॥ श्री श्री राधारससुधानिधिः ॥
निन्दन्तं पुलकोत्करेण विकसन्नीपप्रसूनच्छविं
प्रोर्ध्वीकृत्य भुजद्वयं हरि हरीत्युच्चैर्वदन्तं मुहुः ।
नृत्यन्तं द्रुतमश्रुनिर्झरचयैः सिञ्चन्तमुर्वीतलं
गायन्तं निजपार्षदैः परिवृतं श्रीगौरचन्द्रं नुमः ॥ १ ॥
यस्याः कदापि वसनाञ्चलखेलनोत्थ
धन्यातिधन्यपवनेन कृतार्थमानी ।
योगीन्द्रदुर्गमगतिर्मधुसूदनोऽपि
तस्या नमोऽस्तु वृषभानुभुवो दिशेऽपि ॥ २ ॥
ब्रह्मेश्वरादिसुदुरूहपदारविन्द
श्रीमत्परागपरमाद्भुतवैभवायाः ।
सर्वार्थसाररसवर्षिकृपार्द्रदृष्टेस्-
तस्या नमोऽस्तु वृषभानुभुवो महिम्ने ॥ ३ ॥
यो ब्रह्मरुद्रशुकनारदभीष्ममुख्यैर्-
आलक्षितो न सहसा पुरुषस्य तस्य ।
सद्योवशीकरणचूर्णमनन्तशक्तिं
तं राधिकाचरणरेणुमनुस्मरामि ॥ ४ ॥
आधाय मूर्धनि यद् आपुरुदारगोप्यः
काम्यं पदं प्रियगुणैरपि पिच्छमौलेः ।
भावोत्सवेन भजतां रसकामधेनुं
तं राधिकाचरणरेणुमहं स्मरामि ॥ ५ ॥
दिव्यप्रमोदरससारनिजाङ्गसङ्ग
पीयूषवीचिनिचयैरभिषेचयन्ती ।
कन्दर्पकोटिशरमूर्च्छितनन्दसूनु
सङ्जीवनी जयति कापि निकुञ्जदेवी ॥ ६ ॥
तन् नः प्रतिक्षणचमत्कृतचारुलीला
लावण्यमोहनमहामधुराङ्गभङ्गि ।
राधाननं हि मधुराङ्गकलानिधानम्
आविर्भविष्यति कदा रससिन्धुसारम् ॥ ७ ॥
यत् किङ्करीषु बहुशः खलु काकुवाणी
नित्यं परस्य पुरुषस्य शिखण्डमौलेः ।
तस्याः कदा रसनिधेर्वृषभानुजायास्-
तत्केलिकुण्जभुवनाङ्गणमार्जनी स्याम् ॥ ८ ॥
वृन्दानि सर्वमहतामपहाय दूराद्
वृन्दाटवीमनुसर प्रणयेन चेतः ।
सत्तारणीकृतसुभावसुधारसौघं
राधाभिधानमिह दिव्यनिधानमस्ति ॥ ९ ॥
केनापि नागरवरेण पदे निपत्य
सत्प्रार्थितैकपरिरम्भरसोत्सवायाः ।
सभ्रूविभङ्गमैत्रङ्गनिधेः कदा ते
श्रीराधिके नहि नहीति गिरः शृणोमि ॥ १० ॥
यत्पादपद्मनखमणिचन्द्रच्छटाया
विस्फूर्जितं किमपि गोपवधूस्वदर्शि ।
पूर्णानुरागरससागरसारमूर्तिः
सा राधिका मयि कदापि कृपां करोतु ॥ ११ ॥
उज्जृम्भमाणरसवारिनिधेस्तरङ्गैर्-
अङ्गैरिव प्रणयलोलविलोचनायाः ।
तस्याः कदा नु भविता मयि पुण्यदृष्टिर्-
वृन्दाटवीनवनिकुञ्जगृहाधिदेव्याः ॥ १२ ॥
वृन्दावनेश्वरि तवैव पदारविन्दं
प्रेमामृतैकमकरन्दरसौघपूर्णम् ।
हृद्यर्पितं मधुपतेः स्मरतापमुग्रं
निर्वापयत् परमशीतलमाश्रयामि ॥ १३ ॥
राधाकरावचितपल्लववल्लरीके
राधापदाङ्कविलसन्मधुरस्थलीके ।
राधा यशोमुखरमत्तखगावलीके
राधाविहारविपिने रमतां मनो मे ॥ १४ ॥
कृष्णामृतं चल विगाढुमितीरिताहं
तावत् सहस्व रजनी सखि यावद् एति ।
इत्थं विहस्य वृषभानुसुताह लप्स्ये
मानं कदा रसदकेलिकदम्बजातम् ॥ १५ ॥
पादाङ्गुलीनिहितदृष्टिमपत्रपिष्णुं
दूराद् वीक्ष्य रसिकेन्द्रमुखेन्दुबिम्बम् ।
वीक्षे चलत्पदगतिं चरिताभिरामां
झङ्कारनूपुरवतीं बत कर्हि राधाम् ॥ १६ ॥
उज्जागरं रसिकनागरसङ्गरङ्गैः
कुञ्जोदरे कृतवती नु मुदा रजन्याम् ।
सुस्नापिता हि मधुनैव सुभोजिता त्वं
राधे कदा स्वपिषि मत्करलालिताङ्घ्रिम् ॥ १७ ॥
विदग्ध्यसिन्धुरनुरागरसैकसिन्धुर्-
वात्सल्यसिन्धुरतिसान्द्रकृपैकसिन्धुः ।
लावण्यसिन्धुरमृतच्छविरूपसिन्धुः
श्रीराधिका स्फुरतु मे हृदि केलिसिन्धुः ॥ १८ ॥
दृष्ट्वैव चम्पकलतेव चमत्कृताङ्गी
वेणुध्वनिं क्व च निशम्य च विह्वलाङ्गी ।
सा श्यामसुन्दरगुणैरनुल्गीयमानैः
प्रीता परिष्वजतु मां वृषभानुपुत्री ॥ १९ ॥
श्रीराधिके सुरतरङ्गि नितम्बभागे
काञ्चीकलापकलहंस कलानुलापैः ।
मञ्जीरशिञ्जितमधुव्रतगुञ्जिताङ्घ्रि
पङ्केरुहैः शिशिरय स्वरसच्छटाभिः ॥ २० ॥
श्रीराधिके सुरतरङ्गि दिव्यकेलि
कल्लोलमालिनि लसद्वदनारविन्दे ।
श्यामामृताम्बुनिधिसङ्गमतीव्रवेगि
न्यावर्तनाभिरुचिरे मम सन्निधेहि ॥ २१ ॥
सत्प्रेमसिन्धुमकरन्दरसौघधारा
सारान् अजस्रमभितः स्रवदाश्रितेषु ।
श्रीराधिके तव कदा चरणारविन्दं
गोविन्दजीवनधनं शिरसा वहामि ॥ २२ ॥
सङ्केतकुञ्जमनु कुञ्जरमन्दगामि
न्यादाय दिव्यमृदुचन्दनगन्धमाल्यम् ।
त्वां कामकेलिरभसेन कदा चलन्तीं
राधेऽनुयामि पदवीमुपदर्शयन्ती ॥ २३ ॥
गत्वा कलिन्दतनयाविजनावतारम्
उद्वर्तयन्त्यमृतमङ्गमनङ्गजीवम् ।
श्रीराधिके तव कदा नवनागरेन्द्रं
पश्यामि मग्ननयनं स्थितमुच्चनीपे ॥ २४ ॥
सत्प्रेमराशिसरसो विकसत्सरोजं
स्वानन्दसीधुरससिन्धुविवर्धनेन्दुम् ।
तच्छ्रीमुखं कुटिलकुन्तलभृङ्गजुष्टं
श्रीराधिके तव कदा नु विलोकयिष्ये ॥ २५ ॥
लावण्यसाररससारसुखैकसारे
कारुण्यसारमधुरच्छविरूपसारे ।
वैदग्ध्यसाररतिकेलिविलाससारे
राधाभिधे मम मनोऽखिलसारसारे ॥ २६ ॥
चिन्तामणिः प्रणमतां व्रजनागरीणां
चूडामणिः कुलमणिर्वृषभानुनाम्नः ।
सा श्यामकामवरशान्तिमणिर्निकुञ्ज
भूषामणिर्हृदयसम्पूटसन्मणिर्नः ॥ २७ ॥
मञ्जुस्वभावमधि कल्पलतानिकुञ्जं
व्यञ्जन्तमद्भुतकृपारसपुञ्जमेव ।
प्रेमामृताम्बुधिमगाधमबाधमेतं
राधाभिधं द्रुतमुपाश्रय साधु चेतः ॥ २८ ॥
श्रीराधिकां निजविटेन सहालपन्तीं
शोणाधरप्रसृमरच्छविमञ्जरीकाम् ।
सिन्दूरसंवलितमौक्तिकपङ्क्तिशोभां
यो भावयेद् दशनकुन्दवतीं स धन्यः ॥ २९ ॥
पीतारुणच्छविमनन्ततडिल्लताभां
प्रौढानुरागमदविह्वलचारुमूर्तिम् ।
प्रेमास्पदां व्रजमहीपतितन्महिष्योर्-
गोविन्दमनसि तं निदधामि राधाम् ॥ ३० ॥
निर्माय चारुमुकुटं नवचन्द्रकेण
गुञ्जाभिरारचितहारमुपाहरती ।
वृन्दाटवी नवनिकुञ्जगृहाधिदेव्याः
श्रीराधिके तव कदा भवतास्मि दासी ॥ ३१ ॥
सङ्केतकुञ्जमनुपल्लवमास्तरीतुं
तत्तत्प्रसादमभितः खलु संवरीतुम् ।
त्वां श्यामचन्द्रमभिसारयितुं धृताशे
श्रीराधिके मयि विधेहि कृपाकटाक्षम् ॥ ३२ ॥
दूराद् अपास्य स्वजनान् सुखमर्थकोटिं
सर्वेषु साधनवरेषु चिरं निराशः ।
वर्षन्तमेव सहजाद्भुतसौख्यधारां
श्रीराधिकाचरणरेणुमहं स्मरामि ॥ ३३ ॥
वृन्दाटवीप्रकटमन्मथकोटिमूर्तेः
कस्यापि गोकुलकिशोरनिशाकरस्य ।
सर्वस्वसम्पुटमिव स्तनशातकुम्भ
कुम्भद्वयं स्मर मनो वृषभानुपुत्र्याः ॥ ३४ ॥
सान्द्रानुरागरससारसरःसरोजं
किं वा द्विधा मुकुलितं मुखचन्द्रभासा ।
तन्नूतनस्तनयुगं वृषभानुजायाः
स्वानन्दसीधुमकरन्दघनं स्मरामि ॥ ३५ ॥
क्रीडासरःकनकपङ्कजकुट्मलाय
स्वानन्दपूर्णरसकल्पतरोः फलाय ।
तस्मै नमो भुवनमोहनमोहनाय
श्रीराधिके तव नवस्तनमण्डलाय ॥ ३६ ॥
पत्रावलीं रचयितुं कुचयोः कपोले
बन्धुं विचित्रकवरीं नवमल्लिकाभिः ।
अङ्गं च भूषयितुमाभरणैर्धृताशे
श्रीराधिके मयि विधेहि कृपावलोकम् ॥ ३७ ॥
श्यामेति सुन्दरवरेति मनोहरेति
कन्दर्पकोटिललितेति सुनागरेति ।
सोत्कण्ठमह्नि गृणती मुहुराकुलाक्षी
सा राधिका मयि कदा नु भवेत् प्रसन्ना ॥ ३८ ॥
वेणुः करान् निपतितः स्खलितं शिखण्डं
भ्रष्टं च पीतवसनं व्रजराजसूनोः ।
यस्याः कटाक्षशरघातविमूर्च्छितस्य
तां राधिकां परिचरामि कदा रसेन ॥ ३९ ॥
तस्या अपाररससारविलासमूर्तेर्-
आनन्दकन्दपरमाद्भुतसौम्यलक्ष्म्याः ।
ब्रह्मादिदुर्गमगतेर्वृषभानुजायाः
कैङ्कर्यमेव मम जन्मनि जन्मनि स्यात् ॥ ४० ॥
पूर्णानुरागरसमूर्तितडिल्लताभं
ज्योतिः परं भगवतो रतिमद्रहस्यम् ।
यत् प्रादुरस्ति कृपया वृषभानुगेहे
स्यात् किङ्करी भवितुमेव ममाभिलाषः ॥ ४१ ॥
प्रेमोल्लसद्रसविलासविकाशकन्दं
गोविन्दलोचनवितृप्तचकोरपेयम् ।
सिञ्चन्तमद्भुतरसामृतचन्द्रीर्कौघैः
श्रीराधिकावदनचन्द्रमहं स्मरामि ॥ ४२ ॥
सङ्केतकुञ्जनिलये मृदुपल्लवेन
कॢप्ते कदापि नवसङ्गभयत्रपाढ्याम् ।
अत्याग्रहेण कववारिरुहे ग्र्हीत्वा
नेष्ये विटेन्द्रशयने वृषभानुपुत्रीम् ॥ ४३ ॥
सुगन्धमाल्यनवचन्द्रलवङ्गसङ्ग
ताम्बूलसम्पुटमधीश्वरि मां वहन्तीम् ।
श्यामं तमुन्मदरसाद् अभिसंसरन्ती
श्रीराधिके करुणयानुचरीं विधेहि ॥ ४४ ॥
श्रीराधिके तव नवोद्गमचारुवृत्त
वक्षोजमेव मुकुलद्वयलोभनीयम् ।
श्रोणीं दधद्रसगुणैरुपचीयमानं
कैशोरकं जयति मोहनचित्तचौरम् ॥ ४५ ॥
संलापमुच्छलदनङ्गतरङ्गमाला
सङ्क्षोभितेन वपुषा व्रजनागरेण ।
प्रत्यक्षरं क्षरदपाररसामृताब्धिं
श्रीराधिके तव कदान् नु शृणोम्यदूरात् ॥ ४६ ॥
अङ्कस्थितेऽपि दयिते किमपि प्रलापं
हा मोहनेति मधुरं विदधत्यकस्मात् ।
श्यामानुराग मदविह्वलमोहनाङ्गी
श्यामामणिर्जयति कापि निकुञ्जसीम्नि ॥ ४७ ॥
कुञ्जान्तरे किमपि जातरसोत्सवायाः
श्रुत्वा तदालापितशिङ्जितमिश्रितानि ।
श्रीराधिके तव रहःपरिचारिकाहं
द्वारस्थिता रसह्रदे पतिता कदा स्याम् ॥ ४८ ॥
वीणां करे मधुमतीं मधुरस्वरां ताम्
आधाय नागरशिरोमणिभावलीलाम् ।
गायन्त्यहो दिनमपारमिवाश्रुवर्षैर्-
दुःखान् नयन्त्यहह सा हृदि मेऽस्तु राधा ॥ ४९ ॥
अन्योन्यहासपरिहासविलासकेली
वैचित्र्यजृम्भितमहारसवैभवेन ।
वृन्दावने विलसतापहृतं विदग्ध
द्वन्द्वेन केनचिद् अहो हृदयं मदीयम् ॥ ५० ॥
महाप्रेमोन्मीलन्नवरससुधासिन्धुलहरी
परीवारैर्विश्वं स्नपयद् इव नेत्रान्तनटनैः ।
तडिन्मालागौरं किमपि नवकैचोरमधुरं
पुरन्ध्रीणां चुडाभरणनवरत्नं विजयते ॥ ५१ ॥
अमन्दप्रेमाङ्कश्लथसकलनिर्बन्धहृदयं
दयापारं दिव्यच्छविमधुरलावण्यललितम् ।
अलक्ष्यं राधाख्यं निखिलनिगमैरप्यतितरां
रसाम्भोधेः सारं किमपि सुकुमारं विजयते ॥ ५२ ॥
दुकूलं बिभ्राणमथ कुचतटे कञ्चुकपटं
प्रसादं स्वामिन्याः स्वकरतलदत्तं प्रणयतः ।
स्थितां नित्यं पार्श्वे विविधपरिचर्यैकचतुरां
किशोरीमात्मानं किमिह सुकुमारीं नु कलये ॥ ५३ ॥
विचिन्वन्ती केशान् क्वचन करजैः कञ्चुकपटं
क्व चाप्यामुञ्चन्ती कुचकनकदीव्यत्कलशयोः ।
सुगुल्फे न्यस्यन्ती क्वचन मणिमञ्जीरयुगलं
कदा स्यां श्रीराधे तव सुपरिचारिण्यहमहो ॥ ५४ ॥
अतिस्नेहाद् उच्चैरपि च हरिनामानि गृणतस्-
तथा सौगन्धाद्यैर्बहुभिरुपचारैश्च यजतः ।
परानन्दं वृन्दावनमनुचरन्तं च दधतो
मनो मे राधायाः पदमृदुलपद्मे निवसतु ॥ ५५ ॥
निजप्राणैश्वर्या यद् अपि दयनीयेन्यमिति मां
मुहुश्चुम्बत्यालिङ्गतिसुरतमाध्व्या मदयति ।
विचित्रां स्नेहर्धिं रचयति तथाप्यद्भुतगतेस्-
तवैव श्रीराधे पदरसविलासे मम मनः ॥ ५६ ॥
प्रीतिं कामपि नाममात्रजनितप्रोद्दामरोमोद्गमां
राधामाधवयोः सदैव भजतोः कौमार एवोज्ज्वलाम् ।
वृन्दारण्यनवप्रसूननिचयान् आनीय कुञ्जान्तरे
गूढं शैशवखेलनैर्बत कदा कार्यो विवाहोत्स्वः ॥ ५७ ॥
विपञ्चितसुपञ्चमं रुचिरवेणुना गायता
प्रियेण सह वीणया मधुरगानविद्यानिधिः ।
करीन्द्रवनसम्मिलन्मदकरिण्युदारक्रमा
कदा नु वृषभानुजा मिलतु भानुजारोधसि ॥ ५८ ॥
सहासवरमोहनाद्भुतविलासरसोत्सवे
विचित्रवरताण्डवश्रमजलार्द्रगण्डस्थलौ ।
कदा नु वरनागरीरसिकशेखरौ तौ मुदा
भजामि पदलालनाल् ललितवीजनं कुर्वती ॥ ५९ ॥
वृन्दारण्यनिकुञ्जमञ्जुलगृहेष् आत्मेश्वरीं मार्गयन्
हा राधे सविदग्धदर्शितपथं किं यासि नेत्यालपन् ।
कालिन्दीसलिले च तत्कुचतटीकस्तूरिकापङ्किले
स्नायं स्नायमहो कुदेहजमलं जह्यां कदा निर्मलः ॥ ६० ॥
पादस्पर्शरसोत्सवं प्रणतिभिर्गोविन्दमिन्दीवर
श्यामं प्रार्थयितुं सुमञ्जुलरहःकुञ्जांश्च सम्मार्जितुम् ।
मालाचन्दनगन्धपूररसवत्ताम्बूलसत्पानकान्य्
आदातुं च रसैकदायिनि तव प्रेष्या कदा स्यामहम् ॥ ६१ ॥
लावण्यामृतवार्तया जगद् इदं सम्प्लावयन्ती शरद्
राकाचन्द्रमनन्तमेव वदनज्योत्स्नाभिरातन्वती ।
श्रीवृन्दावनकुञ्जमञ्जुगृहिणी काप्यस्ति तुच्छामहो
कुर्वाणाखिलसाध्यसाधनकथां दत्त्वा स्वदास्योत्सवम् ॥ ६२ ॥
दृष्ट्या यत्र क्वचन विहिताम्रेडने नन्दसूनोः
प्रत्याख्यानच्छलत उदितोदारसङ्केतदेशा ।
धूर्तेन्द्र त्वद्भयमुपगता सा रहो नीपवाट्यां
नैका गच्छेत् कितव कृतमित्यादिशेत् कर्हि राधा ॥ ६३ ॥
सा भ्रूनर्तनचातुरी निरुपमा सा चारुनेत्राञ्चले
लीलाखेलनचातुरी वरतनोस्तादृग्वचो चातुरी ।
सङ्केतागम चातुरी नवनवक्रीडाकला चातुरी
राधाया जयतात् सखीजनपरीहासोत्सवे चातुरी ॥ ६४ ॥
उन्मीलन्मिथुनानुरागगरिमोदारस्फुरन्माधुरी
धारासारधुरीणदिव्यललितानङ्गोत्सवैः खेलतोः ।
राधामाधवयोः परं भवतु नश्चित्ते चिरार्तिस्पृशोः
कौमारे नवकेलिशिल्पलहरीशिक्षादिदीक्षारसः ॥ ६५ ॥
कदा वा खेलन्तौ व्रजनगरवीथिषु हृदयं
हरन्तौ श्रीराधाव्रजपतिकुमारौ सुकृतिनः ।
अकस्मात् कौमारे प्रकटनवकैशोरविभवौ
प्रपश्यन् पूर्णः स्यां रहसि परिहासादिनिरतौ ॥ ६६ ॥
धम्मिल्लं ते नवपरिमलैरुल्लसत्फुल्लमल्ली
मालं भालस्थलमपि लसत्सान्द्रसिन्दूरबिन्दु ।
दीर्घापाङ्गच्छविमनुपमां चारुचन्द्रांशुहासं
प्रेमोल्लासं तव तु कुचयोर्द्वन्द्वमन्तः स्मरामि ॥ ६७ ॥
लक्ष्मीकोटीविलक्षलक्षणलसल्लीलाकिशोरीशतैर्-
आराध्यं व्रजमण्डलेऽतिमधुरं राधाभिधानं परम् ।
ज्योतिः किञ्चन सिञ्चदुज्ज्वल
रसप्राग्भावमाविर्भवद्
राधे चेतसि भूरिभाग्यविभवैः कस्याप्यहो जृम्भते ॥ ६८ ॥
तज्जीयान् नवयौवनोदयमहालावण्यलीलामयं
सान्द्रानन्दघनानुरागघटितश्रीमूर्तिसम्मोहनम् ।
वृन्दारण्यनिकुञ्जकेलिललितं काश्मीरगौरच्छवि
श्रीगोविन्द इव व्रजेन्द्रगृहिणीप्रेमैकपात्रं महः ॥ ६९ ॥
प्रेमानन्दरसैकवारिधिमहाकल्ल्लोलमालाकुला
व्यालोलारुणलोचनाञ्चलचमत्कारेण सञ्चिन्वती ।
किञ्चित् केलिकलामहोत्सवमहो वृन्दाटवीमन्दिरे
नन्दत्यद्भुतकामवैभवमयी राधा जगन्मोहिनी ॥ ७० ॥
वृन्दारण्यनिकुञ्जसीमनि नवप्रेमानुभावभ्रमद्
भ्रूभङ्गीलवमोहितव्रजमणिर्भक्तैकचिन्तामणिः ।
सान्द्रानन्दरसामृतस्रवमणिः प्रोद्दामविद्युल्लता
कोटिज्योतिरुदेति क्वापि रमणीचुडामणिर्मोहिनी ॥ ७१ ॥
लीलापाङ्गतरङ्गितैरुदभवन्न् एकैकशः कोटिशः
कन्दर्पाः पुरुदर्पटङ्कृतमहाकोदण्डविस्फारिणः ।
तारुण्यप्रथमप्रवेशसमये यस्या महामाधुरी
धारानन्तचमत्कृता भवतु नः श्रीराधिका स्वामिनी ॥ ७२ ॥
यत्पादाम्बुरुहैकरेणुकणिका
ं मूर्ध्ना निधातुं नहि
प्रापुर्ब्रह्मशिवादयोऽप्यधिकृतिं गोप्येकभावाश्रयः ।
सापि प्रेमसुधारसाम्बुनिधी राधापि साधारणी
भूता कालगतिक्रमेण बलिना हे दैव तुभ्यं नमः ॥ ७३ ॥
दूरे स्निघ्धपरम्परा विजयतां दूरे सुहृन्मण्डली
भृत्याः सन्तु विदूरतो व्रजपतेरन्यः प्रसङ्गः कुतः ।
यत्र श्रीवृषभानुजा कृतरतिः कुञ्जोदरे कामिना
द्वारस्था प्रियकिङ्करी परमहं श्रोष्यामि काञ्चिध्वनिम् ॥ ७४ ॥
गौराङ्गे म्रदिमा स्मिते मधुरिमा नेत्राञ्चले द्राघिमा
वक्षोजे गरिमा तथैव तनिमा मध्ये गतौ मन्दिमा ।
श्रोण्यां च प्रथिमा भुवोः कुटिलिमा बिम्बाधरे शोणिमा
श्रीराधे हृदि ते रसेन जडिमा ध्यानेऽस्तु मे गोचरः ॥ ७५ ॥
प्रातः पीतपटं कदा व्यपनयाम्यन्यांशुकस्यार्पणात्
कुञ्जे विस्मृतकञ्चुकीमपि समानेतुं प्रधावामि वा ।
बध्नीयां कवरीं युनज्मि गलितां मुक्तावलीमञ्जये
नेत्रे नागरि रङ्गकैश्च पिदध्
आम्यङ्गव्रणं वा कदा ॥ ७६ ॥
यद् वृन्दावनमात्रगोचरमहो यन् न श्रुतीकं शिरोऽप्य्
आरोढुं क्षमते न यच्छिवशुकादीनां तु यद् ध्यानगम् ।
यत् प्रेमामृतमाधुरीरसमयं यन् नित्यकैशोरकं
तद् रूपं परिवेष्ट्रमेव नयनं लोलायमानं मम ॥ ७७ ॥
धर्माद्यर्थचतुष्टयं विजयतां किं तद् वृथावार्तया
सैकान्तेश्वरभक्तियोगपदवी त्वारोपिता मूर्धनि ।
या वृन्दावनसीम्नि काचन घनाश्चर्या किशोरीमणिस्-
तत्कैङ्कर्यरसामृताद् इह परं चित्ते न मे रोचते ॥ ७८ ॥
प्रेम्णः सन्मधुरोज्ज्वलस्य हृदयं शृङ्गारलीलाकला
वैचित्रीपर्मावधिर्भगवतः पूज्यैव कापीशता ।
ईशानी च शची महासुखतनुः शक्तिः स्वतन्त्रा परा
श्रीवृन्दावननाथपट्टमहिषी राधैव सेव्या मम ॥ ७९ ॥
राधादास्यमपास्य यः प्रयतते गोविन्दसङ्गाशया
सोऽयं पूर्णसुधारुचेः परिचयं राकां विना काङ्क्षति ।
किं च श्यामरतिप्रवाहलहरीबीजं न मे तां विदुः
ते प्राप्यापि महामृताम्बुधिमहो बिन्दुं परं प्राप्नुयुः ॥ ८० ॥
कैशोराद्भुतमाधुरीभरधुरीणाङ्गच्छविं राधिकां
प्रेमोल्लासभराधिकां निरवधि ध्यायन्ति ये तद्धियः ।
त्यक्ताः कर्मभिरात्मनैव भगवद्धर्मेऽप्यहो निर्ममाः
सर्वाश्चर्यगतिं गता रसमयीं तेभ्यो महद्भ्यो नमः ॥ ८१ ॥
लिखन्ति भुजमूलतो न खलु शङ्खचक्रादिकं
विचित्रहरिमन्दिरं न रचयन्ति भालस्थले ।
लसत्तुलसिमालिकां दधति कण्ठपीठे न वा
गुरोर्भजनविक्रमात् क इह ते महाबुद्धयः ॥ ८२ ॥
कर्माणि श्रुतिबोधितानि नितरां कुर्वन्तु कुर्वन्तु मा
गूढाश्चर्यरसाः स्रगादिविषयान् गृह्णन्तु मुञ्चन्तु वा ।
कैर्वा भाव रहस्यपारगमतिः श्रीराधिकाप्रेयसः
किञ्चिज्ज्ञैरनुयुज्यतां बहिरहो भ्राम्यद्भिरन्यैरपि ॥ ८३ ॥
अलं विषयवार्तया नरककोटिबीभत्सया
वृथा श्रुतिकथाश्रमो बत बिभेमि कैवल्यतः ।
परेशभजनोन्मदा यदि शुकादयः किं ततः
परं तु मम राधिकापदरसे मनो मज्जतु ॥ ८४ ॥
तत् सौन्दर्यं स च नवनवो यौवनश्रीप्रवेशः
सा दृग्भङ्गी स च रसघनाश्चर्यवक्षोजकुम्भः ।
सोऽयं बिम्बाधरमधुरिमा तत् स्मितं सा च वाणी
सेयं लीलागतिरपि न विस्मर्यते राधिकायाः ॥ ८५ ॥
यल् लक्ष्मीशुकनारदादिपरमाश्चर्यानुरागोत्सवैः
प्राप्तं त्वत्कृपयैव हि व्रजभृतां तत्तत्किशोरीगणैः ।
तत्कैङ्कर्यमनुक्षणाद्भुतरसं प्राप्तुं धृताशे मयि
श्रीराधे नवकुञ्जनागरि कृपादृष्टिं कदा दास्यसि ॥ ८६ ॥
लब्ध्वा दास्यं तदतिकृपया मोहनस्वादितेन
सौन्दर्यश्रीपदकमलयोर्लालनैः स्वापितायाः ।
श्रीराधाया मधुरमधुरोच्छिष्टपीयूषसारं
भोजं भोजं नवनवरसानन्दमग्नाः कदा स्याम् ॥ ८७ ॥
यदि स्नेहाद् राधे दिशसि रतिलाम्पट्यपदवीं
गतं मे स्वप्रेष्ठं तद् अपि मम निष्ठां शृणु यथा ।
कटाक्षैरालोके स्मितसहचरैर्जातपुलकं
समाश्लिष्याम्युच्चैरथ च रसये त्वत्पदरसम् ॥ ८८ ॥
कृष्णः पक्षो नवकुवलयं कृष्णसारस्तमालो
नीलाम्भोदस्तव रुचिपदं नामरूपैश्च कृष्णा ।
कृष्णे कस्मात् तव विमुखता मोहनश्याममूर्ताव्
इत्युक्त्वा त्वां प्रहसितमुखीं किं नु पश्यामि राधे ॥ ८९ ॥
लीलापाङ्गतरङ्गितैरिव दिशो नीलोत्पलश्यामला
दोहायत्कनकाद्रिमण्डलमिव व्योम स्तनैस्तन्वतीम् ।
उत्फुल्लस्थलपङ्कजामिव भुवं रासे पदन्यासतः
श्रीराधामनुधावतीं व्रजकिशोरीणां घटां भावये ॥ ९० ॥
दृशौ त्वयि रसाम्बुधौ मधुरमीनवद् भ्राम्यतः
स्तनौ त्वयि सुधासरस्यहह चक्रवाकाविव ।
मुखं सुरतरङ्गिणि त्वयि विकासि हेमाम्बुजं
मिलन्तु मयि राधिके तव कृपातरङ्गच्छटाः ॥ ९१ ॥
कान्ताढ्याश्चर्यकान्ता कुलमणिकमला कोटीकाम्यैकपादा
म्भोजभ्राजन्नखेन्दुच्छविलवविभवा काप्यगम्या किशोरी ।
उन्मर्यादप्रवृद्धप्रणयरसमहाम्भोधिगम्भीरलीला
माधुर्योज्जृम्भिताङ्गी मयि किमप्
इ कृपारङ्गमङ्गीकरोतु ॥ ९२ ॥
कलिन्दगिरिनन्दिनीपुलिनमालतीमन्दिरे
प्रविष्टवनमालिना ललितकेलिलोलीकृते ।
प्रतिक्षणचमत्कृताद्भुतरसैकलीलानिधे
निधेहि मयि राधिके निजकृपातरङ्गच्छटाम् ॥ ९३ ॥
यस्यास्ते बत किङ्करीषु बहुशश्चाटूनि वृन्दाटवी
कन्दर्पः कुरुते तवैव किमपि प्रेप्सुः प्रसादोत्सवम् ।
सान्द्रानन्दघनानुरागलहरीनिस्यन्दपादाम्बुज
द्वन्द्वे श्रीवृषभानुनन्दिनि सदा वन्दे तव श्रीपदम् ॥ ९४ ॥
यज्जापः सकृद् एव गोकुलपतेराकर्ष्कस्तत्क्षणाद्
यत्र प्रेमवतां समस्तपूरुषार्थेषु स्फुरेत् तुच्छता ।
यन्नामाङ्कितमन्त्रजापनपरः प्रीत्या स्वयं माधवः
श्रीकृष्णोऽपि तद् अद्भुतं स्फुरतु मे राधेति वर्णद्वयम् ॥ ९५ ॥
कालिन्दीतटकुञ्जरमन्दिरगतो योगीन्द्रवद् यत्पद
ज्योतिर्ध्यानपरः सदा जपति यां प्रेमाश्रुपूर्णो हरिः ।
केनाप्यद्भुतमुल्लसद्रतिरसानन्देन सम्मोहितः
सा राधेति सदा हृदि स्फुरतु मे विद्या परा द्व्यक्षरा ॥ ९६ ॥
देवानामथ भक्तमुक्तसुहृदामत्यन्तदूरं च यत्
प्रेमानन्दरसं महासुखकरं चोच्चारितं प्रेमतः ।
प्रेम्णाकर्णयते जपत्यथ मुदा गायत्यथालिष्वयं
जल्पत्यश्रुमुखो हरिस्तदमृतं राधेति मे जीवनम् ॥ ९७ ॥
या वाराधयति प्रियं व्रजमणिं प्रौढानुरागोत्सवैः
संसिध्यन्ति यदाश्रयेण हि परं गोविन्दसख्युत्सुकाः ।
यत् सिद्धिः परमापदैकरसवत्याराधनान्ते नु सा
श्रीराधा श्रुतिमौलिशेखरलता नाम्नी मम प्रीयताम् ॥ ९८ ॥
गात्रे कोटितडिच्छवि प्रविततानन्दच्छवि श्रीमुखे
बिम्बौष्ठे नवविद्रुमच्छवि करे सत्पल्लवैकच्छवि ।
हेमाम्भोरुहकुड्मलच्छवि कुचद्वन्द्वेऽरविन्देक्षणं
वन्दे तन्नवकुञ्जकेलिमधुरं राधाभिधानं महः ॥ ९९ ॥
मुक्तापङ्क्तिप्रतिमदशना चारुबिम्बाधरौष्ठी
मध्ये क्षामा नवनवरसावर्तगम्भीरनाभिः ।
पीनश्रोणिस्तरुणिमसमुन्मेषलावण्यसिन्धुर्-
वैदग्धीनां किमपि हृदयं नागरी पातु राधा ॥ १०० ॥
स्निग्धाकुञ्चितनीलकेशि विदलद्बिम्बोष्ठिचन्द्रानने
खेलत्खञ्जनगञ्जनाक्षि रुचिमन्नासाग्रमुक्ताफले ।
पीनश्रोणि तनूदरि स्तनतटीवृत्तच्छटात्यद्भुते
श्रीराधे भुज वल्लिचारुवलये स्वं रूपमाविष्कुरु ॥ १०१ ॥
लज्जान्तःपटमारचय्य रचितस्मायप्रसूनाञ्जलौ
राधाङ्गे नवरङ्गधाम्नि ललितप्रस्तावेन यौवने ।
श्रोणीहेमवरासने स्मरनृपेणाध्यासिते मोहनं
लीलापाङ्गविचित्रताण्डवकलापाण्डित्यमुन्मीलति ॥ १०२ ॥
सा लावण्यचमत्कृतिर्नववयो रूपं च तन्मोहनं
तत्तत्केलिकलाविलासलहरीचातुर्यमाश्चर्यभूः ।
नो किञ्चित् कृतमेव यत्र न नुतिर्नागो न वा सम्भ्रमो
राधामाधवयोः स कोऽपि सहजः प्रेमोत्सवः पातु वः ॥ १०३ ॥
येषां प्रेक्षां वितरति नवोदारगाढानुरागान्
मेघश्यामो मधुरमधुरानन्दमूर्तिर्मुकुन्दः ।
वृन्दाटव्यां सुमहिमचमत्कारकारीण्यहो किं
तानि प्रेक्षेऽद्भुतरसनिधानानि राधापदानि ॥ १०४ ॥
बलान् नीत्वा तल्पे किमपि परिरभ्याधरसुधां
निपीय प्रोल्लिख्य प्रखरनखरेण स्तनभरम् ।
ततो नीवीं न्यस्ते रसिकमणिना त्वत्करधृते
कदा कुञ्जच्छिद्रे भवतु मम राधेऽनुनयनम् ॥ १०५ ॥
करं ते पत्रालिं किमपि कुचयोः कर्तुमुचितं
पदं ते कुञ्जेषु प्रियमभिसरन्त्या अभिसृतौ ।
दृशौ कुञ्जच्छिद्रैस्तव निभृतकेलिं कलयितुं
यदा वीक्षे राधे तद् अपि भविता किं शुभदिनम् ॥ १०६ ॥
रहोगोष्ठीं श्रोतुं तव निजविटेन्द्रेण ललितां
करे धृत्वा त्वां वा नवरमणतल्पे घटयितुम् ।
रतामर्दस्रस्तं कचभरमथो संयमयितुं
विदध्याः श्रीराधे मम किमधिकारोत्सवरसम् ॥ १०७ ॥
वृन्दाटव्यां नवनवरसानन्दपुञ्जे निकुञ्जे
गुञ्जद्भृङ्गीकुलमुखरिते मञ्जुमञ्जुप्रहासैः ।
अन्योन्यक्षेपणनिचयनप्राप्तसङ्गोपनाद्यैः
क्रीडज्जीयाद् रसिकमिथुनं कॢप्तकेलीकदम्बम् ॥ १०८ ॥
रूपं शारदचन्द्रकोटिवदने धम्मिल्लमल्लीस्रजाम्
आमोदैर्विकलीकृतालिपटले राधे कदा तेऽद्भुतम् ।
ग्रैवेयोज्ज्वलकम्बुकण्ठि मृदुदोर्वल्लीचलत्कङ्कणे
वीक्षे पट्टदुकुलवासिनि र
णन्मञ्जीरपादाम्बुजे ॥ १०९ ॥
इतो भयमितस्त्रपाकुलमितो यशः श्रीरितो
हिनस्त्यखिलशृङ्खलामपि सखीनिवासस्त्वया ।
सगद्गदमुदीरितं सुबहुमोहनाकाङ्क्षया
कथं कथमयीश्वरि प्रहसितैः कदा म्रेड्यसे ॥ ११० ॥
श्यामे चाटुरुतानि कुर्वति सहालापान् प्रण्त्री मया
गृह्णाने च दुकूलपल्लवमहो हुङ्कृत्य मां द्रक्ष्यसि ।
बिभ्राणे भुजवल्लीमुल्लसितया रोमस्रजालङ्कृतात्
दृष्ट्वा त्वां रसलीनमूर्तिमथ किं पश्यामि हास्यं ततः ॥ १११ ॥
अहो रसिकशेखरः स्फुरति कोऽपि वृन्दाटवी
निकुञ्जनवनागरीकुचकिशोरकेलिप्रियः ।
करोतु स कृपां सखीप्रकटपूर्णनत्युत्सवो
निजप्र्यतमापदे रसमयेऽधद् यः शिरः ॥ ११२ ॥
विचित्रवरभूषणोज्ज्वलदुकूलसत्कञ्चुकैः
सखीभिरिति भूषिता तिलकगन्धमाल्यैरपि ।
स्वयं च सकलाकलासु कुशलीकृता नः कदा
सुरासमधुरोत्सवे किमपि वेशयेत् स्वामिनी ॥ ११३ ॥
कदा सुमणिकिङ्किणीवलयनूपुरप्रोल्लसन्
महामधुरमण्डलाद्भुतविलासरासोत्सवे ।
अपि प्रणयिनो बृहद्भुजगृहीतकण्ठ्यो वयं
परं निजरसेश्वरीचरणलक्ष्म वीक्षामहे ॥ ११४ ॥
यद् गोविन्दकथासुधारसह्रदे चेतो मया जृम्भितं
यद् वा तद्गुणकीर्तनार्चनविभूषाद्यैर्दिनं प्रापितम् ।
यद् यत् प्रीतिरकाइ तत्प्रियजनेष्वात्यन्तिकी तेन मे
गोपेन्द्रात्मजजीवनप्रणयिनी श्रीराधिका तुष्यतु ॥ ११५ ॥
रहो दास्यं तस्याः किमपि वृषभानोर्व्रजवर्-
यसः पुत्र्याः पूर्णप्रणयरसमूर्तेर्यदि लभे ।
तदा नः किं धर्मैः किमु सुरगणैः किं च विधिना
किमीशेन श्यामप्रियमिलनयत्नैरपि च किम् ॥ ११६ ॥
चन्द्रास्ये हरिणाक्षि देवि सुनसे शोणाधरे सुस्मिते
चिल्लक्ष्मीभुजवल्लि कम्बुरुचिरग्रीवे गिरीन्द्रस्तनि ।
भज्यन्मध्यबृहन्नितम्बकदलीखण्डोरुपादाम्बुज
प्रोन्मीलन्नखचन्द्रमण्डलि कदा राधे मयाराध्यसे ॥ ११७ ॥
राधापादसरोजभक्तिमचलामुद्वीक्ष्य निष्कैतवां
प्रीतः स्वं भजतोऽपि निर्भरमहाप्रेमाधिकं सर्वशः ।
आलिङ्गत्यथ चुम्बति स्ववदनात् ताम्बुलमास्येऽर्पयेत्
कण्ठे स्वां वनमालिकामपि मम न्यस्येत् कदा मोहनः ॥ ११८ ॥
लावण्यं परमाद्भुतं रतिकलाचातुर्यमत्यद्भुतं
कान्तिः कापि महाद्भुता वरतनोर्लीलागतिश्चाद्भुता ।
दृग्भङ्गी पुनरद्भुताद्भुततमा यस्याः स्मितं चाद्भुतं
सा राधाद्भुतमूर्तिरद्भुतरसं दास्यं कदा दास्यति ॥ ११९ ॥
भ्रमद्भ्रूकुटिसुन्दरं स्फुरितचारुबिम्बाधरं
ग्रहे मधुरहुङ्कृतं प्रणयकेलिकोपाकुलम् ।
महारसिकमौलिना सभयकौतुकं वीक्षितं
स्मरामि तव राधिके रतिकलासुखं श्रीमुखम् ॥ १२० ॥
उन्मीलन्मुकुटच्छटापरिलसद्दिक्चक्रवालं स्फुरत्
केयूराङ्गदहारकङ्कणघटानिर्धूतरत्नच्छवि ।
श्रोणीमण्डलकिङ्किणीकलरवं मञ्जीरमञ्जुध्वनि
श्रीमत्पादसरोरुहं भज मनो राधाभिधानं महः ॥ १२१ ॥
श्यामामण्डलमौलिमण्डनमणिः श्यामानुरागस्फुरद्
रोमोद्भेदविभाविताकृतिरहो काश्मीरगौरच्छविः ।
सातीवोन्मदकामकेलितरला मां पातु मन्दस्मिता
मन्दारद्रुमकुञ्जमन्दिरगता गोविन्दपट्टेश्वरी ॥ १२२ ॥
उपास्यचरणाम्बुजे व्रजभृतां किशोरीगणैर्-
महद्भिरपि पुरुषैरपरिभाव्यभावोत्सवे ।
अगाधरसधामणि स्वपादपद्मसेवाविधौ
विधेहि मधुरोज्ज्वलामिव कृतिं ममाधिश्वरि ॥ १२३ ॥
आनम्राननचन्द्रमीरितदृगापाङ्गच्छटामन्थरं
किञ्चिद् दर्शिशिरोऽवगुण्ठनपटं लीलाविलासावधिम् ।
उन्नीयालकमञ्जरीः कररुहैरालक्ष्य सन्नागर
स्याङ्गेऽङ्गं तव राधिके सचकितालोकं कदा लोकये ॥ १२४ ॥
राकाचन्द्रो वराको यदनुपमरसानन्दकन्दानन्देन्दोस्-
तत्तादृक्चन्द्रिकाया अपि किमपि कणामात्र कस्याणुतोऽपि ।
यस्याः शोणाधरश्रीविधृतन्
अवसुधामाधुरीसारसिन्धुः
सा राधा कामबाधाविधुरमधुपतिप्राणदा प्रीयतां नः ॥ १२५ ॥
राकानेकविचित्रचन्द्र उदितः प्रेमामृतज्योतिषां
वीचीभिः परिपूरयेद् अगणितब्रह्माण्डकोटिं यदि ।
वृन्दारण्यनिकुञ्जसीमणि तदाभासः परं लक्ष्यसे
भावेनैव यदा तदैव तुलये राधे तव श्रीमुखम् ॥ १२६ ॥
कालिन्दीकूलकल्पद्रुमतल
निलयप्रोल्लसत्केलिकन्दा
वृन्दाटव्यां सदैव प्रकटतररहोवल्लवीभावभव्या ।
भक्तानां हृत्सरोजे मधुरर्-
अससुधास्यन्दिपादारविन्दा
सान्द्रानन्दाकृतिर्नः स्फुरतु नवनवप्रेमलक्ष्मीरमन्दा ॥ १२७ ॥
शुद्धप्रेमैकलीलानिधिरहह महातङ्कमङ्कस्थिते च
प्रेष्ठे बिभ्रत्यदभ्रस्फुरद
तुलकृपास्नेहमाधुर्यमूर्तिः ।
प्राणालीकोटिनीराजितपदसुषमामाधुरी माधवेन
श्रीराधा मामगाधामृतरसभरिते कर्हि दास्येऽभिषिञ्चेत् ॥ १२८ ॥
वृन्दारण्यनिकुञ्जसीमसु सदा स्वानङ्गरङ्गोत्सवैर्-
माद्यन्त्यद्भुतमाधवाधरसुधामाध्वीकसंवादनैः ।
गोविन्दप्रियवर्गदुर्गमसखीवृन्दैरनालक्षिता
दास्यं दास्यति मे कदा नु कृपया वृन्दावनाधीश्वरी ॥ १२९ ॥
मल्लीदामनिबद्धचारुकवरं सिन्दूररेखोल्लसत्
सीमन्तं नवरत्नचित्रतिलकं गण्डोल्लसत्कुण्डलम् ।
निष्कग्रीवमुदारहारमरुणं बिभ्रद्दुकूलं नवं
विद्युत्कोटिनिभं स्मरोत्सवमयं राधाख्यमीक्षे महः ॥ १३० ॥
प्रेमोल्लासैकसीमा परमरसचमक्त्कारवैचित्र्यसीमा
सौन्दर्यसीमा किमपि नववयोरूपलावण्यसीमा ।
लीलामाधुर्यसीमा निजजनपरमौदार्यवात्सल्यसीमा
सा राधा सौख्यसीमा जयति रतिकलाकेलिमाधुर्यसीमा ॥ १३१ ॥
यस्यास्तत्सुकुमारसुन्दरपदोन्मीलन्नखेन्दुच्छटा
लावण्यैकलवोपजीविसकलश्यामामणिमण्डलम् ।
शुद्धप्रेमविलासमूर्तिरधिकोन्मीलन्महामाधुरी
धारासारधुरीणकेलिविभवा सा राधिका मे गतिः ॥ १३२ ॥
कलिन्दगिरिनन्दिनीसलिलबिन्दुसन्दोहभृन्
मृदूद्गतिरतिश्रमं मिथुनमद्भुतक्रीडया ।
अमन्दरसतुन्दिलं भ्रमरवृन्दवृन्दाटवी
निकुञ्जवरमन्दिरे किमपि सुन्दरं नन्दति ॥ १३३ ॥
व्याकोशेन्दीवरविकसितामन्दहेमारविन्दं
श्रीमन्निस्यन्दनरतिरसान्दोलकन्दर्पकेलि ।
वृन्दारण्ये नवरससुधास्यन्दिपादारविन्दं
ज्योतिर्द्वन्द्वं किमपि परमानन्दकन्दं चकास्ति ॥ १३४ ॥
ताम्बूलं क्वचिद् अर्पयामि चरणौ संवाहयामि क्वचिन्
मालाद्यैः परिमण्डये क्वचिद् अहो संवीजयामि क्वचित् ।
कर्पूरादिसुवासितं क्व च पुनः सुस्वादु चाम्भोऽमृतं
पायाम्येव गृहे कदा खलु भजे श्रीराधिकामाधवौ ॥ १३५ ॥
प्रत्यङ्गोच्छलदुज्ज्वलामृतरसप्रेमैकपूर्णाम्बुधिर्-
लावण्यैकसुधानिधिः पुरुकृपावात्सल्यसाराम्बुधिः ।
तारुण्यप्रथमप्रवेशविलसन्माधुर्यसाम्राज्यभूर्-
गुप्तः कोऽपि महानिधिर्विजयते राधारसैकावधिः ॥ १३६ ॥
यस्याः स्फूर्जत्पदनख
मणिज्योतिरेकच्छटायाः
सान्द्रप्रेमामृतरसमहासिन्धुकोटिर्विलासः ।
सा चेद् राधा रचयति कृपादृष्टिपातं कदाचिन्
मुक्तिस्तुच्छीभवति बहुशः प्राकृताप्राकृतश्रीः ॥ १३७ ॥
कदा वृन्दारण्ये मधुरमधुरानन्दरसदे
प्रियेश्वर्याः केलिभवननवकुञ्जानि मृगये ।
कदा श्रीराधायाः पदकमलमाध्वीकलहरी
परीवाहैश्चेतो मधुकरमधीरं मदयिता ॥ १३८ ॥
राधाकेलिनिकुञ्जवीथिषु चरन् राधाभिधामुच्चरन्
राधाया अनुरूपमेव परमं धर्मं रासेनाचरन् ।
राधायाश्चरणाम्बुजं परिचरन् नानोपचारैर्मुदा
कर्हि स्यां श्रुतिशेखरोपरि चरन्न् आश्चर्यचर्यां चरन् ॥ १३९ ॥
यातायातशतेन सङ्गमितयोरन्योन्यवक्त्रोल्लसच्
चन्द्रालोकनसम्प्रभूतबहुलानङ्गाम्बुधिक्सोभयोः ।
अन्तःकुञ्जकुटीरतल्पग
तयोर्दिव्याद्भुतक्रीडयो
राधामाधवयोः कदा नु शृणुयात् मञ्जीरकाञ्चीध्वनिम् ॥ १४० ॥
अहो भुवनमोहनं मधुरमाधवीमण्डपे
मधूत्सवसमुत्सकं किमपि नीलपीतच्छवि ।
विदग्धमिथुनं मिथोदृढतरानुरागोल्लसन्
मदं मदयते कदा चिरतरं मदीयं मनः ॥ १४१ ॥
राधानामसुधारसं रसयितुं जिह्वास्तु मे विह्वला
पादौ तत्पदकाङ्कितासु चरतां वृन्दाटवीवीथिषु ।
तत्कर्मैव करः करोतु हृदयं तस्याः पदं ध्यायतां
तद्भावोत्सवतः परं भवतु मे तत्प्राणनाथे रतिः ॥ १४२ ॥
मन्दीकृत्य मुकुन्दसुन्दरपदद्वन्द्वारविन्दामल
प्रेमानन्दममन्दमिन्दुतिलकाद्युन्मादकन्दं परम् ।
राधाकेलिकथारसाम्बुधिचलद्वीचिभिरान्दोलितं
वृन्दारण्यनिकुञ्जमन्दिरवरालिन्दे मनो नन्दतु ॥ १४३ ॥
राधानामैव कार्यं ह्यनुदिनमिलितं साधनाधीशकोटिस्-
त्याज्या नीराज्य राधापदकमलसुधां सत्पुमर्थाग्रकोटिः ।
राधापादाब्जलीलाभुवि जयति सदाऽमन्दमन्दारकोटिः
श्रीराधाकि%IikarINAM luThati charaN
अयोरद्भुता सिद्धिकोटिः ॥ १४४ ॥
मिथोभङ्गीकोटिप्रवहदनुरागामृतरसो
त्तरङ्गद्भ्रूभङ्गक्षुभितबहिरभ्यन्तरमहो ।
मदाघूर्णन्नेत्रं रचयति विचित्रं रतिकला
विलासं तत्कुञ्जे जयति नवकैशोरमिथुनम् ॥ १४५ ॥
काचिद् वृन्दावननवलतामन्दिरे नन्दसूनोर्-
दृप्यद्दोष्कन्दलदृढप
रीरम्भनिस्पन्दगात्री ।
दिव्यानन्ताद्भुतरसकलाः कपयन्त्याविरास्ते
सान्द्रानन्दामृतरसघनप्रेममूर्तिः किशोरी ॥ १४६ ॥
न जानीते लोकं न च निगमजातं कुलपर
स्परां वा नो जानात्यहह न सतां चापि चरितम् ।
रसं राधायामाभजति किल भावं व्रजमणौ
रहस्ये तद् यस्य स्थितिरपि न साधारणगतिः ॥ १४७ ॥
ब्रह्मानन्दैकवादाः कतिचन भगवद्वन्दनानन्दमत्ताः
केचिद् गोविन्दसख्याद्यनुपमपरमानन्दमन्ये स्वदन्ते ।
श्रीराधाकिङ्करीणां त्वखिलसुखचमत्कारसारैकसीमा
तत्पादाम्भोजराजन्नखमणिव्
इलसज्ज्योतिरेकच्छटापि ॥ १४८ ॥
न देवैर्ब्रह्माद्यैर्न खलु हरिभक्तैर्न सुहृदा
दिभिर्यद् वै राधामधुपतिरहस्यं सुविदितम् ।
तयोर्दासीभूत्वा तदुपचितकेलीरसमये
दुरन्ताः प्रत्याशा हरि हरि दृशोर्गोचरयितुम् ॥ १४९ ॥
त्वयि श्यामे नित्यप्रणयिनि विदग्धे रसनिधौ
प्रिये भूयो भूयः सुदृढमतिरागो भवतु मे ।
इति प्रेष्ठेनोक्ता रमण मम चित्ते तव वचो
वदन्तीति स्मेरा मम मनसि राधा विलसतु ॥ १५० ॥
सदानन्दं वृन्दावननवलतामन्दिरवरेष्व्
अमन्दैः कन्दर्पोन्मदरतिकलाकौतुकरसम् ।
किशोरं तज्ज्योतिर्युगलमतिघोरं मम भवं
ज्वलज्ज्वालं शीतैः स्वपदमकरन्दैः शमयतु ॥ १५१ ॥
उन्मीलन्नवमल्लिदामविलसद्धम्मिल्लभावे बृहच्
छ्रोणीमण्डलमेखलाकलरवे शिञ्जत्सुमञ्जीरिणि ।
केयूराङ्गदकङ्कणावलिलसद्दोर्वल्लिदीप्तिच्छटे
हेमाम्भोरुहकुट्मलस्तनि कदा राधे दृशा पीयसे ॥ १५२ ॥
अमर्यादोन्मीलत्सुरतरसपीयूषजलधेस्-
तरङ्गैरुत्तङ्गैरिव किमपि दोलायिततनुः ।
स्फुरन्ती प्रेयोऽङ्के स्फुटकनकपङ्केरुहमुखी
सखीनां नो राधे नयनसुखमाधास्यसि कदा ॥ १५३ ॥
क्षरन्तीव प्रत्यक्षरमनुपमप्रेमजलधिं
सुधाधारावृष्टीरिव विदधती श्रोत्रपुटयोः ।
रसार्द्रा सन्मृद्वी परमसुखदा शीतलतरा
भवित्री किं राधे तव सह मया कापि सुकथा ॥ १५४ ॥
अनुल्लिख्यानन्तान् अपि सदपराधान् मधुपतिर्-
महाप्रेमाविष्टस्तव परमदेयं विमृशति ।
तवैकं श्रीराधे गृणत इह नामामृतरसं
महिम्नः कः सीमां स्पृशतु तव दास्यैकमनसाम् ॥ १५५ ॥
लुलितनवलवङ्गोदारकर्पूरपूरं
प्रियतममुखचन्द्रोद्गीर्णताम्बूलखण्डम् ।
घनपुलककपोला स्वादयन्ती मदास्येऽ
र्पयतु किमपि दासीवत्सला कर्हि राधा ॥ १५६ ॥
सौन्दर्यामृतराशिरद्भुतमहालावण्यलीलाकला
कालिन्दीवरवीचिडम्बरपरिस्फूर्जत्कटाक्षच्छविः ।
सा कापि स्मरकेलिकोमलकलावैचित्र्यकोटिस्फुरत्
प्रेमानन्दघनाकृतिर्दिशतु मे दास्यं किशोरीमणिः ॥ १५७ ॥
दुकूलमतिकोमलं कलयद् एव कौसुम्भकं
निबद्धनवमल्लिकाललितमाल्यधम्मिल्लकम् ।
बृहत्कटितटस्फुरन्मुखरमेखलालङ्कृतं
कदा नु कलयामि तत्कनकचम्पकाभं महः ॥ १५८ ॥
कदा रासे प्रेमोन्मदरसविलासेऽद्भुतमये
दृशोर्मध्ये भ्राजन्मधुपतिसखीवृन्दवलये ।
मुदान्तः कान्तेन स्वरचितमहालास्यकलया
निषेवे नृत्यन्तीं व्यनजवरताम्बूलशकलैः ॥ १५९ ॥
प्रसृमरपटवासे प्रेमसीमाविकासे
मधुरमधुरहासे दिव्यभूषाविलासे ।
पुलकितदयितांसे संवलद्बाहुपाशे
तदतिललितरासे कर्हि राधामुपासे ॥ १६० ॥
यदि कनकसरोजं कोटिचन्द्रांशुपूर्णं
नवनवमकरन्दस्यन्दिसौन्दर्यधाम ।
भवति लसितचञ्चत्खञ्जनद्वन्द्वमास्यं
तद् अपि मधुरहास्यं दत्तदास्यं न तस्याः ॥ १६१ ॥
सुधाकरमुधाकरं प्रतिपदस्फुरन्माधुरी
धुरीणनवचन्द्रिकाजलधितुन्दिलं राधिके ।
अतृप्तहरिलोचनद्वयचकोरपेयं कदा
रसाम्बुधिसमुन्नतं वदनचन्द्रमीक्षे तव ॥ १६२ ॥
अङ्गप्रत्यङ्गरिङ्गन्मधुरत्
अरमहाकीर्तिपीयूषसिन्धोर्-
इन्दोः कोटिर्विनिन्दद् वदनम्
अतिमदालोलनेत्रं दधत्याः ।
राधायाः सौकुमार्याद्भुतललिततनोः केलिकल्लोलिनीनाम्
आनन्दस्यन्दिनीनां प्रणयरसमयान् किं विगाहे प्रवाहान् ॥ १६३ ॥
मत्कण्ठे किं नखरशिखया दैत्यराजोऽस्मि नाहं
मैवं पीडां कुरु कुचतटे पुतना नाहमस्मि ।
इत्थं कीरैरनुकृतवचः प्रेयसा सङ्गतायाः
प्रातः श्रोष्ये तव सखि कदा केलिकुञ्जं मृजन्ती ॥ १६४ ॥
जाग्रत्स्वप्नसुषुप्तिषु स्फुरतु मे राधापदाब्जच्छटा
वैकुण्ठे नरकेऽथवा मम गतिर्नान्यास्तु राधां विना ।
राधाकेलिकथा सुधाम्बुधिमहावीचिभिरान्दोलितं
कालिन्दीतटकुञ्जमन्दिरवरालिन्दे मनो विन्दतु ॥ १६५ ॥
अलिन्दे कालिन्दीतटनवलतामन्दिरगते
रतामर्दोद्भुतश्रमजलभरापूर्णवपुषोः ।
सुखस्पर्शेनामीलितनयनयोः शीतमतुलं
कदा कुर्यां संवीजनमहह राधामुरभिदोः ॥ १६६ ॥
क्षणं मधुरगानतः क्षणममन्दहिन्दोलतः
क्षणं कुसुमवायुतः सुरतकेलिशिल्पैः क्षणम् ।
अहो मधुरसद्रसप्रणयकेलिवृन्दावने
विदग्धवरनागरई रसिकशेखरौ खेलतः ॥ १६७ ॥
अद्य श्यामकिशोरमौलिरहह प्राप्तो रजन्या मुखे
नीत्वा तां करयोः प्रगृह्य सहसा नीपाटवीं प्राविशत् ।
श्रोष्ये तल्पमिलन्महारतिभरे प्राप्तेऽपि शीत्कारितं
तद्वीचिसुखतर्जनं किमु हरे
ः स्वश्रोत्ररन्ध्रश्रितम् ॥ १६८ ॥
श्रीमद्राधे त्वमथ मधुरं श्रीयशोदाकुमारे
प्राप्ते कैशोरकमतिरसाद् वल्गसे साधुयोगम् ।
इत्थं बाले महसि कथया नित्यलीलावयःश्री
जातावेशा प्रकटसहजा किं नु दृश्या किशोरी ॥ १६९ ॥
एकं काञ्चनचम्पकच्छवि परं नीलाम्बुदश्यामलं
कन्दर्पोत्तरलं तथैकमपरं नैवानुकूलं बहिः ।
किं चैकं बहुमानभङ्गि रसवच्चाटूनि कुर्वत् परं
पश्य क्रीडति कुञ्जसीम्नि तद् अहो द्वन्द्वं महामोहनम् ॥ १७० ॥
विचित्ररतिविक्रमं दधदनुक्रमाद् आकुलं
महामदनवेगतो निभृतमञ्जुकुञ्जोदरे ।
अहो विनिमयन् नवं किमपि नीलपीतं पटं
मिथो मिलितमद्भुतं जयति पीतनीलं महः ॥ १७१ ॥
करे कमलमद्भुतं भ्रमयतोर्मिथोत्सर्पित
स्फुरत्पुलकदोर्लतायुगलयोः स्मरोन्मत्तयोः ।
सहासरसपेशलं मदकरीन्द्रभङ्गीशतैर्-
गतिं रसिकयोर्द्वयोः स्मरत चारुवृन्दावने ॥ १७२ ॥
खेलन्मुग्धाक्षिमीनस्फुरदध्
अरमणीविद्रुमश्रोणिभार
द्वीपायामोत्तरङ्गस्मरकलभकटाटोपवक्षोरुहायाः ।
गम्भीरावर्तनाभेर्बहुलहरिमहाप्रेमपीयूषसिन्धोः
श्रीराधायाः पदाम्भोरुहपरिचरेण योग्यतामेव गेषे ॥ १७३ ॥
विच्छेदाभासमात्राद् अहह निमिषतो गात्रविस्रंसनादौ
दीप्यत् कल्पाग्निकोटिज्वलितमिव भवेद् बाह्यमभ्यन्तरं च ।
गाढस्नेहानुबन्धग्रथितमिव ययोरद्भुतप्रेममूर्त्योः
श्रीराधामाधवाख्यां परमिह मधुरं तद्द्वयं धाम जाने ॥ १७४ ॥
कदा रत्युन्मुक्तं कचभरमहं संयमयिता
कदा वा संधास्ये त्रुटितनवमुक्तावलिमपि ।
कदा वा कस्तूर्यास्तिलकमपि भूयो रचयिता
निकुञ्जान्तर्वृत्ते नवरतिरणे यौवतमणेः ॥ १७५ ॥
किं ब्रूमोऽन्यत्र कुण्ठीकृतक जनपदे धाम्न्यपि श्रीविकुण्ठे
राधामाधुर्यवेत्ता मधुपतिरथ तन्माधुरीं वेत्ति राधा ।
वृन्दारण्यस्थलीयं परमरससुधामाधुरीणां धुरीणा
तद्द्वन्द्वं स्वादनीयं सकलमपि ददौ राधिकाकिङ्करीणाम् ॥ १७६ ॥
लसद्वदनपङ्कजा नवगभीरनाभिभ्रमा
नितम्बपुलिनोल्लसन्मुखरकाञ्चिकादम्बिनी ।
विशुद्धरसवाहिनी रसिकसिन्धुसङ्गोन्मदा
सदा सुरतरङ्गिनी जयति कापि वृन्दावने ॥ १७७ ॥
अनङ्गनवरङ्गिणी रसतरङ्गिणी सङ्गता
दधत् सुखसुधामये स्वतनुनीरधौ राधिका ।
अहो मधुपकाकलीमधुरमाधवीमण्डपे
स्मरक्षुभितमेधते सुरतसीधुमत्तं महः ॥ १७८ ॥
रोमालीमिहिरात्मजा सुललिते बन्धूकबन्धुप्रभा
सर्वाङ्गे स्फुटचम्पकच्छविरहो नाभीसरःशोभना ।
वक्षोजस्तवका लसद्भुजलता शिञ्जापतज्झङ्कृतिः
श्रीराधा हरते मनो मधुपतेरन्येव वृन्दाटवी ॥ १७९ ॥
राधामाधवयोर्विचित्रसुरतारम्भे निकुञ्जोदरे
स्रस्तप्रस्तरसङ्गतैर्वपुरलङ्कुर्वेऽङ्गरागैः कदा ।
तत्रैव त्रुटिताः स्रजो निपतिताः सन्धाय भूयः कदा
कण्ठे धारयितास्मि मार्जनकृते प्रातः प्रविष्टास्म्यहम् ॥ १८० ॥
श्लोकान् प्रेष्ठयशोऽङ्कितान् गृहशुकान् अध्यापयेत् कर्हिचिद्
गुञ्जामञ्जुलहार बर्हमुकुटं निर्माति काले क्वचित् ।
आलिख्य प्रियमूर्तिमाकुलकुचौ सङ्घट्टयेद् वा कदाप्य्
एवं व्यापृतिभिर्दिनं नयति मे राधा प्रियस्वामिनी ॥ १८१ ॥
प्रेयःसङ्गसुधासदानुभविनी भूयो भवद्भाविनी
लीलापञ्चमरागिणी रतिकलाभङ्गीशतोद्भाविनी ।
कारुण्याद्द्रवभाविनी कटितटे काञ्चीकलाराविणी
श्रीराधैव गतिर्ममास्तु पदयोः प्रेमामृतस्राइणी ॥ १८२ ॥
कोटीन्दुच्छविहासिनी नवसुधासम्भारसम्भाषिणी
वक्षोजद्वितयेन हेमकलसश्रीगर्वनिर्वासिनी ।
चित्रग्रामनिवासिनी नवनवप्रेमोत्सवोल्लासिनी
वृन्दारण्यविलासिनी किमु रहो भूयान् ममोल्लासिनी ॥ १८३ ॥
कदा गोविन्दाराधनगलितताम्बूलशवलं
मुदा स्वादं स्वादं पुलकिततनुर्मे प्रियसखी ।
दुकूलेनोन्मीलन्नवकमलकिञ्जल्करुचिना
निवीताङ्गी सङ्गीतकनिजकलाः शिक्षयति माम् ॥ १८४ ॥
लसद्दशनमौक्तिकप्रव
रकान्तिपूरस्फुरन्
मनोज्ञनवपल्लवाधरमणिच्छटासुन्दरम् ।
चरन्मकरकुण्डलं चकितचारुनेत्राञ्चलं
स्मरामि तव राधिके वदनमण्डलं निर्मलम् ॥ १८५ ॥
चलत्कुटिलकुन्तलं तिलकशोभिभालस्थलं
तिलप्रसवनासिकापुटविराजिमुक्ताफलम् ।
कलङ्करहितामृतच्छविसमुज्ज्वलं राधिके
तवातिरतिपेशलं वदनमण्डलं भावये ॥ १८६ ॥
पूर्णप्रेमामृतरससमुल्लाससौभाग्यसारं
कुञ्जे कुञ्जे नवरतिकलाकौतुकेनात्तकेलि ।
उत्पुल्लेन्दीवरकनकयोः कान्तिचौरं किशोरं
ज्योतिर्द्वन्द्वं किमपि परमानन्दकन्दं चकास्ति ॥ १८७ ॥
ययोन्मीलत्केलीविलसितकटाक्षैककलया
कृतो वन्दी वृन्दाविपिनकलभेन्द्रो मदकलः ।
जडीभूतः क्रीडामृग इव यदाज्ञालवकृते
कृती नः सा राधा शिथिलयतु साधारणगतिम् ॥ १८८ ॥
श्रीगोपेन्द्रकुमारमोहनमहाविद्ये स्फुरन्माधुरी
सारस्फाररसाम्बुराशिसहजप्रस्यन्दिनेत्राञ्चले ।
कारुण्यार्द्रकटाक्षभङ्गिमधुरस्मेराननाम्भोरुहे
हा हा स्वामिनि राधिके मयि कृपादृष्टिं मनाङ् निक्षिप ॥ १८९ ॥
ओष्ठप्रान्तोच्छलितदयितोद्गीर्णताम्बूलरागा
रागानुच्चैर्निजरचितया चित्रभङ्ग्योन्नयन्ती ।
तिर्यग्ग्रीवा रुचिररुचिरोदञ्चदाकुञ्चितभ्रूः
प्रेयःपार्श्वे विपुलपुलकैर्मण्डिता भाति राधा ॥ १९० ॥
किं रे धूर्तप्रवर निकटं यासि नः प्राणसख्या
नूनं बाला कुचतटकरस्पर्शमात्राद् विमुह्येत् ।
इत्थं राधे पथि पथि रसान् नागरं तेऽनुलग्नं
क्षिप्त्वा भङ्ग्या हृदयमुभयोः कर्हि संमोहयिष्ये ॥ १९१ ॥
कदा वा राधायाः पदकमलमायोज्य हृदये
दयेशं निःशेषं नियतमिह जह्यामुपविधिम् ।
कदा वा गोविन्दः सकलसुखदः प्रेमकरणाद्
अनन्ये धन्ये वै स्वयमुपनयेत स्मरकलाम् ॥ १९२ ॥
कदा वा प्रोद्दामस्मरसमरसंरम्भरभस
प्ररूढस्वेदाम्भःप्लुतलुलितचित्राखिलतनू ।
गतौ कुञ्जद्वारे सुखमरुति संवीज्य परया
मुदाहं श्रीराधारसिकतिलकौ स्यां सुकृतिनी ॥ १९३ ॥
मिथःप्रेमावेशाद् घनपुलकदोर्वल्लिरचित
प्रगाढाश्लेषेणोत्सवरसभरोन्मीलितदृशौ ।
निकुञ्जकॢप्ते वै नवकुसुमतल्पेऽभिशयितौ
कदा पत्संवाहादिभिरहमधीशौ न सुखये ॥ १९४ ॥
मदारुणविलोचनं कनकदर्पकामोचनं
महाप्रणयमाधुरीरसविलासनित्योत्सुकम् ।
लसन्नववयःश्रिया ललितभङ्गिलीलामयं
हृदा तद् अहमुद्वहे किमपि हेमगौरं महः ॥ १९५ ॥
मदाघूर्णन्नेत्रं नवरतिरसावेशविवशो
ल्लसद्गात्रं प्राणप्रणयपरिपाट्यां परतरम् ।
मिथोगाढाश्लेषाद् वलयमिव जातं मरकत
द्रुतस्वर्णच्छायं स्फुरतु मिथुनं तन् मम हृदि ॥ १९६ ॥
परस्परं प्रेमरसे निमग्नम्
अशेषसम्मोहनरूपकेलि ।
वृन्दावनान्तर्नवकुञ्जगेहे
तन्नीलपीतं मिथुनं चकास्ति ॥ १९७ ॥
आशास्य दास्यं वृषभानुकुमारिकायास्-
तीरे समध्यास्य च भानुजायाः ।
कदा नु वृन्दावनकुञ्जवीथिष्व्
अहं नु राधे ह्यतिथिर्भवेयम् ॥ १९८ ॥
कालिन्दीतटकुञ्जे पुञ्जीभूतं रसामृतं किमपि ।
अद्भुतकेलिनिधानं निरवधि राधाभिधानमुल्लसति ॥ १९९ ॥
प्रीतिरेव मूर्तिमति, रससिन्धोः सारसम्पद् इव विमला ।
वैदग्धीनां हृदयं काचन वृन्दावनाधिकारिणी जयति ॥ २०० ॥
रसघनमोहनमूर्तिं, विचित्रकेलिमहोत्सवोल्लसितम् ।
राधाचरणविलोडितं, रुचिरशिखण्डं हरिं वन्दे ॥ २०१ ॥
कदा गायं गायं मधुरमधुरीत्या मधुभिदश्
चरित्राणि स्फारामृतरसविचित्राणि बहुशः ।
मृजन्ती तत्केलिभवनमभिरामं मलयज
च्छट् ? बहिः सिञ्चन्ती रसह्रदनिमग्नास्मि भविता ॥ २०२ ॥
उदञ्चद्रोमाञ्चप्रचयखचितां वेपथुमतीं
दधानां श्रीराधामतिमधुरलीलामयतनुम् ।
कदा वा कस्तूर्या किमपि रचयन्त्येव कुचयोर्-
विचित्रां पत्रालीमहमहह वीक्षे सुकृतिनी ॥ २०३ ॥
क्षणं शीत्कुर्वाणा क्षणमथ महावेपथुमती
क्षणं श्याम श्यामेत्यमुमभिलपन्ती पुलकिता ।
महाप्रेमा कापि प्रमदमदनोद्दामरसदा
सदानन्दा मूर्तिर्जयति वृषभानोः कुलमणिः ॥ २०४ ॥
क्षणं शीत्कुर्वाणा क्षणमथ महावेपथुमती
क्षणं श्याम श्यामेत्यमुमभिलपन्ती पुलकिता ।
महाप्रेमा कापि प्रमदमदनोद्दामरसदा
सदानन्दा मूर्तिर्जयति वृषभानोः कुलमणिः ॥ २०५ ॥
कामं तुलिकया करेण हरिणा यालक्तकैरङ्किता
नानाकेलिविदग्धगोपरमणीवृन्दस्तथा वन्दिता ।
या सङ्गुप्ततया तथोपनिषदां हृद्येन विद्योतते
सा राधाचरणद्वयी मम गतिर्लास्यैकलीलामयी ॥ २०६ ॥
सान्द्रप्रेमरसौघवर्षिणि नवोन्मीलन्महामाधुरी
साम्राज्यैकधुरीणकेलिविभवत्कारुण्यकल्लोलिनि ।
श्रीवृन्दावनचन्द्रचित्तहरिणीबन्धस्फुरद्वागुरे
श्रीराधे नवकुञ्जनागरि तव क्रीतास्मि दास्योत्सवः ॥ २०७ ॥
स्वेदापुरः कुसुमचयनैर्दूरतः कण्टकाङ्को
वक्षोजेऽस्यास्तिलकविलयो हन्त घर्माम्भसैव ।
ओष्ठः सख्या हिमपवनतः सव्रणो राधिके ते
क्रूरास्वेदं स्वघटितमहो गोपये प्रेष्ठसङ्गम् ॥ २०८ ॥
पातं पातं पदकमलयोः कृष्णभृङ्गेण तस्याः
स्मेरास्येन्दोर्मुकुलितकुचद्वन्द्वहेमारविन्दम् ।
पीत्वा वक्त्राम्बुजमतिरसन् नूनमन्तः प्रवेष्टुम्
अत्यावेशान् नखरशिखरा पाट्यमानं किमीक्षे ॥ २०९ ॥
अहो तेऽमी कुञ्जास्तदनुपमरासस्थलमिदं
गिरिद्रोणी सैव स्फुरति रतिरङ्गे प्रणयिनी ।
न वीक्षे श्रीराधां हरि हरि कुतोऽपीति शतधा
विदीर्येत प्राणेश्वरि मम कदा हन्त हृदयम् ॥ २१० ॥
इहैवाभूत् कुञ्जे नवरतिकलामोहनतनोर्-
अहो अत्रानृत्यद् दयितसहिता सा रसनिधिः ।
इति स्मारं स्मारं तव चरितपीयूषलहरीं
कदा स्यां श्रीराधे चकित इह वृन्दावनभुवि ॥ २११ ॥
श्रीमद्बिम्बाधरे ते स्फुरति नवसुधामाधुरीसिन्धुकोटिर्-
नेत्रान्तस्ते विकीर्णाद्भुतकुसुमधनुश्चण्डसत्काण्डकोटिः ।
श्रीवक्षोजे तवातिप्रमदरसकलासारसर्वस्वकोटिः
श्रीराधे त्वत्पदाब्जात् स्रवति निरवधिप्रेमपीयूषकोटिः ॥ २१२ ॥
सान्द्रानन्दोन्मदरसघनप्रेमपीयूषमूर्तेः
श्रीराधाया अथ मधुपतेः सुप्तयोः कुञ्जतल्पे ।
कुर्वाणाहं मृदुमृदुपदाम्भोजसंवाहनानि
शय्यान्ते किं किमपि पतिता प्राप्ततन्द्रा प्राप्ततन्द्रा भवेयम् ॥ २१३ ॥
राधापादारविन्दोच्छलितनवरसप्रेमपीयूषपुञ्जे
कालिन्दीकुलकुञ्जे हृदि कलितमहोदारमाधुर्यभावः ।
श्रीवृन्दारण्यवीथीललितरतिकलानागरीं तां गरीयो
गम्भीरैकानुरागां मनसि परिचरन विस्मृतान्यः कदा स्याम् ॥ २१४ ॥
अदृष्ट्वा राधाङ्के निमिषमपि तं नागरमणिं
तया वा खेलन्तं ललितललितानङ्गकलया ।
कदाहं दुःखाब्दौ सपदि पतिता मूर्च्छितवती
न तामाश्वास्यार्तां सुचिरमनुशोचे निजदशाम् ॥ २१५ ॥
भूयो भूयः कमलनयने किं मुधा वार्यतेऽसौ
वाङ्मात्रेऽपि त्वानुगमनं न त्य्जत्येव धूर्तः ।
किञ्चिद् राधे कल कुचतटीप्रान्तमस्य म्रदीयश्
चक्षुर्द्वारा तमनुपतितं चूर्णतामेतु चेतः ॥ २१६ ॥
किं वा नस्तैः सुशास्त्रैः किमथ तदुदितैर्वर्त्मभिः सद्गृहीतैर्-
यत्रास्ति प्रेममूर्तेर्नहि महिमसुधा नापि भावस्तदीयः ।
किं वा वैकुण्ठलक्ष्म्याप्यहह परमया यत्र मे नास्ति राधा
किन्त्वाशाप्यस्तु वृन्दावनभुवि मधुरा कोटिजन्मान्तरेऽपि ॥ २१७ ॥
श्याम श्यामेत्यनुपमरसापूर्णवर्णैर्जपन्ती
स्थित्वा स्थित्वा मधुरमधुरोत्तारमुच्चारयन्ती ।
मुक्तास्थूलान् नयनगलितान् अश्रुबिन्दून वहन्ती
हृष्यद्रोमा प्रतिपदचमत्कुर्वती पातु राधा ॥ २१८ ॥
तादृङ्मूर्तिर्व्रजपतिसुतः पादयोर्मे पतित्वा
दन्ताग्रेणाथ धृततृणकं काकुवादान् ब्रवीति ।
नित्यं चानुव्रजति कुरुते सङ्गमायोद्यमं चे
त्युद्वेगं मे प्रणयिनि किमावेदयेयं न्य्राधे ॥ २१९ ॥
चलल्लीलागत्या क्वचिदनुचलद्धंसमिथुनं
क्वचित् केकिन्यग्रे कृतनटनचन्द्रक्यनुकृति ।
लताश्लिष्टं शाखिप्रवरमनुकुर्वत् क्वचिद् अहो
विदग्धद्वन्द्वं तद् रमत इह वृन्दावनभुवि ॥ २२० ॥
व्याकोशेन्दीवरमथ रुचा हारि हेमारविन्दं
कालिन्दीयं सुरभिमनिलं शीतलं सेवमानम् ।
सान्द्रानन्दं नवनवरसं प्रोल्लसत्केलिवृन्दं
ज्योतिर्द्वन्द्वं मधुरमधुरं प्रेमकन्दं चकास्ति ॥ २२१ ॥
कदा मधुरसारिकाः स्वरसपद्यमध्यापयत्
प्रदाय करतालिकाः क्वचन नर्तयत् केकिनम् ।
क्वचित् कनकवल्लरीवृततमाललीलाधनं
विदग्धमिथुनं तदद्भुतमुदेति वृन्दावने ॥ २२२ ॥
पत्रालीं ललितां कपोलफलके नेत्राम्बुजे कज्जलं
रङ्गं बिम्बफलाधरे च कुचयोः काश्मीरजालेपनम् ।
श्रीराधे नवसङ्गमाय तरले पादाङ्गुलीपङ्क्तिषु
न्यस्यन्ती प्रणयाद् अलक्तककवलं पूर्णा कदा स्यामहम् ॥ २२३ ॥
श्रीगोवर्धन एक एव भवता पाणौ प्रयत्नाद् धृतः
श्रीराधातनुहेमशैलयुगले दृष्टेऽपि ते स्याद् भयम् ।
तद् गोपेन्द्रकुमार मा कुरु वृथा गर्वं परीहासतः
कर्ह्येवं वृषभानुनन्दिनि तव प्रेयांसमाभाषये ॥ २२४ ॥
अनङ्गजयमङ्गलध्वनितकिङ्किणीडिण्डिमः
स्तनादिवरताडनैर्नखरदन्तघातेर्युतः ।
अहो चतुरनागरीनवकिशोरयोर्मञ्जुले
निकुञ्जनिलयाजिरे रतिरणोत्सवो जृम्भते ॥ २२५ ॥
यूनोर्वीक्ष्य दरत्रपानटकलामादीक्षयन्ती दृशौ
वृण्वाना चकितेन सञ्चितमहारत्नस्तनं चाप्युरः ।
सा काचिद् वृषभानुवेश्मनि सखीमालासु बालावली
मौलिः खेलति विश्वमोहनमहासारूप्यमाचिन्वती ॥ २२६ ॥
ज्योतिःपुञ्जद्वयमिदमहो मण्डलाकारमस्या
वक्षस्युन्मादयति हृदयं किं फलत्यन्यदग्रे
भ्रूकोदण्डं नकृतघटनं सत्कटाक्षौघबाणैः
प्राणान् नह्यात् किमु परमतो भावि भूयो न जाने ॥ २२७ ॥
भोः श्रीदामन् सुबल वृषभ स्तोककृष्णार्जुनाद्याः
किं वो दृष्टं मम नु चकिता दृग्गता नैव कुञ्जे ।
काचिद् देवी सकलभुवनाप्लावि लावण्यपुरा
दूराद् एवाखिलमहरत प्रेयसो वस्तु सख्युः ॥ २२८ ॥
गता दूरे गावो दिनमपि तुरीयांशमभजद्
वयं यातुं क्षान्तास्तव च जननी वर्त्मनयना ।
अकस्मात् तूष्णीके सजलनयने दीनवदने
लुठत्यस्यां भूमौ त्वयि नहि वयं प्राणिनिषवः ॥ २२९ ॥
नासाग्रे नवमौक्तिकं सुरुचिरं स्वर्णोज्ज्वलं बिभ्रती
नानाभङ्गिरनङ्गरङ्गविलसल्लीलातरङ्गावली ।
राधे त्वं समलोभय व्रजमणिं रत्नच्छटामञ्जरी
चित्रोदञ्चितकञ्चुकस्थगितयोर्वक्षोजयोः शोभया ॥ २३० ॥
अप्रेक्षे कृतनिश्चयापि सुचिरं दृक्कोणतो वीक्षते
मौने दार्ड्यमुपाश्रितापि निगदेत् तामेव याहीत्यहो ।
अस्पर्शे सुधृताशयापि करयोर्धृत्वा बहिर्यापयेद्
राधाया इति मानदुःस्थितिमहं प्रेक्षे हसन्ती कदा ॥ २३१ ॥
रसागाधे राधाहृदि सरसि हंसः करतले
लसद्वंशश्रोतस्यमृतगुणसङ्गः प्रतिपदम् ।
चलत्पिच्छोत्तंसः सुरचितवतंसः प्रमदया
स्फुरद्गुञ्जागुच्छः स हि रसिकमौलिर्मिलतु मे ॥ २३२ ॥
अकस्मात् कस्याश्चिन् नववसनमाकर्षति परां
मुरल्या धम्मिल्ले स्पृशति कुरुतेऽन्याकरधृतिम् ।
पतन् नित्यं राधापदकमलमूले व्रजपुरे
तद् इत्थं वीथीषु भ्रमति स महालम्पटमणिः ॥ २३३ ॥
एकस्या रतिचौर एव चकितं चान्यास्तनान्ते करं
कुर्यात् कर्षति वेणुनान्यसुदृशो धम्मिल्लमल्लीस्रजम् ।
धत्तेऽन्याभुजवल्लिमुत्पुलक्तिआं सङ्केतयत्यन्यया
राधायाः पदयोर्लुठत्यलममुं जाने महालम्पटम् ॥ २३४ ॥
प्रियांसे निक्षिप्तोत्पुलकभुजदण्डः क्वचिद् अपि
भ्रमन् वृन्दारण्ये मदकलकरीन्द्राद्भुतगतिः ।
निजां व्यञ्जन्न् अत्यद्भुतसुरतशिक्षां क्वचिद् अहो
रहःकुञ्जे गुञ्जध्वनितमधुपे क्रीडति हरिः ॥ २३५ ॥
दूरे स्पृष्ट्यादिवार्ता न कलयति मनाङ्नारदादीन् स्वभक्तान्
श्रीदामाद्यैः सुहृद्भिर्न मिलति च हरेत् स्नेहवृद्धिं स्वपित्रोः ।
किन्तु प्रेमैकसीमां मधुररससुधासिन्धुसारैरगाधां
श्रीराधामेव जानन् मधुपतिरनिशं कुञ्जवीथीमुपास्ते ॥ २३६ ॥
सुस्वादुसुरसतुन्दिलम्, इन्दीवरसुन्दरं किमपि ।
अधिवृन्दाटवि नन्दति, राधावक्षोजभूषणं ज्योतिः ॥ २३७ ॥
कान्तिः कापि परोज्ज्वला नवमिलच्छ्रीचन्द्रिकोद्भासिनी
रामात्यद्भुतवर्णकाञ्च्तरुचिर्नित्याधिकाङ्गच्छविः ।
लज्जानम्रतनुः स्मयेन मधुरा प्रीणाति केलिच्छटा
सन्मुक्ताफलचारुहारसुरुचिः स्वात्मार्पणेनाच्युतम् ॥ २३८ ॥
यन् नारदाजेशशुकैरगम्यं वृन्दावने वञ्जुलमञ्जुकुञ्जे ।
तत् कृष्णचेतोहरणैकविज्ञमत्रास्ति किञ्चित् परमं रहस्यम् ॥ २३९।
लक्ष्मीर्यस्य न गोचरीभवति यन् नापुः सखायः प्रभोः
सम्भाव्योऽपि विरिञ्चिनारदशिवस्वायम्भुवाद्यैर्न यः ।
यो वृन्दावननागरीपशुपतिस्त्रीभावलभ्यः कथं
राधामाधवयोर्ममास्तु स रहोदास्याधिकारोत्सवः ॥ २४० ॥
उच्छिष्टामृतभाक् तवैव चरितं शृण्वंस्तवैव स्मरन्
पादाम्भोजरजस्तवैव विरचन् कुञ्जांस्तवैवालयान् ।
गायन् दिव्यगुणांस्तवैव रसदे पश्यंस्तवैवाकृतिं
श्रीराधे तनुवाङ्मनोभिरमलैः सोऽहं तवैवाश्रितः ॥ २४१ ॥
क्रीडन्मीनद्वयाक्ष्याः स्फुरदधरमणीर्विद्रुमशोणिभार
द्वीपायामान्तरालस्मरकलभकटाटोपवक्षोरुहायाः ।
गम्भीरावर्तनाभेर्वहलहरिमहाप्रेमपीयूषसिन्धोः
श्रीराधायाः पदाम्भोरुहपरिचरणे योग्यतामेव मृग्ये ॥ २४२ ॥
मालाग्रन्थनशिक्षया मृदुमृदुश्रीखण्डनिर्घर्षणा
देशेनाद्भुतमोदकादिविधिभिः कुञ्जातसंमार्जनैः ।
वृन्दारण्यरहःस्थलीषु विवशा प्रेमार्तिभारोद्गमात्
प्राणेशं परिचारकैः खलु कदा दास्या मयाधीश्वरी ॥ २४३ ॥
प्रेमाम्भोधिरसोल्लसत्तरुणिमारम्भेण गम्भीरदृग्
भेदं भङ्गिमृदुस्मितामृतनवज्योत्स्नाञ्चितश्रीमुखी ।
श्रीराधा सुखधामनि प्रविलसद्वृन्दाटवीसीमनि
प्रेयोऽङ्के रतिकौतुकानि कुरुते कन्दर्पलीलानिधिः ॥ २४४ ॥
शुद्धप्रेमविलासवैभवनिधिः कैशोरशोभानिधिः
वैदग्धीमधुराङ्गभङ्गिमनिधिर्लावण्यसम्पन्निधिः ।
श्रीराधा जयतान् महारसनिधिः कन्दर्पलीलानिधिः
सौन्दर्यैकसुधानिधिर्मधुपतेः सर्वस्वभूतो निधिः ॥ २४५ ॥
नीलेन्दीवरवृन्दकान्तिलहरीचौरं किशोरद्वयं
त्वय्येतत्कुचयोश्चकास्ति किमिदं रूपेण मे मोहनम् ।
तन् मामात्मसखीं कुरु दिव्तरुणीयं नौ दृढं श्लिष्यति
स्वच्छायामभिवीक्ष मुह्यति हरौ राधास्मितं पातु नः ॥ २४६ ॥
सङ्गत्यापि महोत्सवेन मधुराकारां हृदि प्रेयसः
स्वच्छायामभिवीक्ष्य कौस्तुभमणौ सम्भूतशोका क्रुधा ।
उत्क्षिप्तप्रियपाणि तिष्ठ स्तनयेत्युक्त्वा गताया बहिः
सख्यै सास्र निवेदनानि किमहं श्रोष्यामि ते राधिके ॥ २४७ ॥
महामणिवरस्रजं कुसुमसञ्चयैरञ्चितं
स्फुरन्मरकतप्रभाग्रथितमोहितश्यामलम् ।
महारसमहीपतेरिव विचित्रसिद्धासनं
कदा नु तव राधिके कवरभारमालोकये ॥ २४८ ॥
मध्ये मध्ये कुसुमखचितं रत्नदाम्ना निबद्धं
मल्लीमाल्यैर्घनपरिमलैर्भूषितं लम्बमानैः ।
पश्चाद्राजन्मणिवरकृतोदारमाणिक्यगुच्छं
धम्मिल्लं ते हरिकरधृतं कर्हि पश्यामि राधे ॥ २४९ ॥
विचित्राभिर्भङ्गीविततिभिरहो चेतसि परं
चमत्कारं यच्छंल् ललितमणिमुखादिलसितः ।
रसावेशाद् द्वैतः स्मरमधुरवृत्ताखिलमहोऽ
द्भुतस्ते सीमन्ते नवकनकपट्टो विजयते ॥ २५० ॥
अहो द्वैधीकर्तुं कृतिभिरनुरागामृतरस
प्रवाहैः सुस्निघ्धे कुटिलरुचिरः श्याम उचितः ।
इतीयं सीमन्ते नवरुचिरसिन्दूररचिता
सुरेखा नः प्रख्यापयितुमिव राधे विजयते ॥ २५१ ॥
चकोरस्ते वक्त्रामृतकिरणबिम्बे मधुकरस्-
तव श्रीपादाब्जे जघनपुलिने खञ्जनवरः ।
स्फुरन्मीनो जातस्त्वयि रससरस्यां मधुपतेः
सुखाटव्यां राधे त्वयि च हरिणस्तस्य नयनम् ॥ २५२ ॥
स्पृष्ट्वा स्पृष्ट्वा मृदुकरतलेनाङ्गमङ्गं सुशीतं
सान्द्रानन्दामृतरसह्रदे मज्जतो माधवस्य ।
अङ्के पङ्केरुहसुनयना प्रेममूर्तिः स्फुरन्ती
गाढाश्लेषोन्नमितचिबुका चुम्बिता पातु राधा ॥ २५३ ॥
सदा गायं गायं मधुरतरराधाप्रियेशः
सदा सान्द्रानन्दा नवरसदराधारतिकथाः ।
सथा स्थायं स्थायं नवनिभृतराधारतिवने
सदा ध्यायं ध्यायं विवशहृदि राधापदसुधा ॥ २५४ ॥
श्याम श्यामेत्यमृतरससंस्राविवर्णान् जपन्ती
प्रेमौत्कण्ठ्यात् क्षणमपि सरोमाञ्चमुच्चैर्लपन्ती ।
सर्वत्रोच्चाटनमिव गता दुःखदुःखेन पारं
काङ्क्षत्यह्नो दिनकरमलं क्रुध्यती पातु राधा ॥ २५५ ॥
कदाचिद् गायन्ती प्रियरतिकलावैभवगतिं
कदाचिद् ध्यायन्ती प्रियसहभविष्यद्विलसितम् ।
अलं मुञ्चामुञ्चेत्यतिमधुरमुग्धप्रलपितैर्-
नयन्ती श्रीराधा दिनमिह कदानन्दयतु नः ॥ २५६ ॥
श्रीगोविन्द व्रजवरवधूवृन्दचूडामणिस्ते
कोटिप्राणाभ्यधिकपरमप्रेष्ठपादाब्जलक्ष्मीः ।
कैङ्कर्येणाद्भुतनवरसेनैव मां स्वीकरोतु
भूयो भूयः प्रतिमुहुरधिस्वाम्यहं प्रार्थयामि ॥ २५७ ॥
अनेन प्रीता मे दिशति निजकैङ्कर्यपदवीं
दवीयो दृष्टिनां पदमहह राधा सुखमयी ।
निधायैवं चित्ते कुवलयरुचिं बर्हमुकुटं
किशोरं ध्यायामि द्रुतकनकपीतच्छविपटम् ॥ २५८ ॥
ध्यायन्तं शिखिपिच्छमौलिमनिशं तन् नाम सङ्कीर्तयन्
नित्यं तच्चरणाम्बुजं परिचरन् तन्मन्त्रवर्यं जपन् ।
श्रीराधापददास्यमेव परमाभीष्टं हृदा धारयन्
कर्हि स्यां तदनुग्रहेण परमाद्भुतानुरागोत्सवः ॥ २५९ ॥
श्रीराधारसिकेन्द्ररूपगुणवद्गीतानि संश्रावयन्
गुञ्जामञ्जुलहारबर्हमुकुटाद्यावेदयंश्चाग्रतः ।
श्यामाप्रेषितपूगमाल्यनवगन्धाद्यैश्च संप्रीणयंस्-
त्वत्पादाब्जनखच्छटारसह्रदे मग्नः कदा स्यामहम् ॥ २६० ॥
क्वासौ राधा निगमपदवीदूरगा कुत्र चासौ
कृष्णस्तस्याः कुचमुकुलयोरन्तरैकान्तवासः ।
क्वाहं तुच्छः परममधमः प्राण्यहो गर्हकर्मा
यत् तन् नाम स्फुरति महिमा ह्येष वृन्दावनस्य ॥ २६१ ॥
वृन्दारण्ये नवरसकला कोमला प्रेममूर्तिः
श्रीराधायाश्चरणकमलामोदमाधुर्यसीमा ।
राधां ध्यायन् रसिकतिलकेनात्तकेलीविलासां
तामेवाहं कथमिह तनुं न्यस्य दासी भवेयम् ॥ २६२ ॥
हा कालिन्दि त्वयि मम निधिः प्रेयसा खेलतासीद्
भो भो दिव्याद्भुततरुलतास्तत्करस्पर्शभाजः ।
हे राधाया रतिग्रहशुका हे मृगा हे मयूरा
भूयो भूयः प्रणतिभिरहं प्रार्थये वोऽनुकम्पाम् ॥ २६३ ॥
वहन्ती राधायाः कुचकलशकाश्मीरजमहो
जलक्रीडावेशाद् गलितमतुलप्रेमरसदम् ।
इयं सा कालिन्दी विकसितनवेन्दीवररुचि
च्छटा मन्दीभूतं हृदयमिह सन्दीपयतु मे ॥ २६४ ॥
सद्योगीन्द्र सुदृश्यसान्द्ररसदानन्दैकसन्मूर्तयः
सर्वेऽप्यद्भुतसन्महिम्नि मधुरे वृन्दावने सङ्गताः ।
ये क्रूरा अपि पापिनो न च सतां सम्भाष्यदृश्याश्च ये
सर्वान् वस्तुतया निरीक्ष्य परमस्वाराध्यबुद्धिर्मम ॥ २६५ ॥
यद् राधापदकिङ्करीकृतहृदा सम्यग्भवेद् गोचरं
ध्येयं नैव कदापि यद् धृदि विना तस्याः कृपास्पर्शतः ।
यत् प्रेमामृतसिन्धुसाररसदं पापैकभाजामपि
तत् वृन्दावनदुष्प्रवेशमहिमाश्चर्यं हृदि स्फूर्जतु ॥ २६६ ॥
राधाकेलिकलासु साक्षिणि कदा वृन्दावने पावने
वत्स्यामि स्फुटमुज्ज्वलाद्भुतरसे प्रेमैकमत्ताकृतिः ।
तेजोरूपनिकुञ्ज एव कलयन् नेत्रादिपिण्डे स्थितं
तादृक्स्वोचितदिव्यकोमलवपुः स्वीयं समालोकये ॥ २६७ ॥
यत्र यत्र मम जन्मकर्मभिर्नारकेऽथ परमे पदे मम ।
राधिकारतिनिकुञ्जमण्डली तत्र तत्र हृदि मे विराजताम् ॥ २६८ ॥
क्वाहं मूढमतिः क्व नाम परमानन्दैकासारं रसं
श्रीराधाचरणानुभावकथया स्यन्दायमाना गिरः ।
लग्नाः कोमलकुञ्जपुञ्जविलसद्वृन्दाटवीमण्डले
क्रीडच्छ्रीवृषभानुजापदनखज्योतिश्छटाः प्रायशः ॥ २६९ ॥
श्रीराधे श्रुतिभिर्बुधैर्भगवताप्यामृग्यसद्वैभवे
स्वस्तोत्रस्वकृपात एव सहजायोग्येऽप्यहं कारितः ।
पद्येनैव सदापराधिनि महन्मार्गे विरुध्य त्वदे
काशे स्नेहजलाकुलाक्षि किमपि प्रीतं प्रसादीकुरु ॥ २७० ॥
अद्भुतानन्दलोभश्चेन् नाम्ना रससुधानिधिः ।
स्तवोऽयं कर्णकलशैर्गृहीत्वा पीयतां बुधाः ॥ २७१ ॥
स जयति गौरपयोधिर्मायावादार्कतापसन्तप्तम् ।
हृन्नभ उदशीतलयद् यो राधारससुधानिधिना ॥ २७२ ॥
॥ इति ॥
% File name : rAdhAsudhAnidhi.itx
%--------------------------------------------
% Text title : rAdhAsudhAnidhi
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Transliterated by :
% Proofread by :
% Translation by :
% Latest update : August 31, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .