॥ श्री सिद्धान्त शिखामणि ॥
श्री जगद्गुरु पञ्चाचार्याः प्रसीदन्तु प्रस्तावन
श्री जगद्गुरु पञ्चाचार्याः प्रसीदन्तु
जीयात् श्री रेणुकाचार्यो शिवाचार्य शिखामणिः ।
योमाहेश्वर सिद्धान्तं स्थापयामास भूतले ॥
यस्यस्मरण मात्रेन नृणां मुक्तिकरेस्थिता ।
तम्वन्देजगदाधारं रेणुकार्यं जगद्गुरुं ॥
मुनियाचनया शिवाज्ञया शिवभक्त्युद्धरणार्थमागतं ।
वृषराज परावतारता महितं श्री बसवेश्वरं भजे ॥
नमो उग्रस्वरूपाय नमो जिष्ण्वादि शात्रवे ।
दक्षयज्ञविनाशाय वीरभद्रायतेनमः ॥
अथ श्री शिवयोगि शिवाचार्य विरचित श्री सिद्धान्त शिखामणिः ।
प्रथम परिच्छेदः
त्रैलोक्यसम्पदालेख्य समुल्लेखनभित्तये ।
सच्चिदानन्द रूपाय शिवायब्रह्मणे नमः ॥ १. १ ॥
ब्रह्मेतिव्यपदेशस्य विषयं यम्प्रचक्षते ।
वेदान्तिनो जगन्मूलं तं नमामि परमशिवं ॥ १. २ ॥
यस्योर्मिबुद्बुदाभासः षट्त्रिंशत्तत्त्वसञ्चयः ।
निर्मलं शिवनामानं तं वन्दे चिन्महोदधिं ॥ १. ३ ॥
शिवस्तुतिः
यद्भासा भासते विश्वं यत्सुखेनानुमोदते ।
नमस्तस्मै गुणातीत विभवाय परात्मने ॥ १. ४ ॥
सदाशिव मुखाशेष तत्त्वोन्मेषविधायिने ।
निष्कलङ्कस्वभावाय नमः शान्ताय शम्भवे ॥ १. ५ ॥
स्वेच्छाविग्रहयुक्ताय स्वेच्छावर्तनवर्तिने ।
स्वेच्छाकृतत्रिलोकाय नमः शान्ताय शम्भवे ॥ १. ६ ॥
यत्र विश्राम्यतीशत्वं स्वाभाविक मनुत्तमं ।
नमस्तस्मै महेशाय महादेवायशूलिने ॥ १. ७ ॥
यामहुः सर्वलोकानां प्रकृतिं शास्त्रपारगाः ।
तां धर्म चारिणीं शम्भोः प्रणमामि परां शिवां ॥ १. ८ ॥
शक्तिस्तुतिः
यया महेश्वरः शम्भुर्नामरूपादिसण्युतः ।
तस्यै मायास्वरूपायै नमः परमशक्तये ॥ १. ९ ॥
शिवाद्यादिनमुत्पन्ना शान्त्यतीतपदोत्तरा ।
मातरं तां समस्तानां वन्दे शिवकरीं शिवां ॥ १. १० ॥
इच्छाज्ञानादिरूपेण या शम्भोर्विश्वभाविनी ।
वन्दे तां परमानन्दप्रबोधलहरीं शिवां ॥ १. ११ ॥
अमृतार्थं प्रपन्नानां या सुविद्या प्रदायनी ।
अहर्निशमहं वन्दे ता मीशानमनोरमां ॥ १. १२ ॥
ग्रन्थकर्तृ वंशवर्णनं
असीदा चारसिद्धानामग्रणीः शिवयोगीनां ।
शिवयोगीति विख्यातः शिवज्ञान महोदधिः ॥ १. १३ ॥
शिवभक्ति सुधासिन्धुजृम्भणामल चन्द्रिका ।
भारती यस्य विदधे प्रायः कुवलयोत्सवं ॥ १. १४ ॥
तस्य वंशे समुत्पन्नो मुक्तामणिरिवामलः ।
मुद्ददेवाभिधाचार्यो मूर्धन्यः शिवयोगीनां ॥ १. १५ ॥
मुद्दनात् सर्वजन्तूनां प्रणतानां प्रबोधतः ।
मुद्ददेव इति ख्याता समाख्या यस्य विश्रुता ॥ १. १६ ॥
तस्यासीन्नन्दनः शान्तः सिद्ध नाथाबिधः शुचिः ।
शिव सिद्धान्त निर्णेता शिवाचार्यः शिवात्मिकः ॥ १. १७ ॥
श्री शिवयोगि शिवाचार्य वर्णनं
वीरशैव शिखारत्नं विशिष्टाचारसम्पदं ।
शिवज्ञान महासिन्धुं यं प्रशंसन्ति देशिकाः ॥ १. १८ ॥
यदाचार्यकुले जाता सतामाचारमातृका ।
शिवभक्तिः स्थिरा यस्मि जज्ञे विगत विप्लवा ॥ १. १९ ॥
तस्य वीरशिवाचार्य शिखारत्नस्य नन्दनः ।
अभवच्छिवयोगीति सिन्धोरिव सुधाकरः ॥ १. २० ॥
चिदानन्द पराकाश शिवानुभवयोग्यतः ।
शिवयोगीति ना मोक्ति र्यस्य याथार्थ्ययोगिनी ॥ १. २१ ॥
शिवागम परिज्ञान परिपाक सुगन्धिना ।
यदीयकीर्ति पुष्पेण वासितं हरितां मुखं ॥ १. २२ ॥
येन रक्षावती जाता शिवभक्तिः सनातनी ।
बौद्धादिप्रतिसिद्धान्त महाध्वान्तांशुमालिना ॥ १. २३ ॥
स महावीर शैवानां धर्ममार्ग प्रवर्तकः ।
शिवतत्त्व परिज्ञान चन्द्रिका वृत चन्द्रमाः ॥ १. २४ ॥
आलोक्य शैवतन्त्राणि कामिकाद्यानि सादरं ।
वातुलान्तानि शैवानि पुराणा न्यखिलानि तु ॥ १. २५ ॥
वेदमार्गा विरोधेन विशिष्टाचार सिद्धये ।
असन्मार्ग निरासाय प्रमोदाय विवेकिनां ॥ १. २६ ॥
सर्वस्वं वीरशैवानां सकलार्थ प्रकाशकं ।
असृष्टमखिलैर्दोषैरादृतं शुद्धमानसैः ॥ १. २७ ॥
शैवागमेषु सर्वेषु पुराणे ष्वखिलेषु च ।
पुरा देवेन कथितं देव्यै तन्नन्दनाय च ॥ १. २८ ॥
तत्सम्प्रदायसिद्धेन रेणुकेन महात्मना ।
गणेश्वरेण कथितमगस्त्याय पुनः क्षितौ ॥ १. २८ ॥
वीरशैव महातन्त्र मेकोत्तरशतस्थलं ।
अनुग्रहाय लोकानामभ्यधात् सुधियां वरः ॥ १. २९ ॥
सर्वेषां शैवतन्त्राणा मुत्त रत्वान्निरुत्तरं ।
नाम्ना प्रतीयते लोके मत्सिद्धान्तशिखामणिः ॥ १. ३० ॥
अनुगत सकलार्थे शैवतन्त्रैः नमस्तेः ।
प्रकटितशिवबोधाद्तैत भाव प्रसादे ॥ १. ३१ ॥
विदधतु मतिमस्मिन् वीरशैवा विशिष्टाः ।
पशुपतिमत सारे पण्डितश्लाघनीये ॥ १. ३२ ॥
इति श्री सिद्धान्त शिखामणौ शिवयोगि शिवाचार्य
वंशवर्णनं नाम प्रथम परिच्छेदः परिसमाप्तः ॥ १ ॥
द्वितिय परिच्छेदः
जगत्सृष्टि विचारः
सच्चिदानन्दरूपाय सदसद्व्यक्ति हेतवे ।
नमः शिवाय साम्बाय सगणाय स्वयम्भुवे ॥ २. १ ॥
सदाशिव मुखा शेष तत्त्व मौक्तिकशुक्तिकां ।
वन्देमाहेश्वरीं शक्तिं महामायादिरूपिणीं ॥ २. २ ॥
अस्ति सच्चित्सुखाकारमलक्षण पदास्पदं ।
निर्विकल्पं निराकारं निरस्ता शेष विप्लवं ॥ २. ३ ॥
परिच्छेदकथाशून्यं प्रपञ्चातीतवैभवं ।
प्रत्यक्षादि प्रमाणा नामगोचरपदे स्थितं ॥ २. ४ ॥
स्वप्रकाशं पराकाशमनौपम्यमनामयं ।
सर्वज्ञं सर्वगं शान्तं सर्वशक्ति निरङ्कुशं ॥ २. ५ ॥
शिवरुद्र महादेवभवादि पदसंज्ञिकं ।
अद्वितीयमनिर्देश्यं परं ब्रह्म सनातनं ॥ २. ६ ॥
तत्र लीनमभूत् पूर्वं चेतनाचेतनं जगत् ।
स्वात्मालीनं जगत्कार्यं स्वप्रकाश्यं तदद्भुतं ॥ २. ७ ॥
शिवाभिदं परम्ब्रह्म जगन्निर्मातुमिच्छया ।
स्वरूपमादधे किञ्चित् सुखस्फूर्ति विजृभितं ॥ २. ८ ॥
निरस्तदोष सम्बन्धं निरुपाधिक मव्ययं ।
दिव्यमप्राकृतं नित्यं नीलकण्ठं त्रिलोचनं ॥ २. ९ ॥
चन्द्रार्थशेखरं शुद्धं शुद्धस्फटक सन्निभं ।
शुद्धमुक्ता फलाभासमुपास्यं गुणमूर्तिभिः ॥ २. १० ॥
विशुद्धज्ञानकरणं विषयं सर्व योगीनां ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटि समप्रभं ।
अप्राकृत गुणाधारमनन्तमहिमास्पदं ॥ २. ११ ॥
तदीय परमाशक्तिः सच्चिदानन्दलक्षणा ।
समस्त लोकनिर्माण समवायस्वरूपिणी ।
तदिच्छयाभवत् साक्षात् तत्स्वरूपानुकारिणी ॥ २. १२ ॥
सशम्भुर्भगवान् देवः सर्वज्ञः सर्वशक्तिकः ।
जगत्सिसृक्षुः प्रथमं ब्रह्माणं सर्वदेहिनां ।
कर्तारं सर्वलोकानं विदधे विश्वनायकः ॥ २. १३ ॥
तस्मै प्रथमपुत्राय शङ्करः शक्तिमान् विभुः ।
सर्वज्ञः सकला विद्याः सानुग्रहमु पादिशत् ॥ २. १४ ॥
प्राप्तविद्यो महादेवाद्भ्रह्म विश्वनियामकात् ।
समस्तलोक निर्माण समुद्योग परोभवत् ॥ २. १५ ॥
कृतो द्योगोन पि निर्माणे जगतां शङ्कराज्ञया ।
अज्ञातो पायसम्पत्ति रभवन्मा ययावृतः ॥ २. १६ ॥
विधातुमखिलान् लोकानुपायं प्राप्तुमिच्छया ।
पुनस्तं प्रार्थयामास देवदेवं त्रिलोचनं ॥ २. १७ ॥
नमस्ते देवदेवेश नमस्ते करुणाकर ।
अस्मदादिजगज्जालनिर्माण विधिषु क्षमः ॥ २. १८ ॥
उपायं वद मे शम्भो जगत्सृष्टौ जगत्पते ।
सर्वज्ञः सर्वशक्तिस्त्वं सर्वकर्तासनातनः ॥ २. १९ ॥
इति सम्प्रार्थितः शम्भुर्ब्रह्मणा विश्वनायकः ।
उपायमीरद त्तस्मैलोकसृष्टि प्रवर्तकं ॥ २. २० ॥
उपायमीश्वरेणोक्तं लब्ध्वापि चतुराननः ।
न समर्थो भवत्कर्तुं नानारूपमिदं जगत् ॥ २. २१ ॥
पुनस्तं प्रार्थयामस ब्रह्मा विह्वलमानसः ।
देवदेव महादेव जगत्प्रथमकारण ॥ २. २२ ॥
नमस्ते सच्चिदानन्द स्वेच्छा विग्रहराजित ।
भव शर्व महेशान सर्वकारण कारण ॥ २. २३ ॥
भवदुक्तोव्युपायो मेन किञ्चिद् ज्ञायते धुना
सृष्टिं विधेहि भगवन् प्रथमं परमेश्वर
ज्ञातो पायस्ततः कुर्यां जगसृष्टि मुमापते ॥ २. २४ ॥
इत्येवं प्रार्थितः शम्भुर्ब्रह्मणा विश्वयोनिना ।
ससर्जात्म समप्रख्यान् सर्वज्ञान् सर्वशक्तिकान् ॥ २. २५ ॥
प्रबोध परमानन्द परिवाहित मानसान् ।
प्रमथान् विश्वनिर्माण प्रलयादि विधिक्षमान् ॥ २. २६ ॥
सृष्ट प्रमथवर्गेषु वर्णाश्रम परिक्रमान् ।
अप्राकृत सदाचारा नुपादिश दथ प्रभुः ॥ २. २७ ॥
इति श्री सिद्धान्त शिखामणौ जगत्सृष्टि विचारो नाम
द्वितीय परिच्छेदः परिसमाप्तः ॥ २ ॥
तृतिय परिच्छेदः
कदाचिदथ कैलासे कलधौत शिलामये ।
गन्धर्व वामनयना क्रीडामौक्तिदर्पणे ॥ ३. १ ॥
मन्दारबकुलाशोक माकन्दप्राय भूरुहे ।
मल्ली मरन्दनिष्यन्दपान पीनमधुप्रते ॥ ३. २ ॥
कुङ्कुमस्तबकामोदकूलङ्कष हरिन्मुखे ।
कलकण्ठकुलालापकन्दल द्रागबन्धुरे ॥ ३. ३ ॥
किन्नरीगीत माधुर्य परिवाहित गह्वरे ।
सानन्द वरयोगीन्द्र बृन्दालङ्कृतकन्धरे ॥ ३. ४ ॥
हेमारविन्दकलिकासुगन्धिरसमानसे ।
शातकुम्भमयोत्तुङ्ग शतस्तम्भ विराजिते ॥ ३. ५ ॥
माणिक्य दीपकलिकामरीचिद्योति तान्तरे ।
द्वारतोरण सम्रूढशङ्खपद्म निधिद्वये ॥ ३. ६ ॥
मुक्ता तारकितो दार वितानाम्बरमण्डिते ।
स्पर्शलक्षितवैडूर्यमयभित्ति परम्परे ॥ ३. ७ ॥
सञ्चरत्प्रमथश्रेणी पदवाबालनूपुरे ।
प्रवाल वलभीशृङ्ग शृङ्गारमणि मण्टपे ॥ ३. ८ ॥
शिववर्णनं
वन्दारुदेवमकुट मन्दार रसवासितं ।
रत्न सिम्हासनं दिव्यमध्यस्तं परमेश्वरं ॥ ३. ९ ॥
तमास्थानगतं देवं सर्वलोकमहेश्वरं ।
त्रय्यन्तकमलारण्य विहारकलहंसकं ॥ ३. १० ॥
उदारगुण मोङ्कारशुक्तिकापुटमौक्तिकं ।
सर्वमङ्गल सौभाग्यसमुदाय निकेतनं ॥ ३. ११ ॥
संसार विषमूर्छाल जीवनं जीवनौषधं ।
नित्यप्रकाश नैर्मल्यं कैवल्य सुरपादपं ॥ ३. १२ ॥
अनन्तपरमानन्दमकरन्दमधुव्रतं ।
आत्मशक्तिलता पुष्यत्त्रिलोकीपुष्पकोरकं ॥ ३. १३ ॥
ब्रह्माण्डकुण्डिकाषण्डपिण्डीकरण पण्डितं ।
समस्तदेवता चक्रचक्रवर्ति पदे स्थितं ॥ ३. १४ ॥
चन्द्रबिम्बायुत च्छायादायादद्युतिविग्रहं ।
माणिक्य मुकुट ज्योतिर्मञ्जरीपिञ्जराम्बरं ॥ ३. १५ ॥
चूडालं सोमकलया सुकुमारबिसाभया ।
कल्याण पुष्पकलिकाकर्ण पूरमनोहरं ॥ ३. १६ ॥
मुक्तावलयसम्बद्धरुण्डमाला विराजितं ।
पर्याप्त चन्द्रसौन्दर्य परिपन्थिमुखश्रियं ॥ ३. १७ ॥
प्रातः सम्पुल्ल कमल प्रतीकाशत्रिलोचनं ।
मन्दस्मितमिताला पमधुराधरपल्लवं ॥ ३. १८ ॥
गण्डमण्डल पर्यन्तक्रीडन्म कर कुण्डलं ।
कालिम्ना कालकूटस्य कण्ठनाले कलङ्कितं ॥ ३. १९ ॥
मणिकङ्कण केयूर मरीचिकर पल्लवैः ।
चतुर्भिः सम्विराजन्तं बाहु मन्दार शाखिभिः ॥ ३. २० ॥
गौरीपयोधराश्लेषकृतार्थभुजमध्यमं ।
सुवर्ण ब्रह्म सूत्राङ्कं सूक्ष्मकौशेयवासनं ॥ ३. २१ ॥
नाभिस्थानावलम्बिन्या नवमौक्ति कमालया ।
गङ्गयेव कृताश्लेषं मौलिभागवतीर्णया ॥ ३. २२ ॥
पदेन मणि मञ्जीर प्रभापल्लवितश्रिया ।
चन्द्रवत् स्फाटिकं पीठं समावृत्य स्थितं पुरः ॥ ३. २३ ॥
शक्तिवर्णनं
वामपार्श्व निवासिन्या मङ्गल प्रिय वेषया ।
समस्तलोक निर्माण समवायस्वरूपया ॥ ३. २४ ॥
इच्छाज्ञानक्रिया रूपबहुशक्ति विलासया ।
विद्यातत्त्वप्रकाशिन्या विनाभाव विहीनया ॥ ३. २५ ॥
संसार विषकान्तार दाहवादग्नि लेखया ।
धम्मिल्ल मल्लिकामोदझुङ्कुर्वद्भृङ्ग मलया ॥ ३. २६ ॥
सम्पूर्ण चन्द्र सौभाग्य सम्वादि मुख पद्मया ।
नानामौक्तिकलावण्य नासीरस्मित शोभया ॥ ३. २७ ॥
मणिताटङ्क रङ्गातर्वलिता पाङ्गलीलया ।
नेत्रद्वितयसौन्दर्य निन्दितेन्दीवरत्विषा ॥ ३. २८ ॥
कुसुमायुधकोदण्ड कुटिल भ्रूविलासया ।
बन्धूककुसुमच्छाया बन्धुभूताधरश्रिया ॥ ३. २९ ॥
कण्ठनालजितानङ्गकम्बुबिब्बोक सम्पदा ।
बाहुद्वितय सौभाग्यवञ्चितोत्पलमालया ॥ ३. ३० ॥
स्थिरयौवनलावण्य शृङ्गारितशरीरया ।
अत्यन्तकठिनोत्तुङ्ग पीवरस्तनभारया ॥ ३. ३१ ॥
मृणालवल्लरीतन्तु बन्धु भूतवलग्नया ।
शृङ्गारतटीनीतुङ्ग पुलिन श्रोणि भारया ॥ ३. ३२ ॥
कुसुम्भ कुसुमच्छाया कोमलाम्बर शोभया ।
शृङ्गारोद्यानसम्रम्भान्तम्भोरुकाण्डया ॥ ३. ३३ ॥
चूतप्रवालसुषमासुकुमार पदाब्जया ।
स्थिर मङ्गलशृङ्गार भूषणालङ्कृताङ्गया ॥ ३. ३४ ॥
हारनूपुर केयूर चमत्कृतशरीरया ।
चक्षुरानन्दलतया सौभाग्य कुलविद्यया ॥ ३. ३५ ॥
उमया सममासीनं लोकजालकुटुम्बया ।
अपूर्व रूप मभवजन् परिवाराः समन्ततः ॥ ३. ३६ ॥
देवतासमूहकृत शिवसेवा वर्णनं
पुण्डरीकाकृति स्वच्छं पूर्ण चन्द्रसहोदरं ।
दधौ तन्य महालक्ष्मीः सिति मातपवारणं ॥ ३. ३७ ॥
तन्त्रीझङ्कारशालिन्या सङ्गीतामृत विद्यया ।
उपतस्थे महादेवमुपान्तेच सरस्वती ॥ ३. ३८ ॥
झणत्कङ्कणजातेन हस्तेनोपनिषद्वधूः ।
ओङ्कारतालवृन्तेन वीजयामास शङ्करं ॥ ३. ३९ ॥
चलच्चामरिकाहस्ता झङ्कुर्वन्मणिकङ्कणाः ।
असेवन्त तमीशानमभितो दिव्यकन्यकाः ॥ ३. ४० ॥
चामराणां विलोलानां मध्ये तन्मुखमण्डलं ।
रराज राजहंसानां भ्रमतामिव पङ्कजं ॥ ३. ४१ ॥
मन्त्रेण तमसेवन्त वेदाः साङ्गविभूतयः ।
भक्त्या चूडामणिं कान्तं वहन्त इव मौलिभिः ॥ ३. ४२ ॥
तदीय युध धारिण्यतत्समानविभूषणाः ।
अङ्गभूताः स्त्रियः काश्चिदासेवन्त तमीश्वरं ॥ ३. ४३ ॥
आप्ताधिकारिणः केचिदनन्त प्रमुखा आपि ।
अष्टौ विद्येश्वरा देवमभजन्त समन्ततः ॥ ३. ४४ ॥
ततो नन्दी महाकाश्चण्डो भृङ्गिरिटिस्ततः ।
घण्टाकर्णः पुष्पदन्तः कपाली वीरभद्रकः ॥ ३. ४५ ॥
एवमद्या महाभागा महाबलपराक्रमाः ।
निरङ्कुश महस्तत्वा भेजिरे तं महेश्वरं ॥ ३. ४६ ॥
अणिमादिकमैश्वर्यं येषां सिद्धेरपोहनं ।
ब्रह्मादयः सुरा येषा माज्ञालङ्घनबीरवः ॥ ३. ४७ ॥
मोक्षलक्ष्मी परिष्वङ्ग मुदिता येतरात्मना ।
येषामिषत्करं विश्ववर्गसम्हार कल्पनं ॥ ३. ४८ ॥
ज्ञानशक्ति परा येषां पर्व वस्तु प्रकाशिनी ।
आनन्दकणिका येषां हरिब्रह्मादि सम्पदः ॥ ३. ४९ ॥
आकाङ्क्षन्ते पदं येषां योगिनो योगतत्पराः ।
काङ्क्षणीयफलो येषां सङ्कल्पः कल्प पादपः ॥ ३. ५० ॥
कर्मकालादि कार्पण्यचिन्ता येषान्न विद्यते ।
येषां विक्रमसन्नाहोमृत्योरपि च मृत्यवः ।
ते सारूप्य पदं प्राप्ताः प्रमथा भेजिरे शिवं ॥ ३. ५१ ॥
ब्रह्मोपेन्द्रमहेन्द्राद्या विश्वतन्त्राधिकारिणं ।
आयुधालङ्कृतप्रान्ताः परितस्तं सिषेविरे ॥ ३. ५२ ॥
आदित्या वसवो रुद्रा यक्ष गन्धर्व किन्नराः ।
दानवा राक्षसा दैत्याः सिद्धा विद्याधरोरगाः ।
अभजन्त महादेवमपरिच्छिन्नसैनिकाः ॥ ३. ५३ ॥
वसिष्ठो वामदेवश्च विश्वामित्रा त्रिशौनकाः ।
दधीचिर्गौतमश्चैव सानन्दशुक नारदाः ॥ ३. ५४ ॥
उपमन्युभृगुव्यासपराशरमरीचयः ।
इत्याद्या मुनयः सर्वे नीलकण्ठं निषेविरे ॥ ३. ५५ ॥
पार्श्वस्थपरिवाराणां विमलाङ्गेषु बिम्बितः ।
सर्वान्तर्गतमात्मानं स रेजे दर्शयन्निव ॥ ३. ५६ ॥
श्री परमेश्वर राजव्यवहार वर्णनं
क्षणं स शम्भुर्देवानां कार्यभागं निरूपयन् ।
क्षणं गन्धर्व राजानां गानविद्या विभावयन् ॥ ३. ५७ ॥
ब्रह्मविष्ण्वादिभिर्देवैः क्षणमालपमाचरन् ।
क्षणं देवमृगाक्षीणां लालयन् नृत्य विभ्रमं ॥ ३. ५८ ॥
व्यासादीनं क्षणं कुर्वन् वेदोच्चारेषु गौरवं ।
निदधानः क्षणं देव्या मुखे बिम्बाधरे दृशः ।
हास्य नृत्यं क्षणं पश्यन् भृङ्गिणा परिकल्पितं ॥ ३. ५९ ॥
नन्दिना वेत्रहस्तेन सर्वतन्त्राधिकारिणा ।
अमुञ्चता सदा पार्श्वमात्माभिप्राय वेदिना ॥ ३. ६० ॥
चोदितानानयन् कांश्चिद्विसृजन् भ्रूविलानतः ।
सम्भावयंस्तथा चान्यानन्यानपि नियामयन् ॥ ३. ६१ ॥
समस्त भुवनाधीश मौलिलालितशासनः ।
अकुण्ठितशक्तिरव्याजलावण्य ललिता कृतिः ॥ ३. ६२ ॥
स्थिरयौवन सौरभ्यशृङ्गारितकलेवरः ।
आत्मशक्त्य मृतास्वादरसोल्लासित मानसः ॥ ३. ६३ ॥
स्वाभाविकमहैश्वर्य विश्रान्ति परमावधिः ।
निष्कलङ्क महासत्त्व निर्मितानेक विग्रहः ॥ ३. ६४ ॥
अखण्डारतिदोर्दण्डकण्डू खण्डन पण्डितः ।
चिन्तामणि प्रसन्नानां श्री कण्ठ परमेश्वरः ॥ ३. ६५ ॥
सभान्तरगतं तन्त्रं रेणुकं गणनायकं ।
प्रसादं सुलभं दातुमाहूयेत्थं समादिशत् ॥ ३. ६६ ॥
श्री रेणुक गणेश्वरं प्रति शिवादेश
श्रीशैलोस्योत्तरे भागे त्रिलिङ्गविषये शुभे ।
कुल्यपाकाभिदं पुण्यक्षेत्रमेकं विराजते ॥ ३. ६७ ॥
सोमेश्वराभिदानस्य तत्रवासवतो मम ।
अस्पृशन्मानुषं भावं लिङ्गात् प्रादुर्भविष्यसि ॥ ३. ६८ ॥
मदीयलिङ्ग सम्भूतं मद्भक्तपरिपालकं ।
विस्मिता मानुषाः सर्वेत्वां भजन्तु मदाज्ञया ॥ ३. ६९ ॥
मदद्वैत परं शास्त्रं वेदवेदान्त सम्मतं ।
स्थापयिष्यसि भूलोके सर्वेषां हितकारकं ॥ ३. ७० ॥
ममप्रतापमतुलं मद्भक्तानां विशेषतः ।
प्रकाशाय महीभागे वेदमार्गानुसारतः ॥ ३. ७१ ॥
इत्युक्त्वा परमेश्वरःस भगवा भद्रासनादुत्थितो ।
ब्रह्मोपेन्द्र मुखान्विसृज्य विबुधा भ्रूसंज्ञया केवलं ॥ ३. ७२ ॥
पार्वत्या सहित्योगणैरभिमतै! प्रापस्वमन्तःपुरं ।
क्षोणीभागमवातरत्पशुपते राज्ञावशा द्रेणुकः ॥ ३. ७३ ॥
इति श्री सिद्धान्त शिखामणौ शिव सभावर्णनं नाम
तृतिय परिच्छेदः परिसमाप्तः ॥ ३ ॥
चतुर्थ परिच्छेदः
श्री रेणुकागणाधीश्वर लिङ्गावतार वर्णनं
अथ त्रिलिङ्गविषये कुल्यपाकाभिदे स्थले ।
सोमेश्वर महालिङ्गात् प्रादुरासीत् स रेणुकः ॥ ४. १ ॥
प्रादुर्भूतं तमालोक्य शिवलिङ्गात्त्रि लिङ्गजाः ।
विस्मिताः प्राणिनः सर्वे बभूवुरतितेजसं ॥ ४. २ ॥
भस्मोद्धूलितसर्वाङ्गं साररुद्राक्ष भूषणं ।
जटामकुटसण्युक्तं त्रिपुण्ड्राङ्कितमस्तकं ॥ ४. ३ ॥
कटीतटपटी भूतकन्थापटल बन्धुरं ।
दधान योगदण्डं च भस्माधारं कमण्डलं ॥ ४. ४ ॥
शिवाद्वैत परिज्ञान परमानन्दमोदितं ।
निर्धूतसर्व संसार वासनादोष पञ्जरं ॥ ४. ५ ॥
शिवागम सुधासिन्धु समुन्मेषसुधाकरं ।
चित्तरविन्दनं गूढ शिवपादाम्बुजद्वयं ॥ ४. ६ ॥
यमादि योग तन्त्रज्ञं स्वतन्त्रं सर्व कर्मसु ।
समस्त सिद्ध सन्तान समुदाय शिखामणिं ॥ ४. ७ ॥
वीरसिद्धान्त निर्वहकृत पट्टनिबन्धनं ।
आलोकमात्र निर्भिन्न समस्त प्राणिपातकं ॥ ४. ८ ॥
तम पृच्छस् जनाः सर्वे समन्तः को भवानिति ।
इति पृष्टो महायोगि जनैर्विस्मितमानसैः ॥ ४. ९ ॥
प्रत्युवाच शिवाद्वैत महानन्द परायणः ।
पिनाकिनः पार्श्ववर्ती रेणुकाख्यो गणेश्वरः ॥ ४. १० ॥
शिवादेशानुसारेण शिवलिङ्गादिहभवं ।
नाम्ना रेणुकसिद्धो हं सिद्ध सन्तान नायकः ।
स्वच्छन्दचारी लोकेस्मि शिव सिद्धान्त पालकः ॥ ४. ११ ॥
इत्युक्त्वापश्यतां तेषां विषयस्थिर चक्षुषां ।
उत्थाय व्योममार्गेण मलयाद्रिमुपागमत् ॥ ४. १२ ॥
मलयाद्रिवर्णनं
नव चन्दन कान्तारकं दलन्मन्दमारुतं ।
अभङ्गुरभुजङ्ग स्त्री सङ्गीतरस सकुलं ॥ ४. १३ ॥
करिपोतकराकृष्टस्फुरदेला तिवासितं ।
वराहदम्ष्ट्रिकाध्वन्तमुस्तासुरभिकन्दरं ॥ ४. १४ ॥
पटीरदलपर्यङ्कप्रसुप्तव्याददम्पतिं ।
माधवी मल्लिका जातीमञ्जरी वेणु रञ्जितं ॥ ४. १५ ॥
तत्र कुत्रचिदाभोगे सर्वर्तुकुसुमद्रुमे ।
अपश्यादश्रमं दिव्यमगस्तस्य महामुनेः ॥ ४. १६ ॥
अगस्त्यमहर्षि आश्रम वर्णनं
मन्दारचन्दन प्रायैर्मण्डितं तरुमण्डलैः ।
शाख शिखरसन्लीन तारकागण कोरकैः ॥ ४. १७ ॥
मुनिकन्यकरानीतकल शाम्बु विवर्थितैः ।
अलवालजलास्वादमोदमानमृगीगणैः ॥ ४. १८ ॥
हेमारविन्द निष्यन्दमकरन्दसुगन्धिभिः ।
मरालालापवाचालवीचिमालामनोहरैः ॥ ४. १९ ॥
इन्दीवरवर ज्योतिरन्धीकृतहरिन्मुखैः ।
लोपामुद्रापद न्यासचरितार्थ तटाङ्कितैः ॥ ४. २० ॥
हारनिहारकर्पूरहारहासामलोदकैः ।
नित्य नैमित्ति कस्नाननियमार्थैस्त पस्विनां ॥ ४. २१ ॥
प्रकृष्टमणिसोपानैः परिवीतं सरोवरैः ।
विमुक्त सत्त्व वैरस्यं ब्रह्मलोकमिवापरं ॥ ४. २२ ॥
हु यमानाज्य सन्तानधूमगन्धिमहास्थलं ।
शुकसम्वत्समारब्धश्रुतिशास्त्रोबृम्हणं ॥ ४. २३ ॥
अगस्त्यमहर्षि वर्णनं
तस्यमध्ये समासीनं मूले चन्दन भूरुहः ।
सुकुमारदल च्छाया वारितादित्यतेजसः ॥ ४. २४ ॥
तडित्पिङ्गजटाभारै स्त्रिपुण्ड्राङ्कितमस्तकैः ।
भस्मोद्धूलित सर्वाङ्गैः स्फुरद्रुद्राक्ष भूषणैः ॥ ४. २५ ॥
नववल्कलवासोभिर्नानानियमधारिभिः ।
परिवीतं मुनिगणैः प्रमथैरिव शङ्करं ॥ ४. २६ ॥
समुज्ज्वलज्जटाजालैस्तपः पादप पल्लवैः ।
स्फुरत्सौदामिनीकल्पैर्ज्वाला जालैरिवानलं ॥ ४. २७ ॥
विशुद्धभस्मकृतया त्रिपुण्ड्राङ्कितरेखया ।
तिस्रोतसेव सम्बद्धशिला भागं हिमाचलं ॥ ४. २८ ॥
भस्मालङ्कृत सर्वाङ्गं शशाङ्कमिव भूगतं ।
वसानं वल्कलं सव्यं बालातपसमप्रभं ॥ ४. २९ ॥
वडवाग्नि शिखाजालसमालीढमिवार्णवं ।
सर्वासामपि विद्यानां समुदायनिकेतनं ॥ ४. ३० ॥
न्यक्कृतप्राकृताहन्तं निरूढ शिवभावनं ।
तृणीकृत जगज्जालं सिद्दीनामुदयस्थलं ॥ ४. ३१ ॥
मोहान्धकारतपनं मूलबोधमहीरुहं ।
ददर्शन महायोगिमुनिं कलश सम्भवं ॥ ४. ३२ ॥
अगस्त्याश्रमागतस्य श्रीरेणुकगणेश्वरस्य पादपूजातथा
अगस्त्यं प्रतिकुशलप्रश्नः
तमागतं महासिद्धं समीक्ष्य कलशोद्भवः ।
गणेन्द्रं रेणुकाभिख्यं विवेद ज्ञानचक्षुषा ।
तस्यानुभावं विज्ञाय सहसैव समुत्थितः ॥ ४. ३३ ॥
लोपामुद्राकरानी तैरुदकैरतिपावनैः ।
पादौ प्रक्षालयामान स तस्य शिव योगिनः ॥ ४. ३४ ॥
सम्पूज्यं तं यथाशास्त्रं तन्नियोगपुरस्सरं ।
मुनिर्विनयनं पन्नो निषसादासनान्तरे ॥ ४. ३५ ॥
समासीनं मुनिवरं सर्वतेजस्विनां विभुः ।
उवाच शान्ताया वाचा रेवणः सिद्ध शेखरः ॥ ४. ३६ ॥
निर्विघ्नं वर्तसे किन्नु नित्या ते नियमक्रिया ।
अथवागस्त्य तेजस्विन् कुतः सुस्तेन्तरायकाः ॥ ४. ३७ ॥
विन्द्यो निरुद्धो भवता विश्वोल्लङ्घन विभ्रमः ।
नहुषो रोषलेशात्ते सद्यः सर्पत्वमागतः ॥ ४. ३८ ॥
आचान्ता भवता पूर्वं पङ्कशेषाः वमोधयः ।
जीर्णस्ते जाठरे वह्नो दृप्तो वातापिदानवः ॥ ४. ३९ ॥
एवम्विधानां चित्राणारि सर्वलोकातिशयिनां ।
कृत्यानान्तु भवान् कर्ताकस्तेगस्त्य समप्रभः ॥ ४. ४० ॥
शिवाद्वैत परानन्दप्रकाशान परायणं ।
भवन्तमेकं शंसन्ति प्रकृत्या सङ्गवर्जितं ॥ ४. ४१ ॥
पुरा हैमावती सूनुवदत्ते षडावनः ।
शिवधर्मोत्तरं नामशास्त्रमीश्वरभाषितं ॥ ४. ४२ ॥
भक्तिः शैवी महाघोरसंसार भयहारिणी ।
त्वयाराजस्वती लोके जातागस्त्य महामुने ॥ ४. ४३ ॥
इति तस्यवचः श्रुत्वा सिद्धप्य मुनि पुङ्गवः ।
गम्भीरगुणया वाचा बभाषे भक्ति पूर्तकं ॥ ४. ४४ ॥
अगस्त्य महर्षि प्रार्थना
अहमेव मुनीन्द्राणां लालनीयोनस्मि सर्वदा ।
भवदागमसं पत्तिर्मां विना कस्य सम्भवेत् ॥ ४. ४५ ॥
स्थिर मद्य शिवज्ञानं सिद्धामे तापनक्रिया ।
भवद्दर्शन पुण्येन स्थिरा मे मुनिराजता ॥ ४. ४६ ॥
संसारसर्प दष्टानां मूर्छितानां शरीरिणां ।
कटाक्षस्तव कल्याणं समुज्जीव भेषजं ॥ ४. ४७ ॥
समस्त लोक सन्दाहता पत्रयमहानलः ।
त्वत्पदाम्बुकणा स्वादादुपशाम्यति देहिनां ॥ ४. ४८ ॥
रेणुकं त्वां विजानामि गणनाथं शिवप्रियं ।
अवतीर्णमिमां भूमिं मदनुग्रह काङ्क्षया ॥ ४. ४९ ॥
भवादृशानां सिद्धानां प्रभोधध्वस्त जन्मनां ।
प्रवृत्तिरीदृशी लोके परानुग्रहकारिणी ॥ ४. ५० ॥
त्वन्मुखाच्छ्रोतुमिच्छामि सिद्धान्तं श्रुतिसम्मतं ।
सर्वज्ञ वद मे साक्षाच्छैवं सर्वार्थ साधकं ॥ ४. ५१ ॥
सद्यः सिद्धिकरं पुंसां सर्वयोगीन्द्र सेवितं ।
दुराचारैर ना घ्रातं स्वीकृतं वेद वेदिभिः ।
शिवात्मैक्य महाबोधनसम्प्रदायप्रवर्तकं ॥ ४. ५२ ॥
उक्त्वा भवान् सकललो कमहोपकारं ।
सिद्धान्त सङ्ग्रहमनादृत बाह्य तन्त्रं ।
सद्यः कृतार्थयितुमर्हति दिव्य योगिन् ।
नानागमश्रवण वर्ति तसंशयं मां ॥ ४. ५३ ॥
इति श्री सिद्धान्त शिखामणौ श्रीरेणुकागस्त्यसम्भाषण
प्रसङ्गोनाम चतुर्थ परिच्छेदः परिसमाप्तः ॥ ४ ॥
पञ्चम परिच्छेदः
अथागस्त्यवचः श्रुत्वा रेणुको गण नायकः ।
ध्यात्वा क्षणं महादेवं साम्बमाह समाहितः ॥ ५. १ ॥
अगस्त्य मुनिशार्दूल समस्तागमपारग ।
शिवज्ञानकरं वक्ष्ये सिद्धान्तं शृणु सादरं ॥ ५. २ ॥
अगस्त्य बहुधा ख्याताः सिद्धान्ता रुचिभेदतः ।
भिन्ना चारसमायुक्ता भिन्नार्थप्रतिपादकाः ॥ ५. ३ ॥
साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा ।
एतानि मानभूतानि न हन्तव्यानि युक्तिभिः ॥ ५. ४ ॥
वेदः प्रधानं सर्वेषां साङ्ख्यादीनं महामुने ।
वेदानुसरणा देषं प्रमाणमिति निश्चितं ॥ ५. ५ ॥
पाञ्चरात्रस्य साङ्ख्यस्य योगस्य च तथा मुने ।
वेदैक देश वर्तित्वं शैवं वेदमयं मतं ॥ ५. ६ ॥
वेदैक देशवर्तिभ्यः साङ्ख्यादिभ्यो महामुने ।
सर्ववेदानु सारित्वाच्छैवतन्त्रं विशिष्यते ॥ ५. ७ ॥
शैव तन्त्र मिति प्रोक्तं सिद्धान्ताख्यं शिवोदितं ।
सर्ववेदार्थरूपत्वात् प्रमाणं वेदवत्सदा ॥ ५. ८ ॥
आगमा बहुदा प्रोक्ताः शिवेन परमात्मना ।
शैवं पाशुपतं सोमं लाकुलं चेति भेदतः ॥ ५. ९ ॥
तेषु शैवं चतुर्भेदं तन्त्रं सर्व विनिश्चितं ।
वामं च दक्षिणं चैव मिश्रं सिद्धान्त संज्ञकं ॥ ५. १० ॥
शक्ति प्रधानं वामाख्यं दक्षिणं भैरवात्मकं ।
सप्त मातृपरं मिश्रं सिद्धान्तं वेद सम्मतं ॥ ५. ११ ॥
वेद धर्माभिधायित्वात् सिद्धान्ताख्यः शिवागमः ।
वेद बाह्य विरोधित्वा द्वेदसम्मत उच्छते ॥ ५. १२ ॥
वेद सिद्धान्तयोरैक्य मेकार्थ प्रतिपादनात् ।
प्रामाण्यं सदृशं ज्ञेयं पण्डितै रेतयोः सदा ॥ ५. १३ ॥
सिद्धान्ताख्ये महातन्त्रे कामिकाद्ये शिवोदिते ।
निर्दिष्टमुत्त रे भागे वीरशैवमतं परं ॥ ५. १४ ॥
विशब्दे नोच्यते विद्या शिवजीवैक्य बोधिका ।
तस्यां रमन्ते ये शैवा वीरशैवास्तु ते मताः ॥ ५. १५ ॥
वेदान्त जन्यं यद् ज्ञानं विद्येति परिकीर्त्यते ।
विद्यायां रमन्ते यः स वीर इत्यभिधीयते ॥ ५. १६ ॥
विद्यायां शिवरूपायां रमन्ते ये विशेषतः ।
तस्मादेते महाभागा वीरशैवा इति स्मृताः ॥ ५. १७ ॥
विद्यायां रमन्ते यस्मायां हेयं श्वपद्रहेत् ।
अने नैव निरुक्तेन वीरमहेश्वर स्मृतः ॥ ५. १८ ॥
शैवैर्माहेश्वरैश्चैव कार्यमन्तर्बहिः क्रमात् ।
शिवो महेश्वर श्चेति नात्यन्तमिह भिद्यते ।
यथा तथान भिद्यन्ते शैवा महेश्वरा अपिः ॥ ५. १९ ॥
शिवाश्रितेषु तेशैवा ज्ञान यज्ञरतानरा ।
माहेश्वरा समाख्याताः कर्मयज्ञरताभुवि ।
तस्मादभ्यन्तरे कुर्युः शैवामाहेश्वराबहि ॥ ५. २० ॥
वीरशैवास्तु षड्भेदाः स्थलधर्म विभेदतः ।
भक्तादिव्यवहारेण प्रोच्यन्ते शास्त्रपारगैः ॥ ५. २१ ॥
शास्त्रन्तु वीरशैवानां षड्विधं स्थलभेदतः ।
धर्मभेदसमायोगादधिकारि विभेदतः ॥ ५. २२ ॥
अदौ भक्तस्थलं प्रोक्तं ततो महेश्वर स्थलं ।
प्रसादिस्थल मन्यत्तु प्राणलिङ्गिस्थलं ततः ।
शरणस्थलमाख्यातं षष्टमैक्यस्थलं मतं ॥ ५. २३ ॥
भक्तस्थलं
भक्तस्थलं प्रवक्ष्यामि प्रथमं कलशोद्भव ।
तदवान्तर भेदांश्च समाहितमनाः शृणु ॥ ५. २४ ॥
शिवेभक्तिः समुत्पन्ना यस्यासौ भक्त उच्यते ।
तस्यानुष्ठेयधर्माणायुक्तिर्भक्त स्थलं मतं ॥ ५. २५ ॥
अवान्तरस्थलान्यत्र प्राहुः पञ्चदशोत्तमाः ।
पिण्डता पिण्डविज्ञानं संसारगुण हेयता ॥ ५. २६ ॥
दीक्षा लिङ्गधृतिश्चैव विभूतेरपिधारणं ।
रुद्राक्षधारणं पञ्चाक्षरजपस्तथा ॥ ५. २७ ॥
भक्तमार्गक्रिया चैवगुरोर्लिङ्गस्य चार्चनं ।
जङ्गमस्यतथा ह्येषां प्रासादस्वीकृतिस्तथा ॥ ५. २८ ॥
अत्र दानत्रयं प्रोक्तं सोपाधि निरुपाधिकं ।
सहजञ्चेति निर्दिष्टं समस्तागमपारगैः ।
एतानि शिवभक्तस्य कर्तव्यानि प्रयत्नतः ॥ ५. २९ ॥
१. पिण्डस्थलं
बहुजन्म कृतैः पुण्यैः प्रक्षीणे पापपञ्जरे ।
शुद्धान्तःकरणो देहि पिण्डशब्देन गीयते ॥ ५. ३० ॥
शिवशक्ति समुत्पन्ने प्रपञ्चेन स्मिन् विशिष्यते ।
पुण्याधिकं क्षीणपापः शुद्धात्मा पिण्डनामकः ॥ ५. ३१ ॥
एकएव शिवः साक्षाच्चिदानन्दमयो विभुः ।
निर्विकल्पो निराकारो निर्गुणो निष्प्रपञ्चकः ॥ ५. ३२ ॥
अनाद्य विद्या सम्बन्धात्तदंशो जीवनामकः ।
देवतिर्यज्मनुष्यादिजातिभेदे व्यवस्थितः ।
मयी महेश्वरस्तेषां प्रेरको हृदिसंस्थितः ॥ ५. ३३ ॥
चन्द्रकान्ते यथातो यं सूर्यकान्ते यथानलः ।
बीजे यथाङ्कुरः सिद्धस्तथात्मनि शिवः स्थितः ॥ ५. ३४ ॥
गुणत्रयात्मिका शक्तिर्ब्रह्मनिष्टा सनातनी ।
तद्वैषम्यात्स मुत्पन्ना तस्मिन् वस्तुत्रयाभिदा ॥ ५. ३५ ॥
किञ्चत्सत्त्वरजोरूपं भोक्तृसंज्ञकमुच्यते ।
अत्यन्ततामसोपाधिर्भोज्यमित्यबिधीयते ॥ ५. ३६ ॥
परतत्त्व मयोपाधिर्ब्रह्मचैतन्यमीश्वरः ।
भोक्ताभोज्यं प्रेरयिता वस्तुत्रयमिदंस्मृतं ॥ ५. ३७ ॥
आत्र प्रेरयिता शम्भुः शुद्धोपाधिर्महेश्वरः ।
समिश्रोपाधयः सर्वे भोक्तारः पशवःस्मृता ।
भोज्यमव्यक्त मित्युक्तं शुद्धतामसरूपकं ॥ ५. ३८ ॥
अत्यन्त गूढ चैतन्यं जडमव्यक्त मुच्यते ।
सर्वज्ञः प्रेरकः शम्भुः किञ्चिद् ज्ञो जीव उच्यते ॥ ५. ३९ ॥
उपाधिः पुनराख्यातः शुद्धाशुद्धविभेदतः ।
शुद्धोपाधिः परामाया स्वाश्रयान् मोहकारिणी ॥ ५. ४० ॥
अशुद्धोपाधिरप्येवमविद्याश्रय मोहिनी ।
अविद्या शक्ति भेदेन जीवा बहुविधाः स्मृताः ॥ ५. ४१ ॥
माया शक्ति वशादीशो नानामूर्ति धरःप्रभुः ।
सर्वज्ञः सर्वकर्ताच नित्यमुक्तो महेश्वरः ॥ ५. ४२ ॥
किञ्चित्कर्ताच किञ्चिद् ज्ञोबद्धोनादिशरीरवान् ।
अविद्या मोहिता जीवा ब्रह्मैक्यज्ञान वर्जिता ॥ ५. ४३ ॥
परिभ्रमन्ति संसारे निजकर्मानुसारतः ।
देवतिर्यज्मनुष्यादिनानायोनिविभेदतिः ॥ ५. ४४ ॥
चक्रनेमिक्रमेणैव भ्रमन्ति हि शरीरिणः ।
जात्यायुर्छोगवैषम्य कारणं कर्म केवलं ॥ ५. ४५ ॥
एतेषां देहिनां साक्षि प्रेरकः परमेश्वरः ।
संसारे भ्रमतां नित्यं कर्म यन्त्र नियन्त्रिणे ॥ ५. ४६ ॥
देहिनां प्रेरकः शम्भुर्हित मार्गोपदेशकः ।
पुनरावृत्ति रहित मोक्ष मार्गोपदेशकं ॥ ५. ४७ ॥
स्वकर्म परिपाकेन प्रक्षीणमलवासनः ।
शिवप्रसादाज्जीवोयं जायते शुद्धमानसः ॥ ५. ४८ ॥
शुद्धान्तः करणे जीवे शुद्धकर्म विपाकतः ।
जायते शिवकारुण्यात् प्रस्फुटा भक्तिरैश्वरी ।
जन्तुरन्त्य शरीरोसौ पिण्डशब्दाभिदेयकः ॥ ५. ४९ ॥
२. पिण्डज्ञानस्थलं
शरीरात्म विवेकेन पिण्डज्ञानी सकथ्यते ।
शरीरमेव चार्वाकैरात्मेति परिकीर्त्यते ॥ ५. ५० ॥
इन्द्रियाणां तथात्मत्वमपरैः परिभाष्यते ।
बुद्धितत्त्वगतैर्बौद्धैर्बुद्धिरात्मेतिगीयते ॥ ५. ५१ ॥
सेन्द्रियाणां न देहस्य न बुद्धेरात्मता भवेत् ।
अहम्प्रत्यय वेद्यत्वादनुभूतस्मृतेरपि ॥ ५. ५२ ॥
शरीरेन्द्रिय बुद्धिभ्यो व्यतिरिक्तः सनातनः ।
आत्मस्थितिविवेकी यः पिण्डज्ञानी नकथ्यते ॥ ५. ५३ ॥
नश्वराणि शरीराणि नानारूपाणि कर्मणा ।
आश्रितो नित्य एवासाविति जन्तोर्विवेकिता ॥ ५. ५४ ॥
शरीरात्पृथगात्मानमात्मनः पृथगीश्वरं ।
प्रेरकं यो विजानाति पिण्डज्ञानी स कथ्यते ॥ ५. ५५ ॥
३. संसारहेयस्थलं
निरन्तहृत्कलङ्कस्य नित्यानित्यविवेकिनः ।
संसार हे यता बुद्धिर्जायते वासनाबलात् ॥ ५. ५६ ॥
ऐहिके क्षणिके सौख्ये पुत्रदारादि सम्भवे ।
क्षयित्यादियुते स्वर्गे कस्य वाण्छा विवेकिनः ॥ ५. ५७ ॥
जातस्यहिध्रुवो मृत्युर्धृवं जन्ममृत्यस्यच ।
जन्तुर्मरण जन्माभ्यां परिभ्रमति चक्रवत् ॥ ५. ५८ ॥
मत्स्यकूर्म वराहाङ्गैर्नृसिम्हमनुजादिभिः ।
जातेन निधनं प्राप्तं विष्णुनापि महात्मना ॥ ५. ५९ ॥
भूत्वा कर्मवशाज्जन्तुर्ब्राह्मणादिषु जातिषु ।
तापत्रय महावह्नि सन्तापाद्दह्यते भृशं ॥ ५. ६० ॥
कर्म मूलेन दुःखेन पीड्य मानस्य देहिनः ।
अध्यात्मिकादिना नित्यं कुत्र विश्रान्तिराप्यते ॥ ५. ६१ ॥
आध्यात्मिकन्तु प्रधमं द्वितियञ्चादि भौतिकं ।
आधिदैविकमन्यच्च दुःखत्रयमिदं स्मृतं ॥ ५. ६२ ॥
आध्यात्मिकं द्विधा प्रोक्तं बाह्याभ्यन्तर भेदतः ।
वातपित्तादिजं दुःखं बाह्यमाध्यात्मिकं मतं ।
रागद्वेषादि सम्पन्नमान्तरं परिकीर्त्यते ॥ ५. ६३ ॥
आधिभौतिकमेतद्धि दुःखं राजादिभूतजं ।
आधिदैविकमाख्यातं ग्रहयक्षादि सम्भवं ॥ ५. ६४ ॥
दुःखैरेतैरुपेतस्य कर्म बद्धस्य देहिनः ।
स्वर्गे वा यदि वा भूमौ सुखलेशोन विद्यते ॥ ५. ६५ ॥
तटित्सु वीचि मलासु प्रदीपस्य प्रभासु च ।
सम्पत्सु कर्म मूलासुकस्य वा स्थिरतामतिः ॥ ५. ६६ ॥
मलकोशे शरीरेस्मिन् महादुःखविवर्थने ।
तडिदङ्कुरसं काशे कोवा मोदेत पण्डितः ॥ ५. ६७ ॥
नित्यानन्द चिदाकारमात्म तत्त्वं विहाय कः ।
विवेकी रमते देहे नश्वरे दुःख भाजने ॥ ५. ६८ ॥
विवेकी शुद्धहृदयो निश्चितात्म सुखोदयः ।
दुःखहेतौ शरीरेस्मिन् कलत्रे च सुतेषुच ॥ ५. ६९ ॥
सुहृत्सु बन्धुवर्गेषु धनेषु कुलपद्धतौ ।
अनित्य बुद्ध्या सर्वत्र वैराग्यं परमश्नुते ॥ ५. ७० ॥
विवेकिनो विरक्तस्य विषयेष्वात्मरागिणः ।
संसार दुःख विच्छेद हेतै बुद्धिः प्रवर्तते ॥ ५. ७१ ॥
नित्यानित्यविवेकिनः सुकृतिनश्शुद्धाशय स्यात्मनोत्रः ।
ब्रह्मोपेन्द्रमहेन्द्रमुख्य विभवेष्व स्थायिताम्पश्य ।
नित्यानन्दपदे निराकृतजगत्संसार दुःखोदये ।
साम्बे चन्द्रशिरोमणे समुदयेद्भक्ति र्भवध्वसिनी ॥ ५. ७२ ॥
इति श्री सिद्धान्त शिखामणौ भक्तस्थले पिण्डादिस्थलत्रय
प्रसङ्गोनाम पञ्चम परिच्छेदः परिसमाप्तः ॥ ५ ॥
षष्ठपरिच्छेदः
४. गुरुकारुण्यस्थलं
ततो विवेक सम्पन्नो विरागी शुद्धमानसः ।
जिज्ञासुः सर्व संसारदोषध्वंसकरं शिवं ॥ ६. १ ॥
उपैति लोक विख्यातं लोभ मोह विवर्जितं ।
आत्मतत्त्व विचारज्ञं विमुक्त विषयभ्रमं ॥ ६. २ ॥
शिव सिद्धान्ततत्त्वज्ञं छिन्न सन्देह विभ्रमं ।
सर्वतन्त्रप्रयोगज्ञं धार्मिकं सत्यवादिनं ॥ ६. ३ ॥
कुलक्रमागताचारं कुमार्गाचारवर्जितं ।
शिवध्यानपरं शान्तं शिवतत्त्व विवेकिनं ॥ ६. ४ ॥
भस्मोद्धूलननिष्णातं भस्मतत्त्व विवेकिनं ।
त्रिपुण्ड्रधारणोत्कण्ठं धृतरुद्राक्षमालिकं ॥ ६. ५ ॥
लिङ्गधारण सण्युक्तं लिङ्गपूजापरायणं ।
लिङ्गाङ्गयोगतत्त्वज्ञं निरूढाद्वैतवासनं ।
लिङ्गाङ्गस्थलभेदज्ञं श्रीगुरुंशिववादिनं ॥ ६. ६ ॥
सेवेत परमाचार्यं शिष्यो भक्तिभयान्वितः ।
षण्मासान् वत्सरं वापि यावदेष प्रसीदति ॥ ६. ७ ॥
प्रसन्नं परमाचार्यं भुक्तिमुक्तिप्रदायकं ।
प्रार्थयेदग्रतः शिष्यः प्राञ्जलिर्विनयान्वितः ॥ ६. ८ ॥
भोकल्याण महाभाग शिवज्ञानमहोदधे ।
आचार्यवर्य सम्प्राप्तं रक्षमां भवरोगिणं ॥ ६. ९ ॥
इति शुद्धेन शिष्येण प्रार्थितः परमोगुरुः ।
शक्तिपातं समालोक्य दीक्षया योजयेदमुं ॥ ६. १० ॥
दीयतेच शिवज्ञानं क्षीयते पाशबन्धनं ।
यस्मादतः समाख्याता दीक्षेतीयं विचक्षणैः ॥ ६. ११ ॥
सादीक्षा त्रिविधा प्रोक्ता शिवागमविशारदैः ।
वेधारूपा क्रिया रूपमन्त्ररूपाचतापन ॥ ६. १२ ॥
गुरोरालोक मात्रेण हस्तमस्तकयोगतः ।
यः शिवत्व समावेशो वेधादीक्षेति सामता ॥ ६. १३ ॥
मान्त्रीदीक्षेतिसाप्रोक्ता मन्त्रमात्रोपदेशिनी ।
कुण्डमण्डलिकोपेता क्रियादीक्षा क्रियोत्तरा ॥ ६. १४ ॥
शुभमासे शुभतिथौशुभकाले शुभेहनि ।
विभूतिं शिवभक्तेभ्यो दत्त्वा ताम्बूल पूर्वकं ॥ ६. १५ ॥
यथाविधि यथायोगं शिष्यमानीय देशिकः ।
स्नातं शुक्लाम्बरधरं दन्तधावनपूर्वकं ॥ ६. १६ ॥
मण्डलेस्थापयेच्छिष्यं प्राज्ञ्मुखं तमुदज्ञ्मुखः ।
शिवस्यनाम सङ्कीर्तिं चिन्तामपि च कारयेत् ॥ ६. १७ ॥
विभूति पट्टं कृत्वान् ग्रेयथास्थानं यथाविधि ।
पञ्चब्रह्ममयैस्तत्र स्थापितैः कलशोदकैः ।
आचार्य सममृत्विग्भि स्त्रीवारमभिषेचयत् ॥ ६. १८ ॥
अभिषिच्च गुरुः शिष्य मासीनं पुरतः शुचिं ।
ततः पञ्चाक्षरीं शैवीं संसारभयतारिणीं ॥ ६. १९ ॥
तस्यदक्षिण कर्णेतु निगूढमपिकीर्तयेत् ।
छन्दोरूपमृषि चास्य देवतां न्यासपद्धतिं ॥ ६. २० ॥
५. लिङ्गधारणस्थलं
स्फाटिकं शैलजं वापि चन्द्रकातमयं तुवा ।
बाणं वासूर्यकान्तम्वा लिङ्गमेकं समाहरेत् ॥ ६. २१ ॥
सर्वलक्षणसम्पन्ने तस्मिन् लिङ्गे विशोधिते ।
पीठस्थितेभिषिक्ते च गन्धपुष्पाधिपूजिते ॥ ६. २२ ॥
मन्त्रपूते कलां शैवीं योजयेद्विधिना गुरुः ।
शिष्यस्य प्राणमादाय लिङ्गे तत्र निधापयेत् ॥ ६. २३ ॥
तल्लिङ्गं तस्यतु प्राणे स्थापयेदेक भावतः ।
एवं कृत्वा गुरुर्लिङ्गं शिष्यहस्ते निधापयेत् ॥ ६. २४ ॥
प्राणवद्धारणीयं तत्प्राणलिङ्गमिदं तव ।
कदा चित्कुत्र चिद्वापि न वियोजय देहतः ॥ ६. २५ ॥
यदि प्रमदात्पतिते लिङ्गे देहन्महीतले ।
प्राणान् विमुञ्च सहसा प्राप्तयेमोक्ष सम्पदः ॥ ६. २६ ॥
इति सम्बोधित: शिष्यो गुरुणा शास्त्रवेदिना ।
धारयेच्छाङ्करं लिङ्गं शरीरे प्राण योगतः ॥ ६. २७ ॥
लिङ्गस्यधारणं पुण्यं सर्वपाप प्रणाशनं ।
अदृतं मुनिभिः सर्वै रागमार्थविशारदैः ॥ ६. २८ ॥
लिङ्गधारणमाख्यातं द्विधा सर्वार्थ साधकं ।
बाह्यमभ्यन्तरं चेति मुनिभिर्मोक्षकाङ्क्षिभिः ॥ ६. २९ ॥
चिद्रूपं परमं लिङ्गं शाङ्करं सर्वकारणं ।
यत्तस्यधारणं चित्ते तदान्तरमुदाहृतं ॥ ६. ३० ॥
चिद्रूपं हि परं तत्त्वं शिवाख्यं विश्वकारणं ।
निरस्त विश्व कालुष्यं निष्कलं निर्विकल्पकं ॥ ६. ३१ ॥
सत्तानन्द परिस्फूर्ति समुल्ला स कलामयं ।
अप्रमेयमनिर्देश्यं मुमुक्षुभिरुपासितं ॥ ६. ३२ ॥
परं ब्रह्म महालिङ्गं प्रपञ्चातीतमव्ययं ।
तदेव सर्वभूता नामन्त स्त्रि स्थानगोचरं ॥ ६. ३३ ॥
मूलाधारेच हृदये भ्रूमध्ये सर्वदेहिनां ।
ज्योतिर्लिङ्गं सदाभातियद्भ्रह्मेत्याहुरागमाः ॥ ६. ३४ ॥
अपरिच्छिन्नमव्यक्तं लिङ्गं ब्रह्म सनातनं ।
उपासानार्थमन्तस्थं परिच्छिन्नं स्वमायया ॥ ६. ३५ ॥
लयं गच्छति यत्रैव जगदेतच्चराचरं ।
पुनः पुनः समुत्पत्तिं तल्लिङ्गं ब्रह्म शाश्वतं ॥ ६. ३६ ॥
तस्माल्लिङ्गमिति ख्यातं सत्तानन्द चिदात्मकं ।
बृहत्वाद्बृम्हणत्वाच्च ब्रह्मशब्दाभिदेयकं ॥ ६. ३७ ॥
आधारे हृदये वापि भ्रूमध्ये वा निरन्तरं ।
ज्योतिर्लिङ्गानुसन्धानमान्तरं लिङ्गधारणं ॥ ६. ३८ ॥
आधारे कनक प्रख्यं हृदये विद्रुमप्रभं ।
भ्रूमध्ये स्फटिकच्छायलिङ्गं योगी विभावयेत् ॥ ६. ३९ ॥
निरपाधिकमाख्यातं लिङ्गस्यान्तर धारणं ।
विशिष्टं कोटिगुणितं बाह्यलिङ्गस्य धारणात् ॥ ६. ४० ॥
ये धारयन्ति हृदये लिङ्गं चिद्रूपमैश्वरं ।
न तेषां पुनरावृत्तिर्घोर संसारमण्डले ॥ ६. ४१ ॥
अन्तर्लिङ्गानुसन्धानमात्म विद्यापरिश्रमः ।
गुरूपासनशक्तिश्च कारणं मोक्ष सम्पदां ॥ ६. ४२ ॥
वैराग्य ज्ञानयुक्तानां योगिनां स्थिरचेतसां ।
अन्तर्लिङ्गानुसन्धाने रुचिर्बाह्ये नजायते ॥ ६. ४३ ॥
ब्रह्म विष्णुश्च रुद्रश्च वासवाद्याश्च लोकपाः ।
मुनयः सिद्ध गन्धर्वा दानवा मानवास्तथा ॥ ६. ४४ ॥
सर्वे सुज्ञानयोगेन सर्वकारण कारणं ।
पश्यन्ति हृदये लिङ्गं परमानन्दलक्षणं ॥ ६. ४५ ॥
तस्मात्सर्व प्रयत्नेन शाङ्करं लिङ्गमुत्तमं ।
अन्तर्विभायेद्विद्वानशेषक्लेशमुक्तये ॥ ६. ४६ ॥
अन्तर्धारयितं लिङ्गमशक्तः शक्त एव वा ।
बाह्याञ्चधारयेल्लिङ्गं तद्रूपमितिनिश्चयात् ॥ ६. ४७ ॥
लिङ्गन्तु त्रिविधं प्रोक्तं स्थूलं सूक्ष्मम्परात्परं ।
इष्टलिङ्गमिदं स्थूल यद्बाह्येधार्यते तनौ ॥ ६. ४८ ॥
प्राणलिङ्गमिदं सूक्ष्मं यदन्तर्भाव नामयं ।
परात्परं तु यत्प्रोक्तं तृप्तिलिङ्गं तदुच्यते ।
भावनातीतमव्यक्तं परब्रह्म शिवाभिदं ॥ ६. ४९ ॥
इष्टलिङ्गमिदं साक्षादनिष्टपरिहारकं ।
धारयेदव धानेन शरीरेसर्वदा बुधः ॥ ६. ५० ॥
मूर्ध्निवा कण्ठ देशे वा कक्षे वक्ष:स्थलेपि वा ।
कुक्षौ हस्तस्थले वापि धारयेल्लिङ्गमैश्वरं ॥ ६. ५१ ॥
नाभेरधस्ताल्लिङ्गस्य धारणं पापकारणं ।
जटाग्रेत्रिकभागे च मलस्थाने न धारयेत् ॥ ६. ५२ ॥
लिङ्गधारी सदा शुद्धो निजलिङ्गं मनोरमं ।
अर्चयेद्गन्ध पुष्पाद्यैः करपीठे समाहितः ॥ ६. ५३ ॥
बाह्यपीठार्चनादेतत् करपीठार्चनं वरं ।
सर्वेषां वीरशैवानां मुमुक्षूणां निरन्तरं ॥ ६. ५४ ॥
ब्रह्म विष्ण्वादयो देवा मुनयो गौतमादयः ।
धारयन्ति सदा लिङ्गमुत्तमाङ्गेविशेषतः ॥ ६. ५५ ॥
लक्ष्म्यादिशक्तयः सर्वाः शिवभावविभाविताः ।
धारयन्त्यलिकाग्रेषु शिवलिङ्गमहर्निशं ॥ ६. ५६ ॥
वेदशास्त्रपुराणेषुकामिकाद्यागमेषुच ।
लिङ्गधारणमाख्यातं वीरशैवस्य निश्चयात् ॥ ६. ५७ ॥
ऋगित्याह पवित्रं ते विततं ब्रह्मणस्पते ।
तस्मात्पवित्रं तल्लिङ्गं धार्यं शैवमनामयं ॥ ६. ५८ ॥
ब्रह्मेतिलिङ्गमाख्यातं ब्रह्मणः पतिरीश्वरः ।
पवित्रं तद्दि विख्यातं तत्सम्पर्कात्तनुःशुचिः ॥ ६. ५९ ॥
अतप्ततनुरज्ञो वैह्यामः संस्कार वर्जितः ।
दीक्षाया रहितः साक्षान्नाप्नुयाल्लिङ्गमुत्तमं ॥ ६. ६० ॥
अघोरान् पापकाशीति या ते रुद्र शिवातनूः ।
यजुषा गीयते यस्मात्तस्माच्छैवोघवर्जितः ॥ ६. ६१ ॥
योलिङ्गधारी नियतान्तरात्मा नित्यं शिवाराधनबद्धचित्तः ।
स धारयेत् सर्वमलापहत्यै भस्मामलं चारु यथा प्रयोगं ॥ ६. ६२ ॥
इति श्री सिद्धान्त शिखामणौ भक्तस्थले गुरुकारण्यस्थल
लिङ्गधारणस्थल प्रसङ्गोनाम षष्ठ परिच्छेदः परिसमाप्तः ॥ ६ ॥
सप्तम परिच्छेदः
६. भस्मधारण स्थलं
भस्मधारण सण्युक्तः पवित्रो नियताशयः ।
शिवाभिधानं यत्प्रोक्तं भासनाद्भसितं तथा ॥ ७. १ ॥
महाभस्मेति सञ्चित्य महादेवरं प्रभामयं ।
वर्तन्तेये महाभागा मुख्यास्ते भस्मधारिणः ॥ ७. २ ॥
शिवाग्न्यादिसमुत्पन्नं मन्त्रन्यासादि योगतः ।
तत्सोपाधिकमित्याहुर्भस्म तन्त्र विशारदाः ॥ ७. ३ ॥
विभूतिर्भसितं भस्म क्षारं रक्षेति भस्मनः ।
एतानि पञ्चनामानि हेतुभिः पञ्चभिर्भृशं ॥ ७. ४ ॥
विभूतिर्भूतिहेतुत्वाद्भसितं तत्त्वभासनात् ।
पापानां भर्तृ नाद्भस्म क्षारणात् क्षारमापदं ।
रक्षणात्सर्व भूतेभ्यो रक्षेति परिगीयते ॥ ७. ५ ॥
नन्दा भद्रा च सुरभिः सुशीला सुमनास्तथा ।
पञ्चगावो विभोर्जाताः सद्योजातादिवक्त्रतः ॥ ७. ६ ॥
कपिलः कृष्ण धवल दूम्ररक्तास्तथैव च ।
नन्दादीनां गवां वर्णाः क्रमेण परिकीर्तिताः ॥ ७. ७ ॥
सद्योजाताद्विभूतिश्च वामाद्भसितमेव च ।
अघोराद्भस्म सञ्जातं क्षारं तत्पुरुषस्तथा ।
रक्षा चेशानववक्त्रश्च नन्दादि द्वारतोभवत् ॥ ७. ८ ॥
धारयेन्नित्यकार्येषु विभूतिं च प्रयत्नतः ।
नैमित्तिकेषु भसितं क्षारं काम्येषु सर्वदा ॥ ७. ९ ॥
प्रायश्चित्तेषु सर्वेषु भस्मनाम यथाविधि ।
रक्षाच मोक्ष कार्येषु प्रयोक्तव्या सदाबुधैः ॥ ७. १० ॥
नन्दादीनन्तु ये वर्णाः कपिलाद्याः प्रकीर्तिताः ।
त एव वर्ण विख्याता भूत्यादीनां यथाक्रमं ॥ ७. ११ ॥
भस्मोत्पादनमुद्दिष्टं चतुर्था तन्त्रवेदिभिः ।
कल्पं चैवानुकल्पं च ह्युपकल्पमकल्पकं ॥ ७. १२ ॥
एषामादिममुत्कृष्ट मन्यत्सर्व मभावतः ।
तथा शास्त्रोक्त विधिना गृहीत्व गोमयं नवं ॥ ७. १३ ॥
सद्येन वामदेवेन कुर्यात्पिण्डमनुत्तमं ।
शोषयेत्पुरुषेणैव दहेद्घोराच्छिवाग्निना ॥ ७. १४ ॥
कल्पं तद्भस्म विज्ञेयमनुकल्पमथोच्यते ।
पनेषु गोमयं यच्च शुष्कं चूर्णीकृतं तथा ॥ ७. १५ ॥
दग्थञ्चैवानुकल्पाख्य मापणादिगतं तु यत् ।
वस्त्रेणोत्तारितं भस्मगोमूत्राबद्ध पिण्डकं ॥ ७. १६ ॥
दग्दं प्रागुक्तविधिना भवेद्भस्मोपकल्पकं ।
अन्यैरापादितं भस्मह्यकल्पमिति कल्पितं ॥ ७. १७ ॥
एष्वेकतममादाय पात्रेषु कलशादिषु ।
त्रिसन्ध्यमाचरेत् स्नानं यथासम्भवमेववा ॥ ७. १८ ॥
स्नानकाले करौपादौ प्रक्षाल्य विमलाम्भसा ।
वामहस्त तलेभस्मक्षिप्त्वाच्छाद्यान्य पाणिना ॥ ७. १९ ॥
अष्टकृत्वोथमूलेन मौनी भस्माभि मन्त्र्यच ।
शिर ईशानमन्त्रेण वामदेवेन गुह्यकं ॥ ७. २० ॥
पादौसद्येन सर्वाङ्गं प्रणवेनैव सेचयेत् ॥ ७. २१ ॥
भस्मना विहितं स्नानमिदमाग्नेय मुत्तमं ।
स्नानेषु वारुणाद्येषु मुख्यमेतन्मलापहं ॥ ७. २२ ॥
भस्मस्नानवतां पुंसां यथायोगं दिनेदिने ।
वारुणाद्यैरलं स्नानैर्बाह्यदोषापहारिभिः ॥ ७. २३ ॥
आग्नेयं भस्मना स्नानं यतिभिस्तु विधीयते ।
आर्द्रस्नानात्परं भस्म आर्द्रे जन्तुवधोध्रुवं ॥ ७. २४ ॥
आर्द्रन्तु प्रकृतिं विद्यात् प्रकृतिं बन्धनं विदुः ।
प्रकृतेस्तु प्रहाणार्धं भस्मना स्नानमिष्यते ॥ ७. २५ ॥
ब्रह्माद्या विबुधाः सर्वे मुनयो नारदादयः ।
योगिनः सनकाद्याश्च बाणाद्या दानवा अपि ॥ ७. २६ ॥
भस्मस्नानरताः सर्वे शिवभक्ति परायणाः ।
निर्मुक्त दोषकलिला नित्य शुद्धा भवन्ति हि ॥ ७. २७ ॥
नम:शिवायेति भस्म कृत्वा स्तपाभिमन्त्रितः ।
उद्धूलयेत्तेन देहं त्रिपुण्ड्रं चापि धारयेत् ॥ ७. २८ ॥
सर्वाङ्गोद्धूलनं चापि न समानं त्रिपुण्ड्रकैः ।
तस्मात्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ ७. २९ ॥
त्रिपुण्ड्रं धारयेन्नित्यं भस्मना सजलेन हि ।
स्थानेषु पञ्चदशसु शरीरे साधकोत्तमः ॥ ७. ३० ॥
उत्तमाङ्गे ललाटेच श्रवणद्वितिये तथा ।
गले भुजद्वये चैव हृदि नाभौ च पृष्टके ॥ ७. ३१ ॥
बाहुयुग्मेककुद्देशे मणिबन्धद्वये तथा ।
त्रिपुण्ड्रं भस्मनाधार्यं मूलमन्त्रेण साधकैः ॥ ७. ३२ ॥
वामहस्ते तले भस्मक्षिप्त्वाच्छाद्यान्यपाणिना ।
अग्निरित्यादिमन्त्रेण स्पृशन् वाराभि मन्त्र्यच ॥ ७. ३३ ॥
त्रिपुण्ड्रमुक्त स्थानेषु दध्यात् सजल भस्मना ।
शिवं शिवङ्करं शान्तं स प्राप्नोति न संशयः ॥ ७. ३४ ॥
मध्याङ्गुलित्रयेणैव स्वदक्षिण करस्यतु ।
षडङ्गुलायुतं मानमपिवालिकमानकं ।
नेत्रयुग्मस्रमाणेन फाले दध्यात्त्रिपुण्ड्रकं ॥ ७. ३५ ॥
मध्यमानामिकाङ्गुष्थैरनुलोमविलोमतः ।
धारयेद्य स्त्रिपुण्ड्राङ्कं स रुद्रो नात्र संशयः ॥ ७. ३६ ॥
ऋजुश्वेतमनुव्याप्तं स्निग्धं श्रोत्र प्रमाणकं ।
एवं सल्लक्षणोपेतं त्रिपुण्ड्रं सर्व सिद्धिदं ॥ ७. ३७ ॥
प्रातः कालेच मध्याह्ने सायाह्नेच त्रिपुण्ड्रकं ।
कदाचिद्भस्मना कुर्यात्सरुद्रो नात्र संशयः ॥ ७. ३८ ॥
एवं विधं विभूत्या हि कुरुते यस्त्रिपुण्ड्रकं ।
स रौद्र धर्म सण्युक्त स्त्रयीमय इति श्रुतिः ॥ ७. ३९ ॥
ब्रह्मा विष्णुश्च रुद्रश्च देवाः शुक्र पुरोगमाः ।
त्रिपुण्ड्रं धारयन्त्येव भस्मना परिकल्पितं ॥ ७. ४० ॥
वशिष्ठाद्या महाभागा मुनयः श्रुतिकोविदाः ।
धारयन्ति सदाकालं त्रिपुण्ड्रं भस्मना कृतं ॥ ७. ४१ ॥
शिवागमेषु वेदेषु पुराणेष्वखिलेषु च ।
स्मृतीतिहासकल्पेषु विहितं भस्मपुण्ड्रकं ।
धारणीयं समस्तानां शैवानां च विशेषतः ॥ ७. ४२ ॥
नास्तिको भिन्न मर्यादो दुराचारो परायणः ।
भस्मत्रिपुण्ड्रधारी चेन्मुच्यते सर्वकिल्बिषैः ॥ ७. ४३ ॥
७. रुद्राक्षधारण स्थलं
भस्मना विहितस्नान स्त्रिपुण्ड्राङ्कितमस्तकः ।
शिवार्चन परो नित्यं रुद्राक्षमपि धारयेत् ॥ ७. ४४ ॥
रुद्राक्ष धारणादेव मुच्यन्ते सर्व पातकैः ।
दुष्टचित्ता दुराचारा दुष्प्रज्ञा अपि मानवाः ॥ ७. ४५ ॥
पुरात्रिपुरसम्हारे त्रिनेत्रो जगतां पतिः ।
उदपश्यत्पुरां योगमुन्मीलित विलोचनः ॥ ७. ४६ ॥
निपेतुस्तस्य नेत्रेभ्यो बहवो जलबिन्दवः ।
तेभ्योजाताहिरुद्राक्षा रुद्राक्षा इति कीर्तिताः ॥ ७. ४७ ॥
रुद्रनेत्र समुत्पन्ना रुद्राक्षा लोकपावनाः ।
अष्टत्रिंशत्प्रभेदेन भवन्त्युत्पत्ति भेदतः ॥ ७. ४८ ॥
नेत्रात् सूर्यत्मनः शम्भोः कपिला द्वादशोदिताः ।
श्वेताः षोडश सञ्जाताः सोमरूपद्विलोचनात् ॥ ७. ४९ ॥
कृष्णा दश विधा जाता वह्निरूपाद्विलोचनात् ।
एवमुत्पत्ति भेदेन रुद्राक्षा बहुधा स्मृताः ॥ ७. ५० ॥
अच्छिद्रं कनकप्रख्यमनन्यधृतमुत्तमं ।
रुद्राक्षं धारयेत् प्राज्ञः शिवपूजापरायणः ॥ ७. ५१ ॥
यथास्थानं यथावक्त्रं यथायोगं यथाविधि ।
रुद्राक्षधारणं वक्ष्ये रुद्र सायुज्य सिद्धये ॥ ७. ५२ ॥
शिखायामेक मेकान्यं रुद्राक्षं धारयेद्बुधः ।
द्वित्रिद्वादश वक्त्राणि शिरसि त्रीणी धारयेत् ॥ ७. ५३ ॥
षट् त्रिंशद्धारयेन्मूर्ध्नि नित्यमेकादशाननान् ।
दशसप्त पञ्चवक्त्रान् षट् षट् कर्णद्वयेव हेत् ॥ ७. ५४ ॥
षडष्टवदनान् कण्ठे द्वात्रिंशद्धारयेत्सदा ।
पञ्चाशद्धारयेद्धीमान् चतुर्वक्त्राणि वक्षसि ॥ ७. ५५ ॥
त्रयोदशमुखान् बाह्वोर्धरेत् षोडश षोडश ।
प्रत्येकं द्वादश वह्नेन वास्यान्मणि बन्धयोः ॥ ७. ५६ ॥
चतुर्दशमुखं यज्ञसूत्रमष्टोत्तरं शतं ।
धारयेत् सर्वकालं तु रुद्राक्षं शिवपूजकः ॥ ७. ५७ ॥
एवं रुद्राक्षधारी यः सर्वकालेतु वर्तते ।
तस्य पापकथा नास्ति मूढस्यासि न संशयः ॥ ७. ५८ ॥
ब्रह्महामद्यपायी च स्वर्णहृद्गुरुतल्पगः ।
मातृहा पितृहा चैव ब्रूणहाकृत घातकः ।
रुद्राक्ष धारणा देव मुच्यन्ते सर्वपातकैः ॥ ७. ५९ ॥
दर्शनात् स्पर्शनाच्चैव स्मरणादपि पूजनात् ।
रुद्राक्ष धारणाल्लोके मुच्यन्तेपातकैर्जनाः ॥ ७. ६० ॥
ब्राह्मणो वान्त्यजोवापि मूर्खोवापण्डितोपिवा ।
रुद्राक्ष धारणादेव मुच्यते सर्वपातकैः ॥ ७. ६१ ॥
गवां कोटि प्रदानस्य यत्फलं भुविलभ्यते ।
तत्फलं लभते मर्त्यो नित्यं रुद्राक्ष धारणात् ॥ ७. ६२ ॥
मृतिकालेतु रुद्राक्षं निष्पीड्य सहवारिणा ।
य: पिभेच्छिन्तयन् रुद्रं रुद्रलोकं सगच्छति ॥ ७. ६३ ॥
भस्मोद्धूलित सर्वाङ्गा धृतरुद्राक्ष मालिकाः ।
ये भवन्ति महात्मानोरुद्रस्ते नात्र संशयः ॥ ७. ६४ ॥
नित्यानि काम्यानि निमित्त जानि कर्माणी सर्वाणि सदापि कुर्वन् ।
स भस्मरुद्राक्षधरो यदिस्यात् द्विजो नतस्यास्ति फलोपपत्तिः ॥ ७. ६५ ॥
सर्वेषु वर्णाश्रम सङ्गतेषु नित्यं सदाचार परायणेषु ।
श्रुतिस्मृतिभ्यामिह चोद्यमानो विभूति रुद्राक्षधरः समानः ॥ ७. ६६ ॥
इति श्री सिद्धान्त शिखामणौ भक्तस्थले भस्मरुद्राक्ष धारण स्थल
प्रसङ्गोनाम सप्तम परिच्छेदः परिसमाप्तः ॥ ७ ॥
अष्टम परिच्छेदः
८. पञ्चाक्षर जपस्थलं
धृतश्रीभूति रुद्राक्षः प्रयतो लिङ्गधारकः ।
जपेत्पञ्चाक्षरी विद्यां शिवतत्त्वप्रबोधिनीं ॥ ८. १ ॥
शिवतत्त्वात्परन्नास्ति यथातत्त्वान्तरं महत् ।
तथापञ्चाक्षरीमन्त्रन्नास्ति मन्त्रान्तरं महत् ॥ ८. २ ॥
ज्ञाते पञ्चाक्षरी मन्त्रे किं वा मन्त्रान्तरैः फलं ।
ज्ञाते शिवे जगन्मूले किं फलं देवतान्तरैः ॥ ८. ३ ॥
सप्तकोटीषु मन्त्रेषु मन्त्रः पञ्चाक्षरो महन् ।
ब्रह्म विष्ण्वादि देवेषु यथा शम्भुर्महत्तरः ॥ ८. ४ ॥
अशेष जगतां हेतुः परमात्मा महेश्वरः ।
तस्य वाचक मन्त्रोयं सर्व मन्त्रैक कारणं ॥ ८. ५ ॥
तस्याभिदानमन्त्रोयमभिधेयश्च स स्मृतः ।
अभिदा नाभिदे यत्वान्मन्त्रात् सिद्धः परश्शिवः ॥ ८. ६ ॥
नमश्शब्दं वदेत्पूर्वं शिवायेति ततः परं ।
मन्त्रः पञ्चाक्षरो ह्येष सर्वश्रुति शिरोगतः ॥ ८. ७ ॥
अदितः परिश्शुद्धत्वान्मलत्रय वियोगतः ।
शिव इत्युच्यते शम्भुश्चिदानन्दघनः प्रभुः ॥ ८. ८ ॥
अस्पदत्वाद शेषाणां मङ्गलानां विशेषतः ।
शीवशब्दाभिधेयो हि देवदेव स्त्रियम्बकः ॥ ८. ९ ॥
शिव इत्यक्षरद्वन्द्वं परब्रह्म प्रकाशकं ।
मुख्यवृत्यातदन्येषां शब्दानाङ्गौणवृत्तयः ॥ ८. १० ॥
तस्मान्मुख्यतरं नाम शिव इत्यक्षरद्वयं ।
सच्चिदानन्द रूपस्य शम्भोरमित तेजसः ॥ ८. ११ ॥
एतन्ना मावलम्बेन मन्त्रः पञ्चाक्षरः स्मृतः ।
यस्मादतः सदा जप्योमोक्षकाङ्क्षिभिरादरात् ॥ ८. १२ ॥
यथान नादिर्महादेवः सिद्धः संसारमोचकः ।
तथा पञ्चाक्षरो मन्त्रः संसारक्षयकारकः ॥ ८. १३ ॥
पञ्चभूतानि सर्वाणि पञ्चतन्मात्रकाणि च ।
ज्ञानेन्द्रियाणि पञ्चापि पञ्चकर्मेन्द्रियाणिच ॥ ८. १४ ॥
पञ्च ब्रह्माणि पञ्चापि कृत्यानि सहकारणैः ।
बोध्यानि पञ्चभिर्वर्णैः पञ्चाक्षर महामनोः ॥ ८. १५ ॥
पञ्चधा पञ्चधा यानि प्रसिद्धानि विशेषतः ।
तानि सर्वाणि वस्तूनि पञ्चाक्षरमयानि हि ॥ ८. १६ ॥
ओङ्कारपूर्वो मन्त्रोयं पञ्चाक्षरमयःपरः ।
शैवागमेषु वेदेषु षडक्षर इति स्मृतः ॥ ८. १७ ॥
मन्त्रस्यास्यादि भूतेन प्रणवेन महामनोः ।
प्रबोध्यते महादेवः केवलश्चित्सुखात्मकः ॥ ८. १८ ॥
प्रणवेनैकवर्णेन परब्रह्म प्रकाश्यते ।
अद्वितीयं परानन्दं शिवाख्यं निष्प्रपञ्चकं ॥ ८. १९ ॥
परमात्म मनुर् ज्ञेयः सोहं रूपः सनातनः ।
जायते सहयोर्लोपादोमित्येकाक्षरो मनुः ॥ ८. २० ॥
प्रणवेनैव मन्त्रेण बोध्यते निष्कलः शिवः ।
पञ्चाक्षरेण मन्त्रेण पञ्चब्रह्मतनुस्तथा ॥ ८. २१ ॥
निष्कलः सम्विदाकारः सकलो विश्वमूर्ति कः ।
उभयात्मा शिवो मन्त्रे षडक्षरमयेस्थितः ॥ ८. २२ ॥
मूलं विद्या शिवः शैवसूत्रं पञ्चाक्षर स्तथा ।
एतानि नामधेयानि कीर्तितानि महामनोः ॥ ८. २३ ॥
पञ्चाक्षरीमिमां विद्यां प्रणवेन षडक्षरीं ।
जपेत् समाहितोभूत्वा शिवपूजपरायणः ॥ ८. २४ ॥
प्राणायमत्रयं कृत्वा प्राज्ञ्मुखोदज्ञ्मुखोन पिवा ।
चिन्तयन् हृदयाम्भोजे देवदेवं त्रिलोचनं ॥ ८. २५ ॥
सर्वालङ्कारं सण्युक्तं साम्बं चन्द्रार्थशेखरं ।
जपेदेतं महाविद्यां शिवरूपामनन्यधीः ।
जपस्तु त्रिविधः प्रोक्तो वाचिकोपांशुमानसः ॥ ८. २६ ॥
श्रूयते यस्तु पार्श्वस्थैर्यथावर्ण समन्वयः ।
वाचिकः सतु विज्ञेयः सर्वपाप प्रभञ्जनः ॥ ८. २७ ॥
ईषत् सृष्ट्वाधर पुटं यो मन्दमभिधीयते ।
पार्श्वस्थैर श्रुतः सोन् यमुम्पांशुः परिकीर्तितः ॥ ८. २८ ॥
अस्पृष्ट्याधरमस्सन्दि जिह्वाग्रण्योंतरात्मना ।
भाव्यते वर्णरूपेण स मानस इति स्मृतः ॥ ८. २९ ॥
यावन्तः कर्मयज्ञाद्या प्रवदानतपांसिच ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीं ॥ ८. ३० ॥
माहत्म्यं वाचिक स्यैतज्जपयज्ञस्य कीर्तितं ।
तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः ॥ ८. ३१ ॥
वाचिकात्तदुपांशोश्च जपादस्य महामनोः ।
मानसा हि जपः श्रेष्ठो घोर संसार नाशकः ॥ ८. ३२ ॥
एतेष्वेकेन विधिना यथाभावं यथाक्रमं ।
जपेत्पञ्चाक्षरीमेतां विद्यां पाशविमुक्तये ॥ ८. ३३ ॥
अनेन मूलमन्त्रेण शिवलिङ्गं प्रपूजयेत् ।
नित्यं नियमसम्पन्नः प्रयतात्मा शिवात्मकः ॥ ८. ३४ ॥
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ।
सोपि गच्छेच्छिवस्थां मन्त्रस्यास्यैव गौरवात् ॥ ८. ३५ ॥
अब्भक्षा वायुभक्षाश्चये चान्ये व्रतकर्शिताः ।
तेषामेतैर्र्व तैर्नास्ति शिवलोक समागमः ॥ ८. ३६ ॥
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ।
पञ्चाक्षरार्चन स्यैते कोट्यं शेनापिनो समाः ॥ ८. ३७ ॥
अशुद्धो वा विशुद्धोवा सकृत्पञ्चाक्षरेण यः ।
पूजयेत्पतितोवापि मुच्यते नात्र संशयः ॥ ८. ३८ ॥
सकृदुच्चरमात्रेण पञ्चाक्षर महामनोः ।
सर्वेषामपि जन्तूनां सर्वपापक्षयो भवेत् ॥ ८. ३९ ॥
अन्येपि बहवो मन्त्रा विद्यन्ते सकलागमे ।
भूयो भूयः समभ्यासात् पुरुषार्थ प्रदायिनः ॥ ८. ४० ॥
एषमन्त्रो महाशक्तिरीश्वरप्रतिपादकः ।
सकृदुच्चारणा देव सर्वसिद्धि प्रदायकः ॥ ८. ४१ ॥
पञ्चाक्षरीं समुच्छार्य पुष्पं लिङ्गे विनिक्षिपेत् ।
यस्तस्य वाजपेयानां सहस्रफलमिष्यते ॥ ८. ४२ ॥
अग्निहोत्रं त्रयो वेदयज्ञाश्च बहुदक्षिणाः ।
पञ्चाक्षरजपस्यैते कोट्यं शेनापि नो नमाः ॥ ८. ४३ ॥
पुरा सानन्द योगीन्द्रः शिवज्ञान परायणः ।
पञ्चाक्षरं समुच्छार्य नारकानुदतारयत् ॥ ८. ४४ ॥
सिद्ध्या पञ्चाक्षरस्यास्य शतानन्दः पुरामुनिः ।
नरकं स्वर्गमकरोत् सङ्गीरस्यापि पापिनः ॥ ८. ४५ ॥
उपमन्युः पुरा योगी मन्त्रेणा नेन सिद्धिमान् ।
लब्धवान् परमेशानाच्छैवशास्त्र प्रवक्तृतां ॥ ८. ४६ ॥
वशिष्ठ वामदेवाद्या मुनयो मुक्त किल्बिषाः ।
मन्त्रेण नेन संसिद्धा महातेजस्विनोन भवन् ॥ ८. ४७ ॥
ब्रह्मादीनां च देवानं जगत्सृष्ट्यादिकर्मणि ।
मन्त्रस्यास्यैवमाहत्म्यात् सामर्थ्य मुपजायते ॥ ८. ४८ ॥
किमिह बहुभिरुक्तैर्मन्त्रमेनं महात्मा ।
प्रणव सहितमादौ यस्तु पञ्चाक्षराख्यं ।
जपति परमभक्त्या पूजयन् देवदेवं ।
सगतदुरितबन्धो मोक्षलक्ष्मीं प्रयाति ॥ ८. ४९ ॥
इति श्री सिद्धान्त शिखामणौ भक्तस्थले पञ्चाक्षर
जपस्थल प्रसङ्गोनाम अष्टम परिच्छेदः परिसमाप्तः ॥ ८ ॥
नवम परिच्छेदः
९. भक्तमार्गक्रियास्थलं
भूतिरुद्राक्ष सण्युक्तो लिङ्गधारी सदा शुचिः ।
पञ्चाक्षर जपोद्योगी शिवभक्त इति स्मृतः ॥ ९. १ ॥
श्रवणं कीर्तनं शम्भोः स्मरणं पादसेवनं ।
अर्चनं वन्दनं दास्यं सख्यमात्म निवेदनं ॥ ९. २ ॥
एवं नव विधा भक्तिः प्रोक्ता देवेन शम्भुना ।
दुर्लभा पापिनां लोके सुलभा पुण्यकर्मणां ॥ ९. ३ ॥
अधमे चोत्तमे वापि यत्र कुत्र चि दूर्जिता ।
वर्तते शाङ्करी भक्तिः स भक्त इति गीयते ॥ ९. ४ ॥
भक्तिः स्थिरीकृता यस्मिन् म्लेच्छेवाद्विजसत्त मे ।
शम्भोः प्रियः न विप्रश्च न प्रियो भक्ति वर्जितः ॥ ९. ५ ॥
सा भक्तिर्द्विविधा ज्ञेया बाह्याभ्यन्तर भेदतः ।
बाह्या स्थूलान्तरा सूक्ष्मा वीरमाहेश्वरादृता ॥ ९. ६ ॥
सिम्हासने शुद्धदेशे सुरम्ये रत्न चित्रिते ।
शिवलिङ्गस्य पूजा या सा बाह्या भक्ति रुच्यते ॥ ९. ७ ॥
लिङ्गे प्राणं समाधाय प्राणे लिङ्गन्तु शाम्भवं ।
स्वस्थं मनस्तथा कृत्या न किञ्चिच्चिन्तयेद्यदि ॥ ९. ८ ॥
साभ्यन्तरा भक्तिरिति प्रोच्यते शिवयोगिभिः ।
सा यस्मिन् वर्तते तस्य जीवनं भ्रष्टबीजवत् ॥ ९. ९ ॥
बहुनात्रकिमुक्तेन गुह्याद्गुह्यतरा परा ।
शिवभक्तिर्नसन्देहस्तया युक्तो विमुच्यते ॥ ९. १० ॥
प्रसादादेवा सा भक्तिः प्रसादो भक्ति सम्भवः ।
यथैवाङ्कुरतो बीजं बीजतोवा यथाङ्कुरः ॥ ९. ११ ॥
प्रसाद पूर्विका येयं भक्तिर्मुक्ति विधायिनी ।
नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ९. १२ ॥
अनेक जन्म शुद्धानां श्रौतस्मार्तानुवर्तिनां ।
विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ९. १३ ॥
प्रसन्ने सतिमुक्तः स्यान्मुक्तःशिव समोभवेत् ।
अल्पभावोपि यो मर्तस्य स्य जन्म त्रयात्परं ।
न योनि यन्त्रपीडा वैभवेन्नैवात्र संशयः ॥ ९. १४ ॥
साङ्गान्यूना च या सेवा सा भक्तिरिति कथ्यते ।
सा पुनर्भिद्यते त्रेथा मनोवाक्काय साधनैः ॥ ९. १५ ॥
शिवरूपादिचिन्ता या सा सेवा मानसि स्मृता ।
जपादिर्वाचिकी सेवा कर्म पूजा च कायिकी ॥ ९. १६ ॥
बाह्यमाभ्यन्तरं चैव बाह्याम्भ्यन्तरमेव वा ।
मनोवाक्काय भेदैश्च त्रिधा तद्भजनं विदुः ॥ ९. १७ ॥
अन्यात्मा विदितं बाह्यं शम्भोरभ्यर्चनादिकं ।
तदेवतु स्वसम्वेद्य माभ्यन्तरमुदाहृतं ।
मनो महेश प्रवणं बाह्याभ्यन्तरमुच्यते ॥ ९. १८ ॥
मनोमहेश ध्यानाढ्यं नान्यध्यानरतं मनः ।
शिवनामरता वाणी वाज्ञ्मता चैव नेतरा ॥ ९. १९ ॥
लिङ्गैः शिवस्य चोद्दिष्टैस्त्रिपुण्ड्रादिभिरङ्कितः ।
शिवोपचार निरतः कायः कायो न चेतरं ॥ ९. २० ॥
पञ्चधा कथयते सद्भिस्त देव भजनं पुनः ।
तपः कर्म जपो ध्यानं ज्ञानं चेत्यनुपूर्वकं ॥ ९. २१ ॥
शिवार्थे देह संशोषस्तपः कृच्छ्रादिनो मतं ।
शिवार्चा कर्म विज्ञेयम्बाह्यं या गादिनोच्यते ॥ ९. २२ ॥
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव वा ।
रुद्राध्यायादिकाभ्यासो नवेदाध्ययनादिकं ॥ ९. २३ ॥
ध्यानं शिवस्य रूपादिचिन्ता नात्मादि चिन्तनं ।
शिवागमार्थ विज्ञानं ज्ञानं नान्यार्थ वेदनं ।
इति पञ्चप्रकारोयं शिवयज्ञः प्रकीर्तितः ॥ ९. २४ ॥
अनेन पञ्चयज्ञेन यः पूजायति शङ्करं ।
भक्त्या परमया युक्तः स वै भक्त इतिस्मृतः ॥ ९. २५ ॥
पूजनाच्छिवभक्त स्य पुण्यागतिरवाप्यते ।
अवमानान्महाघोरो नरको नात्र संशयः ॥ ९. २६ ॥
शिवभक्तो महातेजाः शिवभक्ति पराज्ञ्मुखान् ।
नस्पृशेन्नैव वीक्षेत नतैः सहवसेत् क्वचित् ॥ ९. २७ ॥
यदा दीक्षप्रवेशः स्याल्लिङ्ग धारण पूर्वकं ।
तदा प्रभृति भक्तोन् सौ पूजयेत् स्वागमस्थिता ॥ ९. २८ ॥
स्वमार्गाचारनिरताः स्वजातीया द्विजास्तु ये ।
तेषां गृहेषु भुञ्जीत नेतरेषां कदाचन ॥ ९. २९ ॥
स्वमार्गाचार विमुखैर्भविभिः प्राकृतात्मभिः ।
प्रेषितं सकलं द्रव्यमात्मलीनमपि त्यजेत् ॥ ९. ३० ॥
नार्चयेदन्य देवांस्तुन स्मरेन्न च कीर्तयेत् ।
न तन्नै वेद्यमश्नी याच्छिवभक्तो दृढव्रतः ॥ ९. ३१ ॥
यद्गृहेष्वन्यदेवोस्ति तद्गृहिणि परित्यजेत् ।
नान्यदेवार्चकान्मर्त्यापूजाकाले निरीक्षयेत् ॥ ९. ३२ ॥
सदा शिवै कनिष्ठानाम्वीर शैवाथ्ववर्तिनां ।
नहि स्थावर लिङ्गानां निर्माल्याद्युपभज्यते ॥ ९. ३३ ॥
यत्र स्थावरलिङ्गानामपायः परिवर्तते ।
अथवा शिवभक्तानां शिवलाण्छन धारिणां ॥ ९. ३४ ॥
तत्र प्राणान् विहायापि परिहारं समाचरेत् ।
शिवार्थं मुक्त जीवश्चेच्छिवसायुज्यमाप्नुयात् ॥ ९. ३५ ॥
यत्र चाचार निदास्ति कदाचित्त त्रन व्रजेत् ।
यद्गृहे शिवनिन्दास्ति तद्गृहं तु परित्यजेत् ॥ ९. ३६ ॥
यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।
न तस्यनिष्कृतिः शक्याकर्तुं वर्षशतैरपि ॥ ९. ३७ ॥
शिवनिन्दाकरं दृष्ट्वाघातयेदथवा शपेत् ।
स्थानं वा तत्परित्यज्य गच्छेद्य द्यक्षमो भवेत् ॥ ९. ३८ ॥
शिवपूजापरोभूत्वा पूर्वकर्मविवर्जयेत् ।
अथवा पूर्वकर्मस्यात् सापूजानिष्फला भवेत् ॥ ९. ३९ ॥
उत्तमां वृत्तिमाश्रित्ब्य नीचां वृत्तिं समाश्रितः ।
आरूढपतितो ज्ञेयः सर्वकर्म बहिष्कृतः ॥ ९. ४० ॥
पञ्चाक्षरोपदेशि यो नरस्तुतिकरो यदि ।
सोलिङ्गी स दुराचारी कुकविः स तु विश्रुतः ॥ ९. ४१ ॥
चर्मपात्रे जलं तैलं न ग्राह्यं भक्ति तत्परैः ।
गृह्यते यदि भक्तेन रौरवं नरकं व्रजेत् ॥ ९. ४२ ॥
न तस्य सूतकं किञ्चित् प्राणलिङ्गाङ्ग सङ्गिनः ।
जननोत्थम्मृतोत्थं च विद्यते परमार्थतः ॥ ९. ४३ ॥
लिङ्गार्चनरता याश्च ऋतौ नार्यान सूतकं ।
तथा प्रसूतिकाश्च सूतकं नैव विद्यते ॥ ९. ४४ ॥
गृहे यस्मिन् प्रसूता स्त्री सूतकं नात्र विद्यते ।
शिवपादाम्बुसंस्पर्शात् सर्वपापं विनश्यति ॥ ९. ४५ ॥
शिवस्थानानि तीर्थानि विशिष्टानि शिवार्चकः ।
शिवयात्रोत्सवे नित्यं सेवेत परया मुदा ॥ ९. ४६ ॥
शिवक्षेत्रोत्सवमहायात्रा दर्शन काङ्क्षिणां ।
मार्गेन्नपानदानं च कुर्यान्माहेश्वरो जनः ॥ ९. ४७ ॥
नान्नतो यसमन्दानं न चामिंसा परं तपः ।
तस्मान्माहेश्वरो नित्यमन्नतोय प्रदोभवेत् ॥ ९. ४८ ॥
स्वमार्गाचारवर्तिभ्यः स्वजातिभ्यः सदाव्रती ।
दद्यात्तेभ्यः समादद्यात् कन्याङ्कुल समुद्भवां ॥ ९. ४९ ॥
१०. उभयस्थलं
एवमाचार सण्युक्तो वीरशैवो महाव्रती ।
पूजयेत्परया भक्त्या गुरुं लिङ्गं च सन्ततं ॥ ९. ५० ॥
गुरोरभ्यर्च नेनापि साक्षादभ्यर्चितः शिवः ।
नास्ति भेदस्तयोः कश्चिदेकत्वात्तत्त्वरूपतः ॥ ९. ५१ ॥
यथा देवे जगन्नाथे सर्वानुग्रहकारके ।
तथा गुरुवरे कुर्यादुपचारान् दिने दिने ॥ ९. ५२ ॥
अप्रत्यक्षो महादेवः सर्वेषामात्ममायया ।
प्रत्यक्षोगुरुरूपेण वर्तते भक्ति सिद्धये ॥ ९. ५३ ॥
शिवज्ञानं महाघोर संसारार्णवतारकं ।
दीयते येव न गुरुः कन्यवन्द्योन जायते ॥ ९. ५४ ॥
यत्कटाक्ष कलामात्रात् परमानन्द लक्षणं ।
लभ्यते शिवरूपत्वं स गुरुः केन नार्च्यते ॥ ९. ५५ ॥
हितमेव चरेन्नित्यं शरीरेण धनेन च ।
आचार्य स्योपशान्तस्य शिवज्ञानमहानिधेः ॥ ९. ५६ ॥
गुरोराज्ञां न लङ्घेत सिद्धिकामो महामतिः ।
तदाज्ञानलङ्घनेनापि शिवाज्ञाच्छेदको भवेत् ॥ ९. ५७ ॥
११. त्रिविधसम्पत्तिस्थलं
यथा गुरौ यथालिङ्गे भक्तिमान् परिवर्तते ।
जङ्गमे च तथा नित्यं भक्तिं कुर्याद्विचक्षणः ॥ ९. ५८ ॥
एक एव शिवः साक्षात्सर्वानुग्रहकारकः ।
गुरुजङ्गमलिङ्गात्मा वर्तते भुक्ति मुक्तिदः ॥ ९. ५९ ॥
लिङ्गञ्च द्विविधं प्रोक्तं जङ्गमाजङ्गमात्मना ।
अजङ्गमे यथा भक्ति र्जङ्गमे च तथा स्मृता ॥ ९. ६० ॥
अजङ्गमं तु यल्लिङ्गं मृच्छिलादि विनिर्मितं ।
तद्वरं जङ्गमं लिङ्गं शिवयोगीति विश्रुतं ॥ ९. ६१ ॥
आचरे मन्त्र संस्काराल्लिङ्गे वसति शङ्करः ।
सदाकालं वसत्येन चरलिङ्गे महेश्वरः ॥ ९. ६२ ॥
शिवयोगिनि यद्दत्तं तदक्षयफलं भवेत् ।
तस्मात्सर्व प्रयत्नेन तस्मै देयं महात्मने ॥ ९. ६३ ॥
यत्फलं लभते जन्तः पूजया शिवयोगिनः ।
तदक्षयमिति प्रोक्तं सकलागमपारगैः ॥ ९. ६४ ॥
नावमन्येत कुत्रापि शिवयोगिन मागतं ।
अवमानाद्भवेत्त स्य दुर्गतिश्च न संशयः ॥ ९. ६५ ॥
शिवयोगी शिवः साक्षादिति कैङ्कर्य भक्तितः ।
पूजये दादरणैव यथालिङ्गं यथा गुरुं ॥ ९. ६६ ॥
१२. प्रसाद स्वीकार स्थलं
पादोदकं यथा भक्त्या स्वीकरोति महेशितुः ।
तथा शिवात्मनोर्नित्यं गुरुजङ्गम योरपि ॥ ९. ६७ ॥
सर्व मङ्गल माङ्गल्यं सर्व पावन पावनं ।
सर्व सिद्धिकरं पुंसां शम्भोः पादाम्बु धारणं ॥ ९. ६८ ॥
शिरसा धारयेद्यस्तु पत्रं पुष्पं शिवार्पितं ।
प्रतिक्षणं भवेत्तस्य पौण्डरीक क्रिया फलं ॥ ९. ६९ ॥
भुञ्जीत रुद्र भुक्तान्नं रुद्रपीत जलं पिबेत् ।
रुद्राघ्रातं सदा जिघ्रे दिति जाबालिकी श्रुतिः ॥ ९. ७० ॥
अर्पयित्वा निजे लिङ्गे पत्रं पुष्पं फलञ्जलं ।
अन्नाद्यं सर्वभोज्यं च स्वीकुर्याद्भक्ति मान्नरः ॥ ९. ७१ ॥
गुरुत्वात्सर्वलोकानां शम्भोरमित तेजसः ।
तस्मै निवेदितं सर्वं स्वीकार्यं तत्परायणैः ॥ ९. ७२ ॥
ये लिङ्गधारिणोलोके ये शिवैक परायणाः ।
तेषां तु शिव निर्माल्यमुचितं नान्यजन्तुषु ॥ ९. ७३ ॥
अन्न जाते तु भक्तेन भुज्यमाने शिवार्पिते ।
सिक्थे सिक्थेश्वमेधस्य यत्फलं तदवाप्यते ॥ ९. ७४ ॥
निर्माल्यं निर्मलं शुद्धं शिवेन स्वीकृतं यतः ।
निर्मलैस्तत्परैर्धार्यं नान्यैः प्राकृतजन्तुभिः ॥ ९. ७५ ॥
शिवभक्ति विहीनानां जन्तूनां पापक्मणां ।
विशुद्धे शिवनिर्माल्ये नाधिकारोस्ति कुत्रचित् ॥ ९. ७६ ॥
शिवलिङ्गं प्रसादस्य स्वीकाराद्यत्फलं भवेत् ।
तथा प्रसाद स्वीकारद्गुरु जङ्गमयोरपि ॥ ९. ७७ ॥
तस्माद्गुरुं महादेवं शिवयोगिन मेव च ।
पूजयेत्तत्प्रसादान्नं भुञ्जीत प्रतिवासरं ॥ ९. ७८ ॥
१३. सोपाधिदानस्थलं
शिवलिङ्गे शिवाचार्ये शिवयोगिनि भक्तिमान् ।
दानं कुर्याद्यथाशक्ति तत्प्रसादयुतः सदा ॥ ९. ७९ ॥
दानं तु त्रिविधं प्रोक्तं सोपाधि निरुपाधिकं ।
सहजं चेति तन्त्रेषु सर्व तन्त्र विशारदैः ॥ ९. ८० ॥
फलाभिसन्धि सण्युक्तं दानं तद्विहितं भवेत् ।
तत्सोपाधिक माख्यातं मुमुक्षुभिरनादृतं ॥ ९. ८१ ॥
१४. निरुपाधिक दान स्थलं
फलाभि सन्धिनिर्मुक्तमीश्वरार्पित काङ्क्षितं ।
निरुपाधिकमाख्यातं दानं दान विशारदैः ॥ ९. ८२ ॥
१५. सहजदानस्थलं
अदातृदातृ देयानां शिवभावं विचिन्त्यहि ।
आत्मनोकर्तृभावं च यद्दत्तं सहजन्तुतत् ॥ ९. ८३ ॥
सहजं दानमुत्कृष्टं सर्वदानोत्तमोत्तमं ।
शिवज्ञानप्रदं पुंसां जन्मरोग निवर्तकं ॥ ९. ८४ ॥
शिवाय शिवभक्ताय दीयते यदि किञ्चन ।
भक्त्यातदपि विख्यातं सहजं दानमुत्तमं ॥ ९. ८५ ॥
दानात् स्वर्ण सहस्रस्य सत्पात्रे यत्फलं भवेत् ।
एकपुष्प प्रदानेन शिवे तत्फलमिष्यते ॥ ९. ८६ ॥
शिव एव परं पात्रं सर्वविद्यानिधिर्गुरुः ।
तस्मै दत्तन्तु यत्किञ्चि त्तदनन्तफलं भवेत् ॥ ९. ८७ ॥
शिवयोगीः शिवः साक्षाच्छिवज्ञान महोदधिः ।
यत्किञ्चिद्दीयते तस्मै तद्दानं पारमार्धिकं ॥ ९. ८८ ॥
शिवयोगी महापात्रं सर्वेषां दानकर्मणि ।
तस्मान्नास्ति परङ्किञ्चित्पात्रं शास्त्र विचारतः ॥ ९. ८९ ॥
भिक्षामात्रप्रदानेन शान्ताय शिवयोगिने ।
यत्फलं लभ्यते नैतद्यज्ञकोटिशतैरपि ॥ ९. ९० ॥
शिवयोगिनि सन्तृप्ते तृप्तो भवति शङ्करः ।
तत्तृप्त्या तन्मयं विश्वं तृप्ति मेति चराचरं ॥ ९. ९१ ॥
तस्मात्सर्वप्रयत्नेन येन केनापि कर्मणा ।
तृप्तिं कुर्यात्सदाकालमन्नाद्वैः शिवयोगिनः ॥ ९. ९२ ॥
निरुपाधिक चिद्रूप परानन्दात्म वस्तुनि ।
समाप्तं सकलं यस्य स दानी शङ्करः स्वयं ॥ ९. ९३ ॥
उक्ताखिलाचार परायणोसौ सदा वितन्वन् सहजं तु दानं ।
ब्रह्मादिसम्पत्सु विरक्त चित्तो भक्तोहि महेश्वर तामुपैति ॥ ९. ९४ ॥
इति श्री सिद्धान्त शिखामणौ भक्तस्थले भक्तमार्गक्रियास्थलादि
सप्तविध स्थल प्रसङ्गोनाम नवम परिच्छेदः परिसमाप्तः ॥ ९ ॥
दशम परिच्छेदः माहेश्वरस्थलं
अगस्त्य उवाच
भक्तस्थलं समाख्यातं भवता गणनायक ।
केन वा धर्मभेदेन भक्तो माहेश्वरो भवेत् ॥ १०. १ ॥
रेणुक उवाच
केवलं सहजेदाने निष्णातः शिवतत्परः ।
ब्रह्मादिस्थान विमुखो भक्तो माहेश्वरः स्मृतः ॥ १०. २ ॥
भक्तेर्यदा समुत्कर्षो भवेद्वैराग्य गौरवात् ।
तदा माहेश्वरः प्रोक्तो भक्तः स्थिर विवेकवान् ॥ १०. ३ ॥
माहेश्वरस्थलं वक्ष्ये यथोक्तं शम्भुना पुरा ।
माहेश्वर प्रशंसादौ लिङ्गनिष्ठा ततः परं ॥ १०. ४ ॥
पुर्वाश्रय निरासश्च तदाद्वैतनिराकृति ।
आह्वानवर्जनं पश्चादष्टमूर्ति निराकृतिः ॥ १०. ५ ॥
सर्वगत्य निरासश्च शिवत्वं विश्वभक्तयोः ।
एवं नवविधं प्रोक्तं माहेश्वर महास्थलं ॥ १०. ६ ॥
अदितः क्रमशो वक्ष्ये स्थल भेदस्य लक्षणं ।
समाहितेन मनसा श्रूयतां भवता मुने ॥ १०. ७ ॥
१६. महेश्वर प्रशंसा स्थलं
विश्वस्मा दधिको रुद्रो विश्वानुग्रहकारकः ।
इति यस्य स्थिरा बुद्धिः सवै माहेश्वर स्मृतः ॥ १०. ८ ॥
ब्रह्माद्वैर्मलिन प्रायैर्निर्मले परमेश्वरे ।
साम्योक्तिं योन सहते स वै माहेश्वराभिदः ॥ १०. ९ ॥
ईश्वरः सर्वभूतानां ब्रह्मादीनां महानिति ।
बुद्धियोगात्त दासक्तो भक्तो माहेश्वर स्मृतः ॥ १०. १० ॥
ब्रह्मादि देवता जालं मोहितं मायया सदा ।
आशक्तं मुक्ति दाने तुक्षयातिशयसण्युतं ॥ १०. ११ ॥
अनादिमुक्तो भगवानेक एव महेश्वरः ।
मुक्तिदश्चेतियो वेदसवैमाहेश्वरः स्मृतः ॥ १०. १२ ॥
क्षयातिशयसण्युक्ता ब्रह्मविष्ण्वादि सम्पदः ।
तृणवन्मन्यते बुद्ध्या वीरमाहेश्वरः सदा ॥ १०. १३ ॥
शब्द स्पर्शादि सम्पन्नो सुखलेशेतु निस्पृहः ।
शिवानन्दे समुत्कण्ठो वीरमाहेश्वरो भवेत् ॥ १०. १४ ॥
परस्त्री सङ्गनिर्मुक्तः परद्रव्य पराज्ञ्मुखः ।
शिवार्थ कार्य सम्पन्नः शिवागम परायणः ॥ १०. १५ ॥
शिवस्तुति रसास्वाद मोदमानमनाः शुचिः ।
शिवोत्कर्षप्रमाणानां सम्पादनसमुद्यतः ॥ १०. १६ ॥
निर्ममो निरहङ्कारो निरस्तक्लेश पञ्जरः ।
अस्पृष्टमद सम्बन्धो मात्सर्यावेश वर्जितः ॥ १०. १७ ॥
निरस्तमदनोन्मेषो निर्धूतक्रोधविप्लवः ।
सदा सन्तुष्टहृदयः सर्वप्राणि हिते रतः ॥ १०. १८ ॥
निवारण समुद्योगी शिवकार्य विरोधिनां ।
सहचारी सदाकालं शिवोत्कर्षाभिदायिभिः ॥ १०. १९ ॥
शिवापकर्ष सम्प्राप्तौ प्राणत्यागेप्यशङ्कितः ।
शिवैकनिष्ठः सर्वात्मा वीरमाहेश्वरो भवेत् ॥ १०. २० ॥
१७. लिङ्गनिष्ठास्थलं
अन्य माहेश्वर स्योक्तं लिङ्गनिष्ठामहास्थलं ।
प्राणात्ययोपि सम्पन्ने यदत्याज्यं विधीयते ॥ १०. २१ ॥
अपगच्छतु सर्वस्वं शिरश्चेदनमस्तुवा ।
माहेश्वरो न मुञ्चेत्तु लिङ्गपूजा महाव्रतं ॥ १०. २२ ॥
लिङ्गपूजामकृत्यातु मानवायेन भुञ्जते ।
तेषां महात्मनां हस्ते मोक्षलक्ष्मी रुपस्थिता ॥ १०. २३ ॥
किमन्यैर्थर्मकलिलैः कीकसार्थ प्रदायिभिः ।
साक्षान्मोक्षप्रदः शम्भोर्धर्मो लिङ्गार्चनात्मकः ॥ १०. २४ ॥
अर्पितेनान्न पानेन लिङ्गेनियमपूजिते ।
ये देहवृत्तिङ्कुर्वन्ति महामहेश्वरा हिते ॥ १०. २५ ॥
चिन्मये शाङ्करे लिङ्गे स्थिरं येषां मनः सदा ।
विमु क्तेतर सर्वार्थं ते शिवा नात्र संशयः ॥ १०. २६ ॥
लिङ्गे यस्य मनोलीनं लिङ्गस्तुति परा चवाक् ।
लिङ्गार्चनपरौ हस्तौ स रुद्रो नात्र संशयः ॥ १०. २७ ॥
लिङ्गनिष्ठस्य किं तस्य कर्मणा स्वर्ग हेतुना ।
नित्यानन्द शिवप्राप्ति र्यस्य शास्त्रेषु निश्चिता ॥ १०. २८ ॥
लिङ्गनिष्ठापरं शान्तं भूति रुद्राक्ष सण्युतं ।
प्रशंसन्ति सदाकालं ब्रह्माद्या देवता मुदा ॥ १०. २९ ॥
१८. पूर्वाश्रय निरसन स्थलं
लिङ्गैक निष्ठ हृदयः सदा महेश्वरो जनः ।
पूर्वाश्रयगतान् धर्मांस्त्य जेत् स्वाचाररोधकान् ॥ १०. ३० ॥
स्वजातिकुलजान् धर्मान् लिङ्गनिष्ठाविरोधिनः ।
त्यजन् माहेश्वरो ज्ञेयः पूर्वाश्रय निरासकः ॥ १०. ३१ ॥
शिवसंस्कारयोगेन विशुद्धानां महात्मनां ।
किं पूर्वकालिकैर्धर्मैः प्राकृतानां हि ते मताः ॥ १०. ३२ ॥
शिवसंस्कारयोगेन शिवधर्मानुषङ्गिणां ।
प्राकृतानां न धर्मेषु प्रवृत्ति रुप पद्यते ॥ १०. ३३ ॥
विशुद्धाः प्राकृताश्चेति द्विविधा मानुषाः स्मृताः ।
शिवसंस्कारिणः शुद्धाः प्राकृता इतरे मताः ॥ १०. ३४ ॥
वर्णाश्रमादि धर्माणां व्यवस्थाहिद्विधा मता ।
एका शिवेन निर्दिष्टा ब्रह्मणा कथिता परा ॥ १०. ३५ ॥
शिवोक्त धर्म निष्णातु शिवाश्रम निषेविणं ।
शिव संस्कारहीनानां धर्मः पैता महःस्मृतः ॥ १०. ३६ ॥
१९. सर्वाद्वैत निरसन स्थलं
पूज्यपूजकयोर्लिङ्ग जीवयोर्भेदवर्जने ।
पूजाकर्माद्यसम्पत्तेर्लिङ्ग निष्ठाविरोधतः ॥ १०. ३७ ॥
सर्वाद्वैत विचारस्य ज्ञानाभावो व्यवस्थितः ।
भवेन्माहेश्वरः कर्मी सर्वाद्वैत निरासकः ॥ १०. ३८ ॥
प्रेरकं शङ्करं बुद्ध्वा प्रेर्यमात्मनमेवच ।
भेदात्तं पूजयेन्नित्यं नचा द्वैता परोभवेत् ॥ १०. ३९ ॥
पतिः साक्षान्महादेवः पशुरेष तदाश्रयः ।
अनयोः स्वामिभृत्यत्वमभेदे कथमिष्यति ॥ १०. ४० ॥
साक्षात् कृतं परं तत्त्वं यदाभवति बोधतः ।
तदन् द्वैतसमापत्ति र्जानहीनस्यन क्वचित् ॥ १०. ४१ ॥
भेदस्य कर्म हेतुत्वाद्व्यवहार प्रवर्तते ।
लिङ्गपूजादिकर्मस्थो नचान् द्वैतं समाचरेत् ॥ १०. ४२ ॥
पूजादिव्यवहारः स्याद्भेदाश्रयतया सदा ।
लिङ्गपूजापरस्तस्मान्ना द्वैते निरतो भवेत् ॥ १०. ४३ ॥
२०. आह्वान निरसन स्थलं
लिङ्गार्चन परः शुद्धः सर्वाद्वैत निरासकः ।
स्वेष्टलिङ्गे शिवाकारे न तमावाहयेच्छिवं ॥ १०. ४४ ॥
यदा शिवकलायुक्तं लिङ्गं दद्यान्महागुरुः ।
तदारभ्य शिवस्तत्र तिष्टत्याह्वानमत्र किं ॥ १०. ४५ ॥
स संस्कारेषु लिङ्गेषु सदा सन्निहितः शिवः ।
तत्राह्वानं न कर्तव्यं प्रतिपत्ति विरोधतः ॥ १०. ४६ ॥
नाह्वानं न विसर्जं च स्वेष्टलिङ्गे तु कारयेत् ।
लिङ्गनिष्ठापरो नित्यमिति शास्त्रस्य निश्चयः ॥ १०. ४७ ॥
२१. अष्टमूर्ति निरसन स्थलं
यथात्म शिवयोरैक्यं न मतं कर्म सङ्गिनः ।
तथा शिवात् पृथिव्या देरद्वैतमपि नेष्यते ॥ १०. ४८ ॥
पृथिव्याद्यष्टमूर्तित्वमीश्वरस्य प्रकीर्तितं ।
तदधिष्ठातृ भावेन न साक्षादेकभावतः ॥ १०. ४९ ॥
पृथिव्याद्यात्म पर्यन्तप्रपञ्चोह्यष्टधास्थितः ।
नैतत्साक्षान्महेशोयं कुलालः कलशो यथा ॥ १०. ५० ॥
पृथिव्याद्यात्मा पर्यन्तप्रपञ्चो ह्यष्टधास्थितः ।
तनुरीशस्य चात्मयं सर्वतत्त्व नियामकः ॥ १०. ५१ ॥
शरीर भूतदेतस्मात् प्रपञ्चात्परमेष्ठिनः ।
आत्म भूतस्य देवस्य नाभेदो न पृथक् स्थितिः ॥ १०. ५२ ॥
अचेतनत्वात् पृथ्व्या देरज्ञत्वादात्म नस्तथा ।
सर्वज्ञस्य महेशस्य नैकरूपत्वमिष्यते ॥ १०. ५३ ॥
इतियश्चिन्तयेन्नित्यं पृथ्व्यादेरष्टमूर्ति तः ।
विलक्षणं महादेवं सोष्टमूर्ति निरासकः ॥ १०. ५४ ॥
२२. सर्वगत्वनिरसनस्थलं
सर्वगत्वे महेशस्य सर्वत्राराधनं भवेत् ।
न लिङ्गमात्रे तन्निष्टो न शिवं सर्वगं स्मरेत् ॥ १०. ५५ ॥
सर्वगोपि स्थितः शम्भुः स्वाधारे हि विशेषतः ।
तस्मादन्यत्र विमुखः स्वेष्टलिङ्गे यजेच्छिवं ॥ १०. ५६ ॥
शिवः सर्वगतश्चापि स्वाधारे व्यज्यते भृशं ।
शमीगर्भे यथावह्निर्विशेषेण विभाव्यते ॥ १०. ५७ ॥
सर्वगत्वं महेशस्य सर्वशास्त्र विनिश्चितं ।
तथाप्याश्रयलिङ्गादौ पूजार्थमधिका स्थितिः ॥ १०. ५८ ॥
तस्मात्सर्वप्रयत्नेन सर्वस्थान पराज्ञ्मुखः ।
स्वेष्टलिङ्गे महादेवं पूजयेत्पूजकोत्तमः ॥ १०. ५९ ॥
शिवस्य सर्वगत्वेपि सर्वत्र रतिवर्जितः ।
स्वेष्टलिङ्गे यजन् देवं सर्वगत्व निरासकः ॥ १०. ६० ॥
२३. शिवजगन्मयस्थलं
पूजा विधौ नियम्यत्वाल्लिङ्ग मात्रे स्थितं शिवं ।
पूजयन्नपि देवस्य सर्वगत्वं विभावयेत् ॥ १०. ६१ ॥
यस्मादेतत्समुत्पन्नं महादेवाच्चराचरं ।
तस्मादेतन्न भिद्येत यथा कुम्भादिकं मृदः ॥ १०. ६२ ॥
शिवतत्त्वात्समुत्पन्नं जगदस्मान्नभिद्यते ।
फेनोर्मिबुद्बुदाकारो यथासिन्धोर्नभिद्यते ॥ १०. ६३ ॥
यथा तन्तुभिरुत्पन्नः पटस्तन्तुमयः स्मृतः ।
तथा शिवात्समुत्पन्नं शिव एव चराचरं ॥ १०. ६४ ॥
आत्मशक्तिविकासेन शिवो विश्वात्मना स्थितः ।
कुटीभावाद्यथा भाति पटः स्वस्य प्रसारणात् ॥ १०. ६५ ॥
पत्रशाखादिरूपेण यथा तिष्ठति पादपः ।
तथा भूम्यादिरूपेण शिव एको विराजते ॥ १०. ६६ ॥
२४. भक्तदेहिक लिङ्गस्थलं
समस्तजगदात्मापि शङ्करः परमेश्वरः ।
भक्तानां हृदयाम्भोजे विशेषेण विराजिते ॥ १०. ६७ ॥
कैलासे मन्दरे चैव हिमाद्रौ कनकाचले ।
हृदयेषु च भक्तानां विशेषेण शिवः स्थितः ॥ १०. ६८ ॥
सर्वात्मापि परिच्छिन्नो यथा देहेषु वर्तते ।
तथास्वकीयभक्तेषु शङ्करो भासते सदा ॥ १०. ६९ ॥
नित्यं भाति त्वदीयेषु या ते रुद्र शिवा तनूः ।
अघोरा पापकाशीति श्रुतिराह सनातनी ॥ १०. ७० ॥
विशुद्धेषु विरक्तेषु विवेकिषु महात्मसु ।
शिवस्तिष्ठति सर्वात्मा शिवलाण्छन धारिषु ॥ १०. ७१ ॥
नित्यं सन्तोषयुक्तानां ज्ञाननिर्धूतकर्मणां ।
माहेश्वराणा मन्तस्थो विभाति परमेश्वरः ॥ १०. ७२ ॥
अन्यत्र शम्भोरति मात्रशून्यो निजेष्ठलिङ्गे नियतान्तरात्मा ।
शिवात्मकं विश्वमिदं विबुध्यन् माहेश्वरोसौ भवति प्रसादी ॥ १०. ७३ ॥
इति श्री सिद्धान्त शिखामणौ महेश्वरस्थितो महेश्वर प्रशंसादि
नवविध स्थल प्रसङ्गोनाम दशम परिच्छेदः परिसमाप्तः ॥ १० ॥
एकादशपरिच्छेदः
अगस्त्य उवाच
उक्तो माहेश्वर स्साक्षाल्लिङ्ग निष्ठादिधर्मवान् ।
कथमेष प्रसादीति कथ्यते गणनायक ॥ ११. १ ॥
रेणुक उवाच
लिङ्गनिष्ठादिभावेन ध्वस्तपापनिबन्धनः ।
मनः प्रसादयोगेन प्रसादीत्येष कथ्यते ॥ ११. २ ॥
प्रसादिस्थलमित्येतदन्य माहत्म्य बोधकं ।
अन्तरस्थल भेदेन सप्तधा परिकिर्तीतं ॥ ११. ३ ॥
प्रसादिस्थलमादौतुगुरुमहात्म्यकं ततः ।
ततो लिङ्गप्रशंसाचततो जङ्गम गौरवं ॥ ११. ४ ॥
ततो भक्तस्य माहत्म्यं ततः शरण कीर्तनं ।
शिवप्रसादमाहत्म्यमिति सप्तप्रकारकं ।
क्रमाल्लक्षणमेतेषां कथयामि महामुने ॥ ११. ५ ॥
२५. प्रसादि स्थलं
नैर्मल्यं मनसो लिङ्गं प्रसाद इतिकथ्यते ।
शिवस्य लिङ्गरूपस्य प्रसादादेव सिद्ध्यति ॥ ११. ६ ॥
शिवप्रसादो यद्द्रव्यं शिवाय विनि वेदितं ।
निर्माल्यं तत्तु शैवानां मनो नैर्मल्यकारणं ॥ ११. ७ ॥
मनः प्रसाद सिद्ध्यर्थं निर्मल ज्ञान कारणं ।
शिवप्रसादं स्वीकुर्यान् प्रसादीत्येष कथ्यते ॥ ११. ८ ॥
अन्न शुद्ध्या हि सर्वेषां तत्त्वशुद्धि रुदाहृता ।
विशुद्ध मन्न जातं हि यच्छिवाय समर्पितं ॥ ११. ९ ॥
तदेव सर्वकालं तु भुञ्जानो लिङ्ग तत्परः ।
मनः प्रसादमतुलं लभते ज्ञानकारणं ॥ ११. १० ॥
आत्मभोगाय नियतं यद्यद्द्रव्यं समाहितं ।
तत्तत्समर्प्य देवाय भुञ्जीतात्म विशुद्धये ॥ ११. ११ ॥
नित्यसिद्धेन देवेन भिषजा जन्मरोगिणां ।
यद्यत्प्रसादितं भुक्त्वा तत्तज्जन्म रसायनं ॥ ११. १२ ॥
आरोग्यकारणं पुंसामन्तःकरण शुद्धिदं ।
तापत्रयमहारोगसमुद्धरण भेषजं ॥ ११. १३ ॥
विद्यावैशद्यकरणं विनिपात विघातनं ।
द्वारं ज्ञानावतारस्य मोहच्छेदस्य कारणं ॥ ११. १४ ॥
वैराग्यसम्पदो मूलं ममानन्दप्रवर्थनं ।
दुर्लभं पापचित्तानां सुलभं शुद्धकर्मणां ॥ ११. १५ ॥
अदृतं ब्रह्मा विष्ण्वा द्वैर्य सिष्ठाद्वैश्च तापसैः ।
शिवस्वीकृतमन्नाद्यं स्वीकार्यं सिद्धि काङ्क्षिभिः ॥ ११. १६ ॥
पत्रं पुष्पं फलं तोयं यच्छिवाय निवेदितं ।
तत्तत् स्वीकार योगेन सर्व पापक्षयो भवेत् ॥ ११. १७ ॥
२६. गुरुमाहत्म्य स्थलं
यथा शिवप्रसादान्नं स्वीकार्यं लिङ्गतत्परैः ।
तथागुरोः प्रसादान्नं तथैव शिवयोगिनां ॥ ११. १८ ॥
गुरुरेवात्र सर्वेषां कारणं सिद्धि कर्मणां ।
गुरुरूपो महादेवो यतः साक्षादुपस्थितः ॥ ११. १९ ॥
निष्कलोनपि महादेवो नित्यज्ञानमहोदधिः ।
सकलो गुरुरूपेण सर्वानुग्राहको भवेत् ॥ ११. २० ॥
यः शिवः स गुरुर्ज्ञेयो यो गुरुः स शिवः स्मृतः ।
न तयोरन्तरं कुर्याद् ज्ञानावाप्त्यै महामतिः ॥ ११. २१ ॥
हस्त पादादि सौम्येन नेतरैः सदृशं वदेत् ।
आचार्यं ज्ञानदं शुद्धं शिवरूपतया स्थितं ॥ ११. २२ ॥
आचार्य स्यावमानेन श्रेयःप्राप्ति र्विहन्यते ।
तस्मान्निश्रेयसः प्राप्त्यै पूजयेत्तं समाहितः ॥ ११. २३ ॥
गुरुभक्ति विहीनस्य शिवभक्तिर्नजायते ।
अतः शिवे यथा भक्ति स्तथा भक्तिर्गुरावपि ॥ ११. २४ ॥
२७. लिङ्गमाहत्म्यस्थलं
गुरुमाहत्म्य योगेन निजज्ञानातिरेकतः ।
लिङ्गस्यापिच माहत्म्यं सर्वोत्कृष्टं विभाव्यते ॥ ११. २५ ॥
शिवस्य बोधलिङ्गं यद्गुरु बोधित चेतसा ।
तदेव लिङ्गं विज्ञेयं शाङ्करं सर्वकारणं ॥ ११. २६ ॥
परं पवित्रममलं लिङ्गं ब्रह्म सनातनं ।
शिवाभिदानं चिन्मात्रं सदानन्दं निरङ्कुशं ॥ ११. २७ ॥
कारणं सर्वलोकानां वेदानामपि कारणं ।
पूरणं सर्वतत्त्वानां तारणं जन्मवारिधेः ॥ ११. २८ ॥
ज्योतिर्मयमनिर्देश्यं योगिनामात्मनि स्थितं ।
कथं विज्ञायते लोके महागुरुदयां विना ॥ ११. २९ ॥
ब्रह्मणा विष्णुना पूर्वं यल्लिङ्गं ज्योतिरात्मकं ।
अपरिच्छेद्य मभवत् केन वा परिबोध्यते ॥ ११. ३० ॥
बहुनात्र किमुक्तेन लिङ्गं ब्रह्म सनातनं ।
योगिनो यत्र लीयन्ते मुक्त पाशनिबन्धनाः ॥ ११. ३१ ॥
पीठिका परमा शक्ति र्लिङ्गं साक्षात्परः शिवः ।
शिवशक्ति समायोगं विश्वं लिङ्गं तदुच्यते ॥ ११. ३२ ॥
ब्रह्मादयः सुराः सर्वे मुनयः शौनकादयः ।
शिवलिङ्गार्चना देव स्वं स्वं पदमवाप्नुवन् ॥ ११. ३३ ॥
विश्वाधिपत्य मीशस्य लिङ्गमूर्ते स्वभावजं ।
अनन्य देव सादृश्यं श्रुतिराहसनातनी ॥ ११. ३४ ॥
२८. जङ्गम माहत्म्यस्थलं
गुरुशिष्यसमारूढलिङ्ग माहत्म्य सम्पदः ।
सर्वचिद्रूपविज्ञानाज्जङ्ग माधिक्यमुच्यते ॥ ११. ३५ ॥
जानन्त्यतिशया द्ये तु शिवं विश्वप्रकाशकं ।
स्वस्वरूपतया ते तु जङ्गमा इति कीर्तिताः ॥ ११. ३६ ॥
ये पश्यन्ति जगज्जालं चिद्रूपं शिवयोगतः ।
निर्धूतमल संस्पर्शास्ते स्मृताः शिवयोगिनः ॥ ११. ३७ ॥
घोर संसार तिमिरपरिध्वंसन कारणं ।
येषामस्ति शिवज्ञानं ते मताः शिवयोगिनः ॥ ११. ३८ ॥
समाः शत्रौ च मित्रे च साक्षात्कृत शिवात्मकाः ।
निःस्पृहा निरहङ्कारा वर्तन्ते शिवयोगिनः ॥ ११. ३९ ॥
दुर्लभं हि शिवज्ञानं दुर्लभं हि शिवचिन्तनं ।
येषामेतद्द्वयं चासि तेहि साक्षाच्छिवात्मकाः ॥ ११. ४० ॥
पादाग्ररेणवो यत्र पतन्ति शिवयोगिनां ।
तदेव सदनं पुण्यं पावनं गृहमेधिनां ॥ ११. ४१ ॥
सर्वसिद्धिकरं पुंसां दर्शनं शिवयोगिनां ।
स्पर्शनं पापशमनं पूजनं मुक्ति साधनं ॥ ११. ४२ ॥
महतां शिवतात्पर्यवेदिनामनुमोदिनां ।
किम्वाफलं हिनोसिद्ध्येत् सम्पर्काच्छिवयोगिनां ॥ ११. ४३ ॥
२९. भक्तमाहत्म्य स्थलं
गुरोर्लिङ्गस्य माहत्म्यकथनाच्छिवयोगिनां ।
सिद्धं भक्तस्य माहत्म्यं तथा ह्येष प्रशस्यते ॥ ११. ४४ ॥
ये भजन्ति महादेवं परमात्मा समव्ययं ।
कर्मणा मनसा वाचा ते भक्ता इति कीर्तिताः ॥ ११. ४५ ॥
दुर्लभाः हि शिवे भक्तिः संसारभयतारिणी ।
सा यत्र वर्तते साक्षात् स भक्त इति गीयते ॥ ११. ४६ ॥
किं वेदैः किं ततः शास्त्रेः किं यज्ञैः किं तपोव्रतैः ।
नास्ति चेच्छाङ्करी भक्ति र्देहिनां जन्मरोगितां ॥ ११. ४७ ॥
शिवभक्ति विहीनस्य सुकृतं चापि निष्फलं ।
विपरीत फलं च स्याद्दक्षस्यापि महाध्वरे ॥ ११. ४८ ॥
अत्यन्त पापकर्मापि शिवभक्त्या विशुद्ध्यति ।
चण्डो यथा पूराभक्त्या पितृहापिशिवोभवत् ॥ ११. ४९ ॥
सुकृतं दुष्कृतं चापि शिव भक्तस्य नास्ति हि ।
शिवभक्ति विहीना नां कर्मपाश निबन्धनं ॥ ११. ५० ॥
शिवाश्रितानां जन्तूनां कर्मना नास्ति सङ्गमः ।
वाजिनां दिननाथस्य कथं तिमिरजं भयं ॥ ११. ५१ ॥
निरोद्धुं नक्षमं कर्म शिवभक्तान् विशृङ्खलान् ।
कथं मत्तगजान् रुन्धे च्छृङ्खला बिसतन्तुजा ॥ ११. ५२ ॥
शुद्धा नियमसण्युक्ताः शिवार्पित फलागमाः ।
येर्चयन्ति शिवं लोके विज्ञेयास्ते गणेश्वराः ॥ ११. ५३ ॥
३०. शरण माहत्म्यस्थलं
गुरुलिङ्गादि महात्म्य बोधान्वेषणसङ्गतः ।
सर्वात्मना शिवापत्तिः शरण स्थानमुच्यते ॥ ११. ५४ ॥
ब्रह्मादि विबुधान् सर्वान् मुक्त्वा प्राकृत वैभवान् ।
प्रपद्यते शिवं यत्तु शरणं तदुदाहृतं ॥ ११. ५५ ॥
शरण्यः सर्वभूतानां शङ्करः शशिशेखरः ।
सर्वात्मना प्रसन्नस्तं शरणागत उच्यते ॥ ११. ५६ ॥
विमुक्त भोगलालस्यो देवतान्तरनिः स्पृहः ।
शिवमभ्यर्थयन् मोक्षं शरणार्थीति गीयते ॥ ११. ५७ ॥
ये प्रपन्ना महादेवं मनोवाक्कायकर्मभिः ।
तेषान्तु कर्मजातेन किं वा देवादितर्पणैः ॥ ११. ५८ ॥
सर्वेषामपि यज्ञानां क्षयी स्वर्गफलायते ।
अक्षयं फलमाप्नोति प्रपन्नः परमेश्वरं ॥ ११. ५९ ॥
प्रपन्न पारिजातास्य शिवस्य परमात्मनः ।
प्रपत्त्या किं न जायेत पापिनामपि देहिनां ॥ ११. ६० ॥
प्रपन्नानां महादेवं परिपक्वान्तरात्मनां ।
जन्मैव जन्मनान्येषां वृथा जननसङ्गिनां ॥ ११. ६१ ॥
दुर्लभं मानुषं प्राप्य जननं ज्ञानसाधनं ।
येन जानन्ति देवेशं तेषामात्म निरर्थकः ॥ ११. ६२ ॥
तत्कुलं हि सदा शुद्धं सफलं तस्य जीवितं ।
यस्य चित्तं शिवे साक्षाद्विलीनमबहिर्मुखं ॥ ११. ६३ ॥
३१. प्रसाद माहत्म्य स्थलं
गुरुलिङ्गादि माहत्म्य विशेषानुभवस्थितिः ।
यस्माच्छिव प्रसादात् स्यात्त दस्य महिमोच्यते ॥ ११. ६४ ॥
सदा लिङ्गैकनिष्ठानां गुरुपूजानुषङ्गिणां ।
प्रपन्नानां विशुद्धानां प्रसीदति महेश्वरः ॥ ११. ६५ ॥
प्रसादोनपि महेशस्य दुर्लभः परिकीर्त्यते ।
घोरसंसार सन्तापनिवृत्ति र्येन जायते ॥ ११. ६६ ॥
यज्ञास्तपांसि मन्त्राणां जपश्चिन्ता प्रबोधनं ।
प्रसादार्थं महेशस्य कीर्तितानि न संशयः ॥ ११. ६७ ॥
प्रसादमूलाः सर्वेषां भक्तिरव्यभिचारिणी ।
शिवप्रसादहीनस्य भक्तिश्चापि न सिद्ध्यति ॥ ११. ६८ ॥
गर्भस्थो जायमानो वा जातो वा ब्राह्मणोन थवा ।
अन्त्यजो वा पि मुच्येत प्रसादे सति शाङ्करे ॥ ११. ६९ ॥
ब्रह्माद्या विबुधाः सर्वे स्वस्वस्थानिवासिनः ।
नित्यसिद्धा भवन्त्येव प्रसादात्परमेश्वरात् ॥ ११. ७० ॥
प्रसादे शाम्भवे सिद्धे परमानन्दकारिणी ।
सर्वंशिवमयं विश्वं दृश्यते नात्र संशयः ॥ ११. ७१ ॥
संसारचक्र निर्वाहनिमित्तं कर्मकेवलं ।
प्रसादेनविना शम्भोर्नकस्यापि निवर्तते ॥ ११. ७२ ॥
बहुनात्र किमुक्तेन नास्ति नास्ति जगत्रये ।
समानमधिकं चापि प्रसादस्य महेशितुः ॥ ११. ७३ ॥
शिवप्रसादेसति योगा भाजः सर्वं शिवैकात्मत याविभाति ।
स्वकर्म मुक्तः शिव भावितात्मं सप्राणि लिङ्गीतिनि गद्यतेसौ ॥ ११. ७४ ॥
इति श्री सिद्धान्त शिखामणौ प्रसादिस्थले प्रसादिस्थलादि सप्तविध
स्थल प्रसङ्गोनाम एकादश परिच्छेदः परिसमाप्तः ॥ ११ ॥
द्वादश परिच्छेदः
अगस्त्य उवाच
भक्तो माहेश्वर श्चेति प्रसादीति निबोधितः ।
एक एव कथं चैष प्राणलिङ्गीति कथ्यते ॥ १२. १ ॥
रेणुक उवाच
भक्तो माहेश्वर श्चेति प्रसादीति च कीर्तितः ।
कर्मप्राधान्ययोगेन ज्ञानयोगोस्य कथ्यते ॥ १२. २ ॥
लिङ्गं चिदात्मकं ब्रह्म तच्छक्तिः प्राणरूपिणी ।
तद्रूपलिङ्ग विज्ञानी प्राणलिङ्गीति कथ्यते ॥ १२. ३ ॥
प्राणलिङ्गि स्थलं चैतत्पञ्च स्थलमन्वितं ।
प्राणलिङ्गिस्थलं चादौ प्राण लिङ्गार्चनं ततः ॥ १२. ४ ॥
शिवयोग समाधिश्च ततो लिङ्गनिजस्थलं ।
अङ्गलिङ्ग स्थलं चाथ क्रमादेषां भिदोच्यते ॥ १२. ५ ॥
३२. प्राणलिङ्गि स्थलं
प्राणा पानसमाघातात् कन्दमध्याद्यदुत्थि तं ।
प्राणलिङ्गं तदाख्यातं प्राणापाननिरोधिभिः ॥ १२. ६ ॥
प्राणो यत्र लयं याति भास्करेन्दु विघट्टनात् ।
तत् प्राण लिङ्ग मुद्धिष्टं तद्धारि स्यात्त दाकृतिः ॥ १२. ७ ॥
ज्ञानिनां योगयुक्तानामन्तःस्फुरति दीपवत् ।
चिदाकारं परं ब्रह्म लिङ्ग मज्ञैर्न भाव्यते ॥ १२. ८ ॥
अन्तः स्थितं परं लिङ्गं ज्योती रूपं शिवात्मकं ।
विहाय बाह्य लिङ्गस्था विमूढा इति कीर्तिताः ॥ १२. ९ ॥
नं विल्लिङ्ग परामर्शी बाह्य वस्तु पराज्ञ्मुखिः ।
यः सदा वर्तते योगी प्राणलिङ्गी स उच्यते ॥ १२. १० ॥
माया विकल्पजं विश्वं हेयं सञ्चित्य नित्यशः ।
चिदानन्दमये लिङ्गे विलीनः प्राण लिङ्गवान् ॥ १२. ११ ॥
सत्ता प्राणयमी शक्तिः सद्रूपं प्राण लिङ्गकं ।
तत्सामरस्य विज्ञानात् प्राणलिङ्गीति कथ्यते ॥ १२. १२ ॥
३३. प्राण लिङ्गार्चन स्थलं
अन्तर्गतं चिदाकारं लिङ्गं शिवमयं परं ।
पूज्यते भावपुष्पैर्यत्प्राण लिङ्गार्चनं हितत् ॥ १२. १३ ॥
अन्तः पवनसंस्पृष्टे सुसूक्ष्माम्बरशोभिते ।
मूर्धन्य चन्द्र विगलत्सुधासेकातिशीतले ॥ १२. १४ ॥
बद्धेन्द्रियनवद्वारे बोधदीपे हृदालये ।
पद्मपीठे समासीनं चिल्लिङ्गं शिवविग्रहं ।
भावयित्वा सदाकालं पूजयेद्भाववस्तुभिः ॥ १२. १५ ॥
क्षमाभिषेक सलिलं विवेको वस्त्रमुच्यते ।
सत्यमाभरणं प्रोक्तं वैराग्यं पुष्पमालिका ॥ १२. १६ ॥
गन्धः समादिसम्पत्ति रक्षतानिरहं कृतिः ।
श्रद्धा धूपो महाज्ञानं जगद्भासि प्रदीपिका ॥ १२. १७ ॥
भ्रान्ति मूल प्रपञ्चस्य नैवेद्यं तन्निवेदनं ।
मौनं घण्टापरिस्पन्दस्ताम्बूलं विषमार्पणं ॥ १२. १८ ॥
विषयभ्रान्तिराहित्यं तत् प्रदक्षिण कल्पना ।
बुद्धिस्तदात्मिकासक्ति र्नमस्कारक्रियामता ॥ १२. १९ ॥
एवं विधैर्भावशुद्धैरुपरि चारैरदूषितैः ।
प्रत्यज्ञ्मुखमना भूत्वा पूजयेल्लिङ्ग मान्तरं ॥ १२. २० ॥
३४. शिवयोग समाधि स्थलं
अन्तःक्रियारतस्यास्य प्राणलिङ्गार्चन क्रमैः ।
शिवात्म ध्यानसम्पत्तिः समाधिरिति कथ्यते ॥ १२. २१ ॥
सर्वतत्त्वोपरिगतं सच्चिदानन्द भासुरं ।
परब्रह्म महालिङ्गं प्राणो जीवः प्रकीर्तितः ।
तदेक बावमननात् समाधिस्थः प्रकीर्तितः ॥ १२. २२ ॥
बहिर्वासनमा विश्वं विकल्पार्थं प्रकाशते ।
अन्तर्वासितचित्ता नामात्मानन्दः प्रकाशते ॥ १२. २३ ॥
आत्मारणिसमुत्थेन प्रमोदमथनात्सुधीः ।
ज्ञानाग्निना दहेत्सर्वं पाशजालं जगन्मयं ॥ १२. २४ ॥
संसार विषवृक्षस्य पञ्चक्लेशः फलाशिनः ।
छेदने कर्म मूलस्य परशुः शिवभावना ॥ १२. २५ ॥
अज्ञानराक्षसोन्मेषकारिणः सम्हृतात्मना ।
शिवध्यानन्तु संसारतमसश्चण्ड भास्करः ॥ १२. २६ ॥
अन्तःषट्चक्ररूपाणि पङ्कजानि विभावयेत् ।
ब्रह्मादिस्थान भूतानि भ्रूमध्यान्तानि मूलतः ॥ १२. २७ ॥
भ्रूमध्यादूर्ध्वभागे तु सहस्रदलमम्बुजं ।
भावयेत्तत्र विमलं चन्द्रबिम्बं तदन्तरे ॥ १२. २८ ॥
सूक्ष्मरन्ध्रं विजानियात् तत्कैलासपदं विदुः ।
तत्रस्थं भावयेच्छम्भुं सर्वकारण कारणं ॥ १२. २९ ॥
सर्वतत्त्वोपरिगतं सच्चिदानन्द भासुरं ।
स्वप्रकाशमनिर्धेश्य वाज्ञ्मानस गोचरं ॥ १२. ३० ॥
उमाख्यया महाशक्त्या दीपितं चित्स्वरूपया ।
हंसरूपं परात्मनं सोहम्भावेन भावयेत् ।
तदेकतानता सिद्धिः समाधिः परमो मतः ॥ १२. ३१ ॥
३५. लिङ्गनिज स्थलं
स्वान्तःस्थ शिवलिङ्गस्य प्रत्यक्षानुभवस्थितिः ।
या सैव परलिङ्गस्य निजमित्युच्यते बुधैः ॥ १२. ३२ ॥
अव्यक्तं लिङ्गमित्याहुर्जगतां मूलकारणं ।
लिङ्गी महेश्वर श्चेति मतमेतदसङ्गतं ॥ १२. ३३ ॥
चिदानन्दमयः साक्षाच्छिव एव निरञ्जनः ।
लिङ्गमित्युच्यते वान्यद्यतः स्याद्विश्व सम्भवः ॥ १२. ३४ ॥
ब्रह्मविष्ण्वादयो देवाः सर्वे वेदादयस्तथा ।
लीयन्ते यत्र गम्यन्ते तल्लिङ्गं ब्रह्म केवलं ॥ १२. ३५ ॥
बहुनात्र किमुक्तेन लिङ्गमित्युच्यते बुधैः ।
शिवाभिधं परं ब्रह्म चिद्रूपं जगदास्पदं ॥ १२. ३६ ॥
ज्योतिर्मयं परं लिङ्गं श्रुतिराह शिवात्मकं ।
तस्यभासा सर्वमिदं प्रतिभाति न संशयः ॥ १२. ३७ ॥
न सूर्यो भाति तत्रेन्दुन्न विद्युन्न च पावकः ।
न तारका महालिङ्गे द्योतमाने परात्मनि ॥ १२. ३८ ॥
लिङ्गान्नास्ति परं तत्त्वं यदस्माज्ञायते जगत् ।
यतेतद्रूपतान्धत्ते यदत्र लयमश्नुते ॥ १२. ३९ ॥
तस्माल्लिङ्गं परं ब्रह्म सच्चिदानन्दलक्षणं ।
निजरूपमिति ध्यानात्त दवस्था प्रजायते ॥ १२. ४० ॥
३६. अङ्ग लिङ्ग स्थलं
ज्ञानमङ्गमिति प्राहुर्देयन्लिङ्गं सनातनं ।
विद्यते तद्द्वयं यस्य सोङ्गन्लिङ्गीति कीर्तितः ॥ १२. ४१ ॥
अङ्गे लिङ्गं समारूढं लिङ्गे चाङ्गमुपस्थितं ।
एतदस्ति द्वयं यस्य स भवेदङ्गलिङ्गवान् ॥ १२. ४२ ॥
ज्ञात्वा यः सततं लिङ्गं स्वान्तस्थं ज्योतिरात्मकं ।
पूजयेद्भावकुसुमैस्तं विद्यादङ्ग लिङ्गिनं ॥ १२. ४३ ॥
ज्ञायते लिङ्गमे वैकं सर्वैः शास्त्रैः सनातनैः ।
ब्रह्मेति विश्वधामेति विमुक्तेः पदमित्यपि ॥ १२. ४४ ॥
मुक्तिरूपमिदं लिङ्गमिति यस्य मनस्थितिः ।
स मुक्तो देहयोगेपि सज्ञानी स महागुरुः ॥ १२. ४५ ॥
अनादिनिधनं लिङ्गं कारणं जगतामिति ।
येन जानन्ति ते मूढा मोक्षमार्ग बहिष्कृताः ॥ १२. ४६ ॥
यः प्राणलिङ्गार्चन भावपूर्वै र्धर्मैरुपेतः शिवभावितात्मा ।
स एव तुर्यः परिकीर्त्यतेसौ सम्विद्विपा का च्छरणा भिदानः ॥ १२. ४७ ॥
इति श्री सिद्धान्त शिखामणौ प्राणलिङ्गिस्थले प्राणलिङ्गि स्थलादि
पञ्चस्थल प्रसङ्गोनाम द्वादश परिच्छेदः परिसमाप्तः ॥ १२ ॥
त्रयोदश परिच्छेदः
अगस्त्य उवाच
माहेश्वरः प्रसादीति प्राणिलिङ्गीति बोधितः ।
कथमेष समादिष्टः पुनः शरण संज्ञकः ॥ १३. १ ॥
श्री रेणुक उवाच
अङ्गलिङ्गी ज्ञानरूपः सतीज्ञेयः शिवः पतिः ।
यत्सौख्यं तत्समावेशे तद्वान् शरणनामवान् ॥ १३. २ ॥
स्थलमेतत्समाख्यातं चतुर्था धर्मभेदतः ।
अदौ शरणमाख्यातं ततस्तामसवर्जनं ॥ १३. ३ ॥
निर्देशश्च ततः प्रोक्तः शीलसम्पादनं ततः ।
क्रमाल्लक्षणमे तेषां कथयामि निशम्यतां ॥ १३. ४ ॥
३७. शरण स्थलं
सतीव रमणे यस्तु शिवे शक्तिं विभावयन् ।
तदन्यविमुखः सोर यं ज्ञातः शरणनामवान् ॥ १३. ५ ॥
परिज्ञाते शिवे साक्षात् को वान्यमभिकाङ्क्षति ।
निधाने महति प्राप्ते कः काचं याचतेन्यतः ॥ १३. ६ ॥
शिवानन्दं समासाद्य कोवान्यमुपतिष्ठते ।
गङ्गामृतं परित्यज्य कः काङ्क्षेन्मृगतृष्टिकां ॥ १३. ७ ॥
संसारतिमिरच्छेदे विना शङ्कर भास्करं ।
प्रभवन्ति कथं देवाः खद्योता इव देहिनां ॥ १३. ८ ॥
संसारार्तः शिवं यायाद्ब्रह्माद्यैः किं फलं सुरैः ।
चकोरस्तृषितः पश्येच्चन्द्रं किं तारका अपि ॥ १३. ९ ॥
शिव एव समस्तानां शरण्यः शरणार्थिनां ।
संसारोरगदष्टानां सर्वज्ञाः सर्वदोषहा ॥ १३. १० ॥
शिवज्ञाने समुत्पन्ने परानन्दः प्रकाशते ।
तदासक्त मना योगी नान्यत्र रमते सुधीः ॥ १३. ११ ॥
तस्मात्सर्व प्रयत्नेन शङ्करं शरणं गतः ।
तदनन्तसुखं प्राप्य मोदते नान्य चिन्तया ॥ १३. १२ ॥
३८. तामस निरसन स्थलं
शिवभक्ति परानन्दमोदिना गुरुणा यतः ।
निरस्यन्ते तमोभावाः स तामस निरासकः ॥ १३. १३ ॥
यस्य ज्ञानं तमोमिश्रं न तस्य गतिरिष्यते ।
सत्वं हि ज्ञानयोगस्य नैर्मल्यं विदुरुत्तमाः ॥ १३. १४ ॥
शमोदमो विवेकश्च वैराग्यं पूर्णभावना ।
क्षान्तिः कारुण्य सम्पत्तिः श्रद्धा सत्य समुद्भवा ॥ १३. १५ ॥
शिवभक्तिः परोधर्मः शिवज्ञानस्य बान्धवाः ।
ए तैर्युक्तो महायोगी सात्विकः परिकीर्तितः ॥ १३. १६ ॥
कामक्रोध महामोहमदमत्सरवारणाः ।
शिवज्ञानमृगेन्द्रस्य कथं तिष्ठन्ति सन्निधौ ॥ १३. १७ ॥
यत्र कुत्रपि यो द्वेष्टि प्रपञ्चे शिवरूपिणि ।
शिवद्वेषी न विज्ञेयो रजसाविष्टमानसः ॥ १३. १८ ॥
यो द्वेष्टि सकलान् लोकान् योवान् हङ्कुरुतेसदा ।
यो सत्यभावनायुक्तः स तामस इति स्मृतः ॥ १३. १९ ॥
तमोमूल हि सञ्जाता रागद्वेषादिपादपाः ।
शिवज्ञानकुठारेण छिद्यन्ते हि निरन्तरं ॥ १३. २० ॥
शिवज्ञाने समुत्पन्ने सहस्रादित्यसन्निभे ।
कुतस्तयोविकाराः स्युर्महतां शिवयोगिनां ॥ १३. २१ ॥
३९. निर्देशन स्थलं
निराकृत्य तमोभागं संसारस्य प्रवर्तकं ।
निर्दिश्यते तु यद् ज्ञानं स निर्देश इति स्मृतः ॥ १३. २२ ॥
गुरुरेव परं तत्त्वं प्रकाशयति देहिनां ।
को वा सूर्यं विना लोके तमसो विनिवर्तकः ॥ १३. २३ ॥
अन्तरेण गुरुं सिद्धं कथं संसारनिष्कृतिः ।
निदानज्ञां विना वैद्यं को वा रोगो निवर्तते ॥ १३. २४ ॥
अज्ञानमलिनं चित्त दर्पणं यो विशोधयेत् ।
प्रज्ञा विभूतियोगेन तमाहुर्गुरुसत्तमं ॥ १३. २५ ॥
अपरोक्षिततत्त्वस्य जीवन्मुक्त स्वभाविनः ।
गुरोः कटाक्षे संसिद्धे कोवा लोकेषु दुर्लभः ॥ १३. २६ ॥
कैवल्य कल्पतरवो गुरवः करुणालयाः ।
दुर्लभाहि जगत्यस्मिन् शिवद्वैत परायणाः ॥ १३. २७ ॥
क्षाराब्धिरिव सिन्धूनां सुमेरुरिव भूभृतां ।
ग्रहाणामिव तिग्मांशुर्मणीनामिव कौस्तुभः ॥ १३. २८ ॥
द्रुमाणा मिव भद्र श्रीर्देवाना मिव शङ्करः ।
गुरुः शिवः परः श्लाघ्योगुरूणां प्राकृतात्मनां ॥ १३. २९ ॥
४०. शील सम्पादन स्थलं
जिज्ञासा शिवतत्त्वस्य शीलमित्युच्यते बुधैः ।
निर्देशयोगादार्याणां तद्वान् शीलीति कथ्यते ॥ १३. ३० ॥
प्रसन्नार्ति हरे देवे परमात्मनि शङ्करे ।
भावस्य स्थिरतायोगः शीलमित्युच्यते बुधैः ॥ १३. ३१ ॥
शीलं शिवैक विज्ञानं शिवध्यानैकतानता ।
शिवप्राप्ति समुत्कण्ठा तद्योगी शीलवान स्मृतः ॥ १३. ३२ ॥
शिवादन्यत्र विज्ञाने वैमुख्यं यस्य सुस्थिरं ।
तदासक्ता मनोवृत्ति स्तमाहुः शीलभाजनं ॥ १३. ३३ ॥
पतिव्रताया यच्छीलं पतिरागात्प्रशस्यते ।
तथा शिवानुरागेण सुशीलो भक्त उच्यते ॥ १३. ३४ ॥
पतिं विना यथा स्त्रीणां सेवान्यस्यतुगर्हणा ।
शिवं विना तथान्येषां सेवा निन्दाकृतात्मनां ॥ १३. ३५ ॥
बहुनात्रकिमुक्तेन शिवज्ञानैकनिष्ठता ।
शीलमित्युच्यते सद्भिः शीलवां स्तत्परो मतः ॥ १३. ३६ ॥
शिवात्म बोधैकरतः स्थिराशयः शिवं प्रपन्नो जगतामधीश्वरं ।
शिवैकनिष्ठाहित शील भूषणः शिवैक्यवा नेष हि कथ्यते बुधैः ॥ १३. ३७ ॥
इति श्री सिद्धान्त शिखामणौ शरणस्थले शरणस्थलादि चतुर्विध
स्थल प्रसङ्गोनाम त्रयोदश परिच्छेदः परिसमाप्तः ॥ १३ ॥
चतुर्दशः परिच्छेदः
अगस्त्य उवाच
तामसत्याग सम्बन्धान्निर्देशाच्छीलतस्तथा ।
शरणाख्यस्य भूयोस्यकथमैक्यनिरूपणम् ॥ १४. १ ॥
श्री रेणुक उवाच
प्राणलिङ्गादियोगेन सुखातिशयमेयिवान् ।
शरणाख्यः शिवैनैक्यभावनादैक्यवान् भवेत् ॥ १४. २ ॥
ऐक्यस्थलमिदं प्रोक्तं चतुर्था मुनिपुङ्गव ।
ऐक्यमाचारसम्पत्ति रेक भाजनमेवच ।
सहभाजनमित्येषां क्रमाल्लक्षणमुच्यते ॥ १४. ३ ॥
४१. ऐक्यस्थलं
विषयानन्दकणिका निःस्पृहोनिर्मलाशयः ।
शिवानन्दमहासिन्धौ मज्जवादैक्यमुच्यते ॥ १४. ४ ॥
निर्धूतमलसम्बन्धो निष्कलङ्कमनोगतः ।
शिवोहमिति भावेन निरूढो हि शिवैकतां ॥ १४. ५ ॥
शिवेनैक्यं समापन्नश्चिदानन्दस्वरूपिणा ।
न पश्यति जगज्जालं माया कल्पित वैभवं ॥ १४. ६ ॥
ब्रह्माण्डबुद्बुदोद्भेदविजृम्भी तत्त्ववीचिमान् ।
मया सिन्धुर्लयं याति शिवैक्यबडवानले ॥ १४. ७ ॥
मायाशक्ति तिरोधानाच्छिवे भेदविकल्पना ।
आत्मनस्तद्विनाशेतुना द्वैतात् किञ्चिदिष्यते ॥ १४. ८ ॥
पशुत्वं च पतित्वं च मायामोहविकल्पितं ।
तस्मिन् प्रलयामापन्ने कः पशुः को नुवा पतिः ॥ १४. ९ ॥
घोरसंसार सर्पस्य भेदवल्मीकशायिनः ।
बाधकं परमाद्वैत भावना परमौषधं ॥ १४. १० ॥
भेदबुद्धि समुत्पन्न महासंसारसागरं ।
अद्वैत बुद्धि पोतेन समुत्तरति देशिकः ॥ १४. ११ ॥
अज्ञानतिमिरोद्रिक्ता कामरक्षःक्रियाकरी ।
संसारकालरात्रिस्तु नश्येदद्वैत भानुना ॥ १४. १२ ॥
तस्मादद्वैतभावस्य सदृशो नास्ति योगिनां ।
उपायो घोरसंसार महातापनिवृत्तये ॥ १४. १३ ॥
अद्वैतभावनाजातं क्षणमात्रेपि यत्सुखं ।
तत्सुखं कोटिवर्षैस्तु प्राप्यते नैव भोगिभिः ॥ १४. १४ ॥
चित्तवृत्ति समालीन जगतेः शिवयोगिनः ।
शिवानन्द परिस्फूर्तिर्मुक्ति रित्यभिदीयते ॥ १४. १५ ॥
४२. आचार सम्पत्ति स्थलं
शिवैकभावनापन्नशिवत्वो देहवानपि ।
देशिकोहिनलिप्येत स्वाचारैः सूतकादिभिः ॥ १४. १६ ॥
शिवाद्वैत परिज्ञाने स्थिरे सति मनस्विनां ।
कर्मणा किं नु भाव्यं स्यादकृतेन वा ॥ १४. १७ ॥
शम्भोरेकत्वभावेस सर्वत्र समदर्शनः ।
कुर्वन्नपि महाकर्म न तत्फलमवाप्नु यात् ॥ १४. १८ ॥
सुकृती दुष्कृती वापि ब्राह्मणोवान्त्यजोपिवा ।
शिवैकभावयुक्तानां सदृशो भवति ध्रुवं ॥ १४. १९ ॥
वर्णाश्रमसदाचारैज्ञानिनां किं प्रयोजनं ।
लौकिकस्तु सदाचारः फलाभावेपि भाव्यते ॥ १४. २० ॥
निर्धग्धकर्म बीजस्य निर्मलज्ञान वह्निना ।
देहिवद्भासमानस्य देहयात्रा तुलौकिकी ॥ १४. २१ ॥
शिवज्ञान समापन्न स्थिर वैराग्य लक्षणः ।
स्वकर्मणा नलिप्येत पद्मपत्रमिवां भसा ॥ १४. २२ ॥
गच्छंस्तिष्ठन् स्वपन्वापि जाग्रद्वापि महामतिः ।
शिवज्ञान समायोगाच्छिवपूजापरः सदा ॥ १४. २३ ॥
यद्यत्पश्यति सामोदं वस्तुलोकेषु देशिकः ।
शिवदर्शन सम्पत्तिस्तत्र तत्र महात्मनः ॥ १४. २४ ॥
यद्यच्छिन्तयते योगी मनसा शुद्धभावनः ।
तत्तच्छिवमयत्वेन शिवध्यानमुदाहृतं ॥ १४. २५ ॥
यत्किञ्चिद्भाषितं लोके स्वेच्छया शिवयोगिना ।
शिवस्तोत्रमिदं सर्वं यस्मात्सर्वात्मकः शिवः ॥ १४. २६ ॥
या या चेष्टा समुत्पन्ना जायते शिवयोगिनां ।
सासा पूजा महेशस्य सर्वदा तद्गतात्मनां ॥ १४. २७ ॥
४३. एकभाजनस्थलं
विश्वं शिवमयं चेति सदा भावयतो धिया ।
शवैकभाजनात्मत्वादेक बाजसमुच्चते ॥ १४. २८ ॥
स्वस्यसर्वस्य लोकस्य शिवस्याद्वैतदर्शनात् ।
एकभाजन योगेन प्रसादैक्य मतिर्भवेत् ॥ १४. २९ ॥
शिवे विश्वमिदं सर्वं शिवः सर्वत्र भासते ।
आधाराधेय भावेन शिवस्य जगतः स्थिति ॥ १४. ३० ॥
चिदेक भाजनं यस्य चित्तवृत्ति शिवात्मिका ।
नान्यत्तस्य किमेतेन मायामूलेन वसुना ॥ १४. ३१ ॥
चित् प्रकाशयते विश्वं तद्विना वस्तु नास्ति हि ।
चिदेकनिष्ठचित्तानां किं मायापरिकल्पितैः ॥ १४. ३२ ॥
वृत्ति शून्ये स्वहृदये शिवलीने निराकुले ।
यः सदा रमते योगी समुक्तो नात्र संशयः ॥ १४. ३३ ॥
४४. सहज भाजनस्थलं
गुरोः शिवस्य शिष्यस्य स्वस्वरूपतया स्मृतिः ।
सहभाजनमाख्यातं सर्वग्रासात्म भावतः ॥ १४. ३४ ॥
शिवं विश्वं गुरुं साक्षाद्योजय्येन्नित्यमात्मनि ।
एकत्वेन चिदाकारे तदिदं सहभाजनं ॥ १४. ३५ ॥
अहं शिवो गुरुश्यैष जगदेतच्चराचरं ।
अहं चेति मतिर्यस्य नास्त्यसौ विश्वभाजकः ॥ १४. ३६ ॥
अहं भृत्यः शिवः स्वामी शिष्योहं गुरुरेषवै ।
इति यस्य मतिर्नास्ति स चाद्वैतपदे स्थितः ॥ १४. ३७ ॥
पराहन्तामये स्वात्मपावके विश्वभासके ।
इदन्ता हव्यहोमेन विश्वहोमिति कथ्यते ॥ १४. ३८ ॥
अहं शिवो गुरुश्चाहमहं विश्वं चराचरं ।
ययाविज्ञायते सम्यक् पूर्णाहं तेतिसास्मृता ॥ १४. ३९ ॥
आधारवह्नौ चिद्रूपे भेदजातं जगद्धविः ।
जुहोति ज्ञानजुह्वायः सज्ञेयो विश्वहव्यभुक् ॥ १४. ४० ॥
चिदाकारे पराकाशे परमानन्द भान्वति ।
विलीन चित्तवृत्तीनां का वा विश्वक्रमस्थितिः ॥ १४. ४१ ॥
निरस्त विश्वसम्बाधे निष्कलङ्के चिदम्बरे ।
भावयेल्लीन मात्मानं सामरस्य स्वभावतः ॥ १४. ४२ ॥
सैषा विद्या पराज्ञेया सत्तानन्द प्रकाशिनी ।
मुक्तिरित्युच्चते सद्भिर्जगन्मोहनिवर्तिनी ॥ १४. ४३ ॥
भक्तादिनामा परधर्मयोगात् प्राप्तैकभावः परमाद्भुतेन ।
शिवेन चिद्व्योममयेन साक्षा न्मोक्षश्रियो भाजनतामुपैति ॥ १४. ४४ ॥
इति श्री सिद्धान्त शिखामणौ ऐक्यस्थले ऐक्यस्थलादि चतुर्विध स्थल
प्रसङ्गोनाम चतुर्दश परिच्छेदः परिसमाप्तः ॥ १४ ॥
पञ्चदश परिच्छेदः
श्री रेणुक उवाच
षट् स्थलोक्त सदाचार सम्पन्नस्य यथाक्रमं ।
लिङ्गस्थलानि कथ्यन्ते जीवन्मुक्ति पराणि च ॥ १५. १ ॥
अगस्त्य उवाच
भक्ताद्यैक्यावसानानि षडुक्तानि स्थलानि च ।
लिङ्गस्थलानि कानीह कथ्यन्ते कति वापुनः ॥ १५. २ ॥
श्री रेणुक उवाच
गुर्वादिज्ञानशून्यान्ता भक्तादि स्थलसंश्रिताः ।
स्थलभेदाः प्रकीर्त्यन्ते पञ्चाशत्सप्त चाधुना ॥ १५. ३ ॥
अदौ नवस्थलानीह भक्तस्थलसमाश्रयात् ।
कथ्यन्ते गुणसारेण वामान्येषां पृथक् श्रुणु ॥ १५. ४ ॥
दीक्षागुरुस्थलं पूर्वं ततः शिक्षागुरुस्थलं ।
प्रज्ञागुरुस्थलं चाथक्रिया लिङ्गस्थलं ततः ॥ १५. ५ ॥
भावलिङ्गस्थलं चाथ ज्ञानलिङ्गस्थलं ततः ।
स्वयं चरं परं चेति तेषां लक्षणमुच्यते ॥ १५. ६ ॥
१. दीक्षागुरुस्थलं
दीयते परमं ज्ञानं क्षीयते पाशबन्धनं ।
यया दीक्षेति सा तस्यां गुरुर्दीक्षागुरुस्मृतः ॥ १५. ७ ॥
गुणातीतं गवर्णं च रूपातीतं रुवर्णकं ।
गुणातीतमरूपञ्चयोदद्यात् स गुरुःस्मृतः ॥ १५. ८ ॥
अचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि ।
स्वयमाचरते यस्तु स आचार्य इति स्मृतः ॥ १५. ९ ॥
षडध्वातीतयोगेन यतते यस्तु देशिकः ।
मायाब्धि तरणोपाय हेतुर्विश्वगुरुः स्मृतः ॥ १५. १० ॥
अखण्डं येन चैतन्यं व्यज्यते सर्ववस्तुषु ।
आत्मयोगप्रभावेण स गुरुर्विश्व भासकः ॥ १५. ११ ॥
२. शिक्षागुरुस्थलं
दीक्षागुरुरसौ शिक्षाहेतुः शिष्यस्य बोधकः ।
प्रश्नोत्तरप्रवक्ता च शिक्षा गुरुरितीर्यते ॥ १५. १२ ॥
बोधकोयं समाख्यातो बोध्यमेतदिति स्फुटं ।
शिष्या नियुज्यते येन स शिक्षा गुरुरुच्यते ॥ १५. १३ ॥
संसारतिमिरो न्माथशरच्छन्द्रमरीचयः ।
वाचो यस्य प्रवर्तन्ते तमाचार्यं प्रचक्षते ॥ १५. १४ ॥
ददाति यः पतिज्ञानं जगन्मायानिवर्तकं ।
अद्वैतवासनोपायं तमाचार्यवरं विदुः ॥ १५. १५ ॥
पूर्वपक्षं समादाय जगद्भेद विकल्पनं ।
अद्वैतकृतसिद्धान्तो गुरुरेष गुणाधिकः ॥ १५. १६ ॥
सन्देहवनसन्दोह समुच्छेदकुठारिका ।
यत्सूक्तिधारा विमला सगुरूणां शिखामणिः ॥ १५. १७ ॥
यत्सूक्ति दर्पणाभोगे निर्मलेदृश्यते सदा ।
मोक्षश्रीर्बिम्बरूपेण स गुरुर्भवतारकः ॥ १५. १८ ॥
शिष्याणां हृदयालेख्यं प्रद्योत यतियःस्वयं ।
ज्ञानदीपिकया तेन गुरुणा कः समोभवेत् ॥ १५. १९ ॥
परमाद्वैत विज्ञानपरमौषधदानतः ।
संसाररोगनिर्माथी देशिकः केन लभ्यते ॥ १५. २० ॥
३. ज्ञानगुरुस्थलं
उपदेष्टोपदेश्यानां संशयच्छेदकारकः ।
सम्यग् ज्ञानप्रदः साक्षादेष ज्ञानगुरुः स्मृतः ॥ १५. २१ ॥
निरस्त विश्वसम्भेदं निर्विकारं चिदम्बरं ।
साक्षात्कारोति यो युक्त्या स ज्ञानगुरुरुच्यते ॥ १५. २२ ॥
कलङ्कवाससौ चन्द्रः क्षयवृद्धिपरिप्लुतः ।
निष्कलङ्कः स्थितो ज्ञानचन्द्रमा न विकारवान् ॥ १५. २३ ॥
पार्श्वस्थं तिमिरं हन्ति प्रदीपो मणि निर्मितः ।
सर्वगामि तमोहन्ति बोधदीपो निरङ्कुशः ॥ १५. २४ ॥
सर्वार्थसाधक ज्ञानविशेषादेशतत्परः ।
ज्ञानाचार्यः समस्तनामानुग्रहकरः शिवः ॥ १५. २५ ॥
कटाक्ष चन्द्रमा यस्य ज्ञानसागर वर्थनः ।
संसार तिमिरच्छेदि विभुर्देशिक भास्करः ॥ १५. २६ ॥
बहिस्तिमिरविच्छेत्ता भानुरेषा प्रकीर्तितः ।
बहिरन्तस्त मच्छेदि विभुर्देशिकभास्करः ॥ १५. २७ ॥
कटाक्षलेशमात्रेण विना ध्यानादिकल्पनं ।
शिवत्वं भावयेद्यत्र न वेधः शाम्भवो मतः ॥ १५. २८ ॥
शिववेधकरे ज्ञाने दत्ते येन सुनिर्मले ।
जीवन्मुक्तो भवेच्छिष्यः स गुरुर् ज्ञानसागरः ॥ १५. २९ ॥
४. क्रियालिङ्गस्थलं
गुरोर्विज्ञान योगेन क्रिया यत्र विलीयते ।
तत्क्रियालिङ्ग माख्यातं सर्वैरागम पारगैः ॥ १५. ३० ॥
परानन्दं चिदाकारं परब्रह्मैवकेवलं ।
लिङ्गसद्रूपतापन्नं लक्ष्यते विश्वसिद्धये ॥ १५. ३१ ॥
लिङ्गमेव परञ्ज्योतिर्भवति ब्रह्म केवलं ।
तस्मात्तत्सूजनादेव सर्वकर्मफलोदयः ॥ १५. ३२ ॥
परित्यज्य क्रियाः सर्वालिङ्गपूजैक तत्पराः ।
वर्तन्ते योगिनः सर्वे तस्माल्लिङ्गं विशिष्यते ॥ १५. ३३ ॥
यज्ञादयः क्रियाः सर्वा लिङ्गपूजांशसम्मिताः ।
इति यात्पूज्यते सिद्धैत्क्रियालिङ्गमुच्यते ॥ १५. ३४ ॥
किं यज्ञैरग्नि होत्राद्यैः किं तपोभिश्च दुश्चरैः ।
लिङ्गार्चनर्यतिर्यस्य स सिद्धः सर्वकर्मसु ॥ १५. ३५ ॥
ब्रह्मा विष्ण्वादयः सर्वे विबुधा लिङ्गमाश्रिताः ।
सिद्धाः स्वस्वपदे भान्ति जगत्तन्त्राधिकारिणः ॥ १५. ३६ ॥
५. भावलिङ्गस्थलं
क्रिया यथालयं प्राप्ता तथा भावोपि लीयते ।
यत्र तद्देशिकैरुक्तं भावलिङ्गमितिस्फुटं ॥ १५. ३७ ॥
भावेन गृह्यते देवो भगवान् परमः शिवः ।
किन्तेन क्रियते तस्य नित्यपूर्णो हि स स्मृतः ॥ १५. ३८ ॥
अखण्ड परमानन्द बोधरूपः परः शिवः ।
भक्तानामुपचारेण भावयोगात् प्रसीदति ॥ १५. ३९ ॥
मृच्छिल्लाविहिताल्लिङ्गाद्भाव लिङ्गं विशिष्यते ।
निरस्त सर्वदोषत्वाद् ज्ञानमार्ग प्रवेशनात् ॥ १५. ४० ॥
विहाय बाह्यलिङ्गानि चिल्लिङ्गं मनसि स्मर ।
पूजयेद्भावपुष्पैर्यो भावलिङ्गीति कद्यते ॥ १५. ४१ ॥
मूलाधारे२थवा चित्ते भ्रूमध्ये वा सुनिर्मलं ।
दीपाङ्कुरण्यजन् लिङ्गं भावद्रव्यैःसयोगवा ॥ १५. ४२ ॥
स्वानुभूति प्रमाणेन ज्योतिर्लिङ्गेन सण्युतः ।
शिलामृद्दारुसम्भूतं न लिङ्गं पूजयत्यसौ ॥ १५. ४३ ॥
क्रियरूपातु या पूजा साज्ञेयास्वल्पसम्विदां ।
अन्तरा भावपूजा तु शिवस्य ज्ञानिनां मता ॥ १५. ४४ ॥
६. ज्ञानलिङ्गस्थलं
तद्भावज्ञापकं ज्ञानं लयं यत्र समश्नुते ।
तज् ज्ञानलिङ्गमाख्यातं शिवतत्त्वार्थकोविदैः ॥ १५. ४५ ॥
त्रिमूर्ति भेदनिर्मुक्तं त्रिगुणातीत वैभवं ।
ब्रह्म यद्बोध्यते तत्तु ज्ञानलिङ्ग मुदाहृतं ॥ १५. ४६ ॥
स्थूले क्रियासमापत्तिः सूक्ष्मे भावस्य सम्भवः ।
स्थूलसूक्ष्म पदातीते ज्ञानमेव परात्मनि ॥ १५. ४७ ॥
कल्पितानि हि रूपाणि स्थूलानि परमात्मनः ।
सूक्ष्माण्यपिच तैः किम्वा परबोधं समाचरेत् ॥ १५. ४८ ॥
परात्परं तु यद्ब्रह्म परमानन्दलक्षणं ।
शिवाख्यं ज्ञायते येन ज्ञानलिङ्गी स कथ्यते ॥ १५. ४९ ॥
बाह्यक्रियां परित्यज्य चिन्तामपि च मानसीं ।
अखण्ड ज्ञानरूपत्वं यो भजेन्मुक्त एव सः ॥ १५. ५० ॥
७. स्वस्थलं
तद्भावज्ञापकं ज्ञानं यत्रज्ञाने लयं व्रजेत् ।
तद्वानेष समाख्यातः स्वाभिदानो मनीषिभिः ॥ १५. ५१ ॥
स्वच्छन्दा चारसन्तुष्टो ज्योतिर्लिङ्गपरायणः ।
आत्मस्थसकलाकारः स्वाभिधो मुनिसत्तमः ॥ १५. ५२ ॥
निर्ममो निरहङ्कारो निरस्तक्लेशपञ्चकः ।
भिक्षाशी समबुद्धिश्च मुक्तप्रायो मुनिर्भवेत् ॥ १५. ५३ ॥
यदृच्छालाभसन्तुष्टो भस्मनिष्टो जितेन्द्रियः ।
समवृत्ति र्भवेद्योगि भिक्षुके वा नृपेथवा ॥ १५. ५४ ॥
पश्यन् सर्वाणि भूतानि संसारस्थानि सर्वशः ।
स्मयमानः परानन्दे लीनात्मा वर्तते सुधीः ॥ १५. ५५ ॥
ध्यानं शैवं तथा ज्ञानं भिक्षा चैकान्तशीलता ।
य तेश्चत्वारि कर्माणि न पञ्चममि हेष्यते ॥ १५. ५६ ॥
८. चर्मस्थलं
स्वरूपज्ञानसम्पन्नो ध्वस्ताहम्ममताकृतिः ।
स्वयमेव स्वयं भूत्वा चरतीति चराभिदः ॥ १५. ५७ ॥
कामक्रोधादिनिर्मुक्तः शान्तिदान्तिसमन्वितः ।
समबुद्ध्या चरेद्योगी सर्वत्र शिवबुद्धिमान् ॥ १५. ५८ ॥
इदं मुख्यमिदं हीनमिति चिन्तामकल्पयन् ।
सर्वत्र सञ्चरेद्योगी सर्वं ब्रह्मेति भावयन् ॥ १५. ५९ ॥
न सम्मानेषु सम्प्रीतिं नावमानेषु च व्यथां ।
कुर्वाणः सञ्चरेद्योगी कूटस्थे स्वात्मनि स्थितः ॥ १५. ६० ॥
अप्राकृतगुणैः स्वीयैः सर्वं विस्मापयन् जनं ।
अद्वैतपरमानन्दमुदितो देहिवच्चरेत् ॥ १५. ६१ ॥
नप्रपञ्चे नदेहे च नधर्म नच दुष्कृते ।
गत वैषम्यधीर्धीरो यतिश्चरति देहिवत् ॥ १५. ६२ ॥
प्राकृतैश्वर्य सम्पत्ति पराज्ञ्मुखमनःस्थितिः ।
चिदानन्द निजात्मस्थो मोदते मुनिपुङ्गवः ॥ १५. ६३ ॥
९. परस्थलं
स्वयमेव स्वयं भूत्वा चरतः स्वस्वरूपतः ।
परं ना स्तीति बोधन्य परत्वमभिधीयते ॥ १५. ६४ ॥
स्वतन्त्रः सर्वकृत्येषु स्वपरत्वेन भावितः ।
तृणीकुर्वन् जगज्जालं वर्तते शिवयोगिराट् ॥ १५. ६५ ॥
वर्णाश्रमसदाचार मार्गनिष्ठापराज्ञ्मुखः ।
सर्वोत्कृष्टं स्वमात्मानां पश्यन् योगीतु मोदते ॥ १५. ६६ ॥
विश्वातीतं परं ब्रह्म शिवाख्यं चित्स्वरूपकं ।
तदेवाहमिति ज्ञानी सर्वोत्कृष्टः स उच्यते ॥ १५. ६७ ॥
अचलं धृवमात्मासमनुपश्यन्नि रन्तरं ।
निरस्त विश्वविभ्रान्ति र्जीवन्मुक्तो भवेन्मुनिः ॥ १५. ६८ ॥
ब्रह्माद्याः किं नु कुर्वन्ति देवताः कर्ममार्गगाः ।
कर्मातीत पदस्थस्य स्वयं ब्रह्मस्वरूपिणः ॥ १५. ६९ ॥
स्वेच्छया नञ्चरन् योगी विमुञ्चन् देहमानितां ।
दर्शनैः स्पर्शनैः सर्वानज्ञानपि विमोचयत् ॥ १५. ७० ॥
नित्ये निर्मलभावने निरुपमे निर्धूतविश्वभ्रमे
सत्तानन्द चिदात्मके परशिवे साम्यं गतः सण्यमी ।
प्रध्वस्ताश्रमवर्णधर्मनिगलः स्वच्छन्दनं चारवान्
देहेप्यद्भुत वैभवो विजयते जीवन्विमुक्तः सुधीः ॥ १५. ७१ ॥
इति श्री सिद्धान्त शिखामणौ लिङ्गस्थले दीक्षा गुरुस्थलादि नवविध
स्थल प्रसङ्गोनाम पञ्चदश परिच्छेदः परिसमाप्तः ॥ १५ ॥
षोडशपरिच्छेदः
अगस्त्य उवाच
स्थलानां नवकं प्रोक्तं भक्तस्थलसमाश्रयं ।
महेश्वरस्थले सिद्धं स्थलभेदं निरूपय ॥ १६. १ ॥
श्री रेणुक उवाच
माहेश्वरस्थले सन्ति स्थलानि नव तापस ।
क्रियागमस्थलं पूर्वं ततो भावागमस्थलं ॥ १६. २ ॥
ज्ञानागमस्थलं चाध सकाय स्थलमीरितं ।
ततोकायस्थलं प्रोक्तं परकायस्थलं ततः ॥ १६. ३ ॥
धर्माचारस्थलं चाधभावाचार स्थलं ततः ।
ज्ञानाचारस्थलं चेत क्रमादेषां भिदोच्यते ॥ १६. ४ ॥
१०. क्रियागमस्थलं
शिवो हि परमः साक्षात् पूजा तस्य क्रियोच्यते ।
तत्परा आगमा यस्मात्त दुक्तोयं क्रियागमः ॥ १६. ५ ॥
प्रकाशते यथानाग्नि ररण्यां मथनं विना ।
क्रियां विना तथान्त:स्थोन प्रकाशो भवेच्छिवः ॥ १६. ६ ॥
न यथा विधिलोपः स्याद्यथा देवः प्रसीदति ।
यथागमः प्रमाणं स्यात्तथा कर्मसमाचरेत् ॥ १६. ७ ॥
विधिः शिवनियोगोयं तस्माद्विहितकर्मणि ।
शिवाराधनबुद्ध्यैव निरतः स्याद्विचक्षणः ॥ १६. ८ ॥
गुरोरादेश मासाद्य पूजयेत्परमेश्वरं ।
पूजिते परमेशाने पूजिताः सर्वदेवताः ॥ १६. ९ ॥
सदा शिवार्चनोपायसामाग्रीव्यग्रमानसः ।
शिवयोगरतो योगी मुच्यते नात्र संशयः ॥ १६. १० ॥
अन्धपङ्गुवदन्योन्य सापेक्षे ज्ञानकर्मणि ।
फलोत्पत्तौ विरक्तस्तु तस्मात्तद्द्व यमाचरेत् ॥ १६. ११ ॥
ज्ञाने सिद्धे पि विदुषां कर्मापि विनियुज्यते ।
फलाभिसन्धिरहितं तस्मात्कर्म न सन्त्यजेत् ॥ १६. १२ ॥
आचार एव सर्वेषामलङ्काराय कल्पते ।
आचारहीनः पुरुषो लोके भवति निन्दितः ॥ १६. १३ ॥
ज्ञानेनाचारयुक्तेन प्रसीदति महेश्वरः ।
तस्मादाचारवान् ज्ञानी भवेदा देह पातनं ॥ १६. १४ ॥
११. भावागमस्थलं
भावचिह्नानि विदुषो यानि सन्ति विरागिणः ।
तानि भावागमत्वेन वर्तन्ते सर्वदेहिनां ॥ १६. १५ ॥
शिवोहमिति भावोहि शिवतापत्ति कारणं ।
न ज्ञानमात्रं नाचारो भावयुक्तः शिवोभवेत् ॥ १६. १६ ॥
ज्ञानं वस्तु परिच्छेदो ध्यानं तद्भावकारणं ।
तस्मात् ज्ञाते महादेवे ध्यानयुक्तोभवेत्सुधीः ॥ १६. १७ ॥
अन्तर्बहिश्च सर्वत्र परिपूर्णं महेश्वरं ।
भावयेत्परमानन्द लब्धये पण्डितोत्तमः ॥ १६. १८ ॥
अर्थहीना यथा वाणी पतिहीना यथा सती ।
श्रुतिहीना यथा बुद्धि र्भावहीना तथा क्रिया ॥ १६. १९ ॥
चक्षुर्हीनो यथारूपं न किञ्चि द्वीक्षुतं क्षमः ।
भावहीनस्तथा योगी न शिवं द्रष्टुमीश्वरः ॥ १६. २० ॥
भावशुद्धेन मनसा पूजयेत्परमेश्वरं ।
भावहीनां न गृह्णाति पूजां सुमहतीमपि ॥ १६. २१ ॥
नैरन्तर्येण सम्पन्ने भावे ध्यातुं शिवम्प्रति ।
तद्भावो जायते यद्वत् कीटी भ्रमरचिन्तनात् ॥ १६. २२ ॥
निष्कलङ्कं निराकारं परब्रह्म शिवाभिदं ।
निध्याततु मनमर्थोपि तद्विभूतिं विभावयेत् ॥ १६. २३ ॥
१२. ज्ञानागमस्थलं
परस्य ज्ञानचिह्नानि यानि नन्ति शरीरिणां ।
तानि ज्ञानागमत्वेन प्रवर्तन्ते विमुक्तये ॥ १६. २४ ॥
भावेन किं फलं पुंसां कर्मणा वा किमिष्यते ।
भावकर्म समायुक्तं ज्ञानमेव विमुक्ति दं ॥ १६. २५ ॥
केवलं कर्ममात्रेण जन्मकोटि शतैरपि ।
नात्मनं जायते मुक्तिर्णानं मुक्तेर्हि कारणं ॥ १६. २६ ॥
ज्ञानहीनां सदा कर्म पुंसां संसारकारणं ।
तदेव ज्ञानयोगेन संसारविनिवर्तकं ॥ १६. २७ ॥
फलं क्रियवतां पुंसां स्वर्गाद्यं नश्वरं यतः ।
तस्मात् स्थायीफल प्राप्त्यै ज्ञानमेव समभ्यसेत् ॥ १६. २८ ॥
शास्त्राभ्यासादियत्नेन सद्गुरोरुपदेशतः ।
ज्ञानमेव समभ्यस्येत् किमन्येन प्रयोजनं ॥ १६. २९ ॥
ज्ञानं परशिवाद्वैतपरिपाक विनिश्चयः ।
येन संसार सम्बन्ध विनिवृत्तिर्भवेत् सतां ॥ १६. ३० ॥
शिवात्मक मिदं सर्वं शिवादन्यन्न विद्यते ।
शिवोहमति या बुद्धिस्त देव ज्ञानमुत्तमं ॥ १६. ३१ ॥
अन्धो यधा पुरःस्थानि वस्तूनि नहि पश्यति ।
ज्ञानहीनस्तथा देहि नात्मस्थं वीक्षते शिवं ॥ १६. ३२ ॥
शिवस्य दर्शनात्पुंसां जन्मरोगनिवर्तनं ।
शिवदर्शनमप्याहुः सुलभं ज्ञानचक्षुषां ॥ १६. ३३ ॥
दीपं विना यथा गेहे नान्धकारो निवर्तते ।
ज्ञानं विना तथा चित्ते मोहोपि ननिवर्तते ॥ १६. ३४ ॥
१३. सकायस्थलं
परन्य या तनुर्णेया देहकर्माभिमानिनः ।
तयासकायोलोकोयन्तदात्मत्वनिरूपणात् ॥ १६. ३५ ॥
कायं विना समस्तानां न क्रिया न च भावना ।
न ज्ञानं यत्ततो योगी कायवानेन सञ्चरेत् ॥ १६. ३६ ॥
शिवैक्यज्ञानयुक्तन्य योगिनोपि महात्मनः ।
काययोगेन सिद्ध्यन्ति भोगमोक्षादयः सदा ॥ १६. ३७ ॥
काष्ठं विना यथा वह्णिर्जायते न प्रकाशवान् ।
मूर्तिम्विना तथायोगी नात्मतत्त्व प्रकाशवान् ॥ १६. ३८ ॥
मूर्त्यात्म नैव देवस्य यथा पूज्यत्वकल्पना ।
तथा देहात्मा नैवास्य पूज्यत्वं परयोगिनः ॥ १६. ३९ ॥
निष्कलोहि महादेवः परिपूर्णः सदाशिवः ।
जगसृष्ट्यादि संसिद्ध्यै मूर्ति मानेव भासते ॥ १६. ४० ॥
ब्रह्माद्या देवताः सर्वा मुनयोपि मुमुक्षवः ।
कायवन्तो हि कुर्वन्ति तपः सर्वार्थ साधकं ॥ १६. ४१ ॥
तपोहि मूलं सर्वासां सिद्धीनां यज्जगत्त्रये ।
तपस्तत्कायमूलं हितस्मात्कायं न सन्त्यजेत् ॥ १६. ४२ ॥
१४. अकायस्थलं
औपचारिक देहित्वाज्जग दात्मत्व भावनात् ।
माया सम्बन्धराहित्याद कायो हिपरःस्मृतः ॥ १६. ४३ ॥
परस्य देहयोगेपि न देहाश्रयविक्रया ।
शिवस्येव यतस्तास्मादकायो यं प्रकीर्तितः ॥ १६. ४४ ॥
परलिङ्गे विलीनस्य परमानन्द चिन्मये ।
कुतो देहेन सम्बन्धो देहिवद्भावनं भ्रमः ॥ १६. ४५ ॥
देहाभिमानहीनस्य शिवभावे स्थिरात्मनः ।
जगदेतच्छरीरं स्याद्देहेनैकेन का व्यथा ॥ १६. ४६ ॥
शिवज्ञानैक निष्ठस्य नाहङ्कारभवो भ्रमः ।
न चेन्द्रियभवं दुःखं त्यक्त देहाभिमानिनः ॥ १६. ४७ ॥
न मनुष्यो न देहोहं न यक्षो नैव राक्षसः ।
शिवोहमिति यो बुद्ध्यात्तस्थ किन्देह कर्मणा ॥ १६. ४८ ॥
१५. परकाय स्थलं
वशीकृतत्वात् प्रकृतेर्मायामार्गातिवर्तनात् ।
परकायोयमाख्यतः सत्यज्ञान सुखात्मकः ॥ १६. ४९ ॥
परब्रह्म वपुर्यस्य प्रबोधानन्दभासुरं ।
प्राकृतेन किमेतेन शरीरेणास्य जायते ॥ १६. ५० ॥
सम्यग् ज्ञानाग्नि सन्दग्ध जन्मबीजकलेवरः ।
शिवतत्त्वावलम्बी यः परकायः स उच्यते ॥ १६. ५१ ॥
इन्द्रियाणी मनोवृत्तिर्वासनाः कर्मसम्भवाः ।
यत्र यान्ति लयन्तेन सकायोयं परात्मना ॥ १६. ५२ ॥
पराहन्तामनुप्राप्य पश्येद्विश्वं चिदात्मकं ।
न देहीतिभ्रमस्तस्य निश्चिता हि शिवात्मता ॥ १६. ५३ ॥
स्वस्वरूपं शिवाकारं ज्योतिस्साक्षाद्विचिन्तयन् ।
देहवानपि निर्देहो जीवन्मुक्तोहि साधकः ॥ १६. ५४ ॥
देहस्तिष्ठतु वा यातु योगिनः स्वात्मभोदिनः ।
जीवन्मुक्तिर्भवेत् सद्यश्चिदानन्दप्रकाशिनी ॥ १६. ५५ ॥
आत्मज्ञानावसानं हि संसारपरिपीडनं ।
सूर्योदयेपि किं लोकस्तिमिरेणोपरुद्ध्यते ॥ १६. ५६ ॥
देहाभिमान निर्मुक्तः कुलातीतपदाश्रयः ।
कथं याति परिच्छेदं शरीरेषु महाबुधः ॥ १६. ५७ ॥
१६. धर्माचारस्थलं
तस्यैव परकायस्य धर्माचारो य इष्यते ।
न धर्मः सर्वलोकानामुपकाराय कल्पते ॥ १६. ५८ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दया क्षमा ।
दानं पूजा जपो ध्यानमिति धर्मस्य सङ्ग्रहः ॥ १६. ५९ ॥
शिवेन विहितो यस्मादाग मैर्धर्म सङ्ग्रहः ।
तस्मात्त माचरन् विद्वान् तत्प्रसादाय कल्पते ॥ १६. ६० ॥
अधर्मं नस्पृशेत् किञ्चिद्विहितं धर्ममाचरेत् ।
तं च काम विनिर्मुक्तं तमपि ज्ञानपूर्वकं ॥ १६. ६१ ॥
आत्म वत्सर्वभूतानि सम्पश्येद्योग वित्तमः ।
जगदेकात्मता भावान्निग्रहादि विरोधतः ॥ १६. ६२ ॥
एक एव शिवस्साक्षाज्जगदेतदिति स्फुटं ।
पश्यतः किं न जायेत ममकारो हि विभ्रमः ॥ १६. ६३ ॥
धर्म एव समस्तानां यतः संसिद्धि कारणं ।
निःस्पृहोपि महायोगी धर्ममार्गम्हि नत्यजेत् ॥ १६. ६४ ॥
ज्ञानामृतेन तृप्तोपि योगि धर्मं न सन्त्यजेत् ।
आचारं महतां दृष्ट्वा प्रवर्तं तेहि लौकिकाः ॥ १६. ६५ ॥
सदाचारप्रियः शम्भुः सदाचारेण पूज्यते ।
सदाचारं विना तस्य प्रसादो नैव जायते ॥ १६. ६६ ॥
१७. भावाचारस्थलं
भाव एवान्य सर्वेषां भावाचरः प्रकीर्तितः ।
भावो मानस चेष्टात्मा परिपूर्णः शिवाश्रयः ॥ १६. ६७ ॥
भावनाविहितं कर्म पावनादपि पावनं ।
तस्माद्भावनया युक्तं परधर्मं समाचरेत् ॥ १६. ६८ ॥
भावेनहि मनश्शुद्धिर्भावात् सिद्धिश्च कर्मणां ।
इतिसञ्चित्य मनसा योगी भावं न सन्त्यजत् ॥ १६. ६९ ॥
शिवभावनया सर्वं नित्यनैमित्ति कादिकं ।
कुर्वन्नपि महायोगी गुणदोषैर्न बाध्यते ॥ १६. ७० ॥
अन्तःप्रकाशमानस्य सम्वित्सूर्यस्य सन्ततं ।
भावेन यदुपस्थानं तत् सन्ध्यावन्दनं विदुः ॥ १६. ७१ ॥
आत्मज्योतिषु सर्वेषां विषयाणां समर्पणं ।
अन्तर्मुखेन भावेन होमकर्मेति गीयते ॥ १६. ७२ ॥
भावयेत् सर्वकर्माणि नित्यनैमित्ति कानि च ।
शिवप्रीतिकराण्येव सङ्गराहित्यसिद्धये ॥ १६. ७३ ॥
शिवे निवेश्य सकलं कार्याकार्यं विवेकतः ।
वर्तते यो महाभागः ननङ्गरहितो भवेत् ॥ १६. ७४ ॥
आत्मानमखिलं वस्तु शिवमानन्दचिन्मयं ।
एकीभावेन सततं सम्पश्यन्नेव पश्यति ॥ १६. ७५ ॥
१८. ज्ञानाचरस्थलं
अन्य ज्ञानसमाचारो योगिनः सर्वदेहिनां ।
ज्ञानाचारो यदुक्तो यं ज्ञानाचरः स कथ्यते ॥ १६. ७६ ॥
परिपूर्णं महाज्ञानं परतत्त्व प्रकाशकं ।
अवलम्ब्य प्रवृत्तो यो ज्ञानाचारस्स उच्यते ॥ १६. ७७ ॥
निर्विकल्पे परे धाम्नि निष्कले शिवनामनि ।
ज्ञानेन योजयन् सर्वं ज्ञानाचारी प्रकीर्तितः ॥ १६. ७८ ॥
कर्म ज्ञानाग्निना दग्द्गं न प्ररोहेत् कथञ्चन ।
यदाहुन्संसृतेर्मूलं प्रवाहानुगतं बुधाः ॥ १६. ७९ ॥
ज्ञानेन हीनः पुरुषः कर्मणा बध्यते सदा ।
ज्ञानिनः कर्मसङ्कल्पा भवन्ति किल निष्फलाः ॥ १६. ८० ॥
ज्ञानं मुक्तिप्रदं प्राप्य गुरुदृष्टिप्रासादतः ।
कः कुर्यात्कर्म कार्पण्ये वाण्छां संसारवर्धने ॥ १६. ८१ ॥
शिवाद्वैतपरं ज्ञानं ज्ञानमित्युच्यते बुधैः ।
सिद्धेन वाप्यसिद्धेन फलं ज्ञानान्तरेण किं ॥ १६. ८२ ॥
निर्मलं हि शिवज्ञानं निःश्रेयसकरं परं ।
रागद्वेषादिकलुषं भूयः संस्मृतिकारणं ॥ १६. ८३ ॥
शुद्धाचारः शुद्धभावो विवेकी ज्योतिः पश्यन् सर्वतः शैवमेकम् ।
ज्ञानध्वस्त प्राकृतात्मप्रपञ्चो जीवन्मुक्त श्चेष्टते दिव्ययोगी ॥ १६. ८४ ॥
इति श्री सिद्धान्त शिखामणौ लिङ्गस्थलीय महेश्वरस्थल क्रियागम
स्थलादिनवविध स्थल प्रसङ्गोनाम षोडश परिच्छेदः परिसमाप्तः ॥ १६ ॥
सप्तदश परिच्छेदः
अगस्त्य उवाच
स्थलानि तानि चोक्तानि यानि माहेश्वरस्थले ।
कथय स्थलभेदं मे प्रसादिस्थल संश्रितं ॥ १७. १ ॥
श्रीरेणुक उवाच
स्थलभेदा नवप्रोक्ताः प्रसादिस्थल संश्रिताः ।
कायानुग्रहणं पूर्वमिन्द्रियानुग्रहन्ततः ॥ १७. २ ॥
प्राणानुग्रहणं पश्चात्ततः कायार्पणं मतं ।
करणार्पणमाख्यातं ततो भावार्पणं मतं ॥ १७. ३ ॥
शिष्यस्थलं ततः प्रोक्तं शुश्रूषुस्थलमेवच ।
ततः सेव्यस्थलं चैषां क्रमशः श्रुणु लक्षणं ॥ १७. ४ ॥
१९. कायानुग्रहस्थलं
अनुगृह्णाति यल्लोकान् स्वकायं दर्शयन्न सौ ।
तस्मादेव समाख्यातः कायानुग्रह नामकः ॥ १७. ५ ॥
यथा शिवोनुगृह्णाति मूर्ति माविश्व देहिनः ।
तथा योगी शरीरस्थः सर्वानुग्राहकोभवेत् ॥ १७. ६ ॥
शिवः शरीरयोगेपि यथा सङ्गविवर्जितः ।
तथा योगी शरीरस्थो निस्सङ्गो वर्तते सदा ॥ १७. ७ ॥
शिवभावनया युक्तः स्थिरया निर्विकल्पया ।
शिवो भवति निर्धूतमायालेश परिप्लवः ॥ १७. ८ ॥
गलिताहङ्कृतिग्रन्धिः क्रीडाकल्पित विग्रहः ।
जीवन्मुक्तश्चरेद्योगी देहिवन्नि रुपाधिकः ॥ १७. ९ ॥
२०. इन्द्रियानुग्रहस्थलं
दर्शनात् परकायस्य करणानां विवेकतः ।
इन्द्रियानुग्रहः प्रोक्तस्सर्वेषान्तत्त्व वेदिभिः ॥ १७. १० ॥
इन्द्रियाणां समस्तानां स्वार्थेषु सति सङ्गमे ।
रागो वा जायते द्वेषस्तौ योगी परिवर्जयेत् ॥ १७. ११ ॥
इन्द्रियाणां बहिर्वृत्तिः प्रपञ्चस्य प्रकाशिनी ।
अन्तः शिवे समावेशो विष्पपञ्चस्य कारणं ॥ १७. १२ ॥
क्षणमन्तः शिवं पश्यन् केवले नैव चेतसा ।
बाह्यार्थानामनुभवं क्षणं कुर्वन् दृगादिभिः ॥ १७. १३ ॥
सर्वेन्द्रियनिरूढोपि सर्वेन्द्रियविहीनवत् ।
शिवाहितमना योगी शिवं पश्यति नापरं ॥ १७. १४ ॥
न जरा मरणं नास्ति न पिपासा न चक्षुधा ।
शिवाहितेन्द्रियस्यास्य निर्मानस्य महात्मनः ॥ १७. १५ ॥
मनोयत्र प्रवर्तेत तत्र सर्वेन्द्रियस्थितिः ।
शिवे मनसि सन्लीने क्वचेन्द्रियविचारणा ॥ १७. १६ ॥
यद्यत्पश्यन् दृशा योगी मनसा चिन्तयत्यपि ।
तत्तत्सर्वं शिवाकारं सम्विद्रूपं प्रकाशते ॥ १७. १७ ॥
शरणैः सहितं प्राणं मनस्याधाय सण्यमी ।
योजयेत्तच्छिवे साक्षाद्यत्र नास्ति जगद्भ्रमः ॥ १७. १८ ॥
सर्वेन्द्रियप्रवृत्या च बहिरन्तः शिवं यजन् ।
स्वच्छन्दचारी सर्वत्र सुखी भवति सण्यमी ॥ १७. १९ ॥
२१. प्राणानुग्रहस्थलं
शिवस्य परकायस्य यत्तात्पर्यावलोकनं ।
स प्राणानुग्रहः प्रोक्तन्सर्वेषां तत्त्वदर्शिभिः ॥ १७. २० ॥
प्राणोयस्य लयं याति शिवे परमकारणे ।
कुतस्तस्येन्द्रियस्फूर्तिः कुतः संसारदर्शनं ॥ १७. २१ ॥
करणेषु निवृत्तेषु स्वार्थसङ्गप्रयत्नतः ।
तैस्समम्प्राणमारोप्य स्वान्तेशान्तमतिः स्वयं ॥ १७. २२ ॥
शान्तत्वे प्राणवृत्तीनां मनः शाम्यति वृत्तिभिः ।
तच्छान्तौ योगिनां किञ्चिच्छि वादन्यन्न दृश्यते ॥ १७. २३ ॥
प्राणएव मनुष्याणां देहधारण कारणं ।
तदाधारः शिवः प्रोक्तः सर्वकारणकारणं ॥ १७. २४ ॥
निराधारः शिवः साक्षात् प्राणस्तेन प्रतिष्ठितः ।
तदाधारः तनुर्जेया जीवो येनैव चेष्टते ॥ १७. २५ ॥
शिवे प्राणो विलीनोपि योगिनो योगमार्गतः ।
स्वशक्ति वाननायोगाद्धारय त्येव विग्रहं ॥ १७. २६ ॥
स चाभ्यासवशाद्भूयः सर्वतत्त्वातिवर्तिनि ।
निष्कलङ्के निराकरे निरस्ताशेषविक्लवे ॥ १७. २७ ॥
चिद्विलासपरिस्फूर्ति परिपूर्ण सुखाद्वये ।
शिवे विलीन सर्वात्मा योगी चलति न क्वचित् ॥ १७. २८ ॥
प्रध्वस्त वासनासङ्गात् प्राणवृत्ति परिक्षयात् ।
शिवै कीभूतसर्वात्मा स्थानुवद्भाति सण्यमी ॥ १७. २९ ॥
२२. कायार्पण स्थलं
शिवस्य पररूपस्य सर्वानुग्राहिणोर्चने ।
त्यागो देहाभिमानस्य कायार्पणमुदाहृतं ॥ १७. ३० ॥
यदा योगी निजं देहं शिवाय विनिवेदयत् ।
तदा भवति तद्रूपं शिवरूपं न संशयः ॥ १७. ३१ ॥
इन्द्रियप्रीति हेतूनि विषयासङ्ग जानि च ।
सुखानि सुखचिद्रूपे शिवयोगी निवेदयत् ॥ १७. ३२ ॥
दर्शनात् स्पर्शनाद्भुक्तेः श्रवणाद्घ्राणनादपि ।
विषयेभ्यो यदुत्पन्नं शिवे तत्सुखमर्पयेत् ॥ १७. ३३ ॥
देहद्वारेण यद्यत् स्यात् सुखं प्रासङ्ग मात्मनः ।
तत्तन्नि वेदयन् शम्भोर्योगि भवति निर्मलः ॥ १७. ३४ ॥
२३. करणार्पण स्थलं
अनञ्जनं समस्तानां करणानां परात्ब्परे ।
शिवे यत्तदिदं प्रोक्तं करणार्पणमागमे ॥ १७. ३५ ॥
यद्यत्करणमालम्ब्य भुङ्क्ते विषयजं सुखं ।
तत्तच्छिवे समर्प्यैष करणार्पक उच्यते ॥ १७. ३६ ॥
अहङ्कारमदोद्रिक्त मन्तःकरणवारणं ।
बध्नीयाद्यः शिवालाने सधीरः सर्वसिद्धिमान् ॥ १७. ३७ ॥
इन्द्रियाणां समस्तानां मनः प्रथममुच्यते ।
वशीकृते शिवे तस्मिन् किमन्यैस्तद्वशानुगै ॥ १७. ३८ ॥
इन्द्रियाणां वशीकारो निवृत्तिरिति गीयते ।
लक्ष्यीकृते शिवे तेषां कुतः संसारगाहनं ॥ १७. ३९ ॥
संसारविषकान्तारसमुच्छेदकुठारिका ।
उपशन्तिर्भवेत् पुंसामिन्द्रियाणां वशीकृतौ ॥ १७. ४० ॥
इन्द्रियैरेव जायन्ते पापानि सुकृतानिच ।
तेषां समर्पणादीशे कुतः कर्मनिबन्धनं ॥ १७. ४१ ॥
प्रकाशमाने चिद्वह्नौ बहिरन्तर्जगन्मये ।
समर्प्यविषयान् सर्वान् मुक्त वज्जायते जनः ॥ १७. ४२ ॥
चित्तद्रव्यं समादाय जगज्जातं महाहविः ।
चिद्वह्नौ जुह्वतामन्तः कुतः संसारविप्लवः ॥ १७. ४३ ॥
आत्मज्योतिषु चिद्रूपे प्राणवायु निबोधिते ।
जुह्वात् समस्त विषयान् तन्मयो भवतिध्रुवं ॥ १७. ४४ ॥
इन्द्रियाणि समस्तानि शरीरं भोगसाधनं ।
शिवपूजाङ्गभावेन भावयन् मुक्ति माप्नुयात् ॥ १७. ४५ ॥
२४. भावर्पणस्थलं
शिवे निश्चलभावेन भावानां यत्समर्पणं ।
भावार्पणमिदं प्रोक्तं शिवसद्भाववेदिभिः ॥ १७. ४६ ॥
चित्तस्थसकलार्थानां मननं यत्तुमानसे ।
तदर्पणं शिवे साक्षान्मानसो भावौच्यते ॥ १७. ४७ ॥
भाव एव हि जन्तूनां कारणं बन्धमोक्षयोः ।
भावशुद्धौ भवेन्मुक्तिर्विपरीतेतु सम्वृतिः ॥ १७. ४८ ॥
भावस्य शुद्धिराख्याता शिवो हमिति योजना ।
विपरीत समायोगे कुतो दुःखनिवर्तनं ॥ १७. ४९ ॥
भोक्ता भोज्यं प्रेरयिता सर्वमेतच्चराचरं ।
भावयन् शिवरूपेण शिवो भवति वस्तुततः ॥ १७. ५० ॥
सर्वं कर्मार्चनं शम्भोर्वचनं तस्य कीर्तनं ।
इति भावयतो नित्यं कथं स्यात् कर्म बन्धनं ॥ १७. ५१ ॥
सर्वेन्द्रियगतं सौख्यं दुःखं वा कर्म सम्भवं ।
शिवार्थं भावयन् योगी जीवन्मुक्तो भविष्यति ॥ १७. ५२ ॥
२५. शिष्यस्थलं
शासनीयो भवेद्यस्तु परकायेन सर्वदा ।
तत्प्रसादात्तु मोक्षार्थी स शिष्य इति कीर्तितः ॥ १७. ५३ ॥
भावो यस्य स्थिरो नित्यं मनोवाक्कयकर्मभिः ।
गुरौ निजे गुणोदारे स शिष्य इति गीयते ॥ १७. ५४ ॥
शान्तो दान्तस्तपश्शीलः सत्यवाक् समदर्शनः ।
गुरौ शिवे समानस्थः स शिष्याणामिहोत्तमः ॥ १७. ५५ ॥
गुरुमेव शिवं पश्येच्छिव मेव गुरुं तथा ।
नैतयोरन्तरं किञ्चिद्विजानीयाद्विचक्षणः ॥ १७. ५६ ॥
शिवाचारे शिवध्याने शिवज्ञाने च निर्मले ।
गुरोरादेशमात्रेण परां निष्ठामवाप्नुयात् ॥ १७. ५७ ॥
न लङ्घ येद्गुरोराज्ञां ज्ञानमेव प्रकाशयन् ।
शिवासक्तेन मनसा सर्वसिद्धिमवाप्नुयात् ॥ १७. ५८ ॥
गुरोर्लब्ध्वा महाज्ञानं संसारामय भेषजं ।
मोदते यः सुखी शान्तः स जीवन्मुक्त एवहि ॥ १७. ५९ ॥
२६. शुश्रूषस्थलं
बोध्यमानः स गुरुणा पराकायेन सर्वदा ।
तच्छुश्रूषारतः शिष्यः शुश्रूषुरिति कीर्त्यते ॥ १७. ६० ॥
श्रुत्वा श्रुत्वा गुरोर्वाक्यं शिवसाक्षात्क्रियावहं ।
उपशाम्यति यः स्वान्ते समुक्ति पदमाप्नुयात् ॥ १७. ६१ ॥
न बुध्यति गुरोर्वाक्यं विनाशिष्यस्यमाननं ।
तेजो विना सहश्रांशोः कथं स्फुरति पङ्कजं ॥ १७. ६२ ॥
सूर्यस्योदय मात्रेण सूर्यकान्तः प्रकाशते ।
गुरोरालोकमात्रेण शिष्यो बोधेन भासते ॥ १७. ६३ ॥
अद्वैत परमानन्द प्रबोधैकप्रकाशकं ।
उपायंश्रुणुयाच्छिष्यः सद्गुरुम्प्राप्यसाञ्जलि ॥ १७. ६४ ॥
किं तत्त्वं परमं ज्ञेयं केन सर्वे प्रतिष्ठिताः ।
कस्यसाक्षात्क्रिया मुक्तिः कथयेति समासतः ॥ १७. ६५ ॥
इति प्रश्ने कृते पूर्वं शिष्येण नियतात्मना ।
ब्रूयात्तत्त्वं गुरुस्तस्मै येनस्यात्संसृतेर्लयः ॥ १७. ६६ ॥
शिवएव परं तत्त्वं चिदानन्द सदाकृतिः ।
स यथार्थस्तदन्यन्य जगतो नास्ति नित्यता ॥ १७. ६७ ॥
शिवोहमिति भावेन शिवे साक्षात्कृते स्थिरं ।
मुक्तोभवति संसार मोहग्रन्धिविभेदतः ॥ १७. ६८ ॥
शिवं भावय चात्मानं शिवादन्यन्न चिन्तय ।
एवंस्थिरे शिवाद्वैते जीवन्मुक्तो भविष्यसि ॥ १७. ६९ ॥
एवं प्रबोधितः शिष्यो गुरुणा गुणशालिना ।
शिवमेव जगत् पश्यन् जीवन्मुक्तोभिजायते ॥ १७. ७० ॥
२७. सेव्यस्थलं
गुरुवाक्यामृतास्वादात् प्राप्त बोधमहाफलः ।
शुश्रूषुरेवसर्वेषां सेव्यत्वात् सेव्य उच्यते ॥ १७. ७१ ॥
गुरूपदिष्टे विज्ञाने चेतसि स्थिरतां गते ।
साक्षात्कृतशिवः शिष्यो गुरुवत्पूज्यते सदा ॥ १७. ७२ ॥
ज्ञानाधिक्यसम्पत्ति र्गुरोर्यस्मादुपस्थिता ।
तस्माद् ज्ञानग माच्छिष्योगुरुवत्पूज्यतां व्रजेत् ॥ १७. ७३ ॥
शिवोहमिति भावस्य नैरन्तर्यविशेषतः ।
शिवभावे समुत्पन्ने शिववत्पूज्य एव सः ॥ १७. ७४ ॥
ब्रह्माण्डबुद्बुदोद्भासि मयासिन्धुं महत्तरं ।
गुरोः कबलयत्याशु कटाक्ष बडबानलः ॥ १७. ७५ ॥
गुरोः कटाक्ष वेधेन शिवोभवति मानवः ।
रसवेधाद्यधा लोहो हेमतां प्रतिपद्यते ॥ १७. ७६ ॥
विषयासक्त चित्तो पि विषयासङ्गवर्जितः ।
शिवभावयुतो योगी सेव्यः शिव इवापरः ॥ १७. ७७ ॥
मुक्तः संशयपाशतः स्थिरमना भोधे च मुक्ति प्रदे ।
मोहं देहभृतां दृशा विघटयन्मूलं महा संस्मृते ॥ १७. ७८ ॥
सत्तानन्द चिदात्मके निरुपमे शैवे परस्मिन् पदे ।
लीनात्मा विदितप्रपञ्चविभवोयोगी जनैः सेव्यते ॥ १७. ७९ ॥
इति श्री सिद्धान्त शिखामणौ लिङ्गस्थलीय प्रसादिस्थले कायानुग्रहादि
नवविध स्थल प्रसङ्गोनाम सप्तदश परिच्छेदः परिसमाप्तः ॥ १७ ॥
अष्टादश परिच्छेदः
अगस्त्य उवाच
प्रसादि स्थलसम्बद्धाः स्थलभेदाः प्रकीर्तिताः ।
प्राणलिङ्गस्थलरूढान् स्थल भेदान्निरूपय ॥ १८. १ ॥
श्री रेणुक उवाच
स्थलानां नवकं प्रोक्तं प्राणलिङ्गिस्थल श्रितं ।
आदावात्मस्थलं प्रोक्तमन्तरात्मस्थलं ततः ॥ १८. २ ॥
परमात्मस्थलं पश्चान्निर्देहागम संज्ञकं ।
निर्भावागमसंज्ञञ्च ततो नष्टागमस्थलं ॥ १८. ३ ॥
आदिप्रसादिनामाध ततश्चान्त्यप्रसादिकं ।
सेव्य प्रसादिकं चाथश्रुणु तेषां हि लक्षणं ॥ १८. ४ ॥
२८. आत्मस्थलं
जीवभावं परित्यज्य यदा तत्त्वं विभाव्यते ।
गुरोश्च बोधयोगेन तदात्मायं प्रकीर्तितः ॥ १८. ५ ॥
वालाग्रशतभागेन सदृशोहृदये स्थितः ।
अश्नन् कर्मफलं सर्वमात्मा स्फुरति दीपवत् ॥ १८. ६ ॥
आत्मापि सर्वभूताना मन्तः करणमाश्रितः ।
अणुभूतो मलासङ्गादादिकर्मनियन्त्रितः ॥ १८. ७ ॥
अशरीरोपि सर्वत्र व्यापकोपि निरञ्जनः ।
आत्मा मायाशरीरस्थः परिभ्रमति संस्मृतौ ॥ १८. ८ ॥
आत्मस्वरूप विज्ञानं देहेन्द्रिय विभागतः ।
अखण्ड ब्रह्मरूपेण तदात्मप्राप्ति रुच्यते ॥ १८. ९ ॥
जपयोगाद्यथा रागः स्फटिकस्य मणेर्भवेत् ।
तथा हङ्कारसम्बन्धादात्मनो देहमानिता ॥ १८. १० ॥
न चास्ति देहसम्बन्धो निर्देहस्य स्वभावतः ।
अज्ञानकर्मयोगेन देही भवति भुक्तये ॥ १८. ११ ॥
नासौ देवो न गन्धर्वो न यक्षो नैव राक्षसः ।
न मनुष्यो न तिर्यक्ष्पन च स्थावर विग्रहः ।
तत्त च्छरीरयो गेन तत्तनाम्ना विराजते ॥ १८. १२ ॥
नानाकर्म विपाकाश्च नानायोनिसमाश्रितः ।
नाना योग समापन्ना नाना बुद्धिविचेष्टितः ॥ १८. १३ ॥
नाना मार्गसमारूढा नाना सङ्कल्प कारिणः ।
अस्वतन्त्राश्च किञ्चिज् ज्ञाः किञ्चित्कर्तृ हेतवः ।
लीलाभाजनतां प्राप्ताः शिवस्य परमात्मनः ॥ १८. १४ ॥
चोदिताः परमेशेन स्वस्वकर्मानु रूपतः ।
स्वर्गं वा नरकं वापि प्राणिनो यान्ति कर्मिणः ॥ १८. १५ ॥
पुनः कर्मावशेषेण जायन्ते गर्भ कोटरात् ।
जाता मृताः पुनर्जाताः पुनर्मरण भाजनाः ।
भ्रमन्ति घोर संसारे विश्रान्ति कथया विना ॥ १८. १६ ॥
जीवत्वं दुःख सर्वस्वं तदिदं मलकल्पितं ।
निरस्यते गुरोर्बोधाद् ज्ञानशक्तिः प्रकाशते ॥ १८. १७ ॥
२९. अन्तरात्मस्थलं
यदा निरस्तं जीवत्वं भवे द्गुर्वनुबोधतः ।
तदान्तरात्म भावोहि निरस्तस्य भवेद्ध्रुवं ॥ १८. १८ ॥
देहस्थितो व्ययं जीवो देहसङ्ग विवर्जितः ।
बोधात् परमात्म भावित्वादन्तरात्मेति कीर्तितः ॥ १८. १९ ॥
आत्मान्तरालवर्तित्वाज्जीवात्म परमात्मनोः ।
योगादुभय धर्माणा मन्तरात्मेति कीर्तितः ॥ १८. २० ॥
अहङ्कारस्य सम्बन्धान्मनुष्यत्वादिविभ्रमः ।
न स्वभाव इति ज्ञानादन्तरात्मेति कथ्यते ॥ १८. २१ ॥
यथा पद्मपलाशस्य न सङ्गो वारिणा भवेत् ।
तथा देहजुषोस्यस्य न शरीरेण सङ्गतिः ॥ १८. २२ ॥
नीडस्थितो यथा पक्षी नीडाद्भिन्नः प्रकाशते ।
देहस्थितस्थ थात्मायं देहदिन्य! प्रकाशते ॥ १८. २३ ॥
आच्छाद्यते यथा चन्द्रो मेघैरासङ्गवर्जितः ।
तथात्मा देह सङ्घातैरनङ्गः परिवेष्टितः ॥ १८. २४ ॥
निर्ममो निरहङ्कारो निरस्तोपाधि विप्लवः ।
देहस्थोपि सदा ह्यात्मा शिवं पश्यति योगतः ॥ १८. २५ ॥
भोक्तुर्भोज्य परित्यागात् प्रेरकन्य प्रसादतः ।
भोक्तृ ता भोग गलितः स्फुरत्यात्मा स्वभावतः ॥ १८. २६ ॥
सर्वेषां प्रेरकत्वेन शम्भुरन्तः स्थितः सदा ।
तत्पर ज्ञानयोगेन योगी नन्दति मुक्तवत् ॥ १८. २७ ॥
३०. परमात्मस्थलं
निर्धूते तत्प्रभोदेन मले संसारकारणे ।
सामरस्यात् परात्मस्थः परमात्मयमुच्यते ॥ १८. २८ ॥
सर्वेषामात्म भेदानामुत्कृष्टत्वात् स्वतेजसा ।
परमात्मा शिवःप्रोक्तः सर्वगोपी प्रकाशवान् ॥ १८. २९ ॥
ब्रह्माण्डबुद्बुदस्तोमा यस्य मायामहोदधौ ।
उन्मज्जन्ति निमज्जन्ति परमात्मा स उच्यते ॥ १८. ३० ॥
यस्मिन् ज्योतिर्गणाः सर्वेस्फुलिङ्गा इव पावका ।
उत्पद्य विलयं यान्ति तद्रूपं परमात्मनः ॥ १८. ३१ ॥
यस्मिन् समस्ततत्त्वानि कल्लोला इव वारिधौ ।
सम्भूय लयमायान्ति तद्रूपं परमात्मनः ॥ १८. ३२ ॥
निरस्तमल सम्बन्धमशेष जगदात्मकं ।
सर्वतत्त्वो परिप्रोक्तं स्वरूपं परमात्मनः ॥ १८. ३३ ॥
यथा व्याप्य जगत्सर्वं स्वभासा भाति भास्करः ।
तथा स्वशक्ति भिर्व्याप्य परमात्मा प्रकाशते ॥ १८. ३४ ॥
विश्वतो भावमानोपि विश्वमाया विलक्षणः ।
परमात्मा स्वयं ज्योतिरूपो जीवात्मनाम्भवेत् ॥ १८. ३५ ॥
३१. निर्देहागमस्थलं
देहिनोपि परात्मत्व भाविनो निरहङ्कृतेः ।
निरस्त देहधर्मस्य निर्देहागम उच्यते ॥ १८. ३६ ॥
शिवोहमिति यस्यास्ति भावना सर्वगामिनी ।
तस्य देहेन सम्बन्धः कथं स्यासमितात्मनः ॥ १८. ३७ ॥
गलिते कृत्रि माहन्त्वे संसारभ्रम कारणे ।
पराहन्तां प्रविष्टस्य कुतो देहःकुतो रतिः ॥ १८. ३८ ॥
निष्कले निष्प्रपञ्चौघे गभीरे चिन्महोदधौ ।
निमग्न मानसो योगी कथं देहं विचिन्तयेत् ॥ १८. ३९ ॥
अपरिच्छेद्यमात्मानं चिदम्बरमिति स्मरन् ।
देहयोगेपि देहस्थैर्विकारैर्न विलिप्यते ॥ १८. ४० ॥
अखण्डनं विदाकारमद्वितीयं सुखात्मकं ।
परमाकाशमात्मानं मन्वानः कुत्र मुह्यति ॥ १८. ४१ ॥
उपाधिविहिता भेदा दृश्यन्ते चैकवस्तुनि ।
इति यस्य मतिः सोयं कथं देहमितो भवेत् ॥ १८. ४२ ॥
भेदबुद्धिः समस्तानां परिच्छेदन्य कारणं ।
अभेदबुद्धौ जातायां परिच्छेदस्य का कथा ॥ १८. ४३ ॥
३२. निर्भावागमस्थलं
व्यतिरेकात् स्वरूपस्य भावान्तरनिराकृतेः ।
भावो विकारनिर्मुक्तो निर्भावागम उच्यते ॥ १८. ४४ ॥
अहं ब्रह्मेति भावस्य वस्तु द्वयसमाश्रयः ।
एकीभूतस्य चिद्व्योम्नि तदभावो विनिश्चितः ॥ १८. ४५ ॥
एक भावेन रूढस्य निष्कलङ्के चिदम्बरे ।
क्व जाति वासनायोगः क्व देहित्वं परिभ्रमः ॥ १८. ४६ ॥
शून्ये चिदम्बरे स्थाने दूरे वाज्ञ्मानसाध्वनः ।
विलीनात्मा महायोगी केनकिम्वापि भावयेत् ॥ १८. ४७ ॥
अविशुद्धे विशुद्धे वा स्थले दीप्ति र्यथा रवेः ।
पतत्येवं सदा द्वैती सर्वत्र समवृत्ति मान् ॥ १८. ४८ ॥
न बिभेति जरामृत्योर्न क्षुधाया वशं व्रजेत् ।
परिपूर्ण निजानन्द समास्वादान्महासुखी ॥ १८. ४९ ॥
३३. नष्टागमस्थलं
भेदशून्ये महाबोधे ज्ञात्रादित्रि यहानितः ।
ज्ञानस्य नष्टभावेन नष्टागम इहोच्यते ॥ १८. ५० ॥
अद्वैतवास नाविष्ट चेतसां परयोगिनां ।
पश्यतामन्तरात्मानां ज्ञातृत्वं कथमन्यथा ॥ १८. ५१ ॥
अकर्ताहमवेत्ताहमदेहोहं निरञ्जनः ।
इति चिन्तयतः साक्षात् सम्विदेव प्रकाशते ॥ १८. ५२ ॥
निरस्तभेद जल्पस्य निरीहस्य प्रशाम्यतः ।
स्वे महिम्नि विलीनस्य किमन्यद् ज्ञेयमुच्यते ॥ १८. ५३ ॥
एकीभूते निजाकारे सम्विदा निष्प्रपञ्चया ।
केन किं वेदनीयं स्याद्वेत्ता कः परिभाष्यते ॥ १८. ५४ ॥
महासत्ता महासम्विद्विश्वरूपा प्रकाशते ।
तद्विना नास्ति वस्त्वैकं भेद बुद्धिं विमुञ्चतः ॥ १८. ५५ ॥
३४. आदिप्रसादि स्थलं
सर्वाधिष्ठातृकः शम्भुरादिस्तस्य प्रसादतः ।
आदि प्रसादीत्युक्तो यं निर्विकारपदे स्थितः ॥ १८. ५६ ॥
अनेक जन्म शुद्धस्य निरहङ्कार भाविनः ।
प्रसन्नस्य महादेवः प्रसीदति विमुक्तये ॥ १८. ५७ ॥
शिव प्रसादसम्पत्त्या शिवभावमुपेयुषा ।
शिवादन्यज्जगज्जालं दृश्यं ते न च दृश्यते ॥ १८. ५८ ॥
शम्भोरेव प्रसादेन संसारच्छेदकारिणा ।
मोहग्रन्धिं विनिर्भिद्य मुक्तिं यान्ति विवेकिनः ॥ १८. ५९ ॥
विनाप्रसादमीशस्य संसारो न निवर्तते ।
विना सूर्योदयं लोके कुतः स्यात्तमसो लयः ॥ १८. ६० ॥
सर्वानुग्राहकः शम्भुः केवलं कृपया प्रभुः ।
मोचयेत् सकलान् जन्तून्नकिञ्चिदिह कारणं ॥ १८. ६१ ॥
३५. अन्त्य प्रसादि स्थलं
लयः सर्वपदार्थानामन्त्य इत्युच्यते बुधैः ।
प्रसादोनुभवस्तस्य तद्वानन्त्य प्रसादवान् ॥ १८. ६२ ॥
देवतिर्यज्मनुष्यादि व्यवहारविकल्पना ।
मायाकृता परेतत्त्वे तल्लयेतत् क्षयोभवेत् ॥ १८. ६३ ॥
साक्षात्कृते परे तत्त्वे सच्चिदानन्द लक्षणे ।
क्व पदार्थ परिज्ञानं कुतो ज्ञातृत्व सम्भवः ॥ १८. ६४ ॥
सुषुप्तस्य यथावस्तु न किञ्चिदपि भासते ।
तथा मुक्तस्य जीवस्य न किञ्चिद्वस्तु दृश्यते ॥ १८. ६५ ॥
यथाकाशमविच्छिन्नं निर्विकारं स्वरूपतः ।
तथा मुक्तस्य जीवस्य स्वरूपमव शिष्यते ॥ १८. ६६ ॥
न किञ्चिदपि मुक्तस्य दृश्यं कर्तव्यमेव हि ।
सुखस्फूर्ति स्वरूपस्य निश्चला स्थिति रुच्यते ॥ १८. ६७ ॥
शिवाद्वैत परिज्ञान शिथिला शेष वस्तुनः ।
केवलं सम्विदुल्लासदर्शिनः केन किं भवेत् ॥ १८. ६८ ॥
३६. सेव्य प्रसादि स्थलं
सेव्यो गुरुः स्म्ततो ह्यास्य प्रसादोनुभवोमतः ।
तदेकावेश रूपेण तद्वान् सेव्य प्रसादवान् ॥ १८. ६९ ॥
सेव्यो गुरुः समस्तावां शिव एव न संशयं ।
प्रसादोस्य परानन्दप्रकाशः परिकीर्त्यते ॥ १८. ७० ॥
गुरुरेव परं तत्त्वं परतत्त्वं गुरुःस्मृतः ।
तदेकत्वानुभावेन न किञ्चिदव शिष्यते ॥ १८. ७१ ॥
अपरिच्छेद्यमात्मस्थ मवाज्ञ्मानसगोचरं ।
आनन्दं पश्यतां पुंसां रतिस्यत्र का भवेत् ॥ १८. ७२ ॥
ज्ञानामृतेन तृप्तस्य किमन्यैर्भोज्य वस्तुभिः ।
ज्ञानमेव परानन्दं प्रकाशयति यच्छिवं ॥ १८. ७३ ॥
मुक्तिरेव परातृप्तिः परमानन्द लक्षणा ।
नित्यप्तस्य मुक्तस्यकिमन्यैर्भोग साधनैः ॥ १८. ७४ ॥
न बाह्य कर्म तस्यास्ति न चान्तर्नैव कुत्रचित् ।
शिवैक्य ज्ञानरूढस्य देह भ्रान्तिं विमुञ्चतः ॥ १८. ७५ ॥
न कर्मबन्धेन तपो विशेषे न मन्त्रयोगाभ्यसनेतथैव ।
ध्याने भोधे च तदात्मा तत्त्वे मनः प्रवृत्तिः परयोगभाजां ॥ १८. ७६ ॥
इति श्री सिद्धान्त शिखामणौ लिङ्गस्थलीय प्राणलिङ्गि स्थले आत्मस्थलादि
नवविध स्थल प्रसङ्गोनाम अष्टादश परिच्छेदः परिसमाप्तः ॥ १८ ॥
एकोनविंशति परिच्छेदः
अगस्त्य उवाच
स्थलभेदाः समाख्याताः प्राणलिङ्गिस्थलाश्रयाः ।
कथय स्थलभेदं मे शरणस्थल संश्रितं ॥ १९. १ ॥
श्री रेणुक उवाच
शरणस्थलमाश्रित्य स्थलद्वादशकं मया ।
उच्यते नाम सर्वेषां स्थलानां श्रुणु तापस ॥ १९. २ ॥
दीक्षापादोदकं पूर्वं शिक्षापादोदकं ततः ।
ज्ञानपादोदकं चाध क्रियानिष्पत्तिकं ततः ॥ १९. ३ ॥
भावनिष्पत्तिकं चाध ज्ञाननिष्पत्तिकं ततः ।
पिण्डाकाशस्थलं चाध बिन्द्वाकाशस्थलं ततः ॥ १९. ४ ॥
महाकाशस्थलं चाध क्रियायाश्च प्रकाशनं ।
भावप्रकाशनं पश्चात्ततो ज्ञानप्रकाशनं ।
स्वरूपं पृथगेतेषां कथयामि यथाक्रमं ॥ १९. ५ ॥
३७. दीक्षापादोदकस्थलं
दीक्षयोपगताद्वैतं यद् ज्ञानं गुरु शिष्ययोः ।
आनन्दस्यैक्यमे तेन दीक्षापादोदकं स्मृतं ॥ १९. ६ ॥
परमानन्द एवोक्तः पादशब्देन निर्मलः ।
ज्ञानं चोदक शब्देन पादोदकमितिस्मृतं ॥ १९. ७ ॥
अथवा पादशब्देन गुरुरेव निगद्यते ।
शिष्यश्चोदकशब्देन तयोरैक्यं तु दीक्षया ॥ १९. ८ ॥
परसम्वित्प्रकाशात्मा परमानन्द भावनां ।
अधिगम्य महायोगी न भेदं क्वापि पश्यति ॥ १९. ९ ॥
देशकालाद्यवच्छेद विहीनं नित्य निर्मलं ।
आनन्द प्राप्य बोधेन नान्यत् काङ्क्षति सण्यमि ॥ १९. १० ॥
ज्ञानामृत मतिस्वच्छं गुरुकारुण्यसम्भवं ।
आस्वाद्य रमते योगी संसारामयवर्जितः ॥ १९. ११ ॥
३८. शिक्षापादोदकस्थलं
गुरुशिष्यमयं ज्ञानं शिक्षामननमीर्यते ।
तयोः समरसत्वं हि शिक्षापादोदकं स्मृतं ॥ १९. १२ ॥
मथिताच्छास्त्र जलधेर्युक्ति मन्थान वैभवात् ।
गुरुणा लभ्यते बोदिसुधा सुमनसां गणैः ॥ १९. १३ ॥
ज्ञानचन्द्रसमुद्भूतां परमानन्द चन्द्रिकां ।
पश्यन्ति परमाकाशेमुक्ति रात्रौ महाधियः ॥ १९. १४ ॥
दृष्टे तस्मिन् परानन्दे देश कालादिवर्जिते ।
द्रष्टव्यं विद्यते नान्य च्छ्रोतव्यं ज्ञेयमेववा ॥ १९. १५ ॥
आत्मानन्देन तृप्तस्य का स्पृहा विषये सुखे ।
गङ्गाजलेन तृप्तस्य कूपतोये कुतोरतिः ॥ १९. १६ ॥
यस्मिन्न प्राप्तकल्लोले सुखसिन्धौ निमज्जति ।
सामरस्यान्महायोगी तस्य सीमा कुतो भवेत् ॥ १९. १७ ॥
गुरुप्रसादचन्द्रेण निष्कलङ्केन चारुणा ।
यन्मनः कुमुदं नित्यं बोधितं तस्य को भ्रमः ॥ १९. १८ ॥
३९. ज्ञानपादोदकस्थलं
सदैक्यसम्पदानन्दो योसौ ज्ञानगुरुर्मतः ।
तत्सामरस्यं शिष्यस्य ज्ञानपादोदकं विदुः ॥ १९. १९ ॥
अविद्याराहुनिर्मुक्तो जीवचन्द्रः सुनिर्मलः ।
प्रकाशते पराकाशे परानन्द महाद्युतिः ॥ १९. २० ॥
अज्ञानमेघनिर्मुक्तः पूर्णो जीवसुधाकरः ।
आनन्दजलधेर्वृद्धि मनुपश्यन् विभावते ॥ १९. २१ ॥
अज्ञानचन्द्रोदये जाते ध्वस्त मोहत मोभराः ।
पश्यन्ति परमां काष्टां योगिनः सुखरूपिणीं ॥ १९. २२ ॥
मायारजन्या विरये बोधसूर्ये प्रकाशिते ।
निरस्त सर्वव्यापाराश्चित्रं स्वपिति सण्यमी ॥ १९. २३ ॥
अनाद्य विद्या विच्छित्ति वेलायां परयोगिनः ।
प्रकाशते परानन्दः प्रपञ्चेन विनाकृतः ॥ १९. २४ ॥
नित्यानन्दे निराकारे निर्मले पर तेजसि ।
विलीन चेतसां पुंसां कुतो विश्वविकल्पना ॥ १९. २५ ॥
कुतो ब्रह्मा कुतो विष्णुः कुतो रुद्रः कुतो रविः ।
साक्षात्कृत परानन्दज्योतिषः साम्यकल्पने ॥ १९. २६ ॥
अपरोक्ष परानन्द विलासस्य महात्मनः ।
ब्रह्म विष्ण्वादयो देवा विशेषा सुख बिन्दवः ॥ १९. २७ ॥
यन्मात्र सहितु लोके वाण्छन्ति विषयं नराः ।
तमप्रमेयमानन्दं परमं कोन वाण्छति ॥ १९. २८ ॥
४०. क्रिया निष्पत्तिस्थलं
ज्ञानिनो यानि कर्माणि तानिनो जन्महेतवः ।
अग्नि दग्धानि बीजानी यथा नाङ्कुरि कारणं ॥ १९. २९ ॥
कर्मणा किङ्कृतेनापि ज्ञानिनो निरहङ्कृतेः ।
विक्रिया प्रतिबिम्बस्था किं करोति हिमद्युतेः ॥ १९. ३० ॥
ज्ञानी कर्मनिरूढोपि लिप्यते नक्रियाफलैः ।
घृतादिना यथा जिह्वा भोक्त्री चापि नलिप्यते ॥ १९. ३१ ॥
निरस्तोपाधि सम्बन्धे जीवे या या क्रियास्थितिः ।
सा सा प्रतीतिमात्रेण निष्फला तत्रलीयते ॥ १९. ३२ ॥
गच्छंस्तिष्ठन् स्वपन्वापि न निष्कर्मास्ति कश्चन ।
स्वभावो देहिनां कर्म ज्ञानिनां तत्तु निष्फलं ॥ १९. ३३ ॥
परिपूर्णमहानन्द भाविनः शुद्धचेतनः ।
न भवेत् कर्म कार्पण्यं नाना भोगफलप्रदं ॥ १९. ३४ ॥
४१. भावनिष्पत्तिस्थलं
भावेन नास्तिसम्बन्धः केवल ज्ञानियोगिनः ।
तथापि भावं कुर्वीत शिवे संसारमोचके ॥ १९. ३५ ॥
परिपूर्ण प्रबोधोपि भावं शम्भौ न वर्जयेत् ।
भावो हि निहितस्तस्मिन् भवसागरतारकः ॥ १९. ३६ ॥
निवर्त्य जन्मजं दुःखं भावः शैवो निवर्तते ।
यथा कष्टादिकं दग्ध्वा स्वयं शाम्यति पावकः ॥ १९. ३७ ॥
प्रकाशिते शिवानन्दे तद्भावैः किं प्रयोजनं ।
सिद्धे साध्येचिरेणापि साधनैः किं प्रयोजनं ॥ १९. ३८ ॥
एकीकृते शिवेभावे ज्ञानेन सहसण्यमी ।
विस्मृतात्मा समावेशः शिवभावे विभानते ॥ १९. ३९ ॥
न भावेन विना ज्ञानं न भावो ज्ञानमन्तरा ।
मोक्षायकारणं प्रोक्तं तस्मादुभयमाश्रयेत् ॥ १९. ४० ॥
४२. ज्ञाननिष्पत्तिस्थलं
परिपूर्णे महानन्दे परमाकाशलक्षणे ।
शिवे विलीन चित्तस्य कुतो ज्ञेयान्तरे कथा ॥ १९. ४१ ॥
ज्ञाता चाहं ज्ञेयमिदमिति व्यवहृतिः कुतः ।
अभेधब्रह्म सारस्ये निरस्ताःलवस्तुनि ॥ १९. ४२ ॥
४३. पिण्डाकाशस्थलं
यथा पिण्डस्थ आकाशस्थथात्मा पूर्ण उच्यते ।
एतदर्थ विवेकोयः पिण्डाकाशस्थलं विदुः ॥ १९. ४३ ॥
घटोपाथिर्यथाकाशः परिपूर्णः स्वरूपतः ।
तथा पिण्डस्थितोह्यात्मा परिपूर्णः प्रकाशते ॥ १९. ४४ ॥
अन्तःस्थितं पराकाशं शिवमद्वैतलक्षणं ।
भायेद्यः सुमनसा पिण्डाकाशः सौच्यते ॥ १९. ४५ ॥
शिवागारमिदं प्रोक्तं शरीरं बोधदीपितं ।
षट्त्रिंशत्तत्वघटितं सुमनः पद्मपीठकं ॥ १९. ४६ ॥
पराकाश स्वरूपोहि प्रकाशः परमेश्वरः ।
हृदाकाशगुहालीनो दृश्यते२न्तः शरीरिणां ॥ १९. ४७ ॥
एतच्छिवपुरं प्रोक्तं सप्तधतु समावृतं ।
अत्र हृत्पङ्कजं वेश्म सूक्ष्माम्बरमनोहरं ॥ १९. ४८ ॥
तत्र सन्निहितः साक्षात् सच्चिदानन्दलक्षणः ।
नित्यसिद्धः प्रकाशात्मा जलस्थाकाशवच्चिवः ॥ १९. ४९ ॥
अन्तराकाशमध्यस्थमशेषोपाधिवर्जितं ।
घटाकाशमिवाच्छिन्नं भावयेच्चिन्मयं शिवं ॥ १९. ५० ॥
४४. बिन्द्वाकाशस्थलं
यथाकाशो विभुर्जेयः सर्वप्राण्युपरिस्थितः ।
तथात्मेत्युपमानार्थं बिन्द्वाकाशस्थलं विदुः ॥ १९. ५१ ॥
यथैकोवायुराख्यातः सर्वप्राणिगतोविभुः ।
तथात्मा व्यापकः साक्षात् सर्वप्राणिगतः स्वयं ॥ १९. ५२ ॥
यथा वह्निरमे यात्ना सर्वत्रैकोपिभावते ।
तथाशम्भुः समस्तात्मा परिच्छेद विवर्जितः ॥ १९. ५३ ॥
सर्वेषान्देहिनामन्त श्चित्ततोयं प्रकाशते ।
तस्मिन् प्रतिफलत्यात्मा शिवो दर्पणवद्विभुः ॥ १९. ५४ ॥
एकः परिमितः सम्वित्प्रकाशात्मा परात्परः ।
सर्वप्राणिगतो भाति तथापि विभुरुच्यते ॥ १९. ५५ ॥
एकएव यथा सूर्यस्तेजसा भाति सर्वगः ।
तथात्मा शक्तिभेदेन शिवः सर्वगतोभवेत् ॥ १९. ५६ ॥
४५. महाकाशस्थलं
पिण्डाण्डस्थं यथाकाशं नभिन्नं तद्वदात्मनः ।
अभिन्नः परमात्मेति महाकाशस्थलं विदुः ॥ १९. ५७ ॥
यथान भिन्न माकाशं घटेषु च मठेषु च ।
तथाण्डेषु च पिण्डेषु स्थितो ह्यात्मा न भिद्यते ॥ १९. ५८ ॥
अनिर्देश्यमनौपम्य मवाज्ञ्मानसगोचरं ।
सर्वतो मुखसम्पन्नं सत्तानन्द चिदात्मकं ॥ १९. ५९ ॥
कलातीतं कलातीतं क्रमयोगादिवर्जितं ।
स्वानुभूतिप्रमाणस्थं ज्योतिषामुदयस्थलं ॥ १९. ६० ॥
शिवाख्यं परमं ब्रह्म परमाकाशलक्षणं ।
लिङ्गमित्युच्यते सद्भिर्यद्विना न जगत्स्थितिः ॥ १९. ६१ ॥
परमाकाशमव्यक्तं प्रबोधानन्दलक्षणं ।
लिङ्गं ज्योतिर्मयं प्राहुर्लीयन्तेयत्रयोगिनः ॥ १९. ६२ ॥
सम्विदेव पराकाष्ठा परमानन्दरूपिणी ।
तामाहुः परमाकाशं मुनयो मुक्तसंशयाः ॥ १९. ६३ ॥
तरङ्गादिर्यथा सिन्धोः स्वरूपान्ना तिरिच्यते ।
तथा शिवात् पराकाशाद्विश्वमेतन्न भिद्यते ॥ १९. ६४ ॥
यथा पुष्पपलाशादिर्वृक्षरूपान्न भिद्यते ।
तथा शिवात्पराकाशाज्जगतौ नास्ति भिन्नता ॥ १९. ६५ ॥
यथा ज्योतीम्षि भासन्ते भूताकाशे पृथक् पृथक् ।
तथा भान्ति पराकाशे ब्रह्माण्डानि विशेषतः ॥ १९. ६६ ॥
निरस्तोपाधिसम्बन्धं निर्मलं सम्विदात्मकं ।
पराकाशं जगच्चित्र विलासालम्ब भित्तिकं ॥ १९. ६७ ॥
४६. क्रिया प्रकाशस्थलं
शिवस्य परिपूर्णस्य पराकाश स्वरूपिणः ।
आत्मत्वेनानुसन्धानात् क्रियाद्योतनवान् यमि ॥ १९. ६८ ॥
निष्कलङ्कचिदानन्दगग नोपमरूपिणः ।
शिवस्य परिपूर्णस्य वृत्तिश्चैतन्यरूपिणः ॥ १९. ६९ ॥
निष्कलङ्के निराकारे नित्ये परमतेजसि ।
विलीनचित्तवृत्तस्य तथा शक्तिः क्रियोच्यते ॥ १९. ७० ॥
सर्वज्ञः सर्वकर्ता च सर्वगः परमेश्वरः ।
तदैक्यचिन्तया योगी तादृशात्मा प्रकाशते ॥ १९. ७१ ॥
सर्वेन्द्रियाणां व्यापारे विद्यमानेपि सण्यमी ।
प्रत्यज्ञ्मुखेन मनसा शिवं प्रश्यन् प्रमोदते ॥ १९. ७२ ॥
कूटस्थमचलं प्राज्ञं गुणातीतं गुणोत्तरं ।
शिवतत्त्वं स्वरूपेण पश्यन् योगी प्रमोदते ॥ १९. ७३ ॥
४७. भावप्रकाशस्थलं
तरङ्गाद्यायथा सिन्धोर्न भिद्यन्ते तथात्मनः ।
भावा बुद्ध्यादयः सर्वे यत्तद्भावप्रकाशनं ॥ १९. ७४ ॥
शिवएव जगत्सर्वं शिवएवाहमित्यपि ।
भावयन् परमो योगी भवदोषैर्न बाध्यते ॥ १९. ७५ ॥
शिवभावे स्थिरे जाते निर्लेपस्य महात्मनः ।
येये भावाः समुत्पन्ना स्ते ते शिवमयाः स्मृताः ॥ १९. ७६ ॥
अद्वितीयशिवाकारभावनाध्वस्तकर्मणा ।
न किञ्चिद्भाव्यते साक्षाच्छिवादन्यन्महात्मना ॥ १९. ७७ ॥
गलिता ज्ञानबन्धस्य केवलात्मानुभाविनः ।
यत्र यत्रेन्द्रियासक्तिस्तत्र तत्र शिवात्मता ॥ १९. ७८ ॥
रागद्वेषादयो भावाः संसारक्लेश कारणं ।
तेषेमुपरमो यन्त्र तत्र भावः शिवात्मकः ॥ १९. ७९ ॥
यथा सूर्यसमाक्रान्ता न शक्नोति तमः सदा ।
तथा प्रकाशमात्मानं ना विद्या क्रमतिस्वयं ॥ १९. ८० ॥
४८. ज्ञानप्रकाशस्थलं
मुक्तस्यज्ञानसम्बन्धो ज्ञेयाभावः स्वभावतः ।
उपाधि सहितं ज्ञानं न भेदमतिवर्तते ॥ १९. ८१ ॥
ज्ञानस्यविषये तत्त्वे शिवाख्ये चित्सुखात्मनि ।
आत्मैकत्वानु सन्धानं ज्ञानमित्युच्यते बुधैः ॥ १९. ८२ ॥
अपरिच्छिन्नमानन्दं सत्ताकारं जगन्मयं ।
ब्रह्मेति लक्षणज्ञा ब्रह्मज्ञानमिहोच्यते ॥ १९. ८३ ॥
ब्रह्मज्ञाने समुत्पन्ने विश्वश्वोपाधि विवर्जिते ।
सर्वं सम्विन्मयं भाति तदन्यन्नै वदृश्यते ॥ १९. ८४ ॥
तस्मादद्वैत विज्ञानमपवर्गस्य कारणं ।
भावयन् सततं योगी संसारेण नलिप्यते ॥ १९. ८५ ॥
नित्ये निर्मलसत्त्व योगिनि परे निर्वासने निष्कले ।
सर्वातीतपदे चराचरमये सत्तात्मनि ज्योतिषि ॥
सम्विद्व्योम्नि शिवे विलीन हृदयस्तद्भेद वैमुख्यतः ।
साक्षात्सर्वगतो विभाति विगलद्विश्वः स्वयंसण्यमी ॥ १९. ८६ ॥
इति श्री सिद्धान्त शिखामणौ लिङ्गस्थलीय शरणस्थले दीक्षापादोदक
स्थलादि द्वादशविधस्थल प्रसङ्गोनाम एकोनविंशति परिच्छेदः
परिसमाप्तः ॥ १९ ॥
विंशतितम परिच्छेदः
अगस्त्य उवाच
स्थलभेदास्त्वया प्रोक्ताः शरणस्थल संश्रिताः ।
ऐक्यस्थलगतान् ब्रूहि स्थलभेदान् गणेन्द्र मे ॥ २०. १ ॥
श्री रेणुक उवाच
स्थलानां नवकं चैक्यस्थलेस्मिन् परिकीर्त्यते ।
तत्स्वीकृत प्रसादाख्यस्थलमादौ प्रकीर्तितं ॥ २०. २ ॥
शिष्टादनस्थलं चाथ चराचरलयस्थलं ।
भाण्डस्थलं ततः प्रोक्तं भाजनस्थलमुत्तमं ॥ २०. ३ ॥
अङ्गालेपस्थलं पश्चात् स्वपराज्ञस्थलं ततः ।
भावाभावविनाशं च ज्ञानशून्यस्थलं ततः ।
तदेषां क्रमशो वक्ष्ये श्रुणु तापसतलक्षणं ॥ २०. ४ ॥
४९. स्वीकृतप्रसाद स्थलं
मातृमेय प्रमाणादिव्यवहार विहारिणीं ।
सम्वित्साक्षात्कृतिं लब्ध्वायोगी स्वात्मनि तिष्ठति ॥ २०. ५ ॥
अद्वैत बोध निर्धूत भेदावेशस्य योगिनः ।
साक्षात्कृतमहासम्वित्प्रकाशस्य क्व बन्धनं ॥ २०. ६ ॥
चिदात्मनि शिवे न्यस्तं जगतेतच्चराचरं ।
दृश्यते तन्मयं सर्वमग्नौ काष्ठादिकं यथा ॥ २०. ७ ॥
न भाति पृथ्वी न जलं न तेजो नैव मारुतः ।
वाकाशो ना परं तत्त्वं शिवे दृष्टे चिदात्मनी ॥ २०. ८ ॥
ज्योतिर्लिङ्गे चिदाकारे ज्वलत्यन्तर्निरन्तरं ।
विलीनं निखिलं तत्त्वं पश्यन् योगी नलिप्यते ॥ २०. ९ ॥
अन्तर्मुखेन मनसा स्वात्मज्योतिषि चिन्मये ।
सर्वानप्यर्थ विषयान् जुह्वाद्योगी प्रमोदते ॥ २०. १० ॥
सच्चिदानन्द जलधौ शिवे स्वात्मनि निर्मलः ।
समर्प्य सकलान् भुङ्क्ते विषयांस्त त्प्रसादतः ॥ २०. ११ ॥
५०. शिष्टौदनस्थलं
प्रकाशयते या सर्वेषां माया सैवौदनाकृतिः ।
लीयते यत्र चिल्लिङ्गे शिष्टं तत्परिकीर्तितं ॥ २०. १२ ॥
जगत्यस्मिन् परिग्रस्ते माया पाश विजृम्भिते ।
स्वात्मज्योतिषि बोधेन तदेकमवशिष्यते ॥ २०. १३ ॥
अखण्डसच्चिदानन्द परब्रह्ममस्वरूपिणिः ।
जीवन्मुक्तस्य धीरस्य माया कैङ्कर्यनादिनी ॥ २०. १४ ॥
विश्वसम्मोहिनी माया बहुशक्तिर्निरङ्कुशा ।
शिवैक्यत्वमुपेतस्य न पुरः स्थातुमिहते ॥ २०. १५ ॥
ज्योतिर्लिङ्गे चिदाकारे निमग्नेन महात्मना ।
भुज्यमाना यथा योगं नश्यन्ति विषयाःस्वतः ॥ २०. १६ ॥
शब्दादयोपि विषया भुज्यमानास्तदिन्द्रियै ।
आत्मन्येन विलीयन्ते सरितः सागरे यथा ॥ २०. १७ ॥
अर्थ जात मशेषं तु ग्रसन् योगी प्रशाम्यति ।
स्वात्मनीव स्थितं भानुस्तेजो जालमशेषतः ॥ २०. १८ ॥
५१. चराचरलयस्थलं
लिङ्गैक्येतु समापन्ने चराचरजगल्लये ।
निर्देहिच भवेद्योगी चराचरविनाशकः ॥ २०. १९ ॥
यथा मेघाः समुद्भूता विलीयन्ते नभःस्थले ।
तथाननात्म निविलीयं ते विषयाः स्वानुभाविनः ॥ २०. २० ॥
जाग्रत्स्वप्नसुषुप्तिभ्यः परावस्थामुपेयुषः ।
किं वा प्रमाणं किं ज्ञेयं किं वा ज्ञानस्य साधनं ॥ २०. २१ ॥
तुर्यातीत पदं यत्त द्दूरं वाज्ञ्मनसाध्वनः ।
अनुप्रविश्य तद्योगी न भूमो विश्वमीक्षते ॥ २०. २२ ॥
नान्यत्पश्यति योगीन्द्रो नान्यज्जानति किञ्चन ।
नान्यच्छृणोति सन्दृष्टे चिदानन्दमये शिवे ॥ २०. २३ ॥
५२. भाण्डस्थलं
ब्रह्माण्डशतकोटीनां स्वर्गस्थितिलयान् प्रति ।
स्थानभूतो विमर्शो यस्तद्भाण्डस्थल मुच्यते ॥ २०. २४ ॥
विमर्शाख्या पराशक्ति र्विश्वो द्भावनकारिणी ।
साक्षिणी सर्वतत्त्वानं समिन्धे सर्वतो मुखी ॥ २०. २५ ॥
विश्वं यत्र लयं यान्ति विभात्यात्मा चिदाकृतिः ।
सदानन्दमयः साक्षात् सा विमर्शमयी कला ॥ २०. २६ ॥
सराहन्ता समावेश परिपूर्ण विमर्शवान् ।
सर्वज्ञः सर्वगः साक्षी सर्वकर्ता महेश्वरः ॥ २०. २७ ॥
विश्वाधारं महासम्वित्प्रकाशपरिपूरितं ।
पराहन्तामयं प्राहुर्विमर्शं परमात्मनः ॥ २०. २८ ॥
विमर्शभाण्ड विन्यस्त विश्वतत्त्व विजृम्भणः ।
अनन्यमुख सम्प्रेक्षी मुक्तः स्वात्मनि तिष्ठति ॥ २०. २९ ॥
५३. भाजनस्थलं
समस्त जगदण्डानां स्वर्गस्थित्यन्त कारणं ।
विमर्शोभासते यत्र तद्भाजन मिहोच्यते ॥ २०. ३० ॥
विमर्शाख्या पराशक्ति र्विश्ववैचित्र्यकारिणी ।
यस्मिन् प्रतिष्ठिता ब्रह्म तदिदं विश्वभाजनं ॥ २०. ३१ ॥
यथा चन्द्रे स्थिरा जोत्स्ना विश्व वस्तु प्रकाशिनी ।
तथा शक्ति र्विमर्शाख्या प्रकाशे ब्रह्मणि स्थिरा ॥ २०. ३२ ॥
वृक्षस्थं पत्र पुष्पादि वटबीजस्थितं यथा ।
तथा हृदयबीजस्थं विश्वमेतत्परात्मनः ॥ २०. ३३ ॥
आकारः शिव आख्यातो हङ्कारः शक्ति रुच्यते ।
शिवशक्ति मयं ब्रह्म स्थितमेकमहं पदे ॥ २०. ३४ ॥
अहन्तां परमां प्राप्य शिवशक्तिमयीं स्थिरां ।
ब्रह्मभूयं गतो योगी विश्वात्मा प्रतिभासते ॥ २०. ३५ ॥
अन्तःकरणरूपेण जगदङ्कुररूपतः ।
यस्मिन् विभाति चिच्छक्ति र्ब्रह्मभूतः स उच्यते ॥ २०. ३६ ॥
५४. अङ्गालेपस्थलं
दिक्कालाद्यनवच्छिन्नं चिदानन्दमयं महत् ।
यस्यरूपमिदङ्ख्यातं सोङ्गालेप इहोच्यते ॥ २०. ३७ ॥
समस्त जगदात्मापि सम्विद्रूपो महामतिः ।
लिप्यतेनैव संसारैर्यथा धूमादिभिर्नभः ॥ २०. ३८ ॥
न देवत्वं न मानुष्यं नतिर्यक्त्वं न चान्यथा ।
सर्वाकारत्व माख्यातं जीवन्मुक्तस्ययोगिनः ॥ २०. ३९ ॥
नविधिर्न निषेधश्च न विकल्पो न वासना ।
केवलं चित्स्वरूपस्य गलित प्राकृतात्मनः ॥ २०. ४० ॥
अनश्वमरनिर्देश्यं यथा व्योम प्रकाशते ।
तथा ब्रह्मापि चैतन्यमत्र वैशेषिकी कला ॥ २०. ४१ ॥
घटादिषु पृथग्भूतं यथाकाशं न भिद्यते ।
तथोपादिगतं ब्रह्म नानारूपं न बिध्यते ॥ २०. ४२ ॥
५५. स्वपराज्ञस्थलं
दिक्कालाद्यवच्छिन्न तेजो रूपसमाश्रयात् ।
स्वपरज्ञानविरहात् स्वपराज्ञस्थलं विदुः ॥ २०. ४३ ॥
आप्रमेये चिदाकारे ब्रह्मण्यद्वैत वैभवे ।
विलीनः किं सुजानति स्वात्मानं परमेव वा ॥ २०. ४४ ॥
यत्रनास्ति भिदा योगादहं त्वमिति विभ्रमः ।
न सण्योगो वियोगश्च न ज्ञेयज्ञातृकल्पना ॥ २०. ४५ ॥
न बन्धो न च मुक्तिश्च न देवाद्यभिमानिता ।
न सुखं नैव दुःखं च नाज्ञानं ज्ञानमेववा ॥ २०. ४६ ॥
नोत्कृष्टत्वं न हीनत्वं नो परिष्टान्न चाप्यथः ।
न पश्चान्नैव पुरतो न बाह्यञ्च न चान्तरं ॥ २०. ४७ ॥
सर्वाकारे चिदानन्दे सत्यरूपिणि शाश्वते ।
पराकाशमये तस्मिन् परब्रह्मणि निर्मले ॥ २०. ४८ ॥
एकभावमुपेतानां योगिनां परमात्मनां ।
परापरपरिज्ञान परिहास कथा कुतः ॥ २०. ४९ ॥
५६. भावाभावलयस्थलं
प्रतीयमानौ विद्येते भावाभावौ न कुत्रचित् ।
लिङ्गैक्ये सति यत्तस्माद्बावाभावलयस्थलं ॥ २०. ५० ॥
अहम्भावस्य शून्यत्वादभावस्य तथात्मनः ।
भावाभावविनिर्मुक्तो जीवन्मुक्तः प्रकाशते ॥ २०. ५१ ॥
सुखदुःखादियोगेषु ना भावोभाव एव वा ।
विद्यते चित्स्वरूपस्य निर्लेपस्य महात्मनः ॥ २०. ५२ ॥
त्वन्ताहन्ता विनिर्मुक्ते निर्विकल्पे चिदम्बरे ।
एकीभूतस्य सिद्धस्य भावाभावकथा कुतः ॥ २०. ५३ ॥
५७. ज्ञानशून्यस्थलं
परस्परसमापेक्ष भावाभावविवेचनं ।
ज्ञानं ब्रह्मणि यन्नास्ति ज्ञानशून्यस्थलं विदुः ॥ २०. ५४ ॥
सर्वात्मनि परेतत्त्वे भेदशङ्काविवर्जिते ।
ज्ञात्रादिव्यवहारोत्थं कुतो ज्ञानं विभाव्यते ॥ २०. ५५ ॥
निर्विकारं निराकारं नित्यं सीमाविवर्जितं ।
व्योमवत्परमं ब्रह्म निर्विकल्पतया स्थितं ॥ २०. ५६ ॥
न पृथ्व्यादीनी भूतानि न ग्रह नैव तारकाः ।
न देवा न मनुष्याश्च न तिर्यञ्चोनचापरे ॥ २०. ५७ ॥
तस्मिन् केवल चिन्मात्र सत्तानन्दैकलक्षणे ।
त्वन्ताहन्तादि सम्रूढं विज्ञानं केन भाव्यते ॥ २०. ५८ ॥
केवलं सच्चिदानन्दप्रकाशद्वयलक्षणं ।
निर्विकल्पं पराकाशं परब्रह्म प्रकाशते ॥ २०. ५९ ॥
ज्योतिर्लिङ्गे चिदाकारे स्वप्रकाशे नरिन्तरे ।
एकीभावमुपेतस्य कथं ज्ञानस्य सम्भवः ॥ २०. ६० ॥
जले जलमिव न्यस्तं वह्नौ वह्निरिवार्पितः ।
परब्रह्माणि लीनात्मा विभागेन सदृश्यते ॥ २०. ६१ ॥
एतावदुक्त्वा परमप्रबोध मद्वैत मानन्द शिवप्रकाशम् ।
देव्यै पुरा भाषित मीश्वरेण तूष्णीमभूद्ध्यानपरो गणेन्द्रः ॥ २०. ६२ ॥
एवमुक्त्वा समासीनं शिवयोग परायणं ।
रेणुकं तं समालोक्य बभाषे प्राञ्जलिर्मुनिः ॥ २०. ६३ ॥
अगस्त्य उवाच
शिवयोग विशेषज्ञ शिवज्ञान महोदधे ।
समस्त वेदशास्त्रादिव्यवहारधुरन्धर ॥ २०. ६४ ॥
अलोक मात्र निर्धूतसर्व संसार बन्धन ।
स्वच्छन्द चरितोल्लास स्वप्रकाशात्मा वच्छिव ॥ २०. ६५ ॥
अवतीर्णमिदं शास्त्रमनवद्यं त्वदाननात् ।
श्रुत्वामे मोदते चित्तं ज्योतिः पश्यच्छिवाभिदं ॥ २०. ६६ ॥
अद्यमे सफलं जन्मगतो मे चित्तविभ्रमः ।
सञ्जाता पाश विच्छित्ति स्तपांसि फलितानिमे ॥ २०. ६७ ॥
इदानि मेवमे जातं मुनिराजत्वमुत्तमं ।
इतः परं मया नास्ति सदृशो भुवनत्रये ॥ २०. ६८ ॥
शास्त्रं तव मुखोद्गीर्णं शिवाद्वैतपरं परं ।
मां विना कस्य लोकेषु श्रोतुमस्तितपः शुभं ॥ २०. ६९ ॥
तपनः परिपाकेन शङ्करस्य प्रसादतः ।
आगतस्त्वं महाभाग मां कृतार्थयितुङ्गिरा ॥ २०. ७० ॥
इतिस्तुम्वन्तं विनयादगस्त्यं मुनिपुङ्गवं ।
आलोक्य करुणादृष्ट्या बभाषे स गणेश्वरः ॥ २०. ७१ ॥
श्री रेणुक उवाच
अगस्त्यमुनि शार्दूल तपसिद्धमनोरथ ।
त्वां विना शिवशास्त्रस्य कः श्रोतुमधिकारवान् ॥ २०. ७२ ॥
पात्रं शिवप्रसादस्य भवानेको न चापरः ।
इति निश्चित्य कथितं माया ते तन्त्रामीदृशं ॥ २०. ७३ ॥
स्थाप्यतां सर्वलोकेषु तन्त्रमेतत्त्व या मुने ।
ई दृशं शिवभोदस्य साधनं नास्ति कुत्रचित् ॥ २०. ७४ ॥
रहस्य मेतत् सर्वज्ञः सर्वानुग्राह कः शिवः ।
अवादीत् सर्वलोकानां सिद्धये पार्वतीपतिः ॥ २०. ७५ ॥
तदिदं सर्वसिद्धान्त साराणा मुत्तमोत्तमं ।
वेद वेदान्त सर्वस्वं विद्याचारप्रकाशकं ॥ २०. ७६ ॥
वीरमाहेश्वरग्राह्यं शिवाद्वैत प्रकाशकं ।
परीक्षितेभ्यो दातव्यं शिष्येभ्यो नान्यथा क्वचित् ।
एतच्छ्रवणमात्रेण सर्वेषां पापसङ्क्षयः ॥ २०. ७७ ॥
अवतीर्णं मयाभूमौ शास्त्रस्यास्य प्रवृत्तये ।
प्रवर्तय शिवाद्वैतं त्वमपि ज्ञानमीदृशं ॥ २०. ७८ ॥
इत्युक्त्वा पश्यतस्तस्य पुरास्तादेव रेणुकः ।
अन्तर्धदे महादेवं चिन्तयन्नन्तरात्मना ॥ २०. ७९ ॥
अन्तर्हिते तदातस्मिन् मुनिराश्चर्यसङ्कुलः ।
तच्छास्त्रप्रवणो भूत्वा समवर्तत सण्यमि ॥ २०. ८० ॥
य इदं शिव सिद्धान्तं वीरशैवमतात्मकं ।
श्रुणोति शुद्ध मनसा स याति परमां गतिं ॥ २०. ८१ ॥
इति श्री सिद्धान्त शिखामणौ लिङ्गस्थलीय यैक्यस्थलौ स्वीकृतप्रसाद
स्थलादि नवविधस्थल प्रसङ्गोनाम विंशतितम परिच्छेदः
परिसमाप्तः ॥ २० ॥
एकविंशतितम परिच्छेदः
विभीषणाभिष्ठ वरप्रदानं
स्वच्छन्दाचार रसिकः स्वेच्छानिर्मितविग्रहः ।
अपसाद पुरीं लङ्कां रेणुको गणनायकः ॥ २१. १ ॥
तमागतं महाभागं सर्वागमविशारदं ।
विभीषणःसमालोक्य सौधं प्रावेशयन्निजं ॥ २१. २ ॥
भद्रासने महारम्ये निवेश्य गणनायकं ।
अर्घ्यपाद्यादिभिः सर्वैरुपचारैरपूजयत् ॥ २१. ३ ॥
पूजितेन प्रसन्नेन रेणुकेन निरूपितः ।
निषसाद तदभ्यासे स निजाननमाश्रितः ॥ २१. ४ ॥
विभीषणो गणेन्द्रं तमाबभाषे कृताञ्जलिः ।
मानुषाकारसम्पन्नं साक्षाच्चिवमिवापरं ॥ २१. ५ ॥
रेणुक त्वं गणाधीश शिवज्ञानपरायण ।
अवतीर्णो महीमेनामिति सम्यक् श्रुतं मया ॥ २१. ६ ॥
मद्भाग्य गौरवादद्य समयास्त्यं पुरीमिमां ।
कथभाग्य विहीनानां सुलभाः स्युर्भवादृशाः ॥ २१. ७ ॥
मत्समो नास्ति लोकेषु भाग्यातिशयवत्तया ।
यस्य सौधं स्वयं प्राप्तो भवान् साक्षान्महेश्वरः ॥ २१. ८ ॥
कृतार्थामे पुरी ह्येषा कृतार्थो राक्षसान्वयः ।
जीवितं च कृतार्थं मे यस्य त्वं दृष्टिगोचरः ॥ २१. ९ ॥
इति ब्रुवानं कल्याणं राक्षसेन्द्रं गणेश्वरः ।
बभाषे सस्मितो वाणीं विश्वोल्लासकरीं शुभां ॥ २१. १० ॥
विभीषणममाभाग जाने त्वां धर्मकोविदं ।
त्वां विनाकस्य लोकेषु जायते भक्ति रीदृशी ॥ २१. ११ ॥
समस्त शास्त्र पारंज्ञं सर्व धर्म परायणं ।
आध्यात्मा विद्यानिरतमाहुस्त्यां राक्षसेश्वर ॥ २१. १२ ॥
त्वदीयधर्मसम्पत्तिं श्रुत्वाहं विस्मिताशयः ।
प्रजन् कैलासमचलं त्वदन्तिक मुपागतः ॥ २१. १३ ॥
प्रीतोस्मितव चारित्रैः शोभ निर्लोकविश्रुतैः ।
दास्यामि ते वरं साक्षात् प्रार्थयस्व यथेप्सितं ॥ २१. १४ ॥
इति प्रसादमुखे भाषमाणे गणेश्वरे ।
प्रणम्य परया प्रीत्या व्याजहार विभीषणः ॥ २१. १५ ॥
आगमानु ग्रहादेव भवतः शिवयोगिनः ।
दुर्लभाः सर्वलोकानां समपद्यन्त सम्पदः ॥ २१. १६ ॥
तथापि प्रार्थनीयं मे किञ्चिदस्ति गणेश्वर ।
सुकृते परिपक्वे हि स्वयं सिद्ध्यति वाण्छितं ॥ २१. १७ ॥
रावणोहि मम भ्राता शिवभक्तशिखामणिः ।
अदृष्टशत्रुसम्बाधं शपास हि जगत्त्रयं ॥ २१. १८ ॥
यस्य प्रतापमतुलं सोढुमक्षमशक्तयः ।
इन्द्रादयः सुराः सर्वे राज्यलक्ष्म्या वियोजिताः ॥ २१. १९ ॥
स तु कालवशेनैव स्वचारित्र विपर्ययात् ।
रणे विष्ण्वावतारेण रामेण निहतो भवेत् ॥ २१. २० ॥
न तु रामशराविद्धः कण्ठस्खलित जीवितः ।
अवशिष्टं समालोक्य मामवादित् सुदुःखितः ॥ २१. २१ ॥
विभीषण विशेषज्ञ महाबुद्धे सुधार्मिक ।
अवशिष्टोसि वंशस्य रक्षसां भाग्यगौरवात् ॥ २१. २२ ॥
वयमज्ञानसम्पन्ना महत्सुद्रोहकारिणः ।
ईदृशीं तु गतिं प्राप्ता दुस्तारा हि विधिस्थितिः ॥ २१. २३ ॥
नवकं लिङ्गकोटीनां प्रतिष्ठाप्यमिहस्थले ।
इति सङ्कल्पितं पूर्वं मया तववशिष्यते ॥ २१. २४ ॥
कोटिषट्कन्तु लिङ्गानां मया साधु प्रतिष्ठितं ।
कोटि त्रयन्तु लिङ्गानां स्थापनीयमतस्त्वया ॥ २१. २५ ॥
इति तस्य वचः श्रुत्वा दीन बुद्धे र्मरिष्यतः ।
तथा साधु करोमीति प्रतिज्ञातं मया तथा ॥ २१. २६ ॥
युगवच्छिवलिङ्गानां कोटित्रयमनुत्तमं ।
प्रतिष्ठाप्यं यथाशास्त्रमिति मे निश्चयोभवत् ॥ २१. २७ ॥
लिङ्गकोटि त्रयस्येह युगपत् स्थापनाविधौ ।
अविदन्नेक माचार्यमहामेवमवस्थितः ॥ २१. २८ ॥
शिवशास्त्र विशेषज्ञ शिवज्ञान निधिर्भवान् ।
आचार्य भावमासाद्यमम पूरय वाण्छितं ॥ २१. २९ ॥
तस्येति वचनं श्रुत्वा राक्षसेन्द्रस्य धीमतः ।
तथेति प्रतिशुश्राव सर्वज्ञो गणनायकः ॥ २१. ३० ॥
तत्र सन्तुष्ठचित्तस्य पौलस्त्य न्येष्ट सिद्धये ।
कोटित्रयन्तु लिङ्गानां यथा शास्त्रं यथा विधि ।
त्रिकोटाचार्य रूपेण स्थापितं तेन तत् क्षणे ॥ २१. ३१ ॥
तादृशं तस्यमाहत्म्यं समालोक्य विभीषणः ।
प्रणनाम मुहुर्भक्त्या पादयोस्तस्य विस्मितः ॥ २१. ३२ ॥
प्रणतं विनयोपेतं प्रहृष्टं राक्षसेश्वरं ।
अनुगृह्य स्वमाहत्म्या द्रेणुको२न्तर्हितोभवत् ॥ २१. ३३ ॥
विभीषणोपि हृष्टात्मा रेणुकस्य प्रसादतः ।
शिवभक्ति रसासक्तः स्थिरं राज्यमपालयत् ॥ २१. ३४ ॥
रेणुकोपि महातेजाः सञ्चरन् क्षितिमण्डले ।
प्रच्छन्नश्च प्रकाशश्च परमाद्वैतभावतः ॥ २१. ३५ ॥
कांश्चिद्दृष्टिनिपातेन करुणारसवर्षिणा ।
अपरानुपदेशेन शिवाद्वैताबिमर्शिना ॥ २१. ३६ ॥
आन्यांश्च सहवासेन समस्त मलहारिणा ।
कृतार्थयन् जनान् सर्वान् कृतिनः पक्वकर्मिणः ॥ २१. ३७ ॥
दर्शयित्वा निजाधिक्यं शिवदर्शनलालसः ।
खण्डायित्वादुराचारान् पाषाण्डान् भिन्नदर्शनान् ॥ २१. ३८ ॥
यन्त्र मन्त्र कलाविद्धान् विमतान् सिद्ध मण्डलान् ।
विजित्य स्वप्रभावेण स्थापयित्वा शिवागमान् ।
अजगाम निजावासं कुल्यपाकाभिदस्थलं ॥ २१. ३९ ॥
तत्र सम्भावितः सर्वैर्जनैः शिवपरायणैः ।
सोमनाथाभिधानस्य शिवस्य प्रापमन्दिरं ॥ २१. ४० ॥
पश्यतां तत्र सर्वेषां भक्तानां शिवयोगिनां ।
तन्वानो विस्मयं भावैस्तुष्टाव परमेश्वरं ॥ २१. ४१ ॥
देव देव जगन्नाथ जगत्कारणकारण ।
ब्रह्मविष्णुसुराधीश वन्द्यमानपदाम्बुज ॥ २१. ४२ ॥
समस्त वेद वेदान्त परिबोधित वैभव ।
संसार वैद्य सर्वज्ञ सर्वशक्ति निरङ्कुश ॥ २१. ४३ ॥
सच्चिदानन्द सर्वस्य परमाकाश विग्रह ।
समस्त जगदाधार ज्योतिर्लिङ्ग विजृम्भण ॥ २१. ४४ ॥
गुणत्रयपदातीत मतत्रय विनाशन ।
जगत्रय विलासात्मन् श्रुतित्रयविलोचन ॥ २१. ४५ ॥
पाहिमां परमेशान पाहिमां पार्वतीपते ।
त्वथाज्ञया मयैतावत्काल मात्रं महीतले ।
आचारि भव दुक्ताना मगमानां प्रसिद्धये ॥ २१. ४६ ॥
इतः परं स्वरूपं ते प्राप्तुकामोस्मि शङ्कर ।
अन्तरं देहि मे किञ्चिदनुकम्पाविशेषतः ॥ २१. ४७ ॥
इत्युक्ते गणनायकेन सहसा लिङ्गात्ततः शङ्करो ।
वत्सागच्छमहानुबाव भवतोभक्त्याप्रसन्नोस्म्यहं ।
इत्युच्छैरगदद्वचस्त सुभृतामाश्चर्य मासीत्तदा ।
दिव्यो दुन्दुभिराननाद गगनेपुष्पं ववर्षुर्गणाः ॥ २१. ४८ ॥
श्रुत्वा लिङ्गाद्वचनमुदितं शाङ्करं सानुकम्पं ।
सम्हृष्टात्मा गणपतिरथो ज्योतिषा दीप्यमानः ।
जातोत्कण्ठैः शिवमनुपरैर्योगिभिः स्तूयमानो ।
ज्योतिर्लिङ्गं परममविशत् स्वप्रकाशं तदानीं ॥ २१. ४९ ॥
लीने तस्मिन् शाङ्करेस्वप्रकाशे दिन्याकारेरेणुके सिद्धनाथे ।
सर्वोलोके विस्मितोन भूत्तदानीं शैवी भक्तिः स प्रमाण बभूव ॥ २१. ५० ॥
श्रीवेदागम वीरशैवसरणिं श्री षट्स्थलोद्यन्मणिं ।
श्री जीवेश्वर योग पद्मतरणिं श्री गोप्य चिन्तामणिं ।
श्री सिद्धान्त शिखामणिं लिखातियस्तं लेख यत्यादरात् ।
श्रोता श्रावयिता स याति विमलां भुक्तिं च मुक्तिं परां ॥ २१. ५१ ॥
इति श्री सिद्धान्त शिखामणौ विभीषणाभिष्ट वर प्रदान प्रसङ्गोनाम
एकविंशतितम परिच्छेदः परिसमाप्तः ॥ २१ ॥
श्री सिद्धान्त शिखामणिः समाप्तः ॥
See http://en.wikipedia.org/wiki/Siddhanta_Shikhamani
Contains the preachings of Jagaduru Renukacharya according to vIrashaiva sampradAya
Audio at
http://www.shrisiddhanthashikhamani.com/downloads/shri-siddhantha-shikhamani-audio
% File name : siddhAntashikhamaNi.itx
%--------------------------------------------
% Text title : siddhAntashikhamaNi
% Author : Shri Shivayogi Shivacharya
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : http://en.wikipedia.org/wiki/Siddhanta_Shikhamani
% Contains the preachings of Jagaduru Renukacharya according to vIrashaiva % sampradAya
% http://www.shrisiddhanthashikhamani.com/downloads/shri-siddhantha-shikhamani-audio
% Transliterated by : http://www.scribd.com/doc/79841005/Siddhanta-Sikhamani-Shakti-Format
% Proofread by :
% Translation by :
% Latest update : June 22, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .