॥ श्री लक्ष्मी स्तुति इन्द्रप्रोक्तं ॥
नमस्ये सर्वभूतानां जननीमब्जसम्भवाम् ।
श्रियमुनिन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् ।
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम् ॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्धया रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥
आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्येर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥
का त्वन्या त्वमृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥
त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥
दाराः पुत्रास्तथाऽऽगारं सुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् ।
देवि त्वदृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्वयाप्तं चराचरम् ॥
मनःकोशस्तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥
मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये ॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले ॥
त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥
सश्लाघ्यः सगुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः सचविक्रान्तो यस्त्वया देवि वीक्षितः ॥
सद्योवैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥
न ते वर्णयितुं शक्तागुणञ्जिह्वाऽपि वेधसः ।
प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥
श्रीपराशर उवाच
एवं श्रीः संस्तुता स्मयक् प्राह हृष्टा शतक्रतुम् ।
श्रृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥
श्रीरुवाच
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरेः ।
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता ॥
इन्द्र उवाच
वरदा यदिमेदेवि वरार्हो यदिवाऽप्यहम् ।
त्रैलोक्यं न त्वया त्याच्यमेष मेऽस्तु वरः परः ॥
स्तोत्रेण यस्तवैतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परित्याज्यो द्वितीयोऽस्तुवरो मम ॥
श्रीरुवाच
त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव ।
दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्टया ॥
यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः ।
स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्गमुखी ॥
इति श्री विष्णु पुराणे प्रथमांशः नवमोऽध्यायः ।
Differences in numbering 9.116-9.171
http://myupaasana.blogspot.com/2012/11/laxmi-stuti-by-indra.html
http://www.scribd.com/doc/105406639/Chandi-Shri-Kamala-Kalpa-Taru
% File name : shrIstutiindraraprokta.itx
%--------------------------------------------
% Text title : shrIstutiindraraprokta
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : shrI viShNu purANe prathamAMshaH navamo.adhyAyaH ।
% Differences in numbering 9.116-9.171
% http://myupaasana.blogspot.com/2012/11/laxmi-stuti-by-indra.html
% http://www.scribd.com/doc/105406639/Chandi-Shri-Kamala-Kalpa-Taru
% Transliterated by :
% Proofread by :
% Translation by :
% Latest update : March 23, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .