॥ वास्तुविद्या ॥
प्रथमोध्यायः
गजास्यमगजापुत्रं विंघ्नाद्रिभिदुरं शिवम् ।
नमामि वचसां देवीं मन्दारकुसुमप्रभाम् ॥
प्रणम्य विकर्माणं शिल्पिनां परमेरम् ।
वास्तुविद्यां प्रवक्ष्यामि यथाशक्ति समासतः ॥ १ ॥
तत्रादौ सम्प्रवक्ष्यामि सर्वेषां मानसाधनम् ।
मानेनैवाखिलं लोके वस्तु संसाघ्यते यतः ॥ २ ॥
परमाणुः क्रमाद् वृद्धो मानाउल इति स्मृतः ।
परमाणुरिति प्रोक्तो योगिनां द्दृष्टिगोचरः ॥ ३ ॥
परमाणुभिआष्टाभिस्त्रसरेणुरिति स्मृतः ।
त्रसरेणुह्न रोमाग्रं लिक्षायूकायवास्तथा ॥ ४ ॥
क्रमशोङष्टगुणाः प्रोक्ता यवोङष्टगुणितोङौलिः ।
औलं तु भवेन्मात्रं वितथ्स्तर्द्वादशाउलः ॥ ५ ॥
तद्वयं हस्त उद्दिष्टः स च किष्कुरिति स्मृतः ।
पत्र्चविंशतिमात्रस्तु प्राजापत्य इति स्म१तः ॥ ६ ॥
षड्विंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहः ।
अष्टविंशाउलः प्राच्यो वैदेहो नवविंशतिः ॥ ७ ॥
वैपुल्यस्त्रिंषदौल्यस्त्वेकत्रिंषत् प्रकीर्णकः ।
याने च शयने ष्किउः प्राजापत्यो विमानके ॥ ८ ॥
वास्तुनां च धनुर्मुष्टिर्ग्रामादीनां धनुर्ग्रहः ।
सर्वेपामपि वास्तुनां किष्कुरेवाथवा मतः ॥ ९ ॥
उत्तरेण जगत्या वा जन्मना वा प्रकीर्तितः ।
दण्डस्तु सुरधिष्णेशु मानुष्येषु चतुष्करः ॥ १० ॥
अथ वक्ष्यामि संक्षेपाच्छिल्पिनां लक्षणं पृथक् ।
स्थपतिः स्थापनार्हः स्यात् सर्व शास्त्रविशारदः ॥ ११ ॥
नहीनाओङतिरिक्ताओ धार्मिकस्तु दयापरः ।
अस्मात्सर्योङनसूयह्न ता\i;न्त्रिकस्त्वभिजातवान् ॥ १२ ॥
गणितज्ञः पुराणज्ञ बानन्दात्माप्यलुब्धकः ।
चित्रज्ञः सर्वदेशज्ञः सत्यवादी जिते\i;न्द्रियः ॥ १३ ॥
अरोगी चाप्रमादो च सप्तव्यसनवर्जितः ।
सुनामा द्दढबन्धुह्न वास्तुविद्याब्धिपारगः ॥ १४ ॥
स्थ्पतेस्तस्य शिष्यो वा सूत्रग्राही सुतोङथवा ।
स्थपत्याज्ञानुसारी च सर्वकर्म\i;विशारदः ॥ १५ ॥
सुत्रदण्डप्रमाणज्ञो मानोन्मानप्रमाणवित् ।
तक्ष्तिआनां तक्षकेणाप्युपर्युपरि यु\i;क्तितः ॥ १६ ॥
वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राहयनुगः सदा ।
तक्षणात् स्थ्थुलसुक्ष्माणां तक्षकः स तु कीर्तितः ॥ १७ ॥
मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ।
गुरुभक्तः सदा हृष्टाः स्थपत्याद्यनुगः सदा ॥ १८ ॥
एभिर्विनापि सर्वेषां कर्म कर्तु न शक्यते ।
तस्मादेषां सदा पूज्यं स्थपत्यादिचतुष्टयम् ॥ १९ ॥
एभिः स्थपत्यादभरत्र लोके विना ग्रहीतुं सुकृतं न शक्यम् ।
तैरेव सार्धे गुरुणाथ तस्माद् भजन्ति मोदं भजमानमर्त्याः ॥ २० ॥
इति वास्तुविद्यायां साधनकानं नाम प्रथमोङध्यायः ।
द्वितियोध्यायः
अथातो वास्तुविद्यां वै प्रवक्षामि यथापुरम् ।
पूर्वे भूमिं परीक्षेत वह्नाद् वास्तु समारमेत ॥ १ ॥
भुवः प्लवं प्रवक्षामि नराणां च शुभाशुभम् ।
पूर्वप्लवा वृद्धिकरी उत्तरा धनदा स्मृता ॥ २ ॥
अर्थक्षयकरी विद्यात् पह्निमप्लवनां ततः ।
दक्षिणप्लवना पृथ्वी नराणां मृतिदा भवेत् ।
वारुणोच्चसमायुक्ता नीचमाहेन्द्रसंयुता ॥
गोवीथिरिति सा ज्ञेया ऐन्द्रोच्चा नीचवारुणा ।
जलवीथीरिति प्रोक्ता वास्तुज्ञानविशारदे ॥ ४ ॥
सोमोच्चयमनीचा च यमवीथीति कथ्यते ।
यमोच्चसोमनीचाच गजवीथीति कथ्यते ॥ ६ ॥
ईशोच्चं निऋ\0Tr;तौ नीच भूतलं भूतवीथिकम् ।
आग्नेयोच्चं वायुनीचं नागवीथी प्रशस्यते ।
वायूच्चमग्निनीचं यद वीथि्ंआं वैश्वानरी विदुः ।
निऋ\0Tr;त्युच्चमीशनीचं धनवीथीत्युदाहृता ॥
आन्नीच्चं मारुतसोमयोः ।
सुपथं नाम तद्वास्तु प्रशस्ते सर्वकर्मणाम् ।ञ्
सोमेशानन्तरं नीचमुच्चं निऋ\0Tr;तिकालयोः ।
दीर्घायुर्नाम तद्वास्तु प्रशस्तं कुलवर्धनम् ॥
ईशानेन्द्रान्तरं नीचमुच्चं वरुणरक्षसौः ।
पुण्यकं नाम तद्वास्तु द्विजानां च शुभावहम् ॥ १२ ॥
इन्द्राग्न्योरन्तरं नीचमुच्चं वायुजलेशयोः ।
अपथं नाम तद्वास्तु व्एराय कलहाय च ॥
कालाग्न्योरन्तरं नीचमुच्चं स्याद्वायुसोमयोः ।
रोगकुन्नाम तद्वास्तु नराणां रोगवृद्धिकृत् ॥
निऋ\0Tr;त्यन्तकयोनींचमुच्चं सोमशिवान्तरम् ।
अर्गल नाम तद्वास्तु ब्रह्महत्यादिनाशकुत् ॥ १५ ॥
रुद्रेन्द्रान्तरमुच्चं स्यान्नीचं वरुणरक्षसोः ।
श्मशानं नाम तद्वास्तु केवलं कुलनाशनम् ॥ १६ ॥
नीचमग्नो भवेदुच्चं निऋ\0Tr;तीशानवायुषु ।
श्येनकं नाम तद्वास्तु नाशाय मरणाय च ॥
रुद्राग्निवरुणेषुच्चं नीचं स्यानिऋ\0Tr;तौ तथा ।
मुखं नाम तद्वास्तु दारिद्य्रं कारयेत् फलम् ॥
निऋ\0Tr;त्याग्निशिवेएषुच्चं नीचं वह्वीन्द्रयोस्तथा ।
ह्यग्नं नाम तद्वास्तु नेष्टं प्राणभृतां सदा ।
अग्नौ यदि भवेदुच्चं नीचं निऋ\0Tr;तिरुद्रयोः ।
वातनिम्नं च तद्वास्तु स्थावरं नाम शोभनम् ।२०।
उच्चं निऋ\0Tr;तिभागे स्यान्नीच्चं ज्वलनवातयोः ।
रुद्रनिम्नं च तद्वास्तु स्थण्डिलं नाम शोभनम् ॥ २ ॥
रुद्रोच्चं यदि निम्नं स्याद् वह्वौ निऋ\0Tr;तिवातयोः ।
शाण्डुलं नाम तद्वास्तु प्रापयत्यशुभं सदा ॥ २२ ॥
निऋ\0Tr;त्याग्निशिवेएषुच्चं नीचं चन्दस्रमं प्रति ।
द्विजेद्राणं तु सुस्थानमवनी समुदाहृता ॥ २ ॥
नीचमिन्द्रे भवेदुच्चं निऋ\0Tr;त्यां पह्निमानिले ।
सुलभं ञसुतलंट नाम तद्वास्तु राजराष्ट्रविवर्धनम् ॥ २ ॥
सौम्येशपवनेषूच्चं नीचं भवति चेद् यमे ।
नाम्ना वास्तुचरं नाम वैश्यानां तदभीष्टदम् ॥ २५ ॥
नीचं वारुणमुच्चं चेदीशानेन्द्राग्निषु क्रमात् ।
मुखं नाम तद्वास्तु शूद्राणां तदभीष्टदम् ॥ २६ ॥
या तु सोमप्लवा चैव कुशदर्भैरलङ्कृता ।
आज्यगन्धा च सा भूमिर्ब्राह्मणानां प्रशस्यते ॥ २ ॥
पूर्वप्लवा च रक्ता च कुशदर्भैरलङ्कृता ।
रक्तगन्धा च या भूमिः क्षत्रियाणां प्रशस्यते ॥ २ ॥
द\i;क्षिणप्लवनोपेता कुशदर्भैरलङ्कृता ।
अन्नगन्धा च या भूमिः सा वैश्यानां प्रशस्यते ॥ २ ॥
पह्निमप्लवनोपेता दूर्वाभिह्न समन्विता ।
सुरागन्धा च या भूमिः शूद्राणां समुदाहृता ॥ ९ ॥
इन्द्रोन्नतं पुत्रनाशं वयुन्नतमथार्थदम् ।
अग्निनीचोङर्थनाशः स्याद् याम्योन्नतमरोगकृत् ॥
निऋत्युच्चं श्रियो लाभं पुत्रदं वरुणोन्नतम् ।
वायुन्नतं द्रव्यनाशं सौम्योन्नतमथो गदः ॥ २ ॥
ईशानोच्चं महाक्लेशं वास्तु विद्यादिति क्र्र\1Bra;मात् ।
वर्णक्र\1Bra;मेणाथ विद्याद् वृक्षान् शास्त्र\i;विशारदः ॥
न्यग्रोधः पूर्वतो धन्यो दक्षिणे च उदुम्बरः ।
अत्थ्यः पह्निमे श्रेष्ठः प्लक्षोङप्युत्तरतः शुभः ॥
अत्थ्यः पूर्वतो वर्ज्यो दक्षिणे प्लक्ष एव च ।
न्यग्रोधः पह्निमे भागे उत्तरे चाप्युदुम्बरः ॥ ४ ॥
अत्थोङग्निभयं कुर्यात् प्लक्ष कुर्यात् प्रमादकम् ।
न्यग्रोधः शस्त्रसम्पातं कुक्षिरोगमुदुम्बरः ॥ ५ ॥
काष्ठेष्टकातुपाआरपाषाणास्थिसरीसृपान् ।
हलाग्रेणोद्दृतान् दृष्टा तत्र विद्याआदिदं फलम् ॥
काष्ठेप्वग्निभयं विद्यादिष्टकासु धनागमम् ।
अआरेषु तथारोगं तुषेप्वेव धनक्षयम् ॥
पाषाणेप्वप कल्याणं कुलनाशं तथास्थिषु ।
सरीसृषेषु सर्वेषु तादृग्भ्यो भयमादिशेत् ॥
अनूषरा स्निग्धवती प्रशस्ता च बहूदका ।
तृणोपलान्विता या सा मान्या वास्तुविधौ धरा ॥ ९ ॥
इति वास्तुविद्यायां वसुधालक्षणं नाम द्वितीयोऽध्यायः ।
चतुर्थाध्यायः
अथ द्वे प्राङ्मुखे द्वारे कुर्याद् द्वे दक्षिणमुखे ।
द्वारे प्रत्यङ्मुखे द्वे च द्वे च कुर्याछुदङमुखे ॥
माहेन्द्रे प्राङ्मुखं द्वारं प्रशस्तं शिष्टजातिषु ।
अपरं तु तथा द्वारं जयन्ते प्राह निह्नयात् ॥ २ ॥
गृहक्षते तथा द्वारं क्षत्रियाणामभीष्टदम् ।
गन्धर्वे नियतं द्वारं वैश्यानां तदभीष्टदम् ॥
पुष्पदन्ते तु यद् द्वारं शूद्राणां तदभीष्टदम् ।
सुग्रीवे चापरं द्वारं भल्लाटे सार्ववर्णिकम् ॥
म्उक्ष्ये च नियतं द्वारं भल्लाटादपरं स्मृतम् ।
अथद्वारफलं वक्षे प्रोक्तं वास्तुविदां वरै ॥ ५ ॥
आदित्ये स्थापिते द्वारे पुत्रनाशोङथ जायते ।
मैत्रभस्स्तु सत्ये स्याद् भृशे पत्यावियुज्यते ॥ ६ ॥
अन्तरिक्षे कृतेद्वारे विनाशमपि गच्छति ।
पावके स्थापिते द्वारे म्रियते वेश्मनः पतिः ॥ ७ ॥
तत्र पूष्णि कृते द्वारे नश्येद् दारुणशोषणैः ।
वितथे स्थापिते द्वारे पत्युर्मरणमादिशेत् ॥ ८ ॥
गृहक्षतपदे द्वारे कृते सम्पद्विवर्घनम् ।
यमे द्वारे कृते सर्वनाशं च मरणं वदेत् ॥ ९ ॥
गन्घर्वे निर्मिते द्वारे सर्वकर्मविवर्घनम् ।
भृराजे विपद् द्वारे मृगे सस्यविनाशनम् ॥ १० ॥
निऋ\0Tr;तौ मरणं विद्याद् दौवारिकपदे रयम् ।
सुग्रीवे सर्वलाभः स्यात पुष्पदन्तेभवेद् गुणः ॥ ११ ॥
वारुणे स्थापिते द्वारेङमित्रद्वा चोरतो भयम् ।
असुरे स्थापिते द्वारे नित्यमायासकारणम् ॥ १२ ॥
शोषणे स्थापिते द्वारे शुष्यते नं विनश्यति ।
रोगे यदि कृते द्वारे पाण्डुरोगी भवेन्नरः। १३
वातस्थाने कृते द्वारे नरो वातेन पीडयते ।
नागे च निर्मिते द्वारे शीघ्\1Bra;आ नागश्रायं भवेत् ॥ १४ ॥
मुख्ये यदि कृतं द्वारं सद्यो ब्राह्मण्यमाप्नुयात ।
भल्लाटे च कुते द्वारे वैशिष्टये लभते नरः ॥ १५ ॥
सोमे चैव कुते द्वारे यज्ञशीलो भविष्यति ।
अर्गले च कुते द्वारे जलेन म्रियते नरः ॥ १६ ॥
अदितौ च कृते द्वारे कुक्षिरोग विनिर्दिशेत ।
उदितौ च कृते द्वारे वनिताकुलनाशनम् ॥ १७ ॥
रुद्रे यदिकृतं द्वारं वन्हिना दहयते गृहम् ।
पर्जन्ये च घनं नश्येत् जयन्ते जयमाप्नुयात ॥ १८ ॥
माहात्म्यं चैव माहेन्द्रे यदि द्वारं कृतं भवेत् ।
अन्तर्द्वाराणि चोक्तानि बहिर्द्वारमथोच्यते ॥ १९ ॥
यत्रोन्नतं ततो द्वारं यत्रनिम्नं ततो गृहम् ।
गृहे चाप्यष्टमे राशौ तत्र द्वार न कारयेत ॥ २० ॥
गृहक्षते च माहेन्द्रे ब्राह्मणनां प्रकिर्तितम् ।
महिघरे च सोमे च फल्लाटार्गलयोस्तथा ॥ २१ ॥
शयनियं तु कर्तव्ये प्रशस्तं पूर्वतः शिखा ।
गृहक्षते पुष्पदन्ते द्वारे स्यात क्षत्रियससरू तु ॥ २२ ॥
वितथे चान्नभूमिं च गोष्ठागारं तथासुरे ।
स्नानभूमिं च गान्धर्वे सदा कुर्याद् विशेषतः ॥ २३ ॥
फल्लाटे पुष्पदन्ते च द्वारे वैश्यस्य पूजिते ।
यमे विवस्वति प्रोक्तं गन्धर्व च गृहक्षते ॥ २४ ॥
शयनियं प्रकर्तव्यं विद्वन्दिईः प्राक शिरो भवेत् ।
पुष्णि वा वारूणे पंथाः पूर्वोक्तं वा महानसम् ॥ २५ ॥
गन्धर्वे स्नानभूमिः स्याद् गोष्ठागारं तथासुरे ।
पैतृके गर्भभूमिः स्याद् वास्तुविभ्दिरितीरितम् ॥ २६ ॥
फल्लाटे च महेन्द्रे च द्वारे शूद्रस्य पूजिते ।
सुग्रीवः पुष्पदन्तह्न मित्रोङथ वरूणस्तथा ॥ २७ ॥
यस्तत्र शयनीयं स्यात् सर्वेषामितिं च स्थितिः ।
दौवारिकप्रमाणं स्याद् भूमिर्वै पैतृकी स्मृता ॥ २८ ॥
महानासं च पूष्णि स्याद् गोष्ठागारं तथासुरे ।
स्थानभूमिं तु गन्धर्वे सदा कुर्याद् विशेषतः ॥ २९ ॥
यदुक्तं वेदिविस्तारमायामं चापि तत्समम् ।
एवं कृत्वा चतुरश्रं तन्मध्ये सूत्रमालिखेत ॥ ३० ॥
प्रागग्रे चाप्युदग्वक्र\1Bra;ं ब्राह्मं याम्यं च नामतः ।
सूत्रद्वयेन सा वेदिह्नतुखण्डी च संभवेत् ॥ ३१ ॥
मानुष्यमथ याम्यं च दैवमासुरमेव च ।
ऐशान्यादिपदानां च नामान्येवं विदुर्बुधाः ॥ ३२ ॥
स्थानं नृणां तु मानुष्ये दैवे चापीति केचन ।
निद्यावासुरयाम्यो तु पदे गृहविधौ नृणाम् ॥ ३३ ॥
सल्प्य तस्यां भुवि वेदिकायां स्फीतां विदध्यादध वास्तुपूजाम् ।
कृत्वा चतुषष्टिपदानि भूयः कोणेषु सूत्रे विनिवेशयेद् ॥ ३४ ॥
वास्तुदेहस्थितास्तत्र त्रिपत्र्ह्नशत्तु देवताः ।
पूजयेत् क्रमशस्तासां विभागः प्रोच्यतेङधुना ॥ ३५ ॥
ब्रह्मा मध्यचतुष्पद्प्राणिहितो दिक्षु द्विपाद्या स्थिता
स्तद्वाह्येङथ चतस्त्र एकपदके द्वे द्वे स्थिते पायो ।
कोणस्याप्यथ षोडशार्धपदगाः काणेषु बाहये तथा
दिक्स्थाः षोडश देवता द्विपदगाह्नाष्टौ बहिर्दिग्गताः ॥ ३६ ॥
ईशान पर्जन्यजयन्तशक्रध्वान्तापनुत्सत्यभृशान्तरिक्षाः ।
अग्निह्नपूषा वितथाभिधानो गृहक्षतः प्रेतनिवासभर्ता ॥ ३७ ॥
गन्धर्वसंज्ञस्त्वथ भृराजो मृगाभिधानः पितरः प्रशस्ताः ।
दौवारिकः पह्निमपूर्वसंस्थः सुग्रीवसंज्ञस्त्वथ पुष्पदन्तः ॥ ३८ ॥
भूयः प्रशस्तोवरूणोङसुरह्न शोषह्न रोगः पवनो भुजः ।
मुख्योङथ भल्लाटनिशाकरौ च भूयोङर्गलादित्युदितिक्रमेण ॥ ३९ ॥
विष्कम्भबाहयस्थपदप्रविष्टा द्वात्रिंशदेताः परितः प्रदिष्टा ।
अन्तःस्थकोणार्धपदेषु चाष्टौ वक्ष्ये चतस्त्रह्न दिशासु योज्याः ॥ ४० ॥
सवित्रः सविता हुताशनदिशि ब्रह्माग्निमध्येङर्धगा
विन्द्रह्नेन्द्रजयह्न राक्षसदिशि ख्यातौ पदार्थस्थितौ ।
रुद्रो रुद्रजयह्न वायुदिशि च व्यापतो तथेशार्धगा
वापह्नापि तथापवत्स इति च द्वन्द्वस्थिता देवताः ॥ ४१ ॥
पूर्वादिदिक्षु क्रमशो द्विपाद्या स्यादार्थकह्नापि तथा विवस्वान ।
मित्रह्न पह्नात् तु महीधरह्न ब्रह्मा च मध्यस्थचतुष्पदस्थः ॥ ४२ ॥
दिक्षु काणेषु बाहयस्थाः प्रवदामि पुनः क्रमात् ।
शर्वः स्कन्दोङर्यमाहयेह्न जम्भकः पिलिपित्र्छकः ॥ ४३ ॥
चरकी च विदारी च पुतना पापराक्षसी ।
संस्थाप्यैवं चतुःषष्टिपदेष्वेताः प्रपूजयेत् ॥ ४४ ॥
एवं चाष्टकृतिप्रभिन्नपदगा ग्रह्मा चतुष्कोष्ठगो
मध्ये तस्य चतुष्पदप्रणिहिता दिक्स्धाश्रतस्त्रो बहिः ।
द्वे द्वे कोणगते तथैकपदगे द्वे द्वे पदार्थस्थिते
द्वे द्वे दिक्षु बहिः पदद्वयगते शिष्टाः पदैकस्थिताः ॥ ४५ ॥
आश्रित्य मार्गे मतिमानथैषाम् एकं च वास्तुं परिकल्प्य तत्र ।
अएषु तस्याप्यथ देवतास्ताः स-ल्प्य सम्यक् परिपूजयेच्च ॥ ४६ ॥
आसीत् पुरा सकललोकभयरह्न क्रूरोङसुरो भुजबलाइगतिगर्वितह्न ।
क्षोणीतले विनिहितो विजितैः प्रशान्तो देवैः स वास्तुपुरुषह्नसंस्थः ॥ ४७ ॥
ईशे तस्य शिरस्तदा विनिहितं पादौ निऋत्या स्थितौ
वायव्ये च हुताशने च भुजयोः संस्थापितौ कूर्परौ ।
क्षिप्तं वक्षासि हस्तयोस्तलमतः प्रोत्तानतां प्रापित-
स्तस्याएषु च देवता विनिहिता यद्वत् प्रवक्ष्ये तथा ॥ ४८ ॥
तस्येशः शिरसि स्थितह्न नयने सव्ये लथा दचिणे
पर्जन्यह्न तथोदितिह्न वदने चापः पुनः संस्थ्तिः ।
भूयस्तस्य च कन्धरे विनिहितः स्यादापवत्सस्तथा
पह्नात तस्य तथांसयोर्विनिहिते स्यातां जयन्तादिती ॥ ४९ ॥
भूयो महेन्द्रप्रमुखार्गलाद्याः संस्थापिताः स्युर्भुजयोः क्रमेण ।
सावित्ररुद्रौ सविता सविता जयह्न भूयः प्रकोष्ठद्वययंस्थिताः स्युः ॥ ५० ॥
ब्रह्मा च नाभौ स्तनयोर्द्वये च संस्थापितावार्यमहीधरौ च ।
कुक्षौ विवस्वांह्न तथैव मित्रः पादद्वये स्युः पितरो निविष्टाः ॥ ५१ ॥
इन्द्रह्न मेढे वृषणद्वये च पह्नात तथैवेन्द्रजयो निविष्टाः ।
नाम्ना स्वकेन प्रणवादिनैतान् मन्त्रेण सम्यक् परिपूजयेह्न ॥ ५२ ॥
इति वास्तुविद्यायां वास्तुपुरुषसंस्थानं नाम चतुर्थोङध्यायः ।
अथ पञ्चमोध्यायः ।
चतुःषष्टिपदं कुर्यान्मनुष्येण पदेन वा ।
मध्ये चतुष्पदं तत्र ब्रहमल्यमण्डपम् ॥ १ ॥
दैविक्यावृतिका च पदैर्द्वादशभिः स्मृता ।
आवृतिः पुनरन्या तु पंक्तिद्विघ्नपदान्विता ॥ २ ॥
तत्र वेश्म प्रकुर्वीत पदसम्मितविस्तरम् ।
आयामं द्विपदं कुर्यात सो वृतिर्मानुषी स्मृता ॥ ३ ॥
वैशाची सा विनिन्या स्यादष्टाविंशत्पदान्विता ।
आवृतिर्या तृतीया स्याद् गृहं तत्र न विन्यसेत ॥ ४ ॥
अथावृतौ तु दैविक्यां मन्दिरं कारयेन्नृणाम् ।
पदमानसमः स्तारो द्विपदो दर्धि उच्यतै ॥ ५ ॥
यावान् गृहस्य विस्तारस्तावान् पादसमृच्छयः ।
पादोनह्नाङर्धमेवं स्यादुत्तमाधममध्यमम् ॥ ६ ॥
अथवा समचलुरश्रं षोडशपदमेव कल्पयेत् क्षेत्रम् ।
तत्र च नैऋतनिऋतौ मन्दिरमुदितं च वैदिके खण्डे ॥ ७ ॥
निऋतावैशे कुर्यादीशेशानान्तमुत्तमं स्थानम् ।
मानुष्येङपि च खण्डे निऋतिपदं वेश्मयोग्यमेव भवेत ॥ ८ ॥
मानुष्यं तत् प्रोक्तं यत्र चतुष्कं पदं भ्वेदीशे ।
नैऋ\0Tr;तकोणचतुष्कं दैविकमुदितं चतुष्पदं खण्डम् ॥ ९ ॥
वायौ कीर्तिलमासुरमिति तद्ययमखण्डंवन्हिकोण वेश्म पदम् ।
निन्द्यावासुरयाम्यौ संग्राहयो देवमानुषौ खण्डौ ॥ १० ॥
तत्र चतुष्षष्टिर्वाप्येकाशीतिस्तु वाथ पदशतकम् ।
तेषु च यत्र रूचिः स्यातू तेन च कुर्यादशालयं प्राज्ञः ॥ १० ॥
वृतिपादस्य तु बहलंकुर्याद् विस्तारबाहयतः पह्नात ।
सौत्रं बहलार्धं यत् तावद्बहलं च कारयेत तलिपम् ॥ १२ ॥
तत्र च वप्रं कुर्यात् तुर्यश्रं द्वारगेहसह्शमपि ।
यद्वा पलिधं कुर्यात् पाषाणैर्बध्दभित्तिसमचलुरम् ॥ १३ ॥
कण्टकशाखाभिर्वा वृतिमथकरभेक्षणाक्षमां कुर्यात् ।
उत्तममत्र च वप्रं मध्यममुदितं तथैव परिधमपि ॥ १४ ॥
अधमं शाखावरणं कुर्यादेप्वेकमर्थसुलभवशात् ।
आवृत्यन्तर्भागे दिक्षु च वृक्षान् समादधेत् प्राज्ञः ॥ १५ ॥
पनसः प्राच्यां श्रेष्ठः क्रमुको याम्येङथ पह्निमे क्एरः ।
सोमे चुतो धन्यो नागस्तत्रैव केसरः प्राच्याम् ॥ १६ ॥
तिन्त्रिण्युदिता याम्ये छत्री श्रेष्ठोङथ पह्निमे कथिता ।
अन्तःसारा वृक्षा यदि संति हयन्तरेव यन्तु च ते ॥ १७ ॥
ये सन्ति त्वचिसारास्तेपि च सन्त्वेव सर्वतो बाहये ।
सकलः सारो येषां ते वृक्षः सर्वदिक्षु युज्यन्ताम् ॥ १८ ॥
वृक्षा निस्सारा ये तेषा क्षेत्रेषु वर्तन नेष्टम् ।
जातीनागलताद्या लतिका रम्भाह्न सर्वतः शस्ताः ॥ १९ ॥
Encoded by V. R. Ambatkar ambatkar@sancharnet.in
Trivendrum Sanskrit Series No. XXX
Edited by T. Ganapati Shastri
Printed at Travancore Government Press
1913 -Trivendrum
% File name : vAstuvidyA.itx
%--------------------------------------------
% Text title : vAstuvudyA
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism Vastu
% Description/comments :
% Transliterated by : Encoded by V. R. Ambatkar ambatkar@sancharnet.in
% Encoded by V. R. Ambatkar ambatkar@sancharnet.in
% Trivendrum Sanskrit Series No. XXX
% Edited by T. Ganapati Shastri
% Printed at Travancore Government Press
% 1913 - Trivendrum
%
% Proofread by : V. R. Ambatkar ambatkar@sancharnet.in
% Translation by :
% Latest update : January 16, 2004
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
%
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .