॥ शिशुपालवधं माघरचितम् ॥
श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १. ०१ ॥
गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥ १. ०२ ॥
चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ १. ०३ ॥
नवानधोऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥ १. ०४ ॥
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् ।
विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥ १. ०५ ॥
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति ।
सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ १. ०६ ॥
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥ १. ०७ ॥
निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ १. ०८ ॥
अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥ १. ०९ ॥
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ १. १० ॥
निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः ।
समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः ॥ १. ११ ॥
पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्लीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः ॥ १. १२ ॥
अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः ।
न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १. १३ ॥
तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयत् ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १. १४ ॥
न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशत् ॥ १. १५ ॥
महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम् ॥ १. १६ ॥
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥ १. १७ ॥
अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः ।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः ॥ १. १८ ॥
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत ।
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥ १. १९ ॥
स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः ।
विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ १. २० ॥
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः ॥ १. २१ ॥
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥ १. २२ ॥
युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः ॥ १. २३ ॥
निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवत् ॥ १. २४ ॥
सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ १. २५ ॥
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतर्ं शुभै ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ १. २६ ॥
जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥ १. २७ ॥
कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना ।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥ १. २८ ॥
विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा ।
तथापिशुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन वा तृप्यते ॥ १. २९ ॥
गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यताम् ॥ १. ३० ॥
इतिब्रुवन्तं उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥ १. ३१ ॥
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया ॥ १. ३२ ॥
उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ १. ३३ ॥
निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।
जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलम् ॥ १. ३४ ॥
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः ॥ १. ३५ ॥
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ १. ३६ ॥
निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ॥ १. ३७ ॥
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः ॥ १. ३८ ॥
करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् ।
हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ १. ३९ ॥
प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥ १. ४० ॥
तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥ १. ४१ ॥
अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते ॥ १. ४२ ॥
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां ।
भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत ॥ १. ४३ ॥
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ १. ४४ ॥
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः ।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥ १. ४५ ॥
स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ १. ४६ ॥
सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः ॥ १. ४७ ॥
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ १. ४८ ॥
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः ॥ १. ४९ ॥
समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥ १. ५० ॥
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥ १. ५१ ॥
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमम् ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ १. ५२ ॥
अशुक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥ १. ५३ ॥
बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं ॥ १. ५४ ॥
बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥ १. ५५ ॥
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ १. ५६ ॥
परेभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृतेऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः ॥ १. ५७ ॥
सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।
अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥ १. ५८ ॥
कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना ॥ १. ५९ ॥
विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥ १. ६० ॥
निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ १. ६१ ॥
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां ।
बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः ॥ १. ६२ ॥
परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ १. ६३ ॥
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥ १. ६४ ॥
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ ॥ १. ६५ ॥
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनकॢप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥ १. ६६ ॥
अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः ॥ १. ६७ ॥
स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति ॥ १. ६८ ॥
अतोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकां ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः ॥ १. ६९ ॥
स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥ १. ७० ॥
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान् हसत्यसौ ॥ १. ७१ ॥
बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि ॥ १. ७२ ॥
तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् ।
शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥ १. ७३ ॥
हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य ।
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥ १. ७४ ॥
ओमित्युक्तवतोऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते
पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नि
भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥ १. ७५ ॥
यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ २. १ ॥
सार्थमुध्धवसीरिभ्यामथासावसदत्सदः
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ २. २ ॥
जाज्वल्यमाना जगतः शान्तये समुपेयुषी
व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥ २. ३ ॥
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनोऽपि परितः पौरुषेयवृता इव ॥ २. ४ ॥
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥ २. ५ ॥
गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।
हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥ २. ६ ॥
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ २. ७ ॥
भवद्गिरामवसरप्रदानाय वचांसि नः ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ २. ८ ॥
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ २. ९ ॥
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ २. १० ॥
न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम् ॥ २. ११ ॥
मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ २. १२ ॥
यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ २. १३ ॥
ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ २. १४ ॥
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां ।
प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ २. १५ ॥
घूर्णयन्मदिरास्वादमदपाटलितद्युती ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ २. १६ ॥
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ २. १७ ॥
दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ २. १८ ॥
प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥ २. १९ ॥
ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।
मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २. २० ॥
जगादवदनछद्मपद्मपर्यन्तपातिनः ।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥ २. २१ ॥
यद्वासुदेवेनादीनमनादीनवमीरितम् ।
वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २. २२ ॥
नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम् ॥ २. २३ ॥
संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥ २. २४ ॥
विरोधिवचसो मूकान्वगीशानपि कुर्वते ।
जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥ २. २५ ॥
षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः ।
ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ २. २६ ॥
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २. २७ ॥
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ २. २८ ॥
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥ २. २९ ॥
आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ २. ३० ॥
तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः ॥ २. ३१ ॥
संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम् ॥ २. ३२ ॥
शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ २. ३३ ॥
विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ २. ३४ ॥
ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखम् ।
पुरः क्लश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ २. ३५ ॥
सखागरीयान् शत्रुश्छकृत्रिमस्तौ हि कार्यतः ।
स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥ २. ३६ ॥
उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥ २. ३७ ॥
त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे ।
बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥ २. ३८ ॥
त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ २. ३९ ॥
आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् ।
कथापि खलु पापानामलमश्रेयसे यतः ॥ २. ४० ॥
विराद्ध एवं भमता विराद्धा बहुधा च नः ।
निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥ २. ४१ ॥
विधायवैरं सामर्षेनरेऽरौ यः उदासते ।
प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥ २. ४२ ॥
मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी ।
क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥ २. ४३ ॥
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ २. ४४ ॥
माजीवन्यः परावज्ञादुखदग्धोऽपि जीवति ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ २. ४५ ॥
पदाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेववपमानेऽपि देहिनस्तद्वरं रजः ॥ २. ४६ ॥
असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः ।
यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ २. ४७ ॥
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ २. ४८ ॥
तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ २. ४९ ॥
स्वयं प्रणतेऽल्पेऽपि परवायावुपेयुषी ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ २. ५० ॥
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥ २. ५१ ॥
अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् ।
कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥ २. ५२ ॥
अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः ।
केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥ २. ५३ ॥
चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ २. ५४ ॥
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ २. ५५ ॥
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।
अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥ २. ५६ ॥
स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ २. ५७ ॥
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥ २. ५८ ॥
विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यताम् ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ २. ५९ ॥
हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥ २. ६० ॥
नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥ २. ६१ ॥
अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं ।
सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥ २. ६२ ॥
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ २. ६३ ॥
निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ २. ६४ ॥
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥ २. ६५ ॥
प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् ।
शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ २. ६६ ॥
इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥ २. ६७ ॥
निशम्य ताः शेषगवीरमभिधातुमधोक्षजः ।
शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥ २. ६८ ॥
भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥ २. ६९ ॥
संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम् ॥ २. ७० ॥
तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ २. ७१ ॥
वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ २. ७२ ॥
बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ २. ७३ ॥
म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ २. ७४ ॥
विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ २. ७५ ॥
पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ २. ७६ ॥
सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम् ॥ २. ७७ ॥
स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ २. ७८ ॥
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ २. ७९ ॥
उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥ २. ८० ॥
उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ २. ८१ ॥
बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पपुरुषः कोऽपि पार्थिवः ॥ २. ८२ ॥
तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ २. ८३ ॥
कृतापचारोऽपि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरुते वा रसभावविदः कवेः ॥ २. ८४ ॥
मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥ २. ८५ ॥
नालम्बते नैष्ठिकतां न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ २. ८६ ॥
स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ २. ८७ ॥
तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता ।
सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ २. ८८ ॥
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीम् ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ २. ८९ ॥
अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः ।
विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥ २. ९० ॥
अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ २. ९१ ॥
यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।
एकार्थतन्तुप्रोतायां नायको नायकायते ॥ २. ९२ ॥
षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं ।
भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥ २. ९३ ॥
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां ।
अयथाबलमारम्भो निदानं क्षयसंपदः ॥ २. ९४ ॥
तदीशितारं चेदिनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ २. ९५ ॥
मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥ २. ९६ ॥
संपादितफलस्तेन सपक्षः परभेदनः ।
कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥ २. ९७ ॥
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।
तमःस्वभावस्तेऽप्येनं प्रदोषमनुयायिनः ॥ २. ९८ ॥
उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥ २. ९९ ॥
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ २. १०० ॥
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥ २. १०१ ॥
मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ २. १०२ ॥
संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः ।
सहायमध्वरधुरां धर्मराजो विवक्षते ॥ २. १०३ ॥
महात्मनोऽनुगृह्णन्ति भजमानान्रिपूनपि ।
सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥ २. १०४ ॥
चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु ।
छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥ २. १०५ ॥
मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥ २. १०६ ॥
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ २. १०७ ॥
सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।
प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥ २. १०८ ॥
तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ।
नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥ २. १०९ ॥
स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।
समयावधिमप्राप्यय नान्तायालं भवानपि ॥ २. ११० ॥
कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥ २. १११ ॥
अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरस्पशा ॥ २. ११२ ॥
अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ २. ११३ ॥
उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ २. ११४ ॥
सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥ २. ११५ ॥
य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजोऽपि भूभुजः स्युः ।
बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥ २. ११६ ॥
सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥ २. ११७ ॥
इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य ।
जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां
शुश्रुवान्सः ॥ २. ११८ ॥
कौबेरदिग्भागमपास्य मार्गमागस्त्यमिव आशुः इव अवतार्णः ।
अपेतयुद्धाभिनिवेशसौम्यो हरिहरप्रस्थमथ प्रतस्थे ॥ ३. १ ॥
जगत्पवित्रैः अपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यत अर्कः ।
यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥ ३. २ ॥
मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः ।
भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३. ३ ॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥ ३. ४ ॥
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ३. ५ ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनाम् ।
बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥ ३. ६ ॥
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥ ३. ७ ॥
उभौयदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ३. ८ ॥
तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः ।
अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ३. ९ ॥
मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥ ३. १० ॥
स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ३. ११ ॥
प्रसाधितस्यास्य मुधाद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥ ३. १२ ॥
कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।
आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ ३. १३ ॥
प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनम् ॥ ३. १४ ॥
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।
ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ ३. १५ ॥
यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव ।
निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥ ३. १६ ॥
तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥ ३. १७ ॥
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती ।
नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥ ३. १८ ॥
न केवलं यः स्वतया मुरारेरसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दकोऽभूत् ॥ ३. १९ ॥
न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु ।
विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ ३. २० ॥
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः ।
मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥ ३. २१ ॥
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गम् ।
महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥ ३. २२ ॥
ध्वजाग्रधामा ददृशेऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः ॥ ३. २३ ॥
यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार ॥ ३. २४ ॥
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततोऽधः ।
महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे ॥ ३. २५ ॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयन्वयुस्तम् ॥ ३. २६ ॥
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्ञ्चनभूपराः ।
आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥ ३. २८ ॥
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥ ३. २७ ॥
निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् ।
ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः ॥ ३. २९ ॥
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः ॥ ३. ३० ॥
दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति ॥ ३. ३१ ॥
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातम् ॥ ३. ३२ ॥
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा ।
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास ॥ ३. ३३ ॥
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव ॥ ३. ३४ ॥
त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥ ३. ३५ ॥
रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध ॥ ३. ३६ ॥
यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन ।
वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रोऽहमन्वकारि ॥ ३. ३७ ॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः ।
लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥ ३. ३८ ॥
अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः ।
त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥ ३. ३९ ॥
यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये ॥ ३. ४० ॥
कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः ।
रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ ३. ४१ ॥
यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः ।
आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ३. ४२ ॥
स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥ ३. ४३ ॥
कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र ।
उच्चैरधपातिपयोमुचोऽपि समूहमूहुः पययसां प्रणाल्यः ॥ ३. ४४ ॥
रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्योऽधिगृहं गृहिण्यः.
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ३. ४५ ॥
यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ३. ४६ ॥
सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ३. ४७ ॥
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां ।
यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥ ३. ४८ ॥
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः ।
हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः ॥ ३. ४९ ॥
बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै ।
रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै ॥ ३. ५० ॥
चिक्रंसया कृत्रिमपत्त्रिपंङ्कतेः कपोतपालीषु निकेतनानां ।
मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने ॥ ३. ५१ ॥
क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षत् ॥ ३. ५२ ॥
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ३. ५३ ॥
सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ३. ५४ ॥
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः ।
रुतानिश्रुण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥ ३. ५५ ॥
छन्नेऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतःऽपि ॥ ३. ५६ ॥
यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः ॥ ३. ५७ ॥
परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ३. ५८ ॥
क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव ।
अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसोऽप्यगम्याः ॥ ३. ५९ ॥
कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः ।
यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः ॥ ३. ६० ॥
बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्र निःशङ्घमूषे मकरध्वजेन ॥ ३. ६१ ॥
निषेव्यमाणेन शिवैमरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाहास्त मेरावमरावतीं या ॥ ३. ६३ ॥
स्नग्धाञ्जनस्यमरुचिः सुवृत्तः बद्वा इवाद्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियन्त्रिलोकीतिलकः स एव ॥ ३. ६२ ॥
तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः ।
वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ३. ६४ ॥
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ३. ६५ ॥
श्लिःष्यद्भिरन्योनमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा दुःखेन निशचक्रमुरश्ववाराः ॥ ३. ६६ ॥
निरन्तरालेऽपि विमुच्माने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्वीपैरसंबधमयांबभूवे ॥ ३. ६७ ॥
शनैरनीयन्त रयात्पतन्तोरथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरशमिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै ॥ ३. ६८ ॥
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेणनिष्क्रामतिचक्रपाणै नेषेटं परो द्वारवतीत्वमासीत् ॥ ३. ६९ ॥
पारेजलंनीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ३. ७१ ॥
लक्षीभृतःऽम्भोधितटाधिवासान्द्रमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽदिवेलं बहूकृतान्स्वानिव पशयति स्म ॥ ३. ७० ॥
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकार बृहत्तरङ्गं ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशसङ्गे ॥ ३. ७२ ॥
पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिङ्गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीराकलयाञ्चकार ॥ ३. ७३ ॥
साटोपमुर्वीमनिशं नदन्तः यैः प्लवयिष्यन्ति समन्ततःऽमी ।
तान्यकदेशान्निभृतंपयोधेः सोऽम्भांसि मेघान्पिबतः ददर्श ॥ ३. ७४ ॥
उद्धृत्यमेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामास हरिः पतन्तीर्नदीः स्मृतिर्वदमिवाम्बुराशिम् ॥ ३. ७५ ॥
विक्रीय दिश्यानि धनान्युरूणिदैप्यानसावुत्तमलाभबाजः ।
तरीषु तत्रत्यमफल्गु भाण्डं सांयान्त्रिकानावापतःऽभ्यनन्दत् ॥ ३. ७६ ॥
उत्पित्सवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरुडध्वजस्य ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ३. ७७ ॥
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥ ३. ७८ ॥
उत्सङ्गिताम्भःकणक नभस्वानुदन्वतः स्वदलवान्ममार्ज ।
तस्यानुवेलं व्रजतःऽधिवेलंमेलालतासेफालनलबेधगन्धः ॥ ३. ८० ॥
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ३. ७९ ॥
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादिताद्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥ ३. ८१ ॥
तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः
प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतः बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो
जलनिधेश्च तदाभवददन्तरं महत् ॥ ३. ८२ ॥
निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥ ४. १ ॥
गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥ ४. २ ॥
क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः ।
श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥ ४. ३ ॥
सहस्रसंख्यैर्गगनं पादैर्भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥ ४. ४ ॥
क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥ ४. ५ ॥
छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै ॥ ४. ६ ॥
स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥ ४. ७ ॥
विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानम् ॥ ४. ८ ॥
राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तम् ॥ ४. ९ ॥
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ ४. १० ॥
यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।
आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥ ४. ११ ॥
अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता ॥ ४. १२ ॥
यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ ४. १३ ॥
विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ ४. १४ ॥
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ ४. १५ ॥
फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥ ४. १६ ॥
दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।
क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः ॥ ४. १७ ॥
उच्चारणज्ञेऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥ ४. १८ ॥
आच्छादितायतददिगम्बरमुच्चकैर्गाम्
आक्रम्यसंस्थितमुदग्रविशालशृङ्गम् ।
मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनमुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ ४. १९ ॥
उदयतिविततरःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ ४. २० ॥
वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचलेषभवानिव राजते स हरितालसमाननवांशुकः ॥ ४. २१ ॥
पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति
शान्तमलसान्द्रतरांशुजालम् ।
संपूर्णलब्धललनालापनोपमानमुत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥ ४. २२ ॥
कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥ ४. २३ ॥
स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः ॥ ४. २४ ॥
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ ४. २५ ॥
एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ ४. २६ ॥
इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।
स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥ ४. २७ ॥
उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलाम् ॥ ४. २८ ॥
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ ४. २९ ॥
धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी ।
श्यामीभूताः कुसुमसमूहोऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥ ४. ३० ॥
व्योमस्पृशः प्रथयता कलधौतभित्तीर्
उन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभामेतेन भारतमिलावृतवद्विभाति ॥ ४. ३१ ॥
रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥ ४. ३२ ॥
कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥ ४. ३३ ॥
आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालम् ।
पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति ॥ ४. ३४ ॥
वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥ ४. ३५ ॥
विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयम् ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ४. ३६ ॥
विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि
दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं
बिभर्ति ॥ ४. ३७ ॥
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किंनरं
प्रियायाः ।
श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्रीम्
उत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ४. ३८ ॥
यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।
न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालम् ॥ ४. ३९ ॥
दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन्भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ॥ ४. ४० ॥
अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसोऽनुकृतिम् ।
विरलविकीर्णवज्रशकला सकलामिह विदधाति धौतकलधौतमही ॥ ४. ४१ ॥
वर्जयन्त्या जनैः संगमेकान्ततस्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
योषयैष स्मरासन्नतापाङ्गया सेव्यतेऽनेकया संन्नतापङ्गया ॥ ४. ४२ ॥
संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥ ४. ४३ ॥
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर्वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति
नीलीसलिलस्य ॥ ४. ४४ ॥
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।
तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानाम् ॥ ४. ४५ ॥
भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु
सहस्रसंख्यां ।
दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥ ४. ४६ ॥
अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।
अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥ ४. ४७ ॥
मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ ४. ४८ ॥
प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यतेविविधरत्नकरानुविद्धमूर्ध्वप्रसारितसुराधिपचापचारु ॥ ४. ४९ ॥
दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥ ४. ५० ॥
सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः ।
नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥ ४. ५१ ॥
आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ।
शस्वङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नीरदानाम् ॥ ४. ५२ ॥
अन्योन्यव्यतिकरचारुभिर्विचित्रैरत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।
विस्मेरान्गगनसदः करोत्यमुष्मिन्न् आकाशेरचितमभित्ति चित्रकर्म ॥ ४. ५३ ॥
समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनाम् ।
बिभर्तिजनयन्नयं मुदमपामपायधवला वलाहकततीः ॥ ४. ५४ ॥
मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः
निरोद्धुम् ॥ ४. ५५ ॥
मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति श्फुरिताणुरेणुजालाः ॥ ४. ५६ ॥
या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥ ४. ५७ ॥
सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥ ४. ५८ ॥
एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥ ४. ५९ ॥
इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ४. ६० ॥
त्वक्साररन्ध्रपरिपूरणलब्धगीतिरस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ॥ ४. ६१ ॥
प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः ॥ ४. ६२ ॥
भग्ने निवासोऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः ।
तीव्राणि तेनोज्झति कोपितोऽसौ ससानतोयेन विषाणि नागः ॥ ४. ६३ ॥
प्रालेयशीतलमचलेश्वरमीश्वरोऽपि सान्द्रभचर्मवसनावरणाधिशेते ।
सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनो
ऽपि ॥ ४. ६४ ॥
नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ ४. ६५ ॥
दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर्विनोदितदिनक्लमाः
कृतरुचश्चजाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः
प्रियतमाङ्गकादम्बरम् ॥ ४. ६६ ॥
दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः
प्रतिफलति मुहुः ।
व्रीडमसंंमुखोऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह
नयति रविः ॥ ४. ६७ ॥
अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ त्वयि
सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ४. ६८ ॥
इत्थं व्यलीकाः प्रियतमा इव सोऽव्यलीकः शुश्राव सूततनयस्य तदा
व्यलीकाः ।
रन्तुं निरन्तरमियेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥ ५. १ ॥
तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गम्
अभ्युल्लसत्कदलिकावनराजिमुच्चैः ।
विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं
दधत्प्रतिगिरेरलघुर्बलौघः ॥ ५. २ ॥
भास्वत्करव्यतिकरोल्लसिताम्बरान्तस्तापत्रपा इव महाजनदर्शनेन ।
संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ॥ ५. ३ ॥
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥ ५. ४ ॥
आरक्षमग्नमवमत्य सृणिं शिताग्रमेकः पलायत जवेन कृतार्तनादः ।
अन्यपुनर्मुहुरुदप्लवतास्तभारमन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥ ५. ५ ॥
आयास्तमैक्षत जनशचटुलाग्रपादं
गच्छन्तमुच्चलितचामरचारुमश्वम् ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु
भवतयनुरूपचेष्टः ॥ ५. ६ ॥
त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरमुल्ललयाञ्चकार ।
यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ॥ ५. ७ ॥
शैलोपशल्यनिपतद्रथनेमिधारा-
निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।
भूरेणवोनभसि नद्धपयोदचक्राश्चक्र-
वदङ्गरुहधूम्ररुचो विसस्रुः ॥ ५. ८ ॥
उद्य्त्कृशानुशकलेषु सुराभिघाताद् भूमीसमायातशिलाफलकाचितैषु ।
पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥ ५. ९ ॥
तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः ।
आराट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्दपुलायितेन ॥ ५. १० ॥
नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितो
ऽद्रेः ॥ ५. ११ ॥
उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रान् इन्द्रानुजाचरभूतपतयो
ऽध्यवात्सुः ।
वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥ ५. १२ ॥
विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः ।
चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥ ५. १३ ॥
छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्रूणाम् ।
सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ ५. १४ ॥
अग्रगतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकराणाकुलेन ।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूराद् उद्बाहुना जुहुवविरे
मुहुरात्मवर्ग्याः ॥ ५. १५ ॥
सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ ५. १६ ॥
यानाज्जनः परिजनैरवतार्यमाणा
राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-
वक्रश्रियः सभयकौतुकमीक्षते स्म ॥ ५. १७ ॥
कण्ठावसक्तमृदुबाहुलतातुरङ्गाद् राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न
चुचुम्बुरासाम् ॥ ५. १८ ॥
दृष्ट्वेव निर्जतकलापभरामधस्ताद् व्याकीर्णमान्यकबरां कबरीं तरुण्याः ।
प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात् संघर्षिणा सह
गुणाभ्यधिकैर्दुरापम् ॥ ५. १९ ॥
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा
वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानाम् ॥ ५. २० ॥
छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः ।
दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥ ५. २१ ॥
उत्क्षप्तपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः ।
दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥ ५. २२ ॥
प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥ ५. २३ ॥
यावत्स एव समयः सममेव तावद् अव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्य-पूर्णपणा विणुनो विपणीर्विभेजुः ॥ ५. २४ ॥
अल्पप्रयोजनकृतोरुतरप्रयातसैरुद्गूर्णलोष्टगुडैः परितोऽनुविद्धम् ।
उद्यातमुद्रतमनोकहझालमध्याद् अन्याः शशङ्गुणमनल्पमवन्नवाप ॥ ५. २५ ॥
त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनानाम्
आकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ ५. २६ ॥
आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः ।
खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥ ५. २७ ॥
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना ।
सैन्याः श्रियामनुपभोगनिरर्थकत्व-दोषप्रवादममृजन्नगनिमन्गानाम् ॥ ५. २८ ॥
नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि ।
जग्मुर्जलानि जलमुड्डकवाद्यवल्गु-वल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ ५. २९ ॥
आलोलपुष्करमुखोल्लसितैरभीक्ष्ण-मुक्षांबभूवुरभितोवपुरम्बुवर्षैः ।
स्वेदायत श्वसितनिरस्तवेगमुग्ध-मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ५. ३० ॥
ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलायुधलूनपक्षाः ।
तेजग्मुरद्रिपतयः सरसीर्विगाढुमाक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ५. ३१ ॥
आत्मानमेव जलधेः प्रतिबिम्बिताङ्गमूर्मौ महत्यभिमुखापातितं निरीक्ष्य ।
क्रोधादधावदपभीरभिहन्तुमन्य-नागाभियुक्त इव युक्तमहो महेभः ॥ ५. ३२ ॥
नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ ५. ३३ ॥
पन्थानमाशु विजहीहि पुरः स्तनौ ते
पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः ।
स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥ ५. ३४ ॥
कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकाशिकाश-नीकाशमाप समतां सितचामरस्य ॥ ५. ३५ ॥
गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।
अम्भोधिरोधसि पृथुप्रतिमानभाग-रुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ५. ३६ ॥
दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर्मङ्क्षूदपाति परितः पटलैरसीनाम् ॥ ५. ३७ ॥
अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ॥ ५. ३८ ॥
संसर्पिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरससाङ्गनिषङ्गिणा च ।
क्रीडोपभोगमनुभूय सरिन्महेभावन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥ ५. ३९ ॥
यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।
तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः ॥ ५. ४० ॥
प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्न-निर्याणनिर्यदसृजं चलितं निपादी ।
रोद्धुं महेभपरिव्रढिमानमागाद् आक्रन्तितो न वशमेति महान्परस्य ॥ ५. ४१ ॥
सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।
नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभ-तः सहन्ते ॥ ५. ४२ ॥
अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाष-संक्रान्तदानपयसो वनपादपस्य ।
सेनागजेन मथितस्य निजप्रसूनैर्मम्ले यथागतमगामि कुलैरलीनाम् ॥ ५. ४३ ॥
नोच्चैर्यदा तरुतलेषु ममुस्तदानीमाधोरणैरभिहिताः पृथुमूलशाखाः ।
बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते
मदान्धैः ॥ ५. ४४ ॥
उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तर्-उत्फुल्लनीलनलिनोदरतुल्यभासः ।
एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ॥ ५. ४५ ॥
कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।
स्थूलेन्द्रनीलशकलावलिकोमलेन कणठेगुणत्वमलीनां वलयेन भेजे ॥ ५. ४६ ॥
निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न
सिद्धमेति ॥ ५. ४७ ॥
स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः ।
बद्धपराणि परितो निगडानेयलावीत् स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥ ५. ४८ ॥
जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य
साध्यः ॥ ५. ४९ ॥
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां
करेणुं ।
सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवनाम् ॥ ५. ५० ॥
दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-स्नेहस्रुति स्नपितबाहुरिभाधिराजम् ॥ ५. ५१ ॥
शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मनि रस्मिविततानि नराधिपानाम् ।
चन्द्राकृतानि गजमणडलिकाभिरुच्चैर्
नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥ ५. ५२ ॥
गत्यूनमर्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसार-संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥ ५. ५३ ॥
आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥ ५. ५४ ॥
हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः
प्रविततायतकेशपङ्क्तिः ।
ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज ॥ ५. ५५ ॥
दन्तालिकाधरणनिश्चलपाणियुग्ममर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी
पुरुषकोन्नमिताग्रकायः ॥ ५. ५६ ॥
रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्
देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः ।
श्रीसंनिधानरमणीयतरोऽश्व उच्चैरुच्चैश्रवा जलनिधेरिव
जातमात्रः ॥ ५. ५७ ॥
अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नुन्पुरो हरितकं मुदमादधानः ।
ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ ५. ५८ ॥
उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस्तुरगेण तूर्णमश्वेति विद्रुतमनुद्रुताश्वमन्यम् ॥ ५. ५९ ॥
अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो
गमयांबभूव ॥ ५. ६० ॥
मुक्तासृणानि परितः कचकं चरन्तस्त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः ।
सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥ ५. ६१ ॥
उत्तीर्णभारलघुनाप्यलघूलपौघ-सौहित्यनिःसहतरेण तरोरधस्तात् ।
रोमन्थमन्थरचलद्गुरुसास्नमासां-चक्रे नीमीलदलसेक्षणमौक्षकेण ॥ ५. ६२ ॥
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं
हसद्भिः ।
उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे
महोक्षाः ॥ ५. ६३ ॥
मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन ।
ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥ ५. ६५ ॥
बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति ।
लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणामभ्रंलिहानि लिलिहे नवपल्लवानि ॥ ५. ६४ ॥
सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैरास्यान्तरालगतमाम्रदलं
म्रदीयः ।
दासेरकःसपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार ॥ ५. ६६ ॥
स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय
राज्ञाम् ।
वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु
पेठुः ॥ ५. ६७ ॥
उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे ।
संध्याशुभिन्नघनकर्बुरितान्तरीक्ष-लक्ष्मीविडम्बि शिविरं
शिवकीर्तनस्य ॥ ५. ६८ ॥
धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः
प्रापिपायिषुः ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः
क्रडद्द्विरदमथितोर्वीरुहरवैः ॥ ५. ६९ ॥
अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥ ६. १ ॥
नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजम् ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ॥ ६. २ ॥
विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ६. ३ ॥
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥ ६. ४ ॥
स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥ ६. ५ ॥
स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥ ६. ६ ॥
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात् मधुपावलिः ॥ ६. ७ ॥
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ॥ ६. ८ ॥
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥ ६. ९ ॥
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥ ६. १० ॥
इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥ ६. ११ ॥
सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥ ६. १२ ॥
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥ ६. १३ ॥
वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ॥ ६. १४ ॥
अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥ ६. १५ ॥
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥ ६. १६ ॥
रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥ ६. १७ ॥
त्यजति कष्टामसावचिरादसून् विरहवेदनयेत्यघशङ्गिभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥ ६. १८ ॥
न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥ ६. १९ ॥
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ ६. २० ॥
अरुणिताखिशैलवना मुहुर्विदधती पथिकान् परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ ६. २१ ॥
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥ ६. २२ ॥
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ ६. २३ ॥
निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ ६. २४ ॥
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम् ॥ ६. २५ ॥
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥ ६. २६ ॥
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।
धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ ६. २७ ॥
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ ६. २८ ॥
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥ ६. २९ ॥
प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥ ६. ३० ॥
जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥ ६. ३१ ॥
नवकदम्बजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ६. ३२ ॥
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसां ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥ ६. ३३ ॥
द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् ।
घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम् ॥ ६. ३४ ॥
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥ ६. ३५ ॥
नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजोऽलिभिराददे ॥ ६. ३६ ॥
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥ ६. ३७ ॥
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥ ६. ३८ ॥
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ ६. ३९ ॥
अरमयन् भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥ ६. ४० ॥
ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।
जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ॥ ६. ४१ ॥
स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङगगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ॥ ६. ४२ ॥
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ॥ ६. ४३ ॥
समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ६. ४४ ॥
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ॥ ६. ४५ ॥
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
विकचबाणवलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ६. ४६ ॥
कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ६. ४७ ॥
मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥ ६. ४८ ॥
विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् ।
श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमेषेक्षणमग्रतः ॥ ६. ४९ ॥
कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ॥ ६. ५० ॥
विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥ ६. ५१ ॥
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत् ॥ ६. ५२ ॥
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥ ६. ५३ ॥
स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् ।
अकलयन् मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम् ॥ ६. ५४ ॥
गजद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥ ६. ५५ ॥
इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा ।
स्मृसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ ६. ५६ ॥
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥ ६. ५७ ॥
भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥ ६. ५८ ॥
व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।
स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥ ६. ५९ ॥
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥ ६. ६० ॥
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ.
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ ६. ६१ ॥
कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।
उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥ ६. ६२ ॥
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरोऽभवत् ॥ ६. ६३ ॥
अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥ ६. ६४ ॥
शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ॥ ६. ६५ ॥
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ॥ ६. ६६ ॥
अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।
तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥ ६. ६७ ॥
नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।
चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६. ६८ ॥
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥ ६. ६९ ॥
स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥ ६. ७० ॥
वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥ ६. ७१ ॥
मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥ ६. ७२ ॥
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥ ६. ७३ ॥
अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥ ६. ७४ ॥
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ ६. ७५ ॥
जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकुरुतेन ।
तत्सम्पर्क प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ॥ ६. ७६ ॥
कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोपितेन ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोपितेन ॥ ६. ७७ ॥
गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥ ६. ७८ ॥
कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैविराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौविहर्तु
बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ६. ७९ ॥
अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।
निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥ ७. १ ॥
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥ ७. २ ॥
अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ॥ ७. ३ ॥
नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना ।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥ ७. ४ ॥
अतियपरिणाह्ववान् वितेने बहुतरमर्पितकिङ्किणीकः ।
अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥ ७. ५ ॥
गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥ ७. ६ ॥
तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।
अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥ ७. ७ ॥
न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ॥ ७. ८ ॥
सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया ।
त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥ ७. ९ ॥
गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥ ७. १० ॥
प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी ।
चरणगतसखीवचोऽनुरोधात् किल कथमप्यनुकूलयाञ्चकार ॥ ७. ११ ॥
द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीम् ।
नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ॥ ७. १२ ॥
इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥ ७. १३ ॥
यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् ।
द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ॥ ७. १४ ॥
अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥ ७. १५ ॥
अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन ।
हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ॥ ७. १६ ॥
मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।
विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ॥ ७. १७ ॥
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥ ७. १८ ॥
लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ॥ ७. १९ ॥
जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।
दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥ ७. २० ॥
अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।
निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥ ७. २१ ॥
अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।
उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥ ७. २२ ॥
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः ।
सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥ ७. २३ ॥
श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥ ७. २४ ॥
मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥ ७. २५ ॥
असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।
मरुदवनिरुहां रजो वधूभ्यः मुपहरन् विचकार कोरकाणि ॥ ७. २६ ॥
उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।
परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ॥ ७. २७ ॥
रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः ।
जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् ॥ ७. २८ ॥
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ॥ ७. २९ ॥
मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥ ७. ३० ॥
अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ ७. ३१ ॥
प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ॥ ७. ३२ ॥
विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनरोमराजिः ।
कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ॥ ७. ३३ ॥
प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा ।
अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ॥ ७. ३४ ॥
व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजम् ।
अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥ ७. ३५ ॥
अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।
शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥ ७. ३६ ॥
कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।
मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥ ७. ३७ ॥
अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ ७. ३८ ॥
किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।
नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥ ७. ३९ ॥
कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥ ७. ४० ॥
अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् ।
मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥ ७. ४१ ॥
सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।
ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥ ७. ४२ ॥
इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानाम् ॥ ७. ४३ ॥
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ॥ ७. ४४ ॥
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥ ७. ४५ ॥
विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥ ७. ४६ ॥
सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ॥ ७. ४७ ॥
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥ ७. ४८ ॥
उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥ ७. ४९ ॥
इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ ७. ५० ॥
विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या ।
अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी ॥ ७. ५१ ॥
अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ॥ ७. ५२ ॥
न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।
व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥ ७. ५३ ॥
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ७. ५४ ॥
मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥ ७. ५५ ॥
इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ ७. ५६ ॥
विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ॥ ७. ५७ ॥
स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् ।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ ७. ५८ ॥
समदनमवतंसितेऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥ ७. ५९ ॥
अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ७. ६० ॥
अवचितकुसुमा विहाय वल्लीर्युवतीषु कोमलमाल्यमालिनीषु ।
पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥ ७. ६१ ॥
श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः ।
मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥ ७. ६२ ॥
अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः ।
परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥ ७. ६३ ॥
अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ॥ ७. ६४ ॥
स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।
भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥ ७. ६५ ॥
अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥ ७. ६६ ॥
अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥ ७. ६७ ॥
मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥ ७. ६८ ॥
प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासाम् ॥ ७. ६९ ॥
विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे ।
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनाम् ॥ ७. ७० ॥
अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।
विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७. ७१ ॥
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ ७. ७२ ॥
हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः ।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥ ७. ७३ ॥
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः
पूर्णनाभीह्रदान्ताः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोकूपान् स्वेदपूरो युवतिसरितां
व्याप गण्डस्थलानि ॥ ७. ७४ ॥
प्रियकरपरिमार्गदङ्गनानां यदाभूत् पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥ ७. ७५ ॥
आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ॥ ८. १ ॥
यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि.
संसक्तैविपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्बभूव वर्त्म ॥ ८. २ ॥
नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।
पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥ ८. ३ ॥
एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावरणत्वम् ।
सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार ॥ ८. ४ ॥
स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिवारितातपायाः ।
सच्छत्रादपरविलासिनीसमूहच्छायासीदधिकतरा तदापरस्याः ॥ ८. ५ ॥
संस्पर्शसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः ।
कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥ ८. ६ ॥
गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।
बुद्ध्वा वा जितमपरेण काममाष्कुर्वीत स्वगुणमपत्रपः क एव ॥ ८. ७ ॥
श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः ।
पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ ८. ८ ॥
मुक्ताभिः सलिलरयास्तशुक्तिमुक्ताभिः कृतरुचि सैकतं नदीनाम् ।
स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥ ८. ९ ॥
आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् ।
आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ॥ ८. १० ॥
आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।
आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥ ८. ११ ॥
आलापैस्तुलितरवाणि माधवीनां माधुर्यादमलपतत्रिणां कुलानि ।
अन्तर्धामुपययुरुत्पलावलीषु प्रादुष्कात्क इव जितः पुरः परेण ॥ ८. १२ ॥
मुग्धायाः स्मरललितेषु चक्रवाक्या निशङ्कं दयिततमेन चुम्बितायाः ।
प्रणेशानभि विदधुर्वधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥ ८. १३ ॥
उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्तो ।
नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ ८. १४ ॥
नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः ।
व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥ ८. १५ ॥
आस्कन्दन् कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
औत्सुक्यात्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ॥ ८. १६ ॥
ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः ।
कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलमनुरञ्जयांबभू ॥ ८. १८ ॥
संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।
विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषां ॥ ८. १७ ॥
आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरुवतिरुतं सरस्यनिच्छुः ।
धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ॥ ८. १९ ॥
नेच्छन्ती सममुना सरोऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः ।
आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ॥ ८. २० ॥
तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनोऽपि ।
अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ॥ ८. २१ ॥
आनाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।
उच्छ्रायिस्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथवाव्यवस्था ॥ ८. २२ ॥
कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।
संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥ ८. २३ ॥
त्रस्यन्ती चलशफरीविघट्टितोरूवामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति पसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥ ८. २४ ॥
आकृष्टवपुर्लतैस्तरदभिस्तस्याम्भस्तदथ सरोमहार्णवस्य ।
अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणांमुरुभिरुरोजगणडस्शैलैः ॥ ८. २५ ॥
गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः ।
अम्भोधिविकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ॥ ८. २६ ॥
आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः ।
कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान् सरसि रराज केशहस्तः ॥ ८. २७ ॥
उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।
युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥ ८. २८ ॥
किं तावत्सरसि सरोजमेतदाहोस्विन्मुखमवभासते युवत्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्योकैर्बकसहवासिनां परोक्षैः ॥ ८. २९ ॥
शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं
पृथुकुचकुम्भसङ्गिवासः ।
मार्द्वीकं प्रयतमसन्निधानंमासन्नारीणामिति जलकेलिसाधनानि ॥ ८. ३० ॥
उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणां ।
श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्तयस्तोयेषु द्रुततरमङ्गना निपेतुः ॥ ८. ३१ ॥
मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः ।
ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ ८. ३२ ॥
योग्यस्य त्रिनयनलोचनार्चिर्निदग्धस्मरपूतनाधिराज्यलक्ष्म्याः ।
कान्तायाः करकलशोद्यतैः पयोभिरवक्त्रेन्दोरकृतमहाभिषेकमेकः ॥ ८. ३३ ॥
शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः ।
सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ॥ ८. ३४ ॥
स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव ।
कन्दर्पप्रवणमानाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ॥ ८. ३५ ॥
आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।
ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितमजायतेतरस्याः ॥ ८. ३६ ॥
उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
अम्भोभिर्मुहुरसिचद्वधूरमर्षदात्मीयं पृथुतरनेत्रयुगममुक्तैः ॥ ८. ३७ ॥
कुर्वद्भिमुखरुचिमुज्जवलामजस्रं यैस्तोयैरसिचत वल्लभां विलासी ।
तैरेव प्रतियुवतेरकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥ ८. ३८ ॥
रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण ।
मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ॥ ८. ३९ ॥
प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा ।
उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनामधाक्षुः ॥ ८. ४० ॥
संक्रान्तं प्रियतमवक्षसोऽङ्गरागंसाध्वस्याः सरसि हरिष्यते
ऽधुनाम्भः ।
तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः
सपत्न्या ॥ ८. ४१ ॥
हृतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुमीषिरे पयांसि ॥ ८. ४२ ॥
सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।
कालिम्ना समधित मन्र्एव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥ ८. ४३ ॥
उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।
आरूढप्रतिवनिताकटाक्षभारः साधीयो गुररभवद्भुजस्तरुण्याः ॥ ८. ४४ ॥
आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजाम् ।
नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥ ८. ४५ ॥
पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।
सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखात्वम् ॥ ८. ४६ ॥
नारीभिर्गुरुजघनस्थलानां आस्यश्रीविजितविकासिवारिजानाम् ।
लोलत्वादपहरतां तदङ्गरागसंजज्ञे स कलुष आशयो जलानाम् ॥ ८. ४७ ॥
सौगन्धं दधदपि काममङ्गनानां दूरत्वाद्गतमाननोपमानम् ।
नेदीयो जितमिति लज्जयेव तासामालोले पयसि मनोत्पलं ममज्ज ॥ ८. ४८ ॥
प्रभ्रष्टै सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ ८. ४९ ॥
आस्माकी युवतिदृशामसौ तनोति च्छायेव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः पनीयैरिति विदधाविरेऽञ्जनानि ॥ ८. ५० ॥
निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः ।
अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ॥ ८. ५१ ॥
अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा ।
प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ॥ ८. ५२ ॥
स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ ।
हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥ ८. ५३ ॥
आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोल्पलं वधूनां वीचिभिस्तटमनु यन्निरासुरापः ॥ ८. ५४ ॥
दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्गाः ।
आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ ८. ५५ ॥
कस्याश्चिनमुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।
किञ्चल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ८. ५६ ॥
वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः ।
नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां
परैरलङ्घ्यः ॥ ८. ५७ ॥
यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषाम् ।
धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ॥ ८. ५८ ॥
फेनानामुरसिरुहेषु हारलीला चेलश्रीर्जघनस्थलेषु शैवलानाम् ।
गण्डेषु स्फुटरचनाब्जपत्र्त्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ॥ ८. ५९ ॥
भ्रश्द्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।
निर्माल्यैरथ ननृतेऽवधीरितानामप्युच्चैर्भवति लघीयसां हि
धार्ष्ट्यम् ॥ ८. ६० ॥
आमृष्टस्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोङ्गरागः ।
कामः स्त्रीरनुशायवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ॥ ८. ६१ ॥
शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन ।
रामाणामभिनवयौवनोष्मभाजोराश्लेषि स्तनतटयोर्नवंशुकेन ॥ ८. ६२ ॥
श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यन्तनुमदिवाम्बु वाससोऽन्तैः ।
उत्तेरे तरलतरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ॥ ८. ६३ ॥
दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्यश्रियमिव काञ्चिदुत्तरन्तींमस्मार्षीज्जलनिधिमन्मथनस्य शौरिः ॥ ८. ६४ ॥
श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुकसेकसक्तमूर्वोः ।
नारीणां विमलतरौ समुल्लसन्त्या भासन्तर्दधतुरुरूदुकूलमेव ॥ ८. ६५ ॥
वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ॥ ८. ६६ ॥
आर्द्रत्वदतिशायिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोवधूतैः ।
अङ्गेभ्यः कथमपि वामलोचनां विश्लेषो बत नवरक्तकैः प्रपेदे ॥ ८. ६७ ॥
प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत् किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ ८. ६८ ॥
सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा ।
भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ॥ ८. ६९ ॥
स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो व्लासिनीनाम् ।
वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥ ८. ७० ॥
इति धौतपुरन्ध्रिमत्सरान्सरसिमज्जनेन श्रियमाप्तवतो
ऽतिशायिनीमपमलाङ्गभासः ।
अवलोक्य तदैव यादवानपरवारिराशेः शिसिरेतररोचिषाप्यपां ततिषु
मङ्क्तुमीषे ॥ ८. ७१ ॥
अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ ९. १ ॥
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥ ९. २ ॥
विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ॥ ९. ३ ॥
अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ॥ ९. ४ ॥
उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तमयेऽपि सतामुतितं खलूच्चतरमेव पदम् ॥ ९. ५ ॥
प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ९. ६ ॥
नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ ९. ७ ॥
गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिम् ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥ ९. ८ ॥
द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ॥ ९. ९ ॥
अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥ ९. १० ॥
अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया ।
विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ॥ ९. ११ ॥
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ ९. १२ ॥
रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमितरथा सुलभोऽन्यजन्मनि स एव पतिः ॥ ९. १३ ॥
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥ ९. १४ ॥
अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ ९. १५ ॥
निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥ ९. १६ ॥
दिवसोऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥ ९. १७ ॥
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ ९. १८ ॥
व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ ९. १९ ॥
किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥ ९. २० ॥
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ ९. २१ ॥
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ ९. २२ ॥
ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य तताम् ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ ९. २३ ॥
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ ९. २४ ॥
वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ॥ ९. २५ ॥
विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥ ९. २६ ॥
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ॥ ९. २७ ॥
नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ ९. २८ ॥
प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥ ९. २९ ॥
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ९. ३० ॥
अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ॥ ९. ३१ ॥
उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ९. ३२ ॥
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् ।
अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितम् ॥ ९. ३३ ॥
दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः ।
मुहुरामृशन् मृगधरोऽग्रकरैरुदशिस्वसत् कुमुदिनीवनिताम् ॥ ९. ३४ ॥
प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् ।
सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥ ९. ३५ ॥
अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥ ९. ३६ ॥
अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥ ९. ३७ ॥
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥ ९. ३८ ॥
भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ ९. ३९ ॥
अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥ ९. ४० ॥
युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत ।
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ॥ ९. ४१ ॥
ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ९. ४२ ॥
इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः ।
प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ९. ४३ ॥
सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ॥ ९. ४४ ॥
कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ९. ४५ ॥
अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥ ९. ४६ ॥
स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः ।
धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ॥ ९. ४७ ॥
भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥ ९. ४८ ॥
ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ॥ ९. ४९ ॥
न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति ।
गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ ९. ५० ॥
वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥ ९. ५१ ॥
निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥ ९. ५२ ॥
विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥ ९. ५३ ॥
अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ॥ ९. ५४ ॥
प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥ ९. ५५ ॥
न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥ ९. ५६ ॥
दयितया मानपरयापरया त्वरितं ययावगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ॥ ९. ५७ ॥
प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥ ९. ५८ ॥
अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥ ९. ५९ ॥
तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीं ॥ ९. ६० ॥
ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ॥ ९. ६१ ॥
ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥ ९. ६२ ॥
मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥ ९. ६३ ॥
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ९. ६४ ॥
उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ ९. ६५ ॥
दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ॥ ९. ६६ ॥
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ॥ ९. ६७ ॥
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥ ९. ६८ ॥
उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ ९. ६९ ॥
दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥ ९. ७० ॥
निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलम् ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ९. ७१ ॥
उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधत् ॥ ९. ७२ ॥
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ॥ ९. ७३ ॥
अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥ ९. ७४ ॥
कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ ९. ७५ ॥
पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति ।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदत् ॥ ९. ७६ ॥
उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूत् ॥ ९. ७७ ॥
पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥ ९. ७८ ॥
मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ॥ ९. ७९ ॥
तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥ ९. ८० ॥
न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामाम् ॥ ९. ८१ ॥
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।
स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ॥ ९. ८२ ॥
अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥ ९. ८३ ॥
आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ९. ८४ ॥
सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा ।
कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥ ९. ८५ ॥
दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥ ९. ८६ ॥
इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः
शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः
शीधवश्चक्रुरासाम् ॥ ९. ८७ ॥
सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।
आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥ १०. १ ॥
सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्तमपीप्यन् प्रम मानमवधूय वधूः स्वाः ॥ १०. २ ॥
कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥ १०. ३ ॥
कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत ।
फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ॥ १०. ४ ॥
बिम्बितं बृतपरिस्रुति जानन् भाजने जलजमित्यबलायाः ।
घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥ १०. ५ ॥
दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्ताम् ।
यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिम् ॥ १०. ६ ॥
स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र ।
अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ १०. ७ ॥
बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ॥ १०. ८ ॥
पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥ १०. ९ ॥
कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥ १०. १० ॥
पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः ।
व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ १०. ११ ॥
प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १०. १२ ॥
हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः ।
चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ १०. १३ ॥
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ॥ १०. १४ ॥
सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे ।
विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १०. १५ ॥
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ १०. १६ ॥
मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनोमुखमधोमुखयैव ॥ १०. १७ ॥
या कथञाचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।
व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ १०. १८ ॥
छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः ।
वारुणीमदविशङागमथाविश्चक्षुषोऽभवदसाविव रागाः ॥ १०. १९ ॥
आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् ।
प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ १०. २० ॥
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।
योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ १०. २१ ॥
ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय ।
सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥ १०. २२ ॥
दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन ।
सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ १०. २३ ॥
लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।
मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ १०. २४ ॥
मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् ।
लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ १०. २५ ॥
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।
प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥ १०. २६ ॥
अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ १०. २७ ॥
अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ॥ १०. २८ ॥
कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।
कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ १०. २९ ॥
कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचाम् ।
ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥ १०. ३० ॥
गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।
पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥ १०. ३१ ॥
उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।
योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि ॥ १०. ३२ ॥
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः ॥ १०. ३३ ॥
क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु ।
अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ १०. ३४ ॥
शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः ॥ १०. ३५ ॥
आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ १०. ३६ ॥
रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।
चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ १०. ३७ ॥
लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।
मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ १०. ३८ ॥
स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ १०. ३९ ॥
यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।
दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥ १०. ४० ॥
संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ।
स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ॥ १०. ४१ ॥
उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ॥ १०. ४२ ॥
अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ १०. ४३ ॥
संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।
संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ १०. ४४ ॥
स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन ।
आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ॥ १०. ४५ ॥
पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः ।
स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ॥ १०. ४६ ॥
दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने ।
वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥ १०. ४७ ॥
संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।
आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥ १०. ४८ ॥
स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।
यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥ १०. ४९ ॥
न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।
तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ १०. ५० ॥
यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे ।
प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ॥ १०. ५१ ॥
ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ १०. ५२ ॥
पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ १०. ५३ ॥
केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥ १०. ५४ ॥
रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।
साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥ १०. ५५ ॥
आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ १०. ५६ ॥
कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः ।
आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥ १०. ५७ ॥
सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् ।
उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥ १०. ५८ ॥
आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः ।
सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ॥ १०. ५९ ॥
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।
औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ १०. ६० ॥
कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।
मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ १०. ६१ ॥
अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य ।
वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ॥ १०. ६२ ॥
ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः ।
भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ १०. ६३ ॥
आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ १०. ६४ ॥
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥ १०. ६५ ॥
चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ।
कामिनामनिभृतान्यपि रम्भास्त म्भकोमलतलेषु नखानि ॥ १०. ६६ ॥
ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुसुमैः प्रियमेताः ।
चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ १०. ६७ ॥
धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः ।
व्रीडितं ललित सौरतधार्ष्ट्यास्तेनिरेऽभिरुचितेषु तरुण्यः ॥ १०. ६८ ॥
पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखऽपि ॥ १०. ६९ ॥
वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।
कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ॥ १०. ७० ॥
अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ १०. ७१ ॥
बाहुपीडनकचग३हणाभ्यामाहतेन नखदन्तनिपातैः ।
बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ॥ १०. ७२ ॥
कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत् ॥ १०. ७३ ॥
आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ॥ १०. ७४ ॥
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।
हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ १०. ७५ ॥
उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः ।
श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ १०. ७६ ॥
ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु ।
क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वम् ॥ १०. ७७ ॥
प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः ।
दध्रिरेऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥ १०. ७८ ॥
यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् ।
आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ १०. ७९ ॥
प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥ १०. ८० ॥
संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ॥ १०. ८१ ॥
प्रेक्षणीयकमेव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः ।
संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ १०. ८२ ॥
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु ।
क्षौममाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ॥ १०. ८३ ॥
मृष्टचन्दनविशेषकभक्तिर्म्रषाटभूषणकदर्थितमाल्यः ।
सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ १०. ८४ ॥
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।
मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ॥ १०. ८५ ॥
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु ।
दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥ १०. ८६ ॥
सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।
णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत् गुरुरेव ॥ १०. ८७ ॥
विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।
योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥ १०. ८८ ॥
आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥ १०. ८९ ॥
योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनम् ।
क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ १०. ९० ॥
इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ १०. ९१ ॥
श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततममृषभहीनं
भिन्नकीकृत्य षड्जम् ।
प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ ११. १ ॥
रतिरभसविलासाभ्यासतान्तं न यावन् नयनयुगममीलत्तावदेवाहतोऽसौ ।
रजनिविरतिशंसी कामिनीनां
भविष्यद्-विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥ ११. २ ॥
स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं
व्यस्तमेत् ।
शकटमिव महीयः शैशवे शार्ङ्गपाणेश्
चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ॥ ११. २ ॥
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः
केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो
मनुष्यः ॥ ११. ४ ॥
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशो
ऽवकाशम् ।
रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद् गमयति शयनीये शर्वरी किं
करोतु ॥ ११. ५ ॥
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगान् उदधिमहति राज्ये
काव्यवद्दुर्विगाहे ।
गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ ११. ६ ॥
क्षितितटशयनान्तादुत्थितं दानपङ्गप्लुतबहुलशरीरं शाययत्येष
भूयः ।
मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥ ११. ७ ॥
द्रुततरकरदक्षाः क्षिप्तवैशखशैले दधति दधनि
धीरानारवान्वारिणीव ।
शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥ ११. ८ ॥
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे ।
कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवा शिलिष्यति
प्राणनाथम् ॥ ११. ९ ॥
गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः ।
असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥ ११. १० ॥
परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय
स्वप्नमूर्ध्वज्ञुरेव ।
रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः
प्रस्फुरत्प्रोथमश्वः ॥ ११. ११ ॥
उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष
गत्वा ।
स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा
पूर्वकाष्ठाङ्गनायाः ॥ ११. १२ ॥
चिररतिपरिखेद प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव
प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वतेन प्रियाणामशिथिलभुजचक्राश्लेषभेदं
तरुण्यः ॥ ११. १३ ॥
कृतधवलिमभेदैः कुङ्कुमेनेव
किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।
हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥ ११. १४ ॥
दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः
पलाशैः ।
कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमल षण्डे तुल्यरूपामवस्थाम् ॥ ११. १५ ॥
मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु
लज्जाम् ।
वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥ ११. १६ ॥
अविरतरतलीलायाःसजातश्रमाणामुपशममुपयान्तं निःसहेऽङ्गे
ऽङ्गनानाम् ।
पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां
रजोभिः ॥ ११. १७ ॥
अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसंपन्-नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ ११. १८ ॥
विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति
वातः ।
प्रमदनमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ ११. १९ ॥
लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव
निन्द्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रंसिनः केशपाशान् अवनिपतिगृहेभ्यो
यान्त्यमूर्वारवध्वः ॥ ११. २० ॥
शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं
सत्वरेव ।
व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं
वहन्ती ॥ ११. २१ ॥
नवकुमुदवनश्रीहासकेलिप्रसङ्गाद् अधिकरुचिरशेषामप्युषां जागरित्वा ।
अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरपि पाण्डुं
म्लानमात्मानमिन्दुः ॥ ११. २२ ॥
सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं
वल्लभेनाङ्गनायाः ।
वसनमपि निशान्ते नेष्यते तत्प्रदातु रथचरणविशालश्रेणिलोलेक्षणेन ॥ ११. २३ ॥
सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः ।
इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेषं
भ्रष्टशोभं शुचेव ॥ ११. २४ ॥
व्रजतिविषयमक्ष्णामंशुमाली न यावत् तिमिरमखिलमस्तं तावदेवारुणेन ।
परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरो
ऽपि ॥ ११. २५ ॥
विगततिमिरपङ्गं पश्यति व्योम यावद् धुवति विरहखिन्नः पक्षती
यावदेव ।
रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥ ११. २६ ॥
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता
भूषिताश्च ।
परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः
पुष्पमालाः ॥ ११. २७ ॥
विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः ।
क्वचिदयमनवस्थः स्थास्नुतामेति
वायुर्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥ ११. २८ ॥
नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः
सशेषः ।
अपि रहसि कृतानां वाग्विहीनोऽपिजातः सुरतविलसितानां वर्णको वर्णको
ऽसौ ॥ ११. २९ ॥
प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैरधिगतरतिशोभैः प्रत्युषः
प्रोषितश्रीः ।
उपहसित इवासौ चान्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥ ११. ३० ॥
सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।
इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं
प्रयातः ॥ ११. ३१ ॥
प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया
तुल्यवर्णः ।
चरणतलसरोजाक्रान्तिसंक्रान्तयासौ वपुषि नखविलेखो लाक्षया
रक्षितस्ते ॥ ११. ३२ ॥
तदवितथमवादीर्यन्मम त्वं प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाःकामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥ ११. ३३ ॥
नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना
दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो
वरीतुम् ॥ ११. ३४ ॥
इतिकृतवचनायाः कश्चिदभेत्य बिभ्यद्गलितनयनवारेर्याति पादावनामम् ।
करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ११. ३५ ॥
मदनमदनविकासस्पष्टधार्ष्ट्येदयानां
रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।
विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां
वयस्याः ॥ ११. ३६ ॥
करजदशनचिह्नं निशमङ्गेऽन्यनारी-जनितमिति सरोषमीर्ष्यया
शङ्कमानाम् ।
स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां
विलासी ॥ ११. ३७ ॥
कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे
गन्तुमापृच्छमाने ।
विगलितनवमुक्तास्थूलभाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ११. ३८ ॥
बहुजगदपुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु
प्रौढयोषिद्वदस्य ।
विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं
मुग्धवध्वा ॥ ११. ३९ ॥
अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ ११. ४० ॥
प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य ।
कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर्हुतमयमुपलीढे साधु
साम्नाय्यमग्निः ॥ ११. ४१ ॥
प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं
मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।
अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां
मुग्धमुक्तापुटस्य ॥ ११. ४२ ॥
नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां
वितानम् ।
जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव
महाब्धेरूर्ध्वमौर्वानलार्चिः ॥ ११. ४३ ॥
विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव
गरीयान्दिग्भिराकृष्यमाणः ।
कृतचपलविहङ्गालापकोलाहलाभिर्जलनिधिजलमध्यादेष उत्तार्यतेर्ऽकः ॥ ११. ४४ ॥
पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ।
यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ११. ४५ ॥
अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व
एव ।
नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव ॥ ११. ४६ ॥
उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन् सकमलमुखहासं वीक्षितः
पद्मिनीभिः ।
विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्गके हेलया
बालसूर्यः ॥ ११. ४७ ॥
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय
लोकम् ।
भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरपीठादुत्थितः
सप्तसप्तिः ॥ ११. ४८ ॥
परिणतमदिराभं भास्करेण्ॐशुबाणैस्तिमिरकरिघटायाः सर्वदिक्षु
क्षतायाः ।
रुधिरमिव वहन्त्यो भान्ति बालातपेनच्छुरितमुभयरोधोवारितं वारि नद्यः ॥ ११. ४९ ॥
दधतिपरिपतन्त्यो जालवातायनेभ्यस्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।
प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं
कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ११. ५० ॥
अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन ।
उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ॥ ११. ५१ ॥
सितरुचिशयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।
निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ११. ५२ ॥
प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु
स्फटिकमयराजद्राजताद्रिस्थलाभम् ।
अरुणितमकठोरैर्वेश्म काश्मीरजाम्भः-स्नपितमिव तदेतद्भानुभिर्भाति
भानोः ॥ ११. ५३ ॥
सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।
विदधति दशनानां सीत्कृताविष्कृतानामभिनवरविभासः
पद्मरागानुकारम् ॥ ११. ५४ ॥
अविरतदयिताङ्गासङ्गसञ्चरितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।
कनकनिकषरेखा कोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ॥ ११. ५५ ॥
सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं
हेतुमालोकशक्तेः ।
अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं
हिनस्ति ॥ ११. ५६ ॥
अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयो
ऽप्यपास्तः ।
निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि
हन्तव्यपक्षे ॥ ११. ५७ ॥
प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ
सान्द्रचन्द्रांशुगौर्याम् ।
बहिरभिहतमद्रेः संहतं कन्दरान्तर्-गतमपि तिमिरौघं
घर्मभानुर्भिनत्ति ॥ ११. ५८ ॥
बहिरपि विलसन्त्यः काममानिन्यिरे यद् दिवसकररुचोऽन्तं
ध्वान्तमन्तर्गृहेषु ।
नियतविषयवृत्तेरप्यनल्पप्रताप-क्षतसकलविपक्षस्तेजसः स
स्वभावः ॥ ११. ५९ ॥
चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम
स्वमेव ।
दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ११. ६० ॥
युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैर्दशशतदलभेदं
कौतुकेनाशुकृत्वा ।
श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्-भवनमधिशयानामादरात्पश्यतीव ॥ ११. ६१ ॥
अदयमिव कराग्रैरेष निपीड्य सद्यः शशधरमहरादौ
रागवानुष्णरश्मिः ।
अवकिरति नितान्तं कान्तिनिर्यासमब्द-स्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥ ११. ६२ ॥
प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये ।
सितकरवपुषासौ लक्ष्यते संप्रति द्यौर्विगलितकिरणेन
व्यङ्गितैकेक्षणेव ॥ ११. ६३ ॥
कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः
प्रीतिमाश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥ ११. ६४ ॥
क्षणमतुहिनधाम्नि प्रेष्य भूयः पुरस्ताद् उपगतवति
पाणिग्राहवद्दिग्वधूनाम् ।
द्रुततरमुपयाति स्रंसमानांशुकोऽसावुपपातिरिति नीचैः पश्चिमान्तेन
चन्द्रः ॥ ११. ६५ ॥
प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः ।
गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एकोऽधिशेते ॥ ११. ६६ ॥
कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः
क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।
बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु
सुप्रातमह्नामयं नायकः ॥ ११. ६७ ॥
इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥ १२. १ ॥
स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सोऽध्वना ॥ १२. २ ॥
हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥ १२. ३ ॥
शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव ।
व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥ १२. ४ ॥
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ १२. ५ ॥
स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः ।
वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥ १२. ६ ॥
अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।
तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥ १२. ७ ॥
गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव ॥ १२. ८ ॥
उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके ।
अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥ १२. ९ ॥
नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।
गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥ १२. १० ॥
नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥ १२. ११ ॥
प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशम् ।
मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना ॥ १२. १२ ॥
समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृताम् ॥ १२. १३ ॥
कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति ।
खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥ १२. १४ ॥
मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् ।
तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ॥ १२. १५ ॥
अन्वेतुकामोऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः ।
स्थूलोच्चयेनागमदन्तिकगतां गजोऽग्रयाताग्रकरः करेणुकाम् ॥ १२. १६ ॥
यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः ।
अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥ १२. १७ ॥
ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः ।
भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ॥ १२. १८ ॥
तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि ।
आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवत् ॥ १२. १९ ॥
व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः ।
वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ॥ १२. २० ॥
पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः ।
भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥ १२. २१ ॥
दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ।
पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥ १२. २२ ॥
भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि ।
अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥ १२. २३ ॥
त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।
क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥ १२. २४ ॥
स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे ।
आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥ १२. २५ ॥
धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि ।
स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥ १२. २६ ॥
भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।
उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः ॥ १२. २७ ॥
वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः ।
व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे ॥ १२. २८ ॥
तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।
बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥ १२. २९ ॥
तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषिताम् ।
त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥ १२. ३० ॥
निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः ।
उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥ १२. ३१ ॥
अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।
दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥ १२. ३२ ॥
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी ॥ १२. ३३ ॥
आगच्छतोऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः ।
दूरापवर्तितभारवाहणाः पथोऽपस्रुस्त्वरितं चमूचराः ॥ १२. ३४ ॥
ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झित गोत्रसंविदः ।
श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ॥ १२. ३५ ॥
निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् ।
ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः ॥ १२. ३६ ॥
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥ १२. ३७ ॥
गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।
ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ॥ १२. ३८ ॥
पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् ।
एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥ १२. ३९ ॥
प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः ।
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥ १२. ४० ॥
अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः ।
वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमततल्लिकाम् ॥ १२. ४१ ॥
स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।
कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥ १२. ४२ ॥
व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ ।
गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयत् ॥ १२. ४३ ॥
लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ।
शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ १२. ४४ ॥
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः ।
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥ १२. ४५ ॥
प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति ।
सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयत् ॥ १२. ४६ ॥
दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः ।
तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः ॥ १२. ४७ ॥
श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।
नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥ १२. ४८ ॥
भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः ।
पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥ १२. ४९ ॥
आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥ १२. ५० ॥
शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः ।
तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥ १२. ५१ ॥
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः ।
सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥ १२. ५२ ॥
उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥ १२. ५३ ॥
श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ १२. ५४ ॥
नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा ।
संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥ १२. ५५ ॥
प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि ।
साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥ १२. ५६ ॥
स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ।
अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥ १२. ५७ ॥
यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः ।
क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ॥ १२. ५८ ॥
रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।
पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥ १२. ५९ ॥
रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः ।
कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥ १२. ६० ॥
पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजाम् ।
दूरेऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ॥ १२. ६१ ॥
स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।
सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ॥ १२. ६२ ॥
प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः ।
नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥ १२. ६३ ॥
वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे ।
गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनोऽलयः ॥ १२. ६४ ॥
आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः ।
दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥ १२. ६५ ॥
उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः ।
आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः ॥ १२. ६६ ॥
या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।
कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥ १२. ६७ ॥
यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः ॥ १२. ६८ ॥
व्यक्तं बलीयान् यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।
गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ॥ १२. ६९ ॥
अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः ।
सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥ १२. ७० ॥
लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः ।
नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥ १२. ७१ ॥
तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।
सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥ १२. ७२ ॥
प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ।
उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥ १२. ७३ ॥
तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् ।
शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥ १२. ७४ ॥
सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः ।
सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥ १२. ७५ ॥
अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः ।
नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥ १२. ७६ ॥
विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै-
रलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः ।
सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डल-
स्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी ॥ १२. ७७ ॥
यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते ।
स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥ १३. १ ॥
यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।
सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्यनिर्ययौ ॥ १३. २ ॥
रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।
समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥ १३. ३ ॥
अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः ।
जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥ १३. ४ ॥
द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।
ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥ १३. ५ ॥
व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा ।
ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः? ॥ १३. ६ ॥
अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ॥ १३. ७ ॥
वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।
भुवनैर्नतोऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥ १३. ८ ॥
मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् ।
क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥ १३. ९ ॥
न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः ।
भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे ॥ १३. १० ॥
गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् ।
कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ १३. ११ ॥
शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।
यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥ १३. १२ ॥
सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।
कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥ १३. १३ ॥
इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।
स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ॥ १३. १४ ॥
समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥ १३. १५ ॥
इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥ १३. १६ ॥
रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः ।
दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगम् ॥ १३. १७ ॥
अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।
अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥ १३. १८ ॥
रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥ १३. १९ ॥
शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकम् ॥ १३. २० ॥
विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥ १३. २१ ॥
पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥ १३. २२ ॥
वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।
विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥ १३. २३ ॥
मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः ।
उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥ १३. २४ ॥
गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव ।
प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥ १३. २५ ॥
मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।
उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥ १३. २६ ॥
प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।
रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥ १३. २७ ॥
असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् ।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥ १३. २८ ॥
तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥ १३. २९ ॥
अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥ १३. ३० ॥
अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः ॥ १३. ३१ ॥
रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।
परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ १३. ३२ ॥
व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ॥ १३. ३३ ॥
व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।
भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ॥ १३. ३४ ॥
अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया ।
वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलम् ॥ १३. ३५ ॥
अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।
विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ॥ १३. ३६ ॥
करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन् ।
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥ १३. ३७ ॥
हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥ १३. ३८ ॥
धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति ।
मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ॥ १३. ३९ ॥
विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ १३. ४० ॥
अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।
अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥ १३. ४१ ॥
परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।
सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥ १३. ४२ ॥
नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा ॥ १३. ४३ ॥
वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना ।
हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥ १३. ४४ ॥
निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः ।
अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ॥ १३. ४५ ॥
अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥ १३. ४६ ॥
अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ।
गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ॥ १३. ४७ ॥
अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः
शनैः ।
अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥ १३. ४८ ॥
नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः ।
प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ॥ १३. ४९ ॥
उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् ।
विदधेऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् ॥ १३. ५० ॥
अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ ।
पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ॥ १३. ५१ ॥
लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।
जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव ॥ १३. ५२ ॥
विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः ।
गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥ १३. ५३ ॥
निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः ।
मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे ॥ १३. ५४ ॥
सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु ।
नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥ १३. ५५ ॥
तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥ १३. ५६ ॥
विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ।
यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ॥ १३. ५७ ॥
उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ।
अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥ १३. ५८ ॥
नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।
अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ॥ १३. ५९ ॥
हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः ।
उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥ १३. ६० ॥
अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।
अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥ १३. ६१ ॥
तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।
धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ॥ १३. ६२ ॥
नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।
गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि ॥ १३. ६३ ॥
उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् ।
रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ॥ १३. ६४ ॥
सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना ।
यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुम् ॥ १३. ६५ ॥
अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् ।
स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः ॥ १३. ६६ ॥
सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः ।
सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥ १३. ६७ ॥
हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥ १३. ६८ ॥
मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् ।
श्रीपतिः पतिरसाववनेश्च परस्परं
सङ्कथामृतमनेकमसिस्वदताममुभौ ॥ १३. ६९ ॥
तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।
यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥ १४. १ ॥
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।
व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥ १४. २ ॥
तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥ १४. ३ ॥
बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।
सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥ १४. ४ ॥
सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति ।
एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥ १४. ५ ॥
सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।
मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥ १४. ६ ॥
सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।
त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥ १४. ७ ॥
वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना ।
को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ १४. ८ ॥
स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् ।
तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥ १४. ९ ॥
पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।
सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥ १४. १० ॥
किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।
शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः ॥ १४. ११ ॥
तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।
व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥ १४. १२ ॥
सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते ।
किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १४. १३ ॥
तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।
उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ १४. १४ ॥
शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ॥ १४. १५ ॥
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ॥ १४. १६ ॥
इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।
सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥ १४. १७ ॥
आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।
आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १४. १८ ॥
तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥ १४. १९ ॥
शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।
याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥ १४. २० ॥
सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ ।
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ १४. २१ ॥
बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।
शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥ १४. २२ ॥
नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलः प्रयोगिणः ॥ १४. २३ ॥
संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति ।
शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥ १४. २४ ॥
लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।
प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥ १४. २५ ॥
तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।
वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥ १४. २६ ॥
स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।
गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥ १४. २७ ॥
उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।
द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥ १४. २८ ॥
निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।
नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ १४. २९ ॥
तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।
गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ॥ १४. ३० ॥
प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।
उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ॥ १४. ३१ ॥
नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनम् ।
अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ॥ १४. ३२ ॥
दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।
दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥ १४. ३३ ॥
वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।
भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपत् ॥ १४. ३४ ॥
किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।
राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ॥ १४. ३५ ॥
स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।
आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ॥ १४. ३६ ॥
शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः ।
पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥ १४. ३७ ॥
तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।
आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥ १४. ३८ ॥
मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।
आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ १४. ३९ ॥
एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः ।
त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥ १४. ४० ॥
प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।
स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥ १४. ४१ ॥
यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।
सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ ॥ १४. ४२ ॥
आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।
वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ॥ १४. ४३ ॥
आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।
तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥ १४. ४४ ॥
नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् ।
नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥ १४. ४५ ॥
निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् ।
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ १४. ४६ ॥
प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥ १४. ४७ ॥
दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति ।
प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ॥ १४. ४८ ॥
नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा ।
इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥ १४. ४९ ॥
स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।
भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ १४. ५० ॥
रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।
अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥ १४. ५१ ॥
एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।
यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥ १४. ५२ ॥
इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना ।
अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥ १४. ५३ ॥
आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
यत्तथापि न गुरून्नपृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥ १४. ५४ ॥
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।
अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥ १४. ५५ ॥
शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।
त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥ १४. ५६ ॥
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।
एक एव गुणवत्तमोऽथवापूज्य इत्ययमपीष्यते विधिः ॥ १४. ५७ ॥
अत्र चैष सकलेऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति ।
भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥ १४. ५८ ॥
मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।
अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥ १४. ५९ ॥
ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।
आमनन्ति यमुपास्यमादराद् दूरवर्तिनमतीव योगिनः ॥ १४. ६० ॥
पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् ।
संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥ १४. ६१ ॥
सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।
क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥ १४. ६२ ॥
भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।
यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥ १४. ६३ ॥
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।
दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ १४. ६४ ॥
आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने ।
बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥ १४. ६५ ॥
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ १४. ६६ ॥
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।
तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥ १४. ६७ ॥
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः
गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥ १४. ६८ ॥
श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् ।
श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥ १४. ६९ ॥
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।
जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥ १४. ७० ॥
स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।
उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥ १४. ७१ ॥
दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।
दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ १४. ७२ ॥
वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।
यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥ १४. ७३ ॥
दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥ १४. ७४ ॥
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ १४. ७५ ॥
गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।
क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धताम् ॥ १४. ७६ ॥
कामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।
व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥ १४. ७७ ॥
यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ १४. ७८ ॥
सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः ।
स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ १४. ७९ ॥
रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ।
लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ १४. ८० ॥
एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।
राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ १४. ८१ ॥
निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा ।
सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ १४. ८२ ॥
तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।
यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥ १४. ८३ ॥
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।
योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥ १४. ८४ ॥
यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् ।
चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥ १४. ८५ ॥
यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।
मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥ १४. ८६ ॥
धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥ १४. ८७ ॥
भीष्मोक्तं तदिति वचो निशम्य सम्यक् साम्राज्यश्रियमधिगच्छता नृपेण ।
दत्तेर्ऽधे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥ १४. ८८ ॥
अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥ १५. १ ॥
पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥ १५. २ ॥
अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् ।
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥ १५. ३ ॥
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥ १५. ४ ॥
स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥ १५. ५ ॥
क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥ १५. ६ ॥
कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥ १५. ७ ॥
कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥ १५. ८ ॥
अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥ १५. ९ ॥
करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥ १५. १० ॥
इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥ १५. ११ ॥
प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥ १५. १२ ॥
ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।
वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ॥ १५. १३ ॥
यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् ।
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥ १५. १४ ॥
यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥ १५. १५ ॥
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥ १५. १६ ॥
तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते ।
भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ १५. १७ ॥
यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥ १५. १८ ॥
अथवा न धर्ममसुबोधसमयमवयात बालिशाः ।
खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥ १५. १९ ॥
स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥ १५. २० ॥
अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥ १५. २१ ॥
प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥ १५. २२ ॥
असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते ।
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥ १५. २३ ॥
मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥ १५. २४ ॥
छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥ १५. २५ ॥
धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥ १५. २६ ॥
जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥ १५. २७ ॥
अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् ।
व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥ १५. २८ ॥
पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥ १५. २९ ॥
तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥ १५. ३० ॥
त्वमशक्नुवन्न शुभकर्मनिरत! परिपाकदारुणम् ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः ॥ १५. ३१ ॥
सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ॥ १५. ३२ ॥
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ १५. ३३ ॥
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ॥ १५. ३४ ॥
अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु ।
स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ १५. ३५ ॥
यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥ १५. ३६ ॥
शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।
कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥ १५. ३७ ॥
अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥ १५. ३८ ॥
इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ १५. ३९ ॥
कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥ १५. ४० ॥
न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः ।
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥ १५. ४१ ॥
विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥ १५. ४२ ॥
स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥ १५. ४३ ॥
नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥ १५. ४४ ॥
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥ १५. ४५ ॥
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥ १५. ४६ ॥
इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणात् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥ १५. ४७ ॥
शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥ १५. ४८ ॥
प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्द्रुमः ॥ १५. ४९ ॥
अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।
कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ॥ १५. ५० ॥
अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥ १५. ५१ ॥
कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् ।
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥ १५. ५२ ॥
प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् ।
जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥ १५. ५३ ॥
चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ १५. ५४ ॥
कुपितेषु राजषु तथापि रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥ १५. ५५ ॥
गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रताम् ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥ १५. ५६ ॥
विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥ १५. ५७ ॥
इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् ।
मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलम् ॥ १५. ५८ ॥
रमसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥ १५. ५९ ॥
स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥ १५. ६० ॥
हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।
मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ॥ १५. ६१ ॥
गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥ १५. ६२ ॥
किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥ १५. ६३ ॥
अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ॥ १५. ६४ ॥
विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥ १५. ६५ ॥
अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥ १५. ६६ ॥
अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥ १५. ६७ ॥
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ १५. ६८ ॥
चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ १५. ६९ ॥
विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥ १५. ७० ॥
क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥ १५. ७१ ॥
त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।
शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ॥ १५. ७२ ॥
जगदन्तकालसमवेतविषदविषमेरितारवम् ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥ १५. ७३ ॥
सहसा ससभ्रमविलोलसकलजनतासमाकुलम् ।
स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥ १५. ७४ ॥
दधतो भयानकतरत्वमुपगतवतः समानताम् ।
धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥ १५. ७५ ॥
परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।
वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ १५. ७६ ॥
रणसंमदोदयविकासिबलकलकलाकुलीकृते ।
शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥ १५. ७७ ॥
परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥ १५. ७८ ॥
प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥ १५. ७९ ॥
दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।
चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ॥ १५. ८० ॥
दयिताय सासवमुदस्तमपतदवसादिनः करात् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥ १५. ८१ ॥
भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥ १५. ८२ ॥
सुदृशः समीकगमनाय युवभिरथ संबभाषिरे ।
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ १५. ८३ ॥
विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥ १५. ८४ ॥
न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।
यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥ १५. ८५ ॥
प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् ।
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ १५. ८६ ॥
व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ।
धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ॥ १५. ८७ ॥
शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥ १५. ८८ ॥
ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ १५. ८९ ॥
सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥ १५. ९० ॥
क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।
स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ॥ १५. ९१ ॥
अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥ १५. ९२ ॥
समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ॥ १५. ९३ ॥
विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।
यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ॥ १५. ९४ ॥
सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥ १५. ९५ ॥
काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीरश्रीकाः
काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने
पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥ १५. ९६ ॥
दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥ १६. १ ॥
अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ १६. २ ॥
विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।
प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥ १६. ३ ॥
प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।
तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥ १६. ४ ॥
अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।
तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥ १६. ५ ॥
जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।
तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ १६. ६ ॥
अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ॥ १६. ७ ॥
कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति ।
प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥ १६. ८ ॥
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ १६. ९ ॥
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥ १६. १० ॥
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ १६. ११ ॥
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।
यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥ १६. १२ ॥
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।
समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥ १६. १३ ॥
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।
सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥ १६. १४ ॥
विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।
असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ १६. १५ ॥
इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥ १६. १६ ॥
मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया ।
सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १६. १७ ॥
अतिकोमलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।
वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १६. १८ ॥
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा ।
शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशात् ॥ १६. १९ ॥
हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः ।
न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ १६. २० ॥
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।
सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥ १६. २१ ॥
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ १६. २२ ॥
परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः ।
परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ १६. २३ ॥
अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् ।
खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ १६. २४ ॥
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ १६. २५ ॥
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ १६. २६ ॥
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ १६. २७ ॥
परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः ।
परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ १६. २८ ॥
सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ १६. २९ ॥
प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ १६. ३० ॥
किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।
वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ १६. ३१ ॥
विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।
दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ १६. ३२ ॥
नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ।
द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ १६. ३३ ॥
समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।
हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ॥ १६. ३४ ॥
महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ १६. ३५ ॥
यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् ।
अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥ १६. ३६ ॥
यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।
विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥ १६. ३७ ॥
निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।
पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥ १६. ३८ ॥
विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ १६. ३९ ॥
विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः ।
न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥ १६. ४० ॥
कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ १६. ४१ ॥
उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ १६. ४२ ॥
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ १६. ४३ ॥
अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति ।
अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ॥ १६. ४४ ॥
त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥ १६. ४५ ॥
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।
शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥ १६. ४६ ॥
अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ १६. ४७ ॥
अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।
हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥ १६. ४८ ॥
गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ १६. ४९ ॥
अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।
तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥ १६. ५० ॥
क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥ १६. ५१ ॥
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ १६. ५२ ॥
तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥ १६. ५३ ॥
परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ १६. ५४ ॥
न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।
भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥ १६. ५५ ॥
हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।
अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥ १६. ५६ ॥
प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥ १६. ५७ ॥
अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।
क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ॥ १६. ५८ ॥
निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।
न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥ १६. ५९ ॥
न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषाम् ॥ १६. ६० ॥
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ १६. ६१ ॥
मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ॥ १६. ६२ ॥
समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।
धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ १६. ६३ ॥
तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।
कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ १६. ६४ ॥
दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।
भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥ १६. ६५ ॥
अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।
यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ १६. ६६ ॥
चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः.
अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥ १६. ६७ ॥
न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः ।
चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥ १६. ६८ ॥
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।
बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ १६. ६९ ॥
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥ १६. ७० ॥
भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् ।
रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥ १६. ७१ ॥
नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।
गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ १६. ७२ ॥
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥ १६. ७३ ॥
घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ १६. ७४ ॥
इति पूर इवोदकस्य यः सरितां प्रवृषिजस्तटद्रुमैः ।
क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥ १६. ७५ ॥
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ १६. ७६ ॥
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ १६. ७७ ॥
इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।
स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ १६. ७८ ॥
महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥ १६. ७९ ॥
परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् ।
न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥ १६. ८० ॥
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥ १६. ८१ ॥
भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥ १६. ८२ ॥
लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ १६. ८३ ॥
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकैरच्छाच्छे
पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषामित्थं नित्यविभूषणा
युवतयः संपत्सु चापत्स्वपि ॥ १६. ८४ ॥
विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् ।
रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यतेऽसौ ॥ १६. ८५ ॥
इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।
प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥ १७. १ ॥
सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥ १७. २ ॥
अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि ।
समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥ १७. ३ ॥
अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।
रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ॥ १७. ४ ॥
यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ।
बृहच्छिलातलकठिनांसघट्टितं ततोऽभवद्भ्रमितामिवाखिलं सदः ॥ १७. ५ ॥
प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः ।
युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥ १७. ६ ॥
प्रजापतिक्रतुनिधनार्थमुत्थितंव्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् ।
समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥ १७. ७ ॥
परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।
करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः ॥ १७. ८ ॥
निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदं ।
अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ॥ १७. ९ ॥
दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया ।
ध्रुवं पुरः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा ॥ १७. १० ॥
विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।
परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ १७. ११ ॥
विलङ्घितस्थितिमभिवीक्ष्य रुक्षया रिपोर्गिरागुरुमपि गान्दिनीसुतम् ।
जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ॥ १७. १२ ॥
विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः ।
क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः ॥ १७. १३ ॥
सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।
स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः ॥ १७. १४ ॥
ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।
रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥ १७. १५ ॥
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः ।
अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥ १७. १६ ॥
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।
विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥ १७. १७ ॥
समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितैः ।
घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥ १७. १८ ॥
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।
निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥ १७. १९ ॥
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।
मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥ १७. २० ॥
मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।
अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥ १७. २१ ॥
दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति ।
महीभुजां महिमभृतां न संममुर्मुदोऽन्तरावपुषि बहिश्च कञ्चुकाः ॥ १७. २२ ॥
संकल्पं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।
त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥ १७. २३ ॥
युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।
अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥ १७. २४ ॥
सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः ।
रणैषिणां पुलकभृतोऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥ १७. २५ ॥
मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।
सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥ १७. २६ ॥
अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।
मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥ १७. २७ ॥
उपेत्यच स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।
प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ १७. २८ ॥
गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।
प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥ १७. २९ ॥
निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः ।
विकौतुकः प्रकृतमहाप्लवेऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥ १७. ३० ॥
बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे ।
असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥ १७. ३१ ॥
अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।
विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ॥ १७. ३२ ॥
जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः ।
अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ॥ १७. ३३ ॥
अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।
अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥ १७. ३४ ॥
प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः ।
गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्डमाययुः ॥ १७. ३५ ॥
सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः ।
व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ॥ १७. ३६ ॥
चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया ।
मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥ १७. ३७ ॥
असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया ।
अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥ १७. ३८ ॥
उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः ।
यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ॥ १७. ३९ ॥
न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि ।
पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ॥ १७. ४० ॥
यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ।
पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥ १७. ४१ ॥
मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।
यथा पुरःसमरसमुद्यतद्विषद्वलानकध्वनिरुदकर्षयन्मनः ॥ १७. ४२ ॥
यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतः सरः ।
तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥ १७. ४३ ॥
प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।
व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥ १७. ४४ ॥
क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।
भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥ १७. ४५ ॥
पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।
समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥ १७. ४६ ॥
ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।
विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥ १७. ४७ ॥
भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः ।
मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥ १७. ४८ ॥
ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।
यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ १७. ४९ ॥
हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।
विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥ १७. ५० ॥
उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।
निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥ १७. ५१ ॥
अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति ।
वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ १७. ५२ ॥
विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः ।
चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः ॥ १७. ५३ ॥
गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवद्व्यवहितसत्वमुत्कटम् ।
सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ॥ १७. ५४ ॥
पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।
इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥ १७. ५५ ॥
क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।
क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ १७. ५६ ॥
महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।
विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ १७. ५७ ॥
शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।
बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥ १७. ५८ ॥
सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः ।
यतः क्षितेरवयवसंपदोऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ १७. ५९ ॥
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोऽवगुण्ठितम् ।
युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ १७. ६० ॥
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।
दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ॥ १७. ६१ ॥
निरीक्षितुं वियति समेत्यकौतुकात्पराक्रमं समरमुखे महीभृताम् ।
रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ॥ १७. ६२ ॥
विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।
शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ १७. ६३ ॥
नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे ।
चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ॥ १७. ६४ ॥
गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा ।
नभस्तलं भहुलतरेण रेणुना ततोऽगमत्त्रिजगदिवैकतां स्फुटम् ॥ १७. ६५ ॥
समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः ।
रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ १७. ६६ ॥
गते मुखच्छदपटसादृशीं दृशः पथस्थिरो दधति घने रजस्यपि ।
मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥ १७. ६७ ॥
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः ।
उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥ १७. ६८ ॥
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतः स्तन्वन्तः
कनकावलीभिरुपमां सौदामनीदामभिः ।
वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले
कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥ १७. ६९ ॥
सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।
पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥ १८. १ ॥
पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।
इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥ १८. २ ॥
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः ॥ १८. ३ ॥
रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् ।
दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ॥ १८. ४ ॥
वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः ।
रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्यशेषाः ॥ १८. ५ ॥
सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।
कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः ॥ १८. ६ ॥
संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।
रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥ १८. ७ ॥
कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।
सम्मार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताका ॥ १८. ८ ॥
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ १८. ९ ॥
घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि ।
आमेतीव प्रत्यवोचन् गजानामुत्साहार्थं वाचमाधोरणस्य ॥ १८. १० ॥
यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।
शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥ १८. ११ ॥
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ ।
हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥ १८. १२ ॥
शुद्धाः सङ्गं न कौचित्प्राप्तवन्तो दूरान्मुक्ता शीघ्रतां दर्शयन्तः ।
अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ॥ १८. १३ ॥
आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।
हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥ १८. १४ ॥
रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि ।
केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥ १८. १५ ॥
वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।
अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥ १८. १६ ॥
आधावन्तः सम्मुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।
वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्रविशन्पुष्कराणि ॥ १८. १७ ॥
मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः ।
आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परोऽसौ ॥ १८. १८ ॥
सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणाबबब्द्धा ।
नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥ १८. १९ ॥
नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।
सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ १८. २० ॥
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
प्रप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥ १८. २१ ॥
भित्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः ।
शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखोऽपि ॥ १८. २२ ॥
कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म ।
कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनोह्रेपयन्ति ॥ १८. २३ ॥
जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः ।
नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥ १८. २४ ॥
विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।
बभ्रामैकोबन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥ १८. २५ ॥
यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य ।
सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥ १८. २६ ॥
क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।
घोरारावध्वनिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ॥ १८. २७ ॥
प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि ।
क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ॥ १८. २८ ॥
तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।
तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥ १८. २९ ॥
आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।
भग्नस्योच्चैर्बर्हभारेण शङ्कोरवव्राते वीक्षणे च क्षणेन ॥ १८. ३० ॥
यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन ।
अन्त्यावस्थाकालयोग्योपयोगं दध्रेऽभीष्टं रागमापद्धनं वा ॥ १८. ३१ ॥
अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैभुग्नवालाः ।
उन्मूर्धानः सन्निपत्यपरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ १८. ३२ ॥
द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।
दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः ॥ १८. ३३ ॥
मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदछ्छायाचञ्चच्छिखाग्रः ।
लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥ १८. ३४ ॥
ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ १८. ३५ ॥
सान्द्राण्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।
दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥ १८. ३६ ॥
आकम्पाग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः ।
मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्त्खनन्ति स्म नागाः ॥ १८. ३७ ॥
उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।
शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ १८. ३८ ॥
भग्नेऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् ।
साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ॥ १८. ३९ ॥
व्याप्तं लोकैर्दुःखलभ्यापसारं संरंभित्वादेत्य धीरो महीयः ।
सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ॥ १८. ४० ॥
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।
निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥ १८. ४१ ॥
आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।
निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ १८. ४२ ॥
क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।
सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥ १८. ४३ ॥
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।
खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ १८. ४४ ॥
दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव ।
भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ १८. ४५ ॥
आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोपाङ्मुखस्य ।
लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ १८. ४६ ॥
लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले ।
ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥ १८. ४७ ॥
हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः ।
आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥ १८. ४८ ॥
कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन ।
हस्ताग्रेण प्राप्तमप्यग्रतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ १८. ४९ ॥
तन्वाः पुंसो नन्द गोपात्मजायाः कंसेनेव स्फोटितायाः गजेन ।
दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥ १८. ५० ॥
आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।
संस्थितस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती ॥ १८. ५१ ॥
शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।
पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥ १८. ५२ ॥
उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥ १८. ५३ ॥
तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।
नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैर्जहास ॥ १८. ५४ ॥
प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् ।
एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धाः माल्यैः साधुवादैर्द्वयेऽपि ॥ १८. ५५ ॥
बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् ।
संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥ १८. ५६ ॥
पौनः पुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्यां ।
पादे लग्नमत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ १८. ५७ ॥
कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
उच्छ्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥ १८. ५८ ॥
लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।
त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ १८. ५९ ॥
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम ।
त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥ १८. ६० ॥
त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासु ।
प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥ १८. ६१ ॥
स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।
कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ १८. ६२ ॥
गत्वा नूनं वैबुधं सद्म रम्यं मूच्छाभाजामाजगामान्तरात्मा ।
भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥ १८. ६३ ॥
कश्चिच्छ्स्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।
व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ १८. ६४ ॥
भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव ।
अन्योऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥ १८. ६५ ॥
भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् ।
जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्याज्जनेन ॥ १८. ६६ ॥
भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।
आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ॥ १८. ६७ ॥
रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् ।
हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥ १८. ६८ ॥
निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार ।
रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तः पुरस्य ॥ १८. ६९ ॥
रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।
रक्ताम्भोभिःस्तत्क्षणादेव तस्मिन्संख्येऽसंख्याः प्रवहन्द्वीपवत्यः ॥ १८. ७० ॥
संदानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः ।
कूर्मौपम्यं व्क्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ॥ १८. ७१ ॥
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।
सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषुच्चैस्तरद्भिः ॥ १८. ७२ ॥
उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः ।
मूर्ताः प्राणाः नूनमद्याप्यवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ॥ १८. ७३ ॥
आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः ।
आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥ १८. ७४ ॥
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।
ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥ १८. ७५ ॥
नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।
योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥ १८. ७६ ॥
ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।
स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥ १८. ७७ ॥
क्रव्यात्पूगैः पुष्कराण्यनकानां प्रत्याशाभिर्मेदसो दारितानि ।
आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददावाननानि ॥ १८. ७८ ॥
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।
बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ १८. ७९ ॥
आयन्तीनामविरतरयंराजकानीकिनीनामित्थं सैन्यैः सममलुघुभिः
श्रीपतेरूर्मिमद्भिः ।
आसीदोघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं
कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ १८. ८० ॥
अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ १९. १ ॥
आपतन्तममुन्दूरादूरीकृतपराक्रमः ।
बलोऽवलोकयामास मातङ्गमिव केसरी ॥ १९. २ ॥
जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् ।
भाभोऽभीभाभिभूभारारारिररिरीररः ॥ १९. ३ ॥
भवन्भवाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ १९. ४ ॥
रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
कोपादथैनं शितमा महेष्वा स विचक्षणे ॥ १९. ५ ॥
दिशमर्कमिवावाचीं मूर्च्छागतमपाहरत् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥ १९. ६ ॥
कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥ १९. ७ ॥
उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ १९. ८ ॥
पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाचापमुदायुधः ॥ १९. ९ ॥
समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥ १९. १० ॥
दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥ १९. ११ ॥
नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।
बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १९. १२ ॥
प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १९. १३ ॥
कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥ १९. १४ ॥
याबभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेनाससार ताम् ॥ १९. १५ ॥
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् ॥ १९. १६ ॥
दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥ १९. १७ ॥
निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥ १९. १८ ॥
तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ १९. १९ ॥
सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥ १९. २० ॥
सोढुं तस्य द्विषो नालमवयोधरवा रणम् ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥ १९. २१ ॥
केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ १९. २२ ॥
सादरं युद्धमानापि तेनान्यनरसादरम् ।
सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ १९. २३ ॥
इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ १९. २४ ॥
अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥ १९. २५ ॥
ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ १९. २६ ॥
सकारनानारकास कायसाददसायका ।
रसाहवावाहसार नादवाददवादना ॥ १९. २७ ॥
लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ १९. २८ ॥
सासेनागमनारम्भे रसेनासीदनारता ।
तारनादजनामत्त धीरनागमनामया ॥ १९. २९ ॥
धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृताम् ।
शौर्यनुरागनिकषः सा हि वेलानुजीविनाम् ॥ १९. ३० ॥
दिवमिन्युधा गन्तुं कोमलामलसम्पदम् ।
दधौ दधानोऽसिलतां कोऽमलामलसम्पदम् ॥ १९. ३१ ॥
कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥ १९. ३२ ॥
वाहनाजनि मानासे साराजावनमा ततः.
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ १९. ३३ ॥
निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ॥ १९. ३४ ॥
अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥ १९. ३५ ॥
करेणुः प्रम्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ १९. ३६ ॥
धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।
सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥ १९. ३७ ॥
न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ १९. ३८ ॥
बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥ १९. ३९ ॥
नानाजाववजानाना सा जनौघघनौजसा ।
परानिहऽहानिराप तान्वियाततयान्विता ॥ १९. ४० ॥
विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।
श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलम् ॥ १९. ४१ ॥
संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।
ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥ १९. ४२ ॥
विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥ १९. ४३ ॥
वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ॥ १९. ४४ ॥
अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥ १९. ४५ ॥
प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः ।
ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥ १९. ४६ ॥
पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥ १९. ४७ ॥
केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥ १९. ४८ ॥
विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् ॥ १९. ४९ ॥
अन्येन विदधेऽरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥ १९. ५० ॥
सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः ।
तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम् ॥ १९. ५१ ॥
शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।
ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥ १९. ५२ ॥
द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ।
सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥ १९. ५३ ॥
भीमतामपरोऽम्भोधिसमेऽधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ १९. ५४ ॥
दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥ १९. ५५ ॥
रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥ १९. ५६ ॥
यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥ १९. ५७ ॥
अयशोभिदुरालोके कोपधाम-रणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते ॥ १९. ५८ ॥
स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥ १९. ५९ ॥
अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा ॥ १९. ६० ॥
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥ १९. ६१ ॥
वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥ १९. ६२ ॥
पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ १९. ६३ ॥
रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात् ॥ १९. ६४ ॥
रयेण रणकाम्यन्तौ दूरादुपगतविभौ ।
गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥ १९. ६५ ॥
भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥ १९. ६६ ॥
निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥ १९. ६७ ॥
निपीडनादिव मिथो दानतोयनारतम् ।
वपुषामदयापातादिभानामभितोऽगलत् ॥ १९. ६८ ॥
रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ १९. ६९ ॥
शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ १९. ७० ॥
अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ १९. ७१ ॥
अभीकमतिकेनेद्धे भीतानन्दस्यनाशने ।
कनत्सकामसेनाके मन्दकामकमस्यति ॥ १९. ७२ ॥
दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् ।
हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ १९. ७३ ॥
येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥ १९. ७४ ॥
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम् ॥ १९. ७५ ॥
अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥ १९. ७६ ॥
विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥ १९. ७७ ॥
असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥ १९. ७८ ॥
चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।
पयोदजालमिव तद्वीराशंसनमाबभौ ॥ १९. ७९ ॥
बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ १९. ८० ॥
कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ १९. ८१ ॥
युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥ १९. ८२ ॥
अथ वक्षोमणिच्छायाच्छुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥ १९. ८३ ॥
नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ॥ १९. ८४ ॥
अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥ १९. ८५ ॥
विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ॥ १९. ८६ ॥
उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ १९. ८७ ॥
तं श्रिया घनयानस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयानघया श्रितम् ॥ १९. ८८ ॥
विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ १९. ८९ ॥
विदितं दिवि केऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥ १९. ९० ॥
नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥ १९. ९१ ॥
तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ १९. ९२ ॥
पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।
योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ १९. ९३ ॥
प्रपे रूपी पुरारेपाः परिपूरी परः परैः ।
रोपैरपारैरुपरि पुपूरेऽपि पुरोऽपरैः ॥ १९. ९४ ॥
दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।
चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥ १९. ९५ ॥
शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ १९. ९६ ॥
न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।
मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥ १९. ९७ ॥
लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।
कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥ १९. ९८ ॥
अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥ १९. ९९ ॥
वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः ॥ १९. १०० ॥
मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १९. १०१ ॥
राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥ १९. १०२ ॥
उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥ १९. १०३ ॥
क्रूरारिकारि कीरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥ १९. १०४ ॥
विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ।
अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥ १९. १०५ ॥
दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥ १९. १०६ ॥
एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १९. १०७ ॥
शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥ १९. १०८ ॥
व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥ १९. १०९ ॥
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥ १९. ११० ॥
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम् ॥ १९. १११ ॥
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ १९. ११२ ॥
मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥ १९. ११३ ॥
दाददो दद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददोऽददः ॥ १९. ११४ ॥
प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।
प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥ १९. ११५ ॥
सदामदबलप्रायः समुद्धृरसो बभौ ।
प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥ १९. ११६ ॥
द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥ १९. ११७ ॥
सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।
महो दधेऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तम् ॥ १९. ११८ ॥
इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेरेत्याधोमुख्यं प्रविशन्भूमिमाशु ।
शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥ १९. ११९ ॥
सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः
समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १९. १२० ॥
मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्यन्गतभीराह्वतचेदिराण्मुरारिम् ॥ २०. १ ॥
शितचक्रनिपातसंप्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् ।
अभिशौरि रथोऽथनोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥ २०. २ ॥
अभिचैद्यमगाद्रथोऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः ।
गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥ २०. ३ ॥
स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।
विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥ २०. ४ ॥
सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।
प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥ २०. ५ ॥
अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ।
चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥ २०. ६ ॥
जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण ।
चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ॥ २०. ७ ॥
समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः ।
अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षत् ॥ २०. ८ ॥
ऋजुताफलयोगशुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् ।
गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥ २०. ९ ॥
अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन ।
अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ २०. १० ॥
अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ।
वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥ २०. ११ ॥
गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् ।
ददृशे कुपितान्तकोन्न्मद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥ २०. १२ ॥
तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः ।
जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥ २०. १३ ॥
शितशल्यमुखावदीर्णमेघक्षरदम्भः स्फुटतीव्रवेदनानाम् ।
स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥ २०. १४ ॥
अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा ।
रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥ २०. १५ ॥
विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य ।
शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ॥ २०. १६ ॥
इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य ।
वयसमिव चक्रमक्रियाकं परितोऽरोधि विपाटपञ्चरेण ॥ २०. १७ ॥
इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः ।
अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥ २०. १८ ॥
प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् ।
ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥ २०. १९ ॥
उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् ।
क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥ २०. २० ॥
ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः ।
इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधराः ॥ २०. २१ ॥
शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः ।
निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ॥ २०. २२ ॥
तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण ।
विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ २०. २३ ॥
दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः ।
लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥ २०. २४ ॥
प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः ।
परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपमीयुः ॥ २०. २५ ॥
इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः ।
पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥ २०. २६ ॥
शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले ।
विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥ २०. २७ ॥
स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः ।
ददृशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ॥ २०. २८ ॥
भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता ।
शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥ २०. २९ ॥
गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः ।
विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥ २०. ३० ॥
शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः ।
परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥ २०. ३१ ॥
विहिताद्भुतलोकसृष्टिमाये जममिच्छन्किल मायया मुरारौ ।
भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ २०. ३२ ॥
सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् ।
प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥ २०. ३३ ॥
गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् ।
क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः ॥ २०. ३४ ॥
श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वाम् ।
सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥ २०. ३५ ॥
उचितस्वपनोऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदीनीम् ।
भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ २०. ३६ ॥
अथसूर्यरुचीव तस्य दृष्टावुद्भूत्कौस्तुभदर्पणं गतायाम् ।
पटुः धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥ २०. ३७ ॥
महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु ।
व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥ २०. ३८ ॥
प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢषे भानुमतः पुनः प्रसर्तुम् ।
तमसोऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥ २०. ३९ ॥
घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ।
ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥ २०. ४० ॥
व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथप्रकाशे ।
रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ॥ २०. ४१ ॥
पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।
अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः ॥ २०. ४२ ॥
कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।
अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुरवारि काद्रवेयैः ॥ २०. ४३ ॥
दधतस्तनिमानमानपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः ।
भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ २०. ४४ ॥
सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् ।
उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ २०. ४५ ॥
शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः ।
यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥ २०. ४६ ॥
पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।
दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥ २०. ४७ ॥
कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।
व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥ २०. ४८ ॥
परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः ।
दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ २०. ४९ ॥
बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रमन्तः ।
दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥ २०. ५० ॥
प्रसृतं रभसादयोभिनीला प्रतिपदं परितोऽभिवेष्टयन्ती ।
तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ २०. ५१ ॥
अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन ।
निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ २०. ५२ ॥
द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः ।
क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥ २०. ५३ ॥
उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।
गगनार्णवमन्तरासुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ २०. ५४ ॥
पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः ।
सुतरामभवदद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥ २०. ५५ ॥
दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् ।
रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥ २०. ५६ ॥
अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः ।
जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ २०. ५७ ॥
प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गैः ।
भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ २०. ५८ ॥
खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ।
अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥ २०. ५९ ॥
सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन ।
वियतायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥ २०. ६० ॥
चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः ।
द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥ २०. ६१ ॥
ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् ।
परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ २०. ६२ ॥
गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः ।
स्वमसारतया मषीभवन्तः पुनराकारमवापुराम्बुवाहाः ॥ २०. ६३ ॥
ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः ।
क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥ २०. ६४ ॥
निखिलामिति कुर्वतश्चिरायद्रुतचामीकरचारुतामिव द्याम् ।
प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥ २०. ६५ ॥
चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ।
उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥ २०. ६६ ॥
ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासम् ।
उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥ २०. ६७ ॥
तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् ।
अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ २०. ६८ ॥
सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः ।
जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥ २०. ६९ ॥
ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः ।
ववृषुर्वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥ २०. ७० ॥
मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे ।
पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥ २०. ७१ ॥
परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः ।
प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ॥ २०. ७२ ॥
प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः ।
बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्रिपतेरिवैकपत्रम् ॥ २०. ७३ ॥
व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनाङ्घनाघनौघाः ।
उपकृत्यनिसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ २०. ७४ ॥
कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ।
विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥ २०. ७५ ॥
इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् ।
भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः
प्रत्यहंस्तत्तदाशु ॥ २०. ७६ ॥
शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् ।
मर्मातिगैरनृजुभिर्नितरामशुद्धैर्वाक्सायकैरथ तुतोद तदा विपक्षः ॥ २०. ७७ ॥
राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन-
व्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा ।
तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानल-
ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥ २०. ७८ ॥
श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं
पुष्पवर्षैर्वपुष्टचैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ।
प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्नरेन्द्रैरौपेन्द्रं
वपुरथ विशद्धाम वीक्षांबभूवे ॥ २०. ७९ ॥
From Rashtriya Sanskrit Vidyapeetha
sansknet.ac.in and its mirror http://www.wilbourhall.org/sansknet/
Proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% File name : shishupAlavadha.itx
%--------------------------------------------
% Text title : shishupAlavadham mAghavirachitam
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Transliterated by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Translation by :
% Latest update : APril 6, 2014
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .