॥ शुक रम्भा संवादः सार्थ ॥
॥ श्री गणेशो विजयते ॥
॥ शुक रम्भा संवादः ॥
॥ हिन्दि संस्कृत भाषा टीकाद्वय संवलितम् ॥
Shuka Rambha Conversation
With commentaries in Hindi and Sanskrit.
रम्भोवाच: -
मार्गे मार्गे नूतनं चूतखण्डं
खण्डे खण्डे कोकिलानां विरावः ।
रावे रावे मानिनी-मानभंगो
भंगे भंगे मन्मथः पञ्च-बाणः ॥ १ ॥
हे मुनि! हर मार्ग में नयी मंजरी शोभायमान हैं हर मंजरी
पर कोयल सुमधुर टेहुक रही हैं । टेहका सुनकर मानिनी स्त्रीयों
का गर्व दूर होता है और गर्व नष्ट होते हि पाँच बाणों को धारण
करनेवाले कामदेव मन को बेचेन बनाते हैं ।
हे शुक! मार्गे मार्गे नूतनं नवीनं चूतानां आम्रवृक्षाणां खाम् ।
अस्ति इति शेषः । तस्मिन्खण्डे कोकिलानां परभृतां विरावः शब्दः
भवति । तस्मिन् विरावे जाते सति मानिन्याः मानवत्याः मनः गर्वः
तस्य भङ्गो नाशः भवति । मानिन्या अपि मानभङ्गः किं पुनः
साधारणस्त्रीणाम् । तस्मिन् भङ्गे पञ्चबाणाः यस्य सः मन्मथः
प्रभवति ॥ १ ॥
शुक उवाच-
मार्गे मार्गे जायते साधु-सङ्गः
सङ्गे सङ्गे श्रूयते कृष्ण-कीर्तिः ।
कीर्तौ कीर्तौ नस्तदाकारवृत्तिः
वृत्तौ वृत्तौ सच्चिदानन्द भासः ॥ २ ॥
हे रंभा! हर मार्ग में साधुजनों का संग होता है उन हर एक
सत्संग में भगवान कृष्णचंद्र के गुणगान सुनने मिलते हैं ।
हर गुणगाण सुनते वक्त हमारी चित्तवृत्ति भगवान के ध्यान में
लीन होती है और हर वक्त सच्चिदानंद का आभास होता है ।
रंभे! मार्गे मार्गे साधूनां सज्जनानां संगः परिचयः सङ्गतिश्च
जायते । तस्मिन् सङ्गे कृष्णस्य प्रभोः कीर्तिः यशः श्रूयते।
तस्यां कीर्तौ नः अस्माकं तस्याकारस्याकार इव वृत्तिः भवति । तस्यां
तदाकारवृत्तौ सच्चिदानन्दस्य ईश्वरस्य भासः प्रकाशः भवति
अनुभूयते इत्यर्थः ॥ २ ॥
तीर्थे तीर्थे निर्मलं ब्रह्मवृन्दं
वृन्दे वृन्दे तत्त्व चिन्तानुवादः ।
वादे वादे जायते तत्त्वबोधो
बोधे बोधे भासते चन्द्रचूडः ॥ ३ ॥
हर तीर्थ में पवित्र ब्राह्मणों का समुदाय विराजमान है । उस समुदाय
में तत्त्व का विचार हुआ करता है । उन विचारों में तत्त्व का ज्ञान
होता है और उस ज्ञान में भगवान चंद्रशेखर शिवजी का भास
होता है ।
तीर्थे पवित्रक्षेत्रे । निर्मलं पवित्रं ब्रह्मविदां ब्राह्मणानां
वृन्दं समूहः वर्तते । तस्मिन् वृन्दे तत्त्वस्य तत्त्वज्ञानस्य।
चिन्तायाः विचारस्यानुवादो विवादे जाते तस्मिन् तत्त्वस्य तत्त्वज्ञानस्य
बोधः ज्ञानं जायते भवति । जायमाने तस्मिन् बोधे चन्द्र इन्दुश्चूडे
शिरसि यस्य सः ईश्वरः शङ्करः दृश्यते इत्यर्थः ॥ ३ ॥
रम्भोवाच-
गेहे गेहे जङ्गमा हेम-वल्ली
वल्यां वल्यां पार्वणं चन्द्र-बिम्बम् ।
बिम्बे बिम्बे दृश्यते मीन-युग्मं
युग्मे युग्मे पञ्चबाण-प्रचारः ॥ ४ ॥
हे मुनिवर हर घर में घूमती फिरती सोने की लता जैसी ललनां
के मुख पूर्णिमा के चंद्र जैसे सुंदर हैं । उन मुखचंद्रो में
नयनरुप दो मछलीयाँ दिख रही है और उन मीनरुप नयनों में
कामदेव स्वतंत्र घूम रहा है ।
गेहे गेहे जङ्गमा गच्छन्ति, हेम्नः सुवर्णस्य वल्ली लता दृश्यते ।
तस्यां लतायां शरच्चन्द्रस्य बिंबं दृश्यते । तस्मिन् मीनयोर्युग्मं
द्वंद्वमालोक्यते । तस्मिन् युग्मे द्वंद्वे पञ्चबाणः यस्य तस्य महतस्य
प्रचारः भवति ॥ ४ ॥
शुक उवच-
स्थाने स्थाने दृश्यते रत्न-वेदी
वेद्यां वेद्यां सिद्ध-गन्धर्व-गोष्ठी ।
गोष्ठयां गोष्ठयां किन्नर-द्वन्द्व-गीतं
गीते गीते गीयते रामचन्द्रः ॥ ५ ॥
हे रंभा! हर स्थान में रत्न की वेदी दिख रही है हर वेदी
पर सिद्ध और गंधर्वों की सभा होती है । उन सभां में किन्नर
गण किन्नरीयों के साथ गाना गा रहे हैं । हर गाने में भगवान
रामचंद्र की कीर्ति गायी जा रही है ।
स्थाने स्थाने रत्ननां खचित रत्नानां वेदी दृश्यते आलोक्यते ।
वेद्यां वेद्यां सिद्धानां गन्धर्वाणां च गोष्ठी वार्तालापः श्रूयते ।
गीते रामचन्द्र ईश्वरः गीयते । किन्नराः रामसंबन्धिगानं कुर्वन्ति।
अत एव ईश्वरः स्मर्तव्यः ॥ ५ ॥
रम्भोवाच-
पीन-स्तनी चन्दन-चर्चिताङ्गी
विलोल-नेत्रा तरुणी सुशीला ।
नाऽऽलिङ्गिता प्रेम-भरेण येन
वृथागतं तस्य नरस्य जीवितम् ॥ ६ ॥
हे मुनिवर सुंदर स्तनवाली शरीर पर चंदन का लेप की हु
चंचल आँखोंवाली सुंदर युवती का प्रेम से जिस पुरुष ने आलिंगन
किया नहीं उसका जन्म व्यर्थ गया ।
पीनौ पुष्टौ स्तनौ यस्याः चन्दनेन गन्धेन चर्चितं व्याप्तमङ्गं
शरीरं यस्याः । विलोल नेत्रे यस्याः सुशीला सुस्वभावा तरुणी युवती
येन पुंसा पुरुषेण प्रेमस्य भरः तेन न आलिङ्गिता न मर्दिता चेत्
तस्य पुंसः जीवितं वृथा निरर्थकं गतम् ॥ ६ ॥
शुक उवाच-
अचिन्त्य रूपो भगवान्निरञ्जनो
विश्वम्भरो ज्ञानमय-श्चिदात्मा ।
विशोधितो येन ह्रदि क्षणं नो
वृथा गतं तस्य नरस्य जीवितम् ॥ ७ ॥
जिसके रुप का चिंतन नहीं हो सकता जो निरंजन विश्व का पालक
है जो ज्ञान से परिपूर्ण है ऐसे चित्स्वरुप परब्रह्म का ध्यान
जिसने स्वयं के हृदय में किया नहीं है उसका जन्म व्यर्थ गया ।
अचिन्त्यं अविचार्यं रूपं स्वरूपं यस्य । निरञ्जनः। विश्वं भरतीति
तथाभूतः । ज्ञानप्रचुरः ज्ञानमयः चिदात्मा भगवान् ईश्वरः।
येन पुंसा हृदि स्वहृदये क्षणं न विशोधितो-ऽन्वेषितः तस्य
नरस्य पुंसः जीवितं जीवनं वृथा निरर्थकं गतम् ॥ ७ ॥
रम्भोवाच-
कामातुरा पूर्ण-शशांक वक्त्रा
बिम्बाधरा कोमल-नाल गौरा ।
नाऽऽलिङ्गिता स्वे हृदये भुजाभ्यां
वृथा गतं तस्य नरस्य जीवितम् ॥ ८ ॥
हे मुनि भोग की ईच्छा से व्याकुल परिपूर्ण चंद्र जैसे मुखवाली
बिंबाधरा कोमल कमल के नाल जैसी गौर वर्णी कामिनी जिसने छाती
से नहीं लगायी उसका जीवन व्यर्थ गया ।
कामेन मदनेन आतुरा पीडिता । पूर्णश्चासौ शशाङ्कश्चन्द्रः
इव वक्त्रं मुखं यस्याः । बिंब इव अधरः अधरोष्ठः यस्याः सा
तथाभूता । कोमलं मृदुनालं बिसतंतु तद्वत् गौरी गौरवर्णा युवती
स्त्री येन पुंसा स्वभुजाभ्यां आत्महस्ताभ्यां नान्दोलिता नालिङ्गिता तस्य
जीवितं वृथा गतम् ॥ ८ ॥
शुक उवाच-
चतुर्भुजः चक्रधरो गदायुधः
पीताम्बरः कौस्तुभमालया लसन् ।
ध्याने धृतो येन न बोधकाले
वृथा गतं तस्य नरस्य जीवितम् ॥ ९ ॥
हे रंभा! चक्र और गदा जिसने हाथ में लिये हैं ऐसे चार
हाथवाले पीतांबर पहेने हु कौस्तुभमणि की माला से विभूषित
भगवान का ध्यान जिसने जाग्रत अवस्था में किया नहीं उसका जन्म
व्यर्थ गया ।
चत्वारः भुजाः हस्ताः यस्य तथाभूतः चक्रधरश्चक्रधारकः ।
गदा कौमोदकी आयुधं यस्य । पीतं पीतवर्णं अंबरं वस्त्रं यस्य।
कौस्तुभ-मालया लसन् शोभायुक्तः यः हरिः येन पुंसा ध्याने
ध्यान-मार्गे बोध-समये न धृतः तस्य पुंसः जीवितं वृथा
गतम् ॥ ९ ॥
रम्भोवाच-
विचित्र-वेषा नवयौवनाढ्या
लवङ्ग-कर्पूर सुवासि-देहा ।
नाऽऽलिङ्गिता येन दृढं भुजाभ्यां
वृथा गतं तस्य नरस्य जीवितम् ॥ १० ॥
हे मुनिराज! अनेक प्रकार के वस्त्र और आभूषणों से सज्ज लवंग
कर्पूर इत्यादि सुगंध से सुवासित शरीरवाली नवयुवती को जिसने
अपने दो हाथों से आलिंगन दिया नहीं उसका जन्म व्यर्थ गया ।
विचित्रो चित्रविचित्रो वेषो नेपथ्यो यस्याः । नवेन नूतनेन यौवनेन
युवत्याः भावस्तेन आढ्या संपूर्णा । लवंगैश्च कर्पूरैश्च सुवासी
देहश्शरीरं यस्याः एतादृशी पूर्वोक्ता स्त्री येन पुरुषेण न आलिङ्गिता
मर्दिता तस्य नरस्य जीवितं जीवनं वृथा निरर्थकं गतम् ॥ १० ॥
शुक उवाच-
नारायणः पङ्कज-लोचनः प्रभुः
केयूरवान् कुण्डल-मण्डिताननः ।
भक्त्या स्तुतो येन न शुद्ध-चेतसा
वृथा गतं तस्य नरस्य जीवितम् ॥ ११ ॥
कमल जैसे नेत्रवाले केयूर पर सवार कुअल से सुशोभित मुखवाले
संसार के स्वामी भगवान नारायण की स्तुति जिसने एकाग्रचित्त होकर
भक्तिपूर्वक की नहीं उसका जीवन व्यर्थ गया ।
नारा अयनं यस्य जल-शयनः । पङ्कात् कर्दमात् जातं कमलमिव
लोचनं यस्य कमलनेत्रः । केयूरवान् कुण्डलेन मण्डितं शोभितं
आननं यस्य सः प्रभुः ईश्वरः येन पुरुषेण समाधिना भक्त्या न
स्तुतः न प्रार्थितः तस्य जीवनं वृथा गतम् ॥ ११ ॥
रम्भोवाच-
प्रियंवदा चम्पक-हेमवर्णा
हारावली-मण्डित-नाभिदेशा ।
सम्भोग-शीला रमिता न येन
वृथा गतं तस्य नरस्य जीवितम् ॥ १२ ॥
हे मुनिवर! प्रिय बोलनेवाली चंपक और सुवर्ण के रंगवाली हार
का झुमका नाभि पर लटक रहा हो ऐसी स्वभाव से रमणशील ऐसी
स्त्री से जिसने भोग विलास नहीं किया उसका जीवन व्यर्थ गया ।
प्रियं मनोहरं वदति इति प्रियंवदा । चंपकश्च हेमश्च तयोः
वर्ण इव वर्णो यस्याः चंपक हेम सदृशेत्यर्थः, हारस्यावलिः
पंक्तिः तया मैतश्शोभितः\ नाभेः देशः प्रस्थानं यस्याः ।
संभोगः एव शीलं स्वभावः यस्याः । सुरतस्वभावेत्यर्थः। एतादृशी
स्त्री येन पुरुषेण न रमिता नालिङ्गिता तस्य पुरुषस्य यौवनं
वृथा गतम् ॥ १२ ॥
शुक उवाच-
श्रीवत्स-लक्ष्म्याङ्कित-हृत्प्रदेशः
तार्क्ष्य-ध्वजः शार्ङ्ग-धरः परात्मा ।
न सेवितो येन नृजन्मनाऽपि
वृथा गतं तस्य नरस्य जीवितम् ॥ १३ ॥
जिस प्राणी ने मनुष्य शरीर पाकर भी भृगुलता से विभूषित
ह्रदयवाले धजा में गरुड वाले और शाङ्ग नामके धनुष्य को
धारण करनेवाले परमात्मा की सेवा न की उसका जन्म व्यर्थ गया ।
श्रीवत्सलक्ष्म्या अङ्कितश्चिन्हितः हृदयस्य प्रदेशो यस्य ।
तार्क्ष्यः गरुडो ध्वजे यस्य । शार्ङ्ग नाम धनुस्तद्धरतीति
तथाभूतः । परमात्मा ईश्वरः। येन नृजन्म यस्य नृजन्मा तेन
पुंसा न सेवितस्तस्य पुरुषस्य जीवितं वृथा गतम् ॥ १३ ॥
रम्भोवाच-
चलत्कटी नूपुर-मञ्जुघोषा
नासाग्र-मुक्ता नयनाभिरामा ।
न सेविता येन भुजङ्ग-वेणी
वृथा गतं तस्य नरस्य जीवितम् ॥ १४ ॥
हे मुनिश्रेष्ठ! चंचल कमरवाली नूपुर से मधुर शब्द
करनेवाली नाक में मोती पहनी हु सुंदर नयनों से सुशोभित सर्प
के जैसा अंबोडा जिसने धारण किया है ऐसी सुंदरी का जिसने सेवन
नहीं किया उसका जन्म व्यर्थ गया ।
चलन्ती कटी यस्याः । नूपुरेण मञ्जु मनोहरो घोषो यस्याः। नासाग्रे
मुक्तानि यस्याः । नयनेन कमल-नयनेन अभिरामा। भुजङ्ग इव वेणी
यस्याः । एतादृशी स्त्री येन पुंसा न सेविता नालिङ्गिता तस्य नरस्य
जीवितं वृथा गतम् ॥ १४ ॥
शुक उवाच-
विश्वम्भरो ज्ञान-मयः परेशः
जगन्मयोऽनन्तगुण प्रकाशी ।
आराधितो नापि वृतो न योगे
वृथा गतं तस्य नरस्य जीवितम् ॥ १५ ॥
हे रंभा! संसार का पालन करनेवाले ज्ञान से परिपूर्ण संसार
स्वरुप अनंत गुणों को प्रकट करनेवाले भगवान की आराधना जिसने
नहीं की और योग में उनका ध्यान जिसने नहीं किया उसका जन्म
व्यर्थ गया ।
विश्वं बिभर्ति इति । ज्ञान-प्रचुरो ज्ञान-मयः। परेशः। जगन्मयः
अनन्तान् गुणान् प्रकाशयति इति तथोक्तः ईश्वरः । येन नाराधितः अपि
न योगे धृतः तस्य जीवितं जीवनं वृथा गतम् ॥ १५ ॥
रम्भोवाच-
ताम्बूल-रागैः कुसुम-प्रकर्षैः
सुगन्धि-तैलेन च वासितायाः ।
न मर्दितौ येन कुचौ निशायां
वृथा गतं तस्य नरस्य जीवितम् ॥ १६ ॥
हे मुनि! सुगंधी पान उत्तम फूल सुगंधी तेल और अन्य पदार्थों
से सुवासित कायावाली कामिनी के कुच का मर्दन रात को जिसने नहीं
किया उसका जीवन व्यर्थ गया ।
तांबूलस्य ये रागास्तैः । कुसुमानां प्रसूनानां प्रकर्षा-स्तैश्च
सुगन्धि तैलं तेन वासितायाः स्त्रियाः कुचौ स्तनौ निशायां
मध्य-रात्रौ येन पुंसा पुरुषेणा न मर्दितौ तस्य नरस्य जीवितं
वृथा गतम् ॥ १६ ॥
शुक उवाच-
ब्रह्मादि देवोऽखिल विश्व-देवो
मोक्ष-प्रदोऽतीतगुणः प्रशान्तः ।
धृतो न योगेन हृदि स्वकीये
वृथा गतं तस्य नरस्य जीवितम् ॥ १७ ॥
ब्रह्मादि देवों के भी देव संपूर्ण संसार के स्वामी मोक्षदाता निर्गुण
अत्यंत शांत ऐसे भगबान का ध्यान जिसने योग द्वारा हृदय में
नहीं किया उसका जीवन व्यर्थ गया ।
ब्रह्मणः आदिदेवः । अखिलस्य समग्रस्य विश्वस्य जगतः देवः मोक्षं
प्रददाति इति । अतीताः गुणाः यस्य अनन्तगुण इत्यर्थः प्रशान्तः ईश्वरः
येन पुरुषेणा स्वकीये हृदि हृदये योगेन योग-मार्गेण न धृतो
न धारितः तस्य जीवितं वृथा जतम् ॥ १७ ॥
रम्भोवाच-
कस्तूरिका-कुंकुम चन्दनैश्च
सु-चर्चिता याऽगरु-धूपिताम्बरा ।
उरः स्थले नो लुठिता निशायां
वृथा गतं तस्य नरस्य जीवितम् ॥ १८ ॥
कस्तूरी और केसर से युक्त चंदन का लेप जिसने किया है अगरु के
गंध से सुवासित वस्त्र धारण की हु तरुणी रात को जिस पुरुष की
छाती पर लेटी नहीं उसका जन्म व्यर्थ गया ।
कस्तूरिका च, कुंकुमस्य केसरस्य, चन्दनानि, तैस्सुचर्चिता
सुलेपिता । अगरु द्रव्यविशेषः तेन धूपितं वासितमम्बरं यस्याः।
एतादृशी । या स्त्री येन पुरुषेण निशायां मध्यरात्रौ उरःस्थले न
लुठिता नालिङ्गिता तस्य जीवितं वृथा गतम् ॥ १८ ॥
शुक उवाच-
आनन्द-रुपो निजबोध-रूपः
दिव्य-स्वरूपो बहुनाम-रूपः ।
तपः समाधौ मिलितो न येन
वृथा गतं तस्य नरस्य जीवितम् ॥ १९ ॥
हे रंभा! आनंद से परिपूर्ण रुपवाले दिव्य शरीर को धारण
करनेवाले जिनके अनेक नाम और रुप हैं ऐसे भगवान के दर्शन
जिसने समाधि में नहीं किये उसका जीवन व्यर्थ गया ।
आनन्दरूपः । ज्ञानस्वरूपः। दिव्यं शोभायुक्तं स्वरूपं यस्य।
बहुनामरूपः ईश्वरः । येन पुंसा तपस्समाधिः तस्मिन् न धृतस्तस्य
नरस्य जीवितं वृथा गतम् ॥ १९ ॥
रम्भोवाच-
कठोर पीनस्तन भार-नम्रा
सु-मध्यमा चञ्जल-खञ्जनाक्षी ।
हेमन्त-काले रमिता न येन
वृथा गतं तस्य नरस्य जीवितम् ॥ २० ॥
जिस पुरुष ने हेमंत ऋतु में कठोर और भरे हु स्तन के भार
से झुकी हु पतली कमरवाली चंचल और खंजर से नैनोंवाली स्त्री
का संभोग नहीं किया उसका जीवन व्यर्थ गया ।
कठोरयोः पूर्णयोः पीनयोः पुष्टयोः कुचयोः भारेण नम्रा नमिता ।
सुष्ठु-मध्यमो मध्य-भाग यस्याः । चञ्चलयोः खञ्जनयोः इव
अक्षिणी यस्याः । एतादृशी पूर्वोक्ता युवती स्त्री येन पुंसा हेमन्तकाले
न रमिता नान्दोलिता तस्य नरस्य जीवितं वृथा गतम् ॥ २० ॥
शुक उवाच-
तपो-मयो ज्ञान-मयो वि-जन्मा
विद्या-मयो योग-मयः परात्मा ।
चित्ते धृतो नो तपसि स्थितेन
वृथा गतं तस्य नरस्य जीवितम् ॥ २१ ॥
हे रंभा! तपोमय ज्ञानमय जन्मरहित विद्यामय योगमय परमात्मा
को तपस्या में लीन होकर जिसने चित्त में धारण नहीं किया उसका
जीवन व्यर्थ गया ।
तपः प्रचुरस्तपोमयः । ज्ञान-मयः। विगतं जन्म अवतारः यस्य
जन्म-रहितः इत्यर्थः । विद्यावान् योग-प्रचुरः। परश्चासौ आत्मा
चेति एतादृशः । ईश्वरः तपसि स्थितेन स्थितिं कुर्वता जनेन चित्ते
न धृतस्तस्य जन्म वृथा गतम् ॥ २१ ॥
रम्भोवाच-
सु-लक्षणा मान-वती गुणाढ्या
प्रसन्न-वक्त्रा मृदु-भाषिणी या ।
नो चुम्बिता येन सु-नाभि-देशे
वृथा गतं तस्य नरस्य जीवितम् ॥ २२ ॥
हे मुनिवर! सद्लक्षण और गुणों से युक्त प्रसन्न मुखवाली मधुर
बोलनेवाली मानिनी सुंदरी के नाभि का जिसने चुंबन नहीं किया उसका
जीवन व्यर्थ गया ।
सुष्टु लक्षणानि यस्याः सुलक्षणा लक्षणवतीत्यर्थः । मानः
अस्यास्तीति तथा भूता, प्रस्न्नं सानन्दं वक्त्रं मुखं यस्याः
स्मित-मुखीत्यर्थः । मृदु कोमलं भाषते ब्रूते इति मृदु-भाषिणी।
सुष्टु शोभनः नाभि-देशः नाभि-प्रदेशः यस्याः, एतादृशी येन
पुंसा न चुंबिता तस्य नरस्य जन्म वृथा गतम् ॥ २२ ॥
शुक उवाच-
पत्न्यार्जितं सर्व-सुखं विनश्वरं
दुःख-प्रदं कामिनि-भोग सेवितम् ।
एवं विदित्वा न धृतो हि योगो
वृथा गतं तस्य नरस्य जीवितम् ॥ २३ ॥
हे रंभा! जिस इन्सान ने नारी के सेवन से उत्पन्न सब सुख नाशवंत
और दुःखदायक है ऐसा जानने के बावजुद जिसने योगाभ्यास नहीं
किया उसका जीवन व्यर्थ गया ।
पत्न्या स्त्रिया आर्जितं प्रापितं सर्वं च तत् सुखं विनश्वरं नश्वरं
शीलं । कामिन्याः भोगोपभोगः तेन सेवितं तदपि दुःखप्रदम्। एवं
विदित्वा ज्ञात्वा योगो न धृतस्तस्य जीवितं वृथा गतम् ॥ २३ ॥
रम्भोवाच-
विशाल-वेणी नयनाभिरामा
कन्दर्प सम्पूर्ण निधानरूपा ।
भुक्ता न येनैव वसन्तकाले
वृथा गतं तस्य नरस्य जीवितम् ॥ २४ ॥
जिस पुरुष ने वसंत ऋतु में लंबे बालवाली सुंदर नेत्रों से
सुशोभित कामदेव के समस्त भआररुप ऐसी कामिनी के साथ विहार
न किया हो उसका जीवन व्यर्थ गया ।
विशाला महती वेणी केशकलापो यस्याः । नयनैः प्रशस्तनयनैः
नेत्रैरभिरामा मनोज्ञा । कंदर्पः कामस्तस्य संपूर्णं निधानरूपं
यस्याः । एतादृशी स्त्री येन पुंसा वसंतस्य काममित्रस्य काले समये
न भुङ्क्ता न सेविता तस्य नरस्य पुंसो जीवितं वृथा गतम् ॥ २४ ॥
शुक उवाच-
माया-करण्डी नरकस्य हण्डी
तपो-विखण्डी सुकृतस्य भण्डी ।
नृणां विखण्डी चिर-सेविता चेत्
वृथा गतं तस्य नरस्य जीवितम् ॥ २५ ॥
हे रंभा! नारी माया की पटारी नर्क की हई तपस्या का विनाश
करनेवाली पुण्य का नाश करनेवाली पुरुष की घातक है इस लि
जिस पुरुष ने अधिक समय तक उसका सेवन किया है उसका जीवन
व्यर्थ गया ।
मायायाः करण्डी । नरकस्य रौरवादिकस्य हण्डी, तपसो नियमस्य
विखण्डी नाशं कुर्वाणा । सुकृतस्य पुण्यस्य भण्डी नाशं कुर्वाणा,
नृणां विखण्डी, यएतादृशी स्त्रीफ चिरं चिरकालं सेविता चेत्
तस्स्य पुंसः जीवितं वृथा गतम् ॥ २५ ॥
रम्भोवाच-
समस्त-शृङ्गार विनोद-शीला
लीलावती कोकिल कण्ठ-नादा ।
विलासिता नो नव-यौवनेन
वृथा गतं तस्य नरस्य जीवितम् ॥ २६ ॥
हे मुनि! जिस पुरुष ने अपनी युवानी में समस्त शृंगार और
मनोविवाद करने में चतुर और अनेक लीलां में कुशल और
कोकिलकंठी कामिनी के साथ विलास नहीं किया उसका जीवन व्यर्थ है ।
समस्ताः समग्राः ये शृङ्गारास्तेषु विनोद आनन्द एव शीलं यस्याः ।
लीलास्संति अस्याः सा । कोकिलायाः कंठस्तस्य नाद इव नादः शब्दो यस्याः
सा एतादृशी । नवं च तत् यौवनं तेन आढ्या संपूर्णा यौवनवती
युवतीत्यर्थः, स्त्री येन पुंसा न विलासिता तस्य जीवितं वृथा गतम्
॥ २६ ॥
शुक उवाच-
समाधि ह्रंत्री जन-मोहयित्री
धर्मे कुमन्त्री कपटस्य तन्त्री ।
सत्कर्म हन्त्री कलिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥ २७ ॥
समाधि का नाश करनेवाली लोगों को मोहित करनेवाली धर्म विनाशिनी
कपट की वीणा सत्कर्मो का नाश करनेवाली नारी का जिसने सेवन किया
उसका जीवन व्यर्थ गया ।
समाधेर्नियमस्य हन्त्री नाशं कुर्वाणा । जनान्मोहयतीति
जन-संमोह-कारिणी । धर्मे कुमन्त्री कुत्सितोपदेशकारिणी। कपटस्य
प्रपञ्चस्य तन्त्री सत्कर्मणि घ्नन्ति इति तथा भूता, येन कलिता
सेविता तस्य जन्म वृथा गतम् ॥ २७ ॥
रम्भोवाच-
बिल्वस्तनी कोमलिता सुशीला
सुगन्ध-युक्ता ललिता च गौरी ।
नाऽऽश्लेषिता येन च कण्ठ-देशे
वृथा गतं तस्य नरस्य जीवितम् ॥ २८ ॥
हे मुनिराज बिल्वफल जैसे कठिन स्तन है, अत्यंत कोमल जिसका
शरीर है, जिसका स्वभाव प्रिय है, ऐसी सुवासित केशवाली
ललचानेवाली गौर युवती को जिसने आलिंगन नहीं दिया उसका जीवन
व्यर्थ गया ।
बिल्वे इव बिल्वफले इव स्तनौ कुचौ यस्याः सा पुष्टस्तनीत्यर्थः ।
कोमलिता सुकोमला । सुष्टु शीलं स्वभावो यस्याः सुस्वभावेत्यर्थः।
सुगन्ध-कुन्ता सुष्टु शोभनाः गंधाः सुगंधाः कुन्ताः केशा यस्याः
सुगन्ध-केशवतीत्यर्थः, ललिता सुन्दरी गौरी गौरवर्णा स्त्री
कण्ठादेशे येन पुंसा नाश्लेषिता तस्य नरस्य जीवितं वृथा गतम्
॥ २८ ॥
शुक उवाच-
चिन्ताव्यथा दुःखमया सदोषा
संसार-पाशा जन-मोहकर्त्री ।
सन्ताप-कोशा भजिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥ २९ ॥
चिंता पीडा और अनेक प्रकार के दुःख से परिपूर्ण दोष से भरी
हु संसार में बंधनरुप और संताप का खजाना ऐसी नारी का जिसने
सेवन किया उसका जन्म व्यर्थ गया ।
चिंता व्यथा दुःखप्रचुरा तन्मयीत्यर्थः । दोषैः सह वर्तते इति
सदोषा । संसारे पाशा-रूपा। जन-मोहकर्त्री मोहं करोतीति मोहकर्त्री।
जनानं मोहकर्त्री तथाभूता । संतापे कोशरूपा संतापभूयिष्टेत्यर्थः।
एतादृशी येन पुंसा भजिता सेविता तस्य जीवितं वृथा गतम् ॥ २९ ॥
रम्भोवाच-
आनन्द कन्दर्प-निधान रूपा
झणत्क्वणत्कंकण नूपुराढ्या ।
नाऽस्वादिता येन सुधाधरस्था
वृथा गतं तस्य नरस्य जीवितम् ॥ ३० ॥
हे मुनिवर आनंद और कामदेव के खजाने समान खनकते कंगन
और नूपुर पहेनी हु कामिनी के होठ पर जिसने चुंबन किया नहीं
उस पुरुष का जीवन व्यर्थ है ।
आनन्द-युक्तः कन्दर्पः आनन्द-कंदर्पः तस्य निधानरूपा ॥ रणंति
क्वणन्ति श्ब्दापमानानि कंकणानि च नूपुराणी च तैराढ्या शोभिता ।
अधरे तिष्टति इति अधरस्था सुधा अधरस्था यस्याः तथाभूता स्त्री
येन पुंसा न आस्वादिता तस्य जीवितं वृथा निरर्थकं गतम् ॥ ३० ॥
शुक उवाच-
कापट्य-वेषा जन-वञ्चिका सा
विण्मूत्र दुर्गन्ध-दरी दुराशा ।
संसेविता येन सदा मलाढ्या
वृथा गतं तस्य नरस्य जीवितम् ॥ ३१ ॥
छल-कपट करनेवाली लोगों को बनानेवाली विष्टा-मूत्र और दुर्गंध
की गुफारूप दुराशां से परिपूर्ण अनेक प्रकार से मल से भरी हु
ऐसी स्त्री का सेवन जिसने किया उसका जीवन व्यर्थ है ।
कपटस्यायं कापट्यः वेषो यस्याः कपटयुक्तवेषोयमर्थः, जनान्
वञ्चयति तथाभूता । सा विण्मूत्र-दुर्गन्धानांदरीव, दुष्टा आशा
यस्याः । मलेन आढ्या संपूर्णा एतादृशी स्त्री येन पुंसा सदा संसेविता
तस्य जीवितं वृथा गतम् ॥ ३१ ॥
रम्भोवाच-
चन्द्रानना सुन्दर-गौरवर्णा
व्यक्त-स्तनी भोग्-अविलास दक्षा ।
नाऽऽन्दोलिता वै शयनेषु येन
वृथा गतं तस्य नरस्य जीवितम् ॥ ३२ ॥
हे मुनिवर! चंद्र जैसे मुखवाली सुंदर और गौर वर्णवाली जिसकी
छाती पर स्तन व्यक्त हु हैं ऐसी संभोग और विलास में चतुर ऐसी
स्त्री को बिस्तर में जिसने आलिंगन नहीं दिया उसका जीवन व्यर्थ है ।
चन्द्र इव । इन्दुरिवाननं मुखं यस्याः चन्द्रमुखीत्यर्थः। सुन्दरः।
गौरः वर्णो यस्याः । व्यक्तौ स्पष्टं दृश्यमानौ स्तनौ कुचौ यस्याः।
भोगस्य विलासे दक्षा निपुणा । एतादृशी स्त्री येन पुंसा शयनेषु न
आन्दोलिता न आलिङ्गिता तस्य पुंसः जीवितं वृथा गतम् ॥ ३२ ॥
शुक उवाच-
उन्मत्त-वेषा मदिरासु मत्ता
पाप-प्रदा लोक-विडम्बनीया ।
योग-च्छला येन विभाजिता च
वृथा गतं तस्य नरस्य जीवितम् ॥ ३३ ॥
हे रंभा पागल जैसा विचित्र वेष धारण की हु मदिरा पीकर मस्त
बनी हु पाप देनेवाली लोगों को बनानेवाली और योगीयों के साथ कपट
करनेवाली स्त्री का सेवन जिसने किया है उसका जीवन व्यर्थ है ।
उन्मत्तो वेषो यस्याः । मदिरासु मद्येषु मत्ता मदोन्मत्ता। पापं प्रददाति
इति पापप्रदा । लोकान् विडंबयति इति तथा भूता। योगच्चला योगमार्गे
कपटरूपा । या स्त्री येन पुंसा विभाजिता सेविता तस्य जीवितं वृथा
गतम् ॥ ३३ ॥
रम्भोवाच-
आनन्द-रुपा तरुणी नताङ्गी
सद्धर्म-संसाधन सृष्टि-रुपा ।
कामार्थदा यस्य गृहे न नारी
वृथा गतं तस्य नरस्य जीवितम् ॥ ३४ ॥
हे मुनि आनंदरुप नतांगी युवती उत्तम धर्म के पालन में और
पुत्रादि पैदा करने में सहायक इंद्रियों को संतोष देनेवाली नारी
जिस पुरुष के घर में न हो उसका जीवन व्यर्थ है ।
आनन्देन युक्ता रूपं यस्याः । तरुणी युवती। नतं अङ्गं यस्याः। सन्
चासौ धर्मश्च तस्य सम्यक् साधनं तस्य सृष्टि रूपा । कामं
अर्थं च ददाति इति तथाभूता । नारी स्त्री। यस्य गृहे नास्ति तस्य
नरस्य जीवितं वृथा गतम् ॥ ३४ ॥
शुक उवाच-
अशौच-देहा पतित-स्वभावा
वपुःप्रगल्भा बल-लोभशीला ।
मृषा वदन्ती कलिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥ ३५ ॥
अशुद्ध शरीरवाली पतित स्वभाववाली प्रगल्भ देहवाली साहस और
लोभ करानेवाली झूठ बोलनेवाली ऐसी नारी का विश्वास जिसने किया
उसका जीवन व्यर्थ है ।
अशौचः अपवित्रः देहः शरीरं यस्याः अपवित्र-शरीरेत्यर्थः ।
पतितः नीचः स्वभावो यस्याः । वपुषा प्रगल्भा निर्भीका । बलस्य
परबलस्य लोभः एव शीलं यस्याः । परबल-हरण-शीलेत्यर्थः।
मृषा अनृतं वदतीति वदन्ती मिथ्या-भाषिणीत्यर्थः । एतादृशी
स्त्री येन पुंसा सेविता व्याक्षा तस्य पुंसः जीवितं व्यर्थं गतम् ॥ ३५ ॥
रम्भोवाच-
क्षामोदरी हंसगतिः प्रमत्ता
सौंदर्यसौभाग्यवती प्रलोला ।
न पीडिता येन रतौ यथेच्छं
वृथा गतं तस्य नरस्य जीवितम् ॥ ३६ ॥
हे मुनिवर पतली कमरवाली हंस की तरह चलनेवाली प्रमत्त
सुंदर सौभाग्यवती चंचल स्वभाववाली स्त्री को रतिक्रीडा के वक्त
अनुकुलतया पीडित की नहीं है उसका जीवन व्यर्थ है ।
क्षामं कृशं उदरं यस्याः. कृशोदरीत्यर्थः. हंस इव मराल
इव गतिः गमनं यस्याः. प्रमत्ता उन्मत्ता. सुन्दरस्य भावं सुभगायाः
भावः सौभाग्यं च तद्वती. प्रलोला चंचला येन पुंसा रतां
क्रीडायां यथेच्छं संपूर्णतया न निपीडिता चेन्न मर्दिता चेत्तस्य
जीवितं वृथा गतम् ॥ ३६ ॥
शुक उवाच-
संसार-सद्भावन भक्ति-हीना
चित्तस्य चौरा हृदि निर्दया च ।
विहाय योगं कलिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥ ३७ ॥
हे रंभा संसार की उत्तम भावनां को प्रकट करनेवाले प्रेम से रहित
पुरुषों के चित्त को चोरनेवाली ह्रदय में दया न रखनेवाली ऐसी
स्त्री का आलिंगन योगाभ्यास छोडकर जिस पुरुष ने किया उसका जीवन
व्यर्थ है ।
संसारे सद्भावना यस्य तया भक्त्या हीना रहिता. चित्तस्य
अन्तःकरणस्य चोरा हरणशीला. हृदि हृदये निर्दया
दयारहिता. एतादृशी स्त्री येन पुंसा योगं विहाय योगमार्गं त्यक्त्वा
कलिता आलिङ्गिता तस्य जीवितं वृथा गतम् ॥ ३७ ॥
रम्भोवाच-
सुगन्धैः सुपुष्पैः सुशय्या सुकान्ता
वसन्तो ऋतुः पूर्णिमा पूर्णचन्द्रः ।
यदा नास्ति पुंस्त्वं नरस्य प्रभूतं
ततः किं ततः किं ततः किं ततः किम् ॥ ३८ ॥
हे मुनिवर! सुंदर सुगंधित पुष्पों से सुशोभित शय्या हो, मनोनुकूल
सुंदर स्त्री हो, वसंत ऋतु हो, पूर्णिमा के चंद्र की चांदनी खीली हो,
पर यदि पुरुष में परिपूर्ण पुरुषत्त्व न हो तो उसका जीवन व्यर्थ है ।
सुष्टु गन्धः येषां तानि सुगन्धति
तैः. सुपुष्पैस्सुकुसुमै-रलंकृता सुशैया पर्यंकः च सुकान्ता
युवती. वसन्तः मधु ऋतुः. पूर्णीमायाः पूर्ण्श्चासौ चन्द्रः. सर्वाणि
वस्तूनि सन्ति किं तु यदा नरस्य पुंसः भावः पुंस्त्वं पुरुषत्वं
प्रभूतं अत्यन्तं नास्ति चेत्तदा ततः शय्यायाः किं प्रयोजनं,
सुकान्तायाः किं, वसन्तेन किं, पूर्णिमापूर्णचन्द्रेन किम्? ॥ ३८ ॥
शुक उवाच-
सुरूपं शरीरं नवीनं कलत्रं
धनं मेरुतुल्यं वचश्चारुचित्रम् ।
हरस्याङ्घि युग्मे मनश्चेदलग्नं
ततः किं ततः किं ततः किं ततः किम् ॥ ३९ ॥
हे रंभा सुंदर शरीर हो युवा पत्नी हो मेरु पर्वत समान धन हो मन
को लुभानेवाली मधुर वाणी हो पर यदि भगवान शिवजी के चरणकमल
में मन न लगे तो जीवन व्यर्थ है ।
सुष्टु रूपं यस्य तत्सुरूपं शरीरम्. नवीनं नूतनं कलत्रं
युवती स्त्री, मेरुणा तुल्यं धनं द्रव्यं, चारु सुन्दरं प्रियं
चित्रमलङ्कारयुक्तं वचः वाक्यं, उपरि सर्ववर्णितमस्ति; किन्तु,
हरेः ईश्वरस्य अंघ्रियुग्मे चरणकमलयुग्मे मनः अन्तःकरणं न
लग्नं चेत्तेन सुरूपशरीरादिना किं? न किमपीत्यर्थः; अतो मोहं
विहाय सच्चिदानन्दा ध्येतव्य इत्यर्थः ॥ ३९ ॥
Digital Library of India book has Gujarati as well as Sanskrit translation
Shukarmbha Samvad (Mulak Anuvad) ॥ , 99999990810699. । 0. gujarati. । 34 pgs.
Hindi http://rajnibhatt.blogspot.in/2013/01/rambha-shuk-samvad.html
Marathi, Hindi meanings available on wikisource.org
Sanskrit translation from Gujarati book entered and proofread by
N balasubramanian bbalu at sify.com
% File name : shukarambhAsamvAda.itx
%--------------------------------------------
% Text title : shukarambhAsamvAda hindI evaM saMskR^ita arthasahita
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Digital Library of India The book has Gujarati as well as Sanskrit translation
% Shukarmbha Samvad (Mulak Anuvad).., 99999990810699. . 0. gujarati. . 34 pgs.
% http://rajnibhatt.blogspot.in/2013/01/rambha-shuk-samvad.html
% Marathi, Hindi available on wikipedia.
% Transliterated by : Sanskrit translation from Gujarati book entered by
% N balasubramanian bbalu at sify.com
% Proofread by : N balasubramanian bbalu at sify.com
% Latest update : August 17, 2014
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study and
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
% research. The file is not to be copied or reposted for promotion of any
% website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit
%
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .