्याः पशुपक्षिणः ॥ ३५ ॥
चन्द्रकोपानलो विश्वे कामिनां विरहानलः ।
दम्पत्योर्विरहे शश्वद् भक्ष्यति स्म द्वयोस्तनुम् ॥ ३६ ॥
इन्द्रकोपानलः सद्यो वज्राग्निश्च बभूव ह ।
उपेन्द्रस्यानलश्चैव विद्युद् एव भ्वत्वयम् ॥ ३७ ॥
रुद्राणामास्यवह्निश्च महोल्काग्निर्भवत्वयम् ।
गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति ॥ ३८ ॥
यत्र तिष्ठेत् तद् उषरमेवमेवं विदुर्बुधाः ।
स्कन्दकोपानलश्चैव रणास्त्राग्निर्बभूव ह ॥ ३९ ॥
कामेतराणां देवानां मुनीनां च मुखानलः ।
जग्राहौर्वमुनिस्तत्र तेजसि ब्रह्मणः सुतः ॥ ४० ॥
स्वदक्षिणोरौ स मुनिः संस्थाप्य वेदमन्त्रतः ।
ब्रह्मणं च नमस्कृत्य शङ्करं तपसे ययौ ॥ ४१ ॥
कालेन तस्मान् निःसृत्य समुद्रे वाडवानलः ।
स बभूव पुरा पुत्र परमौर्वानलः स्वयम् ॥ ४२ ॥
कामाग्निमुल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः ।
समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि ॥ ४३ ॥
अजुहाव स्त्रियः सर्वाः सुव्रताश्च पतिव्रताः ।
आयुयुर्योषितः सर्वास्ता ऊचुः कमलोद्भवम् ॥ ४४ ॥
स्त्रिय ऊचुः
किमस्मान् ब्रूहि भगवन् शाधि नः करवाम किम् ।
आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः ॥ ४५ ॥
ब्रह्मोवाच
गृहीत्वा मदनाग्निं च मैथुने सुखदायकम् ।
विश्वे च योषितः सर्वाः शश्वत्कामा भवन्तु च ॥ ४६ ॥
ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।
तमूचुः योषितः सर्वा भयं त्यक्त्वा च संसदि ॥ ४७ ॥
स्त्रिय ऊचुः
धिक् त्वां जगद्विधिं व्यर्थं चकार परमेश्वरः ।
अपूज्यो मोहिनीशापात् पुत्रशापेन साम्प्रतम् ॥ ४८ ॥
गृहीत्वा मदनाग्निं च पुरुषाश्च तथा स्त्रियः ।
नित्यं दहन्ति सततं वास्तवं दुःसहं परम् ॥ ४९ ॥
तदेकभागः पुरुषे त्रिभागश्चापि योषिति ।
तेन दुग्धाः स्त्रियः सर्वाश्चास्माकमपरेण किम् ॥ ५० ॥
समर्पणं चेत् पुरुषे यद् यस्मासु स्मरानलः ।
भस्मीभूतं करिष्यामो रक्षिता को भवेत् तव ॥ ५१ ॥
पतिव्रतावचः श्रुत्वा तमुवाच शिवः स्वयम् ।
हितं सत्यं नितिसारं परिणामसुखावहम् ॥ ५२ ॥
अथ कुलटोत्पत्तिः
श्रीमहादेव उवाच
त्यज द्वन्द्वं महाभाग सुव्रताभिः सहाधुना ।
पतिव्रतानां तेजश्च सर्वेभ्यश्च परं भवेत् ॥ ५३ ॥
निर्माणं कुरु देवेन्द्र कृत्यां स्त्रीजातिमीश्वर ।
तस्यै देहि दुःखबीजं कामकोपानलं परम् ॥ ५४ ॥
शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः ।
ससृजे तत्क्षणं मूर्तिं स्त्रीरूपां सुमनोहराम् ॥ ५५ ॥
अहो रूपमहो वेशमहो अस्या नवं वयः ।
अहो चक्षुः कटाक्षं च मुनीनां मोहयन् मनः ॥ ५६ ॥
अहो कठिनं चारु स्तनयुग्मं सुवर्तुलम् ।
विचित्रं कठिनं स्थूलं श्रोणियुग्मं च सुन्दरम् ॥ ५७ ॥
नितम्बयुग्मं वलितं चक्राकारं सुकोमलम् ।
श्वेतचम्पकवर्णाभं सर्वावयमीप्सितम् ॥ ५८ ॥
शरत्पार्वणकोटीन्दुविनिन्दास्यं सुशोभनम् ।
ईषद्धास्यप्रसन्नास्यं वस्त्रेणाच्छादितं मुदा ॥ ५९ ॥
वपुः सुकोमलम् चालं नातिदीर्घं न वखरम् ।
वह्निशुद्धांशुकं रत्नभूषणैर्भूषितं सदा ॥ ६० ॥
दाडिम्बकुमुदाकारं सान्द्रं सिन्दूरसुन्दरम् ।
कस्तूरीविन्दुना सार्धं स्निग्धचन्दनविन्दुभिः ॥ ६१ ॥
पक्वबिम्बफलाकारमधरौष्ठपुटं परम् ।
दन्तपंक्तियुगं चैव दाडिम्बबीजसन्निभम् ॥ ६२ ॥
सुचारु कवरीभारं मालतीमाल्यमण्डितम् ।
तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः ॥ ६३ ॥
दृष्ट्वा सा चन्द्ररूपं च कामोन्मत्ता विचेतना ।
कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्युवाच सा ॥ ६४ ॥
सस्पितः प्रययौ चन्द्रो लज्जया च सभातलात् ।
कामं दृष्ट्वा च चकमे कामार्ता सा गतत्रपा ॥ ६५ ॥
दुद्राव कामस्तस्माच्च तत्पश्चात् सा दधाव च ।
जहसुर्देवताः सर्वा मुनयश्चापि संसदि ॥ ६६ ॥
लज्जिता योषितह् सर्वास्तां वारयितुमक्षमाः ।
सर्वे चक्रुः परीहासं स्त्रीवर्गं शङ्करादयः ॥ ६७ ॥
कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि ।
तमश्विनीकुमारं चाप्युवाच सुरसन्निधौ ॥ ६८ ॥
कृत्याकामिन्युवाच
मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा ।
शृङ्गारे सुखदां शान्तां परां कामातुरां वराम् ॥ ६९ ॥
त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने ।
रहसि रहसि क्रीडां करिष्यामि दिवानिशम् ॥ ७० ॥
मधुपानं च दास्यामि वासितं चामलं जलम् ।
सकर्पूरं च ताम्बूलं भोगवस्तु मनोहरम् ॥ ७१ ॥
शय्यां मनोरमां कृत्वा सपुष्पचन्दनार्चिताम् ।
भगवन्तं करिष्यामि पुष्पचन्दनचर्चितम् ॥ ७२ ॥
कुमार उवाच
वचनं वद वामे मामात्मनो हृदयङ्गम ।
विहाय कपटं कान्ते कपटं धर्मनाशनम् ॥ ७३ ॥
स्त्रीधर्मं स्त्रीमनस्कामं स्त्रीस्वभावं च कीदृशम् ।
तदाचारं कतिविधं तन् मां व्याख्यातुमर्हसि ॥ ७४ ॥
अश्विनीजवचः श्रुत्वा कामार्ता तमुवाच सा ।
कामार्तानां क्व लज्जा च क्व भयं मानमेव च ॥ ७५ ॥
अथ कुलटास्वभावकथनम्
कामिन्युवाच
स्थानं नास्ति क्षणं नास्ति नास्ति दूती तद् उत्तमा ।
तेनैव युवतीनां च सतीत्वमुपजायते ॥ ७६ ॥
सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा ।
तद् रात्रं च पुलकितं योनौ कण्डूयनं परम् ॥ ७७ ॥
विचेतना भवेत् सा च कामज्वरप्रपीडिता ।
सर्वं त्यजति तद्धेतोः पुत्रं कान्तं गृहं धनम् ॥ ७८ ॥ ।
लब्ध्वा युवानं पुरुषं देशत्यागं करोति सा ।
तदुत्तमं पुनर्लब्ध्वा तं त्यजेत् सा क्षणेन च ॥ ७९ ॥
विषं दातुं समर्था सा स्वामिनं गुणिनां वरम् ।
म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुमुत्सुका ॥ ८० ॥
त्यजेत् कुलभयं लज्जां धर्मं बन्धुं यशः श्रियम् ।
सम्प्राप्य रतिशूरं च युवानं सुरतोन्मुखम् ॥ ८१ ॥
सुदृश्यं सुन्दरमुखं शश्वन्मधुरितं वचः ।
हृदयं क्षुरधाराभं को वा जानाति तन्मनः ॥ ८२ ॥
विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे ।
तथास्थिरा च कुलटाप्रीतिः स्वप्नं च तद्वचः ॥ ८३ ॥
कुलटानां न सत्यं च न च धर्मो भयं दया ।
न लौकिकं न लज्जा स्याज्जारजिन्ता निरन्तरम् ॥ ८४ ॥
स्वप्ने जागरणे चैव भोजने शयने सदा ।
निरन्तरं कामचिन्ता जारे स्नेहो न चान्यतः ॥ ८५ ॥
कुलटा नरघातिभ्यो निर्दया दुष्टमानसाः ।
जारार्थे च सुतं हन्ति बान्धवस्य च का कथा ॥ ८६ ॥
न हि वेदा विदन्त्येवं कुलताहृदयङ्गमम् ।
कथं देवास्च मुनयः सन्तो जानन्ति निश्चयम् ॥ ८७ ॥
रतिशूरं प्रियं दृष्ट्वा क्षीरं घृतमिवाचरेत् ।
गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत् क्षणात् ॥ ८८ ॥
न विश्वसेयुस्तां दुष्टो तस्मात् सन्तो हि सन्ततम् ।
न रिपुः पुरुषाणां च दुष्टस्त्रीभ्यः परो भुवि ॥ ८९ ॥
विषं मन्त्राद् उपशमं जलाद् वह्निश्च निश्चितम् ।
अग्नेश्च कण्ठकोच्छन्नं दुर्जनः स्तवनाद् वशः ॥ ९० ॥
लुब्धो धनेन राजा च सेवया सततं वशः ।
मिश्रं स्वच्छस्वभावेन भयेन च रिपुर्वशः ॥ ९१ ॥
आदरेण वशो विप्रो यौवती प्रेमभारतः ।
बन्धुर्वशः समतया गुरुः प्रणतिभिः सदा ॥ ९२ ॥
मूर्खो वशः कथायां च विद्वान् विद्याविचारतः ।
न हि दुष्टा च कुलटा पुंसश्च वशगा भवेत् ॥ ९३ ॥
स्वकार्ये तत्परा शश्वत् प्रीतिः कार्यानुरोधतः ।
न सर्वस्य वशीभूता विना शृङ्गारमुल्वणम् ॥ ९४ ॥
न प्रीत्या न धनेनैव न स्तवान् न सेवया ।
न प्राणदानतो वेश्या वशीभूता भवेत् क्षणम् ॥ ९५ ॥
आहारो द्विगुणस्तासां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणा मन्त्रणा तासां कामश्चाष्टगुनः स्मृतः ॥ ९६ ॥
शश्वत्कामा च कुलटा न च तृप्तिश्च क्रीडया ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ९७ ॥
दिवानिशं च शृङ्गारं कुरुते तत्पुमान् यदि ।
न तृप्तिः कुलटानां च पुमांसं ग्रस्तुमिच्छति ॥ ९८ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां नासां तृप्यति सम्पदाम् ॥ ९९ ॥
न श्रेयसां मनस्तृप्तं वाडवाग्निर्न पाथसाम् ।
वसुन्धरा न रजसां न पुंसां कुलटा तथा ॥ १०० ॥
इत्येवं कथितं किंचित् सर्वं वक्तुं च नोचितम् ।
लज्जा बीजं योषितां च निबोध भास्करात्मज ॥ १०१ ॥
श्रुत्वा च कृत्यास्त्रीवाक्यं जहसुर्मुनयः सुराः ।
चुकुपुर्योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥ १०२ ॥
लज्जानतानना लक्ष्मीर्निर्ययौ देवमण्डलात् ।
तत् पश्चात् पार्वती सार्धं सरस्वत्या नतानना ॥ १०३ ॥
सावित्री रोहिनी स्वाहा वारुणी च रतिः शची ।
सर्वा बभूवुरेकत्र प्रचक्रुर्मन्त्रणां च ताः ॥ १०४ ॥
कृत्यास्त्रियः समाहूय ता ऊचुश्च क्रमेण च ।
रोधयामासुरिष्टां तां सुगोप्यां अपि योषितः ॥ १०५ ॥
तस्या मुखे ददौ हस्तं सुशीला कमलालया ।
सलज्जिता भव सुते शान्ता चेति शुभाशिषम् ॥ १०६ ॥
सरस्वती ददौ तस्यै चाभिमानं च धैर्यताम् ।
मौखर्यं वावदूकत्वं मन्त्रणामात्मरक्षणम् ॥ १०७ ॥
सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभम् ।
आत्मसंगोपनं चैव गाम्भीर्यं कुलतो भयम् ॥ १०८ ॥
पार्वत्युवाच
धिक् त्वां स्वभावकुलटां लज्जिता भव सुन्दरि ।
स्वमानं गौरवं रक्ष ह्यस्माकं च स्मरातुर ॥ १०९ ॥
जनि लभ पृथिव्यां च कायव्यूहं विधाय च ।
पुंसामष्टगुणं कामं लभस्व च पृथक् प्रृथक् ॥ ११० ॥
लज्जां चतुर्गुणां चापि द्विगुणां धैर्यतां तथा ।
अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकात् ॥ १११ ॥
पुंसां च द्विगुणः कामो वास्तवीणां च योषिताम् ।
लज्जा चाष्टगुणा चापि धैर्यता च चतुर्गुणा ॥ ११२ ॥
कुलधर्मः कुलभयं सौशील्यं मानमूर्जितम् ।
शश्वत् तिष्ठतु पुंस्येव स्त्रीषु च ममाज्ञया ॥ ११३ ॥
यस्मात् सदसि सर्वेभ्यो लज्जाहीनः सुराधमः ।
स्त्रीस्वभावं च पप्रच्छ यज्ञभाक् न भवेत् ततः ॥ ११४ ॥
अद्यप्रभृति विश्वेषु नाग्राह्यं पापसंयुतम् ।
चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया ॥ ११५ ॥
इत्येवमुक्त्वा प्रययुर्देव्यश्च सर्वयोषितः ।
देवाश्च मुनयश्चापि ये चान्ये च समागतः ॥ ११६ ॥
देवाश्च मुनयश्चापि ये चान्ये सर्वतः सुत ।
पतिव्रताणां स्त्रीणां च लज्जा बीजस्वरूपिणी ॥ ११७ ॥
इति श्रीनारदपञ्चरात्रे ज्ञाणामृतसारे प्रथमैकरात्रे
कुलटोत्त्पतिर्नाम चतुर्दशोऽध्यायः
प्रथमैकरात्रे पञ्चदशोऽध्यायः
गते नियमिते काले गन्धर्वश्चोपवर्हणः ।
स्वयोगेन जहौ देहं भारते प्राक्तनाद् अहो ॥ १ ॥
स जज्ञे शुद्रयोनौ च पितुः शापेन च दैवतः ।
विष्णुप्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः ॥ २ ॥
विमुक्तस्तातशापेन सम्प्राप्य ज्ञानमुत्तमम् ।
प्रतिजन्मस्मृतिस्तस्य कृष्णमन्त्रप्रसादतः ॥ ३ ॥
पितुः सकाशाद् आगत्य सम्प्राप चन्द्रशेखरात् ।
श्रीकृष्णमन्त्रमतुलं स्वर्गमन्दाकिनीतटे ॥ ४ ॥
स्वर्गमन्दाकिनीतीराद् गुरुणा शङ्करेण च ।
सहितः प्रययौ तूर्णं पार्वतीसन्निधानतः ॥ ५ ॥
उवास तत्र शम्भुश्च नारदश्च महामुनिः ।
पार्वती भद्रकाली स्कन्दो गणपतिः स्वयम् ॥ ६ ॥
महाकालश्च नन्दी च वीरभद्रः प्रतापवान् ।
सिद्धा महर्षयश्च मुनयः सन्कादयः ॥ ७ ॥
योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भुसंसदि ।
यत् स्तोत्रं कवचं ध्यानं सुभद्राय च कानने ॥ ८ ॥
नारायणर्षिभगवान् ब्राह्मणाय ददौ पुरा ।
पूजाविधानं यद् यच्च पुरश्चरणपूर्वकम् ॥ ९ ॥
तद् एव भगवान् शम्भुः प्रददौ नारदाय च ।
उवाच शम्भुं देवर्षिर्योगिनां च गुरोर्गुरुम् ।
पार्वतीसन्निधौ तत्र नारदश्च महामुनिः ॥ १० ॥
भगवन् सर्वधर्मज्ञ सर्वज्ञ सर्वकारण ।
सद् यत् पृष्टं मया पूर्वं तन् मां व्याख्यातुमर्हसि ॥ ११ ॥
यद् यत् पृष्टं त्वया ब्रह्मन् प्रत्येकं च क्रमेण च ।
पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्सभासदः ॥ १२ ॥
आध्यात्मिकं च यज्ज्ञानं वेदानां सारमुत्तमम् ।
ज्ञानं ज्ञानिषु सारं यत् कृष्णभक्तिप्रदं शुभम् ॥ १३ ॥
निर्वाणमुक्तिदं ज्ञानं कर्ममूलनिकृन्तनम् ।
तत्सिद्धियोगान् मुक्तिश्च योगिनामपि वाञ्च्छितम् ॥ १४ ॥
संसारविषयं ज्ञानं शश्वत् सम्मोहवेष्टितम् ।
आश्रमाणां समाचारं तेषां धर्मपरिष्कृतम् ॥ १५ ॥
चतुर्णां वर्णनां विधानां महेश्वर ।
भिक्षूणां वैष्णवानां च यतीनां ब्रह्मचारिणाम् ॥ १६ ॥
वानप्रस्थाश्रमाणां च पण्डितानां तथैव च ।
पतिव्रतानां यद् यच्च श्रीकृष्णपूजनं च यत् ॥ १७ ॥
यत् स्तोत्रं कवचं मन्त्रं पुरश्चरणमीप्सितम् ।
सार्वाह्निकमभीष्टं च विपाकं कर्मजीविनाम् ॥ १८ ॥
संसारवासनाबद्धं लक्षणं प्रकृतीशयोः ।
तयोः परं वा यद् ब्रह्म तस्यावतारवर्णनम् ॥ १९ ॥
कस्तत् कलावतीर्णश्च कस्तदंशश् तथैव च ।
परिपूर्णतमः कश्च कः पूर्णः कः कलांशकः ॥ २० ॥
कस्य वाराधने शम्भो किं फलं किं यशस्तथा ।
अङ्गाङ्गिनोर्भेदफलं विस्तीर्णं निरपेक्षकम् ॥ २१ ॥
नारायणर्षिकवचं सुभद्रब्राह्मणाय च ।
यद् दत्तं किं तद् देवेश तदाराध्यश्च कः सुरः ॥ २२ ॥
अतिसंगोपनीयं च कवचं परमाद्भुतम् ।
सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा ॥ २३ ॥
सनत्कुमारो जानाति नोक्तं तेन पुरा च माम् ।
मया ज्ञानमनापृष्टं यद् यज्जानासि मङ्गलम् ॥ २४ ॥
वेदसारमनुपमं कर्ममूलनिकृन्तनम् ।
तन् मे कथय भद्रेश मामेवानुग्रहं कुरु ॥ २५ ॥
अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभम् ।
पुराणेष्वितिहासे च वेदाङ्गेषु सुदुर्लभम् ॥ २६ ॥
गुरोश्च ज्ञानोदिगरणात् ज्ञानं स्यान् मन्त्रतन्त्रयोः ।
तत् तन्तं स च मन्त्रः स्यात् कृष्णभक्तिर्यतो भवेत् ॥ २७ ॥
ज्ञानं स्याद् विदुषां किंचिद् वेदव्याख्यानतः प्रभो ।
वेदकारणपूज्यश् त्वं ज्ञानाधिष्ठातृदेवता ॥ २८ ॥
तस्माद् भवान् परं ज्ञानं वद वेदविदां वर ।
मां भक्तमनुरक्तं च शरणागतमीश्वर ॥ २९ ॥
नारदस्य वचः श्रुत्वा योगिनां च गुरोर्गुरुः ।
भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः ॥ ३० ॥
इत्येवं कथितं सर्वं पूर्वाख्यानं मनोहरम् ।
हरिभक्तिप्रदं सर्वं कर्ममूलनिकृन्तनम् ॥ ३१ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे
प्रथमैकरात्रे पञ्चदशोऽध्यायः
समाप्तश्चेदं नारदपञ्चरात्रैकरात्रम्
श्रीनारदपञ्चरात्रम्
(२.१)
द्वितीयरात्रे प्रथमोऽध्यायः
अथाध्यात्मिकवर्णनम्
श्रीमहादेव उवाच --
नारायणं नमस्कृत्य परमात्मानमीश्वरम् ।
शृणु नारद वक्ष्यामि परमं धर्ममीप्सितम् ॥ १ ॥
प्रकृतेः परमिष्टं च सर्वेषामभिवाञ्छितम् ।
स्वेच्छामयं परं ब्रह्म पञ्चरात्राभिधं स्मृतम् ॥ २ ॥
कारणं काराणानां च कर्ममूलनिकृन्तनम् ।
अनन्तबीजरूपं च स्वाज्ञानध्वान्तदीपकम् ॥ ३ ॥
सर्वेश्वरं सर्वधाम परं वैराग्यकारणम् ।
परमं परमानन्दमायाबन्धनिकृन्तनम् ॥ ४ ॥
निर्लिप्तं निर्गुणं सारं वेदानां गोपनीयकम् ।
कर्मिणां कर्मणां शश्वत् साक्षिरूपं सुनिर्मलम् ॥ ५ ॥
ब्रह्मेशशेषप्रमुखदेववन्द्यं प्रशंसितम् ।
वेदज्ञानागोचरं तं योगिनां प्राणतः प्रियम् ॥ ६ ॥
सर्वाधारं च सर्वाद्यं सर्वसन्देहभञ्जनम् ।
सर्वाभीष्टप्रदातारं सर्वेषां च सुदुर्लभम् ॥ ७ ॥
दुराराध्यं च सर्वेषां भक्तिसाध्यं च मुक्तिदम् ।
मङ्गल्यं मङ्गलार्हं च सर्वविघ्नविनाशनम् ॥ ८ ॥
पवित्रं तीर्थपूतं च मङ्गलानां च मङ्गलम् ।
वरं स्वपददातारम् भक्तिदास्यप्रदं हरेः ॥ ९ ॥
पापघ्नं पुण्यदं शुद्धं पापेन्धदाहनानलम् ।
सर्वावतारबीजं तं सर्वावतारवर्णनम् ॥ १० ॥
श्रुतिज्ञं श्रुतिदुर्बोधं सर्वेषां श्रुतिसुन्दरम् ।
प्रसाददं चाशुतोषं प्रसादगुणसंयुतम् ॥ ११ ॥
पञ्चरात्रं इदं ब्रह्मन् पञ्चसंवादमेव च ।
यत्र पञ्चविधं ज्ञानं त्रिषु लोकेषु दुर्लभम् ॥ १२ ॥
कृष्णेन ब्रह्मणे दत्तं गोलोके विरजातटे ।
निरामये ब्रह्मलोके मह्यं दत्तं च ब्रह्मणा ॥ १३ ॥
पुरा सर्वादिसर्गे च सर्वज्ञानप्रदं शुभम् ।
मया तुभ्यं प्रदत्तं च ज्ञानामृतमभीप्सितम् ॥ १४ ॥
त्वमेव वेदव्यासाय पश्चाद् दास्यसि निश्चितम् ।
व्यासो दास्यति पुत्राय निर्जनेऽपि शुकाय च ॥ १५ ॥
अतः परं न दातव्यं यस्मै कस्मै च नारद ।
विना नारायणांशं तं व्यासदेवं सुपुण्यदम् ॥ १६ ॥
सत्यं सत्यस्वरूपं च सतीसत्यवतीसुतम् ।
क्रमेण वर्णनं सर्वमेकचित्तं निशामय ॥ १७ ॥
सर्वाद्याध्यात्मिकं ज्ञानं वेदसारं मनोहरम् ।
दुर्गं नानाप्रकारं च नानातन्त्रेषु पुत्रक ॥ १८ ॥
सर्वसारोद्धृतं तत्र श्रीकृष्णपादसेवनम् ।
सर्वेषां सम्मतं ज्ञानं निर्लिप्तं भवबन्धतः ॥ १९ ॥
लक्षश्लोकमिदं शास्त्रं श्रीकृष्णेन कृतं पुरा ।
कथयामि कथं ब्रह्मन् स्वल्पं संक्षेपतः शृणु ॥ २० ॥
आब्रह्मस्तम्बपर्यन्तं सर्वं कृष्णं चराचरम् ।
पुनस्तस्मिन् प्रलीनं च पुनरेव च सम्भवम् ॥ २१ ॥
एक एवेश्वरः शश्वद् विश्वेषु निखिलेषु च ।
सर्वे तत्कर्मसिद्धाश्च मोहितास्तस्य मायया ॥ २२ ॥
अनन्तस्य च कृष्णस्याप्यनन्तं गुणकीर्तनम् ।
अनन्तरूपा कीर्तिश्चाप्यनन्तं ज्ञानमेव च ॥ २३ ॥
नामान्यस्याप्यनन्तानि तीर्थपूतानि नारद ।
अनन्तानि च विश्वानि विचित्रकृत्रिमाणि च ॥ २४ ॥
नानाविधानि सर्वाणि जीवरूपाणि सर्वतः ।
मध्यमानि च क्षुद्राणि महन्ति चापि सर्वतः ॥ २५ ॥
पृथक् पृथख़् च प्रत्येकं प्रत्यक्षं सर्वजीविषु ।
सन्ततं सन्ति ये देवाः सन्तो जानन्ति निश्चितम् ॥ २६ ॥
परमात्मस्वरूपश्च भगवान् राधिकेश्वरः ।
निर्लिप्तः साक्षिरूपश्च स च कर्मसु कर्मिणाम् ॥ २७ ॥
जीवस्तत्प्रतिबिम्बश्च भोक्ता च सुखदुःखयोः ।
केचिद् वदन्ति तं नित्यं कारणस्य गुणेन च ॥ २८ ॥
विद्यमानात् तिरोधानं तिरोधानाच्च संभवः ।
देहाद् देहान्तरं यान्ति न मृत्युस्तस्य कुत्रचित् ॥ २९ ॥
ततः प्रलीनः प्रलयः परं सर्वालयालये ।
अतो नित्यस्वरूपश्च जीव एव यथात्मकः ॥ ३० ॥
केचिद् वदन्त्यनित्यश्च मिथ्यैव कृत्रिमः सदा ।
प्रलीयते पुनस्तत्र प्रतिबिम्बो यथा रवेः ॥ ३१ ॥
यथैव शातकुम्भेषु निर्मलेषु जलेषु च ।
प्रत्येकं प्रतिबिम्बश्च दृश्य एव हि जीविनाम् ॥ ३२ ॥
पुनः प्रलीयते सूर्ये गतेषु च घटेषु च ।
एवं चन्द्रस्य बोद्धव्यं दर्पणे जीवने यथा ॥ ३३ ॥
तस्मिन् नित्यं परं ब्रह्म सजीवो नित्य एव सः ।
सर्वान्तरात्मा भगवान् प्रत्यक्षं प्रतिजीविषु ॥ ३४ ॥
अहं ज्ञानस्वरूपश्च ज्ञानाधिष्ठातृदेवता ।
बुद्धिरूपा भगवती सर्वशक्तिस्वरूपिणी ॥ ३५ ॥
इयं दुर्गा तव पुरो विष्णुमाया सनातनी ।
अनया मोहिताः सर्वे कृष्णभक्तं विना मुने ॥ ३६ ॥
मनःस्वरूपो ब्रह्मा च मनोऽधिष्ठातृदेवता ।
स्वयं स विषयी विष्णुः प्राणाः पञ्चस्वरूपिणः ॥ ३७ ॥
एते ह्यभ्यन्तरे देवी चन्द्रः सूर्यश्च चक्षुषोः ।
सर्वे चन्द्रादयो देवाश्चेन्द्रियेषु पृथक् पृथक् ॥ ३८ ॥
धर्मः शीरश्च सर्वेषां जठरे च हुताशनः ।
प्राणाद् भिन्नश्च पवनः स विश्वासः प्रकीर्तितः ॥ ३९ ॥
गुणेशः कण्ठदेशस्यो विघ्नदो विघ्ननाशकृत् ।
स्कन्दः प्रतापरूपश्च कामो मनसि कामदः ॥ ४० ॥
पापं पुण्यं हृदयजं लक्ष्मीः सत्त्वानुसारिणी ।
आकण्ठदेशात् सर्वेषां रसनासु सरस्वती ॥ ४१ ॥
सैव मन्त्रणारूपा पृथङ् मुक्त्या च सर्वतः ।
बुद्धिजाः शक्तयः सर्वा विद्यन्ते सर्वजन्तुषु ॥ ४२ ॥
निद्रा तन्द्रा दया श्रद्धा तुष्टिः पुष्टिः क्षमा च क्षुत् ।
लज्जा तृष्णा यथेच्छा च शान्तिश्चिन्ता जरा जडा ॥ ४३ ॥
याते स्वामिनि यान्त्येते नरदेवमिवानुगाः ।
चिन्ता ज्वरा च सततं शोभां पुष्टिं च द्वेष्टिं च ॥ ४४ ॥
सर्वेषां जीविनामेव देहोऽयं पाञ्चभौतिकः ।
पृथिवी वायुराकाशस्तेजस्तोयमिति स्मृतः ॥ ४५ ॥
स्वदेहे च प्रपतिते स्वभागं प्राप्नुवन्ति च ।
पृथक् पृथक् च प्रत्येकमेकमेव क्रमेण च ॥ ४६ ॥
सङ्केतपूर्वकं नाम तत् स्मरन्ति च बान्धवाः ।
रुदन्ति सततं भ्रान्त्या मायया मायिनस्तथा ॥ ४७ ॥
तस्मात् सन्तो हि सेवन्ते श्रीकृष्णचरणाम्बुजम् ।
नित्यं सत्यमभयदं जन्ममृत्युजराहरम् ॥ ४८ ॥
प्रभातस्वप्नवद् विश्वमनित्यं कृत्रिमं मुने ।
पाद्मपद्मार्चितं पादपद्मं भज हरेर्मुदा ॥ ४९ ॥
मयोक्तं प्रथमं ज्ञानं ज्ञानं पञ्चविधेषु च ।
द्वितीयं श्रूयतां वत्स यत्सारं कृष्णभक्तिदम् ॥ ५० ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे
प्रथमज्ञानाध्यात्मिकवर्णनं नाम
प्रथमोऽध्यायः
॥ १ ॥
(२)
द्वितीयरात्रे द्वितीयोऽध्यायः
अथ भक्तिज्ञाननिरूपणम्
श्रीमहादेव उवाच --
हरिभक्तिप्रदं ज्ञानं ज्ञानं पञ्चविधेषु च ।
विदुषां वाञ्छिता मुक्तिः सततं परमा सताम् ॥ १ ॥
सा च श्रीकृष्णभक्तेश्च कलां नार्हति षोडशीम् ।
श्रीकृष्णभक्तसङ्गेन भक्तिर्भवती नैष्ठिकी ॥ २ ॥
अनिमित्ता च सुखदा हरिदास्यप्रदा शुभा ।
यथा वृक्षलतानां च नवीनः कोमलाङ्कुरः ॥ ३ ॥
वर्धते मेघवर्षेण शुष्कः सूर्यकरेण च ।
तथैव भक्तालापेन भक्तिवृक्षनवाङ्कुरः ॥ ४ ॥
वर्धते शुष्कतां याति चाभक्तालापमात्रतः ।
तस्माद् भक्तैः सहालापं कुरुते पण्डितः सदा ॥ ५ ॥
यात्येवाभक्तसंसर्गाद् दुष्टात् सर्पाद् यथा नरः ।
आलापाद् गात्रसंस्पर्शात् शयनात् सहभोजनात् ॥ ६ ॥
सञ्चरन्ति च पापानि तैलविन्दुमिवाम्भसा ।
संसर्गजा गुणा दोषा भवन्त्येव हि जीविनाम् ॥ ७ ॥
तस्मात् सतां हि संसर्गं सन्तो वाञ्छन्ति संततम् ।
मुने संसर्गजो दोषो वस्तूनां प्रभवेद् इह ॥ ८ ॥
हीनधातुप्रसङ्गेन स्वर्णदोषः प्रजायते ।
तस्माच्च हीनसंसर्गं न वाञ्छन्ति मनीषिणः ॥ ९ ॥
तस्माद् वैष्णवसंसर्गं कुर्वन्ति वैष्णवाः सदा ।
कुर्वन्ति वैष्णवाः शश्वत् षड्विधं भजनं हरेः ॥ १० ॥
स्मरनं कीर्तनं चैव वन्दनं पादसेवनम् ।
पूजनं सततं भक्त्या परं स्वात्मनिवेदनम् ॥ ११ ॥
गृह्णाति भक्तो भक्त्या च कृष्णमन्त्रश्च वैष्णवात् ।
अवैष्णवाद् गृहीत्वा च हरिभक्तिर्न वर्धते ॥ १२ ॥
चाण्डलाद् अपि पापी स श्रीकृष्णविमुखो नरः ।
निष्फलं तद्धर्मकर्म नाधिकारी स कर्मणाम् ॥ १३ ॥
शश्वद् अशुचिः पापिष्ठो निन्दां कृत्वा हसत्यपि ।
भगवन्तं भागवतमात्मानं नैव मन्यते ॥ १४ ॥
गुरुमुखात् कृष्णमन्त्रो यस्य कर्णे विशेद् अहो ।
तं वैष्णवं महापूतं प्रवदन्ति पुराविदः ॥ १५ ॥
मन्त्रग्रहणमात्रेण नरो नारायणानुजः ।
पुरुषाणां शतं सार्धं स्वात्मानं च समुद्धरेत् ॥ १६ ॥
मातामहानां शतकं सोदरं मातरं सुतम् ।
भृत्यं कलत्रं बन्धुश्च शिष्यवर्गांस्तथैव च ॥ १७ ॥
यदा नारायणक्षेत्रे मन्त्रं गृह्णाति वैष्णवात् ।
विष्णुः पुंसां सहस्रं च लीलया च समुद्धरेत् ॥ १८ ॥
मया श्रीकृष्णमन्त्रश्च कृष्णालये मुने पुरा ।
गोलोके विरजातीरे नीरे क्षीरनिभेऽमले ॥ १९ ॥
शतलक्षजपं कृत्वा पुण्ये वृन्दावने वने ।
श्रीकृष्णानुग्रहेणैव मन्त्रः सिद्धो बभूव मे ॥ २० ॥
ब्रह्मभालोद्भवोऽहं च सर्वादिसर्गतो मुने ।
प्राप्तं मृत्युञ्जयं ज्ञानं कृष्णाच्च परमात्मनः ॥ २१ ॥
सिद्धो मृत्युञ्जयोऽहं नित्यनूतनविग्रहः ।
ब्रह्मणः पतनेनैव निमेषो मे यथा हरेः ॥ २२ ॥
एवं तेषां पार्षदानां नास्ति मृत्युर्यथा हरेः ।
यस्मिन् देहे लभेन् मन्त्रं वैष्णवो वैष्णवाद् अपि ॥ २३ ॥
पूर्वकर्माश्रितं देहं त्यक्त्वा स पार्षदो भवेत् ।
पञ्चवक्त्रेण सततं तन्नामगुणकीर्तनम् ॥ २४ ॥
करोमि भार्यया सार्धं पुत्राभ्यां चापि नारद ।
तद् दिनं दुर्दिनं मन्ये मेघाच्छन्नं न दुर्दिनम् ॥ २५ ॥
यद् दिनं कृष्णसंलापकथापीयुषवर्जितम् ।
तं क्षणं निष्फलं मन्ये श्रीकृष्णकीर्तनं विना ॥ २६ ॥
आयुर्हरति कालश्च पुंसां तत्कीर्तनेन च ।
तं क्षणं मङ्गलं मन्ये सर्वहर्षकरं परम् ॥ २७ ॥
तस्मात् पापाः पलायन्ते वैनतेयाद् इवोरगाः ।
ब्रह्मणापि पुरा लब्धस्तस्मात् तन्मन्त्र एव च ॥ २८ ॥
पद्मनाभनाभिपद्मे शतलक्षं जजाप स ।
तदाललाप ज्ञानं च निर्मलं सृष्टिकारणम् ॥ २९ ॥
अनिमादिकसिद्धिं च चकार तत्प्रभावतः ।
सृष्टिं च विविधां कृत्वा विधाता च बभूव सः ॥ ३० ॥
बरं तस्मै ददौ कृष्णो मत्समत्वं भवेति च ।
शेषस्तत्कलया पूर्वं बभूव कश्यपात्मजः ॥ ३१ ॥
तस्मात् सम्प्राप तन्मन्त्रं सिद्धः कोटिजपेन च ।
सहस्रशिरसस्तस्य मस्तकस्यैकदेशतः ॥ ३२ ॥
विश्वं सर्षपवत् सर्पस्यैकदेशे यथा मुने ।
कूर्मस्तत्कलया पूर्वं बभूवायोनिजः स्वयम् ॥ ३३ ॥
अनन्तस्तत्पृष्ठदेशे गजेन्द्रे मशको यथा ।
वाय्वाधारश्च कूर्मश्च जलाधारः समीरणः ॥ ३४ ॥
महज्जलं महाविष्णोः प्रत्येकं लोमकूपतः ।
महाविष्णुर्जलाधारः सर्वाधारो महज्जलम् ॥ ३५ ॥
शून्याश्रयं निराधारं परमेतन् महज्जलम् ।
तस्मिन् महज्जले शेते बभूव कलया हरेः ॥ ३६ ॥
महज्जलं महावायुर्बभूव कलया हरेः ।
राधागर्भोद्भवो डिम्भः स च डिम्भोद्भवः पुरा ॥ ३७ ॥
बभञ्ज डिम्भः सहसा गोलोकात् प्रेरितस्तथा ।
भूत्वा द्विखण्डं पतितो डिम्भो मग्नो जलार्णवे ॥ ३८ ॥
बालश्च शेते तोये पर्यङ्के च यथा नृपः ।
महाविष्णोश्च लोम्नां च विवरेषु पृथक् पृथक् ॥ ३९ ॥
ब्रह्माण्डानि च प्रत्येकमसंख्यानि च नारद ।
पृथक् पृथक् जलं व्याप्तं प्रतिलोम्नश्च कूपतः ॥ ४० ॥
वायुस्तदूर्ध्वं प्रत्येकं तदूर्ध्वं कमठस्तथा ।
शेषः कमठपृष्ठे च सहस्रमितमस्तकः ॥ ४१ ॥
मस्तकस्यैकदेशे च डिम्भः सर्षपवन् मुने ।
डिम्भान्तरे च ब्रह्माण्डमनित्यं कृत्रिमं च तत् ॥ ४२ ॥
डिम्भान्तरे च ब्रह्माण्डनिर्माणक्रममीप्सितम् ।
सद्भिर्ज्ञातं श्रुतिद्वारा साक्षाद् दृष्टं मया मुने ॥ ४३ ॥
एवं च सप्तपातालं यथैवाट्ठालिकागृहम् ।
प्रययुः परिनिर्माणं क्रमेण च पृथक् पृथक् ॥ ४४ ॥
अतलं वितलं चैव सुतलं च तलातलम् ।
रसातलं महातलं पातालं परिकीर्तितम् ॥ ४५ ॥
वितलं सुन्दरं शुद्धं निर्माणं स्वर्गवन् मुने ।
सद्रत्नरचितं सर्वमीश्वरेच्छाविनिर्मितम् ॥ ४६ ॥
पातालाधस्तलं कृष्णं गभीरं च भयानकम् ।
डिम्भाधरं तज्जलं च डिम्भाढः शेष एव च ॥ ४७ ॥
अतलोपरि तोयं च तोयोपरि वसुन्धरा ।
काञ्चनी भूमिसंयुक्ता सप्तद्वीपमनोहरा ॥ ४८ ॥
सप्तसागरसंयुक्ता वनशैलसरिद्युता ।
वर्त्तुला चन्द्रविम्भाभा जलमध्येऽब्जपत्रवत् ॥ ४९ ॥
जम्बुद्वीपश्च तन्मध्ये लवणोदेन वेष्ठितः ।
लवणोदसमुद्रश्च लक्षयोजनप्रस्थकः ॥ ५० ॥
दैर्ध्यं तस्माद् दशगुणो ग्रामस्य परिखा यथा ।
उपद्वीपैर्बहुतरैः शोभायुक्तैः समन्वितः ॥ ५१ ॥
जम्बुद्वीपे जम्बुवृक्षो विस्तीर्णोऽतिविचित्रकः ।
श्यामवर्णं पक्वफलं गजेन्द्रनिभमेव च ॥ ५२ ॥
सुमेरुशिखरो यत्र कैलासः शङ्करालयः ।
रत्नाकरो हिमगिरिर्द्वीपमध्ये मनोहरः ॥ ५३ ॥
मेरोश्चाष्टसु शृङ्गेषु विचित्राविष्कृतेषु च ।
यत्राष्टलोकपालानामाश्रमाणि च नारद ॥ ५४ ॥
इन्द्रो वह्निः पितृपतिनैरृतो वरुणो मरुत् ।
कुवेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥ ५५ ॥
एतेषामालयं शुद्धं रमणीयं मनोहरम् ।
पूर्वस्माद् एव प्रत्येकं क्रमेण च पृथक् पृथक् ॥ ५६ ॥
ऊर्ध्वं शृङ्गोऽतिविस्तीर्णो ब्रह्मलोकस्तदग्रतः ।
ब्रह्मलोकोर्ध्वडिम्भश्च विश्वं डिम्भान्तरं तथा ॥ ५७ ॥
ऊर्ध्वशृङ्गे षष्टलोके ब्रह्मलोकस्तदूर्ध्वतः ।
भूर्लोकोऽपि भुवर्लोकः स्वर्लोकश्च तथैव च ॥ ५८ ॥
जनलोको महर्लोकः सत्यलोकश्च मध्यतः ।
चतुर्युगे सत्यलोके पूर्णो धर्मश्च सन्ततम् ॥ ५९ ॥
ब्रह्मलोकस्य वामे च ध्रुवलोकस्तथैव च ।
विश्वं च ब्रह्मलोकान्तं स्रष्टा सृष्टञ्च कृत्रिमम् ॥ ६० ॥
जम्बुद्वीपश्च कथितो यथा दृष्टो मया मुने ।
सरित्शैलैर्बहुविधैः काननैः कन्दरैर्युतः ॥ ६१ ॥
यत्र भारतवर्षं च सर्वेषामीप्सितं वरम् ।
कर्मक्षेत्रं सतां सद्भिः प्रशस्यं पुण्यदं परम् ॥ ६२ ॥
आविर्भावोऽत्र कृष्णस्य यत्र वृन्दावनं वनम् ।
अन्यस्थाने सुखं जन्म निष्फलं च गतागतम् ॥ ६३ ॥
भारते च क्षणं जन्म सार्थकं शुभकर्मजम् ।
अनेकजन्मपुण्येन साधूनां जन्म भारते ॥ ६४ ॥
कृष्णानुग्रहतो विद्वान् लब्ध्वा च जन्म भारते ।
न भजेत् कृष्णपादाब्जं तद् अत्यन्तविडम्बनम् ॥ ६५ ॥
असार्थकं तस्य जन्म वृथा तद्गर्भयातना ।
निष्फलं तच्छरीरं च नश्वरं व्यर्थजीवनम् ॥ ६६ ॥
जीवन् मृतो हि पापी स चाण्डालाद् अधमोऽशुचिः ।
भुङ्क्ते नित्यमभक्ष्यं चाप्यनिवेद्यं हरेरहो ॥ ६७ ॥
विण्मूत्रकॢप्तभक्ष्यं च नित्यं भुङ्ग्क्ते च शूकरः ॥
नहि कॢप्तमभक्ष्यं च भुङ्ग्क्ते स शूकराधमः ॥ ६८ ॥
अभक्ष्यं ब्राह्मणानां तद् अनिवेद्यं हरेरहो ।
अन्नं विष्ठा जलं मूत्रं यद् विष्णोरनिवेदितम् ॥ ६९ ॥
नित्यं पादोदकं भुङ्क्ते नैवेद्यं च हरेर्द्विज ।
तन्मन्त्रग्रहणं कृत्वा जीवन्मुक्तो हि भारते ॥ ७० ॥
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ।
सर्वान्येव हि तीर्थानि पवित्राणि च नारद ॥ ७१ ॥
स एव शुद्धः सर्वेषु सद्यो मुक्तो महीतले ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ७२ ॥
एवं भृत्यस्य रक्षार्थं कृष्णो दत्वा सुदर्शनम् ।
तथापि सुस्थो न प्रीतस्तं त्यक्तुमक्षमः क्षणम् ॥ ७३ ॥
एवं भूतो दयासिन्धुर्भक्तानुग्रहकातरः ।
अतः सन्तो हि तं त्यक्त्वा न सेवन्ते सुरान्तरम् ॥ ७४ ॥
जम्बुद्वीपश्च कथितः स्वर्गान् मेरुक्रमेण च ।
अन्येषामपि द्वीपानां श्रूयतामनुवर्त्तनम् ॥ ७५ ॥
जम्बुद्वीपात् परः प्लक्षस्ततोऽपि द्विगुणक्रमात् ।
वृतश्चेक्षुरसादेन पूर्वस्माद् द्विगुणेन च ॥ ७६ ॥
पूर्वस्माद् द्विगुणैर्युक्तः सरिच्छैलवनादिकैः ।
नानाविधभोगाद् युक्तः शुद्धोऽतिसुन्दरः ॥ ७७ ॥
तत्र क्रीडन्ति तत्रस्था जरारोगादिवर्जिताः ।
न तत्र कर्मणो जन्म भुङ्क्ते कर्म पुरातनम् ॥ ७८ ॥
भुक्त्वा शुभाशुभं कर्म स्वर्गं वा नरकं पुनः ।
व्रजन्ति ते क्रमेणैव मूढाः प्राक्तनतो मुने ॥ ७९ ॥
प्लक्षद्वीपात् परः शाकद्वीपो हि सुन्दरो मुने ।
पूर्वस्माद् द्विगुणो युक्तः सुरोदद्विगुणेन च ॥ ८० ॥
शाकद्वीपत् कुशद्वीपो द्विगुणः सुमनोहरः ।
पूर्वस्माद् द्विगुणेनैव घृतोदेन समावृतः ॥ ८१ ॥
कुशद्वीपाच्च द्विगुणो वकद्वीपो महामुने ।
वृतो दधिसमुद्रेण क्रमात् तद्द्विगुणेन च ॥ ८२ ॥
वकद्वीपाच्च द्विगुणः शाल्मलिद्वीप एव च ।
पूर्वस्माद् द्विगुणेनैव क्षीरोदेन समावृतः ॥ ८३ ॥
श्वेतद्वीपश्च क्षीरोदे चोपद्वीपो मनोहरः ।
तत्रैव भगवान् विष्णुः सेवितः सिन्धुकन्यया ॥ ८४ ॥
नारायणांशो वैकुण्ठः शुद्धः सत्त्वगुणाश्रयः ।
श्यामश्चतुर्भुजः शान्तो वनमालाविभूषितः ॥ ८५ ॥
चतुर्भुजैः श्यामवर्णैः पार्षदैः परिवारितः ।
ब्रह्मादिभिस्तूयमानो मुनिभिः सनकादिभिः ॥ ८६ ॥
सुखदो मोक्षदः श्रीमान् प्रदाता सर्वसम्पदाम् ।
द्वीपश्च वर्तुलाकारो विशुद्धश्चन्द्रविम्बवत् ॥ ८७ ॥
योजनायुतविस्तीर्णो दैर्ध्यं च तत्समः सदा ।
अमूल्यरत्ननिर्माणो बभूव स्वेच्छया हरेः ॥ ८८ ॥
आत्मानं मन्यते तुच्छं विश्वकर्मा निरीक्ष्य यम् ।
समावृतं पार्षदानां शिविरैर्लक्षकोटिभिः ॥ ८९ ॥
उद्यानैः कल्पवृक्षाणां संसक्तं शतकोटिभिः ।
शतकोटिभिरष्टाभिः कामधेनुभिरावृतम् ॥ ९० ॥
पुष्पोद्यानैरावृतैश्च सरोभिः शतकोटिभिः ।
गन्धर्वैर्नर्तकैः सिद्धैर्योगेन्द्रैरप्सरोगणैः ॥ ९१ ॥
तस्माद् द्वीपाच्च द्विगुणः क्रौञ्चद्वीपो मनोहरः ।
पूर्वस्माद् द्विगुणेनैव जलोदेन समावृतः ॥ ९२ ॥
सप्तद्वीपाश्च कथिताः सरित्सागरकाननाः ।
शैलैर्बहुविधैर्युक्ताः सुन्दरैः कन्दरोदरैः ॥ ९३ ॥
तत्परा काञ्चनी भूमिः सर्वसत्त्वविवर्जिता ।
तेजःस्वरूपा परमा प्रज्वलन्ती दिवानिशम् ॥ ९४ ॥
एवं डिम्भोदरस्थं च विश्वं विश्वसृजा कृतम् ।
डिम्भस्तल्लोमकूपे च महाविष्णुश्च नारद ॥ ९५ ॥
यावन्ति लोमकूपाण्यविष्कृतानि हरेरहो ।
तावन्त्येव हि विश्वानि चासंख्यानि च नारद ॥ ९६ ॥
जले शेते महाविष्णुर्जलं तत्प्रतिलोमसु ।
जलोपरि महावायुर्वायोरुपरि कच्छपः ॥ ९७ ॥
कच्छपोपरि शेषश्च गजेन्द्रमशको यथा ।
सहस्रमूर्ध्वं शेषस्य मस्तकस्यैकदेशतः ॥ ९८ ॥
विश्वाधारश्च डिम्भश्च शूर्पे च सर्षपो यथा ।
स एव च महाविष्णुः कृष्णस्य परमात्मनः ॥ ९९ ॥
षोडशांशो भगवतः परस्य प्रकृतेः परेः ।
ब्रह्मादिस्तम्बपर्यन्तं सर्वं मिथ्यैव नारद ।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात् परम् ॥ १०० ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे
भक्तिज्ञाननिरूपणं नाम
द्वितीयोऽध्यायः
॥ २ ॥
(३)
द्वितीयरात्रे तृतीयोऽध्यायः
अथ हरिभक्तिनिरूपणं
श्रीनारद उवाच --
श्रुतं नाथ किममृतमपूर्वं परमाद्भुतम् ।
भक्तिज्ञानं परं शुद्धममलं कोमलं विभो ॥ १ ॥
अतः परं यमपरं तीर्थकीर्तेर्गुणान्तरम् ।
ज्ञानामृतं रसं शुद्धं कथ्यतां श्रवणामृतम् ॥ २ ॥
श्रीमहदेव उवाच --
गुणान्तरं तीर्थकीर्तेः को वा वक्तुं क्षमो मुने ।
नाहं ब्रह्मा च शेषश्च धर्मः सूर्यस्तथैव च ॥ ३ ॥
नारायणर्षिर्भगवान् नरर्षिः कपिलस्तथा ।
सनत्कुमारो वेदाश्चाष्यन्यः को वा न भारती ॥ ४ ॥
परमात्मा यथा दृष्टः सिमा च नभसस्तथा ।
यथा दृष्टं मनश्चापि बुद्धिर्ज्ञानं विवेचनम् ॥ ५ ॥
तथा गुणश्च कृष्णस्य सर्वा ज्ञातश्च नारद ।
तथापि वक्ति तज्ज्ञानं पण्डितश्च यथागमम् ॥ ६ ॥
कलाः कलांशास्तस्यापि ये ये सन्तश्च योगिनः ।
ते महान्तश्च पूज्याश्चाप्यंशं वक्तुं च कः क्षमः ॥ ७ ॥
नैव कृष्णात् परो देवी नैव कृष्णात् परः पुमान् ।
नैव कृष्णात् परो ज्ञानी न योगी च ततः परः ॥ ८ ॥
नैव कृष्णात् परोः सिद्धस्तत्परोऽपि नहीश्वरः ।
न तत्परश्च जनको विश्वेषां परिपालकः ॥ ९ ॥
न तत्परश् बलवान् बुद्धिमान् कीर्तिमांस्तथा ।
न तत्परः सत्यवादी दयावान् भक्तवत्सलः ॥ १० ॥
न तत्परश्च गुणवान् सुशीलश्च जितेन्द्रियः ।
शुद्धाश्रयश्च शुद्धश्च न तस्माद् भक्तवत्सलः ॥ ११ ॥
न तस्मात् परो धर्मी प्रदाता सर्वसम्पदाम् ।
नहि तस्माद्त् परः शान्तो लक्स्मीकान्तात् परश्च कः ॥ १२ ॥
अनन्तकोटिब्राह्माण्डो मोहितो मायया यया ।
सा चातिभीता पुरतो यमेव स्तोतुमक्षमा ॥ १३ ॥
सरस्वती जडीभूता यमेव स्तोतुमक्षमा ।
महालक्ष्मीश्चातिभीता पादपद्मं निसेवते ॥ १४ ॥
प्रत्येकं प्रतिविश्वेषु महाविष्णुश्च लोमसु ।
कोटिशः कोटिशः सन्ति देवा ब्रह्मादयो मुने ॥ १५ ॥
यथा रेणुरसंख्यश्च तथा विश्वानि नारद ।
एतेषामीश्वरश्चैको राधेशः प्रकृतेः परः ॥ १६ ॥
इत्येवं कथितं किञ्चित् किं भूयः श्रोतुमिच्छसि ।
अनिरूप्यः कृष्णगुणो यथा विश्वं यथा रजः ॥ १७ ॥
नारद उवाच --
राधोद्भवं वद विभो श्रोतुं कौतूहलं मम ।
का वा सा कुत उत्पन्ना तत्प्रभावश्च कः शिव ॥ १८ ॥
श्रीमहादेव उवाच --
सर्वादिसर्गपर्यन्तं शृणु नारद मन्मुखात् ।
एकोऽयं न द्वितीयश्च देहो मे तेजसोऽन्तरे ॥ १९ ॥
गोलोको नित्यवैकुण्ठो यथाकाशो यथादिशः ।
यथा स परमात्मा च सर्वेषां जगतामपि ॥ २० ॥
द्विभुजः सोऽपि गोलोके बभ्राम रासमण्डले ।
गोपवेषश्च तरुणो जलदश्यामसुन्दरः ॥ २१ ॥
कोटीन् सदृशः श्रीमांस्तेजसा प्रज्वलन्न् इव ।
अतीवसुखदृश्यश्च कोटिकन्दर्पनिन्दितः ॥ २२ ॥
दृष्ट्वा शून्यं सर्वविश्वमूर्ध्वं चाधोपि तुल्यकम् ।
सृष्ट्युन्मौखश्च श्रीकृष्णः सृष्टिं कर्तुं समुद्यतः ॥ २३ ॥
एक ईशः प्रथमतो द्विधारूपो बभूव सः ।
एका स्त्री विष्णुमाया या पुमान् एकः स्वयं विभुः ॥ २४ ॥
स च स्वेच्छामयः श्यामः सगुणो निर्गुणः स्वयम् ।
तां दृष्ट्वा सुन्दरीं लीलां रतिं कर्तुं समुद्यतः ॥ २५ ॥
सा दधाव नचोवाच भीता मनसि कम्पिता ।
तां धृत्वोरसि संस्थाप्य स उवाचातिलज्जिताम् ॥ २६ ॥
स्त्रीजात्यधिष्ठातृदेवीं मूलप्रकृतिमीश्वरीम् ।
तत्प्राणाधिष्ठातृदेवीं तद्वामाङ्गसमुद्भवाम् ॥ २७ ॥
श्रीभगवान् उवाच --
मम प्राणाधिदेवी त्वं स्थिरा भव ममोरसि ।
अत्र स्थानं मया दत्तं तुभ्यं प्राणेश्वरि प्रिये ॥ २८ ॥
प्राणेभ्योऽपि प्रियतमे परमाद्या सनातनि ।
त्यज लज्जां क्षमाशीले नवसंगमलज्जिते ॥ २९ ॥
इत्येवमुक्त्वा तां देवीं प्रियां कृत्वा स्ववक्षसि ।
चुचुम्ब गण्डं कठिनमाशिश्लेषस्तनं मुदा ॥ ३० ॥
शय्याह रतिकर्तीं कृत्वा पयः फेननिभा शुभाम् ।
सुगन्धिवायुसंयुक्ता पुष्पचन्दनचार्चिताम् ॥ ३१ ॥
स रेमे रामया सार्धं यावद् वै ब्रह्मणो वयः ।
विदग्धया विदग्धेन बभूव सङ्गमः शुभः ॥ ३२ ॥
एतदन्ते तदुदरे वीर्याधानं चकार सः ।
गर्भं दधार सा देवी यावद् वै ब्रह्मणो वयः ॥ ३३ ॥
भूरिश्रमेण कृष्णस्य गात्रे धर्मो बभूव ह ।
अधः पपात तद् बिन्दुकणमेव च नारद ॥ ३४ ॥
दधार तज्जलं शून्ये नित्यवायुश्च योगतः ।
तद् एव प्लावयामास विश्वे चोरसि सर्वतः ॥ ३५ ॥
रासे संभूय तरुणीमादधार हरेः पुरः ।
तेन राधा समाख्याता पुराविद्भिश्च नारद ॥ ३६ ॥
कृष्णवामांशसंभूता बभूव सुन्दरी पुरा ।
यस्याश्चांशांशकलया बभूवुर्देवयोषितः ॥ ३७ ॥
राशब्दोच्चारणाद् भक्तो भक्तिं मुक्तिं च रातिं सः ।
धाशब्दोश्चारणेनैव धावत्येव हरेः पदम् ॥ ३८ ॥
सुषाव डिम्भं सा देवी रासे वृन्दावने वने ।
दृष्ट्वा डिम्भं क्रुधा राधा प्रेरयामास पादतः ॥ ३९ ॥
पपात डिम्भस्तोये च द्विखण्डश्च बभूव सः ।
डिम्भान्तरे च यो वालो महाविष्णुः स एव हि ॥ ४० ॥
तल्लोमविवरेष्वेव ब्रह्माण्डानि पृथक् पृथक् ।
प्रत्येकं माययासंख्यडिम्भाश्चाप्यभवन् पुरा ॥ ४१ ॥
विश्वान्येव हि भूरीणि तेषामभ्यन्तरं मुने ।
बभूवुरेवं क्रमतः प्रत्येकं च पृथक् पृथक् ॥ ४२ ॥
इत्येवं कथितं विप्र राधिकाख्यानमेव च ।
गोपनीयं पुराणेषु स्वादु स्वादु पदे पदे ॥ ४३ ॥
जन्ममृत्युजराव्याधिहरं मोक्षकरं परम् ।
हरिदास्यप्रदं तस्य भक्तिदं शुभदं शुभम् ॥ ४४ ॥
सर्वं ते कथितं वत्स यत् ते मनसि वाञ्छितम् ।
यथा श्रुतं कृष्णमुखात् किं भूयः श्रोतुमिच्छसि ॥ ४५ ॥
श्रीनारद उवाच --
किमपूर्वं श्रुतं शम्भो योगीन्द्राणां गुरोर्गुरो ।
समासेन सर्वमुक्तं व्यासेन वक्तुमर्हसि ॥ ४६ ॥
पुरा त्वयोक्तं देवीनां देवानां चरितं शिव ।
जगत्प्रसूं च पृच्छतीं पार्वतीं पुष्कराश्रमे ॥ ४७ ॥
राधाख्यानं तत्र नोक्तं कथं वा विदुषां गुरो ।
सर्वबीजेश्वर सर्ववेदकारणकारण ॥ ४८ ॥
मां भक्तमनुरक्तं च वद वेदविदां वर ।
कृपां कुरु कृपासिन्धो दीनबन्धो परात् पर ॥ ४९ ॥
श्रीमहादेव उवाच --
अपूर्वं राधिकाख्यानं गोपनीयं सुदुर्लभम् ।
सद्यो मुक्तिप्रदं शुद्धं वेदसारं सुपुण्यदम् ॥ ५० ॥
यथा ब्रह्मस्वरूपश्च श्रीकृष्णः प्रकृतेः परः ।
तथा ब्रह्मस्वरूपा च निर्लिप्ता प्रकृतेः परा ॥ ५१ ॥
यथा स एव सगुणः काले कर्मानुरोधतः ।
तथैव कर्मणा काले प्रकृतिस्त्रिगुणात्मिका ॥ ५२ ॥
तस्यैव परमेशस्य प्राणेषु रसनासु च ।
बुद्धौ मनसि योगेन प्रकृतेः स्थितिरेव च ॥ ५३ ॥
आविर्भावस्तिरोभावस्तस्याः कालेन नारद ।
न कृत्रिमा च सा नित्या सत्यरूपा यथा हरिः ॥ ५४ ॥
प्राणाधिष्ठात्री या देवी राधारूपा च सा मुने ।
रसनाधिष्ठात्री या देवी दुर्गा दुर्गतिनाशिनी ॥ ५५ ॥
बुद्ध्यधिष्ठात्री या देवी दुर्गा दुर्गतिनाशिनी ।
अधुना या हिमगिरेः कन्या नाम्ना च पार्वती ॥ ५६ ॥
सर्वेषामपि देवानां तेजःसु समाधिस्ठता ।
संहन्त्री सर्वदैत्यानां देववैरिविमर्दनी ॥ ५७ ॥
स्थानदात्री च तेषां च धात्री त्रिजगतामपि ।
क्षुत्पिपासा दया निद्रा तुष्टिः पुष्टिः क्षमा तथा ॥ ५८ ॥
लज्जा भ्रान्तिश्च सर्वेषामधिदेवी प्रकीर्तिता ।
मनोऽधिष्ठात्री देवी सा सावित्री विप्रजातिषु ॥ ५९ ॥
राधावमांशसम्भूता महालक्ष्मीः प्रकीर्तिता ।
ऐश्वर्याधिष्ठात्री देवीश्वरस्य हि नारद ॥ ६० ॥
तदंशा सिन्धुकन्या च क्षीरोदमथनोद्भवा ।
मर्त्यलक्ष्मीश्च सा देवी पत्नी क्षीरोदशायिनः ॥ ६१ ॥
तदंशा स्वर्गलक्ष्मीश्च शक्रादीनां गृहे गृहे ।
स्वयं देवी महालक्ष्मीः पत्नी वैकुण्ठशायिनः ॥ ६२ ॥
सावित्री ब्रह्मणः पत्नी ब्रह्मलोके निरामये ।
सरस्वती द्विधाभूता पुरैव साज्ञया हरेः ॥ ६३ ॥
सरस्वती भारती च योगेन सिद्धयोगिनी ।
भारती ब्रह्मणः पत्नी विष्णोः पत्नी सरस्वती ॥ ६४ ॥
राधाधिष्ठात्री देवी च स्वयं रसेश्वरी परा ।
वृन्दावने च सा देवी परिपूर्णतमा सती ॥ ६५ ॥
रासमण्डलमध्ये च रासक्रीडां चकार सा ।
कृष्णचर्वितताम्बूलं चखाद राधिका सती ॥ ६६ ॥
राधाचर्वितताम्बूलं चखाद मधुसूदनः ।
एकाङ्को हि तनोर्भेदो दुग्धधारण्ययोर्यथा ॥ ६७ ॥
भेदका नरकं यान्ति यावच्चन्द्रदिवाकरौ ।
तयोर्भेदं करिष्यन्ति ये च निन्दन्ति राधिकाम् ।
कुम्भीपाकेन पच्यन्ते यावद् वै ब्रह्मणो वयः ॥ ६८ ॥
श्रीनारद उवाच --
राधामन्त्रेषु यो मन्त्रः प्रधानः पूज्तः सताम् ।
तन् मे ब्रूहि जगन्नाथ यद् ध्यानं कवचं स्तवम् ॥ ६९ ॥
पूजाविधानं तन्मन्त्रं यद् यत् पूजाफलं शिव ।
समासेन कृपासिन्धो मां भक्तमपि कथ्यताम् ॥ ७० ॥
श्रीमहादेव उवाच --
नारायणर्षिणा दत्तं सुभद्रब्राह्मणाय च ।
कवचं यन् मुनिश्रेष्ठ तद् एव कवचं परम् ॥ ७१ ॥
षडस्खरी महाविद्या श्रीकृष्णेनैव सेविता ।
सारभूता च मन्त्रेषु दास्यभक्तिप्रदा हरेः ॥ ७२ ॥
ध्याणं स्तोत्रं सर्वपूज्यं सामवेदोक्तमेव च ।
कार्तिकीपूर्णिमाप्राप्तं नराणां जन्मखण्डनम् ॥ ७३ ॥
परमानन्दसन्दोहकवचं तत् सुदुर्लभम् ।
यद् धृतं कण्ठदेशे च कृष्णेन परमात्मना ॥ ७४ ॥
नारद उवाच --
षडक्षरीं महाविद्यां वद वेदविदां वर ।
केन केनोपासिता सा किं वा तत्फलमीश्वर ॥ ७५ ॥
श्रीमहादेव उवाच --
षडक्षरी महाविद्या वेदेषु च सुदुर्लभा ।
निषिद्धा हरिणा पूर्वं वक्तुमेव हि नारद ॥ ७६ ॥
पार्वत्या परिपृष्टेन मया नोक्ता पुरा मुने ।
अस्माकं प्राणतुल्या च कृष्णस्य परमात्मनः ॥ ७७ ॥
सर्वसिद्धिप्रदा विद्या भक्तिमुक्तिप्रदा हरेः ।
वह्निस्तम्भं जलस्तम्भं मृदां च मनसस्तथा ॥ ७८ ॥
सर्वं जानाति भक्तश्च विद्या सिद्धिर्भवेद् यदि ।
यदा नारायणक्षेत्रे दशलक्षं जपेच्छुचिः ॥ ७९ ॥
मन्त्रसिद्धिर्भवेत् तस्य विष्णुतुल्यो भवेन् नरः ।
इत्येवं कथितं वत्स मन्त्रतन्त्रपराक्रमम् ॥ ८० ॥
राज्यं देयं शिरो देयं प्राणा देयाश्च नारद ।
पुत्रो देयः प्रिया देया धर्मं देयं सुदुर्लभम् ॥ ८१ ॥
ज्ञानं मृत्युञ्जयं नाम यदि देयं महामुने ।
तथापि गोपनीया च न देया सा षडक्षरी ॥ ८२ ॥
ब्रह्मशापभयाद् विप्र तथापि कथयाम्यहम् ।
स्नातः शुद्धाम्बरधरो यती संयत्येव च ॥ ८३ ॥
गृह्णीयाच्च महाविद्यां कामधेनुस्वरूपिणीम् ।
प्रदात्रीं कवितां विद्यां सर्वसिद्धिं च सम्पदाम् ॥ ८४ ॥
बलं पुत्रं महालक्ष्मीं निश्चलां शतपौरुषीम् ।
भक्तिं दास्यप्रदामन्ते गोलोके वासमीप्सितम् ॥ ८५ ॥
मन्त्रग्रहणमात्रेण नरो नारायणो भवेत् ।
कोटिजन्मार्जितात् पापान् मुच्यते नात्र संशयः ॥ ८६ ॥
पुरुषाणां शतं चैव लीलया च समुद्धरेत् ।
मातरं भ्रातरं पुत्रं पत्नीं च बान्धवांस्तथा ॥ ८७ ॥
मन्त्रग्रहणमात्रेण सद्यः पूतो भवेन् नरः ।
यथा सुवर्णं वह्नौ च गङ्गतोये यथा नरः ॥ ८८ ॥
तस्यैव पादरजसो सद्यः पूता वसुन्धरा ।
पवित्राणि च तीर्थानि तुलसी चापि जाह्नवी ॥ ८९ ॥
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।
षडक्षरीं महाविद्यां यो गृह्णीयाच्च पुण्यदः ॥ ९० ॥
भूतवर्गात् पराद् वर्णो द्वितीयो दीर्घवान् मुने ।
चतुर्वर्गतुरीयश्च दीर्घवांश्च फलप्रदः ॥ ९१ ॥
भूतवर्गात् परो वर्णो वाणीवान् सर्वसिद्धिदः ।
सर्वशुद्धप्रियान्ता च तस्या बीजादिका स्मृता ॥ ९२ ॥
षडक्षरी महाविद्या कथिता सर्वसिद्धिदा ।
प्रणवाद्या महामाया राधा लक्ष्मी सरस्वती ॥ ९३ ॥
कृष्णप्राणाधिका ङेन्तानलजायान्त एव च ।
कल्पवृक्षस्वरूपश्च मन्त्रोऽयं भुवनाक्षरः ॥ ९४ ॥
कुमारपदवीदाता सिद्धो यदि भवेन् नरः ।
कुमारेणार्चितो मन्त्रः पाद्मे पाद्मसुतेन च ॥ ९५ ॥
पाद्मेन दत्तः पुत्राय पुष्करे सूर्यपर्वणि ।
सप्तलक्षजपेनैव मन्त्रसिद्धिर्भवेन् नृणाम् ॥ ९६ ॥
सर्वस्तम्भं सर्वसिद्धिं लभते साधकः सदा ।
कृष्णेन दत्तो गोलोके ब्रह्मणो विरजातटे ॥ ९७ ॥
तेन दत्तश्च मह्यं च तुभ्यं दत्तो महामुने ।
प्रणवाद्या च सर्वाद्या महामाया सरस्वती ॥ ९८ ॥
कृष्णप्रिया चतुर्थ्यन्ता चित्रभानुप्रियान्तका ।
एकादशाक्षरो मन्त्रो रङ्गयोपासितस्तथा ॥ ९९ ॥
मुक्तिप्रदश्च मन्त्रोऽयं तीर्थपूतश्च सिद्धिदः ।
मनोयायी भवेद् अत्र चान्तो याति परां गतिम् ॥ १०० ॥
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन् नृणाम् ।
प्रणवाद्या च सर्वाद्या महालक्ष्मीः सरस्वती ॥ १०१ ॥
सर्वाद्या सा चतुर्थ्यन्ता वीतहोत्रप्रियान्तका ।
दशाक्षरो महामन्त्रो दास्यभक्तिप्रदो हरेः ॥ १०२ ॥
योगीन्द्रश्च भवेद् अत्र मन्त्रसिद्धिर्भवेद् यदि ।
नवलक्षजपेनैव मन्त्रसिद्धिर्भवेन् नृणाम् ॥ १०३ ॥
सर्वमन्त्रेषु सारश्च मन्त्रराजः प्रकीर्तितः ।
तुलस्योपासितो मन्त्रश्चतुर्वर्गफलप्रदः ॥ १०४ ॥
व्यासेनोपासितोऽयं च तथा नारायणार्षिणा ।
सारभूतं मयोक्तं ते परं मन्त्रचतुष्टयम् ।
सुखदं भक्तिदं शुद्धं किं भूयः श्रोतुमिच्छसि ॥ १०५ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
हरिभक्तिज्ञाननिरूपणं नाम
तृतीयोऽध्यायः
॥ ३ ॥
(४)
द्वितीयरात्रे चतुर्थोऽध्यायः
अथ राधाप्रश्नकथनम्
श्रीनारद उवाच --
मन्त्रोपयुक्तं ध्यानं च तथा पूजाविधानकम् ।
स्तवनं कवचं चैव वद वेदविदां वर ॥ १ ॥
श्रीभगवान् उवाच --
ध्यानं च श्रूयतां वत्स सामवेदोक्तमेव च ।
श्रीकृष्णेन कृतं पूर्वं सर्वेषामभिवाञ्छितम् ॥ २ ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
बिभ्रतीं कवरीभारं मालतीमाल्यभूषितम् ॥ ३ ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषितम् ।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥ ४ ॥
ब्रह्मस्वरूपां परमां कृष्णरामां मनोहराम् ।
कृष्णप्राणाधिकां देवीं कृष्णवक्षःस्थलस्थिताम् ॥ ५ ॥
कृष्णस्तुतां कृष्णकान्तां शान्तां सर्वप्रदां सतीम् ।
निर्लिप्तां निर्गुणां नित्यां सत्यां शुद्धां सनातनीम् ॥ ६ ॥
गोलोकवासिनीं गोप्त्रीं विधात्रीं धातुरेव ताम् ।
वृन्दां वृन्दावनचरीं वृन्दावनविनोदिनीम् ॥ ७ ॥
तुलस्यधिष्ठातृदेवीं गङ्गार्चितपदाम्बुजाम् ।
सर्वसिद्धिप्रदां सिद्धां सिद्धेशीं सिद्धयोगिनीम् ॥ ८ ॥
सुयज्ञयज्ञाधिष्ठात्रीं सुयज्ञाय महात्मने ।
वरदात्रीं च वरदां सर्वसम्पत्प्रदां सताम् ॥ ९ ॥
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।
रत्नसिंहासनस्थां च रत्नदर्पणधारिणीम् ॥ १० ॥
क्रीडापङ्कजहस्ताभ्यां परां कृष्णप्रियां भजे ।
ध्यात्वा शिरसि पुष्पं च दात्वा प्रक्षाल्य हस्तकम् ॥ ११ ॥
पुनर्ध्यात्वा च भक्त्या च दद्यात् तस्यै प्रसूनकम् ।
तां षोडशोपचरेण संपूज्य परमेश्वरीम् ॥ १२ ॥
पुष्पाञ्जलित्रयं दत्वा स्तुत्वा च कवचं पठेत् ।
पूजाक्रमं परीहारं वत्स मत्तो निशामय ॥ १३ ॥
मन्त्रं समुपचाराणां शृण्वनुक्रमणेन च ।
पुनर्ध्यात्वा यथा देवी पुष्पाञ्जलियुतो भवेत् ॥ १४ ॥
इमं मन्त्रं परीहारं कुरुते भक्तिपूर्वकम् ।
नारायणि महामाये विष्णुमाये सनातनि ॥ १५ ॥
प्राणाधिदेवि कृष्णस्य मामुद्धार भवार्णवात् ।
संसारसागरे घोरे भीतं मां शरणागतम् ॥ १६ ॥
प्रपन्नं पतितं मातर्मां उद्धार हरिप्रिये ।
असंख्यायोनिभ्रमणाद् अज्ञानान्धतमोऽन्वितम् ॥ १७ ॥
ज्वलद्भिर्ज्ञानदीपैश्च मां सुवर्त्म प्रदर्शय ।
सर्वेभ्योऽपि विनिर्मुक्तं कुरु राधे सुरेश्वरि ॥ १८ ॥
मां भक्तानुरक्तं च कातरं यमताडनात् ।
त्वत्पादपद्मयुगले पादपद्मालयार्चिते ॥ १९ ॥
देहि मह्यं परां भक्तिं कृष्णेन परिसेविते ।
स्निग्धदूर्वाङ्कुरैः शुक्लपुष्पैः कुसुमचन्दनैः ॥ २० ॥
कृष्णदत्तार्घ्यशोभाढ्ये भक्तिमाध्वीकसंकुले ।
आसनं भास्वदुत्तुङ्गममूल्यं रत्ननिर्मितम् ॥ २१ ॥
मया निवेदितं भक्त्या गृहाण परमेश्वरि ।
नानातीर्थोद्भवं पुण्यं शीतलं च सुनिर्मलम् ॥ २२ ॥
मया निवेदितं भक्त्या पाद्यं च प्रतिगृह्यताम् ।
स्निग्धदूर्वाक्षतं शुक्लपुष्पकुंकुमचन्दनम् ॥ २३ ॥
तीर्थतोयान्वितं देवि गृहणार्घ्यं सुरेश्वरि ।
वह्निशुद्धं वस्त्रयुग्मममूल्यमतुलं परम् ॥ २४ ॥
मया निवेदितं भक्त्या गृहाण जगदम्बिके ।
ग्रथितं सूक्ष्मसूत्रेण पारिजातविनिर्मितम् ॥ २५ ॥
जन्ममृत्युजराव्याधिहरे माल्यं गृहाण मे ।
कस्तूरीकुंकुमाक्तं च सुगन्धि स्निग्धचन्दनम् ॥ २६ ॥
राधे मातर्निराबोधे मद्गृहाणानुलेपनम् ।
शुक्लपुष्पसमूहं च सुगन्धि चन्दनान्वितम् ॥ २७ ॥
मया निवेदितं भक्त्या पुष्पं देवि प्रतिगृह्यताम् ।
वनस्पतिरसो दिव्यो गन्धवस्तुभिरन्वितः ॥ २८ ॥
मया निवेदितो भक्त्या धूतोपं प्रतिगृह्यताम् ।
अन्धकारभयध्वंसी माङ्गल्यो विश्वपावनः ॥ २९ ॥
मया निवेदितो भक्त्या दीपोऽयं प्रतिगृह्यताम् ।
सुधापूर्नं रत्नकुम्भं शतकं च सुदुर्लभम् ॥ ३० ॥
माध्वीककुम्भलक्षं च नैवेद्यं देवि गृह्यताम् ।
मिष्टान्नस्वस्तिकानां च लक्षपुञ्जं मनोहरम् ॥ ३१ ॥
शर्कराराशिलक्षं च नैवेद्यं देवि गृह्यताम् ।
संस्कृतं पायसं पिष्ठं शाल्यन्नं व्यञ्जनान्वितम् ॥ ३२ ॥
शर्करादधिदुग्धाक्तं नैवेद्यं देवि गृह्यताम् ।
फलानां च सुपक्वानामाम्रादीनां त्रिलक्षम् ॥ ३३ ॥
राशीनां च मया दत्तं भक्त्या च देवि गृह्यताम् ॥
दधिकुल्याशतं चैव मधुकुल्याशतं तथा ॥ ३४ ॥
घृतकुल्याशतं चैव गृहाण परमेश्वरि ।
दुग्धकुल्याशतं रम्यं गुडकुल्याशतं तथा ॥ ३५ ॥
मया निवेदितं भक्त्या गृहाण परमेश्वरि ।
नानातीर्थोद्भवं रम्यं सुगन्धिवस्तुवासितम् ॥ ३६ ॥
मया निवेदितं भक्त्या शीततोयं गृहाण मे ।
पयःफेननिभा शय्या रत्नेन्द्रसारनिर्मिता ॥ ३७ ॥
मया निवेदिता भक्त्या तां गृहाण सुरेश्वरि ।
भूषणानि च रम्याणि सद्रत्ननिर्मितानि च ॥ ३८ ॥
मया निवेदितानि भक्त्या गृहाण परमेश्वरि ।
ताम्बूलं च परं रम्यं कर्पूरादिसुवासितम् ॥ ३९ ॥
मया निवेदितं भक्त्या गृहाण परमेश्वरि ।
सिन्दूरं शोभनं राधे योषितां सुप्रियं सदा ॥ ४० ॥
मया निवेदितं भक्त्या सिन्दूरं प्रतिगृह्यताम् ।
परं सुपक्वतैलं च सुगन्धिवस्तुसंस्कृतम् ॥ ४१ ॥
मया निवेदितं भक्त्या तैलं च प्रतिगृह्यताम् ।
पुष्पाञ्जलित्रयं दत्वा दासीवर्गं प्रपूजयेत् ॥ ४२ ॥
पाद्यादिकं पृथग् दत्वा प्रणमेद् दण्डवद् भुवि ।
मालतीं माधवीं रक्तां रत्नमालावतीं सतीम् ॥ ४३ ॥
चम्पावतीं मधुमतीं सुशीलां वनमालिकाम् ।
चन्द्रवालीं चन्द्रमुखीं पद्मां पद्ममुखीं शुभाम् ॥ ४४ ॥
कमलां कालिकां कृष्णप्रियां विद्माधरीं तथा ।
सम्पूज्य भक्त्या सर्वास्ता बटुवर्गं प्रपूजयेत् ॥ ४५ ॥
सानन्दं परमानन्दं सुमित्रं सन्तनुं तथा ।
एतान् संपूज्य प्रत्येकं स्तोत्रं च कवचं पठेत् ॥ ४६ ॥
जपेत् षडक्षरीं विद्यां श्रीकृष्णेनैव सेविताम् ।
यथाशक्ति भक्तियुक्तो दण्डवत् प्रणमेत् सदा ॥ ४७ ॥
स्तोत्रं च सामवेदोक्तं प्रपठेद् भक्तिसम्युतः ।
राधा रसेश्वरी रम्या रामा च परमात्मनः ॥ ४८ ॥
रासोद्भवा कृष्णकान्ता कृष्णवक्षःस्थलस्थिता ।
कृष्णप्राणाधिदेवी च महाविष्णोः प्रसूरपि ॥ ४९ ॥
सर्वाद्या विष्णुमाया च सत्या नित्या सनातनी ।
ब्रह्मस्वरूपा परमा निर्लिप्ता निर्गुणा परा ॥ ५० ॥
वृन्दा वृन्दावने सा च विरजातटवासिनी ।
गोलोकवासिनी गोपी गोपीशा गोपमातृका ॥ ५१ ॥
सानन्दा परमानन्दा नन्दनन्दनकामिनी ।
वृषभानुसुता शान्ता कान्ता पूर्णतमा च सा ॥ ५२ ॥
काम्या कलावती कन्या तीर्थपूता सती शुभा ।
सप्तत्रिशच्च नामानि वेदोक्तानि शुभानि च ॥ ५३ ॥
सारभुतानि पुण्यानि सर्वनामसु नारद ।
यः पठेत् संयुतः शुद्धो विष्णुभक्तो जितेन्द्रियः ॥ ५४ ॥
इहैव निश्चलां लक्ष्मीं लब्ध्वा याति हरेः पदम् ।
हरिभक्तिं हरेर्दास्यं लभते नात्र संशयः ॥ ५५ ॥
भक्तो लक्षजपेनैव स्तोत्रसिद्धो भवेद् ध्रुवम् ।
सिद्धस्तोत्रो यदि भवेत् सर्वसिद्धेश्वरो भवेत् ॥ ५६ ॥
वह्निस्तम्भं जलस्तम्भं मनस्तम्भं ह्रदस्तथा ।
मनोयायित्वमिष्टं च लभते नात्र संशयः ॥ ५७ ॥
स्तोत्रस्मरणमात्रेण जीवन्मुक्तो भवेन् नरः ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ५८ ॥
कोटिजन्मार्जितात् पापात् ब्रह्महत्याशताद् अपि ।
स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः ॥ ५९ ॥
मृतवत्सा काकबन्ध्या महाबन्ध्या प्रसूयते ।
शृणोति वर्षमेकं या शुद्धा स्विन्नन्नभोजिनी ॥ ६० ॥
शृणोति मासमेकं यः सर्वाभीष्टं लभेन् नरः ।
सामवेदकुमारं तमित्याह कमलोद्भवः ॥ ६१ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे
हरिभक्तिज्ञानकथने
राधाप्रश्नकथनं नाम
चतुर्थोऽध्यायः
॥ ४ ॥
(५)
द्वितीयरात्रे पञ्चमोऽध्यायः
अथ राधिकाकवचम्
श्रीनारद उवाच --
सर्वं श्रुतं जगन्नाथ यद् यन् मनसि वाञ्छितम् ।
अधुना श्रोतुमिच्छामि राधिकाकवचं परम् ॥ १ ॥
श्रीमहादेव उवाच --
क्षमस्व ब्रह्मनः पुत्र देवर्षे मुनिपुङ्गव ।
यन् निषिद्धं भगवता कृष्णेन परमात्मना ॥ २ ॥
कथं वक्ष्यामि हे वत्स सुगुप्तं कवचं मुने ।
कण्ठे दधार भगवान् भक्त्या रत्नपुटेन यत् ॥ ३ ॥
परमानन्दसन्दोहकवचं च सुदुर्लभम् ।
षडक्षरीं महाविद्यां नित्यभक्त्या जपेद् धरिः ॥ ४ ॥
नित्यं प्रपूजयेन् नित्यं नित्यः सत्यः परात् परः ।
सा पूजयेत् प्रभुं नित्यं जपेद् एकादशाक्षरम् ॥ ५ ॥
मह्यं च कवचं दत्वा निषिद्धं परमात्मना ।
इदमेवेति कवचं दत्तं तेनैव ब्रह्मणे ॥ ६ ॥
धर्माय ब्रह्मणा दत्तं तेन नारायणाय च ।
नारायणेन कण्ठस्थं सुभद्राय ददे पुरा ॥ ७ ॥
क्षमस्व कथितुं नालं क्षमस्व भगवन् मुने ।
गुरुणा च निषिद्धं च न वक्तव्यं कदाचन ॥ ८ ॥
श्रीनारद उवाच --
मां भक्तमनुरक्तं च नाथ मा कुरु वञ्चनाम् ।
त्वमेव कृष्णस्त्वं शम्भुर्द्वयोर्भेदो न साम्नि च ॥ ९ ॥
परतन्त्रो निषिद्धं च वाक्यं कथितुमक्षमः ।
शृणोति कस्य वा वाक्यं यः स्वतन्त्रः स्वयं प्रभुः ॥ १० ॥
यदि मां कवचं नाथ न वक्ष्यसि सुदुर्लभम् ।
देहं त्यक्त्वा ब्रह्महत्यां दास्यामि तुभ्यमीश्वर ॥ ११ ॥
सद्वंशजातः शिष्यश्च शुद्धः सुब्राह्मणः सुधीः ।
मन्यते कृष्णतुल्यं च गुरुं परमधार्मिकः ॥ १२ ॥
देवमन्यं कृष्णतुल्यं यो ब्रवीति नराधमः ।
ब्रह्महत्यां च लभते महामूर्खो न संशयः ॥ १३ ॥
परमात्मा स्वयं कृष्णो निर्गुणः प्रकृतेः परः ।
ततो देवास्तदंशाश्च सगुणाः प्राकृताः स्मृताः ॥ १४ ॥
सर्वे जन्याः कृत्रिमाश्च पुरा ब्रह्मादयः सुराः ।
सर्वेषां जनकः कृष्णः परमाद्यः परात् परः ॥ १५ ॥
शृणु वक्ष्यामि विप्रेन्द्र राधिकाकवचं शुभम् ।
परमानन्दसन्दोहाभिधमिष्टं सुदुर्लभम् ॥ १६ ॥
कृष्णेन दत्तं मह्यं च शतशृङ्गे च पर्वते ।
निरामये च गोलोके पुण्ये वृन्दावने वने ॥ १७ ॥
राधिकासद्विधाने च शोभने रासमण्डले ।
गोपगोपीकदम्बैश्च वेष्टिते समभीप्सिते ॥ १८ ॥
अहं तुभ्यं प्रदास्यामि प्रवक्तव्यं न कस्यचित् ।
यद् धृत्वा पठनाद् भक्तो जीवन्मुक्तो भवेद् ध्रुवम् ॥ १९ ॥
ब्रह्महत्यालक्षपापान् मुच्यते नात्र संशयः ।
कोटिजन्मात्जितात् पापाद् उपदेशात् प्रमुच्यते ॥ २० ॥
अश्वमेधसहस्रं च राजसूयशतं तथा ।
विप्रेन्द्र कवचस्यास्य कलां नार्हति षोडशीम् ॥ २१ ॥
शिष्याय विष्णुभक्ताय साधकाय प्रकाशयेत् ।
शठाय परिशिष्याय दत्वा मृत्युं लभेन् नरः ॥ २२ ॥
विप्रेन्द्र कवचस्यास्य र्षिर्नारायणः स्वयम् ।
कृष्णस्य भक्तिदास्ये च विनियोगः प्रकीर्तितः ॥ २३ ॥
सर्वाद्या मे शिरः पातु केशं केशवकामिनी ।
भालं भगवती पातु लीला लोचनयुग्मकम् ॥ २४ ॥
नासां नारायणी पातु सानन्दा चाधरौष्ठकम् ।
जिह्वां पातु जगन्माता दन्तं दामोदरप्रिया ॥ २५ ॥
कपोलयुग्मं कृष्णेशा कण्ठं कृष्णप्रियावतु ।
कर्णयुग्मं सदा पातु कालिन्दीकूलवासिनी ॥ २६ ॥
वसुन्धरेशा वक्षो मे परमा सा पयोधरम् ।
पद्मनाभप्रिया नाभिं जठरं जाह्नवीश्वरी ॥ २७ ॥
नित्या नितम्बयुग्मं मे कङ्कालं कृष्णसेविता ।
परात् परा पातु पृष्ठं सुश्रोणी श्रोणिकायुगम् ॥ २८ ॥
परमाद्या पानयुग्मं नखरांश्च नरोत्तमा ।
सर्वाङ्गं मे सदा पातु सर्वेशा सर्वमङ्गला ॥ २९ ॥
पातु रामेश्वरी राधा स्वप्ने जागरणे च माम् ।
जले स्थले चान्तरीक्षे सेविता जलशायिनी ॥ ३० ॥
प्राच्यां मे सततं पातु परिपूर्णतमप्रिया ।
वह्नीश्वरी वह्निकोणे दक्षिणे दुःखनाशिनी ॥ ३१ ॥
नैरृते सततं पातु नरकार्णवतारिणी ।
वारुणे वनमालीशा वायव्यां वायुपूजिता ॥ ३२ ॥
कौबेरे मां सदा पातु कूर्मेण परिषेविता ।
ऐशान्यामीश्वरी पातु शतशृङ्गनिवासिनी ॥ ३३ ॥
वने वनचरी पातु वृन्दावनविनोदिनी ।
सर्वत्र सन्ततं पातु सर्वेशा विरजेश्वरी ॥ ३४ ॥
प्रथमे पूजिता या च कृष्णेन परमात्मना ।
षडक्षर्या विद्यया च सा मां रक्षतु कातरम् ॥ ३५ ॥
द्वितीये पूजिता देवी शम्भुना रासमण्डले ।
नानासंभृतसंभारैर्माया प्रकृतिरीश्वरी ॥ ३६ ॥
सप्ताक्षर्या विद्यया च पूज्यया प्रनवाद्यया ।
तृतीये पूजिता देवी ब्रह्मना परमादरम् ॥ ३७ ॥
श्रीबीजयुक्तया भक्त्या चाष्टाक्षर्या च विद्यया ।
चतुर्थे पूजिता देवी शिषेण विघ्ननाशिनी ॥ ३८ ॥
तेनैव सेविता विद्या मायायुक्ता नवाक्षरी ।
विद्या सा चापि धर्मेण सेविता परमेश्वरी ॥ ३९ ॥
धर्मेण दत्ता सा विद्या पुत्र नारायणर्षये ।
नराय शुद्धभक्ताय सा च विद्या मनोहरा ॥ ४० ॥
नवाक्षरी महाविद्या कामदेवेन सेवीता ।
तदधीनं सर्वविश्वं पूज्यया विद्यया यया ॥ ४१ ॥
सम्प्राप दाहिकां शक्तिं वह्निश्च विद्यया यया ।
नवाक्षरी महाविद्या वायुना परिषेविता ॥ ४२ ॥
विश्वेषां प्राणरूपश्च पूज्यया विद्यया यया ।
सर्वाधारश्च पूज्यश्च बलवान् सर्वतोऽभवत् ॥ ४३ ॥
शेषाधारश्च कूर्मश्च पूज्यया विद्यया यया ।
विश्वाधारश्च शेषश्च तया च विद्यया यया ॥ ४४ ॥
धराधरा च सर्वेषां तया च विद्यया सदा ।
तयैव विद्यया शुद्धा रङ्गा भुवनपावनी ॥ ४५ ॥
तयैव तुलसी शुद्धा तीर्थपूता बभूव सा ।
तया स्वाहा वह्निजाया पितृणां कामिनी स्वधा ॥ ४६ ॥
लक्ष्मीर्माया कामवाणी सर्वाद्या प्रणवादिका ।
रामेश्वरी राधिका सा ङेन्ता वह्निप्रियान्तका ॥ ४७ ॥
तत्षोडशी महाविद्या परिपूर्णतमा श्रुतौ ।
कामधेनुस्वरूपा सा सर्वसिद्धिप्रदायिनी ॥ ४८ ॥
पुरा सनत्कुमारेण षोडशी परिसेविता ।
सनकेन सनन्देन तथा सनातनेन च ॥ ४९ ॥
शुक्रेण गुरुणा पूज्या सिद्धा व्यासेन सेविता ।
पपौ समुद्रं सोऽगस्त्यः पूज्यया विद्यया यया ॥ ५० ॥
रमेश्वरी ङेन्तहीना षोडश्या मुनिपङ्गव ।
दधीचिना सेविता सा विद्या च द्वादशाक्षरी ॥ ५१ ॥
तया तदस्थि चाव्यर्थमन्त्रमेव बभूव ह ।
चतुर्दशेन्द्रावच्छिन्नं मुनिरासीन् निरापदः ॥ ५२ ॥
स्वेच्छामृत्युर्मुनिश्चैव जितः कालोऽपि विद्यया ।
देवानां प्राथनेनैव तत्याज स कलेवरम् ॥ ५३ ॥
मत्तो मन्त्रं गृहीत्वा च जजाप पुष्करे मुनिः ।
शतवर्षं तपस्तप्ता ददर्श परमेश्वरीम् ॥ ५४ ॥
दत्वा सा स्वपदं तस्मै गोलोकं च जगाम सा ।
देहं त्यक्त्वा च स मुनिर्गोलोकं प्रययौ पुरा ॥ ५५ ॥
इत्येवं कथितं वत्स कवचं परमाद्भुतम् ।
परमानन्दसन्देहं वेदेषु च सुदुर्लभम् ॥ ५६ ॥
श्रीकृष्णेनैव कथितं मह्यं भक्ताय भक्तितः ।
मया तुभ्यं प्रदत्तं च प्रवक्तव्यं न कस्यचित् ॥ ५७ ॥
गुरुमभ्यर्च्य विधिना वस्त्रालंकारचन्दनैः ।
नमस्कृत्य परं भक्त्या कवचं धारयेत् सुधीः ॥ ५८ ॥
पठित्वा कवचं दिव्यं परमादरपूर्वकम् ।
गुरवे दक्षिणां दत्वा लभेत् तस्य शुभाशिषम् ॥ ५९ ॥
महामूढो नोपदिष्टः कवचं धारयेत् पठेत् ।
निष्फलं तद् भवेत् सर्वं शतलक्षं जपेद् यदि ॥ ६० ॥
उपदिष्टो यदि पठेत् धारयेत् कण्ठदेशतः ।
जले वह्नौ च शस्त्रास्ते मरणं नो भवेद् ध्रुवम् ॥ ६१ ॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन् नरः ।
अनेन कवचनेनैव शङ्खचूडः प्रतापवान् ॥ ६२ ॥
युयुधे स मया सार्धं वर्षं च नर्मदातटे ।
न विद्धो मम शूलेन दत्वा च कवचं मृतः ॥ ६३ ॥
सर्वाण्येव हि दानानि व्रतानि नियमानि च ।
तपांसि यज्ञाः पुण्यानि तीर्थान्यनशनानि च ॥ ६४ ॥
सर्वाणि कवचस्यास्य कलां नार्हन्ति षोडशीम् ।
इदं कवचमज्ञात्वा भजेद् यः परमेश्वरीम् ॥ ६५ ॥
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।
इत्येवं कथितं सर्वं राधिकाकवचं मुने ॥ ६६ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे
हरिभक्तिज्ञानकथने
कवचप्रकाशनं नाम
पञ्चमोऽध्यायः
॥ ५ ॥
(६)
द्वितीयरात्रे षष्टोऽ ध्यायः
अथ राधाप्रशंसा
श्रीमहादेव उवाच --
जगन्मातुरुपाख्यानं तुभ्यं च कथितं मया ।
सुदुर्लभं सुगुप्तं च वेदेषु च चतुर्षु च ॥ १ ॥
पुराणेष्वितिहासेषु पञ्चरात्रेषु पञ्चसु ।
अतीव पुण्यदं शुद्धं सर्वपापप्रणाशनम् ॥ २ ॥
संक्षेपेणैव कथितं राधाख्यानं मनोहरम् ।
कापिलेये पञ्चरात्रे विस्तीर्णमतिसुन्दरम् ॥ ३ ॥
नारायणेन कथितं मुनये कपिलाय च ।
सिद्धक्षेत्रे पुण्यतमे प्रत्यक्षं मम सन्निधौ ॥ ४ ॥
तत्रोक्तं हरिणा सार्धं सुश्राव कमलोद्भवः ।
शुश्रुवुर्मुनयः सर्वे चेदमेव परं वचः ॥ ५ ॥
आदौ समुच्चरेद् राधां पश्चात् कृष्णं च माधवम् ।
विपरीतं यदि पठेत् ब्रह्महत्यां लभेद् ध्रुवम् ॥ ६ ॥
श्रीकृष्णो जगतां तातो जगन्माता च राधिका ।
पितुः सद्गुणो माता वन्द्या पूज्या गरीयसी ॥ ७ ॥
दैवदोषेण महता ये च निन्दन्ति राधिकाम् ।
वामाचाराश्च मूर्खाश्च पापिनश्च हरिद्विषः ॥ ८ ॥
कुम्भीपाके तप्ततैले तिष्ठन्ति ब्रह्मणः शतम् ।
इहैव तद्वंशहीनः सर्वनाशाय कल्पते ॥ ९ ॥
भवेद् रोगी च पतितो विघ्नस्तस्य पदे पदे ।
हरिणोक्तं ब्रह्मक्षेत्रे मया च ब्रह्मणा श्रुतम् ॥ १० ॥
त्रैलोक्यपावनीं राधां सन्तोऽसेवन्त नित्यशः ।
यत् पादपद्मे भक्त्यार्घ्यं नित्यं कृष्णो ददाति च ॥ ११ ॥
यत् पादपद्मनखरे पुण्ये वृन्दावने वने ।
सुस्निग्धालक्तकरसं प्रेम्ना भक्त्या ददौ परा ॥ १२ ॥
राधाचर्वितताम्बूलं चखाद मधुसूदनः ।
द्वयोश्चैके न भेदश्च दुग्धघावल्ययोऽर्था ॥ १३ ॥
श्रीकृष्णोरसि या राधा यद् वामांशेन सम्भवा ।
महालक्ष्मीश्च वैकुण्ठे सा च नारायणोरसि ॥ १४ ॥
सरस्वती सा च देवी विदुषां जननी परा ।
क्षीरोदसिन्धुकन्या सा विष्णोरुरसि मायया ॥ १५ ॥
सावित्री ब्रह्मणो लोके ब्रह्मवक्षस्थलस्थिता ।
पुरा सुराणां तेजःसु साविर्भूत्वा दया हरेः ॥ १६ ॥
स्वयं मूर्तिमती भूत्वा जघान दैत्यसङ्घकान् ।
ददौ राज्यं महेन्द्राय कृत्वा निष्कण्टकं पदम् ॥ १७ ॥
कालेन सा भगवती विष्णुमाया सनातनी ।
बभूव दक्षकन्या च परं कृष्णाज्ञया मुने ॥ १८ ॥
त्यक्त्वा देहं पितुर्यज्ञे ममैव निन्दया मुने ।
पितृणां मानसी कन्या मेना कन्या बभूव सा ॥ १९ ॥
आविर्भूता पर्वते सा तेनेयं पार्वती सती ।
सर्वशक्तिस्वरूपा सा दुर्गा दुर्गतिनाशिनी ॥ २० ॥
बुद्धिस्वरूपा परमा कृष्णस्य परमात्मनः ।
सम्पद् रूपेन्द्रगेहे सा स्वर्गलक्ष्मीस्वरूपिणी ॥ २१ ॥
मर्त्ये लक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे ।
पृथक् पृथक् च सर्वत्र ग्रामेषु ग्रामदेवता ॥ २२ ॥
जले सत्यस्वरूपा सा गन्धरूपा च भूमिषु ।
शब्दरूपा च नभसि शोभारूपा निशाकरे ॥ २३ ॥
प्रभारूपा भास्करे सा नृपेन्द्रेषु स सर्वतः ।
बह्लौ सा दाहिका शक्तिः सर्वशक्तिश्च जन्तुषु ॥ २४ ॥
सृष्टिकाले च सा देवी मूलप्रकृतिरीश्वरी ।
माता भवेन् महाविष्णोः स एव महान् विराट् ॥ २५ ॥
यस्य लोमसु विश्वानि तेन वासुः प्रकीर्तितः ।
तस्य देवोऽपि श्रीकृष्णो वासुदेव इतीरितः ॥ २६ ॥
महतो वै सृष्टिविधौ चाहङ्ग्कार्यभवन् मुने ।
ततो हि रूपतन्मात्रं शब्दतन्मात्र इत्यतः ॥ २७ ॥
ततो हि स्पर्शतन्मात्रमेवं सृष्टिक्रमो मुने ।
सृष्टिबीजस्वरूपा सा नहि सृष्टिस्तया विना ॥ २८ ॥
विना मृदं घटं कर्तुं कुलालश्च न च क्षमः ।
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ॥ २९ ॥
एवं ते कथितं सर्वमाख्यानमतिदुर्लभम् ।
जन्ममृत्युजराव्याधिशोकदुःखहरं परम् ॥ ३० ॥
आराध्य सुचिरं कृष्णं यद् यत् कार्यं भवेन् नृणाम् ।
राधोपासनया तच्च भवेत् स्वल्पेन कालतः ॥ ३१ ॥
तस्यापि मायया सार्धं सर्वं विश्वं महामुने ।
विष्णुमाया भगवती कृपां यं यं करोति च ॥ ३२ ॥
स च प्राप्नोति कृष्णं च तद्भक्तिदास्यमीस्पितम् ।
इत्येवं कथितं सर्वं परं च सुखमोक्षदम् ।
नातिसारं च सुभदं किं भूयः श्रोतुमिच्छसि ॥ ३३ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे
शिवनारदसंवादे भक्तिज्ञानकथने
राधाप्रशंसा नाम
षष्ठोऽध्यायः
॥ ६ ॥
(७)
द्विटियरात्रे सप्तमोऽध्यायः
श्रीनारद उवाच --
भक्तिज्ञानं श्रुतं नाथ परमाद्भुतमीप्सितम् ।
मुक्तिज्ञानविधानं च विस्तीर्णं वक्तुमर्हसि ॥ १ ॥
श्रीमहादेव उवाच --
लीनता हरिपादाब्जे मुक्तिरत्यभिधीयते ।
इदमेव हि निर्वाणं वैष्णवानामसम्मतम् ॥ २ ॥
सालोक्यसार्ष्टिसामीप्यसारूप्यमित्यतः क्रमात् ।
भोगरीपं च सुखदमित् मुक्तिचतुष्टयम् ॥ ३ ॥
श्रीहरेर्भक्तिदास्यं च सर्वमुक्तेः परं मुने ।
वैष्णवानामभिमतं सारात् सारं परात् परम् ॥ ४ ॥
काश्यां च मरणं पुत्र परं निर्वाणाकारणम् ।
दक्षकर्णे मृत्युकाले मयोक्तं मन्त्रमेव च ॥ ५ ॥
निर्वाणमोक्षदं वत्स कर्ममूलनिकृन्तनम् ।
निर्वाणमोक्षमेवेदं मोक्षविद्भिः प्रकीर्तितम् ॥ ६ ॥
गङ्गायां च जले मुक्तिः क्षेत्रे नारायणे मुने ।
ज्ञानतश्चेत् त्यजेत् प्राणान् कृष्णस्मरणपूर्वकम् ।
जले स्थले चान्तरीक्षे गङ्गासागरसंगमे ॥ ७ ॥
श्रीनारद उवाच --
प्राणिनां येन मन्त्रेण मुक्तिर्भवति शाश्वती ।
वाराणस्यां त्वयोक्तं च तन् मां कथितुमर्हसि ॥ ८ ॥
अन्यथाहं कृपासिन्धो सद्यस्त्यक्ष्ये कलेवरम् ।
मां भक्तमनुरक्तं च नाथ मा कुरु वञ्चनाम् ॥ ९ ॥
श्रीमहादेव उवाच --
गुप्तं वेदपुराणेषु चेत् इतिहासेषु नारद ।
पञ्चरात्रेषु सर्वेषु कथं वक्ष्यामि मां वद ॥ १० ॥
अहं हत्याभयेनैव वक्ष्यामि गोपनं परम् ।
श्रूयतां दक्षकर्णे च न वक्तव्यं कदाचन ॥ ११ ॥
मन्त्रोऽयं मन्त्रसाराद् यः सर्वाद्यबीजमध्यमः ।
पञ्चवर्गाद्वितीयश्च वर्णश्च गुरुमान् भवेत् ॥ १२ ॥
पञ्चमे पन्ह्चमो वर्णो विष्णुमान् ङेन्त एव सः ।
जगत्पूतिप्रियान्तश्च मन्त्रः सप्ताक्षरो मुने ॥ १३ ॥
प्रयागे मुण्डनं चैव परं निर्वाणकारणम् ।
दोलायमानं गोविन्दं पुण्ये वृन्दावने वने ॥ १४ ॥
दृष्टिमात्रेण विप्रेन्द्र परं निर्वाणकारणम् ।
निर्वाणं दृष्टिमात्रेण मञ्चस्थं मधुसूदनम् ॥ १५ ॥
रथस्थं वामनं चैव निर्वाणं दृष्टिमात्रतः ।
कार्तिकीपूर्णिमायां व राधार्चादृष्टिपूजनम् ॥ १६ ॥
यत्र तत्र न नियमो परं निर्वाणकारणम् ।
परं शिवचतुर्दश्यां शिवं संस्थाप्य पूजनम् ॥ १७ ॥
तद्दिनेऽनशनं विप्र परं निर्वाणकारणम् ।
शुभाशुभं च यत् कर्म तत् तत् कर्मनिकृन्तनम् ॥ १८ ॥
स्मरणं श्रीहरेः पादपद्मं निर्वाणकारणम् ।
वैशाख्यां पुष्करस्नानं परं निर्वाणकारणम् ॥ १९ ॥
गङ्गासागरतोये च मृत्युर्निर्वाणकारणम् ।
कार्तिक्यां च शिलादानं पृथिवीविपुल.दानकम् ॥ २० ॥
कार्तिके तुलसीदानं परं निर्वाणकारणम् ।
ब्रह्मसंस्थापनं चैव परं निर्वाणकारणम् ॥ २१ ॥
कन्यादानं वैष्णवाय परं निर्वाणकारणम् ।
परं निर्वाणबीजं च वैष्णवोच्छिष्टभक्षणम् ॥ २२ ॥
विष्णुमन्त्रोपासकानां द्विजानां च द्विजर्षभ ।
तत्पादोदकभक्षं च परं निर्वाणकारणम् ॥ २३ ॥
स्वर्णशृङ्गनिबद्धानां गवां लक्षप्रदानकम् ।
पृथिवीदानं च विप्रेन्द्र परं निर्वाणकारणम् ॥ २४ ॥
परे नारायणक्षेत्रे लक्षनाम हरेर्जपेत् ।
नाशनं सर्वपापानां परं निर्वाणकारणम् ॥ २५ ॥
शिवलक्ष्यार्चनं भक्त्या क्षेत्रे नारायणे मुने ।
विधिवद्दक्षिणादानं परं निर्वाणकारणम् ॥ २६ ॥
परं राधेशयोर्मन्त्रग्रहणं वैष्णवाद् द्विजात् ।
शुद्धे नारायणक्षेत्रे परं निर्वाणकारणम् ॥ २७ ॥
ग्रन्थाष्टादशसाहस्रं द्वादशस्कन्धसम्मितम् ।
शुकप्रोक्तं भागवतं श्रुत्वा निर्वाणतां व्रजेत् ॥ २८ ॥
पुरा भगवता प्रोक्तं कृष्णेन ब्रह्मणे मुने ।
पुराणसारं शुद्धं तत् तेन भागवतं विदुः ॥ २९ ॥
ब्रह्मवैवर्तं श्रवणं परं निर्वाणकारणम् ।
यत्रैव विवृतं ब्रह्म शुद्धं निर्गुणमीस्पितम् ॥ ३० ॥
ब्रह्मप्रकृतिगणेशकृष्णाविर्भाववर्णनम् ।
चतुःखण्डपरिमितं ब्रह्मवैवर्तमीस्पितम् ॥ ३१ ॥
पराशरकृतं पुण्यं धन्यं विष्णुपुराणकम् ।
भक्त्या तच्छ्रवणं वत्स परं निर्वाणकारणम् ॥ ३२ ॥
यत्र तत्र दिने वत्स हरेर्नामानुकीर्तनम् ।
परं निर्वाणबीजं च श्रीकृष्णव्रतपूजनम् ॥ ३३ ॥
यद् यत् कृतं सतां कर्म कृष्णे भक्त्या तदर्पणम् ।
कर्मनिर्मूलनं तच्च स्मरणं मुक्तिकारणम् ॥ ३४ ॥
यद् एकशब्दश्रवणं पञ्चरात्रेषु पञ्चसु ।
उपदिष्टं ब्राह्मणाच्च परं निर्वाणकारणम् ॥ ३५ ॥
पतिव्रतानां भक्त्या च भर्तुश्चरणसेवनम् ।
द्विजार्चनं च शूद्राणां परं निर्वाणकारणम् ॥ ३६ ॥
चतुर्वर्णामपि वर्णानां गुरुकृष्णार्चनं परम् ।
द्विजानां वैष्णवानां च सेवनं मुक्तिकारणम् ॥ ३७ ॥
आषाढीकार्तिकीमाघीवैशाखीपूर्णिमासु च ।
तीर्थस्नानं प्रदानं च परं निर्वाणकारणम् ॥ ३८ ॥
पितृमातृगुरूणां च सेवनं मुक्तिकारणम् ।
निग्रहश्च हृषीकाणां केवलं मुक्तिकारणम् ॥ ३९ ॥
स्वधर्माचरणं शुद्धं विधर्माच्च निवर्तनम् ।
वेदोक्ताचरणं विप्र परं निर्वाणकारणम् ॥ ४० ॥
दानं हिंसाविहीनं च कृतं चानशनं मुने ।
निर्लिप्तं शोभनं कर्म परं निर्वाणकारणम् ॥ ४१ ॥
देवानां सात्त्विकी पूजा शुभदा मुक्तिदा मुने ।
अहिंसा परमो धर्मः परं निर्वाणकारणम् ॥ ४२ ॥
सत्यत्रेताद्वापरेषु संन्यासग्रहणं सताम् ।
दण्डग्रहणमात्रेण परं निर्वाणकारणम् ॥ ४३ ॥
कलौ दण्डग्रहणेनैव परं निर्वाणकारणम् ।
परं वेदविरुद्धं च विपरीताय कल्पते ॥ ४४ ॥
पुत्रबन्धुविहीनानां पालनं च स्वयोषिताम् ।
परस्त्रीवर्जनं चैव परं निर्वाणकारणम् ॥ ४५ ॥
तत्पालने लभेन् मोक्षं ब्रह्महत्यां च वर्जनम् ।
अनाथभगिनीकन्यावधूनां परिपालनम् ॥ ४६ ॥
केवलं मोक्षबीजं च तत् त्यागे नरकं ध्रुवम् ।
शिशूनामपि पुत्राणां भ्रातृणां च तथैव च ॥ ४७ ॥
परित्यागे च नरकं पालनं मोक्षकारणम् ।
मन्त्रं कन्याप्रदानं च सुविप्रे मोक्षकारणम् ॥ ४८ ॥
जीवाभयप्रदानं च शरणागतरक्षणम् ।
आज्ञानाय ज्ञानदानं परं निर्वाणकारणम् ॥ ४९ ॥
मुक्तिज्ञानं च कथितं संक्षेपेण यथागमम् ।
कापिले पञ्चरात्रेषु कृष्णेनोक्तं सुविस्तरम् ॥ ५० ॥
अध्यात्मिकं च कथितं प्रथमं ज्ञानमीप्सितम् ।
भक्तिज्ञानं द्वितीयं च कृष्णस्य परमात्मनः ॥ ५१ ॥
मुक्तिज्ञानं तृतीयं च कथितं तद् यथाक्रमम् ।
ज्ञानद्वयं चावशिष्टं यौगिकं मायिकं मुने ॥ ५२ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे
शिवनारदसंवादे मुक्तिज्ञानकथने
सप्तमोऽध्यायः
॥ ७ ॥
(८)
द्वितीयरात्रेऽष्टमोऽध्यायः
अथ योगज्ञानकथनम्
श्रीमहादेव उवाच --
योगज्ञानं च दुर्बोधमसतां विषमं परम् ।
श्रूयतामिदमेवेति वक्ष्यामि च यथागमम् ॥ १ ॥
अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथा कामावसायिता ॥ २ ॥
दूरश्रवणमिष्टार्थसाधनं सृष्टिपत्तनम् ।
मनोयायित्वमेवेदं परकायप्रवेशनम् ॥ ३ ॥
प्राणिनां प्राणदानं च तेषां प्राणापहारकम् ।
कायव्यूहं च वाक्सिद्धं सिद्धं सप्तदश स्मृतम् ॥ ४ ॥
कृष्णभक्तिव्यवहितं भक्तानां नाभिवाञ्छितम् ।
कृष्णवेतनभुग् भोक्तुं करोति दासनां मुने ॥ ५ ॥
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धमपि चाज्ञाख्यं षट्चक्रं परिकीर्तितम् ॥ ६ ॥
शक्तिकुण्डलिनीयुक्तं स्वे स्वे स्थाने स्थितं मुने ।
योगोपयुक्तं नियतं योगविद्भिः प्रकीर्तितम् ॥ ७ ॥
मेध्या सा मनसा युक्ता सुनिद्राजननी नृणाम् ।
इडा सा मनसा युक्ता प्राणिनां क्षुद्विवर्धिनी ॥ ८ ॥
पिङ्गला मनसा युक्ता तृष्णा माता च प्राणिनाम् ।
सुषुम्ना मनसा युक्ता निद्राभङ्गाय कल्पते ॥ ९ ॥
चञ्चला मनसा युक्ता सम्भोगेच्छाविवर्धिनी ।
सुस्थिरा मनसा युक्ता नृणामेव विचेतनी ॥ १० ॥
मनश्च नाडीषट्केषु क्रमेणैव भ्रमेद् अहो ।
अत्र नास्ति यथासंख्यं स्वेच्छाधीनं च चञ्चलम् ॥ ११ ॥
योनिशिशनोपरिस्थानं मूलाधारस्य नारद ।
स्वाधिष्ठानं नाभिदेशे मणिपूरं च वक्षसि ॥ १२ ॥
अनाहतं तदूर्ध्वं च विशुद्धं कण्ठदेशतः ।
आज्ञाख्यं चक्षुषोर्मध्ये चक्रस्थानं प्रकीर्तितम् ॥ १३ ॥
मूलाधारौकसीडा सा स्वाधिष्ठाने च पिङ्गला ।
सुषुम्ना मणिपूरे सा सुस्थिरा साप्यनाहते ॥ १४ ॥
चञ्चला सा विशुद्धे च मेध्याख्या परिकीर्तिता ।
नाडीस्थानं स कथितं योगविद्भिः प्रकीर्तितम् ॥ १५ ॥
नाडीयुक्तेषु चक्रेषु शश्वद् वायुश्चरेद् अहो ।
बद्धो भवति स्वाज्ञाख्ये ततो मृत्युश्च प्राणिनाम् ॥ १६ ॥
योगी च बद्धनिश्वासो वायुधारणया मुने ।
तस्य मृत्युश्च न भवेत् साध्यवायुर्महान् वशी ॥ १७ ॥
वह्निस्तम्भं जलस्तम्भं मृदां च मनसस्तथा ।
वायुतम्भं बहुविधं योगी जानाति नारद ॥ १८ ॥
सहस्रदलपद्मं च सर्वेषां मस्तके मुने ।
तत्रैव तिष्ठति गुरुः सूक्ष्मरूपेण संततम् ॥ १९ ॥
तद्गुरोः प्रतिबिम्बश्च सर्वत्र नररूपकः ।
गुरुरूपो स्वयं कृष्णः शिष्याणां हितकाम्यया ॥ २० ॥
गुरौ तुष्टे हरिस्तुष्टो हरौ तुष्टे जगत्त्रयम् ।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ॥ २१ ॥
गुरुदेवः परं ब्रह्म गुरुः पूज्यः परात् परः ।
हरौ रुष्टे गुरौ तुष्टे गुरु रक्षितुमीश्वरः ॥ २२ ॥
सर्वे तुष्टा गुरौ रुष्टे न कोऽपि रक्षितुम् क्षमः ।
गुरुश्च ज्ञानाद्गिरणाज्ज्ञानं तन्मन्त्रतन्त्रयोः ॥ २३ ॥
तत्तन्त्रः स च मन्त्रः स्यात् कृष्णभक्तिर्यतो भवेत् ।
स एव बन्धुः स पिता सा मैत्री जननी च सा ॥ २४ ॥
स च भ्राता पतिः पुत्रो यः कृष्णवर्त्म दर्शयेत् ।
जलबुद्बुदवत् सर्वं विश्वं च चराचरम् ॥ २५ ॥
भज राधेश्वरं विप्र श्रीकृष्णं प्रकृतेः परम् ।
स गुरुः परमो वैरी भ्रष्टं वर्त्म प्रदर्शयेत् ॥ २६ ॥
तज्जन्मनाशं कुरुते शिष्यहत्यां भवेद् ध्रुवम् ।
सहस्रदलपद्मे च हृदयस्थो हरिः स्वयम् ॥ २७ ॥
सर्वेषां प्राणिनां विप्र परमात्मा निरञ्जनः ।
इति ते कथितं सर्वं योगज्ञानं चतुर्थकम् ।
यथागमं च संक्षेपं किं भूयः श्रोतुमिच्छसि ॥ २८ ॥
नारद उवाच --
भक्तिज्ञानं च भक्तानां योगज्ञानं च योगिनाम् ।
केषां वर्त्म प्रशस्तं च तन् मां कथितुमर्हसि ॥ २९ ॥
श्रीमहादेव उवाच --
ध्यायन्ते योगिनः सर्वे ज्योतिरूपं सनातनम् ।
निर्गुणस्य शरीरं च न मन्यन्ते च योगिनः ॥ ३० ॥
शरीरं प्रकृतं सर्वं निर्गुणः प्रकृतेः परः ।
गुणेन सज्जते देहो निर्गुणस्य कुतो भवेत् ॥ ३१ ॥
इति सर्वं योगशास्त्रं योगविद्भिः प्रकीर्तितम् ।
वैष्णवास्तं न मन्यन्ते कुमाराद्या वयं द्विज ॥ ३२ ॥
वदन्ति वैष्णवाः सर्वे तेजस्तेजस्विनां वरम् ।
क्व सम्भवेद् वा क्व भवेद् इति दुर्नयमेव च ॥ ३३ ॥
कृष्णो नित्यः शरीरी च तस्य तेजो हि वर्तते ।
तेजोऽभ्यन्तर एवाह कृष्णमूर्तिः सनातनः ॥ ३४ ॥
ध्यायन्ते योगिनः सर्वे तत्तेजो भक्तिपूर्वकम् ।
सुपक्वभक्त्या कालेन योगी च वैष्णवो भवेत् ॥ ३५ ॥
तेजोऽभ्यन्तररूपं च ध्यायन्ते वैष्णवाः सदा ।
दासानां च कुतो दास्यं विना देहेन नारद ॥ ३६ ॥
वैष्णवानां मतं शस्तं सर्वेभ्योऽपि च नारद ।
न वैष्णवात् परो ज्ञानी ब्रह्माण्डेषु च ब्रह्मणः ॥ ३७ ॥
इति ते कथितं वत्स संक्षेपेण यथागमम् ।
को वा जानाति कार्त्स्न्येन कृष्णमाहात्म्यमीप्सितम् ॥ ३८ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे
शिवनारदसंवादे योगज्ञानकथने
अष्टमोऽध्यायः
॥ ८ ॥
इति द्वितीयरात्रं सम्पूर्णम्
नारदपञ्चरात्रे तृतीयरात्रम्
(३.१)
प्रथमोऽध्यायः
श्रीशिव उवाच --
शृणु नारद वक्ष्यामि मन्त्रयन्त्रक्रियादिकान् ।
पुरा व्यासेन ये प्रोक्ताः शुकं प्रति महामते ॥ १ ॥
प्रातःकृत्यविधिर्योऽत्र तथा स्नानविधिर्मुने ।
तथा पूजादिकं सर्वं मन्त्राक्षरसमुद्भवम् ॥ २ ॥
मन्त्रार्थश्च यथा येन ज्ञायते पुरुषेण हि ।
पुरा कैलासशिखरे सुखसेव्ये निरन्तरम् ॥ ३ ॥
पार्वती मां पुरा भक्त्या परिपप्रच्छ यत् शिवम् ।
तत् तत् शृणु महाबाहो ममैकाग्रमना मुने ॥ ४ ॥
पार्वत्युवाच --
देवदेव महादेव संसारार्णवतारक ।
वक्तुमर्हसि देवेश मन्त्रतन्त्रविधिं गुरो ॥ ५ ॥
श्रीराधायाश्च कृष्णस्य तथा पूजाविधिं मम ।
मन्त्रार्थं च तथा योगान् नाम्नामष्टोत्तरं शतम् ॥ ६ ॥
सहस्रं च तथा नाम्नां प्रब्रूहि मम साम्प्रतम् ।
यद्यस्ति मयि कारुण्यं यद्यस्ति मयि दोहदम् ॥ ७ ॥
तदा प्रब्रूहि राधाया नाम्नामष्टोत्तरं शतम् ।
सहस्रं च तथा देव मन्त्रयन्त्रविधिं मम ॥ ८ ॥
श्रीमहादेव उवाच --
शृणु देवि प्रवक्ष्यामि मन्त्रयन्त्रविधिं प्रिये ।
शुकं प्रति पुरा प्रोक्तं वेदव्यासेन धीमता ॥ ९ ॥
तत् तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ।
यावतो मन्त्रवर्णास्तु श्रीकृष्णस्य परात्मनः ॥ १० ॥
श्रीव्यास उवाच --
कलात्तमायालवकात्तमूर्तिः
कलक्वणद्वेणुनिनादरम्यः ।
श्रितो हृदि व्याकुलयंस्त्रिलोकीं
श्रियेऽस्तु गोपीजनवल्लभो वः ॥ ११ ॥
गुरुचरणसरोरुहद्वयोत्थान्
महितरजःकणकान् प्रणम्य मूर्ध्ना ।
गदितमिह विविच्य नारदाद्यैर्
यजनविधिं कथयामि शार्ङ्गपाणेः ॥ १२ ॥
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वयजन्मभेषु
दाता फलानामभिवाञ्छितानां
द्राग् एव गोपालकमन्त्र एषः ॥ १३ ॥
शृणु वत्स प्रवक्ष्यामि पूजनं शार्ङ्गधन्वनः ।
यन् नारदाय कथितं ब्रह्मणा पद्मयोनिना ॥ १४ ॥
प्रातःकृत्यादिकं वक्ष्ये तथा पूजाविधिं सुत ।
जगत्कल्पतरोर्वत्स शृणुष्व गदतो मम ॥ १५ ॥
नूनमच्युतकटाक्षपातेन
कारणं भवति भक्तिरञ्जसा ।
तच्चतुष्टयफलाप्तये ततो
भक्तिमान् अधिकृतो हरौ गुरौ ॥ १६ ॥
स्नातो निर्मलशुद्धसूक्स्मवसनो धौताङ्घ्रिपाण्याननः
स्वाचान्तः सपवित्रमुद्रितकरः श्वेतोर्ध्वपुण्ड्रोज्ज्वलः ।
प्राचीदिग्वदनो निबद्ध्यसुदृढं पद्मासनं स्वस्तिकं
वासीनः स्वगुरून् गणाधिपमथो वन्देत बद्धाञ्जलिः ॥ १७ ॥
ततोऽस्त्रमन्त्रेण विशोध्य पाणी
त्रितालदिग्बन्धहुताशशालान् ।
विधाय भूतात्मकमेतदङ्गं
विशोधयेच्छुद्धमतिः क्रमेण ॥ १८ ॥
इडावक्त्रे धूम्रं सततगतिबीजं सलवकं
स्मरेत् पूर्वं मन्त्रो सकलभुवनोच्छोषणकरम् ।
स्वकं देहं तेन प्रततवपुषापूर्यसकलं
विशोष्य व्यामुञ्चेत् पवनमथ मार्गणखमणेः ॥ १९ ॥
तेनैव मार्गेण विलीनमारुतं
बीजं विचिन्त्यारुणमाशुशुक्षणे ।
आपूर्यं देहं परिदह्य वामती
मुञ्चेत् समीरं सह भस्मना बहिः ॥ २० ॥
टपरमतीव शुद्धममृतांशुपथेन विधुं
नयतु ललाटचन्द्रममुतः सकलार्णमयीम् ।
लपरजपान् निपात्य रचयेच्च तया सकलं
वपुरमृतौघवृष्टिमथ वक्त्रकराङ्गमिदम् ॥ २१ ॥
शिरोवदनवृत्तदृक्ष्रवणघोणगण्डोष्ठदद्
द्वये च सशिरोमुखेऽच इति च क्रमाद् विन्यसेत् ।
हलश्च करपादसन्धिषु तदग्रकेष्वादरात्
सपार्श्वयुगपृष्ठनाभ्युदरकेषु याद्यान् अथ ॥ २२ ॥
हृदयकक्षककुत्करमूलदोः
पदयुगोदरवक्त्रगतान् बुधः ।
हृदयपूर्वमनेन पथान्वहं
न्यसतु शुद्धकलेवरसिद्धये ॥ २३ ॥
इत्यारचय्य वपुरर्णशतार्धकेन
सार्धक्षपेशसविसर्गकसोभयैस्तैः ।
विन्यस्य केशवपुरःसरमूर्तियुक्तैः
कीर्त्यादिशक्तिसहितैर्न्यसतु क्रमेण ॥ २४ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे प्रातःकृत्ये
प्रथमोऽध्यायः
॥ ३.१ ॥
(३.२)
तृतीयरात्रे द्वितीयोऽध्यायः
अथ प्रातःकृत्यम्
व्यास उवाच --
अथ कथयाम्यर्णानां मूर्तीः
शक्तीः समस्तभुवनमयीः ।
केशवकीर्ती नारायणकान्ती
माधवस्तथा तुष्टिः ॥ १ ॥
गोविन्दः पुष्टियुतो विष्णुधृती सूदनश्च मध्वाद्यः ।
शान्तिस्त्रिविक्रमश्च क्रियायुतो वामनो दयायुक्तः ॥ २ ॥
श्रीधरयुता च मेधा हृषीकनाथश्च हर्षया युक्तम् ।
अम्बुजनाभश्रद्धे दामोदरसंयुता तथा लज्जा ॥ ३ ॥
लक्ष्मीः सवासुदेवा सङ्कर्षणकः सरस्वतीयुक्तः ।
प्राद्यो द्युम्नः प्रीतिसमेतोऽनिरुद्धको रतिरिमाः स्वरोपेताः ॥ ४ ॥
चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस्तथा खड्गी ।
सत्या शङ्खीचण्डा हलिवाण्यौ मुसलियुग्बलासिन्किआ ॥ ५ ॥
शूली विजया पाशी विरजा विश्वान्वितोऽम्बुशीर्भूयः ।
विमदा मुकुन्दयुक्ता नन्दजसुनन्दजे स्मृतिश्च नन्दियुता ॥ ६ ॥
नरऋद्धी नरकजिता समृद्धिरथ शुद्धियुग् घरिः कृष्णः ।
बुद्धियुतः सत्ययुतभक्तिर्मतियुक्तः स्यात् ततः शौरिः ॥ ७ ॥
क्षमया शूरो रमया जनार्दनो मेचभूधरः क्लेदी ।
विश्वाद्यमूर्तियुक्ता क्लिन्ना वैकुण्ठयुक् तथा वसुदा ॥ ८ ॥
पुरुषोत्तमश्च वसुधा बलिना च वरा बलानुजोपेता ।
भूयः परायणाख्या बालः सूक्ष्मा वृषघ्नसन्ध्ये च ॥ ९ ॥
सवृषा प्रज्ञा हंसः प्रभा वराहो निशा च विमलोऽमोघा ।
नरसिंहविद्युते च प्रणिगदिता मूर्तयो हलां शक्तियुताः ॥ १० ॥
वर्णान् उक्त्वा सार्धचन्द्रान् पुरस्तान्
मूर्तीः शक्तीर्ङेऽवसाना नतिं च ।
उक्त्वा न्यस्येत् यादिभि सप्तधातून्
प्राणं जीवं क्रोधमप्यात्मनेऽन्तान् ॥ ११ ॥
उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातं
पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् ।
नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं
विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम् ॥ १२ ॥
ध्यात्वैवं परमपुमांसमक्षरैर्यो
विन्यस्योद्दिनमनु केशवादियुक्तैः ।
मेधायुःस्मृतिधृतिकीरित्कान्तिलक्ष्मी
सौभाग्यैश्चिरमुपबृंहितो भवेत् सः ॥ १३ ॥
अमुमेव रमापुरःसरं
प्रभजेद् यो मनुजो विधिं बुधः ।
समुपेत्य रमां प्रथीयसीं
पुनरन्ते हरितां व्रजत्यसौ ॥ १४ ॥
इत्यच्युतीकृततनुर्विदधीत तत्त्व
न्यासं मपूर्वकपराक्षरनत्युपेतम् ।
भूयः पराय च तदाह्वयमात्मने च
नत्यन्त्यमुद्धरतु तत्त्वमनून् क्रमेण ॥ १५ ॥
सकलवपुषि बीजं प्राणमायोज्य मध्ये
न्यसतु मतिमहङ्कारं मनश्चेति मन्त्री ।
कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपूर्वं
गुणगणमथ कर्तादिस्थितं श्रोत्रपूर्वम् ॥ १६ ॥
वागादीन्द्रियवर्गमात्मनिलयेष्वाकाशपूर्वं गणं
मूर्ध्यास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि ।
बिम्बानि द्विषडष्टयुग्दशकलाव्याप्तानि सूर्योडुराड्
वह्नीनां च यतस्तु भूतवसुमुष्यन्त्याक्षरैर्मन्त्रवित् ॥ १७ ॥
अथ परमेष्ठिपुमांसौ विश्वनिवृत्ती सर्वहत्युपनिषदं
न्यसेद् आकाशादिस्थानस्थानषोयबलवार्थिः सलावः ॥ १८ ॥
वासुदेवः सङ्कर्षणः प्रद्युम्नाश्चानिरुद्धकः
नारायणश्च क्रमशह् परमेष्ठ्यादिभिर्युतः ॥ १९ ॥
ततः कोपतत्त्वं क्षरौ विन्दुयुक्तं
नृसिंहं न्यसेत् सर्वगात्रेषु तज्ज्ञः ।
क्रमेणेति तत्त्वात्मको न्यास उक्तः
स्वासान् निकृद्विश्वमूर्त्यादिषु स्यात् ॥ २० ॥
इति कृतोऽधिकृतो भवति ध्रुवं
सकलवैष्णवमन्त्रजपादिषु ।
पवनसंयवलतत्त्वमनुना चरेत्
तत्त्वमिह जप्तुमसौ मनुच्छति ॥ २१ ॥
अथवाखिलेषु हरिमन्त्र
जपविधिषु मूलमन्त्रतः ।
संयमनममलधीर्मरुतो
विधिनाभ्यसंश्चरतु तत्त्वसङ्ख्यया ॥ २२ ॥
पुरतो जपस्य परतोऽपि
विहितमथ तत्त्रयं बुधैः ।
षोडश य इह समाचरेद् दिनेशः
परिपूयते स खलु मासतोऽं हंसः ॥ २३ ॥
अयवाङ्गजन्मममुनानुसुसंयमं
सकलेषु कृष्णमनुजापकर्मसु ।
सहितैकसप्तकृतिवारमभ्यसेत्
तनुयात् समस्तदुरितापहारिणा ॥ २४ ॥
अष्टाविंशतिसङ्ख्यमिष्टफलदं मन्त्रं दशार्णं जपन्
नायच्छेत् पवनं सुसंयतमतिस्त्वष्टौ दशार्णेन चेत् ।
अभ्यस्यन्न् अविवारमन्यमनुभिर्वर्णानुरूपं जपन्
कुर्याद् रेचकपूर्वकमनिपुणः प्राणप्रयोगं नरः ॥ २४ ॥
रेचयेन् मारुतं दक्षया दक्षिणः
पूरयेद् वामया मध्यनाड्या पुनः ।
धारयेद् ईरितं रेचकादित्रयं स्यात्
कलादन्तविद्याख्यमात्रात्मकम् ॥ २५ ॥
प्राणायामं विधायेत्यथ निजवपुषा कल्पयेद् योगपीठम् ।
न्यस्येद् आधारशक्तिप्रकृतिकमठक्षमाक्षीरसिन्धून् ।
श्वेतद्वीपं च रत्नोज्ज्वलमहितमहामण्डपं कल्पवृक्षम् ।
हृद्देशेऽंशद्वयोरूद्वयवदनकटीपार्श्वयुग्मेषु भूयः ॥ २६ ॥
धर्माद्यधर्मादि च पादगात्र
चतुष्टयं हृद्यथ शेषमन्त्रम् ।
सूर्येन्दुवह्नीन् प्रणवआंशयुक्तान्
स्वाद्यक्षरैः सत्त्वरजस्तमांसि ॥ २७ ॥
प्राणायामं विधायेत्यथ निजवपुषा कल्पयेद् योगपीठम् ।
न्यस्येद् आधारशक्तिप्रकृतिकमठक्षमाक्षीरसिन्धून् ।
श्वेतद्वीपं च रत्नोज्ज्वलमहितमहामण्डपं कल्पवृक्षम् ।
हृद्देशेऽंशद्वयोरूद्वयवदनकटीपार्श्वयुग्मेषु भूयः ॥ २८ ॥
धर्माद्यधर्मादि च पादगात्र
चतुष्टयं हृद्यथ शेषमन्त्रम् ।
सूर्येन्दुवह्नीन् प्रणवआंशयुक्तान्
स्वाद्यक्षरैः सत्त्वरजस्तमांसि ॥ २९ ॥
आत्मादित्रयमात्मबीजसहितं व्योमाग्निमायालवैर्
ज्ञानात्मानमथाष्टदिक्षु परितो मध्ये च शक्तीर्नव ।
न्यस्त्वा पीठमनुं च तत्र विधिवत् तत्कर्णिकामध्यगं
नित्यानन्दचितिप्रकाशममृतं संचिन्तयेन् नाम तत् ॥ ३० ॥
विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानाऽनुग्रा नवमी तथा ॥ ३१ ॥
तारं हृदयं भगवान् विष्णुः सर्वान्वितश्च भूतात्मा
ङेऽन्ताः सवासुदेवाः सर्वत्मयुतश्च संयोगः ॥ ३२ ॥
योगावधौ च पद्मं पीठात्मा ङेयुतो नतिश्चान्ते ।
पीठमहामनुरक्तः पर्याप्तोऽयं सपर्यासु ॥ ३३ ॥
करयोर्युगलं विधाय मन्त्रात्मकम्
अभ्यान अभिराम्यमानमार्गात् ।
सकलं विदधीत मन्त्रवर्णैः
परमं ज्योतिरनुत्तमं हरेस्तत् ॥ ३४ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे प्रातःकृत्ये
द्वितीयोऽध्यायः
॥ ३.२ ॥
(३.३)
तृतीयरात्रे द्वितीयोऽध्यायः
व्यास उवाच --
अथ वक्ष्ये महामन्त्रं शृणुष्वावहितो मुने ।
यं लब्ध्वा न पुनर्गच्छेत् संसृतिं पामरोऽपि हि ॥ १ ॥
वक्ष्ये मनुं त्रिभुवनप्रथितात्मभावम्
अक्षीणपुण्यनिचयैर्मुनिभिर्विमृग्यम् ।
पक्षीन्द्रकेतुविषयं वसुधर्मकाम
मोक्षप्रदं सकलकर्मणि कर्मदक्षम् ॥ २ ॥
अतिगुह्यमबोधतूलराशि
ज्वलनं वागाधिपत्यदं नराणाम् ।
दुरितापहरं विषापमृत्यु
ग्रहरोगादिनिवारणैकहेतुम् ॥ ३ ॥
जयदं प्रधनेऽभयदं विपिने
सलिलप्लवने सुखतारणदम् ।
नरसप्तिरथद्विपवृद्धिकरं
सुतगोधरणीधनधान्यकरम् ॥ ४ ॥
बलवीर्यशौर्यनिचयप्रतिभा
स्वरवर्णकान्तिसुभगत्वकरम् ।
ब्रह्माण्डकोटिमणिमादिगुणा
ष्टकदं किमत्र बहुनाखिलदम् ॥ ५ ॥
शार्ङ्गी सोऽतुरदन्तः परो रामाक्षियुक् द्वितीयार्णम् ।
शूली सौरिर्बालो बलानुजद्वयमथाक्षरचतुष्टयम् ॥ ६ ॥
शूरतुरीयः सानन आवृत्तः स्यात् सुशोभोऽष्तमोऽग्निसखः ।
तद्दयिताक्षरयुग्मं तदुपरिगस्त्वेवमुद्धरेन् मन्त्रम् ॥ ७ ॥
प्रकाशितो दशाक्षरो मनुस्त्वयं मधुद्विषः ।
विशेषतः पदारविन्दयुग्मं भक्तिवर्धनः ॥ ८ ॥
नारदो मुनिरमुष्य कीर्तितश्
छन्द उक्तम् ऋषिभिर्विराड् इति ।
देवतासकललोकमङ्गलो
नन्दगोपतनयः समीरितह् ॥ ९ ॥
अङ्गानि पञ्च हुतभुग् दयितासमेतैश्
चक्रैरमुष्य मुखवृत्तविषूपपन्नैः ।
त्रैलोक्यरक्षणयुजाप्यसुरान्तकाख्य
पूर्वेण चेह कथितानि विभक्तियुक्तैः ॥ १० ॥
हृदये नतिः शिरसि पावकप्रिया
सवषट्शिखाहुमिति वर्मणि स्थितम् ।
सफडस्त्रमित्युदितमङ्गपञ्चकं
सचतुर्थिवौषडुदितं दृशोर्यदि ॥ ११ ॥
मन्त्रार्णैर्दशभिरुपेतचन्द्रखण्डैर्
अङ्गानां दशकमुदीरितं नमोऽन्तम् ।
हृद्छीर्षं तदनु शिखातनुत्रमन्त्रं
पार्श्वद्वन्द्वसकटिपृष्ठम्मूर्धयुक्तम् ॥ १२ ॥
रक्षे मन्त्रस्यास्य बीजं च शक्ति
चक्री शक्री वामनेत्रदीप्तः ।
सप्रद्युम्नो बीजमेतत्प्रदीप्तं
मन्त्रः प्रद्युम्नो जगन्मोहनोऽयम् ॥ १३ ॥
हंसो मेदो वक्रवृत्ताभ्युपेतः
पोत्री नेत्राद्यन्वितोऽसौ युगार्णा ।
प्रोक्ता शक्तिः सर्वगीर्वाणवृन्दैर्
वन्दस्याग्नेर्वल्लभा कामदेयम् ॥ १४ ॥
विन्योगस्य मन्त्रस्य पुरुषार्थचतुष्टये ।
कृष्णं प्रकृतिरित्युक्तो दुर्गाधिष्ठातृदेवता ॥ १५ ॥
गोपायेति सकलमिदं गोपायति परं पुमांसमिति गोपी ।
प्रकृतेस्तस्या जातं जन इति नदादिकं पृथिव्यन्तम् ॥ १६ ॥
अनयोर्गोपीजनयोः समीरणाद् आश्रितो व्याप्त्या ।
वल्लभ इत्युपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः ॥ १७ ॥
स्वाहेत्यात्मानं गमयामीत्यतेजसे तस्मै ।
यः कार्यकारणेशः परमात्मेत्यच्युतैकतास्य मनोः ॥ १८ ॥
अथवा गोपीजन इति समस्तजगद्वनशक्तिसमुदायः ।
तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः ॥ १९ ॥
अथवा व्रजयुवतीनां दयिताय जुहोमि मां मदीयम्
अपीत्यर्पयेत् समस्तं ब्रह्मणि सुगणे समस्तसम्पत्त्यै ॥ २० ॥
कृष्शब्दः सत्तार्थो
णश्चानन्दात्मकस्ततः कृष्णः ।
भक्ताघकर्षणाद् अपि
तद्वर्णत्वाच्च मन्त्रमयवपुषः ॥ २१।
गोशब्दवाचकत्वाज्ज्ञानं
तेनोपलभ्यते गोविन्दः ।
वेत्तीति शब्दराशिं गोविन्दो
गोविचारनाद् अपि च ॥ २२ ॥
एतेऽभिख्येऽनुक्रमतस्तूर्यविभक्त्या
मन्त्रात् पूर्वं मन्मथबीजाद् अथ पश्चात् ।
स्यातां चेद् अष्टादशवर्णो मनुवर्यो
गुह्याद् गुह्यो वाञ्छितचिन्तामणिरेषः ॥ २३ ॥
पूर्वप्रदिष्टे मुनिदेवतेऽस्य छन्दस्तु गायत्रमुशन्ति सन्तः ।
अङ्गानि मन्त्रार्णचतुष्कैर्वर्मावसानानि युगार्णमस्त्रम् ॥ २४ ॥
बीजं शक्तिः प्रकृतिर्विनियोगश्चापि पूर्ववद् अमुष्य ।
पूर्वतरस्य मनोरथं कथयामि न्यासमखिलसिद्धिकरम् ॥ २५ ॥
व्यापय्यार्थो हस्तयोर्मन्त्रम्
अन्तर्बाह्ये पार्श्वे ताररुद्धं बुधेन ।
न्यासो वर्णैस्तारयुग्मान्तरस्थैर्
बिन्दूत्तंसैर्हार्दहृद्यैर्विधेयः ॥ २६ ॥
शाखासु त्रीणि पर्वाण्यधि दशसु पृथग्दक्षिणाङ्गुष्ठपूर्वं
वामाङ्गष्ठावसानं न्यसतु विमलधीः सृष्टिरुक्ता करस्था ।
अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे संहृतिवामपूर्वा
दक्षाङ्गुष्ठान्तिकैतत् त्रयमपि सृजति स्थित्युपेतं च कार्यम् ॥ २७ ॥
ततः स्थितिक्रमाद् बुधो दशाङ्गकानि विन्यसेत् ।
तदङ्गपञ्चकं तथा विधिः समीरितः करे ॥ २८ ॥
पुटितैर्मनुनाथ मातृआर्णैर्
अभिविन्यस्य सबिन्दुभिः पुरोवत् ।
अणुसंहृतिसृष्टिमार्गभेदाद्
दशतत्त्व्वानि च मन्त्रवर्णभाञ्जि ॥ २९ ॥
संहृतावनगतो मनुवर्यः
सृष्टिवर्त्मनि भवेत् प्रतियातः ।
उद्धृतिः खलु पुरोक्तवद् एषां
न्यासकर्म कथयाम्यधुनाहम् ॥ ३० ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे प्रातःकृत्ये
तृतीयोऽध्यायः
॥ ३.३ ॥
(३.४)
तृतीयरात्रे चतुर्थोऽध्यायः
अथ मुद्राकथनम्
व्यास उवाच --
महीसलिलपावकानिलवियन्ति गर्वो महान्
पुनः प्रकृतिपुरुषौ पर इमानि तत्त्वान्यथ ।
पदान्धुहृदयास्यकान्यधि तु पञ्च मध्ये द्वयं
त्रयं सकलगं ततो न्यसतु तद्विपर्यासतः ॥ १ ॥
गुप्ततमोऽयं न्यासः सम्प्रोक्तस्तत्त्वदशकपरिकॢप्तः ।
कार्योऽन्य्ष्वपि सद्भिर्गोपालमनुषु झटिति फलसिद्ध्यै ॥ २ ॥
आकेशाद् आपादं दोर्भ्यां
ध्रुवपुटितमथ मनुवरं न्यसेद् वपुषि ।
त्रिशो मूर्धन्यक्ष्णोः श्रुत्योर्घ्राणे
मुखहृदयजठरशिवजानुपत्सु तथाक्षराणि ॥ ३ ॥
उक्ता सृष्टिः शिष्टैरेषा स्थितिरपि
मुनिभिरभिहिता हृदादिमुखान्तिका ।
संहारोऽङ्घ्र्यादिमूर्धान्तस्त्रितयमिति
विरचयेच्च सृष्टिमनु स्थितिम् ॥ ४ ॥
न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयम् ।
स्थित्यन्तो गृहमेधिषु सृष्ट्यन्तो वर्णिनामिति प्राहुः ॥ ५ ॥
वैराग्ययुजि गृहस्थे संहारं केचिद् आहुराचार्याः ।
सहजानौ वनवासिनि स्थितिं च विद्यार्थिनां सृष्टिम् ॥ ६ ॥
शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता
श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोषकनिष्ठका ।
नसि च वदने सर्वाः सज्यायसी हृदि तर्जनी
प्रथमजयुता मध्या नाभौ श्रवोविहिता शिवे ॥ ७ ॥
ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास्तु पदद्वये ।
स्थानार्णयोर्विनिमयो भवेन् नास्त्यङ्गुलिस्थानयोः ॥ इ ॥
वच्म्यपरं न्यासवरं भूत्यभिधं भूतिकरम् ।
मन्त्रदशावृत्तिमयं गुप्ततमं मन्त्रिवरैः ॥ ई ॥
आधारध्वजनाभिहृद्गलमुखांसोरुद्वये कन्धरा
नाभ्योः कुक्षिहृदोरुरोजयुगले पार्श्वापरश्रोणिषु ।
कास्याक्षिश्रुतिनः कपोलकरपत्सन्ध्यग्रशाखासु के
तत्प्राच्यादिदिशासु मूर्ध्नि सकले दोष्णोश्च सक्थ्नोस्तथा ॥ ईइ ॥
शिरोऽक्ष्यास्यकण्ठाख्यहृत्तुन्दकन्दा
न्धुजानुप्रपत्स्वित्थमर्णान्मनूत्थान् ।
न्यसेच्छ्रोत्रगण्डांसवक्षोजपार्श्व
स्फिगूरुस्थलीजानुजङ्घाङ्घ्रियुक्षु ॥ इव् ॥
इति कथितं विभूतिपञ्जरं
सकलसुखार्थधर्ममोक्षदम् ।
नरतरुणीमनोऽनुरञ्जनं
हरिचरणाब्जभक्तिवर्धनम् ॥ व् ॥
स्फूर्तयेऽथास्य मन्त्रस्य कीर्त्यते मूर्तिपञ्जरम् ।
आर्तिग्रहविषारिघ्नं कीर्तिश्रीकान्तिपुष्टिदम् ॥ ८ ॥
केशवादियुगषट्कमूर्तिभिर्
धातृपूर्वमिहिरान् नमोऽन्तकान् ।
द्वादशाक्षरभवाक्षरैः स्वरैः
क्लीबवर्णरहितैः क्रमान् न्यसेत् ॥ ९ ॥
भालोदरहृद्गलकूपतले
वामेतरपार्श्वभुजान्तगले ।
वामत्रयपृष्ठककुत्सु तथा
मूर्धन्यनु षड्युगवर्णमनुम् ॥ १० ॥
चैतन्यामृतवपुरर्ककोटितेजा
मूर्धस्थो वपुरखिलं स वासुदेवः ।
औधस्यं सुविमलपायसीव सिक्तं
व्याप्नोति प्रकटितमन्त्रवर्णकीर्णम् ॥ ११ ॥
सृष्टिस्थिती दशपञ्चाङ्गयुग्मं
मुन्यादिकत्रितयं कास्यहृत्सु ।
विन्यस्यतु ग्रथयित्वा च मुद्रा
भूयो दिशां दशकं बन्धनीयम् ॥ १२ ॥
तारं हार्दं विश्वमूर्तिश्च शार्ङ्गी
मांसान्तस्ते वायमध्ये सुदेवाः ।
षड्द्वन्द्वार्णो मन्त्रवर्यः स उक्तः
साक्षाद् द्वारं मोक्षपुर्याः सुगम्यम् ॥ १३ ॥
धात्रर्यममित्राख्या वरुणांशुभगा विवस्वदिन्द्रयुताः ।
पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥ १४ ॥
अथ तु युगरन्ध्रार्णस्याहं मनोर्न्यसनं ब्रुवे
रचयतु करद्वन्द्वे पञ्चाङ्गमङ्गुलिपञ्चके ।
तनुमनु मनुं व्यापय्याथ त्रिशः प्रणवं सकृन्
मनुजलिपयो न्यास्या भूयः पदानि च सादरम् ॥ १५ ॥
कचभुवि ललाटे भ्रूयुग्मान्तरे श्रवणाक्षिणोर्
युगलवदनग्रीवाहृन्नाभिकट्युभयान्धुषु ।
न्यसतु शितधीर्जान्वङ्घ्र्योरक्षरान् शिरसि ध्रुवं
नयनमुखहृद्गुह्याङ्घ्रिष्वर्पयेत् पदपञ्चकम् ॥ १६ ॥
पञ्चाङ्गानि न्यसेद् भूयो मुन्यादीन् अप्यन्यत् सर्वम् ।
तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर्याः स्युः ॥ १७ ॥
अनङ्गुष्ठा ऋजवो हस्तशाखा
भवेन् मुद्रा हृदये शीर्षके च ।
अधोङ्गुष्ठा खलु मुष्टिः शिखायां
करद्वन्द्वाङ्गुलयो वर्मणि स्युः ॥ १८ ॥
नाराचमुष्ट्युद्गतबाहुयुग्म
काङ्गुष्ठतर्जन्युदितो ध्वनिस्तु ।
विष्वग्विषक्तः कथितास्त्रमुद्रा
यत्राक्षिणी तर्जनीमध्यमे तु ॥ १९ ॥
ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ।
दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ॥ १९ ॥
तर्जनीमध्यमानामाः किञ्चित् संकुच्य चालिताः ।
वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ॥ २० ॥
नोच्यन्तेऽत्र प्रसिद्धत्वान् मालाश्रीवत्सकौस्तुभाः ।
उच्यतेऽच्युतमुद्राणां मुद्रा बिल्वफलाकृतिः ॥ २१ ॥
अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्टकेनाथ वध्वा
तसाग्रं पीडयित्वाङ्गुलिभिरपि तथा वामहस्ताङ्गुलिभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन् मारबीजं
बिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ॥ २२ ॥
मनोवाणीदेहैर्यद् इह च पुरा वापि विहितं
त्वमत्या मत्या वा तद् अखिलमसौ दुष्कृतिचयम् ।
इमां मुद्रां जानन् क्षपयति नरस्तं सुरगणा
नमन्त्यस्याधीना भवति सततं सर्वजनता ॥ २३ ॥
प्रणवहृदोरवसाने सचतुर्थिसुदर्शनं तथास्त्रपदं च ।
उक्त्या फडन्तमनुम्ना कलयेन् मनुनास्त्रमुद्रया दशहरितः ॥ २४ ॥
इति विधाय समस्तविधिं जगज्
जनिविनाशविधानविशारदम् ।
श्रुतिविमृग्यमजं मनुविग्रहं
स्मरतु गोपवधूजनवल्लभम् ॥ २५ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
चतुर्थोऽध्यायः
॥ ३.४ ॥
(३.५)
तृतीयरात्रे पञ्चमोऽध्यायः
मन्त्रपूजाप्रकरणम्
श्रीव्यास उवाच --
अथ प्रकटसौरभोद्गलितमाध्वीकोत्फुल्लसत्
प्रसूननवपल्लवप्रकरनम्रशाखैर्द्रुमैः ।
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः
स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनम् ॥ १ ॥
विकाशिसुमनोरमास्वादनमञ्जुलैः सञ्चरच्
छिलिमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः ।
कपोतशुकशारिकापरभृतादिभिः पत्रिभिर्
विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥ २ ॥
कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर्
विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः ।
प्रदीपितमनोभवव्रजविलासिनीवाससां
विलोलनपरैर्निषेवितमनारतं मारुतैः ॥ ३ ॥
प्रवालनवपल्लवं मरकतच्छदं वज्रमौ
क्तिकप्रकरकोरकं कमलरागनानाफलम् ।
स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं
तदन्तरमपि कल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् ॥ ४ ॥
सुहेमशिखरावलेरुदितभानुवद्भास्वराम्
अधोऽस्य कनकस्थलीममृतशीकरासारिणः ।
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां
स्मरेत् पुनरतन्द्रितो विगतषट्तनङ्गां बुधः ॥ ५ ॥
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोग
पीठेऽष्टपत्रमरुणं कमलं विचिन्त्य ।
उद्यद्विरोचनसरोचिरमुष्य मध्ये
सञ्चिन्तयेत् सुखनिविष्ठमथो मुकुन्दम् ॥ ६ ॥
सूत्रामरत्नदलिताञ्जनमेघपुञ्ज
प्रत्यग्रनीलजलजन्मसमानभासम् ।
सुस्निग्धनीलघनकुञ्चितकेशजालं
राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ ७ ॥
रोलम्बलालितसुरद्रुमसूनकॢप्तोत्तंसं
समुत्कचनवोत्पलकर्णपूरम् ।
लोलालकस्फुरितभालतलप्रदीप्त
गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ ८ ॥
आपूर्णशारदगताङ्कुशशाङ्कबिम्ब
कान्ताननं कमलपत्रविशालनेत्रम् ।
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त
गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ ९ ॥
सिन्दूरसुन्दरतराधरमिन्दुकुन्द
मन्दारमन्दहसितद्युतिदीपिताङ्गम् ।
वन्यप्रवालकुसुमप्रचयावकॢप्त
ग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥ १० ॥
मत्तभ्रमरजुष्टविलम्बमान
सन्तानकप्रसवदामपरिष्कृतांसम् ।
हारावलीभगणराजितपीवरोरो
व्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥ ११ ॥
श्रीवत्सलक्षणसुलक्षितमुन्नतांसम्
आजानुपीनपरिवृत्तसुजातबाहुम् ।
आबन्धुरोदरमुदारगम्भीरनाभिं
भृङ्गाङ्गनानिकरमञ्जुलरोमराजिम् ॥ १२ ॥
नानामणिप्रघटिताङ्गदकङ्कणोर्मि
ग्रैवेयसारसननूपुरतुन्दबन्धम् ।
द्व्याङ्गरागपरिपञ्जरिताङ्गयष्टिम्
आपीतवस्त्रपरिवीतनितम्बबिम्बम् ॥ १३ ॥
चारूरुजानुमनुवृत्तमनोज्ञजङ्घ
कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् ।
माणिक्यदर्पणलसन्नखराजिराजद्
रत्नाङ्गुलिच्छदन्सुन्दरपादपद्मम् ॥ १४ ॥
मत्स्याङ्कुशारदरकेतुयवाब्जवज्र
संलक्षितारुणकराङ्घ्रितलाभिरामम् ।
लावण्यसारसमुदायविनिर्मिताङ्ग
सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥ १५ ॥
आस्यारविन्दपरिपूरितवेणुरन्ध्र
लोलत्कराङ्गुलिसमीरितदिव्यरागैः ।
शश्वद्द्रवीजृतविकृष्टसमस्तजन्तु
सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥ १६ ॥
गोभिर्मुखाम्बुजविलीनविलोचनाभि
रूधोभरस्खलितमन्थरमन्दगाभिः ।
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभि
रालम्बिवालधिलताभिरथभिवीतम् ॥ १७ ॥
सप्रस्रवस्तनविचूषणपूर्णनिश्च
लास्यावटक्षरितफेनिलदुग्धमुग्धैः ।
वेणुप्रवर्तितमनोहरमन्द्रगीत
दत्तोच्चकर्णयुगलैरपि तर्णकैश्च ॥ १८ ॥
प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहार
संरम्भवल्गनविलोलखुराग्रपातैः ।
आमेदुरैर्बहुलसास्नगलैरुदग्र
पुच्छैश्च वत्सतरवत्सतरीनिकायैः ॥ १९ ॥
हम्बारवक्षुभितदिग्वलयैर्महद्भि
रप्युक्षभिः पृथुककुद्भरभारखिन्नैः ।
उत्तम्भितश्रुतिपुटीपरिवीतवंश
ध्वानामृतोद्धतविकाशिविशालघोणैः ॥ २० ॥
गोपैः समानगुणशीलवयोविलास
वेशैश्च मूर्च्छितकलस्वनवेणुवीणैः ।
मन्द्रोच्चतारपटगानपरैर्विलोल
दोर्वल्लरीललितलास्यविधानदक्षैः ॥ २१ ॥
जङ्घान्तपीवरकटीरतटीनिबद्ध
व्यालोलकिङ्किणिघटारटितैरटद्भिः ।
मुग्धैस्तरक्षुनखकल्पितकण्ठभूषै
रव्यक्तमञ्जुवचनैः पृथुकैः परीतम् ॥ २२ ॥
अथ सुललितगोपसुन्दरीणां
पृथुनिविवीषनितम्बमन्थराणाम् ।
गुरुकुचभरभङ्गुरावलग्न
त्रिवलिविजृम्भितरोमराजिभाजाम् ॥ २३ ॥
तदतिमधुरचारुवेणुवाद्या
मृतरसपल्लविताङ्गजाङ्घ्रिपानाम् ।
मुकुलविसररम्यरूढरोमोद्
गमसमलङ्कृतगात्रवल्लरीणाम् ॥ २४ ॥
तदतिरुचिरमन्दहासचन्द्रा
तपपरिजृम्भितरागवारिणाशेः ।
तरलतरतरङ्गभङ्गविप्रुट्
प्रकरसमश्रमबिन्दुसन्ततानाम् ॥ २५ ॥
तदतिललितमन्दचिल्लिचाप
च्युतनिशितेक्षणमारवाणवृष्ट्या ।
दलितसकलमर्मविह्वलाङ्ग
प्रविसृतदुःसहवेपथुव्यथानाम् ॥ २६ ॥
तदतिरुचिरकम्ररूपशोभा
मृतरसपानविधानलालसाभ्याम् ।
प्रणयसलिलपूरवाहिनीनाम्
अलसविलोलविलोचनाम्बुजाभ्याम् ॥ २७ ॥
विश्रंसत्कवरीकलापविगलत्फुल्लप्रसूनश्रवन्
माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः ।
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युछ्वसन्
नीवीविश्लथमानचीनसिचयान्ताविर्नितम्बत्विषाम् ॥ २८ ॥
स्खलितललितपादाम्भोजमन्दाभिघात
क्वणितमणितुलाकोट्याकुलाशामुखानाम् ।
चलदधरदलानां कुड्मलत्पक्ष्मलाक्षि
द्वयसरसिरुहणामुल्लसत्कुण्डलानाम् ॥ २९ ॥
द्राघिष्ठश्वसनसमीरणाभिताप
प्रम्लानीभवदरुणोष्ठपल्लवानाम् ।
नानोपायनविलसत्कराम्बुजानाम्
आलीभिः सततनिषेवितं समन्तात् ॥ ३० ॥
तासामायतलोलनीलनयनव्याकोशनीलाम्बुज
स्रग्भिः सम्परिपूजिताखिलतनुं नानाविलासास्पदम् ।
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादनीं
बिभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ॥ ३१ ॥
गोपीगोपपशूनां बहिः
स्मरेद् अग्रतोऽस्य गीर्वाणघटाम् ।
वित्तार्थिनीं विरिञ्चित्रिनयन
शतमन्युपूर्विकां स्तोत्रपराम् ॥ ३२ ॥
तद्दक्षिणतो मुनिनिकरं
दृढधर्मवाञ्छमाम्नायपरम् ।
योगीन्द्रान् अथ पृष्ठे मुमुक्ष
माणान् समाधिना सनकाद्यान् ॥ ३३ ॥
सव्ये सकान्तान् अथ यक्षसिद्ध
गन्धर्वविद्याधरचारणांश्च ।
सकिन्नरान् अप्सरसश्च मुख्याः
कामार्थिनो नर्तनगीतवाद्यैः ॥ ३४ ॥
शङ्खेन्दुकुन्दधवलं सकलागमज्ञं
सौदामनीततिपिशङ्गजटाकलापम् ।
तत्पादपङ्कजगतामचलाञ्च भक्तिं
वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥ ३५ ॥
नानाविधश्रुतिगणान्वितसप्तराग
ग्रामत्रयीगतमनोहरमूर्छनाभिः ।
संप्रीणयन्तमुदिताभिरमुं महत्या
सञ्चिन्तयेन् नभसि धातृसुतं मुनीन्द्रम् ॥ ३६ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
पञ्चमोऽध्यायः
॥ ३.५ ॥
(३.६)
तृतीयरात्रे षष्ठोऽध्यायः
व्यास उवाच --
इति ध्यात्वात्मानं पटुविशदधीर्नन्दतनयं
पुरो बुद्ध्यैवार्ध्यप्रभृतिभिरनिन्द्योपहृतिभिः ।
यजेद् भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैर्
विधानं तद् ब्रूमो वयमतुलसान्निध्यकृद् अथ ॥ १ ॥
आरचय्य भुवि गोमयाम्भसा
स्थण्डिलं निजममुत्र विष्टरम् ।
न्यस्य तत्र विहितास्पदोऽम्भसा
शङ्खमस्त्रमनुना विशोधयेत् ॥ २ ॥
तत्र गन्धसुमनोक्षतान् अथो
निक्षिपेद् धृदयमन्त्रमुच्चरन् ।
पूरयेद् विमलपाथसा सुधीर्
अक्षरैः प्रतिगतैः शिरोन्तकैः ॥ ३ ॥
पीठशङ्खसलिलेषु मन्त्रविद्
वह्निवासरनिशाकृतां क्रमात् ।
मण्डलानि विषकश्रवोक्षरैर्
अर्चयेद् वदनपूर्वदीपितैः ॥ ४ ॥
तत्र तीर्थमनुनभिवाहयेत्
तीर्थमुष्णरुचिमण्डलात् ततः ।
स्वीयहृत्कमलतो हरिं तथा
गालिनीं च शिखया प्रदर्शयेत् ॥ ५ ॥
तज्जलं नयनमन्त्रवीक्षितं
वर्मणा समवगुण्ठ्य दोर्युजा ।
मूलमन्त्रसकलीकृतं न्यसेद्
अङ्गकैश्च कलयोद्दिशोऽस्त्रतः ॥ ६ ॥
अक्षतादियुतमच्युतीकृतं
संस्पृशन् जपतु मन्त्रमष्टशः ।
किं च निक्षिपतु वर्धनीजले
प्रोक्षयेन् निजतनुं ततोऽम्बुना ॥ ७ ॥
त्रिः करेण मनुनाखिलं तथा
साधनं कुसुमचन्दनादिकम् ।
शङ्खपूरणविधिः समीरितो
गुप्त एष यजनाग्रणीरिह ॥ ८ ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ ९ ॥
एष तीर्थमनुप्रोक्तो दुरितौघनिवारणः ।
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ॥ १० ॥
तर्जनीमध्यमानामाः संहता भुग्नसंजिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ ११ ॥
अथ मूर्धनि मूलचक्रमध्ये
निजनाथान् गणनायकं समर्च्य ।
न्यसनक्रमतश्च पीठमन्त्रैर्
जलगन्धाक्षतपुष्पधूपदीपैः ॥ १२ ॥
प्रयजेद् अथ मूलमन्त्रतेजो
निजमूले हृदये भ्रुवोश्च मध्ये ।
त्रितयं स्मरतः स्मरेत् तदेकी
कृतमानन्दघनं तडिल्लताभम् ॥ १३ ॥
तत्तेजोऽङ्गैः सावयवीकृत्यविभूत्या
द्यङ्गान्तं विन्यस्य यजेद् आसनपूर्वैः ।
भूषान्तैर्भूयो जलगन्धादिभिरर्चां
कुर्याद् भूत्याद्यङ्गविधानावधि मन्त्री ॥ १४ ॥
भूयो वेणुं वदनस्थं वक्षोदेशे वनमालाम् ।
वक्षोजोऽर्धं प्रयजेच्च श्रीवत्सं कौस्तुभरत्नम् ॥ १५ ॥
श्रीखण्डनिःस्यन्दविचर्चिताङ्गो
मूलेन भालादिषु चित्रकाणि ।
लिख्याद् अथो पञ्जरमूर्तिमन्त्र
रनामया दीपशिखाकृतीनि ॥ १६ ॥
पुष्पाञ्जलिं वितनुयाद् अथ पञ्चकृत्वो
मूलेन पादयुगले तुलसीद्वयेन ।
मध्ये हयारियुगलेन च मूर्ध्नि पद्म
द्वन्द्वेन षड्भिरपि सर्वतनौ च सर्वैः ॥ १७ ॥
श्वेतानि दक्षभागे सितचन्दनपङ्किलानि कुसुमानि ।
रक्तानि वामभागेऽरुणचन्दनपङ्कसिक्तानि ॥ १८ ॥
तद्वच्च धूपदीपौ समर्प्य धिनुयात् सुधारसैः कृष्णम् ।
मुखवासाद्यं दत्त्वा समर्चयेत् साधुगन्धाद्यैः ॥ १९ ॥
ताम्बूलगीतनर्तनवाद्यैः
सन्तोष्य चुलुकसलिलेन ।
ब्रह्मार्पणाख्यमनुना
कुर्यात् स्वात्मार्पणं मन्त्री ॥ २० ॥
अथवा सङ्कुचितधियामयं विधिर्मूर्तिपञ्जरारब्धः ।
यद्यष्टादशलिपिना सार्णपदाङ्गैश्च वेणुपूर्वैः प्रोक्तः ॥ २१ ॥
सुप्रसन्नमथ नन्दतनूजं
भावयन् जपतु मन्त्रमनन्यः ।
सार्थसंस्मृतियथाविधिसङ्ख्या
पूरणेऽसुयमनं विधधीत ॥ २२ ॥
प्रणवपुटितं बीजं जप्त्वा शतं सहिताष्टकं
निजगुरुमुखाद् आत्तान् योगान् युनक्तु महामतिः ।
सदमृतचिदानन्दात्माथो जपं च समापयेद्
इति जपविधिः सम्यक् प्रोक्तो मनुद्वितयाश्रितः ॥ २३ ॥
य इमं भजते विधिं नरो
भवितासौ दयितः शरीरिणाम् ।
अपि वाक्कमलैकमन्दिरं
परमं ते समुपैति तन्महः ॥ २४ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
षष्ठोऽध्यायः
॥ ३.६ ॥
(३.७)
तृतीयरात्रे सप्तमोऽध्यायः
व्यास उवाच --
कथ्यते सपदि मन्त्रवर्ययोः
साधनं सकलसिद्धिसाधनम् ।
यद् विधाय मुनयो महीयसां
सिद्धिमीयुरिह नारदादयः ॥ १ ॥
विप्रं प्रध्वस्तकामप्रभृतिरिपुघटं निर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाङ्घ्रिपङ्केरुहयुगलरजोरागिणीमुद्वहन्तम् ।
वेत्तारं वेदशास्तागमविमलपथां सम्मतं सत्सु दान्तं
विद्यां यः संविवित्सुः प्रवणतनुमना देशिकं संश्रयेत ॥ २ ॥
सन्तोषयेद् अकुटिलाद्रेतरान्तरात्मा
तं स्वैर्धनैश्च वपुषाप्यनुकूलवाण्या ।
अब्दत्रयङ्कमलनाभधियाऽतिधीरस्
तुष्टे विवक्षतु गुरावथ मन्त्रदीक्षाम् ॥ ३ ॥
प्रपञ्चसारप्रथिता तु दीक्षा
संस्मार्यते सम्प्रतिसर्वसिद्ध्यै ।
ऋते यया सन्ततजापिनोऽपि
सिद्धिं न वै दास्यति मन्त्रपूगः ॥ ४ ॥
अथ पुरो विदधीत भुवं स्थलीम्
अधि यथाविधि वास्तुबलिं बुधः ।
अचलदोर्मितमत्र तु मण्डपं
मसृणवेदिकमारचयेत् ततः ॥ ५ ॥
त्रिगुणतन्तुयुजा कुशमालया
परिवृतं प्रकृतिध्वजभूषितम् ।
मुखचतुष्कपयस्तरुतोरणं
सितवितानविराजितमुज्ज्वलम् ॥ ६ ॥
वसुत्रिगुणिताङ्गुलप्रमितखाततारायातं
वसोर्वसुपतेरथो ककुभिधिष्ण्यमस्मिन् बुधः ।
करोतु वसुमेखलं वसुगणार्धकोणं प्रतीच्य्
अवस्थितगजाधरप्रतिमयोनिसंलक्षितम् ॥ ७ ॥
ततो मण्डपे गव्यगन्धाम्बुसिक्ते
लिखेन् मण्डलं सम्यग् अष्टच्छदाब्जम् ।
सवृत्तत्रयं राशिपीठाङ्घ्रिवीथि
चतुर्धारशोभोपशोभास्रयुक्तम् ॥ ८ ॥
ततो देशिकः स्नानपूर्वं विधानं
विधायात्मपूजावसानं विधिज्ञः ।
स्ववामाग्रतः शङ्खमप्यर्घ्यपाद्या
चमाद्यानि पात्राणि समूरितानि ॥ ९ ॥
विधायान्यतः पुष्पगन्धाक्षताद्यं
करक्षालनं पृष्ठतश्चापि पात्रम् ।
प्रदीपावलीदीपिते सर्वमन्यत्
स्वदृग्गोचरे साधनं चाददीत ॥ १० ॥
वायव्याशादीशपर्यन्तमर्च्य
पीठस्योदग्गौरवी पङ्क्तिरादौ ।
पूज्योऽन्यत्राप्याम्बिकेयः कराब्जैः
पाशं दन्तं शृण्यभीती दधानः ॥ ११ ॥
आराध्याधारशक्त्याद्यमरचरणपावध्यथो मध्यभागे
धर्मादीन् वह्निरक्षःपवनशिवगतान् दिक्ष्वधर्मादिकांश्च ।
मध्ये शेषाब्जबिम्बत्रितयगुणगणात्मादिकं केशराणां
वह्नेर्मध्ये च शक्तीर्नवसमभियजेत् पीठमन्त्रेण भूयः ॥ १२ ॥
ततः शालीन् मध्येकमलममलांस्तण्डुलवरान्
अपि न्यस्येद् दर्भांस्तद् उपरि च कूर्चाक्षतयुतान् ।
न्यसेत् प्रादक्षिण्यात् तदुपरि कृशानोर्दश कला
यकाराद्यर्णाद्या यजतु च सुगन्धादिभिरिमाः ॥ १३ ॥
न्यसेत् कुम्भं तत्र त्रिगुणितलसत्तन्तुकलितं
जपंस्तारं धूपैः सुपरिमलितं जोङ्कटमयैः ।
कभाद्यैः कुम्भेऽस्मिन् ठडवसितिभिर्वर्णयुगलैः
तथान्यस्याभ्यर्च्यास्तदनु खमणेर्द्वादश कलाः ॥ १४ ॥
एवं सङ्कल्प्याग्निमाधाररूपं
भानुं तद्वत् कुम्भरूपं विधिज्ञैः ।
न्यस्येत् तस्मिन्न् अक्षताद्यैः समेतं
कूर्चं स्वर्णै रत्नवर्यैः प्रदीप्तम् ॥ १५ ॥
अथ क्वाथतोयैः क्षकारादिवर्णैर्
अकारावसानैः समापूरयेत् तम् ।
स्वमन्त्रत्रिजापावसानं पयोभिर्
गवां पञ्चगव्यैर्जलैः केवलैर्वा ॥ १६ ॥
कलशजलेऽस्मिन् वसुयुगसङ्ख्याः
स्वरगणपूर्वा न्यसतु तथैव ।
उडुपकलास्ताः सलिलसुगन्धा
क्षतसुमनोभिस्तदनु यजेत ॥ १७ ॥
उदीच्यकुष्टकुङ्कुमाम्बुलोहसज्जटामुरैः ।
सशीतमित्युदीरितं हरेः प्रियाष्टगन्धकम् ॥ १८ ॥
क्वाथतोयपरिपूरितोदरे
संविलोड्य विधिनाष्टगन्धकम् ।
सोमसूर्यशिखिनां पृथक्कलाः
सेचकर्म विनियोजयेत् क्रमात् ॥ १९ ॥
तद्वद् आक्षरभवास्तु कादिभिष्
टादिभिः पुनरुकारजाः कलाः ।
पादिभिर्मलिपिजास्तु बिन्दुजाः
षादिभिः स्वरगणेन नादजाः ॥ २० ॥
समावाहनान्तेऽसुसंस्थापनात् प्राक्
ऋचस्तत्र तत्राभिजप्या बुधेन ।
समभ्यर्च्य तास्ताः पृथक् तच्च पाथोऽ
पयेन् मूलमन्त्रेण कुम्भे यथावत् ॥ २१ ॥
सहकारबोधिपनसस्तवकैः
शतमन्युवल्लिक्कलितैः कलशम् ।
पिदधातु पुष्पफलतण्डुलकैर्
अभिपूर्णयापि शुभचक्रिकया ॥ २२ ॥
अभिवेष्टयेत् तदनु कुम्भमुखं
नवनिर्मलांशुकयुगेन बुधः ।
समलङ्कृतेऽत्र कुसुमादिभिरप्य्
अभिवाहयेत् परतरं च महः ॥ २३ ॥
सकलीविधाय कलशस्थममुं
हरिमर्णतत्त्वमनुविन्यसनैः ।
परिपूजयेद् गुरुरथावहितः
परिवारयुक्तमुपचारगणैः ॥ २४ ॥
दत्त्वासनं स्वागतमित्युदीयः
तथाध्यपाद्याचमनीयकानि ।
स्थानं च वासश्च विभूषणानि
साङ्गाय तस्मै विनियोज्य मन्त्री ॥ २५ ॥
गात्रे पवित्रैरथ गन्धपुष्पैः
पूर्वं यजेन् न्यासविधानतोऽस्य ।
सृष्टिस्थिती स्वाङ्गयुगं च वेणुं
मालामभिज्ञानवराश्ममुख्यौ ।
मूलेन चार्ध्यार्चनवत् प्रपूज्य
समर्चयेद् आवरणानि भूयः ॥ २७ ॥
दिक्ष्वथ दामसुदामौ वसुदामः किङ्किणी च सम्पूज्याः ।
तेजोरूपास्तद्बहिरङ्गानि च केशरेषु समभियजेत् ॥ २८ ॥
हुतवहनिरृतिसमीरशिवदिक्षु हृदादिवर्मपर्यन्तम् ।
पूर्वादिदिक्ष्वथास्त्रं क्रमेण गन्धादिभिः सुशुद्धमनाः ॥ २९ ॥
मुक्तेन्दुकान्तकुवलय
हरिनीलहुताशसभाः प्रमदाः ।
अभयवरस्फुरितकराः
प्रसन्नमुख्योऽङ्गदेवताः स्मर्याः ॥ ३० ॥
रुक्मिण्याद्या महिषीर्
अष्टौ सम्पूजयेद् दलेषु ततः ।
दक्षिणकरधृतकमला
वसुभरितसुपात्रमुद्रितान्यकराः ॥ ३१ ॥
रुक्मिण्याख्या सत्या सनाग्निजित्याह्वया सुनन्दा च ।
भूयश्च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीला च ॥ ३२ ॥
तपनीयमरकताभाः सुसित
विचित्राम्बरा द्विशस्त्वेताः ।
पृथुकुचभरालसाङ्ग्या विविध
मणिप्रकरविलसिताभरणाः ॥ ३३ ॥
ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् ।
नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् ।
गोपान् गोपीश्च गोविन्दविलीनमतिलोचनान् ॥ ३४ ॥
ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डरौ ।
दिव्यमाल्याम्बरालेपभूषणे मातरौ पुनः ॥ ३५ ॥
धारयन्त्यौ च वरदं पायसापूर्णपात्रकम् ।
अरुणाश्यामले हारमणिकुण्डलमण्डिते ॥ ३६ ॥
बलः शङ्खेन्दुधवलो मुसलं लाङ्गलं दधत् ।
हालालोलो नीलवासा हेलावान् एककुण्डलः ॥ ३७ ॥
कलायश्यामला भद्रा सुभद्रा भद्रभूषणा ।
वराभययुता पीतवसना रूढयौवना ॥ ३८ ॥
वेणुवीणावेत्रयष्टिशङ्खशृङ्गादिपाणयः ।
गोपा गोप्यश्च विविधप्रभृतात्तकराम्बुजाः ।
मन्दारादींश्च तद्बाह्ये पूजयेत् कल्पपादपान् ॥ ३९ ॥
मन्दारसन्तानकपारिजात
कल्पद्रुमाख्यान् करिचन्दनं च ।
मध्ये चतुर्दिक्ष्वपि वाञ्छितार्थ
दानैकदक्षान् फलनम्रशाखान् ॥ ४० ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
सप्तमोऽध्यायः
॥ ३.७ ॥
(३.८)
तृतीयरात्रे अष्टमोऽध्यायः
व्यास उवाच --
हरिहव्यवाट्तरणिजक्षपाचराप्य्
अतिवायुसोमशिवशेषपद्मजान् ।
प्रयजेत् स्वदिक्ष्वमलधीः स्वजात्यधी
श्वरहेतिपत्रपरिवारसंयुतान् ॥ १ ॥
कपिशकपिलनीलश्यामलश्वेतधूम्रा
मलसितशुचिरक्ता वर्णतो वासवाद्याः ।
करकमलविराजत्स्वायुधा दिव्यवेशा
विविधमणिगणोऽस्रप्रस्फुरद्भूषणाढ्याः ॥ २ ॥
दम्भोलिशक्त्यभिधदण्डकृपाणपाश
चण्डाङ्कुशाह्वयगदात्रिशिखारिपद्माः ।
अर्च्या बहिर्निजसुलक्षितमौलियुक्ताः
स्वस्वायुधभयसमुद्यतपाणिपद्मः ॥ ३ ॥
कनकरजततोयदाभ्रचम्पा
रुणहिमनीलजवाप्रवालभासः क्रमतः ।
क्रमत इति रुचा तु वज्रपूर्वा
रुचिरविलेपनवस्त्रमाल्यभूषाः ॥ ४ ॥
कथितमावृतिसप्तकमच्युता
र्चनविधाविति सर्वसुखावहम् ।
प्रयताद् अथवाङ्गपुरन्दरा
शनिमुखैस्त्रितयावरणं त्विदम् ॥ ५ ॥
इत्यर्चयित्वा जलगन्धपुष्पैः
कृष्णाष्टकेनाप्यथ कृष्णपूजाम् ।
कुर्याद् बुधस्तानि समाह्वयानि
वक्ष्यामि तादादिनमोऽन्तिकानि ॥ ६ ॥
श्रीकृष्णो वासुदेवश्च नारायणसमाह्वयः ।
देवकीनन्दनो यदुश्रेष्ठो वार्ष्णेय इत्यपि ॥ ७ ॥
असुरान्तकशब्दान्ते भारहारीति सप्तमः ।
धर्मसंस्थापकश्चाष्टौ चतुर्थ्यन्ताः क्रमाद् इमे ॥ ८ ॥
एभिरेवाथवा पूजा कर्तव्या कंसवैरिणः ।
संसारसागरोत्तीर्त्यै सर्वकामाप्तये बुधैः ॥ ९ ॥
साराङ्गारे घृतविलुलितैर्जर्जरै संविकीर्णैर्
गुग्गुल्वाद्यैर्घनपरिमलैर्धूपमापाद्य मन्त्री ।
दद्यान् नीचैर्दनुजमथनायापरेणाथ दोष्णा
घण्टां गन्धाक्षतकुसुमकैरर्चितां वादयानः ॥ १० ॥
तद्वद् दीपं सुरभिघृतसंसिक्तकर्पूरवर्त्या
दीप्तं दृष्ट्याद्यतिविशदधीः पद्मपर्यन्तमुच्चैः ।
दत्त्वा पुष्पाञ्जलिमप् च इ विधायार्पयित्वा च पाद्यं
साचामं कल्पयतु विपुलस्वर्णपात्रे निवेद्य ॥ ११ ॥
सुरभितरेण दुग्धहविषा सुशृतेन सिता
समुपदेशकै रुचिरहृद्यविचित्ररसैः ।
दधिनवनीतनूतनसितोपलपूपपुलि
घृतगुडनारिकेलकदलीफलपुष्परसैः ॥ १२ ॥
अस्त्रोक्षितं तदरिमुद्रिकयाभिरक्ष्य
वायव्यतीयपरिशोषितमग्निदोष्णा ।
सन्दह्य वामकरसौधरसाभिपूर्णं
मन्त्रामृतीकृतमथाभिमृषन् प्रजप्यात् ॥ १३ ॥
मनुमष्टशः सुरभिमुद्रिकया
परिपूर्णमर्चयतु गन्धमुखैः ।
हरिमर्चयेद् अथ कृतप्रसवाञ्जलिर्
आस्यतोऽस्य प्रसरेच्च महः ॥ १४ ॥
वीतिहोत्रदयितान्तमुच्चरन्
मूलमन्त्रमथ निक्षिपेज्जलम् ।
अर्पयेत् तद् अमृतात्मकं हविर्
दोर्युजा सुकुसुमं समुद्धरन् ॥ १५ ॥
निवेदयामि भगवते जुषाणेदं हविर्हरे ।
निवेद्यार्पणमन्त्रोऽयं सर्वार्चासु निजाख्यया ॥ १६ ॥
ग्रासमुद्रां वामदोष्णा विकचोत्पलसन्निभाम् ।
प्रदर्शयेद् दक्षिणेन प्राणादीनां च दर्शयेत् ॥ १७ ॥
स्पृशेत् कनिष्ठोपकनिष्ठे द्वे
अङ्गुष्ठमूर्ध्ना प्रथमेह मुद्रा ।
तथापरा तर्जनिमध्यमे स्याद्
अनामिकमध्यमिके च मध्या ॥ १८ ॥
अनामिकतर्जनिमध्यमाः स्यात्
तद्वच्चतुर्थीसकनिष्ठिकास्तः ।
स्यात् पञ्चमी तद्वद् इति प्रदिष्टा
प्राणादिमुद्रा निजमन्त्रयुक्ताः ॥ १९ ॥
प्राणापानव्यानोदान
समानाः क्रमाच्चतुर्थ्यन्ताः ।
ताराधारा वध्वा चेद्धाः
कृष्णाध्वनस्त्विमे मनवः ॥ २० ॥
ततो निवेद्य मुद्रिकां
प्रधानया करद्वये ।
स्पृशन्न् अनामिकां निजं
मनुं जपन प्रदर्शयेत् ॥ २१ ॥
नन्दजोऽम्बुमनुबिन्दुयुङ् नतिः
पार्श्वरामरुदवात्मने नि च ।
रुद्धङेयुतनिवेद्यमात्मभूर्
मासपार्श्वमनिलस्तथाऽमियुक् ॥ २२ ॥
मण्डलमभितो मन्त्री
बीजाङ्कुरभाजनानि विन्यस्य ।
पिष्टमयान् अपि दीपान्
घृतपूर्णान् विन्यसेत् सुदीप्तशिखान् ॥ २३ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
अष्टमोऽध्यायः
॥ ३.८ ॥
(३.९)
तृतीयरात्रे नवमोऽध्यायः
श्रीव्यास उवाच --
अथ संस्कृते हुतवहेऽमलधीर्
अभिवाह्य सम्यग् अभिपूज्य हरिम् ।
जुहुयात् सिताघृतयुतेन पयः
परिसाधितेन सितदीधितिना ॥ १ ॥
अष्टोत्तरं सहस्रं समाप्य
होमं पुनर्बलिं दद्यात् ।
राशिष्वधिनाथेभ्यो
नक्षत्रेभ्यस्ततश्च करणेभ्यः ॥ २ ॥
सम्पाद्य पानीयसुधां समर्प्य
दत्त्वाम्भ उदास्य मुखार्चिरास्ये
नैवेद्यमुद्धृत्य निवेद्य विष्वक्
सेनाय पृथ्वीमुपलिप्य भूयः ॥ ३ ॥
गण्डूषदन्तधवनाचमनास्यहस्त
मृज्यानुलेपमुखवासकमाल्यभूषाः ।
ताम्बूलमप्यभिसमर्प्य सुवाद्यनृत्य
गीतैः सुतृप्तमभिपूजयतात् पुनरेव ॥ ४ ॥
गन्धादिभिः सपरिवारमथार्घमस्मै
दत्त्वा विधाय कुसुमाञ्जलिमादरेण ।
स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन
स्वात्मानमर्पयतु तच्चरणाब्जमूले ॥ ५ ॥
इति पूर्वं प्राणबुद्धिदेहधर्माधिकारतः ।
जाग्रत्स्वप्नसुषुप्त्याख्यावस्थासु मनसा वाचा ॥ ६ ॥
कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतम् ।
यद् उक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा ॥ ७ ॥
मां मदीयं च सकलं हरयेऽहं समर्पये ।
ॐ तत् सदिति सम्प्रोक्तो मन्त्रः स्वात्मार्पणे शुभः ॥ ८ ॥
अनुस्मरन् कलशगमच्युतं जपेत्
सहस्रकं मनुमथ साष्टकं बुधः ।
वपुष्यथो दितिजाजितः समावृतीर्
विलाप्य तास्तद् अपि नयेत् सुधात्मताम् ॥ ९ ॥
ध्वजतोरणदिक्कलशादिगताम्
अपि मण्डपमण्डलकुण्डगताम् ।
अभियोज्य चितिं कलशे कुसुमैः
परिपूज्य जपेत् पुनरष्टशतम् ॥ १० ॥
अथ शिष्य उपोषितः प्रभाते
कृतनैत्यः सुसिताम्बरः सुवेशः ।
धरणीधनधान्यगोकुलैर्
धिनुयाद् विप्रवरान् हरेः प्रसत्त्यैः ॥ ११ ॥
भूयः प्रतर्प्य प्रणिपत्य देशिकं
तस्मै परस्मै पुरुषाय देहिने ।
तां वित्तशाठ्यं परिहृत्य दक्षिणां
दत्त्वा तनुं स्वां च समर्पयेत् सुधीः ॥ १२ ॥
अथाभिषेकमण्डपे सुखोपविष्टमासने ।
गुरुर्विशोधयेद् अमुं पुरेव शोषणादिभिः ॥ १३ ॥
पीठन्यासावसानं वपुषि विमलधीर्न्यस्य तस्यासिकाया
मन्त्रेणाभ्यर्च्य दूर्वाक्षतकुसुमयुतां रोचनां के निधाय ।
आशीर्वादैर्द्विजानां विशदपटुरवैर्गीतवादित्रघोषैर्
माङ्गल्यैरानयत्तं कलशमभिवृतस्तत्समीपं प्रतीतः ॥ १४ ॥
तेनाभिलीनमणिमन्त्रमहौषधेन
धाम्ना पेरण परमामृतरूपभाजा ।
सम्पूरयन् वपुरमुष्य ततो वितन्वन्
तत्सामरस्यमभिषेचयताद् यथावत् ॥ १५ ॥
क्षाद्यैरान्तैर्वर्णैरभिपूर्णतनुस्त्रिरुक्तमन्त्रान्तैः ।
परिहितसिततरवमनद्वितीयो वाचंयमः समाचान्तः ॥ १६ ॥
बहुशः प्रणम्य देशकनामानं हरिमथोपसङ्गम्य ।
तद्दक्षिणत उपास्तामभिमुखमेकाग्रमानसः शिष्यः ॥ १७ ॥
न्यासैर्यथाविधि तमच्युतसाद्विधाय
गद्न्हाक्षतादिभिरलङ्कृतवर्ष्मणोऽस्य ।
ऋष्यादियुक्तमथ मन्त्रवरं यथावद्
ब्रूयात् त्रिशो गुरुरनर्घ्यमवामकरेण ॥ १८ ॥
गुरुणा विधिवत् प्रसादितं
मनुमष्टोर्ध्वशतं प्रजप्य भूयः ।
अभिवाद्य ततः शृणोतु सम्यक्
समयान् भक्तिभरेण नम्रमूर्तिः ॥ १९ ॥
दत्त्वा शिष्याय मनुं न्यस्याथ गुरुः कृतात्मयजनविधिः ।
अष्टोत्तरं सहस्रं स्वशक्तिहान्यनवाप्तये जप्यात् ॥ २० ॥
कुम्भादिकं च सकलं गुरवे समर्प्य
सम्भोजयेद् द्विजवरान् अपि भोज्यजातैः ।
कुर्वन्त्य्ह् अनेन विधिना य इहाभिषेकं
ते सम्पदां निलयनं हि त एव धन्याः ॥ २१ ॥
सङ्क्षिप्य किंचिद् उदिता दीक्षा
संस्मरणाय हि विशदधियाम् ।
एतां प्रविश्य मन्त्री सर्वान्
जपेज्जुहोतु यजेच्च मनून् ॥ २२ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
नवमोऽध्यायः
॥ ३.९ ॥
(३.१०)
तृतीयरात्रे दशमोऽध्यायः
श्रीव्यास उवाच --
चैत्रे कृत्वैतन् मासि कर्माच्छपक्षे
पुण्यर्क्षे भूयो देशिकात् प्राप्य दीक्षाम् ।
तेनानुज्ञातः पूर्वसेवां द्वितीये
मासि द्वादश्यामारभेतामलायाम् ॥ १ ॥
कृत्वा स्नानाद्यं कर्म देहार्चनान्तं
वर्त्माश्रित्य प्राग् ईरितं मन्त्रिमुख्यः ।
शुद्धो मौनी सन् ब्रह्मचारी निशाशी
जप्याच्छान्तात्मा शुद्धपद्माक्षदाम्ना ॥ २ ॥
तन्वन् शुश्रूषां गोषु ताभ्यः प्रयच्छन्
ग्रासं भूतेषु प्रोद्वहश्चानुकम्पाम् ।
मन्त्राधिष्ठात्रिं देवतां वन्दमानो
दुर्गां दुबोधध्वान्तभानुं गुरुं च ॥ ३ ॥
कुर्वन्न् आत्मीयं कर्म वर्णाश्रमस्थं
मन्त्रं जप्त्वा त्रिः स्नानकालेऽभिषिञ्चेत् ।
आचामन् पाथस्तत्त्वसङ्ख्याप्रजप्तं
भुञ्जानश्चान्नं सप्तजप्ताञ्चनादि ॥ ४ ॥
अद्रेः शृङ्गे नद्यास्तटे बिल्वमूले
तोये हृदघ्ने गोकुलविष्णुगेहे ।
अश्वत्थाधस्ताद् अम्बुधेश्चापि तीरे
स्थानेष्वेतेष्वासीन एकैकशस्तु ॥ ५ ॥
प्रजपेद् युतचतुष्कं दशाक्षरं मनुवरं पृथक् क्रमशः ।
अष्टादशाक्षरं चेद् अयुतद्वयमित्युदीरिता सङ्ख्या ॥ ६ ॥
शाकं मूलं फलं गोस्तनभवदधिनी भैक्षमन्नं च सक्तुं
दुग्धान्नं चेत्यदानः क्षितिधरशिखरादौ क्रमात् स्थानभेदे ।
एकं चैषामशक्तौ गदितमिह मया पूर्वासेवाविधानं
निर्वृत्तेऽस्मिन् पुनश्च प्रजपतु विधिवत् सिद्धये साधकेशः ॥ ७ ॥
देहार्चनान्ते दिनशो दिनादौ
दीक्षोक्तमार्गान्यतरं विधानम् ।
आश्रित्य कृष्णं प्रयजेद् विविक्ते
गेहे निषण्णो हुतशिष्टभोजी ॥ ८ ॥
दशलक्षमक्षयफलप्रदं मनुं
प्रतिजप्य शिक्षितमतिर्दशाक्षरम् ।
जुहुयाद् गुडाज्यमधुसम्प्लुतैर्नवैर्
अरुणाम्बुजैर्हुतवहे दशायुतम् ॥ ९ ॥
शुषिरयुगलवर्णं चेन् मनुं पञ्चलक्षं
प्रजपतु जुहुयाच्च प्रोक्तकॢप्त्यार्धलक्षम् ।
अमलमतिरलाभे पायसैरम्बुजानां
सहितघृतसितैरेवारभेद् धोमकर्म ॥ १० ॥
असक्तानां होमे निगमरसनागेन्द्रगुणितो
जपः कार्यश्चेति दिव्जनृपविशामाहुरपरे ।
सहोमश्चेद् एषां सम इह जपो होमरहितो
य उक्तो वर्णानां स खलु विहितस्तच्चलदृशाम् ॥ ११ ॥
यं वर्णमाश्रितो यः शूद्रः स च तन्नतभ्रुवाम् ।
विदधीत जपं विधिवच्छ्रद्धावान् भक्तिभरावनम्रतनुः ॥ १२ ॥
पुनरभिषिक्तो गुरुणा विधिवद् विश्राण्य दक्षिणां तस्मै ।
अभ्यवहार्य च विप्रान् विभवैः सम्प्रीणयेच्च भक्तियुतः ॥ १३ ॥
इति मन्त्रवरद्वितयान्यतरं
परिसाध्य जपादिभिरच्युतधीः ।
प्रजपेत् सवनत्रितये दिनशो
विधिनाथ मुकुन्दममन्दमतिः ॥ १४ ॥
अथ श्रीमदुद्यानसंवीतहैम
स्थलोद्भासिरत्नस्फुरन्मण्डपान्तः ।
लसत्कल्पवृक्षाध उद्दीप्तरत्न
स्थलीधिष्ठिताम्भोजपीठाधिरूढम् ॥ १५ ॥
महानीलनीलाभमत्यन्तबालं
गुडस्निग्धवक्त्रान्तविस्रस्तकेशम् ।
अलिव्रातपर्याकुलोत्फुल्लपद्म
प्रमुग्धाननं श्रीमद् इन्दीवराक्षम् ॥ १६ ॥
(षेए नारदपुराण १.८०.७७फ़्फ़्)
चलत्कुण्डलोल्लासिसम्फुल्लगण्डं
सुघोणं सुशोणाधरं सुस्मितास्यम् ।
अनेकाश्मरश्म्युल्लसत्कण्ठभूषा
लसन्तं वहन्तं नखं पौण्डरीकम् ॥ १७ ॥
समुद्धूसरोरःस्थलं धेनुधूल्याः
सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् ।
कटीरस्थले चारुजङ्घान्तयुग्मे
पिनद्धं क्वणत्किङ्किणीजालदाम्ना ॥ १८ ॥
हसन्तं हसद्बन्धुजीवप्रसून
प्रभां पाणिपादाम्बुजोदारकान्त्या ।
करे दक्षिणे पायसं वामहस्ते
दधानं नवं शुद्धहैयङ्गवीनम् ॥ १९ ॥
महीभारभूतामरारातियूथान्
अनःपूतनादीन् निहन्तुं प्रवृत्तम् ।
प्रभुं गोपिकागोपगोवृन्दवीतं
सुरेन्द्रादिभिर्वन्दितं देववृन्दैः ॥ २० ॥
प्रगे पूजयित्वेत्त्यनुस्मृत्य कृष्णं
तदङ्गेन्द्रवज्रादिकैर्भक्तिनम्रः ।
सितामोचहैयङ्गवीनैश्च दध्ना
विमिश्रेण दौग्धेन सम्प्रीणयेत् तम् ॥ २१ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
दशमोऽध्यायः
॥ ३.१० ॥
(३.११)
तृतीयरात्रे एकादशोऽध्यायः
इति प्रातरेवार्चयेद् अच्युतं यो
नरः प्रत्यहं शश्वद् आस्तिक्ययुक्तः ।
लभेताचिरेणैव लक्ष्मीं समग्राम्
इह प्रेत्य शुद्धं परं धाम भूयात् ॥ १ ॥
अह्नो मुखेऽनुदिनमित्यभिपूज्य शौरिं
दध्नाथ वा गुडयुतेन निवेद्य तोयैः ।
श्रीमन्मुखे समनुतर्प्य च तद्धिया तं
जप्यात् सहस्रमथ साष्टकमादरेण ॥ २ ॥
मध्यन्दिने जपविधानविशिष्टरूपं
वन्द्यं सुरर्षियतिखेचरमुख्यवृन्दैः ।
गोगोपगोपवनितानिकरैः परीतं
सान्द्राम्बुदच्छविसुजातमनोहराङ्गम् ॥ ३ ॥
मयूरपत्रपरिकॢप्तवतंसरम्य
धम्मिल्लमुल्लसितचिल्लिकमम्बुजाक्षम् ।
पूर्णेन्दुबिन्दुवदनं मणिकुण्डलश्री
गण्डं सुनासमतिसुन्दरमन्दहासम् ॥ ४ ॥
पीताम्बरं रुचिरनूपुरहारकाञ्ची
केयूरकोमिकटकादिभिरुज्ज्वलाङ्गम् ।
दिव्यानुलेपनपिशङ्गितमसराजद्
अम्लानचित्रवनमालमनङ्गदीप्तम् ॥ ५ ॥
वेणुं धमन्तमथवा स्वकरे दधानं
सव्येतरे पशुपयष्टिमुदारवेषम् ।
दक्षे मणिप्रवरमीप्सितदानदक्षं
ध्यात्वैवमर्चयतु नन्दजमिन्दिराप्त्यै ॥ ६ ॥
दामादिकाङ्गदयितासुहृदङ्घ्रिपेन्द्र
वज्रादिभिः समभिपूज्य यथाविधानम् ।
दीक्षाविधिप्रकथितं च निवेद्य जातं
हैमे निवेदयतु पात्रवरे यथावत् ॥ ७ ॥
अष्टोत्तरं शतमथो जुह्यात् पयोऽन्नैः
सर्पिःप्लुतैः सुसितशर्करया विमिश्रैः ।
दद्याद् बलिं च निजदिक्षु सुरर्षियोगि
वर्गोपदैवतगणेभ्य उदग्रचेताः ॥ ८ ॥
नवनीतमिलितपायसधियार्चनान्ते जलैर्मुखे तस्य ।
सन्तर्प्य जपतु मन्त्री सहस्रमष्टोत्तरशतं वापि ॥ ९ ॥
अह्नो मध्ये वल्लवीवल्लभं तं
नित्यं भक्त्याभ्यर्चयेत् यो नराग्र्यः ।
देवाः सर्वे तं नमस्यन्ति शश्वत्
वर्तेरन् वै तद्वशे सर्वलोकाः ॥ १० ॥
मेधायुःश्रीकान्तिसौभाग्ययुक्तः
पुत्रैर्मित्रैर्गोमहीरत्नधान्यैः ।
भोगैश्चान्यैर्भूरिभिः सन्निहाढ्यो
भूयान् भूयो धाम तच्चाच्युताख्यम् ॥ ११ ॥
तृतीयकालपूजायामस्ति कालविकल्पना ।
सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः ॥ १२ ॥
दशाक्षरेण चेद् रात्रौ सायाह्नेऽष्टादशार्णतः ।
उभयीमुभयेनैव कुर्याद् इत्यपरे जगुः ॥ १३ ॥
सायाह्ने द्वारवत्यं तु चित्रोद्यानोपशोभिते ।
द्व्यष्टसाहस्रसङ्ख्यातैर्भवनैरभिसंवृते ॥ १४ ॥
हंससारससङ्कीर्णैः कमओल्त्पलशालिभिः ।
सरोभिरमलाम्भोभिः परीते भवनोत्तमे ॥ १५ ॥
उद्यत्प्रद्योतनद्योतसद्युतौ मणिमण्डपे ।
मृद्वास्तरे सुखासीनं हेमाम्भोजासने हरिम् ॥ १६ ॥
नारदाद्यैः परिवृतमात्मतत्त्वविनिर्णये ।
तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम् ॥ १७ ॥
इन्दीवरनिभं सौम्यं पद्मपत्रोरुणेक्षणम् ।
स्निग्धकुन्तलसम्भिन्नकिरीटमुकुटोज्ज्वलम् ॥ १८ ॥
चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ।
श्रीवत्सवक्षसं भ्राजकौस्तुभं वनमालिनम् ॥ १९ ॥
काश्मीरकपिशोरस्कं पीतकौशेयवाससम् ।
हारकेयूरकटकरसनाद्यैः परिष्कृतम् ॥ २० ॥
हृतविश्वम्भराभूरिभारं मुदितमानसम् ।
शङ्खचक्रगदापद्मराजद्भुजचतुष्टयम् ॥ २१ ॥
एवं ध्यात्वार्चयेन् मन्त्री तदङ्गैः प्रथमावृतिम् ।
द्वितीयां महिषीभिस्तु तृतीयायां समर्चयेत् ॥ २२ ॥
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ।
विश्वक्सेनं च सैनेयं दिक्ष्वग्रे विनतासुतम् ॥ २३ ॥
लोकेशैस्तत्प्रहरणैः पुनरावरणद्वयम् ।
इति सम्पूज्य विधिवत् पायसेन निवेदयेत् ॥ २४ ॥
तर्पयित्वा खण्डमिश्रैर्दग्धबुद्ध्या जलैर्हरिम् ।
जपेद् अष्टशतं मन्त्री भावयन् पुरुषोत्तमम् ॥ २५ ॥
पूजासु होमं सर्वासु कुर्यान् मध्यन्दिनेऽथवा ।
आसनाद् अर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत् सुधीः ॥ २६ ॥
समर्प्यात्मानमुद्वास्य तत् स्वे हृत्सरसीरुहे ।
विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ॥ २७ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
एकादशोऽध्यायः
॥ ३.११ ॥
(३.१२)
तृतीयरात्रे द्वादशोऽध्यायः
सायाह्ने वासुदेवं यो नित्यमेव यजेन् नरः ।
सर्वान् कामान् अवाप्यान्ते स याति परमां गतिम् ॥ १ ॥
रात्रौ चेन् मन्मथाक्रान्तमानसं देवकीसुतम् ।
यजेद् रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥ २ ॥
पृथुं सुवृत्तं मसृणं वितस्ति
मात्रोन्नतं कौ विनिखन्य शङ्कुम् ।
आक्रम्य पद्भ्यामितरेतरात्त
हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥ ३ ॥
स्थलनीरजसूनपरागभृता
लहरीकणजालभरेण सता ।
मरुता परितापहृताध्युषिते
विपुले यमुनापुलिने विमले ॥ ४ ॥
अशरीरनिशान्तशरोन्मथित
प्रमदाशतकोटिभिराकुलिते ।
उडुनाथकरिर्विशदीकृतदिक्
प्रसरे विचरद्भ्रमरीनिकरे ॥ ५ ॥
विद्याधरकिन्नरसिद्धसुरैः
गन्धर्वभुजङ्गमचारणकैः ।
दारोपहितैः सुविमानगतैः
स्वस्थैरभिवृष्टसुपुष्पचयैः ॥ ६ ॥
इतरेतरबद्धकरप्रमदा
गणकल्पितरासविहारविधौ ।
मणिशङ्कुगमप्यमुनावपुषा
बहुधा विहितस्वकदिव्यतनुम् ॥ ७ ॥
सुदृशामुभयोः पृथगन्तरगं
दयितागणबद्धभुजद्वितयम् ।
निजसङ्गविजृम्भदनङ्गशिखि
ज्वलिताङ्गलसत्पुलकालियुजाम् ॥ ८ ॥
विविधश्रुतिभिन्नमनोज्ञतर
स्वरसप्तकमूर्च्छनतालगणैः ।
भ्रममाणममूभिरुदारमणि
स्फुटमण्डनशिञ्जितचारुतरम् ॥ ९ ॥
इति भिन्नतनुं मणिभिर्मिलितं
तपनीयमयिरिव भारकतम् ।
मणिनिर्मितमध्यगशङ्कुलसद्
विपुलारुणपङ्कजमध्यगतम् ॥ १० ॥
अतसीकुसुमाभतनुं तरुणं
तरुणारुणपद्मपलाशदृशम् ।
नवपल्लवचित्रसुगुच्छलसच्
छिखिपिच्छपिनद्धकचप्रचयम् ॥ ११ ॥
चटुलभ्रुवमिन्दुसमानमुखं
मणिकुण्डलमण्डितगण्डयुगम् ।
शशरक्तसदृक्दशनच्छदनं
मणिराजदनेकविधाभरणम् ॥ १२ ॥
असनप्रसवच्छदनोज्ज्वलसद्
वसनं सुविलासनिवासभुवम् ।
नवविद्रुमभद्रकराङ्घ्रितलं
भ्रमराकुलदामविराजितनुम् ॥ १३ ॥
तरुणीकुचयुक्परिरम्भमिलद्
घुसृणारुणवक्षसमुक्षगतिम् ।
शिववेणुसमीरितगानपरं
स्मरविह्वलितं भुवनैकगुरुम् ॥ १४ ॥
प्रथमोदितपीठवरे विधिवत्
प्रयजेद् इति रूपमरूपमजम् ।
प्रथमं परिपूज्य तदङ्गवृत्तिं
मिथुनानि यजेद् रसगानि ततः ॥ १५ ॥
दलषोडशके स्वरमूतिगणं
सहशक्तिकमुत्तमरासगतम् ।
सरमामदनम् स्वकलासहित
मिथुनाह्वमथेन्द्रपविप्रमुखान् ॥ १६ ॥
इति सम्यग् अमुं परिपूज्य हरिं
चतुरावृतिसंवृतमार्द्रमतिः ।
रजतारचिते चषके ससितं
सुशृतं सुपयोऽस्य निवेदयतु ॥ १७ ॥
विभवे सति कंस्यमयेषु पृथक्
चषकेषु तु षोडशसु क्रमशः ।
मिथुनेषु निवेद्य पयः ससितं
विदधीत पुरोवद् अथो सकलम् ॥ १८ ॥
सकलभुवनमोह्नं विधिं यो
नियतममुं निशि निश्युदारचेताः ।
भजति स खलु सर्वलोकपूज्यः
श्रियमतुलां समवाप्य यात्यनन्तम् ॥ १९ ॥
निशि वा दिनान्तसमये
प्रपूजयेन् नित्यशोऽच्युतं भक्त्या ।
समपहलमुभयं हि ततः
संसाराब्धिं समुत्तितीर्षति यः ॥ २० ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
द्वादशोऽध्यायः
॥ ३.१२ ॥
(३.१३)
तृतीयरात्रे त्रयोदशोऽध्यायः
इत्येवं मनुविग्रहं मधुरिपुं यो वा त्रिकालं यजेत्
तस्यैवाखिलजन्तुजातदयितस्याम्भोधिजावेश्मनः ।
हस्ते धर्मसुखार्थमोक्षतरवः सद्वर्गसम्प्रार्थिताः
सान्द्रानन्दमहारसद्रवमुचो येषां फलश्रेणयः ॥ १ ॥
तर्पयामि पदं योज्यं मन्त्रान्ते स्वेषु नामसु ।
द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् ॥ २ ॥
अभ्युक्ष्य तत्प्रसादाद्भिरात्मानं प्रपिबेद् अपः ।
तज्जप्त्वा तमथोद्वास्य तन्मयः प्रजपेन् मनुम् ॥ ३ ॥
अथ द्रव्याणि काम्येष् वक्ष्यन्ते तर्पणेषु तु ।
तानि प्र्क्तविधानानामाश्रित्यान्यतरं भजेत् ॥ ४ ॥
विंशतिरष्टोपेता कालत्रयतर्पणेषु सङ्ख्योक्ता ।
भूयः स्वकलविहितान् सकऋत् तर्पयेच्च परिवारान् ॥ ५ ॥
प्रातर्दधिगुडमिश्रं मध्याह्ने पायसं सनवनीतम् ।
क्षीरं तृतीयकाले ससितोपलमित्युदीरितं द्रव्यम् ॥ ६ ॥
तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु ।
द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् ॥ ७ ॥
अभ्युक्ष्य तत्प्रसादाद्भिरात्मानं प्रतिवेदपः ।
तज्जप्त्वा तमथोद्वास्य तन्मयः प्रजपेन् मनुम् ॥ ८ ॥
अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु ।
तानि प्रोक्तविधानानामाश्रित्यान्यतरं भजेत् ॥ ९ ॥
द्रव्यैः षोडशभिरमु प्रतर्पयेद् एकशश्चतुर्वारम् ।
स चतुःक्षीराद्यन्तैः सकृज्जलाद्यन्तमच्युतं भक्त्या ॥ १० ॥
पायसदाधिककृसरङ्गौडान्नपयोदधीनि नवनीतम् ।
आज्यं कदलीमोचारजस्वलाचोचमोदकापूपम् ॥ ११ ॥
पृथुकं लाजोपेतं द्रव्याणां कथितमिह षोडशकम् ।
लाजान्तेऽन्त्यक्षीरात् प्राक् समर्प्य सितोपलापुञ्जैः ॥ १२ ॥
प्रगे चतुःसप्ततिवारमित्यमुं
प्रतर्पयेद् योऽनुदिनं नरो हरिम् ।
अनन्यधीस्तस्य समस्तसम्पदः
करे स्थिता मण्डलतोऽभिवाञ्छिताः ॥ १३ ॥
धारोष्णपक्वपयसीदधिनवनीते घृतं च दौग्धान्नम् ।
मत्स्यण्डीमध्वमृतं द्वादशशः तर्पयेन् नवभिरेभिः ॥ १४ ॥
तर्पणविधिरयमपरः पूर्वोदितसमफलोऽष्तशसङ्ख्यः ।
कार्मणकर्मणि कीर्तौ जनसंवनने विशेषतो विहितः ॥ १५ ॥
सखण्डधारोष्णधियामुकुन्दं
व्रजन् पुरग्राममपि प्रतर्प्य ।
लभेत भोज्यं सरसं सभृत्यैर्
वासांसि धान्यानि धनानि मन्त्री ॥ १६ ॥
यावत् सन्तर्पयेन् मन्त्री तावत्सङ्ख्यं जपेन् मनुम् ।
तर्पणेनैव कार्याणि साधयेद् अखिलान्यपि ॥ १७ ॥
द्विजोभिक्षावृत्तिर्य इह दिनशो नन्दतनयः
स्वयं भूत्वा भिक्षामटति विहरन् गोपसुदृशाम् ।
अमा चेतोभिः स्व्वैर्ललितललितैर्नर्मविधिभिर्
दधिक्सीराज्याढ्यां प्रचुरतरभिक्षां स लभते ॥ १८ ॥
मध्ये कोणेषु षट्स्वप्यनलपुटस्यालिखेत् कर्णिकायां
कन्दर्पं साध्ययुक्तं विवरगतषडर्णं द्विशः केशरेषु
शक्तिश्रीपूर्वकानिद्विनवलिपिमनोरक्षराणि च्छदानां
मध्ये वर्णान् दशानां दशलिपिमनुवर्यस्य चैकेकशोऽब्जम् ॥ १९ ॥
भूसद्मनाभिवृतमस्रगमन्मथेन
गोरोचनाभिलिखितं तपनीयसूच्या ।
पट्टे हिरण्यरचिते गुलिकीकृतं तद्
गोपालयन्त्रमखिलार्थदमेतद् उक्तम् ॥ २० ॥
सम्पातसिक्तमभिजप्तमिदं महद्भिर्
धार्यं जगत्त्रयवशीकरणैकदक्षम् ।
रक्षायशःसुतमहीधनधान्यलक्ष्मी
सौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम् ॥ २१ ॥
भूतोन्मादापस्मृतिविषमूर्च्छाविभ्रमज्वरार्तानाम् ।
ध्यायन् शिरसि प्रजपेन् मन्त्रमिमं झटिति शमयितुं विकृतिम् ॥ २२ ॥
स्मरत्रिविक्रमाक्रान्तश्चक्रीष्णायहृद् इत्यसौ ।
षडक्षरोऽयं सम्प्रोक्तः सर्वसिद्धिकरो मनुः ॥ २३ ॥
क्रोडोऽग्निदीप्तो मायावीलवलाञ्छितमस्तकः ।
सैषा शक्तिः परा सूक्ष्मा नित्या संवित्स्वरूपिणी ॥ २४ ॥
अस्थ्यग्निगोविन्दलवैर्लक्ष्मीबीजं समीरितम् ।
आभ्यामष्टादशलिपिः स्याद् विंशत्यक्षरो मनुः ॥ २५ ॥
शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च ।
नित्यं पूजा हरेः कार्या न तु केवलभूतले ॥ २६ ॥
इति जपहुतपूजातर्पणाद्यैर्मुकुन्दं
य इह भजति मवोरेकमाश्रित्य नित्यम् ।
स तु सुचिरमयत्नात् प्राप्य भोगान् विशेषान्
पुनरमलतरन्तद्धाम विष्णोः प्रयाति ॥ २७ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
त्रयोदशोऽध्यायः
॥ ३.१३ ॥
(३.१४)
तृतीयरात्रे चतुर्दशोऽध्यायः
विनियोगान् अथो वक्ष्ये मन्त्रयोरुभयोः समान् ।
तदर्थकारिणोऽनन्तवीर्यान् मन्त्रांश्च कांश्चन ॥ १ ॥
वन्दे तं देवकीपुत्रं सद्योजातं द्युसप्रभम् ।
पीताम्बरं करलसच्छङ्खचक्रगदाम्बुजम् ॥ २ ॥
एवं ध्यात्वा जपेल् लक्षं मन्त्रं ब्राह्मे मुहूर्तके ।
स्वादुप्लुतैश्च कुसुमैः पलाशैरयुतं हुनेत् ॥ ३ ॥
मन्वोरन्यतरेणैवं कुर्याद् यः सुसमाहितः ।
स्मृतिं मेधां मतिबलं लब्ध्वा स कविराड् भवेत् ॥ ४ ॥
स्यान् मनुस्तत् समजपध्यानहोमफलोऽपरः ।
श्रीमन्मुकुन्दचरणौ सदेति शरणं ततः ॥ ५ ॥
अहं प्रपद्य इत्युक्तो मौकुन्दोऽष्टादशाक्षरः ।
नारदोऽस्य तु गायत्री मुकुन्दश्चषिपूर्वकाः ॥ ६ ॥
प्रातः प्रातः पिबेत् तोयं जप्तं योऽष्तोत्तरं शतम् ।
अनेन षड्भिर्मासैः स भवेच्छ्रुतधरो नरः ॥ ७ ॥
उपसंहृतदिव्याङ्गं पुरोवन् मातुरङ्कगम् ।
चलद्दोश्चरणं बालं नीलाभं संस्मरन् जपेत् ॥ ८ ॥
अयुतं तावद् एवाज्यैर्जुहुयाच्च हुताशने ।
स लभेद् अचलां भक्तिं श्रद्धां शान्तिं च शाश्वतीम् ॥ ९ ॥
मनुनैतत्समस्तान्ते मरुन्नमितशब्दितः ।
बाललीलात्मने हुं फट् नम इत्यमुनाथवा ॥ १० ॥
नलकूवरगायत्रीबालकृष्णा इतीरिताः ।
ऋस्याद्याः सिद्धयः सर्वाः स्युर्जपाद्यैरिहामुना ॥ ११ ॥
लम्बितं बालशयने रुदन्तं वल्लवीजनैः ।
प्रेक्ष्यमाणं दुग्धबुद्ध्या तर्पयेत् सोऽश्नुतेऽशनम् ॥ १२ ॥
अमुना वान्नरूपान्ते रसरूपपदं वदेत् ।
तुष्टरूप नमो द्वन्द्वमन्नाधिपतये मम ॥ १३ ॥
अन्नं प्रयच्छ स्वाहेति त्रिंशदर्णोऽन्नदो मनुः ।
नारदानुष्टुबन्नाधिपतयोऽस्यर्षिपूर्वकाः ॥ १४ ॥
भूतबालग्रहोन्मादस्मृतिभ्रंशाद्युपद्रवैः ।
पूतनास्तनपातारं ग्रस्तमूर्ध्नि स्मरन् जपेत् ॥ १५ ॥
सासुचूषणनिर्भिन्नसर्वाङ्गीं रुदतीं च ताम् ।
आविश्य सर्वे मुक्त्वा तं विद्रवन्ति द्रुतं ग्रहाः ॥ १६ ॥
जुहुयात् खरमञ्जर्या मञ्जरीभिर्विभावसौ ।
सुस्नातः पञ्चगव्याद्भिः पूतनाहन्तुरानने ॥ १७ ॥
प्राशयेच्छिष्टगव्यं तत्कलशेनाभिषेचयेत् ।
साध्यं सहस्रजप्तेन सर्वोपद्रवशान्तये ॥ १८ ॥
अमुनैतद् द्वादशार्णं हुं फट् स्वाहान्तकेन वा ।
ऋष्याद्या ब्रह्मगायत्रीग्रहघ्नहरयोऽस्य तु ॥ १९ ॥
निजपादाम्बुजाक्षिप्तशकटं चिन्तयन् जपेत् ।
अयुतं मन्त्रयोरेकं सर्वविघ्नोपशन्तये ॥ २० ॥
अङ्गान्यमीषां मन्त्राणामाचक्रादिभिरर्चना ।
अङ्गैरिन्द्रादिवज्राद्यैरुदिता सम्पदे सदा ॥ २१ ॥
बालो नीलतनुर्दोर्भ्यां दध्युत्थं पायसं दधत् ।
हरिर्वोऽव्याद् द्वीपिनखकिङ्किणीजालमण्डितः ॥ २२ ॥
ध्यात्वैवाग्नौ जुहुयात् शतवीर्याङ्कुरत्रिकैः ।
पयःसर्पिःप्लुतैर्लक्षमेकं तावज्जपेन् मनुम् ॥ २३ ॥
गुरवे दक्षिणां दत्त्वा भोजयेद् द्विजपुङ्गवान् ।
स ह्यब्दानां शतं जीवेन् न रोगो नात्र संशयः ॥ २४ ॥
अत्रापरो मनुर्द्वादशार्णान्ते पुरुषोत्तम ।
आयुर्मे देहि सम्भाष्य विष्णवे प्रभविष्णवे ॥ २५ ॥
नमोऽन्तो द्व्यधिकत्रिंशदर्णोऽस्यार्षिस्तु नारदः ।
छन्दोऽनुष्टुप्देवता च श्रीकृष्णोऽङ्गान्यतो ब्रुवे ॥ २६ ॥
रविभूतेन्द्रियवसुनेत्रार्णैश्चात्मने युतैः ।
महानन्दपदज्योतिर्मायाविद्यापदैः क्रमात् ॥ २७ ॥
जप्त्वा लक्षमिमं मन्त्रमयुतं पायसैर्हुनेत् ।
पूर्ववद् दूर्वया जुह्वद् आयुर्दीर्घतरं लभेत् ॥ २८ ॥
दारयन्तं बकं दोर्भ्यां कृष्णं संगृह्य तुण्डयोः ।
स्मरन् शिशूनामातङ्के स्पृष्ट्वाऽयतरमभ्यसेत् ॥ २९ ॥
तज्जप्ततिलजाभ्यङ्गाद् भवेयुः सुखिनश्च ते ।
अत्राप्यन्यो मनुर्बालवपुषे वह्निवल्लभा ॥ ३० ॥
गोरक्षायां क्वणद्वेणुं चारयन्तं पशूंस्तथा ।
उक्त्वा गोपालकपदं पुनर्वेशधराय च ॥ ३१ ॥
वासुदेवाय वर्मास्त्रशिरांस्यष्टादशाक्षर ।
मनोर्नारदगायत्रीकृष्णर्ष्यादिरनेन वा ॥ ३२ ॥
कुर्याद् गोपालसंरक्षामाचक्राद्यङ्गिना बुधः ।
कुम्भीनसादिक्ष्वेडार्तौ दष्टमूर्ध्नि स्मरन् हरिम् ॥ ३३ ॥
नृत्यन्तं कालियफणारङ्गेऽन्यतरमभ्यसेत् ।
दृशा पीयूषवर्षिण्या सिञ्चन्तं तत् तनुं बुधः ॥ ३४ ॥
तर्जयन् वामतर्जन्या तं द्राङ् मोचयते विषात् ।
आपूर्वकलशं तोयैः स्मृत्वा कालियमर्दनम् ॥ ३५ ॥
जप्त्वाष्टशतमासिञ्चेद् विषिणं स सुखी भवेत् ।
काव्यमध्ये लियस्यान्ते फणामध्येदिवर्णकान् ॥ ३६ ॥
उक्त्वा पुनर्वदेन् नृत्यं करोति तमनन्तरम् ।
नमामि देवकीपुत्र इत्युक्त्वा नृत्यशब्दतः ॥ ३७ ॥
राजानमच्युतं ब्रूयाद् इति दन्तलिपिर्मनुः ।
अस्याङ्गान्यङ्घ्रिभिर्न्यस्तैः समस्तैर्नारदो मुनिः ॥ ३८ ॥
छन्दोऽनुष्टुब् देवता च कृष्णः कालियमर्दनः ।
जप्यो लक्षं मनुरयं होतव्यं सर्पिषायुतम् ॥ ३९ ॥
अङ्गदिक्पालवज्राद्यैरर्चनास्य समीरिता ।
क्रिया सर्वा च कर्तव्या विसघ्नी पूर्वमीरिता ॥ ४० ॥
सदृशोऽनेन जगति नहि क्ष्वेअहरो मनुः ।
अङ्गैः शुकतरोः पिष्टैर्गुलिका धेनुवारिणा ॥ ४१ ॥
आननस्याञ्जनालेपैर्विषघ्नी साधितामुना ।
उद्दण्डवामदोर्दण्डधृतगोवर्धनाचलम् ॥ ४२ ॥
अन्यहस्ताङ्गुलीव्यक्तस्वरवंशार्पिताननम् ।
ध्यायन् हरिं जपन् मन्वोरेकं छत्रं विना व्रजेत् ॥ ४३ ॥
वर्षवाताशनिभ्यः स्याद् भयं तस्य नहि क्वचित् ।
मोघमेघौघयत्नापगतेन्द्रं तं स्मरन् हुनेत् ॥ ४४ ॥
लोलैरयुतसङ्ख्यातैरनावृष्टिर्न संशयः ।
क्रीडन्तं यमुनातोये मज्जनप्लवनादिभिः ॥ ४५ ॥
तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः ।
ध्यात्वायुतं पयःसिक्तैर्हुनेद् वानीरतर्पणैः ॥ ४६ ॥
वृष्टिर्भवत् कालेऽपि महती नात्र संशयः ।
अमुमेव स्मरन् मूर्ध्नि विषस्फोटज्वरादिभिः ॥ ४७ ॥
सदाहमोहैरार्तस्य जपेच्छान्तिर्भवेत् क्षणात् ।
अथवा गरुदारूढं बलप्रद्युम्नसंयुतम् ॥ ४८ ॥
निजज्वरविनिष्पिष्टज्वराभिष्टुतमच्युतम् ।
ध्यात्वा ज्वराभिभृत्यस्य मूर्ध्न्यन्यतरमभ्यसेत् ॥ ४९ ॥
शान्तिं व्रजेद् असाध्योऽपि ज्वरः सोपद्रवः क्षणात् ।
ध्यात्वैवमग्नावभ्यर्च्य पयोक्तैश्चतुरङ्गुलैः ॥ ५० ॥
जुहुयाद् अमृताखण्डैरयुतं ज्वरशान्तये ।
निशातशरनिर्भिन्नभीष्मतापनुदं हरिम् ॥ ५१ ॥
स्मृत्वा स्पृशन् जपेद् आर्तं पाणिभ्यां रोगशान्तये ।
अपमृत्युविनाशाय सान्दीपनिसुतप्रदम् ॥ ५२ ॥
ध्यात्वामृतलताखण्डैः क्षीराक्तैरयुतं हुनेत् ।
मृतपुत्राय ददतं सुतान् विप्राय सार्जुनम् ॥ ५३ ॥
ध्यात्वा लक्षं जपेद् एकं मन्वोः सुतविवृद्धये ।
पुत्रजीवेन्धनयुते जुहुयाद् अनलेऽयुतम् ॥ ५४ ॥
तत्फलैर्मधुराक्तैः स्युः पुत्रा दीर्घायुषोऽस्य तु ।
क्षीरद्रुक्काथसम्पूर्णमभ्यर्च्य कलशं निशि ॥ ५६ ॥
जप्त्वायुतं प्रगे नारीमभिषिञ्चेद् द्विषट्दिनम् ।
सा बन्ध्यापि सुतान् दीर्घजीविनो गदवर्जितान् ॥ ५७ ॥
लभते नात्र सन्देहस्तज्जप्ताज्याशिनी सती ।
प्रातर्वाचंयमा नारी बोधिच्छदपुटे जलम् ॥ ५८ ॥
मन्त्रयित्वाष्टोत्तरशतं पिबेत् पुत्रीयती ध्रुवम् ।
प्रहितां काशिराजेन कृत्यां छित्वा निजारिणा ॥ ५९ ॥
तत्तेजसा तन्नगरीं दहन्तं भावयन् हरिम् ।
स्वस्नेहाक्तैर्हुनेद् रात्रौ सर्षपैः सप्तवासरम् ॥ ६० ॥
कृत्या कर्तारमेवासौ कुपिता नाशयेद् ध्रुवम् ।
आसीनमाश्रमे दिव्ये बदरीषण्डमण्डिते ॥ ६१ ॥
स्पृशन्तं पाणिपद्माभ्यां घण्टाकर्णकलेवरम् ।
ध्यात्वाच्युतं तिलैर्लक्षं हुनेत् त्रिमधुराप्लुतैः ॥ ६२ ॥
मुक्तये सर्वपापानां शान्तये कान्तये तनोः ।
द्वेषयन्तं रुक्मिबलौ द्यूतासक्तौ स्मरन् हरिम् ॥ ६३ ॥
जुहुयाद् इष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः ।
ज्वलद्वह्निमुखैर्बाणैर्वर्षन्तं गरुडध्वजम् ॥ ६४ ॥
धावमानं रिपुगणमनुधावन्तमच्युतम् ।
ध्यात्वैवमभ्यसेन् मन्वोरेकं सप्तसहस्रकम् ॥ ६५ ॥
उच्चाटनं भवेद् एतद् रिपूणां सप्तभिर्दिनैः ।
उत्क्षिप्तवत्सकं ध्यायन् कपित्थफलहारिणम् ॥ ६६ ॥
अयुतं प्रजपेत् साध्यमुच्चाटयति तत्क्षणात् ।
आत्मानं कंसमथनं ध्यात्वा मञ्चान् निपातितम् ॥ ६७ ॥
कंसात्मानमरिं कर्षन् गतासुं प्रजपेन् मनुम् ।
अयुतं जुहुयाद् वास्य जन्मोडुतरुतपणैः ॥ ६८ ॥
अपि सेवितपीयूषो म्रियतेऽरिर्न संशयः ।
अथवा निम्बतैलाक्तैर्हुनेद् एधोभिरक्षजैः ॥ ६९ ॥
अयुतं प्रयतो रात्रौ मरणाय रिपोः क्षणात् ।
दोषारिष्टदलव्योषकार्पासास्थिकणैर्निशि ॥ ७० ॥
हुनेद् एरण्डतैलाक्तैः स्मशानस्थोऽरिशान्तये ।
न शस्तं मारणं कर्म कुर्याच्चेद् अयुतं जपेत् ॥ ७१ ॥
हुनेद् वा पायसैस्तावत् शान्तये शान्तमासः ।
जयकामो जपेल् लक्षं पारिजातहरं हरिम् ॥ ७२ ॥
स्मरन् पराजयस्तस्य न कुतश्चिद् भविष्यति ।
पार्थे दिशन्तं गीतार्थं व्याख्यामुद्राकरं हरिम् ॥ ७३ ॥
रथस्थं भावयन् जप्याद् धर्मवृद्ध्यै शमाय च ।
लक्षं पलाशकुसुमैर्हुनेद् यो मधुराप्लुतैः ॥ ७४ ॥
व्याख्याता सर्वशास्त्राणां स कविर्वादिराड् भवेत् ।
विश्वरूपधरं प्रोद्यद्भानुकोटिसमुद्युतिम् ॥ ७५ ॥
द्रुतचामीकरनिभमग्निसोमात्मकं हरिम् ।
अर्काग्निद्योतदास्याङ्घ्रिपङ्कजं दिव्यभूषणम् ॥ ७६ ॥
नानायुधधरं व्याप्तविश्वाकाशावकाशकम् ।
राष्ट्रपूर्ग्रामवास्तूनां शरीरस्य च रक्षणे ॥ ७७ ॥
प्रजपेन् मन्त्रयोरेकतरं ध्यात्वैवमादरात् ।
अथवा व्यस्तसर्वाङ्घ्रिरचिताङ्गार्जुनर्षिकम् ॥ ७८ ॥
त्रिष्टुप्छन्दसिकं विश्वरूपविष्ण्वधिदैवतम् ।
जपेद् गीतामनुं स्थाने हृषीकेशाद्यमाज्यकैः ।
हुनेद् वा सर्वरक्षायै सर्वदुःखोपशान्तये ॥ ७९ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
चतुर्दशोऽध्यायः
॥ ३.१४ ॥
(३.१५)
तृतीयरात्रे पञ्चदशोऽध्यायः
अथ पूजाहोमविधिः
श्रीव्यास उवाच --
वक्ष्येऽक्षयधनावाप्त्यै प्रतिपत्तिं श्रियः पतेः ।
सुगुप्तां धननाथाद्यैर्धन्यैर्या क्रियते सदा ॥ १ ॥
द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः ।
अनल्पैः कल्पवृक्षैश्च परीते मण्डपोत्तमे ॥ २ ॥
ज्वलद्रत्नमयस्तम्भद्वारतोरणकुड्यके ।
फुल्लस्रगुल्लसच्चित्रवितानालम्बिमौक्तिके ॥ ३ ॥
पद्मरागस्थलीराजद्रत्ननद्योश्च मध्यतः ।
अनारतगलद्रत्नसुधस्य स्वस्तरोरधः ॥ ४ ॥
रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे ।
उद्यदादित्यसङ्काशे मणिसिंहासनाम्बुजे ॥ ५ ॥
समासीनोऽच्युतो ध्येयो द्रुतहाटकसंनिभः ।
समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः ॥ ६ ॥
सर्वाङ्गसुन्दरः सौम्यः सर्वाभरणभूषितः ।
पीतवासाश्चक्रशङ्खगदापद्मोज्ज्वलद्भुजः ॥ ७ ॥
अनारतोच्छ्लद्रत्नधारौधकलशं स्पृशन् ।
वामपादाम्बुजाग्रेण मुष्णता पल्लवच्छविम् ॥ ८ ॥
रुक्मिणीसत्यभामेऽस्य मूर्ध्निरत्नौघधारया ।
सिञ्चन्त्यौ दक्षवामस्थे स्वदोःस्थकलशोत्थया ॥ ९ ॥
नाग्नजिती सुनन्दा च दिशन्त्या कलशौ तयोः ।
ताभ्यां च दक्षवामस्थे मित्रविन्दासुलक्ष्मणे ॥ १० ॥
रत्नद्यासमुद्धृत्य रत्नपूर्णौ घटौ तयोः ।
जाम्बवतीसुशीला च दिशन्त्यौ दक्षवामगे ॥ ११ ॥
बहिः षोडशसाहस्रसङ्ख्याताः परितः स्त्रियः ।
ध्येयाः सकलरत्नाउघधारयुक् कलशोज्ज्वला ॥ १२ ॥
तद् बहिश्चाष्टनिधयः पूरयन्तओ धनैर्धराम् ।
तद्बहिर्वृष्णयः सर्वे पुरोवच्च सुरादयः ॥ १३ ॥
ध्यात्वैवं परमात्मानं विंसत्यर्णं मनुं जपेत् ।
चतुर्लक्षं हुनेद् आज्यैश्चत्वारिंशत्सहस्रकम् ॥ १४ ॥
शक्तिश्रीपूर्वकोऽष्टादशार्णो विंशतिवर्णकः ।
मत्रेणानेन सदृशो मनुर्नहि जगत् त्रये ॥ १५ ॥
ऋषिर्ब्रह्मा च गायत्रीच्छन्दः कृष्णस्तु देवता ।
पूर्वोक्तवद् एवास्य बीजशक्त्यादिकल्पना ॥ १६ ॥
कल्पः सनत्कुमारोक्तो मन्त्रस्यास्योच्यतेऽधुना ।
पीठन्यासादिकं कृत्वा पूर्वोक्तक्रमतः सुधीः ॥ १७ ॥
करद्वन्द्वाङ्गुलितलेष्वङ्गषट्कं प्रविन्यसेत् ।
मन्त्रेण व्यापकं कृत्वा मातृकां मनुसम्पुटाम् ॥ १८ ॥
संहारसृष्टिमार्गेण दशतत्त्वानि विन्यसेत् ।
पुनश्च व्यापकं कृत्वा मन्त्रवर्णास्तनौ न्यसेत् ॥ १९ ॥
मूर्ध्नि भाले भ्रुवोर्मध्ये नेत्रयोः कर्णयोर्नसोः ।
आनने चिबुके कण्ठे दोर्मूले हृदि तन्दुके ॥ २० ॥
नाभौ लिङ्गे तथाधारे कट्योर्जान्वोश्च जङ्घयोः ।
गुल्फयोः पादयोर्न्यसेत् सृष्टिरेषा समीरिता ॥ २१ ॥
स्थितिर्हृदादिकं सान्ता संहृतिश्चरणादिका ।
विधायैवं पञ्चकृत्वः स्थित्यन्तं मूर्तिपञ्जरम् ॥ २२ ॥
सृष्टिस्थिती च विन्यस्य षडङ्गन्यासमाचरेत् ।
गुणाग्निवेदकरणकरणाक्ष्यक्षरैर्मनोः ॥ २३ ॥
मुद्रां बद्द्वा किरीटाख्यां दिग्बन्धं पूर्ववच्चरेत् ।
ध्यात्वा जप्त्वार्चयेद् देहे मूर्तिपञ्जरपूर्वकम् ॥ २४ ॥
अथवा ह्येऽर्चयेद् विष्णुं तदर्थं यन्त्रमुच्यते ।
गोमयेनोपलिप्योर्वीं तत्र पीठं निधापयेत् ॥ २५ ॥
विलिप्य गन्धपङ्केन लिखेद् अष्टदलाम्बुजम् ।
कर्णिकायां तु षट्कोणं ससाध्यं तत्र मन्मथम् ॥ २६ ॥
शिष्टैस्तं सप्तदशभिरक्षरैर्वेष्टयेत् स्मरम् ।
प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ॥ २७ ॥
षडक्षरं सन्धिषु च केशरेषु त्रिशस्त्रिशः ।
विलिखेत् स्मरगायत्रीं मालामन्त्रं दलाष्टके ॥ २८ ॥
षड्शः संलिख्य तद्बाह्ये वेष्टयेन् मातृकाक्षरैः ।
भूबिम्बं च लिखेद् बाह्ये श्रीमाये दिग्विदिक्ष्वपि ॥ २९ ॥
एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् ।
साधितं धारयेद् यो वै सोऽर्च्येत त्रदशैरपि ॥ ३० ॥
स्याद् गायत्री कामदेवपुष्पबाणौ च ङेऽन्तकौ ।
विद्महेधीमहियुतौ तन् नोऽङ्गः प्रचोदयात् ॥ ३१ ॥
जप्याज्जपादौ गोपालमनूनां जनरञ्जनीम् ।
नत्यन्ते कामदेवाय ङेऽन्तं सर्वजनप्रियम् ॥ ३२ ॥
उक्त्वा सर्वजनान्ते तु संमोहनपदं तथा ।
ज्वल ज्वल प्रज्वलेति प्रोक्तो सर्वजनस्य च ॥ ३३ ॥
हृदयं च मम ब्रूयात् वशं कुरुयुगं शिरः ।
प्रोक्तो मदनमन्त्रोऽष्तचत्वारिंशद्भिरक्षरैः ॥ ३४ ॥
जपादौ मारबीजाद्यो जगत्त्रयवशीकरः ।
भूगृहं चतुरस्रं स्यात् कोणवज्राद्यलङ्कृतम् ॥ ३५ ॥
पीठं पूर्ववद् अभ्यर्च्य मूर्तिसङ्कल्प्य पौरषीम् ।
तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ॥ ३६ ॥
आसनादि भूषणान्तं पुनर्न्यासक्रमात् यजेत् ।
सृष्टिस्थिती षडङ्गं च किरीटं कुण्डलद्वयम् ॥ ३७ ॥
चक्रशङ्खगदापद्ममालाश्रीवत्सकौस्तुभान् ।
गन्धाक्षतप्रसूनैश्च मूलेनाभ्यर्च्य पूर्ववत् ॥ ३८ ॥
आदौ वह्निपुरद्वन्द्वकोणेष्वङ्गानि पूजयेत् ।
सहृच्छिरः शिखावर्मनेत्रमन्त्रमिति क्रमात् ॥ ३९ ॥
वासुदेवः सङ्कर्षणः प्रद्य्म्नश्चानिरुद्धकः ।
अग्न्यादिदलमूलेषु शान्तिः श्रीश्च सरस्वती ॥ ४० ॥
रतिश्च दिग्दलेष्वर्च्यास्ततोऽष्तौ महिषीर्यजेत् ।
रुक्मिण्याद्या दक्षसव्ये क्रमात् पत्राग्रकेषु च ॥ ४१ ॥
ततः षोडशसाहस्रं सकृद् एवार्चयेत् प्रियाः ।
इन्द्रनीलमुकुन्दाद्यान् मकरानङ्गकच्छपान् ॥ ४२ ॥
पद्मशङ्खादिकांश्चापि निधीन् अष्टौ क्रमाद् यजेत् ।
तद् बहिश्चेन्द्रवज्राद् ये आवृती सम्प्रपूजयेत् ॥ ४३ ॥
इति सप्तावृत्तिवृतमभ्यर्च्याच्युतमादरात् ।
प्रीणयेद् दधिखण्डाज्यमिश्रेण तु पयोऽन्धसा ॥ ४४ ॥
राजोपचारं दत्त्वाथ स्तुत्वा नत्वा च केशवम् ।
उद्वासयेत् स्वहृदये परिवारगणैः सह ॥ ४५ ॥
न्यस्त्वात्मानं समभ्यर्च्य तन्मयः प्रजपेन् मनुम् ।
रत्नाभिषेकध्यानेज्याविंशत्यर्णाश्रितेरिता ॥ ४६ ॥
जपहोमार्चनैर्ध्यानैर्योऽमुं प्रभजते मनुम् ।
तद् वेश्म पूर्यते रत्नैः स्वर्णधान्यैरनारतम् ॥ ४७ ॥
पृथ्वी पृथ्वी करे तस्य सवसस्यकुलाकुला ।
पुत्रैर्मित्रैः सुसम्पन्नः प्रयात्यन्ते परां गतिम् ॥ ४८ ॥
वह्नावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतण्डुलैः ।
आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् ॥ ४९ ॥
तस्यान्नादिसमृद्धिः स्यात् तद्वशे सर्वयोषितः ।
आज्यैर्लक्षं हुनेद् रक्तपद्मैर्वा मधुराप्लुतैः ॥ ५० ॥
श्रिया तस्यैन्द्रमैश्वर्यं तृणलेशायते ध्रुवम् ।
शुक्लादिवस्त्रलाभाय शुक्लादिकुसुमैर्हुनेत् ॥ ५१ ॥
त्रिमध्वक्तैर्दशशतमाज्याक्तैर्वाष्टसंयुतम् ।
क्षौद्रसिक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकम् ॥ ५२ ॥
हुनेन् नित्यं स षड्मासान् पुरोधा नृपतेर्भवेत् ।
दशाष्टादशवर्णोक्तं जपध्यानहुतादिकम् ॥ ५३ ॥
विदध्यात् कर्म चानेन ताभ्यामप्यत्र कीर्तितम् ।
वाग्भावं मारबीजं च कृष्णाय भुवन्श्वरी ॥ ५४ ॥
गोविन्दाय रमा गोपीजनवल्लभ ङे शिरः ।
चतिर्दशस्वरोपेतः शुक्रः सन्दी तद् ऊर्ध्वतः ॥ ५५ ॥
द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः ।
अष्टादशार्णवत् सर्वं षडूष्यादिकमस्य तु ॥ ५६ ॥
पूजा च विंशत्यर्णोक्ता प्रतिपत्तिस्तु कथ्यते ।
वामोर्ध्वहस्ते दधतं विद्यासर्वस्वपुस्तकम् ॥ ५७ ॥
अक्षमालां च दक्षोर्ध्वे स्फाटिकीं मातृकामयीम् ।
शब्दब्रह्ममयं वेत्थमधः पाणिद्वयोरितम् ॥ ५८ ॥
बर्हिबर्हकृतोत्तंसं सर्वज्ञं सर्ववेदिभिः ॥ ५९ ॥
उपासितं मुनिगणैरुपतिष्ठेद् धरिं सदा ।
ध्यात्वैवं प्रमदावेशविलासभवनेश्वरम् ॥ ६० ॥
चतुर्लक्षं जपेन् मन्त्रमिमं मन्त्री सुसंयतः ।
पालाशपुष्पैः स्वाद्वक्तैश्चत्वारिंशत् सहस्रकम् ॥ ६१ ॥
जुहुयात् कर्मणानेन ततः सिद्धो भवेद् ध्रुवम् ।
योऽस्मिन् निष्णातधीर्मन्त्री वर्तते बभ्रुगद्दवात् ॥ ६२ ॥
गद्यपद्यमयी वाणी तस्य गङ्गाप्रवाहवत् ।
सर्ववेदेषु शास्त्रेषु पुराणेषु च पण्डितः ॥ ६३ ॥
सम्पत्तिं परमां लब्ध्वा चान्ते याति परं पदम् ।
श्रीशक्तिस्मरकृष्णाय गोविन्दाय शिरो मनुः ॥ ६४ ॥
रव्यर्णो ब्रह्मगायत्रीकृष्णर्ष्यादिरथास्य तु ।
बीजैस्त्रिवेदयुग्मार्णैरङ्गषट्कमिहोदितम् ॥ ६५ ॥
विंशत्यर्णोदितजपध्यानहोमार्चनक्रियाः ।
मन्त्रोऽयं सकलैश्वर्यकाङ्क्षिभिः सेव्यताम्बुधैः ॥ ६६ ॥
श्रीशक्तिकामपूर्वोऽङ्गजन्मशक्तिरमान्तकः ।
दशाक्षरः सरावादौ स्याच्चेच्छक्तिरमायुतः ॥ ६७ ॥
मन्त्रौ विकृतिरव्यर्णावाचक्राद्यङ्गिनाविमौ ।
विंशत्यर्णोक्तयजनविधौ ध्यायेद् अथाच्युतम् ॥ ६८ ॥
वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये ।
पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्ज्वलम् ॥ ६९ ॥
दशलक्षं जपेद् आज्यैस्तावत्सहस्रहोमतः ।
सिद्धाविमौ मनू सर्वसम्पत्सौभाग्यदौ नृणाम् ॥ ७० ॥
मारशक्तिरमापूर्वः शक्तिश्रीमारपूर्वकः ।
एतेषां मनुवर्याणामङ्गर्ष्यादिदशार्णवत् ॥ ७१ ॥
शङ्खचक्रधनुर्बाणपाशाङ्कुशधरोऽरुणः ।
वेणुं धमन् धृतं दोर्भ्यां कृष्णो ध्येयो दिवाकरे ॥ ७२ ॥
आद्ये मनौ ध्यानमेवं द्वितीये विंशदर्णवत् ।
दशार्णवत् तृतीयेऽङ्गदिक्पालाद्यैः समर्चना ॥ ७३ ॥
पञ्चलक्षं जपेत् तावद् अयुतं पायसैर्हुनेत् ।
ततः सिध्यन्ति मनवो नृणां सम्पत्तिकान्तिदाः ॥ ७४ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे तृतीयरात्रे
मन्त्रपूजाहोमविधिविषयकः
पञ्चदशोऽध्यायः
॥ ३.१५ ॥
समाप्तश्चेदं तृतीयरात्रम्
% File name : nAradapancharAtra1to3.itx
%--------------------------------------------
% Text title : nAradapancharAtra 1 to 3 rAtra
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Transliterated by : granthamandira
% Proofread by :
% Translation by :
% Latest update : April 30, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .