॥ श्रीबटुकभैरव अपराधक्षमापनस्तोत्रम् ॥
ॐ गुरोः सेवां त्यक्त्वा गुरुवचन-शक्तोपि न भवे
भवत्पूजा-ध्यानाज्जप हवन-यागा द्विरहितः ।
त्वदर्च-निर्माणे क्वचिदपि न यत्नं व कृतवान्
जगज्जाल-ग्रसतो झटिति कुरु हार्दं मयि विभो ॥ १ ॥
प्रभो दुर्गासूनो तव शरणतां सोऽधिगतवान्
कृपालो दुःखार्तः कमपि भवदन्यं प्रकथये ।
सुहृत् सम्पत्तेऽहं सरल-विरलः साधकजन
स्त्वदन्यः कस्त्राता भव-दहन-दाहं शमयति ॥ २ ॥
वदान्यो मान्यस्त्वं विविधजनपालो भवसि वै
दयालुर्दीनार्तान् भवजलधिपारं गमयसि ।
अतस्त्वत्तो याचे नति-नियमतोऽकिञ्चनधनः
सदा भूयाद् भावः पदनलिनयोस्ते तिमिरहा ॥ ३ ॥
अजापूर्वो विप्रो मिलपदपरो योऽतिपतितो
महामूर्खो दुष्टो वृजननिरतः पामरनृपः ।
असत्पानासक्तो यवन-युवती-वातरमणः
प्रभावात्त्वन्नाम्नः परमपदवीं सोऽप्यधिगतः ॥ ४ ॥
दयां दीर्घां ८ दीने बटुक ! कुरु विश्वम्भर मयि
न चान्यस्सन्त्राता परमशिव मां पालय विभो ।
महाश्चर्यं प्राप्तस्तव सरलदृष्ट्या ९ विरहितः
कृपापूर्णैर्नेत्रैः कजदल १० निमैर्मां खचयतात् ११ ॥ ५ ॥
सहस्ये १२ किं हंसो नहि तपति दीनं जनचयम्
घनान्ते किं चन्द्रोऽसमकर-निपातो भुवितले ।
कृपादृष्टेस्तेहं भयहरविमो किं विरहितो
जले वा हर्म्ये वा घनरसनिपातो न विषमः ॥ ६ ॥
त्रिमूर्तित्वं गीतो हरिहर-विधातात्मकगुणो १३
निराकारः शुद्धः परतरपरः सोऽप्यविषयः ।
दयारुपं शान्तं मुनिगणनुतं भक्तदयितं
कदा पश्यामि त्वां कुटिल-कचशोभि-त्रिनयनम् ॥ ७ ॥
तपोयोगं सांख्यं यम-नियम-चेतः प्रयजनं
न कौलार्च्चा-चक्रं हरिहरविधीनां प्रियतरम् ।
न जाने ते भक्तिं परममुनिमार्गं मधूविधिं १४
तथाप्येषा वाणी परिरटति नित्यं तव यशः ॥ ८ ॥
न मे कांक्षा धर्मे न वसुनिचये राज्यनिवहे
न मे स्त्रीणां भोगे सखि-सुत-कुटुम्बेषु न च मे ।
यदा यद्यद्-भाव्यं भवतु भगवन् पूर्वसुकृतान्
ममैतत्तु प्रार्थ्यं तव विमल-भक्तिः प्रभवतात् ॥ ९ ॥
कियांस्तेस्मद्-भारः पतितपतितांस्तारयसि भो !
मसन्यः कः पापी यजन-विमुखः पाठरहितः ।
दृढो मे विश्वासस्तव नियति१५ रुद्धार विषयः
सदा स्याद् विश्रम्भः क्वचिदपि मृषा मा च भवतात् ॥ १० ॥
भवद्-भावाद्-भिन्नो व्यसन-निरतः को मदपरो
मदान्धः पापात्मा वटुक ! शिव ! ते नामरहितः ।
उदारात्मन् बन्धो नहि तवकतुल्यः कलुषहा
पुनः सञ्चिन्त्यैवं कुरु हृदि यथेच्छसि तथा ॥ ११ ॥
जपान्ते स्नानान्ते ह्युषसि च निशीथे जपति यो
महासौख्यं देवो वितरति नु तस्मै प्रमुदितः ।
अहोरात्रं पार्श्वे परिवसति भक्तानुगमनो
वयोन्ते संहृष्टः परिनयति भक्तान् स्वभुवनम् ॥
इति श्रीबटुकभैरव अपराधक्षमापन स्तोत्र ॥
Courtesy http://vadicjagat.com/index.php?paged=88
% File name : shrIbaTukabhairavAparAdhakShamApana.itx
%--------------------------------------------
% Text title : shrIbaTukabhairava aparAdhakShamApana stotra
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : Courtesy http://vadicjagat.com/index.php?paged=88
%
% Transliterated by : http://vadicjagat.com/index.php?paged=88
% Proofread by :
% Translation by :
% Latest update : March 23, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .