॥ नीलकण्ठस्तवः वायुप्राणे ॥
ऋषय ऊचुः
कस्मिन् देशे महापुण्यमेतदाख्यानमुत्तमम् ।
वृत्तं ब्रह्मपुरोगाणां कस्मिन् काले महाद्युते ।
एतदाख्याहि नः सम्यग् यथा वृत्तं तपोधन ॥ ५४. १ ॥
सूत उवाच
यथा श्रुतं मया पूर्वं वायुना जगदायुना ।
कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रके ॥ ५४. २ ॥
नीलता येन कण्ठस्य देवदेवस्य शूलिनः ।
तदहं कीर्त्तयिष्यामि श्रृणुध्वं शंसितव्रताः ॥ ५४. ३ ॥
उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः ।
पुण्योद्यानेषु तीर्थेषु देवतायतनेषु च ।
गिरिश्रृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च ॥ ५४. ४ ॥
देवभक्ता महात्मानो मुनयः शंसितव्रताः ।
स्तुवन्ति च महादेवं यत्र यथाविधि ॥ ५४. ५ ॥
ऋग्यजुःसामवेदैश्च नृत्यगीतार्च्चनादिभिः ।
ओङ्कारेण नमस्कारैरर्च्चयन्ति सदा शिवम् ॥ ५४. ६ ॥
प्रवृत्ते ज्योतिषां चक्रे मध्यव्याप्ते दिवाकरे ।
देवता नियतात्मानः सर्वे तिष्ठन्ति तां कथाम् ।
अथ नियमप्रवृत्ताश्च प्राणशेषव्यवस्थिताः ॥ ५४. ७ ॥
नमस्ते नीलकण्ठाय इत्युवाच सदागतिः ।
तच्छुत्वा भावितात्मानो मुनयः शंशितव्रताः ।
वालखिल्येति विख्याताः पतङ्गसहचारिणः ॥ ५४. ८ ॥
अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ।
तस्मात् पृच्छन्ति वै वायुं वायुपर्णाम्बुभोजनाः ॥ ५४. ९ ॥
ऋषय ऊचुः
नीलकण्ठेति यत् प्रोक्तं त्वया पवनसत्तम ।
एतद्दुह्यं पवित्राणां पुण्यं पुण्यकृतां वराः ॥ ५४. १० ॥
तद्वयं श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन ।
नीलता येन कण्ठस्य कारणेनाम्बिकापतेः ॥ ५४. ११ ॥
श्रोतुमिच्छा महे सम्यक् तव वक्राद्विशेषतः ।
यावद्वाचः प्रवर्त्तन्ते सार्थास्ताश्च त्वयेरिताः ॥ ५४. १२ ॥
वर्णस्थानगते वायौ वाग्विधिः संप्रवर्तते ।
ज्ञानं पूर्वमथोत्साह स्त्वत्तो वायो प्रवर्तते ॥ ५४. १३ ॥
त्वयि निष्पन्दमाने तु शेषा वर्णप्रवृत्तयः ।
यत्र वाचो निवर्तन्ते देहबन्धाश्च दुर्लभाः ॥ ५४. १४ ॥
तत्रापि तेऽस्ति सद्भावः सर्वगस्त्वं सदानिल ।
नान्यः सर्वगतो देवस्त्वदृतेशस्ति समीरण ॥ ५४. १५ ॥
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल ।
वेत्थ वाचस्पतिं देवं मनोनायकमीस्वरम् ॥ ५४. १६ ॥
ब्रूहि तत्कण्ठदेशस्य किं कृता रूपविक्रिया ।
श्रुत्वा वाक्यन्ततस्तेषामृषीणां भावितात्मानाम् ।
प्रत्युवाच महातेजा वायुर्लोक नमस्कृतः ॥ ५४. १७ ॥
वायुरुवाच
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः ।
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतेः ॥ ५४. १८ ॥
प्रपच्छ कार्तिकेयं वै मयूरवरवाहनम् ।
महिषासुरनारीणां नयनाञ्जनतस्करम् ॥ ५४. १९ ॥
महासेनं महात्मानं मेघस्तनितनिःस्वनम् ।
उमामनःप्रहर्षेण बालकं छझरूपिणम् ॥ ५४. २० ॥
क्रौञ्चजीवितहर्त्तारं पार्वतीहृदि नन्दनम् ।
वसिष्ठः पृच्छते भक्त्या कार्तिकेयं महाबलम् ॥ ५४. २१ ॥
वसिष्ठ उवाच
नमस्ते हरनन्दाय उमागर्भ नमोऽस्तु ते ।
नमस्ते अग्निगर्भाय गङ्गागर्भ नमोऽस्तु ते ॥ ५४. २२ ॥
नमस्ते शरगर्भाय नमस्ते कृत्तिकासुत ।
नमो द्वादशनेत्राय षण्मुखाय नमोऽस्तु ते ॥ ५४. २३ ॥
नमस्ते शक्तिहस्ताय दिव्यघण्टापताकिने ।
एवं स्तुत्वा महासेनं पप्रच्छ शिखिवाहनम् ॥ ५४. २४ ॥
यदेतद्दृश्यते वर्णं शुभं शुभ्राञ्जनप्रभम् ।
तत्किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसंप्रभे ॥ ५४. २५ ॥
एतदाप्ताय भक्ताय दान्ताय ब्रूहि पृच्छते ।
कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ।
मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ॥ ५४. २६ ॥
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः ।
प्रत्युवाच महातेजाः सुरारिबलसूदनः ॥ ५४. २७ ॥
श्रृणुष्व वदतां श्रेष्ठ कथ्यमानं वचो मम ।
उमोत्सङ्गनिविष्टेन मया पूर्वं यथाश्रुतम् ॥ ५४. २८ ॥
पार्वत्या सह संवादः शर्वस्य च महात्मनः ।
तदहङ्कीर्त्तयिष्यामि त्वत्प्रियार्थं महामुने ॥ ५४. २९ ॥
कैलासशिखरे रम्ये नानाधातुविचित्रिते ।
नानाद्रुमलताकीर्णे चक्रवाकोपशोभिते ॥ ५४. ३० ॥
षट्पदोद्गीतबहुले धारासम्पातनादिते ।
मत्तक्रौञ्चमयूराणां नादैरुद्घुष्टकन्दरे ॥ ५४. ३१ ॥
अप्सरोगणसङ्कीर्णे किन्नरैश्चोपशोभिते ।
जीवञ्जीवकजातीनां वीरुद्भिरुपशोभिते ॥ ५४. ३२ ॥
कोकिलारावमधुरे सिद्ध चारणसेविते ।
सौरभैयीनिनादाढ्ये अधस्तनितनिःस्वने ॥ ५४. ३३ ॥
विनायकभयोद्विग्ने कुञ्जरैर्युक्तकन्दरे ।
वीणावादित्रनिर्घोषैः श्रोत्रेन्द्रियमनोरमैः ॥ ५४. ३४ ॥
दोलालम्बितसम्पाते वनितासङ्घसेविते ।
ध्वजैर्लम्बितदोलानां घण्ठानां निनदाकुले ॥ ५४. ३५ ॥
मुखमर्दलवादित्रैर्बलिनां स्फोटितैस्तथा ।
क्रीडारवविचाराणां निर्घोषैः पूर्णमन्दिरे ॥ ५४. ३६ ॥
हासैः सन्त्रासजननैर्विकरालमुखैस्तथा ।
देहगन्धैर्विचित्रैश्च प्रक्रीडितगणेश्चरैः ॥ ५४. ३७ ॥
वज्रस्फटिकसोपान चित्रपट्टिशिलातलैः ।
व्याध्रसिंहमुखैशचवान्यैर्गजवाजिमुखैस्तथा ॥ ५४. ३८ ॥
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारमूर्तिभिः ।
ह्रस्वैर्दीर्घैः कृशैः स्थूलैर्लम्बोदर महोदरैः ॥ ५४. ३९ ॥
ह्रस्वजङ्घैश्च लम्बोष्ठैस्तालजङ्घैस्तथापरैः ।
गौकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥ ५४. ४० ॥
बहुपादैर्महापादैरेकपादैरपादकैः ।
बहुशीर्षैर्महाशीर्षैरेकशीर्षैरशीर्षकैः ॥ ५४. ४१ ॥
बहुनेत्रैर्महानेत्रैरेकनैत्रैरनैत्रकैः ।
एवंविधैर्महायोगिभूतैर्भूतपतिर्वृतः ॥ ५४. ४२ ॥
विशुद्धमुक्तामणिरत्नभूषिते शिलातले हेममये मनोरमे ।
सुखोपविष्टं मदनाङ्गनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ ५४. ४३ ॥
देव्युवाच
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
तव कण्ठे महादेव भ्राजतेऽम्बुदशन्निभम् ॥ ५४. ४४ ॥
नात्युल्बणं नातिशुब्रं नीलाञ्जनचयोपमम् ।
किमिदं दीप्यते देव कण्ठे कामाङ्ग नाशन ॥ ५४. ४५ ॥
को हेतुः कारणं किञ्च कण्ठे नीलत्वमीश्वरः ।
एतत्सर्वं यथान्यायं ब्रूहि कौतूहलं हिमे ॥ ५४. ४६ ॥
श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः ।
कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥ ५४. ४७ ॥
मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः ।
अग्रे समुत्थितं तस्मिन् विषं कालानलप्रभम् ॥ ५४. ४८ ॥
तं दृष्ट्वा सुरसङ्घाश्च दैत्याश्चैव वरानने ।
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तिकम् ॥ ५४. ४९ ॥
दृष्ट्वा सुरगणान् भीतान् ब्रह्मो वाच महाद्युतिः ।
किमर्थं भो महाभागा भीता उद्विग्नचेतसः ॥ ५४. ५० ॥
मयाष्टगुणमैश्वर्यं भवतां सम्प्रकल्पितम् ।
केन व्यावर्त्तितैश्वर्या यूयं वै सुरसत्तमाः ॥ ५४. ५१ ॥
त्रैलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः ।
प्रजासर्गे न सोऽस्तीह आज्ञां यो मे निवर्त्तयेत् ॥ ५४. ५२ ॥
विमानगामिनः सर्वे सर्वे स्वच्छन्दगामिनः ।
अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः ।
प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ॥ ५४. ५३ ॥
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव ।
किं दुःखं केन सन्तापः कुलो वा भयमागतम् ।
एतत्सर्वं यथान्यायं शीग्रमाख्यातुमर्हथ ॥ ५४. ५४ ॥
श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणो वै महात्मनः ।
ऊचुस्ते ऋषिभिः सार्ध्धं सुरदैत्येन्द्रदानवाः ॥ ५४. ५५ ॥
सुरासुरैर्मथ्यमाने पाथोधौ च महात्मभिः ।
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम् ।
प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ॥ ५४. ५६ ॥
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् ।
त्रैलोक्योत्सादि सूर्याभं प्रस्फुरन्तं समन्ततः ॥ ५४. ५७ ॥
विषेणोत्तिष्ठमानेन कालानलसमत्विषा ।
निर्दग्धो रक्तगौराङ्गः कृतकृष्णो जनार्दनः ॥ ५४. ५८ ॥
दृष्ट्वा तं रक्तगौराङ्गं कृतकृष्णं जनार्दनम् ।
भीताः सर्वे वयं देवास्त्वामेव शरणं गताः ॥ ५४. ५९ ॥
सुराणामसुराणाञ्च श्रुत्वा वाक्यं पितामहः ।
प्रत्युवाच महातेजा लोकानां हितकाम्यया ॥ ५४. ६० ॥
श्रृणुध्वं देवताः सर्वे ऋषयश्च तपोधनाः ।
यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ॥ ५४. ६१ ॥
विषं कालानलप्रख्यं कालकूटेति विश्रुतम् ।
येन प्रोद्भूतमात्रेण कृतकृष्णो जनार्दनः ॥ ५४. ६२ ॥
तस्य विष्णुरहञ्चापि सर्वे ते सुरपुङ्गवाः ।
न शक्नुवन्ति वै सोढुं वेगमन्ये तु शङ्करात् ॥ ५४. ६३ ॥
इत्युक्त्वा पझगर्भाभः पझयोनिरयोनिजः ।
ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ॥ ५४. ६४ ॥
नमस्तुभ्यं विरूपाक्ष नमस्तेऽनेकचक्षुषे ।
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ ५४. ६५ ॥
नमस्त्रैलोक्यनाथाय भूतानाम्पतये नमः ।
नमः सुरारिसंहर्त्रे तापसाय त्रिचक्षुषे ॥ ५४. ६६ ॥
ब्रहमणे चैव रुद्राय विष्णवे चैव ते नमः ।
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ॥ ५४. ६७ ॥
मन्मताङ्गविनाशाय कालकालाय वै नमः ।
रुद्राय च सुरेशाय देवदेवाय ते नमः । ५४. ६८।
कपर्दिने करालाय शङ्कराय कपालिने ।
विरूपायैकरूपाय शिवाय वरदाय च ॥ ५४. ६९ ॥
त्रिपुरघ्नाय वन्द्याय मातॄणाम्पतये नमः ।
बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च ॥ ५४. ७० ॥
नमः कमलहस्ताय दिग्वासाय शिखण्डिने ।
लोक त्रयवलिधात्रे च चन्द्राय वरुणाय च ॥ ५४. ७१ ॥
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे ।
रजसे चैव सत्त्वाय तमसेऽव्यक्तयोनये ॥ ५४. ७२ ॥
नित्यायानित्यरूपाय नित्यानित्याय वै नमः ।
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ॥ ५४. ७३ ॥
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ।
भक्तानामार्तिनाशाय नरनारायणाय च ॥ ५४. ७४ ॥
उमाप्रियाय शर्वाय नन्दिचक्राङ्किताय च ।
पक्षमासार्द्धमासाय नमः संवत्सराय च ॥ ५४. ७५ ॥
बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने ।
नमः कपालहस्ताय दिग्वासाय शिखणिडने ॥ ५४. ७६ ॥
ध्वजिने रथिने चैव यमिने ब्रह्मचारिणे ।
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च ।
इत्येवमादिचरितैस्तुभ्यं देव नमोऽस्तु ते ॥ ५४. ७७ ॥
श्रीमहादेव उवाच
एवं स्तुतस्ततो देवैः प्रणिपत्य वरानने ॥ ५४. ७८ ॥
ज्ञात्वा तु भक्तिं मम देवदेवो गङ्गाजलाप्लावितकेशदेशः ।
सूक्ष्मोऽतियोगातिशयादचिन्त्यो न हि प्लुतो व्यक्तमुपैति चन्द्रः ॥ ५४. ७९ ॥
एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा ।
स्तुतोऽहं विविधैः स्तोत्रै र्वेदवेदाङ्गसम्भवैः ॥ ५४. ८० ॥
ततः प्रीतो ह्यहं तस्मै ब्रह्मणे सुमहात्मने ।
ततोऽहं सूक्ष्मया वाचा पितामहमथाब्रुवम् ॥ ५४. ८१ ॥
भगवन् भूतभव्येश लोकनाथ जगत्पते ।
किं कार्ये ते मया ब्रह्मन् कर्त्तव्यं वद सुव्रत ॥ ५४. ८२ ॥
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः ।
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥ ५४. ८३ ॥
सुरासुरैर्मथ्यमाने पयोधावम्बुजेक्षण ।
भगवन्मेघ सङ्काशं नीलजीमूतसन्निभम् ॥ ५४. ८४ ॥
प्रादुर्भूतं विषङ्घोरं संवर्त्ताग्निसमप्रभम् ।
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्च्चसम् ॥ ५४. ८५ ॥
त्रैलोक्योत्सादि सूर्याभं विस्फुरन्तं समन्ततः ।
अग्रे समुत्थितं तस्मिन् विषङ्कालानलप्रभम् ॥ ५४. ८६ ॥
तं दृष्ट्वा तुं वयं सर्वे भीताः सम्भ्रान्तचेतसः ।
तत् पिबस्व महादेव लोकानां हितकाम्यया ।
भवानग्र्यस्य भोक्ता वै भवांश्वैव वरः प्रभुः ॥ ५४. ८७ ॥
त्वामृतेऽन्यो महादेव विषं सोढुं न विद्यते ।
नास्ति कश्चित् पुमान् शक्तस्त्रैलोक्येषु च गीयते ॥ ५४. ८८ ॥
एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः ।
बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ ५४. ८९ ॥
ततोऽहं पातुमारब्धो विषमन्तकसन्निभम् ।
पिबतो मे महाघोरं विषं सुरभयङ्करम् ।
कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ॥ ५४. ९० ॥
तंदृष्ट्वो त्पलपत्राभं कण्ठे सक्तमिवोरगम् ।
तक्षकं नागराजानं लेलिहानमिव स्थितम् ॥ ५४. ९१ ॥
अथोवाच महातेजा ब्रह्मा लोकपितामहः ।
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥ ५४. ९२ ॥
ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे ।
पश्यतां देवसङ्गानां दैत्यानाञ्च वरानने ॥ ५४. ९३ ॥
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् ।
धृतं कण्ठे विषं घोरं नीलकण्टस्ततो ह्यहम् ॥ ५४. ९४ ॥
तत् कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि ।
निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ॥ ५४. ९५ ॥
ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः ।
ऊचुः प्राञ्चलयो भूत्वा मत्तमातङ्गगामिनि ॥ ५४. ९६ ॥
अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तवैव ।
अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ॥ ५४. ९७ ॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्यु र्वरदस्त्वमेव ।
त्वमेव सूर्यो रजनीकरश्च त्वमेव भूमिः सलिलं त्वमेव ॥ ५४. ९८ ॥
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव ।
त्वमेव चादि र्निधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ॥ ५४. ९९ ॥
त्वमेव सूक्ष्मस्य परस्य सूक्ष्मस्त्वमेव वह्निः पवनस्त्वमेव ।
त्वमेव सर्वस्य चराचरस्य लोकस्य कर्त्ता प्रलये च गोप्ता ॥ ५४. १०० ॥
इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्द्ना ।
गता विमानैरनिगृह्य वेगैर्महात्मनो मेरुमुपेत्य सर्वे ॥ ५४. १०१ ॥
इत्येतत्परमं गुह्यं पुण्यात्पुण्यमहत्तरम् ।
नीलकण्ठेति यत् प्रोक्तं विख्यातं लोकविश्रुतम् ॥ ५४. १०२ ॥
स्वयं स्वयम्भुवा प्रोक्तां पुण्यां पापप्रणाशनीम् ।
यस्तु धारयते नित्यमेनां ब्रह्मोद्भवां कथाम् ।
तस्याहं संप्रवक्ष्यामि फलं वै विपुलं महत् ॥ ५४. १०३ ॥
विषं तस्य वरारोहे स्थावरं जङ्गमन्तथा ।
गात्रं प्राप्य च सुश्रोणि क्षिप्रं तत् प्रतिहन्यते ॥ ५४. १०४ ॥
शमयत्यशुभं घोरं दुःस्वप्नञ्चापकर्षति ।
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ ५४. १०५ ॥
विवादे जयमाप्नोति युद्धे शूरत्वमेव च ।
गच्छतः क्षेममध्वानं गृहे च नित्यसम्पदः ॥ ५४. १०६ ॥
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने ।
नीलकण्ठो हरिच्छमश्रुः शशाङ्काङ्कितमूर्द्धजः ॥ ५४. १०७ ॥
त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक् ।
नन्धितुल्यबलः श्रीमान् नन्दितुल्यपराक्रमः ॥ ५४. १०८ ॥
विचरत्यचिरात् सर्वान् सर्वलोकान्ममाज्ञया ।
न हन्यते गतिस्तस्य अनिलस्य यथाम्बरे ।
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवम् ॥ ५४. १०९ ॥
मम भक्ता वरारोहे ये च श्रृण्वन्ति मानवाः ।
तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ॥ ५४. ११० ॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् ।
वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ॥ ५४. १११ ॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम् ।
नष्टञ्च लभते सर्वमिहलोके परत्र च ॥ ५४. ११२ ॥
गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम् ।
तत् फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ॥ ५४. ११३ ॥
पादं वा यदि वाप्यर्द्धं श्लोकं श्लोकार्द्धमेव वा ।
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ ५४. ११४ ॥
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्ध मूर्द्धजः ।
वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ॥ ५४. ११५ ॥
क्रान्तं मया पापहरं महापदं निवेद्य तेभ्यः प्रददौ प्रभञ्जनः ।
अधीत्य सर्वं त्वखिलं सुलक्षणं जगाम आदित्यपथं द्विजोत्तमः ॥ ५४. ११६ ॥
इति श्रीमहापुराणे वायु प्रोक्ते नीलकण्ठस्तवो नाम चतुः पञ्चाशोऽध्यायः ॥ ५४ ॥
Vayupurana Purvardha Adhyaya 54
http://sa.wikisource.org
% File name : nIlakaNThastavavAyuprANa.itx
%--------------------------------------------
% Text title : nIlakaNThastavaH vAyuprANe
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : Vayupurana Purvardha Adhyaya 54
% Transliterated by : sa.wikisource.org
% Proofread by :
% Translation by :
% Latest update : June 11, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .