॥ वेतालपञ्चविंशति सोमदेवकृत कथासरितसागरान्तर्गतम् ॥
॥ वेतालपञ्चविंशति सोमदेवकृत कथासरितसागरान्तर्गतम् ॥
The verse number legend kathA, tara~Nga, verse
First 20 verses are conversation of vikramakesarI and mRigAnkadatta
not directly related to vetAlapanchaviMshati. There are other copies
of prose stories with Hindi and English translations.
तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ॥ ०.८.२१ ॥
प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरभून्नृपः ।
प्रतिष्ठानाभिधानोऽस्ति देशः गोदावरी तटे ॥ ०.८.२२ ॥
तस्य प्रत्यहमास्थानगतस्योपेत्य भूपतेः ।
सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलमुपानयत् ॥ ०.८.२३ ॥
सोऽपि राजा तदादाय फलमासन्नवर्तिनः ।
हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥ ०.८.२४ ॥
इत्थं गतेषु वर्षेषु दशस्वत्र किलैकदा ।
दत्त्वा राज्ञे फलं तस्मै भिक्षावास्थानतः गते ॥ ०.८.२५ ॥
स राजा तत्फलं प्रादात्प्रविष्टायात्र दैवतः ।
क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥ ०.८.२६ ॥
स मर्कटस्तदश्नाति यावत्तावत्फलात्ततः ।
विभिन्नमध्यान्निरगादनर्घं रत्नमुत्तमम् ॥ ०.८.२७ ॥
तद्दृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः ।
भिक्षूपनीतानि मया यानि नित्यं फलानि ते ॥ ०.८.२८ ॥
हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।
तच्छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ॥ ०.८.२९ ॥
क्षिप्तानि तान्यनुद्घाट्य मया गञ्जे गवाक्षतः ।
यद्यादिशसि तद्देव तमुद्घाट्य गवेषये ॥ ०.८.३० ॥
इत्यूचिवाननुमतो रज्ञा गत्वा क्षणेन सः ।
कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत्पुनः ॥ ०.८.३१ ॥
शीर्णानि नात्र पश्यामि कोषे तानि फलान्यहम् ।
रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ॥ ०.८.३२ ॥
तच्छ्रुत्वा तान्मनीन्दत्त्वा तुष्टोऽस्मै कोषरक्षिणे ।
राजान्येद्युः पृच्छत्स भिक्षुं तं प्राग्वदागतम् ॥ ०.८.३३ ॥
भिक्षो धनव्ययेनैवं सेवसे मां किमनुअहम् ।
नेदानीं ते ग्रहीष्यामि फलं यावन्न वक्ष्यसि ॥ ०.८.३४ ॥
इत्युक्तवन्तं राजानं भिक्षुः तं विजनेऽब्रवीत् ।
वीरसाचिव्यसापेक्षं मन्त्रसाधनमस्ति मे ॥ ०.८.३५ ॥
तत्र वीरेन्द्र साहाय्यं क्रियमानं त्वयार्थये ।
तच्छ्रुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः ॥ ०.८.३६ ॥
ततः सः श्रमणस्तुष्टो नृपं पुनरुवाच तम् ।
तर्हि कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥ ०.८.३७ ॥
इतो महाश्मशानान्तर्वटस्याधः स्थितस्य मे ।
आगन्तव्यं त्वया देव प्रतिपालयतोऽन्तिकम् ॥ ०.८.३८ ॥
बाढमेवं करिष्यामीत्युक्ते तेन महीभुजा ।
स क्षान्तिशीलः श्रमणः हृष्टः स्वनिलयं ययौ ॥ ०.८.३९ ॥
अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीम् ।
प्रार्थनां प्रतिपन्नां तां भिक्षोस्तस्य नृपः स्मरन् ॥ ०.८.४० ॥
प्रदोषे नीलवसनस्तमालकृतशेखरः ।
निर्ययौ राजधानीतः खड्गपाणिरलक्षितः ॥ ०.८.४१ ॥
ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् ।
चितानलौग्रनयनज्वालादारुणदर्शनम् ॥ ०.८.४२ ॥
असङ्ख्यनरकङ्कालकपालास्थिविशङ्कटम् ।
हृष्यत्सन्निहितौत्तालभूतवेतालवेष्टितम् ॥ ०.८.४३ ॥
भैरवस्यापरं रूपमिव गम्भीरभीषणम् ।
स्फूर्जन्महाशिवारावं श्मशानं तदविह्वलः ॥ ०.८.४४ ॥
विचित्य चात्र तं प्राप्य भिक्षुं वटतरोरधः ।
कुर्वाणं मण्डलन्यासमुपसृत्य जगाद सः ॥ ०.८.४५ ॥
एषोऽहमागतो भिक्षो ब्रूहि किं करवाणि ते ।
तच्छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तम् ॥ ०.८.४६ ॥
राजन्कृतः प्रसादश्चेत्तदितो दक्षिणामुखम् ।
गत्वा विदूरमेकाकी विद्यते शिंशपातरुः ॥ ०.८.४७ ॥
तस्मिन्नुल्लम्बितमृतः कोऽप्येकः पुरुषः स्थितः ।
तमिहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ॥ ०.८.४८ ॥
तच्छ्रुत्वैव तथेत्युक्त्वा स राजा सत्यसङ्गरः ।
दक्षिणां दिशमालम्ब्य प्रवीरः प्रययौ ततः ॥ ०.८.४९ ॥
आत्तदीप्तचितालातलक्षितेन पथात्र सः ।
गत्वा तमसि तं प्राप कथञ्चिच्छिंशपातरुम् ॥ ०.८.५० ॥
तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः ।
सोऽपश्यल्लम्बमानं तं भूतस्येव शवं तरोः ॥ ०.८.५१ ॥
आरुह्य चात्र भूमौ तं च्छिन्नरज्जुमपातयत् ।
पतितश्चात्र सोऽकस्माच्चक्रन्द व्यथितो यथा ॥ ०.८.५२ ॥
ततोऽवरुह्य कृपया जीवाशङ्की सस्तस्य यत् ।
राजाङ्गं प्रामृशत्तेन सोऽट्टहासं व्यधाच्छवः ॥ ०.८.५३ ॥
ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा ।
किं हसस्येहि गच्छावेति यावदकम्पितः ॥ ०.८.५४ ॥
वक्ति तावन्न भूमौ सवेतालं शवमैक्षत ।
ऐक्षतात्रैव वृक्षे तु लम्बमानं स्थितं पुनः ॥ ०.८.५५ ॥
ततोऽधिरुह्य भूयोऽपि तमवातारयत्ततः ।
वज्रादपि हि वीराणां चित्तरत्नमखण्डितम् ॥ ०.८.५६ ॥
आरोप्य च सवेतालं स्कन्धे मौनेन तं शवम् ।
सस्त्रिविक्रमसेनोऽथ राजा गन्तुं प्रचक्रमे ॥ ०.८.५७ ॥
यान्तं च तं शवान्तःस्थो वेतालोऽंसस्थितोऽब्रवीत् ।
राजन्नध्वविनोदाय कथामाख्यामि ते शृणु ॥ ०.८.५८ ॥
अस्ति वाराणसी नाम पुरारिवसतिः पुरी ।
स्थलीव कैलासगिरेः या पुण्यजनसेविता ॥ १.८.५९ ॥
भूरिवारिभृता शश्वतुपकण्ठनिवेशिनी ।
हारयष्टिः इवाभाति यस्याः स्वर्गतरङ्गिणी ॥ १.८.६० ॥
प्रतापानलनिर्दग्धविपक्षकुलकाननः ।
तस्यां प्रतापमुकुटो नाम राजाभवत्पुरा ॥ १.८.६१ ॥
तस्याभूत् वज्रमुकुटस्तनयो रूपशौर्ययोः ।
कुर्वाणः दर्पदलनं स्मरस्यारिजनस्य च ॥ १.८.६२ ॥
राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः ।
आसीत् बुद्धिशरीराख्यः शरीराभ्यधिकः सखा ॥ १.८.६३ ॥
तेन सख्या सह क्रीडन् सः कदाचिन्नृपात्मजः ।
जगाम दूरमध्वानं मृगयाति प्रसङ्गतः ॥ १.८.६४ ॥
शौर्यशृ-ईचामरानीव सिंहानां मस्तकानि सः ।
छिन्दच्छरैः सटालानि विवेशैकं महावनम् ॥ १.८.६५ ॥
तत्रास्थाने स्मरस्येव पठत् कोकिलबन्दिनि ।
दत्तौपकारे तरुभिः मञ्जरीचलचामरैः ॥ १.८.६६ ॥
सोऽन्वितो मन्त्रिपुत्रेण तेनापश्यत्सरोवरम् ।
विचित्रकमलौत्पत्तिधामाम्बुधिमिवापरम् ॥ १.८.६७ ॥
तस्मिन् तदैव सरसि स्नानार्थं काचिदागता ।
तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ॥ १.८.६८ ॥
पूरयन्तीव लावण्यनिःझरेण सरोवरम् ।
दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ॥ १.८.६९ ॥
प्रत्यादिशन्तीव मुखेनाम्बुजानि जितैन्दुना ।
सा जहार मनस्तस्य राजपुत्रस्य तत्क्षणम् ॥ १.८.७० ॥
सोऽप्यहार्षीत्तथा तस्याः युवा दृष्ट्वा विलोचने ।
यथा नाइक्षत सा कन्या लज्जां स्वामप्यलङ्कृतिम् ॥ १.८.७१ ॥
यूनि पश्यति तस्मिन् सा केयं स्यादिति सानुगे ।
संज्ञां स्वदेशादि-आख्यातुं विलासछद्मनाकरोत् ॥ १.८.७२ ॥
करोति स्मौत्पलं कर्णे गृहीत्वा पुष्पशेखरात् ।
चिरं च दन्तरचनां चकारादाय च व्यधात् ॥ १.८.७३ ॥
पद्मं शिरसि साकूतं हृदये चादधे करम् ।
राजपुत्रश्च तस्याः तां संज्ञां न ज्ञातवान् तदा ॥ १.८.७४ ॥
मन्त्रिपुत्रस्तु बुबुधे सः सखा तस्य बुद्धिमान् ।
क्षणाच्च सा ययौ कन्या नीयमानानुगैः ततः ॥ १.८.७५ ॥
प्राप्य च स्वगृहं तस्थौ पर्यङ्गेऽङ्गं निधाय सा ।
चित्तं तु निजसंज्ञार्थमास्थात्तस्मिन् नृपात्मजे ॥ १.८.७६ ॥
सोऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा ।
गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना ॥ १.८.७७ ॥
सख्या च मन्त्रिपुत्रेण तेन पृष्टस्तदा रहः ।
शंसता तामदुष्प्रापां त्यक्तधैर्यः जगाद सः ॥ १.८.७८ ॥
यस्याः न नाम न ग्रामो नान्वयो वावबुध्यते ।
सा कथं प्राप्यते तन्मामाश्वासयसि किं मृषा ॥ १.८.७९ ॥
इत्युक्तो राजपुत्रेण मन्त्रिपुत्रस्तमभ्यधात् ।
किं न दृष्टं त्वया तत् यत्संज्ञया सूचितं तया ॥ १.८.८० ॥
न्यस्तं यत् उत्पलं कर्णे तेनैतत्ते तयोदितम् ।
कर्णोत्पलस्य राष्ट्रेऽहं निवसामि महीभृतः ॥ १.८.८१ ॥
कृता यद्दन्तरचना तेनैतत् कथितं तया ।
तत्र जानीहि मां दन्तघाटकस्य सुतामिति ॥ १.८.८२ ॥
पद्मावतीति नामोक्तं तयोत्तंसितपद्मया ।
त्वयि प्राणाः इति प्रोक्तं हृदयार्पितहस्तया ॥ १.८.८३ ॥
कलिङ्गदेशे ह्यस्त्यत्र ख्यातः कर्णोत्पलो नृपः ।
तस्य प्रसादवित्तोऽस्ति महान् यः दन्तघटकः ॥ १.८.८४ ॥
सङ्ग्रामवर्धनाख्यस्य तस्याप्यस्ति जगत्त्रये ।
रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया ॥ १.८.८५ ॥
एतच्च लोकतः देव यथावत् विदितं मम ।
अतः ज्ञाता मया संज्ञा तस्याः देशादिशंसिनी ॥ १.८.८६ ॥
इत्युक्तो मन्त्रिपुत्रेन तेन राजसुतोऽथ सः ।
तुतोष तस्मै सुधिये लब्धौपायः जहर्ष च ॥ १.८.८७ ॥
सम्मन्त्र्य च समं तेन सस्तत्युक्तः स्वमन्दिरात् ।
प्रियार्थी मृगयाव्याजात्पुनस्तामगमद्दिशम् ॥ १.८.८८ ॥
अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः ।
तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ॥ १.८.८९ ॥
तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः ।
अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ॥ १.८.९० ॥
ततदूरे च वासार्थमेकस्य वृद्धयोषितः ।
गृहं प्राविशतां मन्त्रिपुत्रराजसुतावुभौ ॥ १.८.९१ ॥
दत्ताम्बुयवसौ वाहौ गुप्तेऽवस्थाप्य चात्र सः ।
राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रः जगाद ताम् ॥ १.८.९२ ॥
कच्चित् वेत्स्यम्ब सङ्ग्रामवर्धनं दन्तघाटकम् ।
तच्छ्रुत्वा सा जरद्योषित्सश्रद्धा तमभाषत ॥ १.८.९३ ॥
वेद्म्येव धात्री तस्यास्मि स्थापिता तेन चाधुना ।
पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्यहम् ॥ १.८.९४ ॥
किं त्वहं न सदा तत्र गच्छाम्युपहताम्बरा ।
कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ॥ १.८.९५ ॥
एवमुक्तवतीं प्रीतः स्वौत्तरीयादिदानतः ।
सन्तोष्य सोऽत्र वृद्धां तां मन्त्रिपुत्रोऽब्रवीत्पुनः ॥ १.८.९६ ॥
माता त्वं तत् वदामस्ते गुप्तं यत्तत् कुरुष्व नः ।
दन्तघाटसुतामेतां गत्वा पद्मावतीं वद ॥ १.८.९७ ॥
सोऽत्रागतो राजपुत्रः दृष्टो यः सरसि त्वया ।
तेन चेह तद् आख्यातुं प्रेषिता प्रणयादहम् ॥ १.८.९८ ॥
तच्छ्रुत्वा सा तथेत्युक्त्वा वृद्धा दानवशीकृता ।
गत्वा पद्मावतीपार्श्वमाजगाम क्षणान्तरे ॥ १.८.९९ ॥
पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा ।
युष्मतागमनं गत्वा गुप्तं तस्याः मयोदितम् ॥ १.८.१०० ॥
तया श्रुत्वा च निर्भर्त्स्य पाणिभ्यामहमाहता ।
द्वाभ्यां कर्पूरलिप्ताभ्यामुभयोः गण्डयोः मुखे ॥ १.८.१०१ ॥
ततः परिभवोद्विग्ना रुदत्यहमिहागता ।
एताः तदङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे ॥ १.८.१०२ ॥
एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् ।
जगाद स महाप्राज्ञो मन्त्रिपुत्रः जनान्तिकम् ॥ १.८.१०३ ॥
मा गाः विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत्तया ।
कर्पूरशुभ्राः वक्त्रेऽस्याः स्वाङ्गुल्यः दश पातिताः ॥ १.८.१०४ ॥
तत् एतत् उक्तं पक्षेऽस्मिन् शुक्ले चन्द्रवतीः इमाः ।
रात्रीः दश प्रतीक्षध्वं सङ्गमानुचिताः इति ॥ १.८.१०५ ॥
इत्याश्वास्य सस्तं राजसुतं मन्त्रिसुतस्ततः ।
विक्रीय गुप्तं हस्तस्थं काञ्चनं किम्चिदापणे ॥ १.८.१०६ ॥
वृद्धया साधयामास महार्हं भोजनं तया ।
ततस्तौ बुभुजाते द्वौ तत्तया सह वृद्धया ॥ १.८.१०७ ॥
एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः सस्ताम् ।
पद्मावती-अन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ॥ १.८.१०८ ॥
सापि मृष्टान्नपानादिलुब्धा तदनुरोधतः ।
गत्वा वासगृहं तस्याः भूयोऽभ्येत्य जगाद तौ ॥ १.८.१०९ ॥
इतः गत्वाद्य तूष्णीमप्यहं तत्र स्थिता तया ।
युष्मत्कथापराधं तमुद्गिरन्त्या स्वयं पुनः ॥ १.८.११० ॥
सालक्तकाभिः तिसृभिः कराङ्गुलिभिः आहता ।
उरस्यस्मिन्नथैषाहमिहायाता तदन्तिकात् ॥ १.८.१११ ॥
तच्छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतोऽब्रवीत् ।
मा कार्षीः अन्यथा शङ्कामस्याः हि हृदये तया ॥ १.८.११२ ॥
सा लक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः ।
रजस्वला निशाः तिस्रः स्थिताहमिति सूचितम् ॥ १.८.११३ ॥
एवमुक्त्वा नृपसुतं मन्त्रिपुत्रस्त्र्यहे गते ।
पद्मावत्यै पुनस्तस्यै वृद्धां तां प्रजिघाय सः ॥ १.८.११४ ॥
सा गता मन्दिरं तस्याः तया सम्मान्य भोजिता ।
प्रीत्या पानादिलीलाभिः दिनं चात्र विनोदिता ॥ १.८.११५ ॥
सायं च यावत्सा वृद्धा गृहमागन्तुमिच्छति ।
उदभूत् भयकृत्तावत्तत्र कोलाहलः बहिः ॥ १.८.११६ ॥
हा हा भ्रष्टोऽयमालानात् जनान्मथ्नन् प्रधावति ।
मत्तहस्तीति लोकस्य तत्राक्रन्दोऽथ शुश्रुवे ॥ १.८.११७ ॥
ततः पद्मावती सा तां वृद्धामेवमभाषत ।
स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा ॥ १.८.११८ ॥
तत्पीठिकां समारोप्य बद्धालम्बनरज्जुकाम् ।
बृहत्गवाक्षेणानेन त्वामत्र प्रक्षिपामहे ॥ १.८.११९ ॥
गृहौद्याने ततो वृक्षमारुह्यामुं विलङ्घ्य च ।
प्राकारमवरुह्यान्यवृक्षेण स्वगृहं व्रज ॥ १.८.१२० ॥
इत्युक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् ।
वृद्धां चेटीभिः उद्याने रज्जुपीठिकया ततः ॥ १.८.१२१ ॥
साथ गत्वा यथा-उक्तेन पथा सर्वं शशंस तत् ।
यथावत् राजपुत्राय तस्मै मन्त्रिसुताय च ॥ १.८.१२२ ॥
ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत ।
सिद्धं तवेष्टं मार्गः हि युक्त्या ते दर्शितस्तया ॥ १.८.१२३ ॥
तत् गच्छाद्यैव तत्र त्वं प्रदोषेऽस्मिन् नृपागते ।
एतेनैव पथा तस्याः प्रियायाः मन्दिरं विश ॥ १.८.१२४ ॥
इत्युक्तस्तेन तत्युक्तो राजपुत्रो ययौ सस्तत् ।
उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना ॥ १.८.१२५ ॥
तत्रापश्यच्च रज्जुं तां लम्बमानां सपीठिकाम् ।
मार्गौन्मुखाभिः चेटीभिः उपरिष्टादधिष्ठिताम् ॥ १.८.१२६ ॥
आरूढस्तां च दृष्ट्वैव दासीभिः ताभिः आशु सः ।
रज्जूत्क्षिप्तः गवाक्षेण प्रविवेश प्रियान्तिकम् ॥ १.८.१२७ ॥
तस्मिन् प्रविष्टे स ययौ मन्त्रिपुत्रः स्वमास्पदम् ।
राजपुत्रस्तु तां पद्मावतीं तत्र ददर्श सः ॥ १.८.१२८ ॥
पूर्णामृताम्शुवदनां प्रसरत्कान्तिचन्द्रकाम् ।
कृष्णपक्षभयात् गुप्तस्थितां राकानिशामिव ॥ १.८.१२९ ॥
सापि दृष्ट्वा तमुत्थाय चिराउत्सुक्यौचितैः ततः ।
कण्ठग्रहादिभिः तैः तैः उपचारैरमानयत् ॥ १.८.१३० ॥
ततस्तया सः गान्धर्वविधिनोदूढया सह ।
गुप्तं राजसुतस्तस्थौ पूर्णैच्छस्तत्र कान्तया ॥ १.८.१३१ ॥
स्थित्वा चाहानि कतिचित् रात्रौ तामवदत्प्रियाम् ।
सखा मम सहायातो मन्त्रिपुत्रः इति स्थितः ॥ १.८.१३२ ॥
सश्चात्र तिष्ठत्येकाकी त्वत्ज्येष्ठतरिकागृहे ।
गत्वा सम्भाव्य तं तन्वि पुनः एष्यामि तेऽन्तिकम् ॥ १.८.१३३ ॥
तच्छ्रुत्वा तमवोचत्सा धूर्ता पद्मावती प्रियम् ।
हन्तार्यपुत्र पृच्छामि ताः संज्ञाः मत्कृताः त्वया ॥ १.८.१३४ ॥
ज्ञाता किं किमुवा तेन सख्या मन्त्रिसुतेन ते ।
एवमुक्तवतीमेतां राजपुत्रः जगाद सः ॥ १.८.१३५ ॥
न ज्ञातं तन्मया किम्चित् ज्ञात्वा सर्वं च तेन मे ।
आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥ १.८.१३६ ॥
एतच्छ्रुत्वा विचिन्त्यैव भामिनी सा जगाद तम् ।
तर्ह्ययुक्तं कृतं यन्मे चिरात्सः कथितस्त्वया ॥ १.८.१३७ ॥
सो मे भ्राता सखा यस्ते तस्य च प्रथमं मया ।
ताम्बूलादिसमाचारः कर्तव्यः हि सदा भवेत् ॥ १.८.१३८ ॥
इत्युक्तवत्यानुमतस्तया पूर्वपथेन सः ।
रजापुत्रोऽन्तिकं तस्य सख्युः आगात्ततो निशि ॥ १.८.१३९ ॥
शशंस च कथामध्ये तत्तस्मै यत्तदाश्रयम् ।
संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ॥ १.८.१४० ॥
मन्त्रिपुत्रस्तु सोऽयुक्तमिति न श्रद्दधेऽस्य तत् ।
तावच्च सा तयोस्तत्र विभाताभूत् विभावरी ॥ १.८.१४१ ॥
अथैतयोः विधौ सान्ध्ये निवृत्ते कुर्वतोः कथाः ।
आगात्पक्वान्नताम्बूलहस्ता पद्मावतीसखी ॥ १.८.१४२ ॥
सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तौपचारिका ।
निषेद्धुं रजापुत्रस्य भोजनं तत्र युक्तितः ॥ १.८.१४३ ॥
कथान्तरे स्वामिनीं स्वां भोजनादौ ततागमम् ।
प्रतीक्षमाणामावेद्य क्षणात् गुप्तं ततो ययौ ॥ १.८.१४४ ॥
ततस्तं मन्त्रिपुत्रः स राजपुत्रमभाषत ।
कौतुकं पश्य देवैकं दर्शयाम्यधुना तव ॥ १.८.१४५ ॥
इत्युक्त्वा भक्ष्यमेकं सः पक्वान्नं दत्तवान् ततः ।
सारमेयाय सश्च तत् खादित्वैव व्यपद्यत ॥ १.८.१४६ ॥
तद्दृष्ट्वा किमिदं चित्रमिति राजसुतोऽत्र सः ।
पप्रच्छ मन्त्रिपुत्रं तं सश्चैतं प्रत्यभाषत ॥ १.८.१४७ ॥
संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया ।
तया विषान्नं प्रहितं मम त्वतनुरक्तया ॥ १.८.१४८ ॥
नास्मिन् सति मतेकाग्रो राजपुत्रो भवेदयम् ।
एतत्वशश्च मुक्त्वा मां नगरीं स्वां व्रजेत् इति ॥ १.८.१४९ ॥
तन्मुञ्च मन्युमेतस्यां बन्धुत्यागान्महात्मनः ।
कुर्याः त्वं हरणे युक्तिं वक्ष्याम्यालोच्य यामहम् ॥ १.८.१५० ॥
इत्युक्तवन्तं तं मन्त्रिसुतो राजसुतोऽत्र सः ।
सत्यं बुद्धिशरीरस्त्वमिति यावत्प्रशंसति ॥ १.८.१५१ ॥
अशङ्कितं बहिः तावद्दुःखाकुलजनारवः ।
हा धिक् राज्ञः सुतः बालो विपन्नः इति शुश्रुवे ॥ १.८.१५२ ॥
तदाकर्णनहृष्टोऽथ मन्त्रिपुत्रो नृपात्मजम् ।
जगाद हन्त गच्छाद्य पद्मावत्याः गृहं निशि ॥ १.८.१५३ ॥
तत्र तां पाययेः तावत् यावत्पानमदेन सा ।
निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते ॥ १.८.१५४ ॥
ततस्तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे ।
दत्त्वाग्नितप्तेनादाय तताभरणसञ्चयम् ॥ १.८.१५५ ॥
आगच्छेः त्वं गवाक्षेण रज्जुलम्बविनिर्गतः ।
ततः परं यथा भद्रं भवेत् ज्ञास्याम्यहं तथा ॥ १.८.१५६ ॥
इत्युक्त्वा कारयित्वा च क्रोडवालनिभाश्रिकम् ।
मन्त्रिपुत्रः ददौ तस्मै त्रिशूलं राजसूनवे ॥ १.८.१५७ ॥
राजपुत्रः सः हस्ते तत् कृत्वा कुटिलकर्कशम् ।
कालायस दृढं चित्तमिव कान्तावयस्ययोः ॥ १.८.१५८ ॥
तथेति पूर्ववत् रात्रवगात्पद्मावतीगृहम् ।
अविचार्यं प्रभूणां हि शुचेः वाक्यं स्वमन्त्रिणः ॥ १.८.१५९ ॥
तत्र तां मद्यनिःचेष्टां शूलेन जघनेऽङ्किताम् ।
हृतालङ्करणां कृत्वा तस्यागात्सख्युः अन्तिकम् ॥ १.८.१६० ॥
दर्शिताभरणस्तस्मै शशंस च यथाकृतम् ।
ततः स मन्त्रिपुत्रोऽपि सिद्धं मेने मनीषितम् ॥ १.८.१६१ ॥
प्रातः गत्वा श्मशानं च सोऽभूत्तापसवेषभृत् ।
स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ॥ १.८.१६२ ॥
अब्रवीत्तं च गच्छैकमितोऽलङ्करणात् इमाम् ।
मुक्तावलीं समादाय त्वं विक्रेतुमिवापणे ॥ १.८.१६३ ॥
बहुमूल्यं वदेः चास्याः येनैतां नैव कश्चने ।
गृह्णीयात् भ्राम्यमाणां च सर्वः कोऽपि विलोकयेत् ॥ १.८.१६४ ॥
गुरुणा मम विक्रेतुमियं दत्तेत्यनाकुलः ।
ब्रूयाः च यदि गृह्णीयुः अत्र त्वां पुररक्षिणः ॥ १.८.१६५ ॥
इति सः प्रेषितस्तेन गत्वा राजसुतस्तदा ।
अतिष्ठदापणे भ्राम्यन् व्यक्तं मुक्तावलीं दधत् ॥ १.८.१६६ ॥
तथाभूच्च जगृहे सः दृष्ट्वा पुररक्षिभिः ।
दन्तघाटसुतामोषज्ञप्तेः चौरेगवेषिभिः ॥ १.८.१६७ ॥
निन्ये च नगराध्यक्षनिकटं तैः सस्तत्क्षणात् ।
सश्च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः ॥ १.८.१६८ ॥
कुतो मुक्तावलीयं ते भगवन् इह हारिता ।
दन्तघाटककन्यायाः हृतं ह्याभरणं निशि ॥ १.८.१६९ ॥
तच्छ्रुत्वा राजपुत्रस्तं सोऽवादीत्तापसाकृतिः ।
गुरुणा मम दत्तेयमेत्यासौ पृच्छ्यतामिति ॥ १.८.१७० ॥
ततश्चोपेत्य तं नत्वा पप्रच्छ नगराधिपः ।
मुक्तावलीयं भगवन्कुतस्ते शिष्यहस्तगा ॥ १.८.१७१ ॥
श्रुत्वैतत् विजनं कृत्वा सः धूर्तस्तमभाषत ।
अहं तपस्वी भ्राम्यामि सदारण्येष्वितस्ततः ॥ १.८.१७२ ॥
सोऽहं दैवात् इह प्राप्तः श्मशानेऽत्र स्थितो निशि ।
अपश्यं योगिनीचक्रं समागतमितस्ततः ॥ १.८.१७३ ॥
तत्मध्ये चैकयानीय योगिन्या राजपुत्रकः ।
उद्घाटितहृतम्भोजो भैरवाय निवेदितः ॥ १.८.१७४ ॥
पानमत्ता च सा हर्तुं जपतो मेऽक्षमालिकाम् ।
प्रावर्तत महामाया विकारान्कुर्वती मुखे ॥ १.८.१७५ ॥
अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले ।
अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ॥ १.८.१७६ ॥
हृता मुक्तावली चेयं तस्याः कण्ठान्मया तदा ।
सैषाद्य तापसानर्हा विक्रेया मम वर्तते ॥ १.८.१७७ ॥
एतच्छ्रुत्वा पुराध्यक्षः गत्वा भूपं व्यजिज्ञपत् ।
भूपोऽप्याकर्ण्य तत्तां च बुद्ध्वा तत्मौक्तिकावलीम् ॥ १.८.१७८ ॥
प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् ।
श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यमेव ताम् ॥ १.८.१७९ ॥
ग्रस्तः सुतो मे डकिन्या तयेत्युत्पन्ननिश्चयः ।
स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः ॥ १.८.१८० ॥
पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः सस्तत्गिरा ।
पितृभ्यां शोच्यमानायाः पुरान्निर्वासनं व्यधात् ॥ १.८.१८१ ॥
निर्वासिताटवीस्था सा विग्नापि न जहौ तनुम् ।
उपायं मन्त्रिपुत्रेण तं सम्भाव्य तथा कृतम् ॥ १.८.१८२ ॥
दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः ।
त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ ॥ १.८.१८३ ॥
आश्वास्यारोप्य तुरगे स्वराष्ट्रं निन्यतुः च ताम् ।
तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः ॥ १.८.१८४ ॥
दन्तघाटस्त्वरण्ये तां क्रव्यादैः भक्षितां सुताम् ।
मत्वा व्यपादि शोकेन भार्या चानुजगाम तम् ॥ १.८.१८५ ॥
इत्याख्याय स भूयस्तं वेतालो नृपमब्रवीत् ।
तन्मेऽत्र संशयं छिन्द्धि दम्पत्योः एतयोः वधात् ॥ १.८.१८६ ॥
मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा ।
पद्मावत्याः किमथ वा त्वं हि बुद्धिमतां वरः ॥ १.८.१८७ ॥
जानानश्च न चेत् राजन्मम तत्त्वं वदिष्यसि ।
तत् एषः शतधा मूर्धा निःचितं ते स्फुटिष्यति ॥ १.८.१८८ ॥
इत्युक्तवन्तं वेतालं विजानन् शापभीतितः ।
सस्त्रिविक्रमसेनस्तमेवं प्रत्यब्रवीन्नृपः ॥ १.८.१८९ ॥
योग-ईश्वर किमज्ञेयमेतन्नैषां हि पातकम् ।
त्रयाणामपि राज्ञस्तु पापं कर्णोत्पलस्य तत् ॥ १.८.१९० ॥
वेतालोऽप्याह राज्ञः किं ते हि तत्कारिणस्त्रयः ।
काकाः किमपराध्यन्ति हंसैः जग्धेषु शालिषु ॥ १.८.१९१ ॥
राजा ततोऽब्रवीच्चैनं न दुष्यन्ति त्रयोऽपि ते ।
मन्त्रिसूनोः हि तत्तावत्प्रभुकार्यमपातकम् ॥ १.८.१९२ ॥
पद्मावतीराजपुत्रौ तौ हि कामशराग्निना ।
सन्तप्तवविचारार्हवदोषौ स्वार्थमुद्यतौ ॥ १.८.१९३ ॥
कर्णोत्पलस्तु राजा स नीतिशास्त्रेष्वशिक्षितः ।
चरैः प्रजास्वनन्विष्यन् तत्त्वशुद्धिं निजास्वपि ॥ १.८.१९४ ॥
अजानन्धूर्तचरितानीङ्गिताद्यविचक्षणः ।
तथा तन्निर्विचारं यच्चक्रे तेन सः पापभाक् ॥ १.८.१९५ ॥
इत्याकर्ण्य विमुक्तमौनमुदिते सम्यङ् नृपेणोत्तरे
स्कन्धात्तस्य सः दार्ढ्यमाकलयितुं मायाबलात्तत्क्षणम् ।
वेतालो नृकलेवरान्तरगतः क्वाप्यप्रतर्क्यो ययौ
निःकम्पः सश्च भूपतिः पुनोऽमुं प्राप्तुं व्यधान्निःचयम् ॥ १.८.१९६ ॥
ततोऽत्र पुनः आनेतुं तं वेतालमगान्नृपः ।
सस्त्रिविक्रमसेनस्तच्छिंशपापादपान्तिकम् ॥ २.९.१ ॥
प्राप्तोऽत्र वीक्षते यावच्चितालोकवशान्निशि ।
तावद्ददर्श तं भूमौ कूजन्तं पतितं शवम् ॥ २.९.२ ॥
अथ तं मृतदेहस्थं वेतालं स महीपतिः ।
आरोप्य स्कन्धमानेतुं तूष्णीं प्रववृते जवात् ॥ २.९.३ ॥
ततः स्कन्धात्सो वेतालो भूयस्तं नृपमब्रवीत् ।
राजन्महत्यनुचिते क्लेशेऽस्मिन् पतितो भवान् ॥ २.९.४ ॥
अतस्तव विनोदाय खतयामि खतां शृणु ।
अस्त्यग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः ॥ २.९.५ ॥
अग्निस्वामीति तत्रासीत् ब्राह्मणो वेदपारगः ।
तस्यातिरूपा मन्दारवतीत्यजनि कन्यका ॥ २.९.६ ॥
यां निःमाय नवानर्घलावण्यां नियतं विधिः ।
स्वर्गस्त्रीपूर्वनिर्माणं निजमेवाजुगुप्सत ॥ २.९.७ ॥
तस्यां च यौवनस्थायामाययुः कान्यकुब्जतः ।
समसर्वगुणाः तत्र त्रयः ब्राह्मणपुत्रकाः ॥ २.९.८ ॥
तेषां चात्मार्थमेकैकस्तत्पितुः तामयाचत ।
अनिच्छन्दानमन्यस्मै तस्याः प्रानव्ययादपि ॥ २.९.९ ॥
तत्पिता सस्तु तत्मध्यान्नैकस्मयपि तां ददौ ।
भीतोऽन्ययोः वधात्तेन तस्थौ कन्यैव सा ततः ॥ २.९.१० ॥
ते च त्रयोऽपि तत्वक्त्रचन्द्रैकासक्त दृष्ठयः ।
चकोरव्रतमालम्ब्य तत्रैवासन्दिवानिशम् ॥ २.९.११ ॥
अथाकस्मात्समुत्पन्न दाहज्वरवशेन सा ।
जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ २.९.१२ ॥
ततस्तां विप्रपुत्राः ते परासुं शोकविक्लवाः ।
कृतप्रसाधनां नीत्वा श्मशानं चक्रुः अग्निसात् ॥ २.९.१३ ॥
एकश्च तेषां तत्रैव विधाय मठिकां ततः ।
कृततत्भस्मशय्यः सन्नास्तायाचितभैक्षभुक् ॥ २.९.१४ ॥
द्वितीयोऽस्थीन्युपादाय तस्याः भागीरथीं ययौ ।
तृतीयस्तापसो भूत्वा भ्रान्तुं देशान्तराण्यगात् ॥ २.९.१५ ॥
सो भ्राम्यन् तापसः प्राप ग्रामं वक्रोलकाभिधम् ।
तत्रातिथिः सन्कस्यापि विप्रस्य प्राविशत् गृहम् ॥ २.९.१६ ॥
तत्पूजितः स यावच्च भोक्तुं तत्र प्रचक्रमे ।
तावत् एकः शिशुः तत्र प्रवृत्तोऽभूत्प्ररोदितुम् ॥ २.९.१७ ॥
सः सान्त्व्यमानोऽपि यदा न व्यरम्सीत्तदा क्रुधा ।
बाहावादाय गृहिणी ज्वलत्यग्नौ तमक्षिपत् ॥ २.९.१८ ॥
क्षिप्त मात्रः स मृदुअङ्गो भस्मीभावमवाप्तवान् ।
तद्दृष्ट्वा जातरोमाञ्चः सोऽब्रवीत्तापसोऽतिथिः ॥ २.९.१९ ॥
हा धिक्कष्टं प्रविष्टोऽस्मि ब्रह्मराक्षसवेश्मनि ।
तत्मूर्तं किल्बिषमिदं न भोक्ष्येऽन्नमिहाधुना ॥ २.९.२० ॥
एवं वदन्तं तं सोऽत्र गृहस्थः प्राह पश्य मे ।
शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥ २.९.२१ ॥
इत्युक्त्वादाय तन्मन्त्रपुस्तिकामनुवाच्य च ।
तत्र भस्मनि चिक्षेप सः धूलिमभिमन्त्रिताम् ॥ २.९.२२ ॥
तेनोदतिष्ठत्तत्रूपैव जीवन् सः बालकः ।
ततः स निर्वृतस्तत्र भुक्तवान् विप्रतापसः ॥ २.९.२३ ॥
गृहस्थोऽपि सस्तां नागदन्तेऽवस्थाप्य पुस्तिकाम् ।
भुक्वा च शयनं भेजे रात्रौ तत्रैव तत्युतः ॥ २.९.२४ ॥
सुप्ते गृहपतौ तस्मिन् स्वैरमुत्थाय शङ्कितः ।
सः प्रियाजीवितार्थी तां पुस्तिकां तापसोऽग्रहीत् ॥ २.९.२५ ॥
गृहीत्वैव च निर्गत्य ततो रात्रिदिनं व्रजन् ।
क्रमाच्छ्मशानं तत्प्राप यत्र दग्धास्य सा प्रिया ॥ २.९.२६ ॥
ददर्श चात्र तत्कालं तं द्वितीयमुपागतम् ।
यः सः गङ्गाम्भसि क्षेप्तुं ततस्थीनि गतोऽभवत् ॥ २.९.२७ ॥
ततस्तं च तमाद्यं च तस्याः भस्मनि शायिनम् ।
निबद्धमठिकं तत्र द्ववप्येतौ जगाद सः ॥ २.९.२८ ॥
मठिकापास्यतामेषा यावत् उत्थापयामि ताम् ।
जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्यहम् ॥ २.९.२९ ॥
इति तौ प्रेर्य निर्बन्धान्निर्लोठ्य मठिकां च सः ।
उद्घाट्य तापसो विप्रः पुस्तिकां तामवाचयत् ॥ २.९.३० ॥
अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्यवाक्षिपत् ।
उदतिष्ठच्च जीवन्ती सा मन्दारवती ततः ॥ २.९.३१ ॥
वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति ।
तदा बभार सा कन्या कञ्चनेनेव निःमितम् ॥ २.९.३२ ॥
तादृशीं तां पुनः जातां ते दृष्ट्वैव स्मरातुराः ।
प्राप्तुकामाः त्रयोऽप्येवमन्यःअन्यं कलहं व्यधुः ॥ २.९.३३ ॥
एकोऽब्रवीत् इयं भार्या मम मन्त्रबलार्जिता ।
तीर्थप्रभावजा भार्या ममेयमिति चापरः ॥ २.९.३४ ॥
रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् ।
तत् एषा मम भार्येति तृतीयोऽत्र जगाद सः ॥ २.९.३५ ॥
विवादनिर्णये तेषां त्वं तावन्मे महीपते ।
निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ २.९.३६ ॥
विदलिष्यति मूर्धा ते यदि जानन् न वक्ष्यसि ।
इति वेतालतः श्रुत्वा तं स राजैवमभ्यधात् ॥ २.९.३७ ॥
यः क्लेशमनुभूयापि मन्त्रेणैतामजीवयत् ।
पिता सस्तस्याः तत्कार्यकरणान्न पुनः पतीः ॥ २.९.३८ ॥
यश्चास्तीनि निनायास्य गङ्गायां सः सुतो मतः ।
यस्तु तत् भस्मशय्यं तामाश्लिष्यासीत्तपश्चरन् ॥ २.९.३९ ॥
श्मशाने एव तत्प्रीत्या भर्ता तस्याः स उच्यते ।
कृतं तदनुरूपमिह तेन गाढानुरागिण ॥ २.९.४० ॥
एवं नृपात्त्रिविक्रमसेनाच्छ्रुत्वैव मुक्तमौनात्सः ।
तस्य स्कन्धादगमत् वेतालोऽतर्कितः स्वपदम् ॥ २.९.४१ ॥
राजाथ भिक्षुअर्थसमुद्यतस्तं प्राप्तुं स भूयोऽपि मनः बबन्ध ।
प्राणात्ययेऽपि प्रतिपन्नमर्थं तिष्ठन्त्यनिर्वाह्य
न धीरसत्त्वाः ॥ २.९.४२ ॥
अथ भूयोऽपि वेतालमानेतुं नृपसत्तमः ।
सस्त्रिविक्रमसेनस्तमुपागाच्छिंशम्पातरुम् ॥ ३.१०.१ ॥
तत्रस्थमेतं सम्प्राप्य मृतदेहगतं पुनः ।
स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः ॥ ३.१०.२ ॥
प्रयान्तं च तमाह स्म स वेतालोऽस्य पृष्ठगः ।
चित्रं नोद्विजसे राजन् निशि कुर्वन् गमागमम् ॥ ३.१०.३ ॥
तदखेदाय भूयस्ते वर्णयामि कथां शृणु ।
अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले पुरम् ॥ ३.१०.४ ॥
तत्रासीन्नृपतिः पूर्वं नाम्ना विक्रमकेसरी ।
गुणानामिव रत्नानामाश्रयं यं व्यधात् विधिः ॥ ३.१०.५ ॥
तत्र शापावतीर्णोऽभूद्दिव्यविज्ञानवान् शुकः ।
विदग्धचूदमणिः इत्याख्यया सर्वशास्त्रवित् ॥ ३.१०.६ ॥
तेनोपदिष्टां सदृशीं राजपुत्रीं नृपात्मजः ।
मागधीमुपयेमे स भार्यां चन्द्रप्रभाभिधाम् ॥ ३.१०.७ ॥
तस्याः अपि तथाभूता सर्वविज्ञानशालिनी ।
शारिका सोमिका नाम राजपुत्र्याः किलाभवत् ॥ ३.१०.८ ॥
ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारीके ।
सेवमाने स्वविञ्जानैः दम्पती तौ निजप्रभू ॥ ३.१०.९ ॥
एकदा साभिलाषस्तां शारिकां सोऽब्रवीच्छुकः ।
एकशय्यासनाहारं सुभगे भज मामिति ॥ ३.१०.१० ॥
नाहं पुरुषसंसर्गमिच्छामि पुरुषाः यतः ।
दुष्टाः कृतघ्नाः इति सा सारिका प्रत्युवाच तम् ॥ ३.१०.११ ॥
न दुष्टाः पुरुषाः दुष्टाः नृशंसहृदयाः स्त्रियः ।
इति भूयः शुकेनोक्ते विवादोऽत्रालगत्तयोः ॥ ३.१०.१२ ॥
कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः ।
निश्चयायाथे सभ्यं तं राजपुत्रमुपेयतुः ॥ ३.१०.१३ ॥
सो विवादपदं श्रुत्वा तयोः आस्थानगः पितुः ।
कथं कृतघ्नाः पुरुषाः ब्रूहीत्याह स्म शारिकाम् ॥ ३.१०.१४ ॥
ततः सा शृणुतेत्युक्त्वा निजपक्षप्रसिद्धये ।
पुन्दोषाख्यायिनीमेतां शारिकाकथयत् कथाम् ॥ ३.१०.१५ ॥
अस्ति कामन्दिका नाम या महानगरी भुवि ।
अर्थदत्ताभिधानोऽस्ति वणिक्तस्यां महाधनः ॥ ३.१०.१६ ॥
धनदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ।
पितर्युपरते सोऽपि बभूवोच्छृङ्खलो युवा ॥ ३.१०.१७ ॥
द्यूतादिसङ्गे दूर्ताः च मिलित्वा तमपातयन् ।
कामं व्यसनवृक्षस्य मूलं दुःजनसङ्गतिः ॥ ३.१०.१८ ॥
अचिरात् व्यसनक्षीणधनः दौर्गत्यलज्जया ।
सोऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्यगात् ॥ ३.१०.१९ ॥
गच्छन् च चन्दनपुरं नाम स्थानमवाप्य सः ।
विवेश भोजनार्थी सन् एकस्य वणिजः गृहम् ॥ ३.१०.२० ॥
सो वणिक् सुकुमारं तं दृष्ट्वा पृष्ट्वान्वयादिकम् ।
ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः ॥ ३.१०.२१ ॥
ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुताम् ।
ततः सः धनदत्तोऽत्र तस्थौ श्वशुरवेश्मनि ॥ ३.१०.२२ ॥
दिनेष्वेव च यातेषु सुखविस्मृतदुःगतिः ।
स्वदेशं गन्तुकामोऽभूत्प्राप्तार्थो व्यसनौन्मुखः ॥ ३.१०.२३ ॥
ततोऽनुमान्य कथमप्यवशं श्वशुरं शठः ।
तं दुहितृएकसन्तानं गृहीत्वा तामलङ्कृताम् ॥ ३.१०.२४ ॥
भार्यां रत्नावलीं युक्तामेकया वृद्धया स्त्रिया ।
सः आत्मना तृतीयः सन्देशात्प्रस्थितवान् ततः ॥ ३.१०.२५ ॥
क्रमात्प्राप्याटवीं दूरामुक्त्वा तस्करजां भियम् ।
गृहीत्वाभरणं तस्याः भार्यायाः स्वीचकार सः ॥ ३.१०.२६ ॥
दृश्यतां द्यूतवेश्यादिकष्टव्यसनसङ्गिनाम् ।
हृदयं हा कृतघ्नानां पुंसां निस्त्रिंशकर्कशम् ॥ ३.१०.२७ ॥
सोऽथ पापोऽर्थहेतोस्तां भार्यां गुणवतीमपि ।
हन्तुं श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युताम् ॥ ३.१०.२८ ॥
क्षिप्त्वैव च गते तस्मिन् साथ वृद्धा व्यपद्यत ।
तत् भार्या तु लतागुल्मविग्नया न व्यपादि सा ॥ ३.१०.२९ ॥
उत्तस्थौ च ततः श्वभ्रात् क्रोशन्ती करुणं शणैः ।
आलम्ब्य तृणगुल्मादि सशेषत्वात् किलायुषः ॥ ३.१०.३० ॥
आययौ विक्षताङ्गी च पृष्ट्वा मार्गं पदे पदे ।
यथागतेनैव पथा कृच्छ्रात्तत्सदनं पितुः ॥ ३.१०.३१ ॥
तत्राकस्मात्तथाभूता प्राप्ता पृष्टा ससम्भ्रमम् ।
मात्रा पित्रा च रुदती साध्वी सैवमभाषत ॥ ३.१०.३२ ॥
मुषिताः स्म पथि स्तेनैः नीतः बद्ध्वा च मत्पतिः ।
वृद्धा मृता निपत्यापि श्वभ्रे नाहं मृता पुनः ॥ ३.१०.३३ ॥
अथागतेन केनापि पथिकेन कृपालुना ।
उद्धृताहं ततः श्वभ्रात्प्राप्तास्मीह च दैवतः ॥ ३.१०.३४ ॥
एवमुक्तवती मात्रा पित्रा चाश्वासिता ततः ।
भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती ॥ ३.१०.३५ ॥
याति काले च तत्भर्ता सः स्वदेशगतः पुनः ।
द्यूतक्षपिततत्वित्तः दनदत्तो व्यचिन्तयत् ॥ ३.१०.३६ ॥
आनयामि पुनः गत्वा मार्गित्वा श्वशुराद्धनम् ।
गृहे स्थिता मे त्वत्पुत्रीत्यभिधास्ये च तत्र तम् ॥ ३.१०.३७ ॥
एवं सः हृदये ध्यात्वा प्रायाच्छ्वशुरवेश्म तत् ।
प्राप्तं च तत्र तं दूरात्स्वभार्या पश्यति स्म सा ॥ ३.१०.३८ ॥
धावित्वा चापतत्तस्य सा पापस्यापि पादयोः ।
दुष्टेऽपि पत्यौ साध्वीनां नान्यथावृत्तिमानसम् ॥ ३.१०.३९ ॥
भीताय च ततस्तस्मै तदशेषं न्यवेदयत् ।
यन्मृषा चौरपातादि पित्रोः प्राक् वर्णितं तया ॥ ३.१०.४० ॥
ततस्तया समं तत्र निर्भयः श्वाशुरे गृहे ।
प्रविष्टः श्वशुराभ्यां सः हर्षाद्दृष्ट्वाभ्यनन्द्यत ॥ ३.१०.४१ ॥
दिष्ट्या जीवन्नयं मुक्तश्चौरैः इति महा-उत्सवः ।
तेन तत्श्वशुरेणाथ चक्रे मिलितबन्धुना ॥ ३.१०.४२ ॥
ततः सः धनदत्तोऽत्र भुञ्जानः श्वशुरश्रियम् ।
रत्नावल्या तया साकमासीत्पत्न्या यथासुखम् ॥ ३.१०.४३ ॥
एकदा तत्र रात्रौ च स नृशंसश्चाकर यत् ।
कथा-उपरोधतः शान्तमवाच्यमपि कथ्यते ॥ ३.१०.४४ ॥
हत्वाङ्कसुप्तां भार्यां तां तदाभरणसञ्चयम् ।
अपहृत्य ततः प्रायात्सः स्वदेशमलक्षितः ॥ ३.१०.४५ ॥
ईदृशाः पुरुषाः पापाः इति शारिकयोदिते ।
त्वमिदानीं वदेत्याह राजपुत्रस्तदा शुकम् ॥ ३.१०.४६ ॥
ततः जगाद सः शुकः देव दुःसहसाहसाः ।
स्त्रियः दुःचरिताः पापाः तथा च श्रूयतां कथा ॥ ३.१०.४७ ॥
अस्ति हर्षवती नाम नगरी तत्र चाभवत् ।
अग्रणीः धर्मदत्ताख्यः बहुकोटीश्वरो वणिक् ॥ ३.१०.४८ ॥
वसुदत्ताभिधाना च रूपेऽनन्यसमा सुता ।
बभूव तस्य वणिजः प्राणेभ्योऽप्यधिकप्रिया ॥ ३.१०.४९ ॥
सा च तेन समानाय रूपयौवनशालिने ।
दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ ३.१०.५० ॥
नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे ।
नगर्यामार्यजुष्टायां ताम्रलिप्त्यां निवासिने ॥ ३.१०.५१ ॥
कदाचित्सा स्वदेशस्थे पत्यौ स्वस्य पितुः गृहे ।
स्थिता वणिक्सुता दूरात् कम्चित्पुरूषमैक्षत ॥ ३.१०.५२ ॥
तं युवानं सुकान्तं सा चपला मारमोहिता ।
गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ ३.१०.५३ ॥
ततःप्रभृति तेनैव सह तत्र सदा रहः ।
रात्रौ रात्रवरंस्तासौ तदेकासक्तमानसा ॥ ३.१०.५४ ॥
एकदा च सः कौमारः पतिः तस्याः स्वदेशतः ।
आजगामात्र तत्पित्रोः प्रमोदः इव मूर्तिमान् ॥ ३.१०.५५ ॥
सोत्सवे च दिने तस्मिन् सा नक्तं कृतमण्डना ।
मात्रानुप्रेषिता भेजे शय्यास्थापि न तं पतिम् ॥ ३.१०.५६ ॥
प्रार्थिता तेन चालीकसुप्तं चक्रेऽन्यमानसा ।
पानमत्तोऽध्वखिन्नश्च सोऽपि जह्रेऽथ निद्रया ॥ ३.१०.५७ ॥
ततश्च सुप्ते सर्वस्मिन् भुक्तपीते जने शनैः ।
सन्धिं भित्त्वा विवेशात्र चौरो वासगृहान्तरे ॥ ३.१०.५८ ॥
तत्कालं तमपश्यन्ती साप्युत्थाय वणिक्सुता ।
स्वजारकृतसङ्केता निरगान्निभृतं ततः ॥ ३.१०.५९ ॥
तदालोक्य सश्चौरोऽत्र विघ्नितैच्छो व्यचिन्तयत् ।
येषामर्थे प्रविष्टोऽहं तैः एवाभरणैः वृता ॥ ३.१०.६० ॥
निशीथे निर्गतैषा तत् वीक्षेऽहं सा क्व गच्छति ।
इत्याकलय्य निर्गत्य सश्चौरस्तां वणिक्सुताम् ॥ ३.१०.६१ ॥
वसुदत्तामनु ययौ दत्तदृष्टिरलक्षितः ।
सापि पुष्पादिहस्तैकससङ्केतसखीयुता ॥ ३.१०.६२ ॥
गत्वा बाह्यं प्रविष्टाभूत् उद्यानं नातिदूरगम् ।
तत्रापश्यच्च तं वृक्षे लम्बमानं स्वकामुकम् ॥ ३.१०.६३ ॥
सङ्केतकागतं रात्रौ लब्ध्वा नगररक्षिभिः ।
उल्लम्बितं चौरबुद्ध्या पाशकण्ठं मृतं स्थितम् ॥ ३.१०.६४ ॥
ततः सा विह्वलोद्भ्रान्ता हा हतास्मीति वादिनी ।
पपात भूमौ कृपणं विलपन्ती रुरोद च ॥ ३.१०.६५ ॥
अवतार्याथ वृक्षात्तं गतासुं निजकामुकम् ।
उपवेश्याङ्गरागेण पुष्पैः चालम्चकार सा ॥ ३.१०.६६ ॥
समालिङ्ग्य च निःसंज्ञं रागशोकान्धमानसा ।
उन्नमय्य मुखं यावत्तस्यार्ता परिचुम्बति ॥ ३.१०.६७ ॥
तावत्सस्तस्याः सहसा निःजीवः परपूरुषः ।
वेतालानुप्रविष्टः सद्दन्तैः चिच्छेद नासिकाम् ॥ ३.१०.६८ ॥
तेन सा विह्वला तस्मात्सव्यथापसृताप्यहो ।
किं स्वित् जीवेद् इति हता पुनः एत्य तमैक्षत ॥ ३.१०.६९ ॥
दृष्ट्वा च वीतवेतालं निःचेष्टं मृतमेव तम् ।
सा भीता परिभूत च चचाल रुदती शनैः ॥ ३.१०.७० ॥
तावत् छन्नः स्थितः सोऽथ चौरः सर्वं व्यलोकयत् ।
अचिन्तयच्च किमिदं पापया कृतमेतया ॥ ३.१०.७१ ॥
अहो बताशयः स्त्रीणां भीषणः घनतामसः ।
अन्धकूपः इवागाधः पाताय गहनः परम् ॥ ३.१०.७२ ॥
तत् इदानीमियं किं नु कुर्यात् इति विचिन्त्य सः ।
कौतुकाद्दूरतश्चौरो भूयोऽप्यनुससार ताम् ॥ ३.१०.७३ ॥
सापि गत्वा प्रविश्यैव तत्सुप्तस्थितभर्तृकम् ।
गृहं तदा स्वकं प्रौच्चैः प्ररुदत्येवमब्रवीत् ॥ ३.१०.७४ ॥
परित्रायध्वमेतेन दुष्टेन मम नासिका ।
छिन्ना निरपराधायाः भर्तृरूपेण शत्रुणा ॥ ३.१०.७५ ॥
श्रुत्वैतं मुहुः आक्रन्दं तस्याः सर्वे ससम्भ्रमम् ।
उदतिष्ठन् प्रबुध्यात्र पतिः परिजनः पिता ॥ ३.१०.७६ ॥
एत्याथ तत्पिता दृष्ट्वा तामार्द्रछिन्ननासिकाम् ।
क्रुद्धस्तं बन्धयामास भार्याद्रोहीति तत्पतिम् ॥ ३.१०.७७ ॥
सस्तु नैवाब्रवीत् किम्चित् बध्यमानोऽपि मूकवत् ।
विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुरादिषु ॥ ३.१०.७८ ॥
ततः ज्ञत्वैव तच्चौरे तस्मिन्नपसृते लघु ।
कोलाहलेन तस्यां च व्यतीतायां क्रमान्निशि ॥ ३.१०.७९ ॥
सो निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः ।
राजान्तिकं तया सार्धं भार्यया छिन्ननासया ॥ ३.१०.८० ॥
राजा च कृतविज्ञप्तिः स्वदारद्रोह्यसविति ।
तस्यादिशत् वणिक्सूनोः वधं न्यक्कृततत्वचाः ॥ ३.१०.८१ ॥
ततो वध्यभुवं तस्मिन् नीयमाने सडिण्डिमम् ।
उपागम्य सश्चौरोऽत्र बभाषे राजपूरुषान् ॥ ३.१०.८२ ॥
निःकारणं न वध्योऽयं यथावृत्तं तु वेद्म्यहम् ।
मां प्रापयत राजाग्रं यावत्सर्वं वदाम्यतः ॥ ३.१०.८३ ॥
इत्यूचिवान् स नीतस्तैः नृपस्याग्रं वृताभयः ।
आ मूलात् रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयत् ॥ ३.१०.८४ ॥
अब्रवीच्च न चेद्देव मत्वाचि प्रत्ययस्तव ।
तत्सा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यताम् ॥ ३.१०.८५ ॥
तच्छ्रुत्वा वीक्षितुं भृत्यान् प्रेष्य सत्यमवेत्य तत् ।
सो राजा तं वणिक्पुत्रं मुक्तवान् वधनिग्रहात् ॥ ३.१०.८६ ॥
तां च कर्णवपि छित्वा दुष्टां देशान्निरस्तवान् ।
तत् भार्यां श्वशुरं चास्य तं सर्वस्वमदण्डयत् ॥ ३.१०.८७ ॥
चौरं च तं पूराध्यक्षं तुष्टश्चक्रे स भूपतिः ।
एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः ॥ ३.१०.८८ ॥
इत्युक्तवान् एव शुको भूत्वा चित्ररथाभिधः ।
क्षीणैन्द्रशापः गन्धर्वः दिव्यरूपः दिवं ययौ ॥ ३.१०.८९ ॥
शारिका सापि तत्कालं भूत्वा स्वःस्त्री तिलोत्तमा ।
तथैव क्षीणतत्शापा जगाम सहसा दिवम् ॥ ३.१०.९० ॥
विवादश्चाप्यनिर्णितः सभायां सोऽभवत्तयोः ।
इत्याख्याय कथां भूयस्तं वेतालोऽब्रवीन्नृपम् ॥ ३.१०.९१ ॥
तत् भवान् वक्तु किं पापाः पुरुषाः किमुत स्त्रियः ।
अजल्पतः जान तस्ते शिरो यस्यति खण्डशः ॥ ३.१०.९२ ॥
एतन्निशम्य वचनं वेतालस्यांसवर्तिनस्तस्य ।
सः जगाद भूपतिः तं योग-ईश्वर योषितः पापाः ॥ ३.१०.९३ ॥
पुरुषः कोऽपीह तादृक् क्वापि कदाचित् भवेद्दुःआचारः ।
प्रायः सर्वत्र सदा स्त्रियस्तु तादृक्विधाः एव ॥ ३.१०.९४ ॥
इत्युक्तवतो नृपतेः प्राग्वत्स्कन्धात्सस्तस्य वेतालः ।
नष्टोऽभूत्सश्च राजा जग्राह पुनस्तदानयनयत्रम् ॥ ३.१०.९५ ॥
ततः गत्वा पुनस्तस्य निकटं शिंशपातरोः ।
सस्त्रिविक्रमसेनोऽत्र श्मशानं निशि भूपतिः ॥ ४.११.१ ॥
लब्ध्वा मुक्तात्तहासं तं वेतालं नृशरीरगम् ।
निःकम्पः स्कन्धमारोप्य तूष्णीमुदचलत्ततः ॥ ४.११.२ ॥
चलन्तं च तमंसस्थो वेतालः सोऽब्रवीत्पुनः ।
राजन्कुभिक्षोः एतस्य कृते कोऽयं तव श्रमः ॥ ४.११.३ ॥
आयासे निष्फलेऽमुष्मिन् विवेकः बत नास्ति ते ।
तत् इमां शृणु मत्तस्त्वं कथां पथि विनोदिनीम् ॥ ४.११.४ ॥
अस्ति शोभावती नाम सत्याख्या नगरी भुवि ।
तस्यां च शूद्रकाख्योऽभूत् भूपतिः प्राज्यविक्रमः ॥ ४.११.५ ॥
यस्य जज्वाल जयिनः प्रतापज्वलनो निशम् ।
बन्दीकृतारिललनाधूतचामरमारुतैः ॥ ४.११.६ ॥
अलुप्तधर्मचरणस्फीता मन्थे वसुन्धरा ।
राज्ञि यस्मिन् विसस्मार रामादीन्नपि भूपतीन् ॥ ४.११.७ ॥
तं कदाचिन्महीपालं प्रियशूरमुपाययौ ।
सेवार्थं मालवात् एको नम्ना वीरवरः द्विजः ॥ ४.११.८ ॥
यस्य धर्मवती नाम भार्या सत्ववरः सुतः ।
कन्या वीरवती चेति त्रयं गृहपरिच्छदः ॥ ४.११.९ ॥
सेवापरिच्छदश्चान्यत्त्रयं कट्यां कृपाणिका ।
करे करतलैकत्र चारु चर्म परत्र च ॥ ४.११.१० ॥
तावत्मात्रपरीवारः दीनारशतपञ्चकम् ।
प्रत्यहं प्रार्थयामास राज्ञस्तस्मात्सो वृत्तये ॥ ४.११.११ ॥
राजापि सस्तमाकारसूचितोदारपौरुषम् ।
वीक्ष्य तस्मै ददौ वृत्तिं सूद्रकस्तां यथा-ईप्सिताम् ॥ ४.११.१२ ॥
अल्पे परिकरेऽप्येभिः इयद्भिः स्वर्णरूपकैः ।
किमेषो व्यसनं पुष्णात्यथ कञ्चन सत्व्ययम् ॥ ४.११.१३ ॥
इत्यन्वेष्टुं समाचारं कौतुकात्सो महीपतिः ।
प्रच्छन्नान् स्थापयामास चारानस्यात्र पृष्ठतः ॥ ४.११.१४ ॥
सश्च वीरवरः प्रातः कृत्वा भूपस्य दर्शनम् ।
स्थित्वा च तस्या मध्याह्नं सिंहद्वारे धृतायुधः ॥ ४.११.१५ ॥
गत्वा स्ववृत्तिलब्धानां दीनाराणां शतं गृहे ।
भोजनार्थं स्वभार्यायाः हस्ते प्रादात् किलानुअहम् ॥ ४.११.१६ ॥
वस्त्राङ्गरागताम्बूलं क्रीणाति स्म शतेन च ।
शतं स्नात्वा च पूजार्थं व्यधात् विष्णोः शिवस्य च ॥ ४.११.१७ ॥
विप्रेभ्यः कृपणेभ्यश्च ददौ दानं शतद्वयम् ।
एवं विभेजे पञ्चापि तानि नित्यं शतान्यसौ ॥ ४.११.१८ ॥
ततः कृत्वाग्निकार्यादि भूक्त्वा गत्वैकको निशि ।
सिंहद्वारे पुनस्तस्थौ पाणौ करतलां दधत् ॥ ४.११.१९ ॥
एतां सततचर्यां च तस्य वीरवरस्य सः ।
राजा चारमुखाच्छ्रुत्वा तुतोष हृदि शुद्रकः ॥ ४.११.२० ॥
निवारयामास च तान् चारान् तस्यानुमार्गगान् ।
मेने विशेषपूजार्हं पुरुषातिशयं च तम् ॥ ४.११.२१ ॥
अथ यातेषु दिवसेष्ववहेलावलङ्घिते ।
ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि ॥ ४.११.२२ ॥
तदीर्ष्यातः इवोद्भूतविद्युत्करतलां दधत् ।
धाराप्रहारी निनदन्नाजगाम घनागमः ॥ ४.११.२३ ॥
तदा च घोर मेघओघे प्रवर्षति दिवानिशम् ।
सिंहद्वारे तथैवासीत्सोऽत्र वीरवरोऽचलः ॥ ४.१.२४ ॥
तं च दृष्ट्वा दिवा राजा प्रासादाग्रात्सः शूद्रकः ।
निशि भूयस्तदारोहत् जिज्ञासुः तस्य तां स्थितिम् ॥ ४.११.२५ ॥
जगाद च ततः को नु सिंहद्वारे स्थितोऽत्र भोः ।
तच्छ्रुत्वाहं स्थितोऽत्रेति सोऽपि वीरवरोऽब्रवीत् ॥ ४.११.२६ ॥
अहो सुदृढसत्त्वोऽयं भक्तो वीरवरो मयि ।
तद् एषः प्रापणीयो मेऽवश्यमेव महत्पदम् ॥ ४.११.२७ ॥
इति सञ्चिन्त्य नृपतिः प्रासादादवतीर्य सः ।
शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः ॥ ४.११.२८ ॥
अन्येद्युः च भृशं मेघे धारासारेण वर्षति ।
प्रदोषे गुप्तभवने काले तमसि जृम्भिते ॥ ४.११.२९ ॥
पुनः स राजा जिज्ञासुः प्रासादमधिरुह्य तम् ।
सिंहद्वारे स्थितः कोऽत्रेत्येकाकी प्राह तं स्फुटम् ॥ ४.११.३० ॥
अहं स्थितः इति प्रोक्ते पुनो वीरवरेण च ।
यावत् विस्मयते सोऽत्र राजा तत्धैर्यदर्शनात् ॥ ४.११.३१ ॥
तावत् विदूरे शुश्राव सहसा रुदतीं स्त्रियम् ।
विषादविकलामेकां प्रलापकरुणस्वनम् ॥ ४.११.३२ ॥
न मे राष्ट्रे पराभूतो न दरिद्रो न दुःखितः ।
कश्चिदस्ति तत् एषा का रोदित्येकाकिनी निशि ॥ ४.११.३३ ॥
इति चाचिन्तयच्छ्रुत्वा सः जातकरुणो नृपः ।
आदिदेश च तं वीरवरमेकमधः स्थितम् ॥ ४.११.३४ ॥
भोः वीरवर शृण्वेषा दूरे स्त्री कापि रोदिति ।
कासौ रोदिति किं चेति त्वया गत्वा निरूप्यताम् ॥ ४.११.३५ ॥
तच्छ्रुत्वा सस्तथेत्युक्त्वा गन्तुं वीरवरस्ततः ।
प्रावर्तत निबद्धासिधेनुः करतलाकरः ॥ ४.११.३६ ॥
न च मेघान्धकारं तत् ज्वलत्विद्युत्विलोचनम् ।
स्थूलधाराशिलावार्षि रख़्षःरूपमजीगणत् ॥ ४.११.३७ ॥
प्रस्थितं वीक्ष्य तादृश्यां तस्यां रात्रौ तमेककम् ।
करुणाकौतुकाविष्टो राजा प्रासादपृष्ठतः ॥ ४.११.३८ ॥
आवतीर्य गृहीतासिः एकाकी तस्य पृष्ठतः ।
सोऽपि प्रतस्थे तत्रैव शुद्रकोऽनुपलक्षितः ॥ ४.११.३९ ॥
सश्च वीरवरः गत्वा रुदितानुसृतिक्रियः ।
बहिःनगर्याः प्रापैकं सरस्तत्र ददर्श च ॥ ४.११.४० ॥
हा शूर हा कृपालः हा त्यागिन् शून्या त्वया कथम् ।
वत्सि-आमीति-आदि रुदतीं तां स्त्रियं वारिमध्यगाम् ॥ ४.११.४१ ॥
का त्वं रोदिषि किं चैवमित्यन्वक्प्राप्तभूपतिः ।
पप्रच्छ तां च साश्चर्यस्ततः साप्येवमभ्यधात् ॥ ४.११.४२ ॥
भो वीरवर जानीहि वत्स मां पृथिवीमिमाम् ।
तस्याः ममाधुना राजा शूद्रकः धार्मिकः पतिः ॥ ४.११.४३ ॥
तृतीये च दिने तस्य राज्ञो मृत्युः भविष्यति ।
तादृशं च पतिं प्राप्स्याम्यहमन्यं नृपं कुतः ॥ ४.११.४४ ॥
अतस्तमनुशोचामि दुःखितात्मानमेव च ।
एतच्छ्रुत्वा सस्तां त्रस्तः इव वीरवरोऽब्रवीत् ॥ ४.११.४५ ॥
हे देवि कच्चिदप्यस्ति कोऽप्युपायः सस्तादृशः ।
येनास्य न भवेत्मृत्युः जगत्रक्षामणेः प्रभोः ॥ ४.११.४६ ॥
इति तत् वचनं श्रुत्वा सा जगाद वसुम्धरा ।
एकोऽस्त्युपायस्तं चैकः कर्तुं शक्तो भवान् इति ॥ ४.११.४७ ॥
ततो वीरवरोऽवादीत्तर्हि देवि वद द्रुतम् ।
यावत्तत्साधयाम्याशु कोऽर्थः प्राणैः ममान्यथा ॥ ४.११.४८ ॥
तच्छ्रुत्वोवाच वसुधा विरः कोऽन्यस्त्वया समः ।
स्वामिभक्तस्तत् एतस्य शर्मौपायमिमं शृणु ॥ ४.११.४९ ॥
राज्ञा कृतप्रतिष्टाः अस्ति यैषा राजकुलान्तिके ।
उत्तमा चण्डिका देवी सान्निध्यौत्कर्षशालिनी ॥ ४.११.५० ॥
तस्यै सत्त्ववरं पुत्रमुपहारीकरोषि चेत् ।
तन्नैषो राजा म्रियते जीवत्यन्यत्समाशतम् ॥ ४.११.५१ ॥
अद्यैव चैतत् भवता कृतं चेदस्ति तच्छिवम् ।
अन्यथास्य तृतीयेऽह्नि प्राप्ते नास्त्येव जीवितम् ॥ ४.११.५२ ॥
इत्युक्तः सस्तया पृथ्व्या वीरो वीरवरस्तदा ।
यामि देवि करोम्येतदधुनैवेत्यभाषत ॥ ४.११.५३ ॥
ततो भद्रं तवेत्युक्त्वा वसुधा सा तिरःदधे ।
तच्च सर्वं सः शुश्राव गुप्तमन्वक्स्थितो नृपः ॥ ४.११.५४ ॥
ततश्च गूढे जिज्ञासौ तस्मिन् राज्ञ्यनुगच्छति ।
शूद्रके त्वरितं गेहं निशि वीरवरो ययौ ॥ ४.११.५५ ॥
तत्र पुत्रौपहारोऽस्य राजार्थे धरया यथा ।
उक्तस्तथाब्रवीत्पत्न्यै धर्मवत्यै विबोध्य सः ॥ ४.११.५६ ॥
तच्छ्रुत्वा सा तमाह स्म नाथ कार्यं शिवं प्रभोः ।
तत्प्रबोध्य सुतस्यास्य शिशोः वक्तु भवान् इति ॥ ४.११.५७ ॥
ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतम् ।
आख्याय तं च वृत्तान्तमेवं वीरवरोऽब्रवीत् ॥ ४.११.५८ ॥
तत्पुत्र चण्डिकादेव्ययुपहारीकृते त्वयि ।
राजा जीवत्यसौ नो चेत्तृतीयेऽह्नि विपद्यते ॥ ४.११.५९ ॥
एतच्छ्रुत्वैव बालोऽपि यथार्थं नाम दर्शयन् ।
अक्लीबचित्तः पितरं तं सः सत्त्ववरोऽब्रवीत् ॥ ४.११.६० ॥
कृतार्थोऽहं मम प्राणैः राजा चेत्तात जीवति ।
भुक्तस्य हि ततन्नस्य दत्ता स्यान्निष्कृतिः मया ॥ ४.११.६१ ॥
तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरोऽधुना ।
उपहारीकुरुध्वं मामस्तु शान्तिः मया प्रभोः ॥ ४.११.६२ ॥
इति सत्त्ववरेणोक्ते तेन वीरवरोऽत्र सः ।
साधु सत्यं प्रसूतोऽसि मत्तः पुत्रेत्यभाषत ॥ ४.११.६३ ॥
एतत्सोऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः ।
अहो एषां समं सत्त्वं सर्वेषामित्यचिन्तयत् ॥ ४.११.६४ ॥
ततो वीरवरः स्कन्धे कृत्वा सत्त्ववरं सुतम् ।
भर्या धर्मवती चास्य कन्यां वीरवतीमपि ॥ ४.११.६५ ॥
उभौ तौ ययतुः तस्यां रात्रौ तच्चण्डिकागृहम् ।
राजापि शूद्रकः छन्नः पृष्टतः सस्तयोः ययौ ॥ ४.११.६६ ॥
तत्र देव्याः पुरः स्कन्धात्सोऽथ पित्रावतारितः ।
देवीं सत्त्ववरो नत्वा धैर्यराशिः व्यजिज्ञपत् ॥ ४.११.६७ ॥
मम मूर्धौपहारेण राजा जीवतु शुद्रकः ।
अन्यत् वर्षशतं देवि कुर्यात् राज्यमकण्टकम् ॥ ४.११.६८ ॥
एवमुक्तवतस्तस्य साधु साध्वित्युदीर्य सः ।
सूनोः सत्त्ववरस्याथ कृष्ट्वा करतलां शिशोः ॥ ४.११.६९ ॥
छित्त्वा शिरश्चण्डिकायै देव्यै वीरवरः ददौ ।
मत्पुत्रेणोपहारेण राजा जीवत्विति ब्रुवन् ॥ ४.११.७० ॥
साधु कः स्वामिभक्तोऽन्यः समो वीरवर त्वया ।
येनैवमेकसत्पुत्रप्राणव्ययविधायिना ॥ ४.११.७१ ॥
दत्तः जीवश्च राज्यं च शुद्रकस्यास्य भूपतेः ।
इत्यन्तरिक्षात् उदगात्तत्क्षणं तत्र भारती ॥ ४.११.७२ ॥
तच्च सर्वं नृपे तस्मिन् छन्ने शृण्वति पस्यति ।
कन्या वीरवती सा तु बाला वीरवरात्मजा ॥ ४.११.७३ ॥
उपेत्याश्लिष्य मूर्धाणं तस्य भ्रातुः हतस्य तम् ।
विलपन्त्युरुशोकान्धा हृत्स्फोटेन व्यपद्यत ॥ ४.११.७४ ॥
ततो वीरवरं भार्या धर्मवत्येवमब्रवीत् ।
राज्ञस्तावत् कृतं श्रेयस्तत् इदानीं वदामि ते ॥ ४.११.७५ ॥
निःज्ञाना यत्र बालापि भ्रातृशोकात् इयं मृता ।
नष्टेऽपत्यद्वयेऽप्यस्मिन् तत्र किं जीवितेन मे ॥ ४.११.७६ ॥
प्राक् एव राज्ञः श्रेयःअर्थं मूढया स्वशिरो मया ।
देव्यै नोपहृतं तस्माद्देह्यनुज्ञां ममाधुना ॥ ४.११.७७ ॥
प्रविषम्यनलं तावदात्तापत्यकलेवरा ।
इति-आग्रहाद् वदन्तीं तां सोऽथ वीरवरोऽब्रवीत् ॥ ४.११.७८ ॥
एवं कुरुष्व भद्रं ते का हि सम्प्रति ते रतिः ।
अपत्यदुःखैकमये जीवितव्ये मनस्विनि ॥ ४.११.७९ ॥
किं न दत्तो मयैवात्मेत्येषा मा भूच्च ते व्यथा ।
दद्यां किं नाहमात्मानमन्यसाध्यं भवेत् यदि ॥ ४.११.८० ॥
तत्प्रतीक्षस्व यावत्ते चितामत्र करोम्यहम् ।
अमीभिः दारुभिः देवीक्षेत्रनिर्माणसम्भृतैह् ॥ ४.११.८१ ॥
इत्युक्त्वा दारुभिः तैः सः कृत्वा वीरवरश्चिताम् ।
दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयाम् ॥ ४.११.८२ ॥
ततः धर्मवती पत्नी पतित्वा सास्य पादयोः ।
प्रणम्य देवीं चण्डीं तां व्यजिज्ञपदपांसुला ॥ ४.११.८३ ॥
जन्मान्तरेऽप्ययं भूयादार्यपुत्रः पतिः मम ।
एतत्प्रभोस्तु राज्ञोऽस्तु मत्देहेनामुना शिवम् ॥ ४.११.८४ ॥
इत्युदीर्यैव सा साध्वी तस्मिन्नम्भःअवहेलया ।
ज्वालाकलापजटिले निपपात चितानले ॥ ४.११.८५ ॥
ततश्च चिन्तयामास वीरो वीरवरोऽत्र सः ।
निष्पन्नं राजकार्यं मे वाक् दिव्या ह्युद्गता यथा ॥ ४.११.८६ ॥
भुक्तस्य चान्नपिण्डस्य जातोऽहमनृणः प्रभोः ।
तत् इदानीं ममैकस्य केयं जीवितगृध्नुता ॥ ४.११.८७ ॥
भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुम्बकम् ।
जीवयन् एकमात्मानं मादृशः कः हि शोभते ॥ ४.११.८८ ॥
तत् किमात्मौपहारेणाप्येतां प्रीणामि नाम्बिकाम् ।
इत्यालोच्य सः देवीं तां स्तुत्या प्राक् उपतस्थिवान् ॥ ४.११.८९ ॥
जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे ।
जय विबुधौत्सवकारिणि ढरिणि भूवन त्रयस्य मातृवरे ॥ ४.११.९० ॥
जय जगदर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् ।
जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥ ४.११.९१ ॥
जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमस्तेऽस्तु ।
शूद्रकनृपतेः अधुना प्रसीद मत्मस्तकौपहारेण ॥ ४.११.९२ ॥
इत्युपस्थाय देव्यां सस्तस्यां वीरवरः पुनः ।
सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनत् ॥ ४.११.९३ ॥
तदालोक्याखिलं तत्र छन्नस्थः शुद्रको नृपः ।
साकुलश्च सदुःखश्च साश्चर्यश्च व्यचिन्तयत् ॥ ४.११.९४ ॥
अहो किमप्यनेनैतदन्यत्रादृष्टमश्रुतम् ।
साधुना सकुटुम्बेन दुःकरं मत्कृते कृतम् ॥ ४.११.९५ ॥
विचित्रेऽप्यत्र संसारे धीरः स्यातीदृशः कुतः ।
अख्यापयन् प्रभोरर्थे परोक्षं यः ददात्यसून् ॥ ४.११.९६ ॥
एतस्य चोपकारोस्य न कुर्यां सदृशं यदि ।
तन्मे का प्रभुता किं च जीवितव्यं पशोः इव ॥ ४.११.९७ ॥
इति सञ्चिन्त्य नृपतिः खड्गमाकृष्य कोपतः ।
उपेत्य शूद्रकः देवीं तां प्रवीरो व्यजिज्ञपत् ॥ ४.११.९८ ॥
सततानुप्रपन्नस्य भगवत्यधुनामुना ।
मम मूर्धौपहारेण सुप्रीता कुर्वनुग्रहम् ॥ ४.११.९९ ॥
अयं वीरवरो विप्रो नामानुगुणचेष्टितः ।
मतर्थमुज्झितप्राणः सकुटुम्बोऽपि जीवतु ॥ ४.११.१०० ॥
इत्युदीर्यासिना राजा शिरः छेत्तुं सः शूद्रकः ।
यावत्प्रवर्तते तावत् उदभूत् भारती दिवः ॥ ४.११.१०१ ॥
मा साहसं कृथाः तुष्टा सत्त्वेनानेन ते ह्यहम् ।
प्रत्युज्जीवतु सापत्यदारो वीरवरः द्विजः ॥ ४.११.१०२ ॥
इत्युक्त्वा व्यरमत् वाक् सा सश्चोत्तस्थौ सपुत्रकः ।
साकं दुहित्रा पत्न्या च जीवन् वीरवरोऽक्षतः ॥ ४.११.१०३ ॥
तत् विलोक्याद्भुतं राजा छन्नो भूत्वा पुनश्च सः ।
पश्यन्नतृप्तस्तामासीद्दृष्ट्या हर्षाश्रुपूर्णया ॥ ४.११.१०४ ॥
सोऽपि वीरवरः दृष्ट्वा सुप्तोत्थितः इवाशु तम् ।
पुत्रदारं तथात्मानमभूत् विभ्रान्तमानसः ॥ ४.११.१०५ ॥
पप्रच्छ च पृथक् नामग्राहं दारसुतान् सस्तान् ।
भस्मीभूताः कथं यूयं जीवन्तः पुनरुत्थिताः ॥ ४.११.१०६ ॥
मयापि स्वशिरः छिन्नं जीवाम्येषश्च किं न्विदम् ।
किं विभ्रमोऽयमाहो स्विद् सुस्पष्टः देवी-अनुग्रहः ॥ ४.११.१०७ ॥
एवं वदन् सस्तैः ऊचे दारापत्यैरलक्षितः ।
देवी-अनुग्रहः एवायं जीवामो यदमीति ॥ ४.११.१०८ ॥
ततः सस्तत्तथा मत्वा नत्वा वीरवरोऽम्बकाम् ।
आदाय पुत्रदारान् तान्सिद्धकार्यः गृहं ययौ ॥ ४.११.१०९ ॥
तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च ताम् ।
सिंहद्वारमगात् राज्ञो रात्रौ तस्यां सः पूर्ववत् ॥ ४.११.११० ॥
राजा सः शूद्रकोऽप्येतद्दृष्ट्वा सर्वमलक्षितः ।
गत्वारुरोह स्वावासप्रासादं तं पुनस्तदा ॥ ४.११.१११ ॥
व्याहरच्च स्थितः कोऽत्र सिंहद्वारीति पृष्ठतः ।
ततो वीरवरोऽवादीत्सः एषस्तिष्ठाम्यहं प्रभो ॥ ४.११.११२ ॥
देवादेशात् गतश्चाहमभूवं तां स्त्रियं प्रति ।
राक्षसीव च सा क्वापि दृष्टनष्टैव मे गता ॥ ४.११.११३ ॥
एतच्छ्रुत्वा वचस्तस्य राजा वीरवरस्य सः ।
सुतरां विस्मयाविष्टः दृष्टौदन्तो व्यचिन्तयत् ॥ ४.११.११४ ॥
अहो समुद्रगम्भीरधीरचित्ताः मनस्विनः ।
कृत्वाप्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये ॥ ४.११.११५ ॥
इत्याद्याकलयन् तूष्णीं प्रासादादवरुह्य सः ।
प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तम् ॥ ४.११.११६ ॥
प्रातश्चास्थानसमये दर्शनौपगतस्थिते ।
तस्मिन् वीरवरे प्रीतस्तथा कृत्स्नं स भूपतिः ॥ ४.११.११७ ॥
तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस्तमवर्णयत् ।
यथा बभूवुः आश्चर्यमोहिताः इव तेऽखिलाः ॥ ४.११.११८ ॥
ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च ।
लाटदेशे ततो राज्यं सः कर्णाटयुते नृपः ॥ ४.११.११९ ॥
ततोऽत्र तुल्यविभववन्योन्यस्योपकारिणौ ।
आसातां तौ सुखं वीरवरशूद्रकभूपती ॥ ४.११.१२० ॥
इत्याख्याय कथामेतां वेतालोऽत्यद्भुतां तदा ।
तं त्रिविक्रमसेनं स राजानमवदत्पुनः ॥ ४.११.१२१ ॥
तत् ब्रूहि राजन् एतेषु वीरः सर्वेषु कोऽधिकः ।
पूर्वः एव सः शापस्ते यदि जानन् न वक्ष्यसि ॥ ४.११.१२२ ॥
एतच्छ्रुत्वा स भूपालो वेतालं प्रतिउवच तम् ।
एतेषु शुद्रको राजा प्रवीरः सोऽखिलेष्विति ॥ ४.११.१२३ ॥
ततोऽब्रवीत्सो वेतालो राजन् वीरवरो न किम् ।
सोऽधिको यस्य तुल्योऽस्यां पृथ्व्यामेव न जायते ॥ ४.११.१२४ ॥
तत्पत्नी नाधिका किं वा स्त्रीभुता यान्वमन्यत ।
तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी ॥ ४.११.१२५ ॥
सो वा सत्त्ववरो नात्र तत्पुत्रोऽभ्यधिकः कथम् ।
बालस्यापि सतो यस्य सत्त्वौत्कर्षः सस्तादृशः ॥ ४.११.१२६ ॥
तत् कस्माच्छुद्रकं भूपमेभ्यस्त्वं भाषसेऽधिकम् ।
इत्युक्तवन्तं वेतालं सः जगाद पुनो नृपः ॥ ४.११.१२७ ॥
मैवं वीरवरस्तावत्सस्तादृक्कुलपुत्रकः ।
तस्य प्राणैः सुतैः दारैः स्वामिसंरक्षणं व्रतम् ॥ ४.११.१२८ ॥
तत्पत्नी सापि कुलजा साद्वी पतिएकदेवता ।
भर्तृवर्त्मानुसारेण तस्याः धर्मोऽस्तु कोऽपरः ॥ ४.११.१२९ ॥
ताभ्यां जातस्तु तत्रूपः एव सत्त्ववरोऽपि सः ।
यादृशाः तन्तवः कामं तादृशः जायते पटः ॥ ४.११.१३० ॥
येषां प्राणैः तु भृत्यानां नृपैः आत्माभिरक्ष्यते ।
तेषामर्थे त्यजन्देहं शुद्रकोऽत्र विशिष्यते ॥ ४.११.१३१ ॥
इत्याकर्ण्य वचः सस्तस्य नृपतेः अंसादसंलक्षितः
वेतालः सहसा ययौ निजपदं भूयोऽपि तत्मायया ।
राजाप्युच्चलितः बभूव पुनोऽप्यानेतुमेतं पथा
पूर्वेणैव सुनिश्चितः पितृवने तस्मिन् सस्तस्यां निशि ॥ ४.११.१३२ ॥
ततस्तस्य पुनः गत्वा शिंशपाशाखिनोऽन्तिकम् ।
तथैवोल्लम्बमानं तं दृष्ट्वा नरशरीरगम् ॥ ५.१२.१ ॥
वेतालमवतार्यैव कृत्वास्मै बहु वैकृतम् ।
सस्त्रिविक्रमसेनः द्राक् गन्तुं प्रववृते ततः ॥ ५.१२.२ ॥
आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि ।
रात्रौ महाश्मशानेऽत्र स्कन्धस्थो व्याजहार सः ॥ ५.१२.३ ॥
राजन्नभिनिविष्टोऽसि कष्टेऽत्यन्तप्रियोऽसि च ।
तत्ते चेतोविनोदाय वर्णयामि कथां शृणु ॥ ५.१२.४ ॥
उज्जयिन्यामभूत् विप्रः पुण्यसेनस्य भूपतेः ।
अनुजीवी प्रियोऽमात्यः हरिस्वामीति सत्गुणः ॥ ५.१२.५ ॥
तस्यात्मनोऽनुरूपायां भार्यायां गृहमेधिनः ।
गुणवान् सदृशः पुत्रः देवस्वामीत्यजायत ॥ ५.१२.६ ॥
तद्वच्चानन्य सामान्य रूपलावण्य विश्रुता ।
कन्या सोमप्रभा नाम तस्यान्वर्था-उदपद्यत ॥ ५.१२.७ ॥
सा प्रदेया सती कन्या रूपौत्कर्षाभिमानिनी ।
मातुः मुखेन पितरं भ्रातरं च जगाद तम् ॥ ५.१२.८ ॥
शूरस्य ज्ञानिनो वाहं देया विज्ञानिनोऽपि वा ।
अन्यस्मै नास्मि दातव्या कार्यं मत्जीवितेन चेत् ॥ ५.१२.९ ॥
तच्छ्रुत्वा तादृशं तस्याः चिन्वन् एकतमं वरम् ।
तत्पिता सः हरिस्वामी यावच्चिन्तां वहत्यलम् ॥ ५.१२.१० ॥
तावत् व्यसर्जिः रज्ञा सः पुण्यसेनेन दूत्यया ।
सन्ध्यर्थं विग्रहायात दाक्षिणात्यनृपान्तिकम् ॥ ५.१२.११ ॥
कृतकार्यश्च तत्रासवेकेनाभ्येत्य तां सुताम् ।
याचितोऽभूद्द्विजाग्र्येण श्रुततत्रूपसम्पदा ॥ ५.१२.१२ ॥
विज्ञानिनः ज्ञानिनो वा शूरात् वा नापरं पतिम् ।
मत्पुत्रीच्छति तत्तेषां मध्यात् कथय को भवान् ॥ ५.१२.१३ ॥
इत्युक्तस्तेन भार्यार्थः सः हरिस्वामिना द्विजः ।
अहं जानामि विज्ञानमिति तं प्रत्यभाषत ॥ ५.१२.१४ ॥
तर्हि तद्दर्शयस्वेति पुनरुक्तश्च तेन सः ।
विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ॥ ५.१२.१५ ॥
मायायन्त्ररथे तत्र तं हरिस्वामिनं क्षणात् ।
आरोप्य नीत्वा स्वर्गादीं लोकान् तस्मयदर्शयत् ॥ ५.१२.१६ ॥
आनिनाय च तुष्टं तं तत्रैव कटकं पुनः ।
दाक्षिणात्यस्य नृपतेः यत्रायातः सः कार्यतः ॥ ५.१२.१७ ॥
ततः सोऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् ।
विज्ञानिने विवाहं च निश्चिकायाह्नि सप्तमे ॥ ५.१२.१८ ॥
तत्कालमुज्जयिन्यामप्यन्येनैत्य द्विजन्मना ।
देवस्वामी सस्तत्पुत्रः स्वसारं तामयाच्यत ॥ ५.१२.१९ ॥
ज्ञानिविज्ञ्नानिशूरेभ्यो नान्यमिच्छति सा पतिम् ।
इति तेनापि सोऽप्युक्तः शूरमात्मानमभ्यधात् ॥ ५.१२.२० ॥
ततः दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजोऽनुजाम् ।
देवस्वामी सः शूराय दातुं तां प्रत्यपद्यत ॥ ५.१२.२१ ॥
सप्तमेऽह्नि च तत्रैव विवाहं गणकौक्तितः ।
तस्यापि सोऽभ्यधान्मातुः परोक्षं कृतनिश्चयः ॥ ५.१२.२२ ॥
तत्मातापि ःअरिस्वामिभार्या तत्कलमेव सा ।
केनाप्येत्य तृतीयेन सुतां तां याचिता पृथक् ॥ ५.१२.२३ ॥
ज्ञानी शूरोऽथ विज्ञनी भर्तास्मद्दुहितुः मतः ।
इत्युक्तश्च तया मातोऽहं ज्ञनीति सोऽभ्यधात् ॥ ५.१२.२४ ॥
पृष्ट्वा भूतं भविष्यच्च तस्मै तां ज्ञानिने सुताम् ।
प्रतिजज्ञे प्रदातुं साप्यह्नि तत्रैव सप्तमे ॥ ५.१२.२५ ॥
अन्येद्युः चागतः सोऽत्र हरिस्वामी यथा कृतम् ।
पत्न्यैः पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ॥ ५.१२.२६ ॥
तौ च तं स्वकृतं तस्मै भिन्नं भिन्नमेवोचताम् ।
सोऽपि तेनाकुलः जज्ञे वरत्रयनिमन्त्रणात् ॥ ५.१२.२७ ॥
अथोद्वाहदिने तस्मिन् हरिस्वामिगृहे वराः ।
आययुः ज्ञानिविज्ञानिशूराः तत्र त्रयोऽपि ते ॥ ५.१२.२८ ॥
तत्कालं चात्र सा चित्रं कन्या सोमप्रभा वधुः ।
अशङ्कितं गता क्वापि न विचित्याप्यलभ्यत ॥ ५.१२.२९ ॥
ततोऽब्रवीत् हरिस्वामी ज्ञानिनं तं ससम्भ्रमः ।
ज्ञानिन् इदानीं ब्रूह्याशु दुहिता मे क्व सा गता ॥ ५.१२.३० ॥
तच्छ्रुत्वा सोऽवदत् ज्ञानी राक्षसेनापहृत्य सा ।
नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ॥ ५.१२.३१ ॥
इत्युक्तः ज्ञानिना भीतः हरिस्वामी जगाद सः ।
हा धिक् कथं सा प्रप्येत विवाहश्चापि कथम् ॥ ५.१२.३२ ॥
श्रुत्वैतत्प्राह विज्ञानी धीरो भव नयामि वः ।
तत्राधुनैव यत्रैषः ज्ञानी वदति तां स्थिताम् ॥ ५.१२.३३ ॥
इत्युक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् ।
तत्रारोप्य हरिस्वामिज्ञानिशूरान्खगामिनि ॥ ५.१२.३४ ॥
तान् सः सम्प्रापयामास क्षणात् विन्ध्याटवीभुवि ।
ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ ५.१२.३५ ॥
तत्र तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् ।
शूरोऽथ योधयामास हरिस्वामिपुरस्कृतः ॥ ५.१२.३६ ॥
तदाश्चर्यमभूत् युद्धं तयोः मानुषरक्षसोः ।
चित्रास्त्रयोधिनोः स्त्री-अर्थं रामरावणयोः इव ॥ ५.१२.३७ ॥
क्षणेन च सः सङ्ग्रामदुःमदस्यापि रक्षसः ।
अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः ॥ ५.१२.३८ ॥
हते रक्षसि तां सोमप्रभामाप्तां ततास्पदात् ।
आदाय विज्ञानिरथेनाजग्मुः ते ततोऽखिलाः ॥ ५.१२.३९ ॥
हरिस्वामिगृहं प्राप्य तेषां लग्नेऽप्युपस्थिते ।
ज्ञानिविज्ञ्नानिशूराणां विवादरुदभून्महान् ॥ ५.१२.४० ॥
ज्ञानी जगाद नाहं चेत् जानीयां तत् इयं कथम् ।
प्राप्येत कन्या गूढस्था देया मह्यमसवितः ॥ ५.१२.४१ ॥
विज्ञनी त्ववदन्नाहं कुर्यां चेत् व्योमगं रथम् ।
गमागमौ कथं स्यातां देवानामिव वः क्षणात् ॥ ५.१२.४२ ॥
कथं स्याच्चारथं युद्धं रथिना रक्षसा सह ।
तस्मान्मह्यमियं देया लग्नः ह्येषो मयाजितः ॥ ५.१२.४३ ॥
शूरोऽप्युवाच हन्यां चेन्नाहं तं राक्षसं रणे ।
तत् युवाभ्यां कृते यत्नेऽप्येतां कन्यां कः आनयेत् ॥ ५.१२.४४ ॥
तन्मह्यमेषा दातव्येत्येवं तेषु विवादिषु ।
हरिस्वामी क्षणं तूष्णीमासीत् उद्भ्रान्तमानसः ॥ ५.१२.४५ ॥
तत् कस्मै सात्र देयेति राजन् वदतु मे भवान् ।
न वदिष्यसि जानन् चेत्तत्ते मूर्धा स्फुटिष्यति ॥ ५.१२.४६ ॥
इति वेतालस्तस्माच्छ्रुत्वा मौनं विहाय च ।
सस्त्रिविक्रमसेनस्तमुवाचैवं महीपतिः ॥ ५.१२.४७ ॥
शूराय सा प्रदातव्या येन प्राणपणौद्यमात् ।
अर्जिता बहुवीर्येण हत्वा तं युधि राक्षसम् ॥ ५.१२.४८ ॥
ज्ञानिविज्ञानिनौ त्वस्य धात्रा कर्मकरौ कृतौ ।
सदा गणकतक्षणौ परौपकरणे न किम् ॥ ५.१२.४९ ॥
इत्युक्तं मनुजपतेः निशम्य तस्य स्कन्धाग्रात्
सपदि सः पूर्ववत् जगाम ।
वेतालो निजपदमेव सोऽपि राजानुद्वेगः
तं प्रति प्रतस्थे ॥ ५.१२.५० ॥
ततः गत्वा पुनस्तस्मात्प्राप्य तं शिंशपातरोः ।
वेतालं प्राग्वदादाय स्कन्धे मौनेन भूपतिः ॥ ६.१३.१ ॥
सस्त्रिविक्रमसेनोऽत्र यावदागच्छति द्रुतम् ।
तावत्पथि स वेतालो भूयोऽप्येवमुवाच तम् ॥ ६.१३.२ ॥
राजन् सुधीः सुसत्त्वश्च भवान् तेन प्रियोऽसि मे ।
अतो विनोदिनीं वच्मि कथां प्रश्नं च मे शृणु ॥ ६.१३.३ ॥
आसीत् राजा यशःकेतुः इति ख्यातो महीतले ।
तस्य शोभावती नाम राजधान्यभवत्पुरी ॥ ६.१३.४ ॥
तस्यामभून्नगर्यां च गौरी-आयतनमुत्तमम् ।
तस्य दक्षिणतश्चासीत् गौरीतीर्थाभिधं सरः ॥ ६.१३.५ ॥
तस्याषाढचतुर्दश्यां शुक्लायां प्रतिवत्सरम् ।
यात्रायां स्नातुमेति स्म नानादिग्भ्यो महाजनः ॥ ६.१३.६ ॥
एकदा च तिथौ तस्यां स्नातुमत्राययौ युवा ।
रजकः धवलो नाम ग्रामात् ब्रह्मस्थलाभिधात् ॥ ६.१३.७ ॥
सोऽपश्यत् रजकस्यात्र तीर्थे स्नानागतां सुताम् ।
कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीम् ॥ ६.१३.८ ॥
इन्दोः लावण्यहारिण्या तया सः हृतमानसः ।
अन्विष्य तत्नामकुले कामार्तोऽथ गृहं ययौ ॥ ६.१३.९ ॥
तत्रानवस्थितस्तिष्ठन् निराहारस्तया विना ।
पृष्ठो मात्रार्तया तस्यै तच्छशंस मनःगतम् ॥ ६.१३.१० ॥
सा गत्वा विमलाख्याय तत्स्वभर्त्रे न्यवेदयत् ।
सोऽप्यागत्य तथावस्थं दृष्ट्वा तं सुतमभ्यधात् ॥ ६.१३.११ ॥
किं विषीदसि पुत्रैवमदुष्प्राप्येऽपि वाञ्छिते ।
सः हि मत्याचितः शुद्धपटः दास्यति ते सुताम् ॥ ६.१३.१२ ॥
अन्यूनाः हि वयं तस्मात् कुलेनार्थेन कर्मणा ।
तं वेद्म्यहं स मां वेत्ति तेनैतन्मे न दुःकरम् ॥ ६.१३.१३ ॥
इत्याश्वास्य सस्तं पुत्रमाहारादौ प्रवर्त्य च ।
तत् युक्तो विमलोऽन्येद्युः ययौ सः शुद्धपटास्पदम् ॥ ६.१३.१४ ॥
ययाचे चात्र पुत्रस्य तस्यार्थे धवलस्य सः ।
कन्यां तस्मात्सश्चास्मै तां प्रतिशुश्राव सादरम् ॥ ६.१३.१५ ॥
लग्नं निश्चित्य चान्येद्युः तां शुद्धपटः सुताम् ।
धवलाय ददौ तस्मै तुल्यां मदनसुन्दरीम् ॥ ६.१३.१६ ॥
कृतौद्वाहश्च सस्तया साकं दर्शनसक्तया ।
भार्यया स्वपितुः गेहं जगाम धवलः कृती ॥ ६.१३.१७ ॥
सुखस्थितस्य तस्याथ कदाचिच्छ्वशुरात्मजः ।
तस्याः मदनसुन्दर्याः भ्राता तत्रागतोऽभवत् ॥ ६.१३.१८ ॥
सः कृतप्रश्रयः सर्वैः स्वस्राश्लिष्याभिनन्दितः ।
सम्बन्धिपृष्टकुशलो विश्रान्तश्च जगाद तान् ॥ ६.१३.१९ ॥
अहं मदनसुन्दर्याः जामातुः च निमन्त्रणे ।
तातेन प्रेषितो यस्माद्देवीपूजा-उत्सवोऽस्ति नः ॥ ६.१३.२० ॥
श्रद्धाय चैतत्तत्वाक्यं यथार्हैः पानभोजनैः ।
ते सम्बन्धि-आदयः सर्वे तदहस्तमुपाचरन् ॥ ६.१३.२१ ॥
प्रातो मदनसुन्दर्या स्वशुर्येण च तेन सः ।
सहितः धवलः प्रायात् गृहं तच्छ्वाशुरं प्रति ॥ ६.१३.२२ ॥
प्राप्य शोभावतीं तां च पुरीमात्मतृतीयकः ।
ददर्श निकटं प्राप्य सः गौरी-आयतनं महत् ॥ ६.१३.२३ ॥
निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः ।
एतमेतां भगवतीं पश्यामः देवतामिह ॥ ६.१३.२४ ॥
तच्छ्रुत्वा सः श्वशुर्यस्तं निषेधं प्रत्यभाषा ।
इयन्तो रिक्तहस्ताः किं पश्यामः देवतामिति ॥ ६.१३.२५ ॥
अहं तावत् व्रजाम्येको युवामत्रैव तिष्ठतम् ।
इत्युक्त्वा धवलः द्रष्टुं देवीं तां सस्ततो ययौ ॥ ६.१३.२६ ॥
प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च ।
तामष्टादशदोःदण्डखण्डितौच्चण्डदानवाम् ॥ ६.१३.२७ ॥
पादपद्मतलाक्षिप्तमहिषासुरमर्दिनीम् ।
सो विधिप्रेरणौत्पन्नबुद्धिः एवमचिन्तयत् ॥ ६.१३.२८ ॥
जीवौपहारैः विविधैः इमां देवीं जनोऽर्चति ।
अहं तु सिद्ध्यै किं नैतां प्रीणाम्यात्मौपहारतः ॥ ६.१३.२९ ॥
इति ध्यात्वैव तत्गर्भगृहादादाय निःजनात् ।
खड्गं सांयात्रिकैः कैःचिद्देव्याः प्राक् प्राभृतीकृतम् ॥ ६.१३.३० ॥
बद्ध्वा शिरःरुहैः घण्टाशृङ्खलायां निजं शिरम् ।
चिच्छेदैतेन खड्गेन तत् छिन्नं चापतत् भुवि ॥ ६.१३.३१ ॥
चिरं यावत्सो नायाति तावत् गत्वा तमीक्षितुम् ।
तत्रैव देवीभवने तत्श्वशुर्यो विवेश सः ॥ ६.१३.३२ ॥
सोऽपि दृष्ट्वा तमुत्कृत्तमूर्धानं भगिनीपतिम् ।
व्यामोहितस्तथैव स्वं शिरस्तेनासिनाच्छिनत् ॥ ६.१३.३३ ॥
सोऽपि यावच्च नायाति तावत् उद्भ्रान्तमानसा ।
तत्देवीभवनं सापि ययौ मदनसुन्दरी ॥ ६.१३.३४ ॥
प्रविश्य दृष्ट्वैव पतिं भ्रातरं च तथागतौ ।
हा किमेतत् हतास्मीति विलपन्त्यपतत् भुवि ॥ ६.१३.३५ ॥
क्षणाच्चोत्थाय शोचन्ती तवकाण्डहतावुभौ ।
किं ममाप्यधुनानेन जीवितेनेत्यचिन्तयत् ॥ ६.१३.३६ ॥
व्यजिज्ञपच्च देवीं तां देहत्यागौन्मुखी सती ।
देवि सौभाग्यचारित्रविधानैकाधिदेवते ॥ ६.१३.३७ ॥
अध्यासितशरीरार्धे भर्तुः माररिपोरपि ।
अशेषललनालोकशरण्ये दुःखहारिणि ॥ ६.१३.३८ ॥
हृतवेकपदे कस्मात् भर्ता भ्राता च मे त्वया ।
न युक्तमेतन्मयि ते नित्यभक्ता ह्यहं त्वयि ॥ ६.१३.३९ ॥
तन्मे श्रितायाः शरणं शृण्वेकं कृपणं वचः ।
एतां तावत्त्यजाम्यत्र दौर्भाग्यौपहतां तनुम् ॥ ६.१३.४० ॥
जनिष्ये देवि भूयस्तु यत्र कुत्रापि जन्मनि ।
तत्रैतवेव भूयास्तां द्वौ भर्तृभ्रातरौ मम ॥ ६.१३.४१ ॥
इति संस्तुत्य विज्ञप्य देवीं नत्वा च तां पुनः ।
पाशं विरचयामास लतयाशोकपादपे ॥ ६.१३.४२ ॥
तत्रार्पयति यावच्च पाशे कण्ठं वितत्य सा ।
तावत्तत्रोच्चचारैवं भारती गगनाङ्गणात् ॥ ६.१३.४३ ॥
मा कृथाः साहसं पुत्रि बालायाः अपि तेऽमुना ।
सत्त्वौत्कर्षेण तुष्टास्मि पाशमेतं परित्यज ॥ ६.१३.४४ ॥
संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः ।
उत्तिष्ठतां ते जीवन्तवेतौ द्ववपि मत्वरात् ॥ ६.१३.४५ ॥
एतच्छ्रुत्वैव सन्त्यज्य पाशं हर्षात् उपेत्य सा ।
अविभाव्यातिरभसात् भ्रान्ता मदनसुन्दरी ॥ ६.१३.४६ ॥
बाला भर्तृशिरो भ्रातृदेहेन समयोजयत् ।
भर्तृदेहेन च भ्रातृशिरो विधिनियोगतः ॥ ६.१३.४७ ॥
ततोऽक्षताङ्गौ जीवन्तावुभावुत्तस्थतुः च तौ ।
शिरःविनिमयात् जातसङ्करौ काययोः मिथः ॥ ६.१३.४८ ॥
अथान्योन्यौदितस्वस्वयथावृत्तान्ततोषिणः ।
प्रणम्य देवीं शर्वनीं यथा-इष्टं ते ययुः त्रयः ॥ ६.१३.४९ ॥
यान्ती च दृष्ट्वा स्वकृतं शिरःविनिमयं तयोः ।
विग्ना किम्कार्यतामूढा साभून्मदनसुन्दरी ॥ ६.१३.५० ॥
तत् ब्रूहि राजन्को भर्ता तस्याः सङ्कीर्णयोस्तयोः ।
पुर्वौक्तः स्यात्सः शापस्ते जानानो न ब्रवीषि चेत् ॥ ६.१३.५१ ॥
इत्याकर्ण्य कथाप्रश्नं राजा वेतालतस्ततः ।
सस्त्रिविक्रमसेनोऽत्र तमेवं प्रत्यभाषत ॥ ६.१३.५२ ॥
यत्संस्थं तत्पतिशिरः सः एषस्तस्याः पतिः तयोः ।
प्रधानं च शिरोऽङ्गेषु प्रत्यभिज्ञा च तत्गता ॥ ६.१३.५३ ॥
इत्युक्तवतो नृपतेः तस्यांसात्पुनोऽतर्कितः स ययौ ।
वेतालः सश्च राजा जगाम भुयस्तमानेतुम् ॥ ६.१३.५४ ॥
ततः गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।
सस्त्रिविक्रमसेनस्तं स्कन्धे जग्राह भूपतिः ॥ ७.१४.१ ॥
गृहीत्वा प्रस्थितं तं च वेतालः सोऽब्रवीत्पथि ।
राजन् श्रमविनोदार्थं कथामाख्यामि ते शृणु ॥ ७.१४.२ ॥
अस्तीह ताम्रलिप्तीति पुरी पूर्वाम्बुधेः तटे ।
चण्डसेनाभिधानश्च राजा तस्यामभूत्पुरि ॥ ७.१४.३ ॥
पराङ्मुखः परस्त्रीषु यो न सङ्ग्रामभूमिषु ।
हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसम्पदाम् ॥ ७.१४.४ ॥
तस्यैकदा दाक्षिणात्यो राजपुत्रः जनप्रियः ।
आययौ सत्त्वशीलाख्यः सिंहद्वारेऽत्र भूपतेः ॥ ७.१४.५ ॥
तत्र चात्मानमावेद्य नैर्धन्यात्तं नृपं प्रति ।
कपटं पाटयामास राजपुत्रैः सहापरैः ॥ ७.१४.६ ॥
ततः कार्पटिको भूत्वा बहून्यब्दानि तत्र सः ।
तस्थौ कुर्वन् सदा सेवान् नैव प्राप फलं नृपात् ॥ ७.१४.७ ॥
यदि राजान्वये जन्म निःधनत्वं किमीदृशम् ।
निःधनत्वेऽपि किं धात्रा कृतेयं मे महा-इच्छता ॥ ७.१४.८ ॥
अयं हि सेवमानं मामेवं क्लिष्टपरिच्छदम् ।
चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते ॥ ७.१४.९ ॥
इति यावच्च सः ध्यायत्यत्र कार्पटिकस्ततः ।
तावदाखेटकार्थं स निरगात् एकदा नृपः ॥ ७.१४.१० ॥
तस्मिन्कार्पटिके धावत्यग्रे लगुडवाहिनि ।
जगाम चाश्वपादातयुतः सोऽथ मृगाटवीम् ॥ ७.१४.११ ॥
कृताखेटश्च तत्रारान्महान्तं मत्तसूकरम् ।
अनुधावन्क्षणात्प्रापदतिदूरं वनान्तरम् ॥ ७.१४.१२ ॥
तत्र पर्णतृणछन्नमार्गे हारितसूकरः ।
श्रान्तो महावने सोऽथ राजा दिक्मोहमाययौ ॥ ७.१४.१३ ॥
एकः कार्पटिकश्चाथ सस्तं वाताश्वपृष्ठगम् ।
प्रानानपेक्षोऽनुययौ पदातिः क्षुत्तृषार्दितः ॥ ७.१४.१४ ॥
तं च दृष्ट्वा तथाभूतमन्वायातं स भूपतिः ।
सस्नेहमवदत् कच्चिद् वेत्सि मार्गं यथागतम् ॥ ७.१४.१५ ॥
तदाकर्ण्याञ्जलिं बद्ध्वा सस्तं कार्पटिकोऽभ्यधात् ।
वेद्मि किं च क्षणं तावत् इह विश्राम्यतु प्रभुः ॥ ७.१४.१६ ॥
द्युवधूमेखलामध्यमणिः एषः हि सम्प्रति ।
देदीप्यते स्फुरत्रश्मिशिखाजालोऽब्जिनीपतिः ॥ ७.१४.१७ ॥
एतच्छ्रुत्वा स राजा तं सौपरोधमभाषत ।
तर्हि क्वापीह पानीयं भवता प्रेक्ष्यतामिति ॥ ७.१४.१८ ॥
तथेत्यारुह्य सस्ततस्तुङ्गं कार्पटिकस्तरुम् ।
नदीं दृष्ट्वावरुह्याथ नृपं तत्र निनाय तम् ॥ ७.१४.१९ ॥
तत् वाहं च विपर्यानीकृतं कृतविवर्तनम् ।
दत्ताम्बुशष्पकवलं विदधे विगतश्रमम् ॥ ७.१४.२० ॥
कृतस्नानाय राज्ञे च प्रोन्मुच्य वसनाञ्चलात् ।
प्रक्षाल्योपानयत्तस्मै हृद्यान्यामलकानि सः ॥ ७.१४.२१ ॥
एतानि कुतः इत्येतं पृच्छन्तं सश्च भूपतिम् ।
एवं व्यजिज्ञपत् जानुस्थितः सामलकाञ्जलिः ॥ ७.१४.२२ ॥
एतत्वृत्तिरहं नित्यं व्यतीतदशवत्सरः ।
चराम्याराधयन्देवमनेकान्तमुनिव्रतम् ॥ ७.१४.२३ ॥
तच्छ्रुत्वा सत्यनामा त्वं सत्त्वशीलः किमुच्यते ।
इत्युक्त्वा सः कृपाक्रान्तः ह्रीतश्चाचिन्तयन्नृपः ॥ ७.१४.२४ ॥
धिक् नृपान्क्लिष्टमक्लिष्टं ये भृत्येष न जानते ।
धिक् च तं परिवारं यो न ज्ञापयति तान् तथा ॥ ७.१४.२५ ॥
इति सञ्चिन्त्य जग्राह स राजामलकद्वयम् ।
हस्तात् कार्पटिकस्याथ कथम्चिदनुबध्नतः ॥ ७.१४.२६ ॥
भुक्त्वा च तन्निपीयाम्बु विशश्रामात्र सः क्षणम् ।
जग्धामलकसम्पीतजलकार्पटिकान्वितः ॥ ७.१४.२७ ॥
ततः सज्जीकृतं तेन वाहं कार्पटिकेन सः ।
आरुह्याग्रेसरे तस्मिन् एव मार्गप्रदर्शिनि ॥ ७.१४.२८ ॥
पश्चात्भागमनारूढे हयस्याभ्यर्थितेऽप्यलम् ।
ययौ स राजा स्वपूरिं पथि प्राप्तात्मसैनिकः ॥ ७.१४.२९ ॥
तत्र प्रख्याप्य तत्भक्तिं वसुभिः विषयैः च तम् ।
अपूरयत् कार्पटिकं न चामन्यत निष्कृतिम् ॥ ७.१४.३० ॥
ततः कृतार्थः पार्श्वेऽस्य चण्डसिंहस्य भूपतेः ।
मुक्तकार्पटिकाचारः सत्त्वशीलः सस्तस्थिवान् ॥ ७.१४.३१ ॥
एकदा तेन राज्ञा च सः सिंहलपतेः सुताम् ।
याचितुं सिंहलद्वीपमात्मार्थं प्रेषितोऽभवत् ॥ ७.१४.३२ ॥
तत्राप्धिवर्त्मना गच्छन्नर्चिताभीष्टदेवतः ।
आरुरोह प्रवहणं राजादिष्टैः सह द्विजैः ॥ ७.१४.३३ ॥
गते तस्मिन् प्रवहणे मध्यभागमशङ्कितम् ।
उत्तस्थौ जलधेः तस्माद्ध्वजः जनितविस्मयः ॥ ७.१४.३४ ॥
अभ्रम्लिहाग्रः सुमहान् जाम्बूनदविनिर्मितः ।
विचित्रवर्णविचलत्वैजयन्तीविराजितः ॥ ७.१४.३५ ॥
तत्कालं चात्र सहसा समुन्नम्य घनावली ।
भृशं वर्षितुमारेभे ववौ तीव्रश्च मारुतः ॥ ७.१४.३६ ॥
तैः वर्षवातैः सः बलादाकृष्याधोरनैः इव ।
आसज्यत ध्वजस्तम्भे तस्मिन् प्रवहणद्विपः ॥ ७.१४.३७ ॥
तावच्च सः ध्वजस्तस्मिन् वारिधौ वीचिविप्लुते ।
वहनेन समं तेन प्रावर्तत निमज्जितुम् ॥ ७.१४.३८ ॥
ततः द्विजाः ते तत्रस्थाः चण्डसिंहं स्वभूपतिम् ।
उद्दिश्योद्घोषयामासुः अभ्रह्मण्यं भयाकुलाः ॥ ७.१४.३९ ॥
तदाकर्ण्यासहिष्णुः च स्वामिभक्तेः अनुध्वजम् ।
सः सत्त्वशीलो निःत्रिंशहस्तः बद्धौत्तरीयकः ॥ ७.१४.४० ॥
आत्मानमक्षिपत्तत्र निःअपेक्षो महा-उदधौ ।
उदधेः कारणाशङ्की वीरः प्रतिविधित्सया ॥ ७.१४.४१ ॥
मग्ने च तस्मिन् वात-ऊर्मिदूरौत्क्षिप्तमभज्यत ।
वहनं तच्च तत्स्ताः च निपेतुः यादसां मुखे ॥ ७.१४.४२ ॥
सश्च मग्नोऽम्बुधौ तत्र सत्त्वशीलो निरीक्षते ।
यावत्तावद्ददर्शात्र पुरीं दिव्यां न वारिधिम् ॥ ७.१४.४३ ॥
तस्मिन्मणिमयस्थम्भैः भास्वरे हेममन्दिरे ।
सत्रत्नबद्धसोपानवापीकौद्यानशोभिनि ॥ ७.१४.४४ ॥
नानामणिशिलाभित्तिरत्नचित्रौच्छ्रितध्वजम् ।
कात्यायनीदेवगृहं मेरुप्रोन्नतमैक्षत ॥ ७.१४.४५ ॥
तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्च्य ततग्रतः ।
इन्द्रजालं किमेतत्स्यात् इत्याश्चर्याद् उपाविशत् ॥ ७.१४.४६ ॥
तावच्च देव्यग्रगतप्रभामण्डलकान्तरात् ।
अकस्मान्निरगात् कन्या दिव्योद्घाट्य कवाटकम् ॥ ७.१४.४७ ॥
इन्दी वराक्षी फुल्लाप्जवदना कुसुमस्मिता ।
मृणालनालमृदुअङ्गी जङ्गमेव सरोजिनी ॥ ७.१४.४८ ॥
स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा ।
विवेश सत्त्वशीलस्य हृदयं च ततः समम् ॥ ७.१४.४९ ॥
निरगात् कृतपूजा च देवीगर्भगृहात्ततः ।
न पुनः सत्त्वशीलस्य हृदयात्सा कथं चन ॥ ७.१४.५० ॥
प्राविशत्सा च तत्रैव प्रभामण्डलकान्तरे ।
सत्त्वशीलोऽप्यसौ तस्याः पश्चात्तत्र प्रविष्टवान् ॥ ७.१४.५१ ॥
प्रविश्य च ददर्शान्तोऽन्यत् एवोत्तमं पुरम् ।
सङ्केतौद्यानमिव यत्सर्वासां भोगसम्पदाम् ॥ ७.१४.५२ ॥
तत्रान्तःमणिपर्यङ्कनिषण्णां तां विलोक्य सः ।
कन्यामुपेत्य तत्पार्श्वे सत्त्वशीलरुपाविशत् ॥ ७.१४.५३ ॥
आसीच्च तत्मुखासक्तलोचनः लिखितो यथा ।
अङ्गैः सौत्कम्पपुलकैः वदन्नालिङ्गनौत्कताम् ॥ ७.१४.५४ ॥
दृष्ट्वा च तं स्मराविष्टं चेटीनामत्र सा मुखम् ।
अद्राक्षीत्ताः च तत्कालमिङ्गितज्ञाः तमब्रुवन् ॥ ७.१४.५५ ॥
अतिथिः त्वमिह प्राप्तस्तदस्मत्स्वामिनीकृतम् ।
भजस्वातिथ्यमुत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम् ॥ ७.१४.५६ ॥
तच्छ्रुत्वा सोऽवलम्ब्याशां खतमप्युत्थितस्ततः ।
ययौ प्रदर्शितां ताभिः एकामुद्यानवापिकाम् ॥ ७.१४.५७ ॥
तस्यां निमग्नश्चोत्तस्थौ ताम्रलिप्त्यां सस्तत्क्षणात् ।
चण्डसिंहनृपौद्यानवापीमध्यात्ससम्भ्रमः ॥ ७.१४.५८ ॥
तत्र प्राप्तमकस्माच्च विक्ष्यात्मानमचिन्तयत् ।
अहो किमेतत् क्वोद्यानमिदं दिव्यं क्व तत्पुरम् ॥ ७.१४.५९ ॥
तत्रामृतासारसमं क्व तत्तस्याः च दर्शनम् ।
क्व चानन्तरमेवेदं तत्विश्लेषमहाविषम् ॥ ७.१४.६० ॥
स्वप्नश्च नायं सुस्पष्टो विनिद्रोऽनुभवः हि मे ।
ध्रुवं पातालकन्याभिः ताभिः मूढोऽस्मि वञ्चितः ॥ ७.१४.६१ ॥
इति ध्यायन् विना तां सः कन्यामुन्मादवान् इव ।
उद्याने तत्र बभ्राम कामार्तो विललाप च ॥ ७.१४.६२ ॥
ततवस्थं च तं दृष्ट्वा पिशङ्गैः पुष्परेणुभिः ।
वातौद्धूतैः परीताङ्गं विप्रयोगानलैः इव ॥ ७.१४.६३ ॥
उद्यानपालाः गत्वैव चण्डसिंहमहीभृतम् ।
व्यजिज्ञपन् सश्चोद्भ्रान्तः स्वयमेत्य ददर्श तम् ॥ ७.१४.६४ ॥
सान्त्वयित्वा च पप्रच्छ किमिदं ब्रूहि नः सखे ।
क्व प्रस्थितस्त्वं क्व प्राप्तः क्वास्तः क्व पतितः शरः ॥ ७.१४.६५ ॥
तच्छ्रुत्वा सः स्ववृत्तान्तं तस्मै सर्व शशंस तम् ।
सत्त्वशीलो नृपतये सोऽप्यथैवमचिन्तयत् ॥ ७.१४.६६ ॥
हन्त वीरोऽपि मत्पुण्यैः कामेनैषो विडम्बितः ।
आनृण्यं गन्तुमेतस्य लब्धः ह्यवसरो मया ॥ ७.१४.६७ ॥
इत्यन्तश्चिन्तयित्वा स वीरो राजा जगाद तम् ।
तह्रि मुञ्च मुधा शोकमहं त्वां प्रापयामि ताम् ॥ ७.१४.६८ ॥
नीत्वा तेनैव मार्गेण प्रियामसुरकन्यकाम् ।
इति चाश्वासयामास तं सः स्नानादिना नृपः ॥ ७.१४.६९ ॥
अन्येद्युः मन्त्रिविन्यस्तराज्यस्तेन समं च सः ।
प्रायात्प्रवहणारूढस्तत्दर्शितपथोऽम्बुधिम् ॥ ७.१४.७० ॥
प्राप्य तत्मध्यभागं च दृष्ट्वा तं प्राग्वत् उत्थितम् ।
सपताकं ध्वजं सत्त्वशीलस्तं नृपमभ्यधात् ॥ ७.१४.७१ ॥
सोऽयमभ्युत्थितः दिव्यप्रभावोऽत्र महाध्वजः ।
मयि मग्नेऽत्र मङ्क्तव्यं देवेनैतमनु ध्वजम् ॥ ७.१४.७२ ॥
इत्युक्त्वा निकटं प्राप्य ध्वजस्यास्य निमज्जतः ।
मार्गे सः सत्त्वशीलोऽसौ पूर्वमात्मानमक्षिपत् ॥ ७.१४.७३ ॥
ततो राजापि चिक्षेप तत्रात्मानं तथैव सः ।
अन्तो मग्नौ च तौ क्षिप्रं तद्दिव्यं प्रापतुः पुरम् ॥ ७.१४.७४ ॥
तत्र दृष्ट्वा सः साश्चर्यो राजा देवीं प्रणम्य ताम् ।
पार्वतीं सत्त्वशीलेन सहितः समुपाविशत् ॥ ७.१४.७५ ॥
तावच्च निरगात्तत्र सा सखीजनसङ्गता ।
रूपिनीव प्रभा कन्या प्रभामण्डलकात्ततः ॥ ७.१४.७६ ॥
इयं सा सुमुखीत्युक्ते सत्त्वशीलेन तां नृपः ।
दृष्ट्वा युक्तमभिष्वङ्गं तस्य तस्याममन्यत ॥ ७.१४.७७ ॥
सापि तं वीक्ष्य राजानं शुभशारीरलक्षणम् ।
पुरुषातिशयोऽपूर्वः कोऽयं स्यात् इत्यचिन्तयत् ॥ ७.१४.७८ ॥
विवेश चाम्बिकाधाम पूजायै सा नृपोऽपि सः ।
जगामोद्यानमादाय सत्त्वशीलमवज्ञया ॥ ७.१४.७९ ॥
क्षणाच्च कृतपूजा सा निरगाद्दैत्यकन्यका ।
याचित्वा सत्पतिप्राप्तिं देव्याः गर्भगृहान्तरात् ॥ ७.१४.८० ॥
निर्गत्य सा जगादैकां सखीं सखि गवेष्यताम् ।
योऽसविह मया दृष्टो महात्मा क्व सस्तिष्ठति ॥ ७.१४.८१ ॥
आतिथ्यं गृह्यतामेत्य प्रसादः क्रियतां त्वया ।
इति चैषोऽर्थ्यतां पूज्यः पुमान्कोऽप्युत्तमः ह्यसौ ॥ ७.१४.८२ ॥
एवं सखी तयोक्ता सा विचित्योद्यानवर्तिने ।
स्वस्वामिनीनिदेशं तं प्रह्वा तस्मै न्यवेदयत् ॥ ७.१४.८३ ॥
तच्छ्रुत्वा स नृपो वीरः सावहेलमुवाच ताम् ।
एषैवातिथ्यमस्माकमन्यत् किमुपयुज्यते ॥ ७.१४.८४ ॥
एतच्छ्रुत्वा तया गत्वा सख्या सा श्राविता तदा ।
मेने मान्यमुदारं तं सर्वथा दैत्यकन्यका ॥ ७.१४.८५ ॥
ततश्चाकृष्यमानेव धैर्यपाशेन तेन सा ।
नृपेण मानुषायोग्येऽप्यातिथ्ये निःस्पृहात्मना ॥ ७.१४.८६ ॥
पत्यर्थं पार्वतीसेवापरिपाकसमर्पितम् ।
मत्वा तत्स्वयमुद्यानं विवेशासुरपुत्रिका ॥ ७.१४.८७ ॥
विचित्रशकुनालापैः वाताञ्चितलताभुजैः ।
विकीर्णकुसुमैः आरान्नन्द्यमानेव पादपैः ॥ ७.१४.८८ ॥
उपगम्य च सा तत्र यथावत्प्रश्रयानता ।
आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवम् ॥ ७.१४.८९ ॥
ततः सः सत्त्वशीलं तमुद्दिश्योवाच तां नृपः ।
अनेन कथितां देवीमिहाहं द्रष्टुमागतः ॥ ७.१४.९० ॥
गौरीं ध्वजपथप्राप्यपरमाद्भुतकेतनाम् ।
सा दृष्टा तदनु त्वं च कान्यातिथ्यार्थितात्र नः ॥ ७.१४.९१ ॥
तच्छ्रुत्वा साब्रवीत् कन्या कौतुकात्तर्हि वीक्षितुम् ।
आगम्यतां द्वितीयं मे पुरं त्रिजगतद्भुताम् ॥ ७.१४.९२ ॥
एवमुक्तवतीं तां च स विहस्य नृपोऽब्रवीत् ।
तदप्यनेनैवोक्तं मे यत्र सा स्नानवापिका ॥ ७.१४.९३ ॥
ततः सा कन्यकावादीद्देव मा स्मैवमादिश ।
न विडम्बनशीलाहं का वा पूज्ये विडम्बना ॥ ७.१४.९४ ॥
अहं हि सत्त्वौत्कर्षेण युष्माकं किम्करीकृता ।
तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुमर्हथ ॥ ७.१४.९५ ॥
एतच्छ्रुत्वा तथेत्युक्त्वा सत्त्वशीलसखः सस्तत् ।
प्रभामण्डलकौपान्तं ययौ राजा तया सह ॥ ७.१४.९६ ॥
अपावृतकवाटे च तस्मिन्नन्तस्तथैव सः ।
प्रवेशितः ददर्शास्याः तद्दिव्यमपरं पुरम् ॥ ७.१४.९७ ॥
नित्य सन्नद्धसर्वऋतु सदापुष्पफलद्रुमम् ।
मेरुपृष्ठमिवाशेषं निर्मितं रत्नकाञ्चनैः ॥ ७.१४.९८ ॥
रत्नासने महार्हे तं राजानमुपवेश्य सा ।
यथा-उचितोपनीतार्घ्या दैत्यराजसुताब्रवीत् ॥ ७.१४.९९ ॥
कन्याहमसुरेन्द्रस्य कालनेमेः महात्मनः ।
चक्रायुधेन च स मे स्वःगतिं प्रापितः पिता ॥ ७.१४.१०० ॥
विश्वकर्मकृतं चेदं पैतृकं मे पुरद्वयम् ।
न जरात्र न मृत्युः च बाधते सर्वकामदे ॥ ७.१४.१०१ ॥
इदानीं च पिता त्वं मे सपुराहं वशे तव ।
इत्यर्पितात्मसर्वस्वां तामुवाच स भूपतिः ॥ ७.१४.१०२ ॥
यद्येवं तत्सुते ह्यस्मै मया दत्तास्यनिन्दिते ।
सत्त्वशीलाय वीराय सुहृदे बान्धवाय च ॥ ७.१४.१०३ ॥
एवं देवीप्रसादेन मूर्तेनेव नृपेण सा ।
उक्ता गुणज्ञा विनता तत्तथेत्यन्वमन्यत ॥ ७.१४.१०४ ॥
ततः कृतार्थं तं तस्याः कृतपाणिग्रहं नृपः ।
दत्तासुरपुराइश्वर्यं सत्त्वशीलमुवाच सः ॥ ७.१४.१०५ ॥
बुक्तयोः आमलकयोस्तयोः एकं मया तव ।
संशोधितमसंशुद्धाद् ऋणी तेऽहं द्वितीयतः ॥ ७.१४.१०६ ॥
इति प्रणतमुक्त्वा तं दैत्यपुत्रीं जगाद ताम् ।
मार्गो मे दर्श्यतां येन स्वपुरीं प्राप्नुयामिति ॥ ७.१४.१०७ ॥
ततोऽपराजितं नाम खड्गं भक्ष्यं फलं च सा ।
एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ ॥ ७.१४.१०८ ॥
ताभ्यां युक्तस्तयोक्तायां वाप्यं मग्नः स्वदेशतः ।
उत्थाय सर्वसंसिद्धकामोऽभूत्सः क्रमान्नृपः ॥ ७.१४.१०९ ॥
सत्त्वशीलोऽपि दैत्यस्त्रीपुरराज्यं शशास सः ।
तत् ब्रूहि कोऽप्धिपतने द्वयोः सत्त्वाधिकोऽनयोः ॥ ७.१४.११० ॥
इति श्रुत्वा तथा प्रश्नं वेतालाच्छपभीतितः ।
सस्त्रिविक्रमसेनस्तं भूपतिः प्रत्यभाषत ॥ ७.१४.१११ ॥
एतयोः सत्त्वशीलोऽत्र स मे सत्त्वाधिको मतः ।
सः ह्यविज्ञाततत्त्वार्थो निरास्थः पतितोऽम्बुधौ ॥ ७.१४.११२ ॥
राजा तु तत्त्वं विज्ञाय विवेशाम्भःधिमास्थया ।
दैत्यकन्यां च नावञ्छदसाध्या स्पृहयेति सः ॥ ७.१४.११३ ॥
इति तस्याकर्ण्य वचो निरस्तमौनस्य भूपतेः स्कन्धात् ।
सः जगाम पूर्ववत्तं वेतालः शिंशपातरुं स्वपदम् ॥ ७.१४.११४ ॥
राजापि तथैव सस्तं पुनोऽप्यानेतुमनुजगाम जवात् ।
प्रारब्धे ह्यसमाप्ते कार्ये शिथिलीभवन्ति किं सुधियः ॥ ७.१४.११५ ॥
गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः ।
तं त्रिविक्रमसेनोऽत्र स्कन्धे कृत्वोच्चचाल सः ॥ ८.१५.१ ॥
प्रयान्तं सः पुनस्तं च वेतालः स्कन्धतोऽब्रवीत् ।
श्रमविस्मृतये राजन्मत्तः प्रश्नमिमं शृणु ॥ ८.१५.२ ॥
अङ्गदेशेऽग्रहारोऽस्ति महान् वृक्षघटाभिधः ।
विष्णुस्वामीति तत्रासीद्द्विजो यज्वा महाधनः ॥ ८.१५.३ ॥
तस्य च स्वानुरूपायां पत्न्यां जाताः क्रमात्त्रयः ।
बभूवुः तरुणाः पुत्राः दिव्यवैदग्ध्यशालिनः ॥ ८.१५.४ ॥
ते पित्रा प्रेषिताः तेन कूर्महेतोः कदाचन ।
प्रारब्धयज्ञेन ययुः ते त्रयो भ्रातरोऽम्बुधिम् ॥ ८.१५.५ ॥
प्राप्य कूर्मं ततः ज्यायान्कनिष्ठौ तवभाषत ।
गृह्णातु युवयोः एकः कूर्मं क्रतुकृते पितुः ॥ ८.१५.६ ॥
अहमेतं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् ।
इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठौ तववोचताम् ॥ ८.१५.७ ॥
तवात्र विचिकित्सा चेन्नावयोरपि सा कथम् ।
तच्छ्रुत्वा सोऽब्रवीत् ज्येष्ठः गृह्णीतं गच्छतं युवाम् ॥ ८.१५.८ ॥
पितुः यज्ञक्रियालोपो भवेत् युष्मत्कृतोऽन्यथा ।
ततो नरकपातः स्यात् युवयोस्तस्य च ध्रुवम् ॥ ८.१५.९ ॥
इत्युक्तवनुजौ तेन तौ विहस्य तमूचतुः ।
धर्मं वेत्स्यावयोः एव समानमपि नात्मनः ॥ ८.१५.१० ॥
ततः ज्येष्ठोऽब्रवीत् किं मे जानीथो नैव चङ्गताम् ।
अहं भोजनचङ्गोऽस्मि नार्हः स्प्रष्टुं जुगुप्सितम् ॥ ८.१५.११ ॥
एतत्तस्य वचः श्रुत्वा भ्रातरं मध्यमोऽब्रवीत् ।
अहं तर्ह्यधिकश्चङ्गो नारीचङ्गो विचक्षणः ॥ ८.१५.१२ ॥
मध्यमेनैवमुक्ते तु ज्यायान् पुनरुवाच सः ।
कूर्मं गृह्णातु तर्ह्येषः कनीयान्नावयोः इति ॥ ८.१५.१३ ॥
ततः स भ्रुकुटिं कृत्वा कनीयान्नप्युवाच तौ ।
हे मूर्खौ तूलिकाचङ्गश्चङ्गोऽहं हि विशेषतः ॥ ८.१५.१४ ॥
एवं ते कलहासक्ताः त्रयोऽपि भ्रातरो मिथः ।
निर्णयायाभिमानैकग्रस्ताः कूर्मं विहाय तम् ॥ ८.१५.१५ ॥
राज्ञः प्रसेनजित्नाम्नस्तत्प्रदेशभुवोऽन्तिकम् ।
नगरं सहसा जग्मुः विटङ्कपुरनामकम् ॥ ८.१५.१६ ॥
तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च ।
नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते ॥ ८.१५.१७ ॥
तिष्ठतेहैव यावत् वः परीक्षिष्ये क्रमादहम् ।
इत्युक्तस्तेन राज्ञा च तस्थुः तत्र तथेति ते ॥ ८.१५.१८ ॥
स्वाहारकाले चानाय्य तेभ्यः सोऽग्रासनं नृपः ।
राजार्हं दापयामास षड्रसं स्वादुभोजनम् ॥ ८.१५.१९ ॥
भुञ्जानेषु च सर्वेषु तदैकः बुभुजे न सः ।
विप्रो भोजनचङ्गोऽत्र जुगुप्साकूणिताननः ॥ ८.१५.२० ॥
कथं न भोजनं भुङ्क्ते ब्रह्मन् स्वादु सुगन्ध्यपि ।
इति रज्ञा स्वयं पृष्टः शनैः विप्रः जगाद सः ॥ ८.१५.२१ ॥
शवधूमदुःआमोदः शालिभक्तेऽत्र विद्यते ।
तेन नाहमिदं भोक्तुमुत्सहे स्वाद्वपि प्रभो ॥ ८.१५.२२ ॥
इत्युक्ते तेन सर्वेऽपि तत्राघ्राय नृपाज्ञया ।
ऊचुः कलमशाल्यन्नमदोषं तत्सुगन्धि च ॥ ८.१५.२३ ॥
सस्तु भोजनचङ्गस्तन्नाश्नात्पिहितनासिकः ।
ततः स राजा सञ्चिन्त्य यावदन्विष्यति क्रमात् ॥ ८.१५.२४ ॥
तावन्नियोगिजनतस्तदन्नं बुबुधे तथा ।
ग्रामश्मशाननिकटक्षेत्रसम्भवशालिजम् ॥ ८.१५.२५ ॥
ततोऽतिविस्मितस्तुष्टः स राजा तमभाषत ।
सत्यं भोजनचङ्गस्त्वं तदन्यद्भुज्यतामिति ॥ ८.१५.२६ ॥
कृताहारश्च स नृपो विप्रान् वासगृहेषु तान् ।
विसृज्यानाययामास स्वमेकां गणिका-उत्तमाम् ॥ ८.१५.२७ ॥
तां च तस्मै द्वितीयस्मै प्राहिणोत् कृतमण्डनाम् ।
विप्राय नारिचङ्गाय सायं सर्वाङ्गसुन्दरीम् ॥ ८.१५.२८ ॥
सा च वासगृहं तस्य राजभृत्यान्विता ययौ ।
राकानिशेव पुर्णैन्दुमुखी कम्दर्पदीपिनी ॥ ८.१५.२९ ॥
प्रविष्टायां च तस्यां सः प्रभाभासितवेश्मनि ।
उत्पन्नमूर्च्छः संरुद्धनासाग्रो वामपाणिना ॥ ८.१५.३० ॥
नारीचङ्गोऽब्रवीत् राजभृत्यान् निष्कास्यतामिति ।
न चेन्मृतोऽहं निर्याति गन्धोऽस्याः छागलो यतः ॥ ८.१५.३१ ॥
इत्युक्ताः तेन निन्युः ते विग्नां तां राजपूरुषाः ।
राज्ञोऽन्तिकं वारवधूं वृत्तान्तं जगदुः च तम् ॥ ८.१५.३२ ॥
राजाप्यानाय्य तत्कालं नारीचङ्गमुवाच तम् ।
येयं श्रीखण्डकर्पूरकालागुरुमदौत्तमैः ॥ ८.१५.३३ ॥
कृतप्रसाधना दिक्षु प्रसरत्चारुसौरभा ।
तस्याः वारविलासिन्या गन्धः स्यात् छागलः कुतः ॥ ८.१५.३४ ॥
इत्युक्तोऽपि स राज्ञा तन्नारीचङ्गस्तदा न यत् ।
प्रतिपेदे तदा राजा विचारपतितोऽभवत् ॥ ८.१५.३५ ॥
पृच्छन् च युक्त्या बुबुधे तामजक्षीरवर्धिताम् ।
तत्मुखात् एव बालत्वे मातृधात्रीवियोगतः ॥ ८.१५.३६ ॥
ततोऽतिविस्मितस्तस्य नारीचङ्गस्य चङ्गताम् ।
प्रशंसन् नृपतिः तस्मै तृतीयाय द्विजन्मने ॥ ८.१५.३७ ॥
तत्रसात्तूलिकाचङ्गायाशु शय्यामदापयत् ।
पर्यङ्कौपरि विन्यस्तसप्तसङ्ख्याकतूलिकाम् ॥ ८.१५.३८ ॥
तस्यां च तूलिकाचङ्गो महार्हे वासवेस्मनि ।
सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि ॥ ८.१५.३९ ॥
यामार्धे एव च गते स रात्रौ शयनात्ततः ।
उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन् व्यथार्दितः ॥ ८.१५.४० ॥
ददृशे तस्य पार्श्वे च तत्र त्यैः राजपूरुषैः ।
गाढलग्नस्य बालस्य मुद्रेव कुटिलारुणा ॥ ८.१५.४१ ॥
गत्वा च तैः तदाख्यातं राज्ञे राजाप्युवाच तान् ।
तूलिकानां तले किम्चिन्मा स्यात्तत् वीक्ष्यतामिति ॥ ८.१५.४२ ॥
गत्वेक्षन्ते च ते यावत् एकैकं तूलिकातलम् ।
तावत्सर्वतलाद् आपुर्वालं पर्यङ्कपृष्टतः ॥ ८.१५.४३ ॥
नीत्वा चादर्शयन् राज्ञे सोऽप्यानीतस्य वीक्ष्य तत् ।
तत्रूपं तूलिकाचङ्गस्याङ्गं राजा विसिस्मिये ॥ ८.१५.४४ ॥
सप्तभ्यस्तूलिकाभ्योऽस्य वालः लग्नस्तनौ खतम् ।
इति चित्रीयमाणस्तां राजा रात्रिं निनाय सः ॥ ८.१५.४५ ॥
प्रातश्चाद्भुतवैदग्ध्यसौकुमार्याः अमीति ।
तेभ्यस्त्रिभ्योऽपि चङ्गेभ्यः हेमलक्षत्रयं ददौ ॥ ८.१५.४६ ॥
ततस्ते सुखिताः तत्र तस्थुः विस्मृतकच्छपाः ।
पितुः विघ्नितयज्ञार्थफलौपार्जितपातकाः ॥ ८.१५.४७ ॥
इत्याख्याय कथाद्भुतमंसनिषण्णः पुनः स वेतालः ।
पप्रच्छ तं त्रिविक्रमसेनं पृथ्वीपतिं प्रश्नम् ॥ ८.१५.४८ ॥
राजन् विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वमेतेषाम् ।
भोजननारीशय्याचङ्गानां कोऽधिकश्चङ्गः ॥ ८.१५.४९ ॥
तच्छ्रुत्वैव सः धीमान् वेतालं प्रत्युवाच तं नृपतिः ।
अहमेषां निःकैतवमधिकं जानामि तूलिकाचङ्गम् ॥ ८.१५.५० ॥
यस्याङ्गे प्रत्यक्षं वालप्रतिबिम्बमुद्गतं दृष्टम् ।
इतराभ्यां हि भवेत्तत्पूर्वं जात्वन्यतोऽवगतम् ॥ ८.१५.५१ ॥
इति तस्योक्तवतोऽंसात् वेतालो भूपतेः ययौ प्राग्वत् ।
सोऽपि तथैव च राजा तमन्वयासीदनिर्विण्णः ॥ ८.१५.५२ ॥
ततः गत्वा पुनस्तस्माच्छिंशपापादपान्नृपः ।
सस्त्रिविक्रमसेनस्तं स्कन्धे वेतालमग्रहीत् ॥ ९.१६.१ ॥
प्रस्थितश्च ततस्तेन वेतालेनाभ्यधायि सः ।
राजन्क्व राज्यं क्वैतस्मिन् श्मशाने भ्रमणं निशि ॥ ९.१६.२ ॥
किमेतन्नेक्षसे भूतसङ्कुलं रात्रिभीषणम् ।
चिताधूमैः इव ध्वान्तैः निरुद्धं पितृकाननम् ॥ ९.१६.३ ॥
कष्टं कीदृक् ग्रहोऽयं ते भिक्षोस्तस्यानुरोधतः ।
तत् इदं शृणु तावन्मे प्रश्नं मार्गविनोदनम् ॥ ९.१६.४ ॥
अवन्तिष्वस्ति नगरी युगादौ देवनिर्मिता ।
शैवी तनुः इवोद्दामभोगिभूतिविभूषिता ॥ ९.१६.५ ॥
पद्मावती भोगवती या हिरण्यवतीति च ।
कृतादिषु त्रिषु ख्याता कलावुज्जयिनीति च ॥ ९.१६.६ ॥
तस्यां च वीरदेवाख्यो राजाभूत् भूभृतां वरः ।
तस्य पद्मरतिः नाम महादेवी बभूव च ॥ ९.१६.७ ॥
सोऽथ राजा तया साकं गत्वा मन्दाकिनीतटे ।
हरमाराधयामास तपसा पुत्रकाम्यया ॥ ९.१६.८ ॥
चिरं तपःस्थितश्चात्र परितुष्ट-ईश्वरौदिताम् ।
कृतस्नानार्चनविधिः शुश्रावेमां गिरं दिवः ॥ ९.१६.९ ॥
राजन्नुत्पत्स्यते पुत्रः शूरस्तव कुलौद्भवः ।
ख़न्या चानन्यसामान्यलावण्यन्यक्कृताप्सराः ॥ ९.१६.१० ॥
श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः ।
वीरदेवः स्वनगरीमाययौ महिषीसखः ॥ ९.१६.११ ॥
तत्रास्य शूरदेवाख्ये जाते प्रथममात्मजे ।
तस्यां पद्मरतौ देव्यां क्रमादजनि कन्यका ॥ ९.१६.१२ ॥
अनङ्गस्यापि रूपेण रतिमुत्पादयेत् इयम् ।
इत्यनङ्गरतिः नाम्ना पित्रा तेन व्यधायि सा ॥ ९.१६.१३ ॥
वृद्धिं गतायाः तस्याः च सः पिता सदृशं वरम् ।
प्रेप्सुः आनाययत्पृथ्व्यां पटेषु लिखिथान् नृपान् ॥ ९.१६.१४ ॥
तेष्वेकोऽपि न यत्तस्य तत्तुल्यः प्रत्यभासत ।
तेन राजा स वात्सल्यात्तां सुतां प्रत्यभाषत ॥ ९.१६.१५ ॥
अहं तावन्न पश्यामि सदृशं पुत्रि ते वरम् ।
तत् कुरुष्व नृपान् सर्वान्मेलयित्वा स्वयम्वरम् ॥ ९.१६.१६ ॥
एतत्पितृवचः श्रुत्वा राजपुत्री जगाद सा ।
तात स्वयम्वरं कर्तुं ह्रेपणान्नाहमुत्सहे ॥ ९.१६.१७ ॥
किं त्वेकं वेत्ति योऽपूर्वं विज्ञानं स्वाकृतिः युवा ।
तस्मै त्वयाहं दातव्या नार्थोऽन्येनाधिकेन मे ॥ ९.१६.१८ ॥
इत्यनङ्गरतेः तस्याः श्रुत्वा स्वदुहितुः वचः ।
तादृशं तत्वरं यावदन्विष्यति स भूपतिः ॥ ९.१६.१९ ॥
तावत्तत्लोकतः बुद्ध्वा चत्वारस्तमुपाययुः ।
वीराः विज्ञानिनो भव्याः पुरुषाः दक्षिणापथात् ॥ ९.१६.२० ॥
ते राज्ञा पूजिताः तस्मै स्वं स्वं विज्ञानमेकशः ।
शशंसुः सन्निधौ तस्याः राजपुत्र्याः ततर्थिनः ॥ ९.१६.२१ ॥
एकः जगाद शूद्रोऽहमाख्यया पञ्चपट्टिकः ।
पञ्चाग्र्यवस्त्रयुग्मानि करोम्येकोऽहमन्वहम् ॥ ९.१६.२२ ॥
तेभ्यः एकं प्रयच्छामि देवायैकं द्विजन्मने ।
एकं च परिगृह्णामि वाससोः आत्मनः कृते ॥ ९.१६.२३ ॥
एकं ददामि भार्यायै यदि सा भवतीह मे ।
एकं विक्रीय चाहारपानादि विदधाम्यहम् ॥ ९.१६.२४ ॥
एवं विज्ञनिनेऽनङ्गरतिः मे दीयतामिति ।
इत्येकेनोदिते तेन द्वितीयः पुरुषोऽब्रवीत् ॥ ९.१६.२५ ॥
भाषाज्ञो नाम वैश्योऽहं सर्वेषां मृगपक्षिणाम् ।
रुतं वेद्मि तत् एषा मे राजपुत्री प्रदीयताम् ॥ ९.१६.२६ ॥
एवमुक्ते द्वितीयेन तृतीयः प्रोक्तवान् ततः ।
अहं खड्गधरो नाम दोःशाली क्षत्रियो नृप ॥ ९.१६.२७ ॥
न खड्गविद्याविज्ञाने प्रतिमल्लोऽस्ति मे क्षितौ ।
तत् एषा तनया राजन् त्वया मह्यं वितीर्यताम् ॥ ९.१६.२८ ॥
इत्युक्ते तु तृतीयेन चतुर्थः इदमभ्यधात् ।
विप्रोऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशम् ॥ ९.१६.२९ ॥
जन्तूं मृतान्नप्यानीय दर्शयाम्याशु जीवतः ।
तत्वीरचर्यासिद्धं मां पतिमेषा प्रपद्यताम् ॥ ९.१६.३० ॥
एवं वक्त्क़्न् सस्तान् पश्यन्दिव्यवेषाकृतीन् नृपः ।
वीरदेवः सुतायुक्तः दोलारूढः इवाभवत् ॥ ९.१६.३१ ॥
इत्याख्याय कथामेतां वेतालः पृष्टवान् नृपम् ।
सस्त्रिविक्रमसेनं तं दत्तपूर्वौक्तशापभीः ॥ ९.१६.३२ ॥
तत् भवान् वक्तु तावन्मे कस्मै देया विशाम्पते ।
तेषां चतुर्णां मध्यात्सा कन्यानङ्गरतिः भवेत् ॥ ९.१६.३३ ॥
एतच्छ्रुत्वा स राजा तं वेतालं प्रत्यभाषत ।
मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् ॥ ९.१६.३४ ॥
अन्यथा गहनः कोऽयं प्रश्नो योग-ईश्वरोच्यताम् ।
शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥ ९.१६.३५ ॥
वैश्यायापि कथं देया क्षत्रिया यच्च तत् गतम् ।
मृगादिभाषाविज्ञानं कार्ये तत् क्वोपयुज्यते ॥ ९.१६.३६ ॥
योऽपि विप्रस्तृतीयोऽत्र तेनापि पतितेन किम् ।
स्वकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना ॥ ९.१६.३७ ॥
तस्मात्तस्मै क्षत्रियाय चतुर्थाय समाय सा ।
देया खड्गधरायैव स्वविद्यावीर्यशालिने ॥ ९.१६.३८ ॥
एतत्तस्य वचो निशम्य नृपतेः अंसस्थलात्पूर्ववत्
वेतालः सः जगाम योगबलतः स्वस्थानमेवाशु तत् ।
भूपालोऽपि सस्तं तथैव पुनोऽप्यानेतुमन्वक् ययौ
उत्साहैकघने हि वीरहृदये नाप्नोति खेदोऽन्तरम् ॥ ९.१६.३९ ॥
सस्त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः ।
राजा जग्राह वेतालं पुनोऽंसे चचाल च ॥ १०.१७.१ ॥
प्रयान्तं च तमाह स्म वेतालः सोऽंसपृष्ठगः ।
श्रान्तोऽसि राजन् तत् इमां शृणु श्रमहरां कथाम् ॥ १०.१७.२ ॥
अभूत्सकलभूपालमस्तकन्यस्तशासनः ।
वीरबाहुः इति ख्यातो नाम्ना पार्थिवसत्तमः ॥ १०.१७.३ ॥
तस्यानङ्गपुरं नाम बभूव नगरौत्तमम् ।
तत्रासीदर्थदत्ताख्यः सार्थवाहो महाधनः ॥ १०.१७.४ ॥
तस्यासीद्धनदत्ताख्यज्येष्ठपुत्रकनीयसी ।
सुता मदनसेनेति कन्यारत्नं वणिक्पतेः ॥ १०.१७.५ ॥
तामेकदा निजौद्याने क्रीडन्तीं ससखीजनाम् ।
ददर्श धर्मदत्ताख्यो भ्रातृमित्रं वणिक्सुतः ॥ १०.१७.६ ॥
सस्तामालोक्य लावण्यरसनिःभरनिःझराम् ।
आलक्ष्य कुचकुम्भाग्रां वलित्रयतरङ्गिताम् ॥ १०.१७.७ ॥
यौवनद्विरदस्येव क्रीडामज्जनवापिकाम् ।
सद्योऽभूत्स्मरबाणओघसन्तापहृतचेतनः ॥ १०.१७.८ ॥
अहो धाराधिरूढेन रूपेण द्योतितामुना ।
इयं मे मानसं भेत्तुं भल्ली मारेण निर्मिता ॥ १०.१७.९ ॥
इत्यादि यावद्ध्यायन् स निर्वर्णयति तां चिरम् ।
तावत्तस्यातिचक्राम चक्राह्वस्येव वासरः ॥ १०.१७.१० ॥
ततो मदनसेना सा विवेश स्वगृहान्तरम् ।
चित्तं च धर्मदत्तस्य ततनालोकनव्यथा ॥ १०.१७.११ ॥
ततदर्शनदुःखाग्निसन्तापेनेव च ज्वलन् ।
लोहितो निपपाताशु भास्वान्नप्यपराम्बुधौ ॥ १०.१७.१२ ॥
तां विज्ञायैव सुमुखीं नक्तमभ्यन्तरे गताम् ।
उदियाय शनैः चन्द्रस्तत्मुखाब्जविनिर्जितः ॥ १०.१७.१३ ॥
तावत् गत्वा गृहं तां सः धर्मदत्तोऽनुचिन्तयन् ।
तस्थौ निपत्य शयने चन्द्रपादाहतः लुठन् ॥ १०.१७.१४ ॥
यत्नेन पृच्छ्यमानोऽपि सखिभिः बन्धुभिः तथा ।
न किम्चित् कथयामास स्मरग्रहविमोहितः ॥ १०.१७.१५ ॥
निशि कृच्छ्राच्च सम्प्राप्तनिद्रः स्वप्ने तथैव ताम् ।
पश्यन्ननुनयन्कान्तां किं किं चक्रे न सोत्सुकः ॥ १०.१७.१६ ॥
प्रातः प्रबुद्धः गत्वा च ददर्शैकाकिनीं रहः ।
सखीं प्रतीक्षमानां तां तत्रोद्यानस्थितां पुनः ॥ १०.१७.१७ ॥
उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः ।
तामुपच्छन्दयामास वचोभिः चरणानतः ॥ १०.१७.१८ ॥
कन्याहं परदाराः च न तवास्मीह सम्प्रतम् ।
पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः ॥ १०.१७.१९ ॥
दिनैः कतिपयैः एव विवाहो भविता च मे ।
तत् गच्छ तूष्णीं मा कश्चित्पश्येद्दोषो भवेत्ततः ॥ १०.१७.२० ॥
इत्युक्तः सस्तयात्यर्थं धर्मदत्तः जगाद ताम् ।
यदस्तु मे न जीवेयं विना हि भवतीमहम् ॥ १०.१७.२१ ॥
तच्छ्रुत्वा सा वाणिक्कन्या बलात्कारभयाकुला ।
तमुवाच विवाहो मे तावत्सम्पद्यतामिह ॥ १०.१७.२२ ॥
कन्यादानफलं तातः प्राप्नोतु चिरकाङ्क्षितम् ।
ततोऽहं त्वामुपैष्यामि निःचितं प्रणयार्जिता ॥ १०.१७.२३ ॥
श्रुत्वैतत्सोऽब्रवीन्नेष्टा ह्यन्यपूर्वा मम प्रिया ।
परभुक्ते हि कमले किमलेः जायते रतिः ॥ १०.१७.२४ ॥
इत्युक्ता तेन सावादीत् कृतौद्वाहैव तर्ह्यहम् ।
पूर्वं त्वामुपयास्यामि ततोऽभ्येष्यामि तं पतिम् ॥ १०.१७.२५ ॥
एवमुक्तवतीं तस्मिन् नोज्झति प्रत्ययं विना ।
वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा ॥ १०.१७.२६ ॥
ततस्तेनोज्झता विग्ना सा विवेश स्वमन्दिरम् ।
प्राप्ते च लग्नदिवसे निर्वृत्तौद्वाहमङ्गला ॥ १०.१७.२७ ॥
गत्वा पतिगृहं नीत्वा सोत्सवेन च तत्दिनम् ।
सा पत्या सममध्यास्त शयनीयगृहं निशि ॥ १०.१७.२८ ॥
तत्र शय्यानिषण्णापि न तस्य प्रत्यपद्यत ।
पत्युः समुद्रदत्तस्य परिष्वङ्गमसम्मुखी ॥ १०.१७.२९ ॥
तेनानुनीयमानापि यत् उदश्रुः बभूव सा ।
तत्सो नाभिमतोऽस्म्यस्याः नूनमित्यकरोत् हृदि ॥ १०.१७.३० ॥
जगाद चानभिमतो यद्यहं तव सुन्दरि ।
तन्मे नार्थस्त्वया गच्छ यः प्रियस्तव तं प्रति ॥ १०.१७.३१ ॥
तच्छ्रुत्वा सा नतमुखी शनैः एवमुवाच तम् ।
त्वं मे प्राणाधिकः प्रेयान् विज्ञप्तिं किं तु मे शृणु ॥ १०.१७.३२ ॥
अनुतिष्ठ सहर्षं च प्रयच्छ च ममाभयम् ।
कुरुष्व शपथं यावदार्यपुत्र वदामि ते ॥ १०.१७.३३ ॥
एवमुक्तवती कृच्छ्रात्तथा तेन कृते पुनः ।
सलज्जं सविषादं च सभयं च जगाद सा ॥ १०.१७.३४ ॥
एकाकिनीं गृहौद्याने दृष्ट्वा मामेकदा युवा ।
अरुणद्धर्मदत्ताख्यः सखा भ्रातुः स्मरातुरः ॥ १०.१७.३५ ॥
रक्षन्त्या सपरीवादं कन्यादानफलं पितुः ।
मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥ १०.१७.३६ ॥
पूर्वं कृतविवाहा त्वामुपैष्यामि ततः प्रियम् ।
तन्मे सत्यवचः पाल्यमनुमन्यस्व तत्प्रभो ॥ १०.१७.३७ ॥
यावत्तन्निकटं गत्वा क्षणेनोपैमि तेऽन्तिकम् ।
न हि शक्नोम्यतिक्रान्तुं सत्यमाबाल्य सेवितम् ॥ १०.१७.३८ ॥
इति तस्याः वचःवज्रपातेन सहसा हतः ।
समुद्रदत्तः सत्येन बद्धः क्षणमचिन्तयत् ॥ १०.१७.३९ ॥
अहो धिक् अन्यरक्तेयं गन्तव्यं ध्रुवमेतया ।
तत्सत्यं हन्मि किं यातु कोऽस्याः परिणयग्रहः ॥ १०.१७.४० ॥
इत्यालोच्यानुमेने तां यथा-इष्टगमनाय सः ।
साप्युत्थाय ततस्तस्मान्निर्ययौ पतिवेश्मनः ॥ १०.१७.४१ ॥
तावदत्रोदयाद्रीन्द्रहर्म्याग्रं हिमदीधितिः ।
आरुरोह कराक्रान्तहसत्पूर्वदिकङ्गनः ॥ १०.१७.४२ ॥
ततस्तमःस्वप्याश्लिष्य स्थितेष्वद्रिदरी प्रियाः ।
सेवमानेषु भृङ्गेष्वप्यपरं कुमुदाकरम् ॥ १०.१७.४३ ॥
यान्ती मदनसेना सा मार्गे दृष्ट्वैकका निशि ।
चौरेणाधाव्य केनापि रुरुधे वसनाञ्चले ॥ १०.१७.४४ ॥
का त्वं ब्रूहि क्व यासीति तेनोक्ता बिभ्यती च सा ।
उवाच किं तवानेन मुञ्च कार्यमिहास्ति मे ॥ १०.१७.४५ ॥
ततश्चौरोऽब्रवीन्मत्तश्चौरात्त्वं मुच्यसे कथम् ।
तच्छ्रुत्वा सावदत्तं च गृहाणाभरणानि मे ॥ १०.१७.४६ ॥
अथ चौरोऽभ्यधान्मुग्धे किमेभिः उपलैः मम ।
चन्द्रकान्ताननां तार्क्ष्यरत्नासितशिरःरुहाम् ॥ १०.१७.४७ ॥
वज्रमध्यां सुवर्णाङ्गीं पद्मरागाङ्घ्रिहारिणीम् ।
जगताभरणं नैव मोक्ष्यामि भवतीमहम् ॥ १०.१७.४८ ॥
इत्युक्ता तेन चौरेण विवशा सा वणिक्सुता ।
आख्याय निजवृत्तान्तमेवं प्रार्थयते स्म तम् ॥ १०.१७.४९ ॥
क्षमस्व मे क्षणं यावत् कृत्वा सत्यानुपालनम् ।
इहस्थस्यैव ते पार्श्वमागमिष्यामि सत्वरम् ॥ १०.१७.५० ॥
नाहमुल्लङ्घयिष्यामि भद्र सत्यामिमां गिरम् ।
श्रुत्वैतत्सत्यसन्धां तां मत्वा चौरो मुमोच सः ॥ १०.१७.५१ ॥
तस्थौ प्रतीक्षमानश्च तत्रैव सस्ततागमम् ।
सापि तस्यान्तिकं धर्मदत्तस्य वणिजो ययौ ॥ १०.१७.५२ ॥
सश्चाभीष्टामपि प्राप्तां तथा तां विजने स्थिताम् ।
दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणमब्रवीत् ॥ १०.१७.५३ ॥
सत्येन तव तुष्टोऽस्मि किं त्वया मे परस्त्रिया ।
यावत्त्वां नेक्षते कश्चित्तावत् गच्छ यथागतम् ॥ १०.१७.५४ ॥
इति तेन परित्यक्ता सा तथेत्याययौ ततः ।
चौरस्य निकटं तस्य प्रतिपालयतः पथि ॥ १०.१७.५५ ॥
ब्रूहि कस्तेऽत्र वृत्तान्तः गतायाः इति पृच्छते ।
तस्मै सा तेन वणिजा यथा मुक्ता तथाब्रवीत् ॥ १०.१७.५६ ॥
ततः सश्चौरोऽवादीत्तां यद्येवं तन्मयाप्यसि ।
विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज ॥ १०.१७.५७ ॥
एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना ।
अलुप्तशीला मुदिता पत्युः एवाययौ गृहम् ॥ १०.१७.५८ ॥
तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती ।
दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वमवर्णयत् ॥ १०.१७.५९ ॥
सोऽप्यलुप्तमुखछायां तामसम्भोगलक्षणाम् ।
सम्भाव्याभग्नचारित्रां सत्यलाभरतां सतीम् ॥ १०.१७.६० ॥
अदृष्टमनसं भार्यामभिनन्द्य कुलौचितम् ।
तस्थौ समुद्रदत्तोऽथ तया सह यथासुखम् ॥ १०.१७.६१ ॥
इति तत्र कथामुक्त्वा पितृवनभूमौ तदा स वेतालः ।
वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः ॥ १०.१७.६२ ॥
तत् ब्रूहि चौरवणिजामेषां मध्यान्नरेन्द्र कस्त्यागी ।
जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा ॥ १०.१७.६३ ॥
तच्छ्रुत्वा स महीपतिः उज्झितमौनस्तमाह वेतालम् ।
एषां चौरस्त्यागी न पुनो वणिजावुभवपि तौ ॥ १०.१७.६४ ॥
यः हि पतिः तामजहादत्याज्यां तादृशीं विवाह्यपि ।
कुलजः सोऽन्यासक्तां भार्यां जानन्कथं वहतु ॥ १०.१७.६५ ॥
योऽप्यपरः स भयात्तामत्याक्षीत् कालजीर्णसंवेगः ।
विदितार्थो भर्तास्याः प्रातः ब्रूयान्नृपायेति ॥ १०.१७.६६ ॥
चौरस्तु गुप्तचारी निरपेक्षः पापकर्मकृत्प्राप्तम् ।
स्त्रीरत्नं यदमुञ्चत्साभरणं तेन सस्त्यागी ॥ १०.१७.६७ ॥
एतच्छ्रुत्वैवांसतस्तस्य राज्ञो वेतालोऽगात्पूर्ववत्स्वं पदं सः ।
राजा भूयोऽप्यत्र सम्प्राप्तुमेतत्प्रायात् एव
अखन्डितौद्दामधैर्यः ॥ १०.१७.६८ ॥
ततः गत्वा पुनः प्राप्य शिंशपातोऽग्रहीन्नृपः ।
सस्त्रिविक्रमसेनोऽंसे वेतालं तं चचाल च ॥ ११.१८.१ ॥
आयान्तं च तमंसस्थो वेतालः सोऽब्रवीन्नृपम् ।
राजन् विचित्रामेकां ते वर्णयामि कथां शृणु ॥ ११.१८.२ ॥
उज्जयिन्यामभूत्पूर्वं नाम्ना धर्मध्वजो नृपः ।
तिस्रस्तस्याभवन् भार्याः राजपुत्र्योऽतिवल्लभाः ॥ ११.१८.३ ॥
एका तास्विन्दुलेखेति तारावल्यपरा तथा ।
नाम्ना मृगाङ्कवत्यन्या निःसामान्यवपुःगुणाः ॥ ११.१८.४ ॥
ताभिः स विहरन् राजा राज्ञीभिः तिसृभिः सह ।
आसाञ्चक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥ ११.१८.५ ॥
एकदा तत्र सम्प्राप्ते वसन्तसमयौत्सवे ।
प्रियाभिः सहितस्ताभिः उद्यानं क्रीडितुं ययौ ॥ ११.१८.६ ॥
तत्रालिमालामौर्वीकाः पश्यन् पुष्पानताः लताः ।
चापयष्टीः अनङ्गस्य मधुना सज्जिताः इव ॥ ११.१८.७ ॥
शृण्वन् च तत्द्रुमाग्रस्थकोकिलौदीरितां गिरम् ।
सम्भोगैकरसस्याज्ञामिव मानसजन्मनः ॥ ११.१८.८ ॥
सिषेवेऽन्तःपुरैः साकं स राजा वासवौपमः ।
पानं मदस्य कन्दर्पजीवितस्यापि जीवितम् ॥ ११.१८.९ ॥
तत्निःश्वाससुगन्धीनि तत्बिम्बओष्ठरुचीनि च ।
प्रियापीतावशेषाणि पिबन् रेमे मधूनि सः ॥ ११.१८.१० ॥
तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहात् ।
तस्याः पपात कर्णाग्रात् उत्सङ्गे त्वङ्गद् उत्पलम् ॥ ११.१८.११ ॥
तेनोरुपृष्ठे सहसा क्षते जातेऽभिघातजे ।
अभिजाता महादेवी हा हेत्युक्त्वा मुमूर्च्छ सा ॥ ११.१८.१२ ॥
तद्दृष्ट्वा विह्वलेनार्त्या राज्ञा परिजनेन च ।
समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः ॥ ११.१८.१३ ॥
ततो नीत्वा स राजा तां राजधानीं भिषक्कृतैः ।
प्रियामुपाचरद्दिव्यैः आमुक्तव्रणपट्टिकाम् ॥ ११.१८.१४ ॥
रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया ।
तारावल्या सहारोहच्चन्द्रप्रासादमीश्वरः ॥ ११.१८.१५ ॥
तत्र तस्याङ्कसुप्तायाः राज्ञस्तस्याः हिमत्विषः ।
कराः जालपथैः पेतुः अङ्गे चलितवाससि ॥ ११.१८.१६ ॥
ततः क्षणात्प्रबुद्धा सा हा दग्धास्मीति वादिनी ।
शयनात्सहसोत्तस्थौ ततङ्गपरिमर्शिनी ॥ ११.१८.१७ ॥
किमेतत् इति सम्भ्रान्तः प्रबुद्धोऽथ ददर्श सः ।
उत्थाय राजा विस्फोटान्नङ्गे तस्याः विनिर्गतान् ॥ ११.१८.१८ ॥
पृच्छन्तं सा च तं प्राह राज्ञी तारावली तदा ।
नग्नाङ्गे पतितैः इन्दोः करैः एतत् कृतं मम ॥ ११.१८.१९ ॥
इत्युक्तवत्याः क्रन्दन्त्याः सार्तिः आह्वयति स्म सः ।
तस्याः परिजनं राजा विह्वलाकुलधावितम् ॥ ११.१८.२० ॥
तेनास्याः कारयामास सजलैः नलिनीदलैः ।
शय्यामदापयच्चाङ्गे श्रीखण्डार्द्रविलेपनम् ॥ ११.१८.२१ ॥
तावत् बुद्ध्वा तृतीयास्य सा मृगाङ्कवती प्रिया ।
तत्पार्श्वमागन्तुमनाः निर्ययौ निजमन्दिरात् ॥ ११.१८.२२ ॥
निर्गता साशृणोत् क्वापि गृहे धान्यावघातजम् ।
निःशब्दायां निशि व्यक्तं विदूरे मुसलध्वनिम् ॥ ११.१८.२३ ॥
श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ ।
उपाविशत् व्यथाक्रान्ता मार्गे सा मृगलोचना ॥ ११.१८.२४ ॥
ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा ।
स्वमेवान्तःपुरं बालाः रुदती शयनेऽपतत् ॥ ११.१८.२५ ॥
ददर्श तत्र तस्याः च चिन्वन् साश्रुः परिच्छदः ।
आलीनभ्रमरौ पद्मविव हस्तौ किणाङ्कितौ ॥ ११.१८.२६ ॥
गत्वा च सोऽब्रवीत् राज्ञे राजाप्यागत्य विह्वलः ।
किमेतत् इति पप्रच्छ सोऽथ धर्मध्वजः प्रियाम् ॥ ११.१८.२७ ॥
सापि प्रदर्श्य हस्तौ तमित्युवाच रुजान्विता ।
श्रुते मुसलशब्दे मे जतवेतौ किणाङ्कितौ ॥ ११.१८.२८ ॥
ततः सः दाहशमनं दापयामास हस्तयोः ।
तस्याः चन्दनलेपादि राजाद्भुतविषादवान् ॥ ११.१८.२९ ॥
एकस्याः उत्पलेनापि पतता क्षतमाहितम् ।
द्वितीयस्याः पुनः दग्धमङ्गं शशिकरैरपि ॥ ११.१८.३० ॥
एकस्याः तु तृतीयस्याः श्रुतेनापि विनिर्गताः ।
कष्टं मुसलशब्देन हस्तयोः ईदृशाः किणाः ॥ ११.१८.३१ ॥
अहो युगपत् एतासां प्रेयसीनां ममाधुना ।
गुणोऽप्यत्यभिजातत्वं जातः दोषाय दैवतः ॥ ११.१८.३२ ॥
इति चिन्तयतस्तस्य भ्रमतोऽन्तःपुरेषु च ।
त्रियामा शतयामेव कृच्छ्रात्सा नृपतेः ययौ ॥ ११.१८.३३ ॥
प्रातश्च स भिषक्षल्यहर्तृभिः सह संव्यधात् ।
तथा यथाभूदचिरात्स्वस्थान्तःपुरनिर्वृत्तः ॥ ११.१८.३४ ॥
एवमेतां कथामुक्त्वा वेतालोऽत्यद्भुतां तदा ।
सस्त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपम् ॥ ११.१८.३५ ॥
अभिजाततरैतासु राजन् राज्ञीषु का वद ।
पूर्वौक्तः सोऽस्तु शापस्ते जानन् यदि न जल्पसि ॥ ११.१८.३६ ॥
तच्छ्रुत्वा सोऽब्रवीत् राजा सुकुमारतरात्र सा ।
अस्पृष्टे मुसले यस्याः शब्देनैवोद्गताः किणाः ॥ ११.१८.३७ ॥
उत्पलैन्दुकरैः स्पर्शे वृत्ते त्वितरयोः द्वयोः ।
सञ्जाताः व्रणविस्फोटाः तेन तस्याः न ते समे ॥ ११.१८.३८ ॥
इति तस्योक्तवतोऽंसात् राज्ञो भूयः जगाम सः स्वपदम् ।
वेतालः सश्च राजा तथैव तं सुदृढनिश्चयोऽनुययौ ॥ ११.१८.३९ ॥
सस्त्रिविक्रमसेनोऽथ पुनस्तं शिंशपातरुम् ।
गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तम् ॥ १२.१९.१ ॥
प्रतस्थे च तमादाय तूष्णीमेव सः पूर्ववत् ।
ततो भूयस्तमाह स्म वेतालः सोऽंसपृष्ठतः ॥ १२.१९.२ ॥
राजन् एवमनुद्विग्नः पर्याप्तमसि मे प्रियः ।
तत् एतां शृण्वखेदाय हृद्यामाख्यामि ते कथाम् ॥ १२.१९.३ ॥
अङ्गदेशे यशःकेतुः इति राजाभवत्पुरा ।
क्ष्मामाश्रितोऽङ्गगुप्त्यर्थमदग्धोऽन्यः इव स्मरः ॥ १२.१९.४ ॥
बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च ।
दीर्घदर्शीत्यभून्मन्त्री शक्रस्येव बृहस्पतिः ॥ १२.१९.५ ॥
तस्मिन्मन्त्रिणि विन्यस्य राज्यं सः हतकण्टकम् ।
शनैः सुखैकसक्तोऽभूत् वयःरूपमदान्नृपः ॥ १२.१९.६ ॥
तस्थवन्तःपुरे शश्वन्नास्थाने प्रमदास्पदे ।
शुश्राव रक्तिमत् गीतं वचनं न हितैषिणाम् ॥ १२.१९.७ ॥
रज्यति स्म च निःचिन्तः जालवातायनेषु सः ।
न पुनो राजकार्येषु बहुछिद्रेषु जात्वपि ॥ १२.१९.८ ॥
दीर्घदर्शी तु तत् राज्यचिन्ताभारं समुद्वहन् ।
अतिष्ठत्सो महामन्त्री दिवानिशमतन्द्रितः ॥ १२.१९.९ ॥
नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपम् ।
मन्त्री राज्ञः श्रियं भुण्क्ते दीर्घदर्शीह साम्प्रतम् ॥ १२.१९.१० ॥
इत्युत्पन्ने महत्यत्र जनवादेऽथ गेहिनीम् ।
स्वैरं मेधाविनीं नाम दीर्घदर्शी जगाद सः ॥ १२.१९.११ ॥
प्रिये राज्ञि सुखासक्ते तत्भारं वहतोऽपि मे ।
राज्यं भक्षितमेतेनेत्युत्पन्नमयशः जने ॥ १२.१९.१२ ॥
लोकवादश्च मिथ्यापि महतामिह दोषकृत् ।
तत्याज किं न रामोऽपि जनवादेन जानकीम् ॥ १२.१९.१३ ॥
तदत्र किं मया कार्यमित्युक्ते तेन मन्त्रिणा ।
भार्या मेधाविनी धीरा सान्वर्था तमभाषत ॥ १२.१९.१४ ॥
तीर्थयात्रापदेशेन युक्त्यापृच्छ्य महीपतिम् ।
कम्चित् कालं विदेशं ते गन्तुं युक्तं महामते ॥ १२.१९.१५ ॥
एवं ते निःस्पृहस्यैष जनवादो निवर्त्स्यति ।
त्वय्यस्थिते ततो राज्यमुद्वक्ष्यति नृपः स्वयम् ॥ १२.१९.१६ ॥
ततश्चास्य शनैः एतत् व्यसनं हानिमेष्यति ।
आगतस्यात्र निःगर्हा भवित्री मन्त्रिता च ते ॥ १२.१९.१७ ॥
इत्युक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः ।
कथाप्रसङ्गे तं भूपं यशःकेतुं व्यजिज्ञपत् ॥ १२.१९.१८ ॥
अनुजानीहि मां राजन्दिवसान्कान्चिदप्यहम् ।
व्रजामि तीर्थयात्रायै धर्मः हि प्रेप्सितः स मे ॥ १२.१९.१९ ॥
तच्छ्रुत्वा सोऽब्रवीत् राजा मैवं तीर्थैः विना परः ।
दानादिः किं न धर्मोऽस्ति स्वर्ग्यस्ते स्वगृहेष्वपि ॥ १२.१९.२० ॥
अथावोचत्सो मन्त्री तमर्थशुद्धि-आदि मृग्यते ।
दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥ १२.१९.२१ ॥
यावच्च यौवनं राजन् तावत् गम्यानि धीमता ।
अविश्वास्ये शरीरे हि सङ्गमस्तैः कुतोऽन्यदा ॥ १२.१९.२२ ॥
इति तस्मिन् वदत्येव राज्ञि चैवं निषेधति ।
प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपत् ॥ १२.१९.२३ ॥
देव व्योमसरःमध्यमंशुमाली विगाहते ।
तत् उत्तिष्ठत सैषा वः स्नानवेलातिवर्तते ॥ १२.१९.२४ ॥
श्रुत्वैतत्सहसा स्नातुमुदतिष्ठन्महीपतिः ।
यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ ॥ १२.१९.२५ ॥
तत्रावस्थाप्य भार्यां तामनुयात्रानिवारिताम् ।
सः प्रतस्थे ततो युक्त्या स्वभृत्यैरप्यतर्कितः ॥ १२.१९.२६ ॥
एकाकी च भ्रमन् तान् तान्देशान् तीर्थानि च व्रजन् ।
सः प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिःचयः ॥ १२.१९.२७ ॥
तत्र पत्तन एकस्मिन्नदूरेऽप्धेः प्रविश्य सः ।
एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥ १२.१९.२८ ॥
तत्रार्ककरसन्तापक्लान्तं दूराध्वधूसरम् ।
ददर्श निधिदत्ताख्यो वणिक् देवार्चनागतः ॥ १२.१९.२९ ॥
सस्तं तथाविधं दृष्ट्वा सौपवीतं सुलक्षणम् ।
सम्भाव्य चोत्तमं विप्रमातिथेयोऽनयत् गृहम् ॥ १२.१९.३० ॥
तत्र चापूजयत्स्नानभोजनाद्यैः तमुत्तमैः ।
कः कुतस्त्वं क्व यासीति विश्रान्तं च सः पृष्टवान् ॥ १२.१९.३१ ॥
दीर्घदर्शीति विप्रोऽहमङ्गदेशात् इहागतः ।
तीर्थयात्रार्थमित्येव गाम्भीर्यात्सोऽप्युवाच तम् ॥ १२.१९.३२ ॥
ततः स निधिदत्तोऽपि तं जगाद महावणिक् ।
सुवर्णद्वीपगमनायोद्यतोऽहं वणिज्यया ॥ १२.१९.३३ ॥
तत्त्वं तिष्ठेह मत्गेहे यावत् एष्याम्यहं ततः ।
तीर्थयात्रापरिश्रान्तो विश्रान्तः ह्यथ यास्यसि ॥ १२.१९.३४ ॥
तच्छ्रुत्वा सोऽब्रवीद्दीर्घदर्शी तर्हि ममेह किम् ।
त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ १२.१९.३५ ॥
एवमस्त्विति तेनोक्ते साधुना सोऽथ तत्गृहे ।
चिरादवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ १२.१९.३६ ॥
अन्येद्युः अथ तेनैव वणिजा सह वारिधिम् ।
गत्वारुरोह तत्भाण्डपूर्णं प्रवहणं च सः ॥ १२.१९.३७ ॥
तेन गच्छन् प्रवहणेनाप्धिमद्भुतभीषणम् ।
विलोकयन् सः सम्प्राप स्वर्णद्वीपं क्रमेण तत् ॥ १२.१९.३८ ॥
क्व मन्त्रिमुख्यता चास्य क्व वाध्वौल्लङ्घिताम्बुधिः ।
अयशःभीरवः किं न कुर्वते बत साधवः ॥ १२.१९.३९ ॥
तत्र द्वीपे समं तेन कम्चित् कालमुवास सः ।
वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥ १२.१९.४० ॥
आगच्छन् च ततोऽकस्मात्तत्युक्तो वहनस्थितः ।
कल्पवृक्षं ददर्शाप्धावूर्मेः पश्चात्समुत्थितम् ॥ १२.१९.४१ ॥
प्रवालशाखासुभगैः स्कन्धैः जाम्बूनदौज्ज्वलैः ।
फलैः मणिमयैः कान्तैः कुसुमैः चोपशोभितम् ॥ १२.१९.४२ ॥
तस्य स्कन्धे च सद्रत्नपर्यङ्कौत्सङ्गवर्तिनीम् ।
कन्यामत्यद्भुताकारकमनीयामवैक्षत ॥ १२.१९.४३ ॥
अहो किमेतत् इत्येवं यावद्ध्यायति सः क्षणम् ।
तावत्सा वीणिनी कन्या गातुमेवं प्रचक्रमे ॥ १२.१९.४४ ॥
यत् कर्मबीजमुप्तं येन पुरा निःचितं सस्तत् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥ १२.१९.४५ ॥
इत्युद्गाय क्षणात्तस्मिन्नम्भःधौ दिव्यकन्यका ।
सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा ॥ १२.१९.४६ ॥
किमप्यपूर्वमद्येदं मया दृष्टमिहाद्भुतम् ।
क्वाप्धिः क्व दृष्टनष्टोऽत्र गायत्दिव्याङ्गनस्तरुः ॥ १२.१९.४७ ॥
यदि वा वन्द्यः एषोऽप्धिः आकरः शश्वत् ईदृशाम् ।
लक्ष्मी-इन्दुपारिजाताद्याः नास्मात्ते ते किमुद्गताः ॥ १२.१९.४८ ॥
इति तं चिन्तयन्तं च तत्क्षणं दीर्घदर्शिनम् ।
विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् ॥ १२.१९.४९ ॥
एवमेषा सदैवेह दृश्यते वरकन्यका ।
निमज्जति च तत्कालं तवैतद्दर्शनं नवम् ॥ १२.१९.५० ॥
इत्युक्तस्तैः समं तेन निधिदत्तेन सः क्रमात् ।
मन्त्री चित्रीयमाणोऽप्धेः तीरं पोतगतोऽभ्यगात् ॥ १२.१९.५१ ॥
तत्रोत्तारितभाण्डेन तेनैव वणिजा सह ।
जगाम हृष्टभृत्येन सौत्सवं सोऽथ तत्गृहम् ॥ १२.१९.५२ ॥
स्थित्वा नातिचिरं तत्र निधिदत्तमुवाच तम् ।
सार्थवाह भवत्गेहे विश्रान्तोऽहं चिरं सुखम् ॥ १२.१९.५३ ॥
इदानीं गन्तुमिच्छामि स्वदेशं भद्रमस्तु ते ।
इत्युक्त्वा तमनिच्छन्तमप्यामन्त्र्य वणिक्पतिम् ॥ १२.१९.५४ ॥
दीर्घदर्शी सः सत्त्वैकसहायः प्रस्थितस्ततः ।
क्रमौल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजम् ॥ १२.१९.५५ ॥
तत्र तं ददृशुः चाराः बहिः नगरमागतम् ।
ये यशःकेतुना राज्ञा प्राङ्न्यस्ताः तत्गवेषणे ॥ १२.१९.५६ ॥
तैः च गत्वा स विज्ञप्तश्चारैः राजा तमभ्यगात् ।
स्वयं निःगत्य नगरात्तत्विश्लेषसुदुःखितः ॥ १२.१९.५७ ॥
उपेत्य च परिष्वङ्गपूर्वं तमभिनन्द्य सः ।
निनायाभ्यन्तरं भूपश्चिराध्वक्षामधूसरम् ॥ १२.१९.५८ ॥
त्यक्त्वास्मान्किं त्वया नीतं न परं बत मानसम् ।
यावच्छरीरमप्येतन्निःस्नेहपरुषां दशाम् ॥ १२.१९.५९ ॥
किं वा भगवतो वेत्ति भवितव्यस्य कः गतिम् ।
यद् अकस्मात्तवैषाभूत्तीर्थादिगमने मतिः ॥ १२.१९.६० ॥
तत् ब्रूहि के त्वया भ्रान्ता देशाः दृष्टं च किं नवम् ।
इति तत्र च तं राजा सः जगाद स्वमन्त्रिणम् ॥ १२.१९.६१ ॥
ततः सुवर्णद्वीपान्तं सोऽध्वानं वर्णयन्क्रमात् ।
अप्धावुद्गमिनीं तस्मै तां दृष्टां दिव्यकन्यकाम् ॥ १२.१९.६२ ॥
गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थिताम् ।
यथावत् कथयामास दीर्घदर्शी महीभृते ॥ १२.१९.६३ ॥
सस्तां श्रुत्वैव च नृपस्तथा स्मरवशोऽभवत् ।
यथा तया विना मेने निष्फले राज्यजीविते ॥ १२.१९.६४ ॥
जगाद च तमेकान्ते नीत्वा स्वसचिवं तदा ।
द्रष्टव्यासौ मयावश्यं जीवितं नास्ति मेऽन्यथा ॥ १२.१९.६५ ॥
यामि त्वतुक्तेन पथा प्रणम्य भवितव्यताम् ।
निवारणीयो नाहं ते नानुगम्यश्च सर्व्था ॥ १२.१९.६६ ॥
गुप्तमेकः हि यास्यामि राज्यं रक्ष्यं तु मे त्वया ।
मत्वचो मान्यथा कार्षीः शापितोऽसि ममासुभिः ॥ १२.१९.६७ ॥
इत्युक्त्वा तत्प्रतिवचो निरस्य विससर्ज तम् ।
मन्त्रिणं स्वगृहं राजा चिरौत्कं स्वजनं प्रति ॥ १२.१९.६८ ॥
तत्रानल्पौत्सवेऽप्यासीद्दीर्घदर्शी सुदुःमनाः ।
स्वामिन्यसाध्यव्यसने सुखं सत्मन्त्रिणां कुतः ॥ १२.१९.६९ ॥
अन्येद्युः च सस्तथस्तन्यस्तराज्यभरो नृपः ।
यशःकेतुः ततः प्रायान्निशि तापसवेषभृत् ॥ १२.१९.७० ॥
गच्छन् च कुशनाभाख्यं मुनिं मार्गे ददर्श सः ।
सोऽत्र तं तापसाकल्पं प्रणतं मुनिः आदिशत् ॥ १२.१९.७१ ॥
लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ ।
गत्वा प्रप्स्यसि तामिष्टां कन्यां व्रज निःआकुलः ॥ १२.१९.७२ ॥
इति तत्वचसा प्रीताः तं प्रणम्य सः पार्थिवः ।
गच्छन्देशान् नदीः अद्रीन्क्रान्त्वा तं प्रापदम्बुधिम् ॥ १२.१९.७३ ॥
सुतारशङ्खधवलैः वीचिभ्रूभिः विकस्वरैः ।
वीक्षमाणमिवावर्तनेत्रैः आतिथ्यसम्भ्रमात् ॥ १२.१९.७४ ॥
तत्तीरे वणिजा तेन मुनिप्रोक्तेन सङ्गतिः ।
लक्ष्मीदत्तेन जज्ञेऽस्य स्वर्णद्वीपं यियासुना ॥ १२.१९.७५ ॥
तेनैव सह चक्राङ्कपादमुद्रादि दर्शनात् ।
प्रह्वेणारुह्य वहनं प्रतस्थे सोऽम्बुधौ नृपः ॥ १२.१९.७६ ॥
मध्यमप्धेः च सम्प्राप्ते वहने वारिमध्यतः ।
उदगात् कल्पविटपिस्कन्धस्था सात्र कन्यका ॥ १२.१९.७७ ॥
यावत्पश्यति तां राजा चकोरः इव चन्द्रिकाम् ।
तावत्सा गायति स्मैवं वल्लकीवाद्यसुन्दरम् ॥ १२.१९.७८ ॥
यत् कर्मबीजमुप्तं येन पुरा निःचितं सस्तत् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥ १२.१९.७९ ॥
तस्मात् यत्र यथा यद् भवितव्यं यस्य दैवयोगेन ।
तत्र तथा तत्प्राप्त्यै विवशोऽसौ नीयतेऽत्र न भ्रान्तिः ॥ १२.१९.८० ॥
इति सूचितभव्यार्थां गायन्तीं तां विभावयन् ।
निःस्पन्दः सः क्षणं तस्थौ राजा स्मरशराहतः ॥ १२.१९.८१ ॥
रत्नाकर नमः सत्यमगाधहृदयाय ते ।
येन त्वयैतां प्रच्छाद्य विप्रलब्धः हरिः श्रिया ॥ १२.१९.८२ ॥
तत्सुरैरप्यलभ्यान्तं सपक्षक्ष्माभृताश्रयम् ।
शरणं त्वां प्रपन्नोऽहमिष्टसिद्धिं विधत्स्व मे ॥ १२.१९.८३ ॥
एवं यावत्समुद्रं तं स नतः स्तौति भूमिपः ।
तावत्सा कन्यका तत्र निममज्ज सपादपा ॥ १२.१९.८४ ॥
तद्दृष्ट्वैवानुमार्गेऽस्याः स राजात्मानमक्षिपत् ।
वारिधवत्र कामाग्निसन्तापस्येव शान्तये ॥ १२.१९.८५ ॥
तत् वीक्ष्याशङ्कितं मत्वा विनष्टं तं सः सत्जनः ।
लक्ष्मीदत्तो वणिक् दुःखाद्देहत्यागौद्यतोऽभवत् ॥ १२.१९.८६ ॥
मा कार्षीः साहसं नास्ति मग्नस्यास्याम्भुधौ भयम् ।
एषो राजा यशःकेतुः नाम्ना तापसवेषभृत् ॥ १२.१९.८७ ॥
एतत् कन्यार्थमायातः पूर्वभार्येयमस्य च ।
एतां प्राप्य पुनश्चासवङ्गराज्यं समेष्यति ॥ १२.१९.८८ ॥
इत्यथाश्वासितो वाचा तत्कालं गगनौत्थया ।
सार्थवाहो यथाकामं सः जगामेष्टसिद्धये ॥ १२.१९.८९ ॥
सो राजापि यशःकेतुः निमग्नोऽन्तो महा-उदधौ ।
अकस्मान्नगरं दिव्यमपश्यत् जातविस्मयः ॥ १२.१९.९० ॥
भास्वत्मणिमयस्तम्भैः काञ्चनौज्ज्वलभित्तिभिः ।
विराजमानं प्रासादैः मुक्ताजालगवाक्षकैः ॥ १२.१९.९१ ॥
नानारत्नशिलापट्टबद्धसोपानवापिकैः ।
कामदैः कल्पवृक्षाढ्यैः उद्यानैः उपशोभितम् ॥ १२.१९.९२ ॥
समृद्धेऽपि पुरे तत्र निःजनेऽथ गृहं गृहम् ।
अनुप्रविश्य न यदा तां ददर्श प्रियां क्वचित् ॥ १२.१९.९३ ॥
तदा विचिन्वन्दृष्ट्वैकमुत्तुङ्गं मणिमन्दिरम् ।
आरुह्य द्वारमुद्घाट्य प्रविवेश स भूपतिः ॥ १२.१९.९४ ॥
प्रविश्य चान्तः सत्रत्नपर्यङ्कस्थितमेककम् ।
वस्त्राच्छादितसर्वाङ्गं शयानं कम्चिदैक्षत ॥ १२.१९.९५ ॥
किं स्यात्सैवेति सौत्कण्ठमुद्घाटयति तत्मुखम् ।
यावत्तावदपश्यत्तां स्व-ईप्सितामेव सोऽङ्गनाम् ॥ १२.१९.९६ ॥
स्रस्तनीलांशुकध्वान्तहसत्मुखशशिश्रियम् ।
ज्योत्स्नावदातां पातालगतामिव दिवा निशाम् ॥ १२.१९.९७ ॥
तत्दर्शनेन चास्याभूदवस्था कापि सा तदा ।
ग्रीष्मऋतौ मरुपान्थस्य सरित्सन्दर्शनेन या ॥ १२.१९.९८ ॥
साप्युन्मीलितचक्षुः तं कल्याणाकृतिलक्षणम् ।
वीक्ष्याकस्मात्तथाप्राप्तं सम्भ्रमाच्छयनं जहौ ॥ १२.१९.९९ ॥
कृतातिथ्या नतमुखी पूजयन्तीव पादयोः ।
फुल्ल-ईक्षणौत्पलन्यासैः शनैः एतमुवाच च ॥ १२.१९.१०० ॥
को भवान्किमगम्यं च प्रविष्ठोऽसि रसातलम् ।
राजचिह्नाङ्किततनोः किं च ते तापसव्रतम् ॥ १२.१९.१०१ ॥
इत्यादिश महाभाग प्रसादो यदि ते मयि ।
एवं तस्याः वचः श्रुत्वा स राजा प्रत्युवाच ताम् ॥ १२.१९.१०२ ॥
अङ्गराजो यशःकेतुः इति नाम्नास्मि सुन्दरि ।
आप्तादन्वहदृश्यां च त्वामश्रौषमिहाम्बुधौ ॥ १२.१९.१०३ ॥
ततस्त्वतर्थं कृत्वेमं वेषं राज्यं विमुच्य च ।
आगत्यैष प्रविष्टोऽहमनुमार्गेण तेऽम्बुधिम् ॥ १२.१९.१०४ ॥
तन्मे कथय कासि त्वमित्युक्ते तेन चाथ सा ।
सलज्जा सानुरागा च सानन्दा चैवमभ्यधात् ॥ १२.१९.१०५ ॥
मृगाङ्कसेनः इत्यस्ति श्रीमान् विद्याधराधिपः ।
मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुतामिमाम् ॥ १२.१९.१०६ ॥
सो मामस्मिन् स्वनगरे विमुच्यैकाकिनीं पिता ।
न जाने हेतुना केन गतः क्वापि सपौरकः ॥ १२.१९.१०७ ॥
तेनाहं शून्यवसतेः निर्विण्णोन्मज्ज्य वारिधेः ।
यन्त्रकल्पद्रुमारूढा गायामि भवितव्यताम् ॥ १२.१९.१०८ ॥
एवमुक्तवती तेन स्मरता तन्मुनेः वचः ।
तथारज्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥ १२.१९.१०९ ॥
यथानुरागविवशा भार्यात्वं तस्य तत्क्षणम् ।
अङ्गीचकार वीरस्य समयं त्वेकमभ्यधात् ॥ १२.१९.११० ॥
शुक्लकृष्णचतुर्दश्यामष्टम्यां चार्यपुत्र ते ।
प्रतिमासमनायत्ता चतुरः दिवसान्नहम् ॥ १२.१९.१११ ॥
यत्र क्वापि दिनेष्वेषु गच्छन्ती चास्मि न त्वया ।
प्रष्टव्या न निषेद्धव्या कारणं ह्यत्र विद्यते ॥ १२.१९.११२ ॥
एवं तामुक्तसमयां स राजा दिव्यकन्यकाम् ।
तथेत्युक्त्वैव गान्धर्वविधिना परिणीतवान् ॥ १२.१९.११३ ॥
भेजे ततश्च सम्भोगसुखं तत्र तया सह ।
यथाभूदन्यः एवास्याः मान्मथो मण्डनक्रमः ॥ १२.१९.११४ ॥
केशेषु स्रस्तमाल्येषु कचग्रहनखावली ।
बिम्बाधरेऽथ निष्पीतनीरागे दशनक्षतिः ॥ १२.१९.११५ ॥
कुचयोः करजश्रेणिः भिन्नमाणिक्यमालयोः ।
लुप्ताङ्गरागेष्वङ्गेषु गाढालिङ्गनरागिता ॥ १२.१९.११६ ॥
इति तत्दिव्यसम्भोगसुखावस्थितमत्र तम् ।
सा मृगाङ्कवती भार्या भूपं प्राहेदमेकदा ॥ १२.१९.११७ ॥
त्वमिहैव प्रतीक्षेथाः कार्यार्थं क्वापि याम्यहम् ।
अद्य सैषा हि सम्प्राप्ता मम कृष्णचतुर्दशी ॥ १२.१९.११८ ॥
इहस्थस्त्वार्यपुत्रामुं मा स्म गाः स्फाटिकं गृहम् ।
मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि ॥ १२.१९.११९ ॥
इत्युक्त्वा सा तमामन्त्र्य ययौ तस्मात्पुरात् बहिः ।
राजापि प्राप्तखड्गस्तां छन्नः जिज्ञासुः अन्वगात् ॥ १२.१९.१२० ॥
तत्रापश्यत्तमःश्यामं व्यात्तवक्रबिलं च सः ।
साकारमिव पातालमायान्तं राक्षसं नृपः ॥ १२.१९.१२१ ॥
सो राक्षसो निपत्यैव मुक्तघोररवस्तदा ।
तां मृगाङ्कवतीं वक्त्रे निक्षिप्यैव निगीर्णवान् ॥ १२.१९.१२२ ॥
तद्दृष्ट्वैवातिकोपेन सहसा सः ज्वलन् इव ।
निःमोकमुक्तभुजगश्यामलेन महासिना ॥ १२.१९.१२३ ॥
कोषाकृष्टेन धावित्वा राजसिंहोऽभिधावतः ।
चिच्छेद रक्षसस्तस्य सन्दष्टओष्ठपुटं शिरः ॥ १२.१९.१२४ ॥
रक्षःकबन्धवान्तेन राज्ञस्तस्यास्रवारिणा ।
क्रोधजोऽथ शशामाग्निः न तु कान्तावियोगजः ॥ १२.१९.१२५ ॥
ततो मोहनिशान्धेऽस्मिन् विनष्टगतिके नृपे ।
अकस्मान्मेघमलिनस्याङ्गं भित्त्वेव रक्षसः ॥ १२.१९.१२६ ॥
तस्योद्योतितदिक्चक्रा चन्द्रमूर्तिः इवामला ।
सा मृगाङ्कवती जीवन्त्यक्षताङ्गी विनिर्ययौ ॥ १२.१९.१२७ ॥
तां तथा सङ्कटौत्तीर्णां दृष्ट्वा कान्तां ससम्भ्रमम् ।
एह्येहीति वदन् राजा प्रधाव्यैवालिलिङ्ग सः ॥ १२.१९.१२८ ॥
प्रिये किमेतत्स्वप्नोऽयमुत मायेति तेन सा ।
पृष्टा नृपेण संस्मृत्य विद्याधर्येवमब्रवीत् ॥ १२.१९.१२९ ॥
शृण्वार्यपुत्र न स्वप्नो न मायेयमयं पुनः ।
विद्याधरेन्द्रात्स्वपितुः शापोऽभूत् ईदृशो मम ॥ १२.१९.१३० ॥
बहुपुत्रोऽपि सः हि मे पिता पूर्वं वसन् इह ।
मया विनातिवात्सल्यान्नाहरमकरोत्सदा ॥ १२.१९.१३१ ॥
अहं च सर्वदा शर्वपूजासक्तेह निःजने ।
चतुर्दश्योरथाष्टम्योः आगच्छं पक्षयोः द्वयोः ॥ १२.१९.१३२ ॥
एकदा च चतुर्दश्यामिहागत्य रसान्मम ।
चिरं गौरीं समर्चन्त्या दैवादवसितं दिनम् ॥ १२.१९.१३३ ॥
तदहर्मत्प्रतीक्षः सन्क्षुधितोऽपि स मत्पिता ।
नाभुङ्क्त नापिबत् किम्चिदासीत् क्रुद्धस्तु मां प्रति ॥ १२.१९.१३४ ॥
ततो रात्रावुपेतां मां सापराधामधःमुखीम् ।
भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः ॥ १२.१९.१३५ ॥
यथा त्वतवलेपेन ग्रस्तोऽद्याहमयं क्षुधा ।
मासि मासि तथाष्टम्योः चतुर्दश्योः च केवलम् ॥ १२.१९.१३६ ॥
हरार्चनरसात् यन्तीमत्रैव त्वां बहिः पुरे ।
नाम्ना कृतान्तसन्त्रासो राक्षसो निगरिष्यति ॥ १२.१९.१३७ ॥
भित्त्वा भित्त्वास्य हृदयं जीवन्ती च निरेष्यसि ।
न स्मरिष्यसि शापं च न तां निगरणव्यथाम् ॥ १२.१९.१३८ ॥
स्थास्यस्येकाकिनी चात्रेत्युक्तशापवचाः शनैः ।
सोऽनुनीतो मया ध्यात्वा शापान्तं मेऽब्रवीत्पिता ॥ १२.१९.१३९ ॥
भर्ता भूत्वा यशःकेतुनामाङ्गनृपतिः यदा ।
राक्षसेन निगीर्णां त्वां दृष्ट्वा तं निहनिष्यति ॥ १२.१९.१४० ॥
तदा त्वं मोक्ष्यसे शापात् हृदयात्तस्य निःगता ।
संस्मरिष्यसि शापादि विद्याः सर्वाः तथा निजाः ॥ १२.१९.१४१ ॥
इत्यादिश्य सः शापान्तं त्यक्त्वा मामेककामिह ।
निषधाद्रिं गतस्तातो भूलोकं सपरिच्छदः ॥ १२.१९.१४२ ॥
अहं तथा चरन्ती च शापमोहात् इहावसम् ।
क्षीणश्चैष सः शापो मे जाता सर्वत्र च स्मृतिः ॥ १२.१९.१४३ ॥
तत्तातपार्श्वमधुना निषधाद्रिं व्रजाम्यहम् ।
शापान्ते स्वां गतिं यामेत्येष समयः हि नः ॥ १२.१९.१४४ ॥
त्वमिहास्स्व स्वराष्ट्रं वा व्रज स्वातन्त्र्यमत्र ते ।
एवं तयोक्ते स नृपः दुःखितोऽर्थयते स्म ताम् ॥ १२.१९.१४५ ॥
सप्ताहानि न गन्तव्यं प्रसीद सुमुखि त्वया ।
क्षिपाव तावदौत्सुक्यमुद्याने क्रीडनैः इह ॥ १२.१९.१४६ ॥
त्वं गच्छाथ पितुः स्थानं यास्याम्यहमपि स्वकम् ।
एतत्तत्वचनं मुग्धा तथेत्यङ्गीचकार सा ॥ १२.१९.१४७ ॥
ततोऽत्र रेमे सस्तया सहोद्यानेषु कान्तया ।
सजलौत्पलनेत्रासु वापीषु षडहं नृपः ॥ १२.१९.१४८ ॥
मा स्म यातं विहायास्मान् इति पूत् कुर्वतीष्विव ।
उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥ १२.१९.१४९ ॥
सप्तमेऽह्नि स युक्त्या तां प्रियां तत्रानयत् गृहे ।
भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका ॥ १२.१९.१५० ॥
तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः ।
उत्तस्थौ स्वपुरौद्यानवापीमध्यात्तया सह ॥ १२.१९.१५१ ॥
तत्र कान्तासखं प्राप्तं तं दृष्ट्वोद्यानपालकाः ।
हृष्टाः तन्मन्त्रिणे गत्वा जगदुः दीर्घदर्शिने ॥ १२.१९.१५२ ॥
सोऽप्येत्य पादपतितस्तमानीत-ईप्सिताङ्गनम् ।
दृष्ट्वा प्रावेशयन्मन्त्री सपौरोऽभ्यन्तरं नृपम् ॥ १२.१९.१५३ ॥
अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना ।
व्योम्नीव विद्युत् इव या क्षणदृश्या मयेक्षिता ॥ १२.१९.१५४ ॥
यत् यस्य लिखितं धात्रा ललाटाक्षरपङ्क्तिषु ।
तदवश्यमसम्भाव्यमपि तस्योपतिष्ठते ॥ १२.१९.१५५ ॥
इत्यत्र मन्त्रिमुख्येऽस्मिन्ध्यायत्यन्यजनेऽपि च ।
दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसौत्सवे ॥ १२.१९.१५६ ॥
सा मृगाङ्कवती दृष्ट्वा तं स्वदेशगतं नृपम् ।
इयेष पूर्णसप्ताहा यातुं वैद्याधरीं गतिम् ॥ १२.१९.१५७ ॥
नाविरासीच्च विद्यास्याः स्मृताप्युत्पतनी तदा ।
ततः सा मुषितेवात्र विषादमगमत्परम् ॥ १२.१९.१५८ ॥
किमकस्मात् विषण्णेव दृश्यसे वद मे प्रिये ।
इत्युक्ता तेन राज्ञा सा विद्याधर्येवमब्रवीत् ॥ १२.१९.१५९ ॥
स्थिताहं शापमुक्तापि त्वत्स्नेहात् यत् इयच्चिरम् ।
तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥ १२.१९.१६० ॥
तच्छ्रुत्वा हन्त सिद्धेयं मम विद्याधरीति सः ।
राजा ततो यशःकेतुः पूर्णं चक्रे महा-उत्सवम् ॥ १२.१९.१६१ ॥
तद्दृष्ट्वा दीर्घदर्शी स मन्त्री गत्वा गृहं निशि ।
शयनीयगतोऽकस्मात् हृत्स्फोटेन व्यपद्यत ॥ १२.१९.१६२ ॥
ततोऽनुभूय तत्शोकं धृतराज्यभरः स्वयम् ।
यशःकेतुः चिरं तस्थौ स मृगाङ्कवतीयुतः ॥ १२.१९.१६३ ॥
इत्येतां कथयित्वा मार्गे तस्मै कथां स वेतालः ।
अवदत्पुनस्त्रिविक्रमसेनं नृपतिं तमंसगतः ॥ १२.१९.१६४ ॥
तत् ब्रूहि भूपते ते सम्पन्ने स्वामिनस्तथाभ्युदये ।
हृदयं सपदि स्फुटितं तस्य महामन्त्रिणः किमिति ॥ १२.१९.१६५ ॥
दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटत् हृदयम् ।
किं वा राज्यमभीप्सोः राजागमजेन दुःखेन ॥ १२.१९.१६६ ॥
एतच्च यदि न वक्ष्यसि मह्यं जानन्नपीह तत् राजन् ।
धर्मश्च तव विनङ्क्ष्यति यास्यति दलशः
च झटिति शिरः ॥ १२.१९.१६७ ॥
श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालम् ।
नैतत्तस्मिन्द्वयमपि शुभचरिते युज्यते हि मन्त्रिवरे ॥ १२.१९.१६८ ॥
किं तु स्त्रीमात्ररसात् उपेक्षितं येन भूभुजा राज्यम् ।
तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता ॥ १२.१९.१६९ ॥
तन्मे कष्टेऽपि कृते प्रत्युत दोषः बताधिकीभूतः ।
इति तस्य विभावयतः हृदयं तत्मन्त्रिणः स्फुटितम् ॥ १२.१९.१७० ॥
इत्युक्ते नरपतिना पुनः स मायी वेतालो निजपदमेव तत् जगाम ।
राजापि प्रसभमवाप्तुमन्वधावत् भूयः
अपि द्रुतमथ तं सः धीरचेताः ॥ १२.१९.१७१ ॥
अथ गत्वा पुनः प्राप्य शिंशपातस्ततो नृपः ।
सस्त्रिविक्रमसेनस्तं स्कन्धे वेतालमाददे ॥ १३.२०.१ ॥
आयान्तं च स वेतालो भूयस्तं नृपमब्रवीत् ।
राजन् शृणु कथामेकां सङ्क्षिप्तां वर्णयामि ते ॥ १३.२०.२ ॥
अस्ति वाराणसी नाम पुरी हरनिवासभूः ।
देवस्वामीति तत्रासीन्मान्यो नरपतेः द्विजः ॥ १३.२०.३ ॥
महाधनस्य तस्यैकः हरिस्वामीत्यभूत्सुतः ।
तस्य भार्या च लावण्यवतीत्यत्युत्तमाभवत् ॥ १३.२०.४ ॥
तिलोत्तमादिनाकस्त्रीनिःमाणे प्राप्तकौशलः ।
अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः ॥ १३.२०.५ ॥
तया सः कान्तया साकं हरिस्वामी कदाचन ।
रतिश्रान्तो ययौ निद्रां हर्म्ये चन्द्रांशुशीतले ॥ १३.२०.६ ॥
तत् कालं तेन मार्गेण कामचारी विहायसा ।
आगान्मदनवेगाख्यो विद्याधरकुमारकः ॥ १३.२०.७ ॥
सस्तत्र लावण्यवतीं पत्युः पार्श्वे ददर्श ताम् ।
सुप्तां रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥ १३.२०.८ ॥
तत्रूपहृतचित्तः सन्मदनान्धः सस्तत् क्षणम् ।
सुप्तामेव निपत्यैतां गृहीत्वा नभसा ययौ ॥ १३.२०.९ ॥
क्षणात्प्रबुद्धोऽथ युवा हरिस्वामी सस्तत्पतिः ।
प्राण-ईश्वरीमपश्यन् तामुदतिष्ठत्ससम्भ्रमः ॥ १३.२०.१० ॥
अहो किमेतत् क्व गता कुपिता सा नु किं मयि ।
छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्युत ॥ १३.२०.११ ॥
इत्यनेकविकल्पओघव्याकुलस्तामितस्ततः ।
हर्म्यप्रासादवलभीष्वन्विष्यन् सोऽभ्रमन्निशि ॥ १३.२०.१२ ॥
अगृहौद्यानतश्चिन्वन् यन्न प्राप कुतोऽपि ताम् ।
तत्सः शोकाग्निसन्तप्तो विललापाश्रुगद्गदम् ॥ १३.२०.१३ ॥
हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरी हा प्रिये ।
रात्र्या तुल्यगुणद्वेषात् किं नु सोढासि नानया ॥ १३.२०.१४ ॥
त्वया कान्त्या जितः बिभ्यत् इव चन्दनशीतलैः ।
करैरसुखयत् यो मां सोऽयमिन्दुः त्वया विना ॥ १३.२०.१५ ॥
लब्धान्तरः इवेदानीं तैः एव तुदति प्रिये ।
प्रज्वलद्भिः इवाङ्गारैः विषदिग्धैः इवाशुगैः ॥ १३.२०.१६ ॥
इत्यादि क्रन्दतस्तस्य सा हरिस्वामिनस्तदा ।
कृच्छ्रात् व्यतीयाय निशा न पुनो विरहव्यथा ॥ १३.२०.१७ ॥
प्रातः बिभेद विश्वस्य करैः सन्तमसं रविः ।
भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः ॥ १३.२०.१८ ॥
विलब्धः इव चक्राह्वैः तस्य तीर्णनिशैः तदा ।
भेजे शतगुनीभावं करुणाक्रन्दितध्वनिः ॥ १३.२०.१९ ॥
स्वजनैः सान्त्व्यमानोऽपि वियोगानलदीपितः ।
न च लेभे द्विजयुवा धृतिं तां प्रेयसीं विना ॥ १३.२०.२० ॥
इह स्थितमिह स्नातं कृतमत्र प्रसाधनम् ।
विहृतं च तयात्रेति ययौ त्वितः इतो रुदन् ॥ १३.२०.२१ ॥
मृता तावन्न सा तत् किमात्मैवं हन्यते त्वया ।
अवश्यं तामवाप्तासि जीवन् जातु कुतःचन ॥ १३.२०.२२ ॥
तद्धैर्यमवलम्बस्व तां गवेषय च प्रियाम् ।
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ॥ १३.२०.२३ ॥
इति बन्धुसुहृत्वाक्यैः बोधितः सोऽथ कृच्छ्रतः ।
दिनैः कैःचित् हरिस्वामी बबन्ध धृतिमास्थया ॥ १३.२०.२४ ॥
अचिन्तयच्च सर्वस्वं कृत्वा ब्राह्मणसादहम् ।
भ्रमामि तावत्तीर्थानि क्षपयाम्यघसञ्चयम् ॥ १३.२०.२५ ॥
पापक्षयात् हि तां जातु प्रियां भ्राम्यन्नवाप्नुयाम् ।
इत्यालोच्य यथावस्थं स्नानाद्युत्थाय सोऽकरोत् ॥ १३.२०.२६ ॥
अन्येद्युः च विचित्रान्नपानं सत्त्रे द्विजन्मनाम् ।
चकारावारितं किं च ददौ धनमशेषतः ॥ १३.२०.२७ ॥
ब्राह्मण्यमात्रवित्तस्य निःगत्यैव स्वदेशतः ।
प्रियाप्राप्तीच्छया सोऽथ तीर्थानि भ्रमितुं ययौ ॥ १३.२०.२८ ॥
भ्राम्यतश्च जगामास्य भीमः ग्रीष्मऋतुकेसरी ।
प्रचण्डादित्यवदनः दीप्ततत्रश्मिकेसरः ॥ १३.२०.२९ ॥
प्रियाविरहसन्तप्तपान्थनिःश्वासमारुतैः ।
न्यस्तौष्माणः इवात्युष्णाः वान्ति स्म च समीरणाः ॥ १३.२०.३० ॥
शुष्यत्विदीर्णपङ्काः च हृदयैः स्फुटितैः इव ।
जलाशया ददृशिरे घर्मलुप्ताम्बुसम्पदः ॥ १३.२०.३१ ॥
चीरीचीत्कारमुखराः तापम्लानदलाधराः ।
मधुश्रीविरहान्मार्गेष्वरुदन् इव पादपाः ॥ १३.२०.३२ ॥
तस्मिन्कालेऽर्कतापेन वियोगेन क्षुधा तृषा ।
नित्याध्वना च सः क्लान्तो विरूक्षक्षामधूसरः ॥ १३.२०.३३ ॥
भोजनार्थि हरिस्वामी प्राप ग्रामं क्वचित् भ्रमन् ।
पद्मनाभाभिधानस्य गृहं विप्रस्य सत्त्रिणः ॥ १३.२०.३४ ॥
तत्र दृष्ट्वा स भुञ्जानान् विप्रान्नभ्यन्तरे बहून् ।
द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिःचलः ॥ १३.२०.३५ ॥
तथास्थितं तमालोक्य सत्त्रिणस्तस्य गेहिनी ।
पद्मनाभस्य सञ्जातदया साध्वी व्यचिन्तयत् ॥ १३.२०.३६ ॥
अहो क्षुन्नाम गुर्व्येषा न कुर्यात् कस्य लाघवम् ।
यत् एवमयमन्नार्थी कोऽप्यास्ते द्वार्यधःमुखः ॥ १३.२०.३७ ॥
दूराध्वाभ्यागतः स्नातस्तावत् क्षीणैन्द्रियः क्षुधा ।
तत् एषश्चान्नदानस्य पात्रमित्यवधार्य सा ॥ १३.२०.३८ ॥
परमान्नभृतं साध्वी तस्मै सघृतशर्करम् ।
पात्रमुत्क्षिप्य पाणिभ्यामानीय प्रश्रिता ददौ ॥ १३.२०.३९ ॥
जगाद चैतं भुङ्क्ष्वैतत् गत्वा वापीतटे क्वचित् ।
इदं स्थानं समुच्छिष्टं भुञ्जानैः ब्राह्मनैः वृतम् ॥ १३.२०.४० ॥
तथेति सोऽन्नपात्रं तत् गृहीत्वा नातिदूरतः ।
गत्वा स्थापितवान् वाप्याः तटे वटतरोरधः ॥ १३.२०.४१ ॥
प्रक्षाल्य पाणिपादं च वाप्यामाचम्य चात्र सः ।
यावत् भक्षयितुं तुष्टः परमान्नमुपैति तत् ॥ १३.२०.४२ ॥
तावत् गृहीत्वा कृष्णाहिं चञ्च्वा पादयुगेन च ।
श्येनः कुतःचिदागत्य तरौ तस्मिन्नुपाविशत् ॥ १३.२०.४३ ॥
तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा ।
उत्क्रान्तजीवितस्यास्यात् विषलाला विनिर्ययौ ॥ १३.२०.४४ ॥
सा तत्राधःस्थिते तस्मिन्नन्नपात्रेऽपतत्तदा ।
तच्चादृष्ट्वा हरिस्वामी सः एत्यान्नमभुङ्क्त तत् ॥ १३.२०.४५ ॥
क्षुधार्तस्य तदा तस्य मृष्टान्नं तत् क्षणेन तत् ।
कृत्स्नं भुक्तवतस्तीव्रा प्रोदभूत् विषवेदना ॥ १३.२०.४६ ॥
अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् ।
यत् विषीभूतमन्नं मे सक्षीरघृटशर्करम् ॥ १३.२०.४७ ॥
इति जल्पन् विषार्तः सः हरिस्वामी परिस्खलन् ।
गत्वा तां सत्त्रिणस्तस्य विप्रस्योवाच गेहिनीम् ॥ १३.२०.४८ ॥
त्वत्दत्तात् विषमन्नान्मे जातं तत् विषमन्त्रिणम् ।
कम्चिन्ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ १३.२०.४९ ॥
इत्युक्त्वैव सस्तां साध्वीं किमेतत् इति विह्वलाम् ।
हरिस्वामी परावृत्तनेत्रः प्राणैः व्ययुज्यत ॥ १३.२०.५० ॥
ततः सा तेन निःदोषाप्यातिथेय्यपि सत्त्रिणा ।
भार्या निष्कासिता गेहान्मिथ्यातिथिवधक्रुधा ॥ १३.२०.५१ ॥
साप्युत्पन्नमृषावद्या सुशुभादपि कर्मणः ।
जातावमाना तपसे साध्वी तीर्थमशिशॄयत् ॥ १३.२०.५२ ॥
कस्य विप्रवधः सोऽस्तु सर्पश्येनान्नदेश्विति ।
तदभूद्धर्मराजाग्रे वादो नासीत्तु निःणयः ॥ १३.२०.५३ ॥
तत्त्रिविक्रमसेन त्वं रजन् ब्रूहि ममाधुना ।
कस्य सा ब्रह्महत्येति पूर्वः शापः सस्तेऽन्यथा ॥ १३.२०.५४ ॥
इति वेतालतो राजा श्रुत्वा शापनियन्त्रितः ।
सस्त्रिविक्रमसेनस्तं मुक्तमौनोऽब्रवीत् इदम् ॥ १३.२०.५५ ॥
तस्य तत्पातकं तावत्सर्पस्य यदि वास्य कः ।
विवशस्यापराधोऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ १३.२०.५६ ॥
अथ स्येनस्य तेनापि किं दुष्टं क्षुधितात्मना ।
अकस्मात्प्राप्तमानीय भक्ष्यं भक्षयता निजम् ॥ १३.२०.५७ ॥
दम्पत्योरन्नदात्रोः वा तयोः एकस्य वा कुतः ।
अभाव्यदोषौ धर्मैकप्रवृत्तौ तावुभौ यतः ॥ १३.२०.५८ ॥
तदहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः ।
अविचार्यैव यः ब्रूयात् एषामेकतमस्य ताम् ॥ १३.२०.५९ ॥
इत्युक्तवतोऽस्य नृपस्यांसात् भूयोऽप्यगात्सो वेतालः ।
निजपदमेव नृपोऽपि सः पुनोऽपि
धीरस्तमन्वगात् एव ॥ १३.२०.६० ॥
सस्त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः ।
भूयोऽप्यासाद्य वेतालं स्कन्धे जग्राह भूपतिः ॥ १४.२१.१ ॥
प्रस्थितं च तमुर्वी-ईशं स वेतालोऽभ्यधात्पुनः ।
राजन् श्रान्तोऽसि तच्चित्रां कथामाख्यामि ते शृणु ॥ १४.२१.२ ॥
अस्त्ययोध्येति नगरी राजधानी बभूव या ।
रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः ॥ १४.२१.३ ॥
तस्यां राजाभवत् वीरकेतुः नाम ररक्ष यः ।
क्षोणीमिमां महाबाहुः प्राकारो नगरीमिव ॥ १४.२१.४ ॥
तस्मिन्महीपतवस्यां पुर्यामेको महावणिक् ।
रत्नदत्ताभिधानोऽभूत् वणिक्नीवहनायकः ॥ १४.२१.५ ॥
नन्दयन्ती-अभिधानायां पत्न्यां तस्योदपद्यत ।
सुता रत्नवती नाम देवताराधनार्जिता ॥ १४.२१.६ ॥
सा च तस्य पितुः वेश्मन्यवर्धत मनस्विनी ।
रूपलावण्यविनयैः सहैव सहजैः गुणैः ॥ १४.२१.७ ॥
यौवनस्थां च तां तस्मात् रत्नदत्तान्न केवलम् ।
महान्तो वणिजो यावत् राजानोऽपि ययाचिरे ॥ १४.२१.८ ॥
सा तु पुम्द्वेषिणी नाइच्छत् भर्तारमपि वासवम् ।
प्राणत्यागौद्यता सेहे न विवाहकथामपि ॥ १४.२१.९ ॥
तेन तस्याः पिता तूष्णीं तस्थौ वात्सल्यदुःस्थितः ।
सश्च प्रवादोऽयोद्यायां तस्यां सर्वत्र पप्रथे ॥ १४.२१.१० ॥
अत्रान्तरे सदा चौरैः मुष्यमाणाः किलाखिलाः ।
सम्भूयात्र नृपं पौराः वीरकेतुं व्यजिज्ञपन् ॥ १४.२१.११ ॥
नित्यं मुष्यामहे चौरैः रात्रौ रात्रविह प्रभो ।
लक्ष्यन्ते ते च नास्माभिः तद्देवो वेत्तु यत्परम् ॥ १४.२१.१२ ॥
इति पौरैः स विज्ञप्तो राजा तामभितः पुरीम् ।
तस्करान्वेषणे छन्नान्नादिशत् रत्रिरक्षकान् ॥ १४.२१.१३ ॥
तेऽपि प्रापुः न यच्चौरान् पुरी सामुष्यतैव च ।
तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ ॥ १४.२१.१४ ॥
एकाकी चात्तशस्त्रोऽत्र भ्रमन् सोऽपश्यत् एकतः ।
एकं प्राकारपृष्टेन यान्तं कमपि पूरुषम् ॥ १४.२१.१५ ॥
निःशब्दपदविन्यासविचित्रगतिकौशलम् ।
सशङ्कलोलनयनं पश्यन्तं पृष्टतो मुहुः ॥ १४.२१.१६ ॥
अयं स नूनं चौरो मे मुष्णात्येकचरः पुरीम् ।
इति मत्वैव निकटं सस्तस्योपययौ नृपः ॥ १४.२१.१७ ॥
ततः सश्चौरः दृष्ट्वा तं नृपं कोऽसीत्यभाषत ।
चौरोऽहमिति राजा तं चौरं प्रत्यब्रवीत्सस्तम् ॥ १४.२१.१८ ॥
सोऽथ चौरोऽभ्यधाद्दृष्ट्वा तर्हि तुल्योऽसि मे सुहृत् ।
तत् एहि मत्गृहं तावन्मित्राचारं करोमि ते ॥ १४.२१.१९ ॥
तच्छ्रुत्वा सस्तथेत्युक्त्वा तेनैव सह भूपतिः ।
ययौ वनान्तःधरणीखातान्तःवर्ति तत्गृहम् ॥ १४.२१.२० ॥
अशेषभोगभोगाढ्यं भास्वत्दीपप्रकाशितम् ।
नवीनमिव पातालं बलिराजानधिष्ठितम् ॥ १४.२१.२१ ॥
तत्र प्रविष्टे तस्मिन् च कृतासनपरिग्रहे ।
राज्ञि सोऽभ्यन्तरगृहं प्रविवेशाथ तस्करः ॥ १४.२१.२२ ॥
तत् क्षणं च तमेत्यैका दासी तत्रावदन्नृपम् ।
महाभाग प्रविष्टस्त्वमिह मृत्युमुखे कथम् ॥ १४.२१.२३ ॥
एकचौरः ह्यसौ पापं निःगत्यातः करिष्यति ।
ध्रुवं विस्वासघातीति तदितस्त्वरितं व्रज ॥ १४.२१.२४ ॥
इत्युक्तः सस्तया राजा निःगत्यैव ततः द्रुतम् ।
गत्वा स्वराजधानीं च निशि सैन्यान्यसज्जयत् ॥ १४.२१.२५ ॥
सन्नद्धसैन्यश्चागत्य दस्योस्तस्य रुरोध तत् ।
भूगृहद्वारविवरं रसत्तूर्याकुलैः बलैः ॥ १४.२१.२६ ॥
ततो रुद्धे गृहे वृत्तं प्रतिभेदमवेत्य सः ।
मरणे निःचितश्चौरः शूरो युद्धाय निर्ययौ ॥ १४.२१.२७ ॥
निःगतश्च रणे चक्रे पराक्रमममानुषम् ।
करान् चकर्त करिणां जङ्घाः चिच्छेद वाजिनाम् ॥ १४.२१.२८ ॥
जहार च शिरांस्येको भटानां खड्गचर्मभृत् ।
ततस्तं क्षपितानीकमभ्यधावत्स्वयं नृपः ॥ १४.२१.२९ ॥
सस्तस्य खड्गविद्याज्ञो राजा करणयुक्तितः ।
हस्तात् जहार निःत्रिंशमथ तां क्षुरिकामपि ॥ १४.२१.३० ॥
अशस्त्रं मुक्तशस्त्रोऽथ बाहुयुद्धेन तं नृपः ।
चौरं निहत्य धरणौ सजीवग्राहमग्रहीत् ॥ १४.२१.३१ ॥
निनाय तं च संयम्य सधनं नगरीं निजाम् ।
प्रातश्चाज्ञापयत्तस्य शूलारोपणनिग्रहम् ॥ १४.२१.३२ ॥
नीयमानं च तं वध्यभूमिं चौरं सडिण्डिमम् ।
ददर्श सा रत्नवती वणिक्कन्यात्र हर्म्यतः ॥ १४.२१.३३ ॥
व्रणितं धूलिलिप्ताङ्गमप्येतं मारमोहिता ।
दृष्ट्वैव गत्वा पितरं रत्नदत्तमुवाच सा ॥ १४.२१.३४ ॥
वधाय नीयते योऽयमेष भर्ता वृतो मया ।
तन्नृपात् रक्ष तातैनं न चेत् एनमनु म्रिये ॥ १४.२१.३५ ॥
तच्छ्रुत्वा तां पितावादीत् किमिदं पुत्रि भाषसे ।
या त्वं नेच्छसि भूपालामपि भर्त्क़्न्नभीप्सतः ॥ १४.२१.३६ ॥
सा पापं तस्करमिमं वाञ्छस्यापद्गतं कथम् ।
इत्यादि पित्रा प्रोक्तापि निःचयान्न चचाल सा ॥ १४.२१.३७ ॥
ततः सस्तत्पिता गत्वा तस्य चौरस्य सत्वरम् ।
सर्वस्वेनापि राजानं वधान्मोक्षमयाचत ॥ १४.२१.३८ ॥
राजा तु तं न तत्याज हेमकोटिशतैरपि ।
स्वशरीरपणानीतं चौरं सर्वापहारिणम् ॥ १४.२१.३९ ॥
ततः पितर्युपायाते विमुखे सा वणिक्सुता ।
अनुमर्तुं कृतस्नाना वार्यमाणापि बन्धुभिः ॥ १४.२१.४० ॥
आरुह्य शिबिकां तस्य दस्योः वध्यभुवं ययौ ।
अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥ १४.२१.४१ ॥
तावच्च वधकैः सोऽत्र चौरः शूलेऽधिरोपितः ।
तां ददर्श गलत्प्राणस्तथा सज्ञातिमागताम् ॥ १४.२१.४२ ॥
जनाच्छ्रुत्वा च वृत्तान्तमश्रु मुक्त्वा क्षणं ततः ।
हसन् सश्चौरः किमपि प्राणान् शूलगतः जहौ ॥ १४.२१.४३ ॥
ततोऽवतारितं शूलात्सा तत्चौरकलेवरम् ।
आदाय चारुरोहात्र चितां साध्वी वणिक्सुता ॥ १४.२१.४४ ॥
तत् क्षणं च श्मशानेऽत्र भैरवः कृतसन्निधिः ।
अदृश्यो भगवान् एवं तामुवाचान्तरिक्षतः ॥ १४.२१.४५ ॥
अस्मिन् स्वयम्वरपतवेवं भक्त्या तवानया ।
तुष्टोऽस्मि तत् वरं मत्तः प्रार्थयस्व पतिव्रते ॥ १४.२१.४६ ॥
तच्छ्रुत्वैव वरं देवात् एवं वव्रे प्रणम्य सा ।
नाथ पुत्रशतं भूयादपुत्रस्यापि मत्पितुः ॥ १४.२१.४७ ॥
येनानन्यसुतो नैषः प्राणान् जह्यान्मया विना ।
इति प्रोक्तवतीमेनां साध्वीं देवोऽब्रवीत्पुनः ॥ १४.२१.४८ ॥
पितुः पुत्रशतं तेऽस्तु वरमन्यं वृणीष्व च ।
त्वादृशी दृढसत्त्वा हि नैतावत्मात्रमर्हति ॥ १४.२१.४९ ॥
तदाकर्ण्याथ सावादीत्प्रसन्नो मयि चेत्प्रभुः ।
तत् जीवत्वेषो भर्ता मे धार्मिकश्च सदास्त्विति ॥ १४.२१.५० ॥
एवमस्त्वक्षतः जीवन्नुत्तिष्ठत्वेषस्ते पतिः ।
धार्मिकश्चास्तु राजास्य वीरकेतुः च तुष्यतु ॥ १४.२१.५१ ॥
इत्युक्तवत्यनालक्ष्यमूर्तौ शर्वे नभःस्थिते ।
उत्तस्थवक्षताङ्गोऽत्र चौरः जीवन् तदैव सः ॥ १४.२१.५२ ॥
ततो विस्मितहृष्टः सन् रत्नदत्तः सुतां वणिक् ।
आदाय तां रत्नवतीं चौरं जामातरं च तम् ॥ १४.२१.५३ ॥
प्रहृष्टैः बान्धवैः साकं प्रविश्य निजमन्दिरम् ।
लब्धपुत्रवरश्चक्रे स्वानन्दौचितमुत्सवम् ॥ १४.२१.५४ ॥
ज्ञातवृत्तान्ततुष्टश्च तदैवानाय्य तं नृपः ।
एकवीरं वीरकेतुः चौरं सेनापतिं व्यधात् ॥ १४.२१.५५ ॥
चौर्यान्निवृत्तोऽथ सस्तां परिणीय वणिक्सुताम् ।
एकवीरः सुखं तस्थौ मार्गस्थो राजसम्मतः ॥ १४.२१.५६ ॥
इति कथयित्वा सः कथां वेतालः दत्तपूर्वशापभयम् ।
अंसस्थितस्त्रिविक्रमसेनं पप्रच्छ तं क्षितिपम् ॥ १४.२१.५७ ॥
राजन् ब्रूहि सपितृकामुपस्थितां तां वणिक्सुतां दृष्ट्वा ।
चौरेण शूलपृष्टे रुदितं हसितं च किं तेन ॥ १४.२१.५८ ॥
अथ राजा प्रत्यवदत् रुदितं चौरेण दुःखतस्तेन ।
नास्यानृण्यमकारणबन्धोः यातोऽस्मि वणिजः इति ॥ १४.२१.५९ ॥
आश्चर्यतश्च हसितं किमियं कन्या नृपान् वरान् हित्वा ।
मय्यस्मिन्ननुरक्ता स्त्रीचित्तमहो विचित्रमिति ॥ १४.२१.६० ॥
इत्युक्तवाक्यस्य महीभृतोऽंसान्मायी स्वशक्त्यैव तदा जगाम ।
स्वं धाम वेतालवरः स राजाप्येतम्
पुनः पूर्ववदन्वगच्छत् ॥ १४.२१.६१ ॥
ततः गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।
सस्त्रिविक्रमसेनस्तमादायोदचलत्पुनः ॥ १५.२२.१ ॥
आयान्तं तं च राजानं स वेतालोऽंसपृष्ठगः ।
जगाद भूयोऽप्येतां ते राजन् वच्मि कथां शृणु ॥ १५.२२.२ ॥
अभून्नेपालविषये नाम्ना शिवपुरं पुरम् ।
यथार्थनामा तत्रासीत् यशःकेतुः पुरा नृपः ॥ १५.२२.३ ॥
सो मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके ।
चन्द्रप्रभाख्यया देव्या सार्धं भोगान्नसेवत ॥ १५.२२.४ ॥
कालेन तस्यां देव्यां च तस्याजायत कन्यका ।
राज्ञः शशिप्रभा नाम जगत्नेत्रशशिप्रभा ॥ १५.२२.५ ॥
क्रमेण यौवनस्था सा मधुमासे कदाचन ।
ययौ यात्रा-उत्सवं द्रष्टुमुद्यानं सपरिच्छदा ॥ १५.२२.६ ॥
तत्रैकदेशेऽपश्यत्तां कुसुमावचयौद्यताम् ।
उत्क्षिप्तबाहुलतिकालक्षितैकपयःधराम् ॥ १५.२२.७ ॥
प्रसूनवृन्तविगलत्सन्दंशकरशोभिनीम् ।
आढ्यपुत्रो मनःस्वामी नाम यात्रागतः द्विजः ॥ १५.२२.८ ॥
सस्तया दृष्टया सद्यः हृतस्य मनसो युवा ।
मनःस्वाम्यपि नैवाभूत्स्वामी मदनमोहितः ॥ १५.२२.९ ॥
मार्गणानां कृते किं स्वित् रतिः एषा मनःभुवः ।
वसन्तसम्भृतानीह पुष्पाण्युच्चिनुते स्वयम् ॥ १५.२२.१० ॥
किं वार्चयितुकामेयं माधवं वनदेवता ।
इति सञ्चिन्तयन्तं तं साप्यपश्यन्नृपात्मजा ॥ १५.२२.११ ॥
दृष्टमात्रे च सा तस्मिन् साङ्गे नव इव स्मरे ।
न पुष्पाणि न चाङ्गानि सौत्का नात्मानमस्मरत् ॥ १५.२२.१२ ॥
इत्यन्यःअन्यनवप्रेमसरसौ यावदत्र तौ ।
तिष्ठतस्तावत् उदभूत् हा हा हेति महारवः ॥ १५.२२.१३ ॥
किमेतत् इति चोत्क्षिप्तकम्धरं पश्यतोस्तयोः ।
आयादत्रोपलब्धान्यगजगन्धौत्थया रुषा ॥ १५.२२.१४ ॥
भग्नालानो विनिर्गत्य मत्तो मार्गद्रुमान् रुजन् ।
पतिताधोरनः धावन् लम्बमानाङ्कुशः करी ॥ १५.२२.१५ ॥
ततः परिजने त्रस्तविद्रुते तां ससम्भ्रमम् ।
राजपुत्रीं प्रधाव्यैव दोर्भ्यामुत्क्षिप्य चैककाम् ॥ १५.२२.१६ ॥
अङ्गैः किम्चित् कृताश्लेषां भयप्रेमत्रपाकुलाम् ।
निनाय स मनःस्वामी सुदूरं गजगोचरात् ॥ १५.२२.१७ ॥
अथागतैः परिजनैः स्तुवद्भिः तं द्विजौत्तमम् ।
मुहुः विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥ १५.२२.१८ ॥
तत्र तस्थौ तमेवार्ता स्मरन्ती प्राणदायिनम् ।
स्मराग्निपुटपाकेन पच्यमाना दिवानिशम् ॥ १५.२२.१९ ॥
सोऽप्युद्यानान्मनःस्वामी तदा तस्मादनुव्रजन् ।
स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सौत्को व्यचिन्तयत् ॥ १५.२२.२० ॥
नैतां विनाधुना स्थातुं जीवितुं वाहमुत्सहे ।
तन्मे श्री मूलदेवोऽत्र धूर्थः सिद्धः गुरुः गतिः ॥ १५.२२.२१ ॥
इति सञ्चिन्त्य कथमप्यस्मिन्नवसिते दिने ।
प्रतो ययौ गुरोस्तस्य मूलदेवस्य सोऽन्तिकम् ॥ १५.२२.२२ ॥
ददर्श तं च मित्रेण शशिना नित्य सङ्गतम् ।
सिद्धमायाद्भुतपथं सशरीरमिवाम्बरम् ॥ १५.२२.२३ ॥
न्यवेदयच्च तत्तस्मै प्रणम्य स्वमनीषितम् ।
सोऽपि साधयितुं तस्य प्रतिपेदे विहस्य तत् ॥ १५.२२.२४ ॥
ततः स योगगुलिकां क्षिप्त्वा धूर्तपतिः मुखे ।
मूलदेवो व्यधात् वृद्धब्राह्मणाकृतिमात्मनः ॥ १५.२२.२५ ॥
द्वितीयां गुलिकां दत्त्वा मुखक्षेप्यां चकार च ।
सुकान्तकन्यकारूपं तं मनःस्वामिनं द्विजम् ॥ १५.२२.२६ ॥
तत्रूपं तं समादाय गत्वा धूर्ताधिपोऽथ सः ।
तत्प्रियाजनकं भूपमास्थाने तं व्यजिज्ञपत् ॥ १५.२२.२७ ॥
राजन् एकोऽस्ति मे पुत्रः कन्या दूराच्च तत्कृते ।
मयैषा याचितानीता सश्च क्वापि गतोऽधुना ॥ १५.२२.२८ ॥
तमन्वेष्टुमहं यामि तत् एषा रक्ष्यतां त्वया ।
आनयामि सुतं यावत्त्वं हि विश्वस्य रक्षिता ॥ १५.२२.२९ ॥
तच्छ्रुत्वा शापभीत्या च प्रतिपद्य स भूपतिः ।
सुतामानाययामास यशःकेतुः शशिप्रभाम् ॥ १५.२२.३० ॥
जगाद चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे ।
स्वपार्श्व एव चाहारं शय्यां चास्याः प्रकल्पयेः ॥ १५.२२.३१ ॥
इति पित्रोक्तया निन्ये कन्यारूपस्तथेति सः ।
अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजम् ॥ १५.२२.३२ ॥
यथारुचि ततो याते मुलदेवे द्विजाकृतौ ।
कन्यारूपः सस्तत्रासीन्मनःस्वामी प्रियान्तिके ॥ १५.२२.३३ ॥
दिनैः च तां सखीप्रीतिविस्रम्भं सम्यकागताम् ।
एकदा विरहक्षामां शयनीयलुठत्तनुम् ॥ १५.२२.३४ ॥
रात्रौ रहो राजसुतामासन्नशयनस्थितः ।
कन्यारूपप्रतिच्छन्नो मनःस्वामी सः पृष्टवान् ॥ १५.२२.३५ ॥
सखि किं पाण्डुरछाया क्षीयमाणा दिने दिने ।
कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे ॥ १५.२२.३६ ॥
ब्रूहि मे कः ह्यविश्वासः स्निग्धमुग्धे सखिजने ।
इदानीं नैव भोक्ष्येऽहं न वदिष्यसि चेन्मम ॥ १५.२२.३७ ॥
तच्छ्रुत्वा सा विनिःश्वस्य शनैः राजसुताब्रवीत् ।
किं मे त्वय्यप्यविश्वासः शृणु तत्सखि वच्मि ते ॥ १५.२२.३८ ॥
एकदाहं मधूद्यानयात्रां द्रष्टुं गताभवम् ।
तत्रापश्यं च सुभगं कम्चित् ब्राह्मणपुत्रकम् ॥ १५.२२.३९ ॥
हिममुक्तैन्दुसश्रीकं दर्शनौद्दीपितस्मरम् ।
मधुमासमिवालोकक्रीडालङ्कृतकाननम् ॥ १५.२२.४० ॥
चकोरायितुमेते च प्रवृत्ते यावत् उन्मुखे ।
तत्मुखैन्दुद्युतिसुधापायिनी मे विलोचने ॥ १५.२२.४१ ॥
तावत्स्रवन्मदजलस्तत्राकस्मान्निःअर्गलः ।
अकालकालमेघाभः गर्जन्नागान्महागजः ॥ १५.२२.४२ ॥
तत्सम्भ्रमात्परिजने नष्टेऽहं भयविह्वला ।
उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः ॥ १५.२२.४३ ॥
श्रीखण्डेनानुलिप्तेव सिक्तेव सुधया तथा ।
अहं ततङ्गस्पर्शेन न जाने कां दशामगाम् ॥ १५.२२.४४ ॥
क्षनाच्च परिवारेण मिलितेनावशा ततः ।
इहानीतास्मि निक्षिप्ता स्वर्गात् इव भुवस्तले ॥ १५.२२.४५ ॥
तदाप्रभृति सङ्कल्पैः तैः तैः कल्पितसङ्गमम् ।
पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिम् ॥ १५.२२.४६ ॥
सुप्ता स्वप्ने च कुर्वाणं चाटून्यालोकयामि तम् ।
त्याजयन्तं हठाल्लज्जां चुम्बनालिङ्गनाधिभिः ॥ १५.२२.४७ ॥
न च प्राप्नोम्यभव्या तत्नामाद्यज्ञानमोहिता ।
तत् एवं मां दहत्येषः प्राण-ईशविरहानलः ॥ १५.२२.४८ ॥
इति वाक्सुधया तस्याः पूर्णस्वश्रवणौदरः ।
सानन्दः स मनःस्वामी विप्रकन्यावपुःधरः ॥ १५.२२.४९ ॥
कृतार्थमानी मत्वा तं कालमात्मप्रकाशने ।
स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखात् ॥ १५.२२.५० ॥
जगाद च विलोलाक्षि सोऽहमेवैषो यस्त्वया ।
उद्याने दर्शनक्रीतो नीतो निर्व्याजदासताम् ॥ १५.२२.५१ ॥
त्वत्संस्तवक्षणभ्रंशात् क्लेशं तं चाप्तवान्नहम् ।
यस्यैषः परिणामो मे कन्यारूपग्रहोऽभवत् ॥ १५.२२.५२ ॥
तस्मात्सफलयैतां मे विसोढां विरहव्यथाम् ।
आत्मनश्च न तनुअङ्गि क्षमतेऽतः परं स्मरः ॥ १५.२२.५३ ॥
एवं वदन्तं सहसा प्राण-ईशं तं विलोक्य सा ।
आसीत् राजसुता क्षिप्रं स्नेहाश्चर्यत्रपाकुला ॥ १५.२२.५४ ॥
अथात्यौत्सुक्यनिर्वृत्तगान्धर्वौद्वाहयोस्तयोः ।
प्रेम्णस्तस्य मतो यादृक्तादृशोऽभूत् रतौत्सवः ॥ १५.२२.५५ ॥
ततः सोऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् ।
दिवा सगुलिकाः कन्या रात्रवगुलिकाः पुमान् ॥ १५.२२.५६ ॥
गतेष्वथ दिनेष्वत्र यशःकेतोः महीपतेः ।
मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता ॥ १५.२२.५७ ॥
दत्ता मृगाङ्कवती-आख्या महार्हविभवौत्तरा ।
द्विजातये महामन्त्रि प्रज्ञासागरसूनवे ॥ १५.२२.५८ ॥
तस्मिन्मातुलपुत्र्याः सा राजपुत्री शशिप्रभा ।
विवाहे मातुलगृहं तत् जगाम निमन्त्रिता ॥ १५.२२.५९ ॥
तया सह ययौ सोऽपि कन्यकापरिवारया ।
विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृत् ॥ १५.२२.६० ॥
तत्र तं कन्यकारूपधरं मन्त्रिसुतोऽथ सः ।
दृष्ट्वा किल स्मरव्याधगाढबाणाहतोऽभवत् ॥ १५.२२.६१ ॥
ततो मुषितचित्तः सन् तया कपटकन्यया ।
ययौ मन्त्रिसुतः शून्यं स्वगृहं स्ववधूसखः ॥ १५.२२.६२ ॥
तत्र तत्मुखलावन्यध्यानासक्तः जगाम सः ।
तीव्ररागमहाव्यालदष्टो मोहमशङ्कितम् ॥ १५.२२.६३ ॥
किमेतत् इति सम्भ्रान्ते जने तत्रोत्सवौज्झिते ।
तमुपागाद्द्रुतं बुद्ध्वा सः प्रज्ञासागरः पिता ॥ १५.२२.६४ ॥
तेन चाश्वास्यमानोऽपि पित्रा मोहात्प्रबुध्य सः ।
प्रलपन् इव सौन्मादमुज्जगार मनःगतम् ॥ १५.२२.६५ ॥
अस्वाधीनं च तं मत्वा तत्पितर्यतिविह्वले ।
तस्मिन् राजापि तत् बुद्ध्वा तत्रैव समुपाययौ ॥ १५.२२.६६ ॥
सस्तं दृष्ट्वा झटित्येव गाढाभिष्वङ्गतः गतम् ।
सप्तमीं मदनावस्थां जगाद प्रकृतीः नृपः ॥ १५.२२.६७ ॥
कथं ब्राह्मणनिक्षेपः कन्या सास्मै प्रदीयते ।
तया विना च नियतं पश्चिमामेत्यसौ दशाम् ॥ १५.२२.६८ ॥
अस्मिन् नष्टे पितास्यैषो मम मन्त्री विनङ्क्ष्यति ।
एतत्नाशे राज्यनाशस्तत् इह ब्रूत का गतिः ॥ १५.२२.६९ ॥
इत्युक्ताः तेन राज्ञा ताः सर्वाः प्रकृतयोऽब्रुवन् ।
राज्ञः धर्मं निजं प्राहुः प्रजानां धर्मरक्षणम् ॥ १५.२२.७० ॥
मूलं तस्य विदुः मन्त्रं सश्च मन्त्रिष्ववस्थितः ।
मन्त्रिनाशे मूलनाशात् रक्ष्या धर्मक्षतिः ध्रुवम् ॥ १५.२२.७१ ॥
पापं च स्याद्द्विजस्यास्य ससूनोः मन्त्रिणो वधात् ।
तस्मात् रक्ष्योऽयमासन्नोऽवश्यं ते धर्मविप्लवः ॥ १५.२२.७२ ॥
दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका ।
कालान्तरागते विप्रे क्रुद्धे प्रतिविधास्यते ॥ १५.२२.७३ ॥
एवमुक्तः प्रकृतिभिः तथेति प्रत्यपद्यत ।
सो राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकाम् ॥ १५.२२.७४ ॥
आनीतश्च स निश्चित्य लग्नं राजसूतागृहात् ।
कन्यारूपो मनःस्वामी तं जगाद महीपतिम् ॥ १५.२२.७५ ॥
अन्येनान्यार्थमानीतामन्यस्मै मां ददासि चेत् ।
कामं तदस्तु राजा त्वं धर्माधर्मौ तवाद्य तौ ॥ १५.२२.७६ ॥
अहं विवाहमिच्छामि समयेनेदृशेन तु ।
एकशय्यां न नेतव्या पत्या तावदहं हठात् ॥ १५.२२.७७ ॥
यावत्तीर्थानि षट्मासान् परिभ्रम्य स नागतः ।
एवं न चेत् कृत्तजिह्वां दन्तैः जानीहि मां मृताम् ॥ १५.२२.७८ ॥
इत्युक्ते समये तेन यूना कन्यावपुःभृता ।
राज्ञा सः बोधितः प्राप निर्वृत्तिं मन्त्रिपुत्रकः ॥ १५.२२.७९ ॥
तथेति प्रतिपद्यैतत् कृत्वोद्वाहं किलाशु तम् ।
एकस्मिन् स्थापयित्वा च वासके ते सुरक्षिते ॥ १५.२२.८० ॥
तां मृगाङ्कवतीमाद्यां वधूं कूटवधूं च ताम् ।
जगाम तीर्थयात्रायै मूडः कान्ताप्रिया-इच्छया ॥ १५.२२.८१ ॥
सश्चोवास मनःस्वामी स्त्रीरूपोऽत्र तया सह ।
मृगाङ्कवती-एकगृहे समानशयनासनः ॥ १५.२२.८२ ॥
तथा स्थितं कदाचित्तं सा मृगाङ्कवती निशि ।
शय्यागृहे रहोऽवादीत् बहिःसुप्ते परिच्छदे ॥ १५.२२.८३ ॥
कथां काम्चित्त्वमाख्याहि निद्रा नास्ति हि मे सखि ।
तच्छ्रुत्वाकथयत्सोऽस्यै स्त्रीरूपस्तां कथां युवा ॥ १५.२२.८४ ॥
यत्रेलाख्यस्य राजऋषेः सूर्यवंशभुवः पुरा ।
प्राप्तस्य गौरीशापेन स्र्तीत्वं विश्वैकमोहनम् ॥ १५.२२.८५ ॥
अन्योन्यदर्शनप्रीत्या देवौद्यानवनान्तरे ।
अभूत् बुधेन संयोगः समभूच्च पुरूरवाः ॥ १५.२२.८६ ॥
तां कथां कथयित्वा च धूर्तः पुनरुवाच सः ।
तत् एवं देवतादेशान्मन्त्राउषधवशेन वा ॥ १५.२२.८७ ॥
पुरुषः स्त्री कदाचित्स्यात्स्त्री वा जातु पुमान् भवेत् ।
भवन्ति चैवं संयोगाः कामजा महतामपि ॥ १५.२२.८८ ॥
श्रुत्वैतत्तरुणी मुग्धा विवाहप्रोषितानुका ।
सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः ॥ १५.२२.८९ ॥
श्रुत्वैतां मे कथामेतदङ्गं सिमिसिमायते ।
हृदयं सीदतीवेदं तत् एतत्सखि किं वद ॥ १५.२२.९० ॥
तच्छ्रुत्वा सोऽङ्गनारूपो विप्रः पुनरुवाच ताम् ।
एतानि कामचिह्नानि नन्वपूर्वाणि ते सखि ॥ १५.२२.९१ ॥
मयैतान्यनुभूतानि निगूहे न ह्यहं तव ।
इति तेनोदितावादीत्सा मृगाङ्कवती शनैः ॥ १५.२२.९२ ॥
सखि प्राणसमा त्वं मे तत् कालज्ञा न वच्मि किम् ।
अपि पुंसः प्रवेशः स्यात् उपायेन हि केनचित् ॥ १५.२२.९३ ॥
एवमुक्तवतीमेतां सश्च लब्धाशयस्तदा ।
प्राह धूर्तपतेः शिष्यो यद्येवं तत् वदामि ते ॥ १५.२२.९४ ॥
वैष्णवोऽस्ति प्रसादो मे येनाहं स्वैच्छया निशि ।
पुरुषः स्यां तत् एषोऽद्य भवामि त्वत्कृते पुमान् ॥ १५.२२.९५ ॥
इत्युक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखात् ।
यौवनौद्दाममात्मानं तस्यै कान्तमदर्शयत् ॥ १५.२२.९६ ॥
ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः ।
कालौचितरसः कोऽपि तयोः आसीत् रतौत्सवः ॥ १५.२२.९७ ॥
अथ तत्र तया साकं स मन्त्रिसुतभार्यया ।
तस्थौ द्विजः दिवा नारी रात्रौ च पुरुषो भवन् ॥ १५.२२.९८ ॥
आसन्नागमनं तं च बुद्ध्वा मन्त्रिसुतं दिनैः ।
तामादाय निशि स्वैरं पलाय्य स ययौ ततः ॥ १५.२२.९९ ॥
एतस्मिन् च कथासन्धौ मूलदेवः सस्तत्गुरुः ।
बुद्ध्वा तदखिलं भूत्वा भूयो वृद्धद्विजाकृतिः ॥ १५.२२.१०० ॥
शशिनानुगतः सख्या तरुणद्विजरूपिणा ।
आगत्य तं यशःकेतुं प्रह्वो राजानमब्रवीत् ॥ १५.२२.१०१ ॥
आनीतोऽयं मया पुत्रः देहि मे तां स्नुषामिति ।
ततः सम्मन्त्र्य स नृपः शापभीतस्तमभ्यधात् ॥ १५.२२.१०२ ॥
ब्रह्मन् न जाने क्व गता सा स्नुषा ते क्षमस्व तत् ।
अपराधात्सुतस्यार्थे ददामि स्वसुतां तव ॥ १५.२२.१०३ ॥
इत्युक्त्वा धूर्तराजं तं कृतकक्रोधनिष्ठुरम् ।
विब्रुवाणं जरत्विप्ररूपं प्रार्थ्य स भूपतिः ॥ १५.२२.१०४ ॥
तत्सख्ये कृततत्पुत्रव्यपदेशाय तां ददौ ।
तनयां शशिने तस्मै यथाविधि शशिप्रभाम् ॥ १५.२२.१०५ ॥
ततः स मूलदेवस्तौ यथाभूतौ वधूवरौ ।
आदाय स्वास्पदं प्रायात् राजार्थेष्वकृतस्पृहः ॥ १५.२२.१०६ ॥
तत्र तस्मिन् च मिलिते मनःस्वामीन्यभून्महान् ।
विवादो मूलदेवाग्रे शशिनस्तस्य चोभयोः ॥ १५.२२.१०७ ॥
मनःस्वाम्यब्रवीत् एषा दीयतां मे शशिप्रभा ।
कन्यैव हि मयोदूडा प्राक् असौ गुरुअनुग्रहात् ॥ १५.२२.१०८ ॥
शशी जगाद कोऽस्याः त्वं मूर्ख दारेयं मम ।
अग्निसाक्षिकमेषा हि पित्रा मे प्रतिपादिता ॥ १५.२२.१०९ ॥
एवं मायाबलप्राप्तराजपुत्रीनिमित्ततः ।
विवादासक्तयोः नासीत्परिच्छेदस्तयोः द्वयोः ॥ १५.२२.११० ॥
तत् राजन् त्वं मम ब्रूहि तावत् कस्योपपद्यते ।
भार्या सा संशयं छिन्धि पूर्वौक्तः समयोऽस्ति ते ॥ १५.२२.१११ ॥
इति वेतालतः श्रुत्वा तस्मात्स्कन्धाग्रवर्तिनः ।
सस्त्रिविक्रमसेनस्तं नृपतिः प्रत्यभाषत ॥ १५.२२.११२ ॥
मन्ये शशिनः एवासौ भार्या न्याय्या नृपात्मजा ।
यस्मै प्रदत्ता प्रकटं पित्रा धर्म्येण वर्त्मना ॥ १५.२२.११३ ॥
मनःस्वामी तु तां भेजे चौर्यात् गान्धर्वधर्मतः ।
चौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातु चित् ॥ १५.२२.११४ ॥
इति तस्य वचो निशम्य राज्ञो वेतालः स ययौ पुनस्तत् एव ।
सहसैव तदंसतः स्वधाम क्षितिपः सः
अपि तमन्वियाय तूर्णम् ॥ १५.२२.११५ ॥
अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
सस्त्रिविक्रमसेनस्तमादायोदचलत्ततः ॥ १६.२३.१ ॥
आगच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः ।
राजन् शृणु कथामेकामुदारां कथयामि ते ॥ १६.२३.२ ॥
अस्तीह हिमवान् नाम नगैन्द्रः सर्वरत्नभूः ।
यः गौरीगङ्गयोस्तुल्यः प्रभवः हरकान्तयोः ॥ १६.२३.३ ॥
शूरासंस्पृष्टस्प्र्ष्ठश्च यो मध्ये कुलभूभृताम् ।
अभिमानौन्नतः सत्यं गीयते भुवनत्रये ॥ १६.२३.४ ॥
तस्यास्ति सानुन्यनुअर्थं तत् काञ्चनपुरं पुरम् ।
न्यासीकृतमिवार्केण रश्मिवृन्दं विभाति यत् ॥ १६.२३.५ ॥
जीमूतकेतुः इत्यासीत्तस्मिन् पुरवरे पुरा ।
विद्याधर-ईश्वरः श्रीमान्मेरविव शतक्रतुः ॥ १६.२३.६ ॥
तस्यासीत्स्वगृहौद्याने कल्पवृक्षोऽन्वयागतः ।
यथार्थनामा प्रथितो यो मनःरथदायकः ॥ १६.२३.७ ॥
तं प्रार्थ्य देवतात्मानं स राजा तत्प्रसादतः ।
प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसम्भवम् ॥ १६.२३.८ ॥
दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् ।
गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ॥ १६.२३.९ ॥
सम्प्राप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् ।
तनयं प्रेरितः सद्भिः तत्गुणैः सचिवैः च सः ॥ १६.२३.१० ॥
यौवराज्यस्थितश्चैषः जातु जीमूतवाहनः ।
हितैषिभिः उपागत्य जगदे पितृमन्त्रिभिः ॥ १६.२३.११ ॥
देव कल्पतरुः योऽयमस्ति वः सर्वकामदः ।
अधृष्यः सर्वभूतानां सः एषः पूज्यः सदा तव ॥ १६.२३.१२ ॥
नास्मिन् सति हि शक्रोऽपि बाधेतास्मान्कुतोऽपरः ।
एतच्छ्रुत्वा सः जीमूतवाहनोऽन्तरचिन्तयत् ॥ १६.२३.१३ ॥
अहो बतेदृशमिमं सम्प्राप्यामरपादपम् ।
नासादितं किमप्यस्मात्पूर्वैः नस्तादृशं फलम् ॥ १६.२३.१४ ॥
केवलं कैःचिदप्यर्थैरर्थितैः कृपणौचितैः ।
आत्मा चैषो महात्मा च नीतौ द्ववपि लाघवम् ॥ १६.२३.१५ ॥
तदहं साधयीष्यामि काममस्मान्मनःगतम् ।
इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः ॥ १६.२३.१६ ॥
तत्र संविहिताशेषशुश्रूषापरितोषितम् ।
सुखासीनं तमेकान्ते पितरं स व्यजिज्ञपत् ॥ १६.२३.१७ ॥
तत त्वमेव जानासि यत् एतस्मिन् भवाम्बुधौ ।
आशरीरमिदं सर्वं वीचिविभ्रमचञ्चलम् ॥ १६.२३.१८ ॥
विशेषेनाचिरस्थायिप्रकाशप्रविलायिनी ।
सन्ध्या विद्युच्च लक्ष्मीः च दृष्टा कुत्र कदा स्थिरा ॥ १६.२३.१९ ॥
एकः परौपकारस्तु संसारेऽस्मिन्ननश्वरः ।
यः धर्मयशसी सूते युगान्तशतसाक्षिणी ॥ १६.२३.२० ॥
तत्तात क्षणिकेष्वेषु भोगेष्वस्माभिः ईदृशः ।
एषः कल्पतरुः कस्य कृते मोघोऽभिरक्ष्यते ॥ १६.२३.२१ ॥
यैः वा मम ममेत्येवमाग्रहेनैषो रक्षितः ।
पूर्वैः ते कुत्र कुत्रायं तेषां कश्चैषः कोऽस्य वा ॥ १६.२३.२२ ॥
तस्मात्परौपकारैकफलसिद्ध्यै त्वताज्ञया ।
तातैनं विनियुञ्जेऽहं कामदं कल्पपादपम् ॥ १६.२३.२३ ॥
एवमस्त्विति पित्रा च दत्तानुज्ञोऽथ तेन सः ।
जीमूतवाहनः गत्वा कल्पद्रुममुवाच तम् ॥ १६.२३.२४ ॥
अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस्त्वया ।
तन्ममैकमिमं काममनन्यं परिपूरय ॥ १६.२३.२५ ॥
अदरिद्रां यथा पृथ्वीमिमां द्रक्ष्ये तथा कुरु ।
भद्रं ते व्रज दत्तोऽसि लोकायार्थार्थिने मया ॥ १६.२३.२६ ॥
इत्युक्तवति जीमूतवाहने रचिताञ्जलौ ।
त्यक्तस्त्वयैषः जातोऽस्मीत्युदभूत् वाक्तरोस्ततः ॥ १६.२३.२७ ॥
क्षणाच्चोत्पत्य सः दिवं कल्पवृक्षस्तथा वसु ।
ववर्ष भुवि नैवासीत् कोऽप्यस्यां दुःगतो यथा ॥ १६.२३.२८ ॥
ततस्तस्य तया तीव्रसर्वसत्त्वानुकम्पया ।
जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः ॥ १६.२३.२९ ॥
तेन तत्गोत्रजाः सर्वे मात्सर्यादसहिष्णवः ।
तं लोकसात्कृतार्तिघ्नकल्पवृक्षविनाकृतम् ॥ १६.२३.३० ॥
जेयं सपितृकं मत्वा सम्भूय कृतनिश्चयाः ।
युद्धाय समनह्यन्त तत् राज्यापजिहीर्षया ॥ १६.२३.३१ ॥
तद्दृष्ट्वा प्राह पितरं स्वं सः जीमूतवाहनः ।
तात कस्यापरस्यास्ति शक्तिः त्वयि धृतायुधे ॥ १६.२३.३२ ॥
किं त्वस्य पापकस्यार्थे शरीरस्य विनाशिनः ।
हत्वा बन्धून्नकृपनो राज्यं को नाम वाञ्छति ॥ १६.२३.३३ ॥
तत् किं राज्येन नः कार्यं गत्वान्यत्र क्वचित् वयम् ।
धर्ममेव चरिष्यामः लोकद्वयसुखावहम् ॥ १६.२३.३४ ॥
मोदन्तां कृपणाः एते दायादाः राज्यलोलुपाः ।
इत्युक्तवन्तं जीमूतकेतुः तं सः पिताब्रवीत् ॥ १६.२३.३५ ॥
अहं त्वतर्थमिच्छामि राज्यं पुत्र त्वमेव चेत् ।
तत् जहासि कृपाविष्टस्तन्मे वृद्धस्य तेन किम् ॥ १६.२३.३६ ॥
एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सोऽन्वितः ।
मलयाद्रिमगात्त्यक्तराज्यः जीमूतवाहनः ॥ १६.२३.३७ ॥
तत्र चन्दनसञ्छन्नवहन्निःझरकन्दरे ।
शुश्रूषमाणः पितरं सस्तस्थौ कल्पिताश्रमः ॥ १६.२३.३८ ॥
मित्रं चास्यात्र सम्पेदे मित्रावसुः इति श्रुतः ।
विश्वावसोः सुतः सिद्धराजस्यैतत्निवासिनः ॥ १६.२३.३९ ॥
एकदा चात्र स भ्राम्यन् विवेशोपवनस्थितम् ।
द्रष्टुमायतनं देव्याः गौर्याः जीमूतवाहनः ॥ १६.२३.४० ॥
तत्रोपवीणयन्तीं च ददर्श वरकन्यकाम् ।
सखीजनान्वितां शैलतनयाराधनौद्यताम् ॥ १६.२३.४१ ॥
आकर्ण्यमानसङ्गीतमञ्जुवीणारवां मृगैः ।
दृष्टलोचनलावन्यलज्जितैः इव निःचलैः ॥ १६.२३.४२ ॥
दधता तारकं कृष्णमर्जुनेन स्वचक्षुषा ।
पाण्डवीयामिव चमूं कर्णमूलं विविक्षतीम् ॥ १६.२३.४३ ॥
परःपरविमर्देन मुखैन्दोः इव दर्शनम् ।
अतृप्तविव वाञ्छन्तौ बिभ्रन्तीं सम्मुखौ स्तनौ ॥ १६.२३.४४ ॥
धातुः घटयतो मुष्टिग्रहेणेव निपीडिते ।
वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनःरमाम् ॥ १६.२३.४५ ॥
दृष्टया च तया सद्यः सोऽभूत् जीमूतवाहनः ।
तन्व्या मुषितचित्तोऽन्तः दृष्टिमार्गप्रविष्टया ॥ १६.२३.४६ ॥
सापि तं भूषितौद्यानं दृष्ट्वोत्कण्ठाविकारदम् ।
कामाङ्गदाहवैराग्यात् वनं मधुमिवाश्रितम् ॥ १६.२३.४७ ॥
तथानुरागविवशा भेजे कन्या विहस्तताम् ।
यथा सखीव वीणास्याः व्याकुलालापतां ययौ ॥ १६.२३.४८ ॥
ततः सः पप्रच्छ सखीं तस्याः जीमूतवाहनः ।
किं धन्यं नाम सख्याः ते को वंशोऽलङ्कृतोऽनया ॥ १६.२३.४९ ॥
तच्छ्रुत्वा सा सखी प्राह नाम्ना मलयवत्यसौ ।
मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता ॥ १६.२३.५० ॥
एवमुक्त्वा सहृदया सा तं जीमूतवाहनम् ।
नामान्वयौ च पृष्ट्वास्य मुनिपुत्रं सहागतम् ॥ १६.२३.५१ ॥
तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरम् ।
सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किम् ॥ १६.२३.५२ ॥
जगत्पूज्योऽतिथिः ह्येषः प्राप्तः इत्युदिते तया ।
साभूत् विद्याधरसुता तूष्णीं लज्जानतानना ॥ १६.२३.५३ ॥
लज्जावतीयं मत्तोऽर्चा गृह्यतामिति वादिनी ।
एकाथ तत्सखी तस्मै सार्घ्यां मालामुपानयत् ॥ १६.२३.५४ ॥
सश्चादायैव जीमूतवाहनः प्रेमनिःभरः ।
कण्ठे मलयवत्याः तां मालां तस्याः समर्पयत् ॥ १६.२३.५५ ॥
सापि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा ।
नीलौत्पलमयीं मालामिव तस्मिन् न्यवेशयत् ॥ १६.२३.५६ ॥
इत्यन्यःअन्यकृताशब्दस्वयम्वरविशेषयोः ।
तयोः एत्य जगादैका चेटी तां सिद्धकन्यकाम् ॥ १६.२३.५७ ॥
जननी राजपुत्रि त्वां स्मरत्यागच्छ माचिरम् ।
तच्छ्रुत्वाकृष्य कामैषुकीलितामिव कृच्छ्रतः ॥ १६.२३.५८ ॥
सौत्कां प्रियमुखाद्दृष्टिं कथम्चित्सा ययौ गृहम् ।
जीमूतवाहनोऽप्यागात्तन्नतात्मा स्वमाश्रमम् ॥ १६.२३.५९ ॥
साथ स्वां जननीं दृष्टा प्राण-ईशविरहातुरा ।
गत्वा मलयवत्याशु पपात शयनीयके ॥ १६.२३.६० ॥
अथान्तर्गतकामाग्निधूमेनेवाविल-ईक्षणा ।
अश्रुधारां प्रमुञ्चन्ती सन्तापक्वथिताङ्गका ॥ १६.२३.६१ ॥
सखीभिः चन्दनैः लिप्ता वीजिता चाब्जिनिदलैः ।
रतिं न भेजे शयने नाङ्के सख्याः न भूतले ॥ १६.२३.६२ ॥
गतेऽथ वासरे क्वापि रक्तया सह सन्ध्यया ।
हसत्प्राचीमुखं चन्द्रे समाक्रम्य च चुम्बति ॥ १६.२३.६३ ॥
स्मरेण प्रेर्यमाणापि दूतीसम्प्रेषणादि सा ।
लज्जया नाशकत् कर्तुं जीवितस्पृहयोज्झिता ॥ १६.२३.६४ ॥
निनाय च निशामिन्दुविषमामब्जिनीव ताम् ।
बद्धमोहालिपटले हृदि सङ्कोचमेत्य सा ॥ १६.२३.६५ ॥
तावच्च तत्वियोगार्तः सोऽपि जीमूतवाहनः ।
शयनस्थोऽपि पतितः हस्ते कुसुमधन्वनः ॥ १६.२३.६६ ॥
नूतनौद्भिन्नरागोऽपि प्रोन्मिषत्पाण्डुरछविः ।
ह्रीमूकोऽपि वदन् पीडां कामजामनयन्निशाम् ॥ १६.२३.६७ ॥
प्रातश्चात्युत्सुको भूयस्तत् गौरी-आयतनं ययौ ।
यत्र दृष्टाभवत्तेन सा सिद्धाधिपपुत्रिका ॥ १६.२३.६८ ॥
तत्र तेन स मित्रेण मुनिपुत्रेण पृष्ठतः ।
आगत्याश्वास्यते यावन्मदनानलविह्वलः ॥ १६.२३.६९ ॥
तावत्तत्रैव साप्यागान्निर्गत्यैकैव निःजने ।
गुप्तं मलयवत्यात्मत्यागाय विरहासहा ॥ १६.२३.७० ॥
अलक्षयन्ती कान्तं स्वं पादपान्तरितं च सा ।
उदश्रुलोचना बाला देवीं गौरीं व्यजिज्ञपत् ॥ १६.२३.७१ ॥
त्वत्भक्त्या देवि संवृत्तो नास्मिन् जन्मनि चेन्मम ।
जीमूतवाहनो भर्ता तत् भूयात्सोऽन्यजन्मनि ॥ १६.२३.७२ ॥
इत्युक्त्वा रचयामास स्वौत्तरीयेण तत् क्षणम् ।
अशोकतरुशाखायां पाशं सा गिरिजाग्रतः ॥ १६.२३.७३ ॥
हा नाथ विश्वविख्यातकरुणेनापि न त्वया ।
कथमस्मि परित्राता देव जीमूतवाहन ॥ १६.२३.७४ ॥
एवमुक्त्वा गले यावत्सा तं पाशं नियच्छति ।
उच्चचार दिवस्तावत् भारती देवी-उदीरिता ॥ १६.२३.७५ ॥
पुत्रि मा साहसं कार्षीः चक्रवर्ती पतिः तव ।
विद्याधरेन्द्रः जीमूतवाहनः हि भविष्यति ॥ १६.२३.७६ ॥
इत्युक्तवत्यां देव्यां सः श्रुत्वैव सवयस्यकः ।
जीमूतवाहनः हृष्टां प्रियामुपजगाम ताम् ॥ १६.२३.७७ ॥
सः एषः देव्या वरः पश्य वितीर्णः सत्यः एव ते ।
इति जल्पति बालां तां तत्मित्रे मुनिपुत्रके ॥ १६.२३.७८ ॥
जीमूतवाहनस्तत्तत् ब्रुवन् प्रणयपेशलम् ।
स्वहस्तेनैव तं तस्याः कण्ठात्पाशमपानयत् ॥ १६.२३.७९ ॥
ततोऽकस्मात्सुधावर्षमिव मन्वानयोस्तयोः ।
भुवं मलयवत्यां च लिखन्त्यां ह्रीतया दृशा ॥ १६.२३.८० ॥
चिन्वानागत्य सहसा सखी हृष्टा जगाद ताम् ।
सखि कल्याणिनी दिष्ट्या वर्धसेऽभीष्टसिद्धितः ॥ १६.२३.८१ ॥
अद्यैव हि महाराजस्तव विश्वावसुः पिता ।
कुमारमित्रावसुना विज्ञप्तः सन्निधौ मम ॥ १६.२३.८२ ॥
इहागतः जगत्मान्यस्तात कल्पतरुप्रदः ।
विद्याधरेन्द्रतनयो योऽयं जीमूतवाहनः ॥ १६.२३.८३ ॥
अतिथित्वात्सो नः पूज्यो वरश्चान्यो न तादृशः ।
तस्मान्मलयवत्यासौ कन्यारत्नेन पूज्यताम् ॥ १६.२३.८४ ॥
तथेति श्रद्धिते राज्ञा भ्राता मित्रावसुः सस्ते ।
तादर्थ्येन महाभागस्यास्याश्रमपदं गतः ॥ १६.२३.८५ ॥
जाने सद्यश्च भावी ते विवाहस्तत्स्वमन्दिरम् ।
आयाहि यातु चैषोऽपि महाभागः स्वमास्पदम् ॥ १६.२३.८६ ॥
इत्युक्ता सा तया सख्या राजपुत्री शनैः ततः ।
ययुः सहर्षा सौत्का च मुहुःवलितकन्धरा ॥ १६.२३.८७ ॥
जीमूतवाहनोऽप्याशु गत्वा स्वाश्रममागतात् ।
मित्रावसोः यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च ॥ १६.२३.८८ ॥
जातिस्मरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः ।
यत्र मित्रं सस्तस्यासीत्सा च भार्यैव तत्स्वसा ॥ १६.२३.८९ ॥
ततो मित्रावसुः प्रीतस्तत्पित्रोः परितुष्यतोः ।
आवेद्य गत्वा पितरौ कृतार्थः स्ववनन्दयत् ॥ १६.२३.९० ॥
निनाय च तदैव स्वान् गृहान् जीमूतवाहनम् ।
चक्रे चोत्सवसम्भारं स्वसिद्धिउचितवैभवम् ॥ १६.२३.९१ ॥
तस्मिन् एव च धन्येऽह्नि तस्य विद्याधरप्रभोः ।
स्वसुः मलयवत्याः च विवाहं समपादयन् ॥ १६.२३.९२ ॥
ततो नव-ऊढया साकं तया जीमूतवाहनः ।
तस्थौ मलयवत्या सस्तत्र सिद्धमनःरथः ॥ १६.२३.९३ ॥
एकदा कौतुकाच्चात्र स मित्रावसुना सह ।
मलयाद्रौ भ्रमन्नप्धेः वेलावनमुपेयिवान् ॥ १६.२३.९४ ॥
तत्रास्थिराशीन् सुबहून्दृष्ट्वा मित्रावसुं सस्तम् ।
केषामेतेऽस्थिसङ्घाताः प्राणिनामिति पृष्टवान् ॥ १६.२३.९५ ॥
ततो मित्रावसुः श्यालस्तं कारुणिकमब्रवीत् ।
शृणु वृत्तान्तमत्रेमं सङ्क्षेपात् वर्णयामि ते ॥ १६.२३.९६ ॥
नागमाता पुरा कद्रूः विनतां तार्क्ष्यमातरम् ।
निनाय किल दासत्वं सव्याजपणनिर्जिताम् ॥ १६.२३.९७ ॥
तेन वैरेण गरुडस्तामुन्मोच्यापि मातरम् ।
बली भक्षयितुं नागान्कद्रूपुत्रान् प्रचक्रमे ॥ १६.२३.९८ ॥
सदा प्रविश्य पातालं सोऽथ कान्चित् जघास तान् ।
कान्चिन्ममर्द केचित्तु स्वयं त्रासात् विपेदिरे ॥ १६.२३.९९ ॥
तद्दृष्ट्वैकपदे सर्वक्षयमाशङ्क्य नागराट् ।
वासुकिः प्रार्थनापूर्वं तार्क्ष्यस्य समयं व्यधात् ॥ १६.२३.१०० ॥
एकमेकमहं नागमाहारार्थं खगैन्द्र ते ।
प्रत्यहं प्रेषयाम्यत्र पुलिने दक्षिणौदधेः ॥ १६.२३.१०१ ॥
त्वया तु न प्रवेष्टव्यं पातालेऽस्मिन्कथम्चन ।
कः हि स्वार्थो विनष्टेषु नागेष्वेकपदे तव ॥ १६.२३.१०२ ॥
इत्युक्ते नागराजेन समयं प्रत्यपद्यत ।
स्वार्थदर्शी तथेत्येव गरुडः गुरुविक्रमः ॥ १६.२३.१०३ ॥
तदाप्रभृति चैकैकं नागं भुङ्क्ते दिने दिने ।
वासुकिप्रेषितं सोऽत्र खगैन्द्रः पुलिनेऽम्बुधेः ॥ १६.२३.१०४ ॥
अतस्तत्भक्ष्यमाणानां नागनामस्थिसञ्चयाः ।
एतेऽत्र गिरिशृङ्गाभाः वृद्धिं कालक्रमात् गताः ॥ १६.२३.१०५ ॥
इति मित्रावसोः वक्त्रात्सान्तःदुःखो निशम्य सः ।
निजगाद दयाधैर्यनिधिः जीमूतवाहनः ॥ १६.२३.१०६ ॥
शोच्यः स वासुकिः राजा यः स्वहस्तेन विद्विषे ।
उपहारीकरोति स्वाः प्रजाः क्लीबः दिने दिने ॥ १६.२३.१०७ ॥
धृताननसहस्रः सन् एकेनाप्याननेन सः ।
मामादौ भुङ्क्ष्व तार्क्ष्येति भाषितुम्
नाशकत् कथम् ॥ १६.२३.१०८ ॥
कथं चाभ्यर्थयामास निःसत्त्वः स्वकुलक्षयम् ।
तार्क्ष्यं नागाङ्गनाक्रन्दनित्याकर्णननिःघृणः ॥ १६.२३.१०९ ॥
तार्क्ष्योऽपि काश्यपिः वीरः कृष्णाधिष्ठानपावनः ।
ईदृशं कुरुते पापमहो मोहस्य गाढता ॥ १६.२३.११० ॥
इत्युक्त्वा स महासत्त्वः हृदि चक्रे मनःरथम् ।
अप्यसारेण देहेन सारमत्राप्नुयामहम् ॥ १६.२३.१११ ॥
एकस्याप्यद्य नागस्य कुर्यां जीवितरक्षणम् ।
अबान्धवस्य भीतस्य दत्त्वात्मानं गरुत्मते ॥ १६.२३.११२ ॥
इति सञ्चिन्तयत्येव तस्मिन् जीमूतवाहने ।
मित्रावसोः पितुः पार्श्वात् क्षत्ताह्वानार्थमाययौ ॥ १६.२३.११३ ॥
व्रज त्वमहमेष्यामि पश्चात् इति ततश्च तम् ।
मित्रावसुं सः जीमूतवाहनो व्यसृजत् गृहम् ॥ १६.२३.११४ ॥
गते तस्मिन् सश्चात्रैको वाञ्छितार्थौन्मुखो भ्रमन् ।
कृपालुः अशृनोद्दूरात् करुणं रुदितध्वनिम् ॥ १६.२३.११५ ॥
गत्वा ददर्श चोत्तुङ्गशिलातलसमीपगम् ।
युवानमेकं पुरुषं दुःखितं सुन्दराकृतिम् ॥ १६.२३.११६ ॥
पुंसा राजभटेनेव त्यक्तमानीय तत् क्षणम् ।
निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियम् ॥ १६.२३.११७ ॥
कोऽयं स्यात् इति यावच्च जिज्ञासुः सोऽत्र तिष्ठति ।
करुणाकुलितः छन्नः शृण्वन् जीमूतवाहनः ॥ १६.२३.११८ ॥
तावत्सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता ।
प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुम् ॥ १६.२३.११९ ॥
हा शङ्खचूड हा दुःखशतसम्प्राप्त हा गुणिन् ।
कुलैकतन्तो हा पुत्र क्व त्वां द्रक्ष्याम्यहं पुनः ॥ १६.२३.१२० ॥
वत्स त्वत्मुखचन्द्रेऽस्मिन् गतेऽस्तं सः पिता तव ।
सोकान्धकारपतितः कथं वृद्धो भविष्यति ॥ १६.२३.१२१ ॥
अथार्ककरसंस्पर्शादङ्गं दूयेत यत्तव ।
कथं शक्ष्यति तत्सोढुं तार्क्ष्यभक्षणजां रुजम् ॥ १६.२३.१२२ ॥
विस्तीर्णे नागलोकेऽपि धात्रा नागाधिपेन च ।
लब्धस्त्वं किमभव्यायाः विचित्यैकसुतो मम ॥ १६.२३.१२३ ॥
इति तां विलपन्तीं च स युवा तनयोऽब्रवीत् ।
दुःखार्तमपि मामम्ब किं दुःखयसि हा भृशम् ॥ १६.२३.१२४ ॥
निवर्तस्व गृहान् एषः प्रणामः पश्चिमस्तव ।
इहागमनवेला हि भवेत् जातु गरुत्मतः ॥ १६.२३.१२५ ॥
तच्छ्रुत्वा हा हतास्मीह को मे पास्यति पुत्रकम् ।
इत चक्रन्द सा वृद्धा दिक्षु क्षिप्तार्तलोचना ॥ १६.२३.१२६ ॥
तावच्च बोधिसत्त्वांशः सस्तत् जीमूतवाहनः ।
श्रुत्वा दृष्ट्वा च कृपया गाढाक्रान्तो व्यचिन्तयत् ॥ १६.२३.१२७ ॥
हन्तायं शङ्खचूडाख्यो नागो वासुकिना बत ।
आहारहेतोस्तार्क्ष्यस्य तपस्वी प्रेषितोऽधुना ॥ १६.२३.१२८ ॥
इयं चैतस्य जननी स्नेहेनेहान्वक् आगता ।
एततेकसुता वृद्धा दुःखदीनप्रलापिनी ॥ १६.२३.१२९ ॥
तत् एनमेकमार्तं चेद्देहेनैकान्तनाशिना ।
रक्षामि नामुना नागं तन्मे धिक् जन्म निःफलम् ॥ १६.२३.१३० ॥
इत्यालोच्योपगम्यैव मुदा जीमूतवाहनः ।
वृद्धामुवाच तां मातः पुत्रं रक्षाम्यहं तव ॥ १६.२३.१३१ ॥
तच्छ्रुत्वा भावितभया वृद्धा गरुडशङ्खिनी ।
सन्त्रस्ता तार्क्ष्य मां भुङ्क्ष्व मां भुङ्क्ष्व
इति जगाद सा ॥ १६.२३.१३२ ॥
शङ्खचूडस्ततोऽवादीन्नैषस्तार्क्ष्योऽम्ब मा त्रसीः ।
क्वायं चन्द्रः इवाह्लादी क्व सस्तार्क्ष्यो भयङ्करः ॥ १६.२३.१३३ ॥
इत्युक्ते शङ्खचूडेन प्राह जीमूतवाहनः ।
विद्याधरोऽहमायातो राक्षितुं सुतमम्ब ते ॥ १६.२३.१३४ ॥
दास्यामि हि शरीरं स्वं वस्त्रछन्नं गरुत्मते ।
क्षुधिताय प्रयाहि त्वमादायैनं सुतं गृहम् ॥ १६.२३.१३५ ॥
तच्छ्रुत्वा साब्रवीत् वृद्धा मैवं त्वं ह्यधिको मम ।
पुत्रो यस्येदृशे काले कृपास्मास्वियमीदृशी ॥ १६.२३.१३६ ॥
एतच्छ्रुत्वा सः जीमूतवाहनः पुनोऽब्रवीत् ।
न मे मनःरथस्यास्य भङ्गं कर्तुमिहार्हथ ॥ १६.२३.१३७ ॥
ग्रहात् एवं ब्रुवाणं च शङ्खचूडः जगाद तम् ।
दर्शितैव महासत्त्व त्वया सत्यं कृपालुता ॥ १६.२३.१३८ ॥
न त्वहं त्वत्शरीरेण रक्ष्यामि स्वशरीरकम् ।
रत्नव्ययेन पाषाणं कः हि रक्षितुमर्हति ॥ १६.२३.१३९ ॥
मादृशैः तु जगत्पूर्णं स्वात्ममात्रानुकम्पिभिः ।
अनुकम्प्यं जगत् येषां विरलाः ते भवादृशाः ॥ १६.२३.१४० ॥
न चाहं मलिनीकर्तुं शङ्खपालकुलं शुचि ।
कलङ्कः इव तीक्ष्णांशुबिम्बं शक्ष्यामि सत्मते ॥ १६.२३.१४१ ॥
इति तं प्रतिषिध्यैव शङ्खचूडः स्वमातरम् ।
जगादाम्ब निवर्तस्व कान्ताराद्दुःगमात् इतः ॥ १६.२३.१४२ ॥
न पश्यसि किमत्रैतन्नागासृक्कर्दमौक्षितम् ।
कृतान्तलीलापर्यङ्करौद्रं वध्यशिलातलम् ॥ १६.२३.१४३ ॥
अहं चाप्धितटे गत्वा नत्वा गोकर्णमीश्वरम् ।
आगच्छामि द्रुतं यावन्नायाति गरुडोऽत्र सः ॥ १६.२३.१४४ ॥
इत्युक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छ्य मातरम् ।
सः गोकर्णप्रणामार्थं शङ्खचूडो ययौ ततः ॥ १६.२३.१४५ ॥
अस्मिन् चेदन्तरे प्राप्तस्तार्क्ष्यः सिद्धो ममेप्सितः ।
परार्थेति जीमूतवाहनोऽप्यकरोत् हृदि ॥ १६.२३.१४६ ॥
तावच्चासन्नपक्षीन्द्रपक्षानिलचलान् तरून् ।
विलोक्यात्र स मा मेति निवारणपरान् इव ॥ १६.२३.१४७ ॥
मत्वा गरुडवेलां च प्राप्तां जीमूतवाहनः ।
परार्थप्राणदो वध्यशिलामध्यारुरोह ताम् ॥ १६.२३.१४८ ॥
पवनाघूर्णिते चाप्धौ स्फुरद्रत्नप्रभादृशा ।
तं सत्त्वातिशयं तस्य पश्यतीव सविस्मयम् ॥ १६.२३.१४९ ॥
आगत्याच्छादितनभाः निपत्यैतत्शिलातलात् ।
चञ्च्वा गरुत्मान्नाहत्य महासत्त्वं जहार तम् ॥ १६.२३.१५० ॥
स्रुतासृक्धारमुत्खातशिरःरत्नं च तं जवात् ।
नीत्वा भक्षयितुं शृङ्गे मलयाद्रेः प्रचक्रमे ॥ १६.२३.१५१ ॥
एवमेव परार्थाय देहः स्यात्प्रतिजन्म मे ।
मा भूतां स्वर्गमोक्षौ तु परौपकृतिवर्जितौ ॥ १६.२३.१५२ ॥
इति तार्क्ष्याद्यमानस्य तस्यानुध्यायतस्तदा ।
विद्याधरैन्दोरपतत्पुष्पवृष्टिः नभःतलात् ॥ १६.२३.१५३ ॥
अत्रान्तरे सस्तत् रक्तधारास्रवशिरःमणिः ।
तस्याः मलयवत्याः च तत्पत्न्याः प्रापतत्पुरः ॥ १६.२३.१५४ ॥
सा तद्दृष्ट्वा परिज्ञाय चूडारत्नं सुविह्वला ।
अन्तिकस्था श्वशुरयोस्ताभ्यां साश्रुः अदर्शयत् ॥ १६.२३.१५५ ॥
तौ च जायापती सूनोः शिरःरत्नं विलोक्य तम् ।
किमेतत् इति सम्भ्रान्तौ सहसैव बभूवतुः ॥ १६.२३.१५६ ॥
ततः स्वविद्यानुध्यानात् यथावृत्तमवेत्य तत् ।
राजा जीमूतकेतुः सा राज्नी कनकवत्यपि ॥ १६.२३.१५७ ॥
वध्वा मलयवत्या तौ प्रावर्तेतां सह द्रुतम् ।
गन्तुं तत्रैव तौ यत्र तार्क्ष्यजीमूतवाहनौ ॥ १६.२३.१५८ ॥
तावत्सः शङ्खचूडोऽत्र नत्वा गोकर्णमागतः ।
ददर्श रुधिरार्द्रं तत् विग्नो वध्यशिलातलम् ॥ १६.२३.१५९ ॥
हा हतोऽस्मि महापापः ध्रुवं तेन महात्मना ।
आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना ॥ १६.२३.१६० ॥
तदन्विष्यामि नीतः सः क्षणेऽस्मिन्क्वाहिवैरिणा ।
मज्जेयं नायशःपङ्के जीवन्तं चेत्तमाप्नुयाम् ॥ १६.२३.१६१ ॥
इत्युदश्रुः वदन् सोऽथ साधुः दृष्ट्वा निःअन्तराम् ।
पतितां भुवि तत्रक्तधारामनुसरन् ययौ ॥ १६.२३.१६२ ॥
अत्रान्तरे भक्षयन् तं दृष्ट्वा जीमूतवाहनम् ।
हृष्टं विरम्य गरुडश्चिन्तयामास तत् क्षणम् ॥ १६.२३.१६३ ॥
अहो अपूर्वः कोऽप्येषो भक्ष्यमानोऽपि यो मया ।
प्रहृष्यति महासत्त्वो न तु प्राणैः वियुज्यते ॥ १६.२३.१६४ ॥
बिभर्ति लुप्तशेषे च गात्रे रोमाञ्चकञ्चुकम् ।
किं चोपकारिणीवास्य मयि दृष्टिः प्रसीदति ॥ १६.२३.१६५ ॥
तन्नैषो नागः कोऽप्येषः साधुः पृच्छामि नाद्म्यमुम् ।
इति तार्क्ष्यं विमृश्यन्तं प्राह जीमूतवाहनः ॥ १६.२३.१६६ ॥
पक्षीन्द्र किं निवृत्तोऽसि न हि मे मांसशोणितम् ।
देहे नास्ति न चाद्यापि परितृप्तोऽसि बुङ्क्ष्व तत् ॥ १६.२३.१६७ ॥
एतच्छ्रुत्वातिसाश्चर्यस्तं पप्रच्छ सः पक्षिराट् ।
नागो नैवासि तत् ब्रूहि महात्मन्को भवान् इति ॥ १६.२३.१६८ ॥
नागः एवास्मि कोऽयं ते प्रश्नः प्रकृतमाचर ।
प्रस्तुतार्थविरुद्धं हि कोऽभिदध्यादबालिशः ॥ १६.२३.१६९ ॥
एवं प्रतिवदत्येव तार्क्ष्यं जीमूतवाहने ।
प्राप्तः सः शङ्खचूडोऽत्र दूरात् एवाभ्यभाषत ॥ १६.२३.१७० ॥
मा मा कृथाः महापापं साहसं विनतात्मज ।
कोऽयं भ्रमस्ते न ह्येषो नागो नागोऽहमेषस्ते ॥ १६.२३.१७१ ॥
इत्युक्त्वा द्रुतमागत्य मध्ये स्थित्वा तयोः द्वयोः ।
दृष्ट्वा च तार्क्ष्यं विभ्रान्तं शङ्खचूडः
अब्रवीत्पुनः ॥ १६.२३.१७२ ॥
किं भ्राम्यसि फणाः किं मे जिह्वे द्वे च न पश्यसि ।
विद्याधरस्य किं चास्य सौम्यां पश्यसि नाकृतिम् ॥ १६.२३.१७३ ॥
शङ्खचूडे वदत्येवं भार्या च पितरौ च तौ ।
जीमूतवाहनस्यात्र सर्वे सत्वरमाययुः ॥ १६.२३.१७४ ॥
विलुप्ताङ्गं च तं दृष्ट्वा पितरौ तस्य तत् क्षणम् ।
चक्रन्दतुः तौ हा पुत्र हा हा जीमूतवाहन ॥ १६.२३.१७५ ॥
हा कारुणिक हा वत्स परार्थप्रत्तजीवित ।
हा कथं वैनतेयेदमविमृश्य कृतं त्वया ॥ १६.२३.१७६ ॥
एतच्छ्रुत्वैव तार्क्ष्योऽत्र सोऽनुतप्तो व्यचिन्तयत् ।
हा कथं बोधिसत्त्वांशः सम्मोहात् भक्षितो मया ॥ १६.२३.१७७ ॥
जीमूतवाहनः सोऽयं परार्थप्राणदायकः ।
यस्य भ्रमति कृत्स्नेऽस्मिन् त्रैलोक्ये कीर्तिघोषणा ॥ १६.२३.१७८ ॥
तन्मे मृतेऽस्मिन् पापस्य प्राप्तमग्निप्रवेशनम् ।
अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् ॥ १६.२३.१७९ ॥
इति चिन्ताकुले तार्क्ष्ये दृष्ट्वा बन्धून् निपत्य सः ।
व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः ॥ १६.२३.१८० ॥
ततो विलपतोस्तत्र तत्पित्रोः शोकदीनयोः ।
उत्क्रुश्य मुहुः आत्मानं शङ्खचूडे च निन्दति ॥ १६.२३.१८१ ॥
भार्या मलयवत्यस्य नभः दृष्ट्वाश्रुगद्गदम् ।
पूर्वप्रसन्नां वरदामित्युपालभताम्बिकाम् ॥ १६.२३.१८२ ॥
विद्याधराधिपो भाविचक्रवर्ती पतिः तव ।
भवितेत्यहमादिष्टा देवि गौरी तदा त्वया ॥ १६.२३.१८३ ॥
तन्मिथ्यावादिनी जाता त्वमप्यसि कथं मयि ।
इत्युक्तवत्यां तस्यां सा गौरी प्रत्यक्षतामगात् ॥ १६.२३.१८४ ॥
न मे मिथ्या वचः पुत्रीत्युक्त्वा सा स्वकमण्डलोः ।
अमृतेनाशु जीमूतवाहनं सिञ्चति स्म तम् ॥ १६.२३.१८५ ॥
तेन सोऽक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः ।
जीवन् सद्यः समुत्तस्थौ कृती जीमूतवाहनः ॥ १६.२३.१८६ ॥
उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा ।
उवाच देवी तुष्टास्मि देहदानेन तेऽमुना ॥ १६.२३.१८७ ॥
तत् एषा त्वाभिषिञ्चामि पुत्रात्मीयेन पाणिना ।
विद्याधराणामाकल्पं चक्रवर्तिपदेऽधुना ॥ १६.२३.१८८ ॥
एवं वदन्ती जीमूतवाहनं कलशाम्बुधिः ।
तमभ्यषिञ्चच्छर्वानी पूजिता च तिरःदधे ॥ १६.२३.१८९ ॥
निपेतुः चात्र तत् कालं दिव्याः कुसुमवृष्टयः ।
नदन्ति स्म च सानन्दं देवदुन्दुभयः दिवि ॥ १६.२३.१९० ॥
अथोवाच सस्तं प्रह्वस्तार्क्ष्यः जीमूतवाहनम् ।
चक्रवर्तिन्नहं प्रीतः पुरुषातिशये त्वयि ॥ १६.२३.१९१ ॥
अपूर्वौदारमतिना त्रिजगत्कौतुकावहम् ।
ब्रह्माण्डभित्तिलिखितं येन चित्रमिदं कृतम् ॥ १६.२३.१९२ ॥
तन्मां प्रशाधि मत्तश्च वृणुष्वाभीप्सितं वरम् ।
इत्युक्तवन्तं गरुडं महासत्त्वः जगाद सः ॥ १६.२३.१९३ ॥
न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस्त्वया ।
तेऽप्यस्थिशेषाः जीवन्तु ये त्वया पूर्वभक्षिताः ॥ १६.२३.१९४ ॥
एवमस्तु न भोक्ष्येऽहं नागान् शान्तमतः परम् ।
प्राक् ये च भुक्ताः ते जीवन्त्विति तार्क्ष्योऽप्युवाच सः ॥ १६.२३.१९५ ॥
ततोऽस्तिशेषाः येऽप्यासन् नागाः तत्पूर्वभक्षिताः ।
तेऽपि सर्वे समुत्तस्थुः तत्वरामृतजीविताः ॥ १६.२३.१९६ ॥
सुरैः नगैः मुनिगनैः सानन्दैः मिलितैरथ ।
सः लोकत्रितयाभिख्यामुवाह मलयाचलः ॥ १६.२३.१९७ ॥
तत् कालं तं च जीमूतवाहनौदन्तमद्भुतम् ।
गौर्याः प्रसादात् विविदुः सर्वे विद्याधर-ईश्वराः ॥ १६.२३.१९८ ॥
आगत्य ते च चरणावनताः हिमाद्रिं निन्युः
क्षणान्मुदितबन्धुसुहृत्समेतम् ।
तं पार्वतीस्वकरक्ळ्प्तमहाभिषेकं सत्चक्रवर्तिनम्
अथ प्रतिमुक्ततार्क्ष्यम् ॥ १६.२३.१९९ ॥
तत्र सः पित्रा मात्रा मित्रावसुना च मलयवत्या च ।
निजगृहगतागतेन च संयुक्तः शङ्खचूडेन ॥ १६.२३.२०० ॥
लोकौत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरम् ।
अभजत रत्नौपचितां विद्याधरचक्रवर्तिधुरम् ॥ १६.२३.२०१ ॥
इत्यत्युदारसरसामाख्याय कथां तदा स वेतालः ।
पुनः एव तं त्रिविक्रमसेनं पप्रच्छ राजानम् ॥ १६.२३.२०२ ॥
तत् ब्रूहि शङ्खचूडः किं वा जीमूतवाहनोऽभ्यधिकः ।
सत्त्वेन तयोः उभयोः पूर्वौक्तश्चात्र समयस्ते ॥ १६.२३.२०३ ॥
इत्यस्मात् वेतालाच्छ्रुत्वा मौनं विहाय शापभयात् ।
तमुवाच सस्त्रिविक्रमसेनो नृपतिः निःउद्वेगः ॥ १६.२३.२०४ ॥
बहुजन्मसिद्धमेतच्चित्रं जीमूतवाहनस्य कियत् ।
श्लाघ्यः सः शङ्खचूडो मरणौत्तीर्णोऽपि यो रिपवे ॥ १६.२३.२०५ ॥
अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्क्ष्याय ।
पश्चाद्धावन् गत्वा स्वं देहमुपानयत्प्रसभम् ॥ १६.२३.२०६ ॥
एतन्निशम्यैव नृपस्य तस्य वाक्यं स वेतालवरः जगाम ।
पुनः स्वधामैव ततंसपृष्ठान्नृपः
अपि तं सोऽनुययौ तथैव ॥ १६.२३.२०७ ॥
ततः गत्वा पुनस्तस्मात्सो राजा शिंशपातरोः ।
तं त्रिविक्रमसेनोऽंसे वीरो वेतालमग्रहीत् ॥ १७.२४.१ ॥
प्रस्थितं च ततस्तं स वेतालः स्कन्धतोऽब्रवीत् ।
राजन् श्रमविनोदाय शृण्वेतां वच्मि ते कथाम् ॥ १७.२४.२ ॥
अखण्डधर्ममर्यादं गङ्गाकूले कृतास्पदम् ।
कलेः अगम्यं कनकपुरं नाम्नाभवत्पुरम् ॥ १७.२४.३ ॥
तस्मिन् यशोधनाख्योऽभूदन्वर्थो वसुधाधिपः ।
ररख़्ष विप्लवाम्भःधेः यो वेलाद्रिः इव क्षितिम् ॥ १७.२४.४ ॥
जगाताह्लादकश्चण्डप्रतापोऽखण्डमण्डलः ।
विधिना यश्च चन्द्रार्कवेकीकृत्येव निर्ममे ॥ १७.२४.५ ॥
मौर्ख्यं परपरीवादे न शास्त्रार्थे दरिद्रता ।
दोषे न कोषदण्डाभ्यां यस्यासीच्च महीपतेः ॥ १७.२४.६ ॥
पापभीरुः यशःलुब्धः षण्ढः परपुरन्ध्रिषु ।
यः शौर्याउदार्यशृङ्गारमयः जनतया जगे ॥ १७.२४.७ ॥
तस्य राज्ञः पुरे तस्मिन्नभूत् एको महावणिक् ।
उन्मादिनीति ख्याता च कन्या तस्याभवत्सुता ॥ १७.२४.८ ॥
यो यस्तां हि ददर्शात्र सः सस्तत्रूपसम्पदा ।
उन्माद्यति स्म मदनस्यापि मोहनशक्तया ॥ १७.२४.९ ॥
तस्यां च यौवनस्थायां सः गत्वा तत्पिता वणिक् ।
यशोधनं तं राजानं नीतिवेदी व्यजिज्ञपत् ॥ १७.२४.१० ॥
त्रैलोक्यरत्नभूता मे प्रदेयास्ति सुता प्रभो ।
तामनावेद्य देवस्य नान्यस्मै दातुमुत्सहे ॥ १७.२४.११ ॥
देवोऽपि सर्वरत्नानां प्रभुः कृत्स्नेऽपि भूतले ।
तत्स्वीकृत्यानुगृह्णातु देवस्तां प्रतिमुच्य वा ॥ १७.२४.१२ ॥
इत्याकर्ण्य वणिक्वाक्यं स राजा ब्राह्मणान् निजान् ।
सादरं व्यसृजत्तस्याः सौलक्षण्यमवेक्षितुम् ॥ १७.२४.१३ ॥
ते गत्वा ब्राह्मणाः दृष्ट्वा तां त्रैलोक्यैकसुन्दरीम् ।
सद्यः क्षोभं ययुः क्षिप्राल्लब्ध्वा धैर्यमचिन्तयन् ॥ १७.२४.१४ ॥
इमां प्राप्नोति चेत् राजा तत् राष्ट्रमवसीदति ।
एतत्मोहितचित्तः हि किं स राज्यमवेक्षते ॥ १७.२४.१५ ॥
तस्मात्सुलक्षणेत्येषा नाख्येया क्षितिपाय नः ।
इत्येव मन्त्रं सम्मन्त्र्य राज्ञस्ते जग्मुः अन्तिकम् ॥ १७.२४.१६ ॥
कुलक्षणा सा देवेति तमूचुः चात्र ते मृषा ।
तेन राजा स नैवैतां स्वीचकार वणिक्सुताम् ॥ १७.२४.१७ ॥
ततस्तताज्ञया तां सः कन्यामुन्मादिनीं पिता ।
वणिक् बलधराख्याय तत्सेनापतये ददौ ॥ १७.२४.१८ ॥
अथ सा तत्गृहे तस्थौ भर्त्रा तेन समं सुखम् ।
कुलक्षणेत्यहं रज्ञा त्यक्तेत्यात्तविमानना ॥ १७.२४.१९ ॥
याति काले च जात्वत्र हत्वा हेमन्तहस्तिनम् ।
फुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनम् ॥ १७.२४.२० ॥
आजगाम लसत्पुष्पमञ्जरीकेसरावलिः ।
चूताङ्कुरनखः क्रीदन्कानने मधुकेसरी ॥ १७.२४.२१ ॥
तत् कालं चात्र नगरे तं वसन्तमहा-उत्सवम् ।
सो राजा निर्ययौ द्रष्टुं गजारूढो यशोधनः ॥ १७.२४.२२ ॥
तत्रूपालोकसम्भाव्यविप्लवाः कुलयोषितः ।
अपसारयितुं दत्तं तदा चोद्घोषडिण्डिमम् ॥ १७.२४.२३ ॥
सा श्रुत्वोन्मादिनी तस्मै राज्ञे स्वगृहहर्म्यतः ।
आत्मानं दर्शयामास परित्यागावमानतः ॥ १७.२४.२४ ॥
सश्च तां चक्षुभे दृष्ट्वा राजा ज्वालामिवोद्गताम् ।
सन्धुक्षितस्य कामाग्नेः मधुना मलयानिलैः ॥ १७.२४.२५ ॥
निर्वर्णयन् च तत्रूपं जैत्रमस्त्रं मनःभुवः ।
गाढं प्रविष्टं हृदये क्षणान्मोहमुपाययौ ॥ १७.२४.२६ ॥
भृत्यैः आश्वासितश्चात्र राजधानीं प्रविश्य सः ।
पृष्टेभ्यः बुबुधे तेभ्यस्तां प्रागुपनता-उज्झिताम् ॥ १७.२४.२७ ॥
ततो निर्वास्य देशात्तान् तत्कुलक्षणवादिनः ।
विप्रान्ननुदिनं दध्यौ तामेवोत्कः स भूपतिः ॥ १७.२४.२८ ॥
अहो जडात्मा निःलज्जश्चन्द्रो नित्यमुदेति यत् ।
जगत्नेत्रौत्सवे तस्याः निःकलङ्के मुखे सति ॥ १७.२४.२९ ॥
कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ ।
लभेते नोपमामस्याः स्तनयोः पीनतुङ्गयोः ॥ १७.२४.३० ॥
काञ्चीनक्षत्रमालाङ्कं तत्तस्याः जघनस्थलम् ।
कं न कन्दर्पमातङ्गमस्तकाभं विलोभयेत् ॥ १७.२४.३१ ॥
इति तां चिन्तयन्नन्तः क्षीयते स्म दिने दिने ।
कामाग्निपुटपाकेन पच्यमानः स भूपतिः ॥ १७.२४.३२ ॥
ह्रिया निगूहमानश्च पृच्छद्भ्यः बाह्यलक्षणैः ।
कृच्छ्राच्छशंस चाप्तेभ्यः स्वपीडाकारणं सस्तत् ॥ १७.२४.३३ ॥
अलं सन्तप्य भजसे स्वाधीनां तर्हि किं न ताम् ।
इत्युक्तस्तैः च नैवैतदनुमेने सः धार्मिकः ॥ १७.२४.३४ ॥
ततः बलधरः बुद्ध्वा सः सेनापतिः एत्य तम् ।
प्रभुमभ्यर्थयामास सत्भक्तश्चरणानतः ॥ १७.२४.३५ ॥
दासस्त्री तव दास्येव सा देव न पराङ्गना ।
स्वयं चाहं प्रयच्छामि तत् भार्यां स्वीकुरुष्व मे ॥ १७.२४.३६ ॥
अथवा तां त्यजामीह देव देवकुले ततः ।
न दोषः ग्रहणे तस्याः तव देवकुलस्त्रियः ॥ १७.२४.३७ ॥
इति स्वसेनापतिना निर्बन्धेन सः पार्थिवः ।
तेनानुनाथ्यमानोऽपि सान्तःकोपमुवाच तम् ॥ १७.२४.३८ ॥
राजा भूत्वा कथं कुर्यामधर्ममहमीदृशम् ।
मय्युल्लङ्घितमर्यादे कः हि तिष्ठेत्स्ववर्त्मनि ॥ १७.२४.३९ ॥
भक्तोऽपि च भवान् पापे नियोजयति मां कथम् ।
परलोकमहादुःखहेतौ क्षणसुखावहे ॥ १७.२४.४० ॥
न क्षमिष्ये च ते धर्म्यान्दारान् यदि विहास्यसि ।
सहते मादृशः कः हि तादृशं धर्मविप्लवम् ॥ १७.२४.४१ ॥
तत् वरं मृत्युः इत्युक्त्वा स राजा निषिषेध तम् ।
त्यजन्त्युत्तमसत्त्वाः हि प्राणान्नपि न सत्पथम् ॥ १७.२४.४२ ॥
तथैवार्थयमानान् च पौरजानपदान्नपि ।
मिलितान् स निराचक्रे राजा सुदृढनिश्चयः ॥ १७.२४.४३ ॥
ततः क्रमेण तेनैव स्मरज्वरभरौष्मणा ।
प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ १७.२४.४४ ॥
सेनापतिः चासहिष्णुः तं तथा प्रमयं प्रभोः ।
सोऽग्निं विवेश भक्तानामनिर्वाच्यं हि चेष्टितम् ॥ १७.२४.४५ ॥
इत्याख्यातकथाश्चर्यो वेतालोऽंसस्थितस्तदा ।
सस्त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥ १७.२४.४६ ॥
तत् एतयोः को नृपतेः सेनापतिमहीभृतोः ।
सत्त्वेनाभ्यधिकः ब्रूहि पूर्वौक्तः समयश्च ते ॥ १७.२४.४७ ॥
इति वेतालतः श्रुत्वा मुक्तमौनः सस्तं नृपः ।
प्रत्युवाच द्वयोः राजा सत्त्ववान्नधिकस्तयोः ॥ १७.२४.४८ ॥
तदाकर्ण्यैव वेतालः साक्षेपस्तमभाषत ।
सेनापतिः कथं नात्र राजन्नभ्यधिको वद ॥ १७.२४.४९ ॥
यस्तथा स्वामिने भक्त्या स्वभार्यां तां तथाविधाम् ।
सुचिरज्ञाततत्भोगसुखास्वादोऽप्युपानयत् ॥ १७.२४.५० ॥
आत्मानं चाग्निसाच्चक्रे तस्मिन् पञ्चत्वमागते ।
अनास्वादिततत्भोगस्तत्कान्तां तु जहौ नृपः ॥ १७.२४.५१ ॥
वेतालेनैवमुक्तस्तु विहस्य स नृपोऽब्रवीत् ।
यद्यप्येवं तथाप्येतत् किं चित्रं कुलपुत्रकः ॥ १७.२४.५२ ॥
सेनापतिः स भक्त्या यत्स्वाम्यर्थे तत्तथाकरोत् ।
प्राणैरपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥ १७.२४.५३ ॥
राजानस्तु मदाध्माताः गजाः इव निःअङ्कुशाः ।
छिन्दन्ति धर्ममर्यादाशृङ्खलां विषयौन्मुखाः ॥ १७.२४.५४ ॥
तेषां ह्युद्रिक्तचित्तानामभिषेकाम्बुभिः समम् ।
विवेको विगलत्योघेनोह्यमानः इवाखिलः ॥ १७.२४.५५ ॥
क्षिप्यन्त इव चोद्धूय चलत्चामरमारुतैः ।
वृद्धौपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥ १७.२४.५६ ॥
आतपत्रेण सत्यं च सूर्यालोको निवार्यते ।
विभूतिवात्या-उपहता दृष्टिः मार्गं च नेक्षते ॥ १७.२४.५७ ॥
ते ते च विपदं प्राप्ताः मारमोहितचेतसः ।
जगद्विजयिनोऽपीह राजानो नहुषादयः ॥ १७.२४.५८ ॥
एषो राजा पुनः पृथ्व्यामेकछत्रोऽपि यत्तया ।
उन्मदिन्या चपलया लक्ष्म्येव न विमोहितः ॥ १७.२४.५९ ॥
प्राणान्नपि सः धर्मात्मा तत्याज न पुनः पदम् ।
अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः ॥ १७.२४.६० ॥
इत्याकर्ण्य नृपस्य तस्य वचनं भूयस्ततंसस्थलात्
वतालः सहसा स्वमेव सः पदं मायाप्रभावात् ययौ ।
राजाप्यन्वसरत्तथैव सः पुनः सम्प्राप्तुमेतम्
जवादारब्धे हि सुदुःकरेऽपि महतां मध्ये विरामः कुतः ॥ १७.२४.६१ ॥
ततः पितृवने तस्मिन्क्रव्यभक्षिभिः आवृते ।
ज्वालाविलोलरसनैः भूतैः इव चिताग्निभिः ॥ १८.२५.१ ॥
गत्वैव तस्यामक्षोभ्यः क्षपायां शिंशपातरुम् ।
सस्त्रिविक्रमसेनस्तमाससाद पुनो नृपः ॥ १८.२५.२ ॥
तत्रापश्यच्च वेतालविकृतान् सदृशाकृतीन् ।
उल्लम्बमानान् सुबहून् प्रेतकायान्नशङ्कितम् ॥ १८.२५.३ ॥
अहो किमेतत् किं वान्यन्मायी कालं क्षिपत्ययम् ।
वेतालो मे न वेद्म्येषां ग्राह्यं येनेह भूयषाम् ॥ १८.२५.४ ॥
असिद्धार्थस्य चेत् रात्रिः इयं मम गमिष्यति ।
ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥ १८.२५.५ ॥
इति चिन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् ।
सत्त्वतुष्टः स वेतालः स्वमायां सञ्जहार ताम् ॥ १८.२५.६ ॥
ततः दृष्ट्वैकमेवात्र वेतालं नृकलेवरे ।
अवतीर्य गृहीत्वांसे सः प्रतस्थे पुनो नृपः ॥ १८.२५.७ ॥
प्रक्रामन्तं च तं भूयः स वेतालोऽभ्यभाषत ।
राजन् नोद्विजसे चित्रं तत् इमां मे कथां सृणु ॥ १८.२५.८ ॥
अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।
असामान्यगुणौत्कर्षलुब्धेनेव स्वयम्वृता ॥ १८.२५.९ ॥
भोगवत्यमरावत्योस्तृतीयोज्जयिनी पुरी ।
उदारसुकृतप्राप्यनानाभोगौपबृंहिता ॥ १८.२५.१० ॥
यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् ।
तासामेव भ्रुवोः भङ्गः लोचनेषु च चापलम् ॥ १८.२५.११ ॥
तमो निशासु वक्रत्वं यस्यां कविवरौक्तिषु ।
मदः दन्तिषु जाड्यं च मुक्तामलयजैन्दुषु ॥ १८.२५.१२ ॥
तस्यां चन्द्रप्रभाख्यस्य राज्ञोऽमात्यः बहुश्रुतः ।
देवस्वामीत्यभूत् विप्रो भूरियज्ञो महाधनः ॥ १८.२५.१३ ॥
तस्य कालेन तनयश्चन्द्रस्वामीत्यजायत ।
सोऽधीतविद्योऽपि युवा द्यूतैकव्यसनोऽभवत् ॥ १८.२५.१४ ॥
एकदा च द्विजसुतश्चन्द्रस्वामी सः काञ्चन ।
द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ ॥ १८.२५.१५ ॥
आश्लिष्यामः कमत्रेति विपद्भिः इव वीक्षितुम् ।
विक्षिप्तैः कृष्णशाराभैः नेत्रैरक्षैः निरन्तराम् ॥ १८.२५.१६ ॥
कः सोऽस्ति न श्रियं यस्य हराम्यप्यलकापतेः ।
इतीव तन्वतीं नादान्द्यूतकृत्कलहस्वनैः ॥ १८.२५.१७ ॥
तां प्रविश्य क्रमाद्दीव्यन्नक्षैः सः कितवैः सह ।
वस्त्रादि हारयित्वापि धनमन्यदहारयत् ॥ १८.२५.१८ ॥
मृग्यमाणं च यन्नादात्सस्तद्धनमसम्भवि ।
तद् अवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥ १८.२५.१९ ॥
लगुडाहतसर्वाङ्गः पाषाणमिव निःचलम् ।
कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ॥ १८.२५.२० ॥
तथैव दिवसान्द्वित्रान् तत्र तस्मिन्नवस्थिते ।
क्रुद्धः सः सभ्यः ठिण्ठायां कितवान् स्वान्नभाषत ॥ १८.२५.२१ ॥
श्रितानेनाश्मता तावत्तत् एतं क्षिपत क्वचित् ।
नीत्वान्धकूपे निःसत्त्वं धनं दास्याम्यहं तु वः ॥ १८.२५.२२ ॥
इत्युक्ताः तेन कितवाः तं चन्द्रस्वामिनं ततः ।
अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥ १८.२५.२३ ॥
तत्रैको वृद्धकितवस्तान्नन्यान् एवमभ्यधात् ।
मृतोऽयं प्रायशस्तत् किं कूपे क्षिप्तेन नोऽमुना ॥ १८.२५.२४ ॥
तत् इहैवैनमुज्झित्वा वक्ष्यामः कूप उज्झितम् ।
इति ते तत्वचः सर्वे तथेति प्रतिपेदिरे ॥ १८.२५.२५ ॥
ततस्त्यक्त्वा गतेष्वेषु कितवेषु सरुत्थितः ।
चन्द्रस्वामी विवेशात्र शून्यमेकं शिवालयम् ॥ १८.२५.२६ ॥
तत्र किम्चित्समाश्वस्य चिन्तयामास दुःखितः ।
विश्वस्तो मायया कष्टं मुषितः कितवैरहम् ॥ १८.२५.२७ ॥
तत् ईदृशः क्व गच्छामि नाग्नौपहतपांशुलः ।
पिता बन्धुः सुहृत् वापि दृष्ट्वा किं हि वदेन्मम ॥ १८.२५.२८ ॥
तत्सम्प्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये ।
पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥ १८.२५.२९ ॥
इत्यालोचयतस्तस्य क्लान्तस्यानम्बरस्य च ।
मन्दीकृतातपोऽस्ताद्रिं रविः त्यक्ताम्बरो ययौ ॥ १८.२५.३० ॥
तावच्च भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः ।
महाव्रती जटाशूलधरः हरः इवापरः ॥ १८.२५.३१ ॥
सश्चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छ्य च ।
स्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं तापसोऽब्रवीत् ॥ १८.२५.३२ ॥
त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तोऽचिन्तितोऽतिथिः ।
तत् उत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ॥ १८.२५.३३ ॥
इत्युक्तो व्रतिना सोऽथ चन्द्रस्वामी जगाद तम् ।
विप्रोऽहं भगवन् भोक्ष्ये भिक्षाभागं कथं तव ॥ १८.२५.३४ ॥
तच्छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् ।
इष्टसम्पादिनीं विद्यां सस्मारातिथिवल्लभः ॥ १८.२५.३५ ॥
संस्मृतौपस्थितां तां च किं करोमीति वादिनीम् ।
अमुष्यातिथ्यमतिथेः कुरुष्वेति शशास ताम् ॥ १८.२५.३६ ॥
तथेत्युक्ते तया तत्र सौद्यानं साङ्गनाजनम् ।
पुरं सौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥ १८.२५.३७ ॥
विस्मितं च तमभ्येत्य तस्मात् वाराङ्गनाः पुरात् ।
ऊचुरुत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ॥ १८.२५.३८ ॥
इत्युक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च ।
ताभिः सः दत्तसत्वस्त्रो निन्येऽन्यत् वासकौत्तमम् ॥ १८.२५.३९ ॥
तत्रान्तः सः ददर्शैकां प्रधानयुवतिं युवा ।
सर्वाङ्गसुन्दरीं धात्रा कौतुकात् इव निर्मिताम् ॥ १८.२५.४० ॥
तया सः सौत्कयोत्थाय स्वासनार्धौपवेशितः ।
बुभुजे दिव्यमाहारं तयैवात्र समं ततः ॥ १८.२५.४१ ॥
भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।
पर्यङ्कशयने भेजे तत्सम्भोगसुखं निशि ॥ १८.२५.४२ ॥
प्रातः प्रबुद्धश्चापश्यत्तत् एवात्र शिवायलम् ।
नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदम् ॥ १८.२५.४३ ॥
ततः स विग्नो निर्यातं मठिकातः स्मिताननम् ।
पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ॥ १८.२५.४४ ॥
तत्प्रसादादहं रात्रावुषितो भगवन् सुखम् ।
किं तु यास्यन्ति मे प्राणाः तया दिव्यस्त्रिया विना ॥ १८.२५.४५ ॥
तच्छ्रुत्वा सस्तपस्वी तं हसन्कारुणिकोऽब्रवीत् ।
इहैवास्स्व पुनो नक्तं भविष्यति तथैव ते ॥ १८.२५.४६ ॥
इत्युक्ते व्रतिना तेन तत्युक्त्यैव प्रतिक्षपम् ।
चन्द्रस्वाम्यत्र सोऽभुङ्क्त भोगान् तान् तत्प्रसादतः ॥ १८.२५.४७ ॥
बुद्ध्वा च तं शनैः विद्याप्रभावं विधिचोदितः ।
एकदा तापसैन्द्रं तं सः प्रसाद्यान्वयाचत ॥ १८.२५.४८ ॥
सत्यं कृपा चेत् भगवन्मयि ते शरणागते ।
तत् एतां देहि मे विद्यां यत्प्रभावोऽयमीदृशः ॥ १८.२५.४९ ॥
इति ब्रुवाणं निर्बन्धात्तं प्रत्याह सस्तापसः ।
असाध्या तव विद्येयं साध्यतेऽन्तर्जले ह्यसौ ॥ १८.२५.५० ॥
तत्र चैषा सृजत्याशु जपतः साधकस्य तत् ।
मायाजालं विमोहाय येन सिद्धिं न सोऽश्नुते ॥ १८.२५.५१ ॥
सः हि तत्र पुनः जातं बालमात्मानमीक्षते ।
ततो युवानमुद्व्यूढदारं जातात्मजं तथा ॥ १८.२५.५२ ॥
सुहृन्मेऽयमयं शत्रुः इति मिथ्या स मुह्यति ।
न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ॥ १८.२५.५३ ॥
यस्तु त्रिःअष्टवर्षः सन् गुरुविद्याप्रबोधितः ।
जन्म स्म्र्त्वा विदित्वा तद्धीरो मायाविजृम्भितम् ॥ १८.२५.५४ ॥
तत्वशोऽप्यत्र कुरुते तथैवाग्निप्रवेशनम् ।
परमार्थं जलौत्तीर्णः सिद्धविद्यः सः पश्यति ॥ १८.२५.५५ ॥
अन्यस्य न परं विद्या शिष्यस्यैषा हि सिध्यति ।
अस्थानार्पणतो यावत् गुरोरपि विनश्यति ॥ १८.२५.५६ ॥
मत्सिद्ध्यैव फले सिद्धे किं ग्रहेणामुना तव ।
मत्सिद्धिहान्या मा जातु तवैतदपि नङ्क्ष्यति ॥ १८.२५.५७ ॥
एवं तपस्विनोक्तेऽपि चन्द्रस्वामी ग्रहेण सः ।
शिक्ष्यामि सर्वं मा भूत् वश्चिन्तात्रेति तमब्रवीत् ॥ १८.२५.५८ ॥
ततोऽस्मै प्रतिपेदे तां विद्यां दातुं सस्तापसः ।
बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ॥ १८.२५.५९ ॥
ततो नीत्वा नदीतीरं सस्तं स्माह महाव्रती ।
वत्स विद्यां जपन्मायां यदि द्रक्ष्यसि तां तदा ॥ १८.२५.६० ॥
मायाग्निमेव प्रविशेः विद्यया बोधितो मया ।
अहं च तावत्स्थास्यामि तवेहैव नदीतटे ॥ १८.२५.६१ ॥
इत्युक्त्वाध्यापयामास तमाचान्तं शुचिं शुचिः ।
सश्चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः ॥ १८.२५.६२ ॥
ततस्तीरे स्थिते तस्मिन् गुरौ मूर्ध्ना प्रणम्य तम् ।
चन्द्रस्वामी स रभसान्नदीमवततार ताम् ॥ १८.२५.६३ ॥
तस्यामन्तःजले विद्यां तां जपन् सहसैव सः ।
तत्मायामोहितो मिथ्या सर्वं विस्मृत्य जन्म तत् ॥ १८.२५.६४ ॥
वीक्षते यावदन्यस्यामुत्पन्नः स्वात्मना पुरि ।
पुत्रो विप्रस्य कस्यापि बुद्धिं सः शनकैः गतः ॥ १८.२५.६५ ॥
कृतौपनयनोऽधीतविद्यः दारान्नवाप्य च ।
तत्दुःखसुखसम्मूढः सम्पूर्णोऽपत्यवान्क्रमात् ॥ १८.२५.६६ ॥
ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरत् ।
स्थितः बद्धरतिः सार्धं पितृभ्यां बन्धुभिः तथा ॥ १८.२५.६७ ॥
एवं जन्मान्तरं मिथ्या तस्यानुभवतोऽत्र सः ।
काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क्त तापसः ॥ १८.२५.६८ ॥
सस्तत्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः ।
स्मृत्वात्मानं गुरुं तं च मायाजालमवेत्य तत् ॥ १८.२५.६९ ॥
उद्यतोऽग्निप्रवेशाय दिव्यासाध्यफलाप्तये ।
पर्यवारि निषेधद्भिः वृद्धाप्तगुरुबन्धुभिः ॥ १८.२५.७० ॥
बहुधा बोध्यमानोऽपि तैः दिव्यसुखलोलुपः ।
सः सज्जितचितं प्रायान्नदीतीरं सबान्धवः ॥ १८.२५.७१ ॥
दृष्ट्वात्र वृद्धौ पितरौ भार्यां च मरणौद्यताम् ।
क्रन्दन्ति बालापत्यानि सोऽथ मोहादचिन्तयत् ॥ १८.२५.७२ ॥
कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतोऽनलम् ।
न च जानामि किं सत्यं गुरोस्तत् वचनं न वा ॥ १८.२५.७३ ॥
तत् किं नु प्रविशाम्यग्निमुत न प्रविशामि किम् ।
अथवा तत् कथं मिथ्या स्यात्संवादि गुरोः वचः ॥ १८.२५.७४ ॥
तत् विशाम्यनलं काममित्यन्तः प्रविमृश्य सः ।
अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥ १८.२५.७५ ॥
अनुभूतहिमस्पर्शो वह्नेः च सः सविस्मयः ।
शान्तमायो नदीतीरात् उत्थायोपययौ तटम् ॥ १८.२५.७६ ॥
तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पादयोः ।
पृच्छन्तं चाग्निशैत्यान्तं स्वमुदन्तमबोधयत् ॥ १८.२५.७७ ॥
ततस्तं सः गुरुः प्राह वत्स शङ्के कृतस्त्वया ।
अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा ॥ १८.२५.७८ ॥
अदृष्टमेतत् एतस्याः विद्यायाः साधने यतः ।
एतत् गुरोः वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥ १८.२५.७९ ॥
नापचारो मया कःचित् विहितो भगवन् इति ।
ततः सस्तत्गुरुः विद्यां जिज्ञासुः तां समस्मरत् ॥ १८.२५.८० ॥
न च साविःअभूत्तस्य न तत्शिष्यस्य तस्य वा ।
नष्टविद्यवथोभौ तौ विषण्णौ जग्मतुः ततः ॥ १८.२५.८१ ॥
इत्याख्याय कथामथ वेतालः पृष्टवान् सस्तं भूयः ।
पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वौक्तम् ॥ १८.२५.८२ ॥
राजन् संशयमेतं छिन्द्धि मम ब्रूहि हेतुना केन ।
विहितेऽपि यथोद्दिष्टे कर्मणि विद्योभयोस्तयोः नष्टा ॥ १८.२५.८३ ॥
एतत्सो वेतालवचो निशम्य तं प्रत्यवोचन्मनुजैन्द्रवीरः ।
जाने भवान्मे क्षिपतीह कालं योग-ईश्वर
एवं तदपि ब्रवीमि ॥ १८.२५.८४ ॥
न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
यावन्न निष्क्रम्य विकल्पशुद्धं धीरं मनः
निर्मलसत्त्ववृत्ति ॥ १८.२५.८५ ॥
तस्यात्र मन्दस्य तु विप्रयूनश्चित्तं प्रबुध्यापि विकल्पते स्म ।
विद्या न सा तेन गतास्य सिद्धिरस्थानदानात्
च गुरोः विनष्टा ॥ १८.२५.८६ ॥
इति तस्य नृपस्य सृष्टवाचः बत वेतालवरोऽंसतः स भूयः ।
निजमेव पदं ययवलक्ष्यो नृपतिः तम्
तथैव सोऽन्वयासीत् ॥ १८.२५.८७ ॥
अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
सस्त्रिविक्रमसेनस्तं गृहीत्वोदचलन्नृपः ॥ १९.२६.१ ॥
आगच्छन्तं च तं भूयो वेतालः सोऽभ्यभाषत ।
राजन् शृणु कथमेकां हृद्यां ते कथयाम्यहम् ॥ १९.२६.२ ॥
अस्ति वक्रोलकं नाम पुरं सुरपुरौपमम् ।
तस्मिन् सूर्यप्रभाख्योऽभूत् राजा जन्भारिसन्निभः ॥ १९.२६.३ ॥
सौकर्यौद्यतया मूर्त्या दत्तानन्दो वसुन्धराम् ।
इमां हरिः इवोद्धृत्य यः बभार चिरं भुजे ॥ १९.२६.४ ॥
धूमासङ्गेऽश्रुसम्पातः शृङ्गारे मारसङ्कथाः ।
द्वाःस्थेषु हेमदण्डाः च राष्ट्रे यस्याभवन् प्रभोः ॥ १९.२६.५ ॥
सर्वसम्पत्समृद्धस्य तस्यैकाभूदनिर्वृतिः ।
नोदपद्यत यत्पुत्रः बहुष्वन्तःपुरेष्वपि ॥ १९.२६.६ ॥
एतस्मिन् च कथासन्धौ ताम्रलिप्त्यां महापुरि ।
बभूव धनपालाख्यः धुर्यः धनवतां वनिक् ॥ १९.२६.७ ॥
तस्य चाजायतैकैव नाम्ना धनवती सुता ।
विद्याधरी च्युता शापात्सौन्दर्येणैव सूचिता ॥ १९.२६.८ ॥
तस्यां च यौवनस्थायां स वणिक् पञ्चतां ययौ ।
तत्धनं राजसानाथ्यादाक्रान्तमथ गोत्रजैः ॥ १९.२६.९ ॥
ततः हिरण्यवती-आख्या वणिजस्तस्य गेहिनी ।
आदाय रत्नभरणं निजमप्रकटस्थितम् ॥ १९.२६.१० ॥
धनवत्या तया साकं स्वदुहित्रा निशामुखे ।
पलाय्य दायादभयात् गृहात् गुप्तं विनिर्ययौ ॥ १९.२६.११ ॥
ध्वान्तेन बहिरन्तश्च सा दुःखेनान्धकारिता ।
कृच्छ्रात् बहिःपुरं प्रायात्सुताहस्तावलम्बिनी ॥ १९.२६.१२ ॥
तत्र सन्तमसे यान्ती विधियोगादलक्षितम् ।
अंसेनाताडयच्चौरं शूलाग्रारोपितस्थितम् ॥ १९.२६.१३ ॥
सः सजीवस्ततंसाग्रघट्टनाधिकपीडितः ।
आः क्षते क्षारमेतन्मे क्षिप्तं केनेत्यभाषत ॥ १९.२६.१४ ॥
ततस्तत्रैव सा कोऽसीत्यपृच्छत्तं वणिक्वधूः ।
प्रत्युवाच ततश्चौरश्चौरोऽहमिह सूचितः ॥ १९.२६.१५ ॥
शूले पापस्य चाद्यापि नोत्क्रामन्ति ममासवः ।
तदार्ये त्वं मम ब्रूहि कासिक्वैवं प्रयासि च ॥ १९.२६.१६ ॥
तच्छ्रुत्वा तं वणिक्भार्या यावत्स्वौदन्तमाह सा ।
तावत्तिलकितं प्राच्याः मुखमुद्भासितैन्दुना ॥ १९.२६.१७ ॥
ततः दिक्षु प्रकाशासु सश्चौरस्तां वणिक्सुताम् ।
दृष्ट्वा धनवतीं कन्यां तत्मातरमुवाच ताम् ॥ १९.२६.१८ ॥
शृणु मे प्रार्थनामेकां सहस्रं काञ्चनस्य ते ।
ददामि तत् इमां मह्यं स्वसुतां देहि कन्यकाम् ॥ १९.२६.१९ ॥
किमेतया तवेत्युक्तः हसन्त्याथ तयात्र सः ।
पुनश्चौरोऽब्रवीन्नास्ति पुत्रो मं गतायुषः ॥ १९.२६.२० ॥
न चापुत्रोऽश्नते लोकान् तत् एषा यं मताज्ञया ।
कुत्रचित् जनयेत्पुत्रं क्षेत्रजः स भवेन्मम ॥ १९.२६.२१ ॥
इत्येतां प्रार्थये त्वं तु तत् विधत्स्व ममेप्सितम् ।
तच्छ्रुत्वा सा वणिक्योषिल्लोभात्तत्प्रत्यपद्यत ॥ १९.२६.२२ ॥
आनीय च कुतःअप्यम्बु पाणौ चौरस्य तस्य सा ।
एषा सुता मया तुभ्यं कन्या दत्तेत्यपातयत् ॥ १९.२६.२३ ॥
सोऽपि तत्दुहितुः दत्तयथा-उक्ताज्ञः जगाद ताम् ।
गच्छामुष्य वटस्याधः खात्वा स्वर्णं गृहाण तत् ॥ १९.२६.२४ ॥
गतासोः दाहयित्वा मे देहं युक्त्या विसृज्य च ।
अस्थीनि तीर्थे ससुता गच्छेः वक्रोलकं पुरम् ॥ १९.२६.२५ ॥
तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने ।
निःउपद्रवनिःचिन्ता स्थास्यसि त्वं यथेच्छसि ॥ १९.२६.२६ ॥
इत्युक्त्वा तृषितः पीत्वा तयैवोपहृतं जलम् ।
शूलव्यधव्यथा-उत्क्रान्तजीवश्चौरः बभूव सः ॥ १९.२६.२७ ॥
ततः गत्वा वणिक्स्त्री सा स्वर्णं वटतरोस्तलात् ।
गृहीत्वा ससुता गुप्तमगात् भर्तृसुहृत्गृहम् ॥ १९.२६.२८ ॥
तत्र स्थित्वा च युक्त्या तद्दाहयित्वा कलेवरम् ।
चौरस्य तस्य तीर्थेऽस्थिक्षेपादिकमकारयत् ॥ १९.२६.२९ ॥
अन्येद्युः चात्तगुप्तार्था ततो निर्गत्य सात्मजा ।
प्रयान्ती क्रमशः प्राप सा तत् वक्रोलकं पुरम् ॥ १९.२६.३० ॥
तत्रैकं वसुदत्ताख्यात् गृहं क्रीत्वा वणिक्वरात् ।
तस्मिन्नुवास सुतया धनवत्या तया सह ॥ १९.२६.३१ ॥
तदा च तत्रोपाध्यायो विष्णुस्वामीत्यभूत्पुरे ।
मनःस्वामीति तस्यासीच्छिष्यो विप्रोऽतिरूपवान् ॥ १९.२६.३२ ॥
विध्याभिजनयुक्तोऽपि स यौवनवशीकृतः ।
तत्र हंसावलीं नाम वाञ्छति स्म विलासिनीम् ॥ १९.२६.३३ ॥
सा च सौवर्णदीरशतपञ्चकमग्रहीत् ।
भाटिं तस्य च तन्नाभूत् व्यषीदत्तेन सोऽनुअहम् ॥ १९.२६.३४ ॥
एकदा च तमद्राक्षीत्तादृशं सा वणिक्सुता ।
क्षामाभिरामवपुषं धनवत्यत्र हर्म्यतः ॥ १९.२६.३५ ॥
तत्रूपहृतचित्त च भर्तुः चौरस्य तस्य सा ।
स्मृत्वानुज्ञां समीपस्थां युक्त्यावोचत्स्वमातरम् ॥ १९.२६.३६ ॥
अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने ।
कीदृशे बत विश्वस्य नयनामृतवर्षिणी ॥ १९.२६.३७ ॥
एतच्छ्रुत्वैव तस्मिन् तां बद्धभावामवेत्य च ।
तन्माता सा वणिक्भार्या मनस्येवमचिन्तयत् ॥ १९.२६.३८ ॥
मत्दुहित्रानया तावत् वरणीयः सुताप्तये ।
कःचित् भर्तृ-आज्ञया तस्मात् एषः एवार्थ्यते न किम् ॥ १९.२६.३९ ॥
इत्याकलय्य व्यसृजत्तत्सन्दिश्य मनीषितम् ।
रहस्यधारिणीं चेटीं तमानेतुं सुताकृते ॥ १९.२६.४० ॥
सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् ।
सश्च श्रुत्वा द्विजयुवा व्यसनी तामभाषत ॥ १९.२६.४१ ॥
यदि हंसावलीहेतोः दीनारशतपञ्चकम् ।
सौवर्णं दीयते तत् एकामेमि यामिनीम् ॥ १९.२६.४२ ॥
इति तेनोक्तया चेट्या तया गत्वा तथैव सा ।
उक्ता वणिक्स्त्री तस्मै तत्तथस्ते प्राहिणोद्धनम् ॥ १९.२६.४३ ॥
तत् गृहीत्वा मनःस्वामी तत्पुत्र्याः वासकं ययौ ।
तस्याः सस्तत्निसृष्टायाः धनवत्यः सचेटिकः ॥ १९.२६.४४ ॥
तत्र तां विततौत्कण्ठां कान्तां भूषितभ्तलाम् ।
सश्चकोरः इव ज्योत्स्नां ददर्श च जहर्ष च ॥ १९.२६.४५ ॥
तया समं च नीत्वा तां रात्रिं सम्भोगलीलया ।
निर्गत्य सस्ततः गुप्तं ययौ प्रातो यथागतम् ॥ १९.२६.४६ ॥
सापि तस्माद्धनवती सगर्भाभूत् वणिक्सुता ।
काले च सुषुवे पुत्रं लक्षणानुमितायतिम् ॥ १९.२६.४७ ॥
परितुष्टां तदा तां च सुतौत्पत्त्या समातृकाम् ।
आदिदेश हरः स्वप्ने दर्शितस्ववपुः निशि ॥ १९.२६.४८ ॥
युक्तं हेमसहस्रेण नीत्वा बालमुषस्यमुम् ।
सूर्यप्रभनृपस्येह मञ्चस्थं द्वारि मुञ्चतम् ॥ १९.२६.४९ ॥
एवं स्यात् क्षेममित्युक्ता शूलिना सा वणिक्सुता ।
तत्माता च प्रबुध्यैतं स्वप्नन्नन्यःअन्यमूचतुः ॥ १९.२६.५० ॥
नीत्वा च तं तत्यजतुः भगवत्प्रत्ययाच्छिशुम् ।
राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे सहेमकम् ॥ १९.२६.५१ ॥
तावच्च तमपि स्वप्ने सुतचिन्तातुरं सदा ।
तत्र सूर्यप्रभं भूपमादिदेश वृषध्वजः ॥ १९.२६.५२ ॥
उत्तिष्ठ राजन् बालस्ते सिंहद्वारे सकाञ्चनः ।
केनापि स्थापितो भव्यो मञ्चकस्थं गृहाण तम् ॥ १९.२६.५३ ॥
इत्युक्तः शम्भुना प्रातः प्रबुद्धोऽपि तथैव सः ।
द्वाःस्थैः प्रविश्य विज्ञप्तो निर्ययौ नृपतिः स्वयम् ॥ १९.२६.५४ ॥
दृष्ट्वा च सिंहद्वारे तं बालं सकनकौत्करम् ।
रेखाछत्त्रध्वजाद्यङ्कपाणिपादं शुभाकृतिम् ॥ १९.२६.५५ ॥
दत्तो ममोचितः पुत्रः शम्भुनायमिति ब्रुवन् ।
स्वयं गृहीत्वा बाहुभ्यां राजधानीं विवेश सः ॥ १९.२६.५६ ॥
चकार चोत्सवं तावदसङ्ख्यातं ददत् वसु ।
दरिद्रशब्दस्यैकस्य यावदासीन्निःअर्थता ॥ १९.२६.५७ ॥
नृत्तवाद्यादिभिः नीत्वा द्वादशाहं ततः सस्तम् ।
पुत्रं चन्द्रप्रभं नाम्ना चक्रे सुर्यप्रभो नृपः ॥ १९.२६.५८ ॥
ववृधे राजपुत्रोऽत्र सोऽथ चन्द्रप्रभः क्रमात् ।
वपुषेव गुणओघेनाप्याश्रितानन्ददायिना ॥ १९.२६.५९ ॥
शनैः युवा च सञ्जञ्जे शौर्याउदार्यश्रुतादिभिः ।
आवर्जितप्रकृतिकः क्ष्माभारौद्वहनक्षमः ॥ १९.२६.६० ॥
तादृशं च ततः दृष्ट्वा तं सः सूर्यप्रभः पिता ।
राजयेऽभिषिज्यैव कृती वृद्धो वाराणसीं ययौ ॥ १९.२६.६१ ॥
पृथ्वीं शासति तस्मिन् च तनये नयशालिन ।
सो राजा तत्र तत्याज चरन् तीव्रतपस्तनुम् ॥ १९.२६.६२ ॥
बुद्ध्वा पितृविपत्तिं तामनुशोच्य कृतक्रियः ।
सोऽथ चन्द्रप्रभो राजा सचिवान्धार्मिकोऽब्रवीत् ॥ १९.२६.६३ ॥
तातस्य तावत् केनाहमनृणो भवितुं क्षमः ।
तथाप्येकां स्वहस्तेन ददाम्येतस्य निष्कृतिम् ॥ १९.२६.६४ ॥
नीत्वा क्षिपामि गङ्गायामस्थीन्यस्य यथाविधि ।
गत्वा सर्वपितृह्यश्च गयां पिण्डं ददाम्यहम् ॥ १९.२६.६५ ॥
प्रसङ्गात्तीर्थयात्रां च करोम्यापूर्वसागरम् ।
इत्युक्तवन्तं राजानं मन्त्रिणस्तं व्यजिज्ञपन् ॥ १९.२६.६६ ॥
न देव युज्यते कर्तुमेतत् राज्ञः कथम्चन ।
न हि राज्यं बहुछिद्रं क्षणं तिष्ठत्यरक्षितम् ॥ १९.२६.६७ ॥
तत् एषा परहस्तेन कार्या ते पित्रुपक्रिया ।
स्वधर्मपालनादन्या तीर्थयात्रा च का तव ॥ १९.२६.६८ ॥
बहुअपायं क्व पान्थत्वां नित्यगुप्ताः क्व पार्थिवाः ।
इति मन्त्रिवचः श्रुत्वा राजा चन्द्रप्रभोऽब्रवीत् ॥ १९.२६.६९ ॥
अलं विकल्पैः पित्र्यर्थे गन्तव्यं निश्चितं मया ।
द्रष्टव्यानि च तीर्थानि यावन्मे क्षमते वयः ॥ १९.२६.७० ॥
पश्चा को वेत्ति किं भावि शरिरे क्षणनश्वरे ।
राज्यं चागमनं यावत् रक्ष्यं युष्माभिः एव मे ॥ १९.२६.७१ ॥
श्रुत्वैतं निश्चयं राज्ञस्तूष्णीमासत मन्त्रिणः ।
ततः प्रय्णसम्भारं सज्जीचक्रे स भूपतिः ॥ १९.२६.७२ ॥
अथाह्नि सः शुभे स्नातः हुताग्निः पूजितद्विजः ।
सुयुक्तं रथमास्थाय प्रयतः शान्तवेषभृत् ॥ १९.२६.७३ ॥
सामन्तान् रजपुत्रान् च पौरान् जनपदान्नपि ।
निवर्त्यानिच्छतः कृच्छ्रादासीमान्तानुयायिनः ॥ १९.२६.७४ ॥
ब्राह्मणैः वाहनारूढैः समं सः सपुरोहितः ।
प्रतस्थे सचिवन्यस्तराज्यश्चन्द्रप्रभो नृपः ॥ १९.२६.७५ ॥
विचित्रवेषभाषादिविलोकनविनोदितः ।
पश्यन् नानाविधान्देशान्क्रमात्प्राप च जाह्नवीम् ॥ १९.२६.७६ ॥
ददर्श ता च जन्तूनां जलकल्लोलपङ्क्तिभिः ।
त्रिदिवारोहसोपानपद्धतिं सृजतीमिव ॥ १९.२६.७७ ॥
हिमवत्प्रभवां शम्भोः कृतक्रीडाकचग्रहाम् ।
बिभ्रतीं चाम्बिकालीलां देवऋषिगणवन्दिताम् ॥ १९.२६.७८ ॥
रथावतीर्णस्तस्यां च कृतस्नानो यथाविधि ।
चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥ १९.२६.७९ ॥
दत्तदानः कृतश्राद्धो रथारूढस्ततोऽपि च ।
प्रस्थितः क्रमशः प्राप प्रयागं ऋषिसंस्तुतम् ॥ १९.२६.८० ॥
यत्रार्चिःआद्यधूमादिमाग्रविव समागतौ ।
गङ्गा यमुनयोः वाहौ भातः सुगतये नृणाम् ॥ १९.२६.८१ ॥
तत्रोपोष्य कृतस्नानदानश्राद्धादिसत्कॄयः ।
वाराणसीं जगामाथ सश्चन्द्रप्रभभूपतिः ॥ १९.२६.८२ ॥
एत मोक्षं प्रयातेति वदन्तामिव दूरतः ।
वाताक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः ॥ १९.२६.८३ ॥
तस्यां दिनान्युपोष्य त्रीण्यभ्यर्च्याथ वृषध्वजम् ।
भोगैः निजौचितैः तैः तैः प्रययौ सः गयां प्रति ॥ १९.२६.८४ ॥
ततः फलओघनमितैः मञ्जुगुञ्जत्विहङ्गमैः ।
पदे पदे सप्रणामं स्तूयमानः इवाङ्घ्रिपैः ॥ १९.२६.८५ ॥
विक्षिप्तवन्यकुसुमैरर्च्यमानः इवानिलैः ।
नानारण्यान्यतिक्रम्य पुण्यं प्राप गयाशिरः ॥ १९.२६.८६ ॥
विधाय तत्र च श्राद्धं विधिवत् भूरिदक्षिणम् ।
चन्द्रप्रभः स राजात्र धर्मारण्यमुपेयिवान् ॥ १९.२६.८७ ॥
गयाकूपेऽस्य ददतः पितुः पिण्डं ततन्तरात् ।
समुत्तस्थुः तमादातुं त्रयो मानुषपणयः ॥ १९.२६.८८ ॥
तद्दृष्ट्वैव स विभ्रान्तः किमेतत् इति पार्थवः ।
कस्मिन् हस्ते क्षिपे पिण्डमित्यपृच्छन्निजान्द्विजान् ॥ १९.२६.८९ ॥
ते तमूचुः अयं तावत् एकश्चौरस्य निश्चतम् ।
हस्तः लोहमयः शङ्कुः यस्मिन्देवैषः दृश्यते ॥ १९.२६.९० ॥
द्वितीयः ब्राह्मणस्यायं करः धृतपवित्रकः ।
राज्ञः पाणिः तृतीयोऽयं साङ्गुलीयः सुलक्षणः ॥ १९.२६.९१ ॥
तन्न विद्मः क्व पिण्डोऽयं निक्षेप्यः किमिदं भवेत् ।
इत्युक्तस्तैः द्विजैः सोऽत्र राजा लेभे न निश्चयम् ॥ १९.२६.९२ ॥
इत्याख्याय कथाश्चर्यं वेतालोऽंसस्थितस्तदा ।
सस्त्र्विक्रमसेनं तं जगाद नृपतिं पुनः ॥ १९.२६.९३ ॥
तत् कस्य हस्ते देयः स्यात्सः पिण्डः इति वक्तु मे ।
भवान् तावत्सः एवात्र प्राक्तनः समयश्च ते ॥ १९.२६.९४ ॥
इति वेतालतः श्रुत्वा मुक्तमौनः स भूपतिः ।
तं त्रिविक्रमसेनोऽत्र धर्मज्ञः प्रत्यभाषत ॥ १९.२६.९५ ॥
चौरस्य हस्ते दातव्यः सः पिण्डः क्षेत्रजो यतः ।
चन्द्रप्रबः स नृपतिः पुत्रस्तस्यैव नान्ययोः ॥ १९.२६.९६ ॥
विप्रस्य जनकस्यापि सः हि पुत्रो न बुध्यते ।
विक्रीतः हि धनेनात्मा तामेकां तेन यामिनीम् ॥ १९.२६.९७ ॥
राज्ञः सूरप्रबस्यापि संस्कारादानवर्धनैः ।
भवेत्सः पुत्रो न स्याच्चेत्स्वधनं तस्य तत्कृते ॥ १९.२६.९८ ॥
शिशोस्तस्य हि शीर्षान्ते मञ्चस्थस्यैव हेम यत् ।
न्यस्तमासीत्तत् एवास्य मूल्यं संवर्धनादिके ॥ १९.२६.९९ ॥
तस्माद्धस्तौदकप्राप्ता तत्माता यस्य येन सा ।
अज्ञा तत्जनने दत्ता यस्य तन्निखिलं धनम् ॥ १९.२६.१०० ॥
तस्य सः क्षेत्रजः पुतश्चौरस्यैव महीपतिः ।
पिण्डस्तस्यैव हस्ते च देयस्तेनेति मे मतिः ॥ १९.२६.१०१ ॥
इत्युक्त्वतो नृपतेः तस्यांसात्स्वपदमेव वेतालः ।
प्रययौ सश्च त्रिविक्रमसेनो राजा तमन्वयात् भूयः ॥ १९.२६.१०२ ॥
ततः गत्वा गृहीत्वांसे वेतालं शिंशपातरोः ।
सस्त्रिविक्रमसेनस्तमुच्चचाल पुनो नृपः ॥ २०.२७.१ ॥
मौनेन प्रस्थितं तं च वेतालोऽंसात् उवाच सः ।
राजन्कस्तेऽनुबन्धोऽयं गच्छ रात्रिसुखं भज ॥ २०.२७.२ ॥
न युक्तं तव नेतुं मां कुभिक्षोस्तस्य गोचरम् ।
ग्रहो वा तत्र चेदस्तु कथामेकामिमां शृणु ॥ २०.२७.३ ॥
अस्ति स्वरेखानुत्क्रान्तवर्णभेदव्यवस्थिति ।
नगरं चित्रकूटाख्यं बिभ्राणं सत्यनामताम् ॥ २०.२७.४ ॥
तत्रामृतरसासारवर्षी प्रणयिचक्षुषाम् ।
चन्द्रावलोकः इत्यासीत् राजा राजशिखामणिः ॥ २०.२७.५ ॥
आलानं शौर्यकरिणस्त्यागस्योत्पत्तिकेतनम् ।
विलासवेश्म रूपस्य शशंसुः यं विचक्षणाः ॥ २०.२७.६ ॥
सतीषु सर्वसम्पत्सु यन्न प्राप निजौचिताम् ।
भार्यां सैका परं चिन्ता यूनस्तस्याभवत् हृदि ॥ २०.२७.७ ॥
एकदा च ततुद्वेगविनोदाय महाटवीम् ।
जगामाश्वीयसहितो मृगयायै स भूपतिः ॥ २०.२७.८ ॥
तत्र सूकरवृन्दानि भिन्दन् बाणैः निःअन्तरैः ।
श्यामलाम्बररोचिष्णुः तमांसीव रविः करैः ॥ २०.२७.९ ॥
शाययन् शरशय्यासु सिंहान् समरदुःमदान् ।
मूर्धजैः धवलैः भीष्मान्नर्जुनाधिकविक्रमः ॥ २०.२७.१० ॥
विपक्षीकृत्य शरभान् पातयन् पर्वतौपमान् ।
दम्भोलिकर्कशप्रासपातैः जम्भारिविक्रमः ॥ २०.२७.११ ॥
रसात् विविक्षुः स नृपो वनाभ्यन्तरमेककः ।
तीव्रपार्ष्णिप्रहारेण प्रेरयामास वाजिनम् ॥ २०.२७.१२ ॥
सो वाजी तेन च कशाघातेनोत्तेजितो भृशम् ।
पार्ष्णिघातेन विषमं समं चागणयन्क्षणात् ॥ २०.२७.१३ ॥
वनान्तरं ततोऽनैषीत् वाताधिकजवो नृपम् ।
मोहितैन्द्रियवृत्तिं तं व्यतीत्य दशयोजनीम् ॥ २०.२७.१४ ॥
तत्र तस्मिन् स्थिते वाहे राजा दिक्मोहमेत्य सः ।
भ्रमन् श्रान्तः ददर्शैकमारात्सुविपुलं सरः ॥ २०.२७.१५ ॥
मारुतेनाभिमुख्येन नमितौन्नमितैः मुहुः ।
इतः एहीति हस्ताभैः संज्ञां कुर्वत् इवाम्बुजैः ॥ २०.२७.१६ ॥
तत्र गत्वा च तुरगं विपर्याणौपवर्तितम् ।
स्नातपीतं तरुछायाबद्धं दत्ततृणौत्करम् ॥ २०.२७.१७ ॥
कृत्वा स्वयं कृतस्नानः पीताम्बुः गलितश्रमः ।
रम्येषु तत्प्रदेशेषु ददौ दृष्टिमितस्ततः ॥ २०.२७.१८ ॥
एकत्र चाशोकतरोरधस्तान्मुनिकन्यकाम् ।
आमुक्तपुष्पाभरणां वल्कलांशुकशोभिनीम् ॥ २०.२७.१९ ॥
मुग्धबद्धजटाजूटसविशेषमनःरमाम् ।
सखीद्वितीयामाश्चर्यरूपां राजा ददर्श सः ॥ २०.२७.२० ॥
अचिन्तयच्च पुष्पैषोः पतितः शरगोचरे ।
केयं स्यात्सरसि स्नातुं सावित्री किं स्विद् आगता ॥ २०.२७.२१ ॥
किं हरस्याङ्कविभ्रष्टा गौरी भूयः श्रिता तपः ।
अहन्यस्तम्गतस्येन्दोः कान्तिः किं वा धृतव्रता ॥ २०.२७.२२ ॥
तत् एतामुपसृत्येह शनैः उपलभे वरम् ।
इत्यालोच्य ययौ तस्याः कन्यायाः सोऽन्तिकं नृपः ॥ २०.२७.२३ ॥
सापि दृष्ट्वा तमायान्तं तत्रूपाकुलित-ईक्षणा ।
पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत् ॥ २०.२७.२४ ॥
कोऽयमीदृक् अरण्येऽस्मिन् सिद्धो विद्याधरो नु किम् ।
बतास्य रूपं विश्वस्य कृतार्थीकरणं दृशोः ॥ २०.२७.२५ ॥
एवं वितर्क्य पश्यन्ती तिर्यक्तं त्रपया ततः ।
उत्थाय स-ऊरुस्तम्भापि गन्तुं प्रावर्ततैव सा ॥ २०.२७.२६ ॥
अथोपेत्य स राजा तामेवं नागरिकोऽब्रवीत् ।
आस्तां प्रथमदृष्टस्य दर्शनैकफलार्थिनः ॥ २०.२७.२७ ॥
जनस्य दूरायातस्य सुन्दरि स्वागतादिकम् ।
कोऽयं न्वाश्रमिणां धर्मो यत् एतस्मात्पलाय्यते ॥ २०.२७.२८ ॥
इत्युक्ते भूभुजा तस्याः सखी तद्वत् विचक्षणा ।
तत्रोपवेश्य नृपतेह् चकारातिथ्यसत्क्रियाम् ॥ २०.२७.२९ ॥
अथ सप्रणयं राजा तां सः पप्रच्छ सौत्सुकः ।
भद्रे कः पुण्यवान् वंशस्त्वत्सख्यालङ्कृतोऽनया ॥ २०.२७.३० ॥
कानि श्रोत्रामृतस्यन्दीन्यस्याः नामाक्षराणि च ।
किं चैवमनया पुष्पसुकुमारमिदं वपुः ॥ २०.२७.३१ ॥
तापसौचितया वृत्त्या विजनेऽस्मिन्कदर्थ्यते ।
इति राज्ञो वचः श्रुत्वा तत्सखी प्रत्युवाच सा ॥ २०.२७.३२ ॥
एषा महाऋषेः कण्वस्य दुहिता वर्धिताश्रमे ।
मेनकासम्भवा कन्या नाम्ना चेन्दीवरप्रभा ॥ २०.२७.३३ ॥
इहास्मिन् सरसि स्नातुमागतानुज्ञया पितुः ।
इतोऽत्र नातिदूरेऽस्ति तस्यैतत्पितुः आश्रमः ॥ २०.२७.३४ ॥
इत्युक्तः सस्तया हृष्टो राजारुह्य तुरङ्गमम् ।
याचितुं तां सुतां तस्य कण्वऋषेः आश्रमं ययौ ॥ २०.२७.३५ ॥
विवेश च विनीतस्तं बहिः स्थापितवाहनः ।
जटावल्कलिभिः पूर्णं पादपैः इव तापसैः ॥ २०.२७.३६ ॥
तत्मध्ये च तमद्राक्षीत् ऋषिभिः परिवारितम् ।
तेजसाह्लादनं कण्वमुनिं चन्द्रमिव ग्रहैः ॥ २०.२७.३७ ॥
उपेत्य पादयोस्तं च ववन्दे सोऽपि तं मुनिः ।
कल्पितातिथ्यविश्रान्तं ज्ञानी क्षिप्रादभाषत ॥ २०.२७.३८ ॥
वत्स चन्द्रवलोकैतच्छृणु यत् वच्मि ते हितम् ।
जानासि यादृक् संसारे प्राणिनां मृत्युतो भयम् ॥ २०.२७.३९ ॥
तन्निःकारणमेवैतान् वराकान् हंसि किं मृगान् ।
शस्त्रं हि भीतरक्षार्थं धात्रा क्षत्रस्य निर्मितम् ॥ २०.२७.४० ॥
तत्प्रजाः रक्ष धर्मेण समुन्मूलय कण्टकान् ।
हस्त्यश्वास्त्रादियोग्याभिः चललक्ष्म्यादि साधय ॥ २०.२७.४१ ॥
भुङ्क्ष्व राज्यसुखं देहि धनं दिक्षु यशः किर ।
कृतान्तक्रीडितं हिंस्रं मृगयाव्यसनं त्यज ॥ २०.२७.४२ ॥
हन्तुः वध्यस्य चान्यस्य यत्र तुल्या प्रमादिता ।
किं तेन बहुअनर्थेन पाण्डोः वृत्तं न किं श्रुतम् ॥ २०.२७.४३ ॥
एतत् कण्वमुनेः वाक्यं श्रुत्वा समभिनन्द्य च ।
राजा चन्द्रावलोकस्तमर्थज्ञः प्रत्यभाषत ॥ २०.२७.४४ ॥
अनुशिष्टोऽस्मि भगवन्कृतो मेऽनुग्रहः परः ।
मृगयायाः निवृत्तोऽहं प्राणिनः सन्तु निःभयाः ॥ २०.२७.४५ ॥
तच्छ्रुत्वोवाच स मुनिः तुष्टोऽहममुना तव ।
प्राणिष्वभयदानेन तत् वृणीष्वेप्सितं वरम् ॥ २०.२७.४६ ॥
इत्युक्तस्तेन मुनिना कालज्ञः स नृपोऽभ्यधात् ।
तुष्टोऽसि चेत्सुतां देहि मह्यमिन्दीवरप्रभाम् ॥ २०.२७.४७ ॥
इत्यर्थितवते सोऽस्मै राज्ञे स्नानगतां मुनिः ।
अप्सरःसम्भवां कन्यां तां ददवनुरूपिकाम् ॥ २०.२७.४८ ॥
ततः कृतविवाहस्तां मुनिभार्याप्रसाधिताम् ।
कृतानुयात्रामुद्बाष्पैः तापसैः आ निजाश्रमात् ॥ २०.२७.४९ ॥
इन्दीवरप्रभां भार्यामादायारुह्य वाजिनम् ।
चन्द्रावलोकस्तरसा प्रतस्थे सस्ततो नृपः ॥ २०.२७.५० ॥
गच्छतश्चास्य विततं दृष्ट्वा तत्दिनचेष्टितम् ।
रविः खिन्नः इवास्ताद्रिमस्तके समुपाविशत् ॥ २०.२७.५१ ॥
ददृशे मृगनेत्रा च क्रमात् उद्रिक्तमन्मथा ।
ध्वान्तनीलपटछन्नरूपा रात्र्यभिसारिका ॥ २०.२७.५२ ॥
तस्मिन्काले पथि प्राप स राजाश्वत्थपादपम् ।
सत्जनाशयसुस्वच्छवापीजलतटस्थितम् ॥ २०.२७.५३ ॥
शाखापत्त्रओघसञ्छन्नशाद्वलश्यामलस्थलम् ।
दृष्ट्वा च तं वसामीह रात्रिमित्यकरोत् हृदि ॥ २०.२७.५४ ॥
ततोऽवतीर्य तुरगाद्दत्त्वा तस्मै तृणौदकम् ।
विश्रम्य पुलिने वाप्याः उपयुक्ताम्बुमारुतः ॥ २०.२७.५५ ॥
मुनिपुत्रिकया सार्धं तया तस्य तरोस्तले ।
प्रियया पुष्पशय्यायां संविवेश स भूपतिः ॥ २०.२७.५६ ॥
तत्क्षणं च समाक्रम्य तिमिरांशुकहारिणा ।
सरागमाननं प्राच्याः चुचुम्बे शशलक्ष्मणा ॥ २०.२७.५७ ॥
विरेजुः चन्द्रकिरणैः समाश्लिष्य प्रसारिताः ।
वीतमानावकाशाः चाशेषाः वितमसः दिशः ॥ २०.२७.५८ ॥
अत्रान्तरे लतागुल्मविवरप्रसृतैः करैः ।
ऐन्दवैः रत्नदीपाभैः तरुमूले विभासिते ॥ २०.२७.५९ ॥
सोऽपि राजा सिषेवे तामाश्लिष्येन्दीवरप्रभाम् ।
नवसङ्गमसौत्कण्ठसरसं सुरतौत्सवम् ॥ २०.२७.६० ॥
विस्रंसयामास शनैः नीवीं तस्याः त्रपामिव ।
अखण्डयच्च दशनैः मुग्धभावमिवाधरम् ॥ २०.२७.६१ ॥
रचयामास कुचयोः यौवनद्विपकुम्भयोः ।
करजक्षतसत्रत्ननवनक्षत्रमालिकाम् ॥ २०.२७.६२ ॥
मुखं कपोलौ नयने मुहुः परिचुचुम्ब च ।
लावण्यामृतनिःष्यन्दमापिबन् इव सर्वतः ॥ २०.२७.६३ ॥
इत्थन् निधुवनक्रीडासुखेन सस्तया सह ।
निनाय कान्तया तत्र राजा क्षणमिव क्षपाम् ॥ २०.२७.६४ ॥
प्रातश्च मुक्तशयनः सान्ध्यस्यानन्तरं विधेः ।
स्वसैन्यावाप्तये यातुमुन्मुखोऽभूत् वधूसखः ॥ २०.२७.६५ ॥
तावच्च नक्तं लुप्ताप्जखण्डशोभं निशापतिम् ।
भियेवास्ताद्रिकुहरप्रलीनं ध्वस्ततेजसम् ॥ २०.२७.६६ ॥
हन्तुकाम इव क्रोधादाताम्रतररोचिषि ।
प्रसारितकरौत्क्षिप्तमण्डलाग्रे विवस्वति ॥ २०.२७.६७ ॥
अकस्मादाजगामात्र विद्युत्पिङ्गशिरःरुहः ।
कज्जलश्यामलः कालमेघाभः ब्रह्मराक्षसः ॥ २०.२७.६८ ॥
अन्त्रमालाकृतौत्तंसः केशयज्ञौपवीतभृत् ।
खादन् नरशिरःमांसं कपालेन पिबन्नसृक् ॥ २०.२७.६९ ॥
सोऽट्टहासं विमुच्योग्रं मुखेनाग्निं वमन्क्रुधा ।
दंष्ट्राकरालो राजानं भर्त्सयन् निजगाद तम् ॥ २०.२७.७० ॥
पाप ज्वालामुखं नाम विद्धि मां ब्रह्मराक्षसम् ।
निवासश्चैष मेऽश्वत्थः देवैरपि न लङ्घ्यते ॥ २०.२७.७१ ॥
सोऽयं त्वया समाक्रम्य परिभुक्तः स्त्रिया सह ।
रात्रिचर्यागतस्याद्य तत् भुङ्क्ष्वाविनयात्फलम् ॥ २०.२७.७२ ॥
एषोऽहं ते दुःआचार कामौपहतचेतसः ।
उत्पाट्य हृदयं भोक्ष्ये पास्याम्येव च शोणितम् ॥ २०.२७.७३ ॥
तच्छ्रुत्वैव तथा घोरं तमवध्यमवेक्ष्य च ।
त्रस्ताङ्गनः सविनयं भयात्प्रत्यब्रवीन्नृपः ॥ २०.२७.७४ ॥
अजानतापराद्धं यन्मया ते तत् क्षमस्व मे ।
तवाहमाश्रमे ह्यस्मिन्नतिथिः शरणाश्रितः ॥ २०.२७.७५ ॥
दास्यामि चेप्सितं तुभ्यमानीय पुरुषं पशुम् ।
येन ते भविता तृप्तिः तत्प्रसीद क्रुधं त्यज ॥ २०.२७.७६ ॥
इति राज्ञो वचः श्रुत्वा शान्तः सः ब्रह्मराक्ससः ।
अस्तु कः दोषः इत्यन्तो विचिन्त्यैवमभाषत ॥ २०.२७.७७ ॥
यः सप्तवर्षदेश्योऽपि महासत्त्वो विवेकवान् ।
त्वतर्थे स्वैच्छयात्मानं दद्यात् ब्राह्मणपुत्रकः ॥ २०.२७.७८ ॥
हन्यमानं च यं माता हस्तयोः पादयोः पिता ।
अवष्टभ्यातिसुदृढं सन्निवेश्य महीतले ॥ २०.२७.७९ ॥
तादृशं पुरुषं मह्यमुपहारीकरोषि चेत् ।
स्वयं खड्गप्रहारेण हत्वा सप्तदिनान्तरे ॥ २०.२७.८० ॥
तत्ते क्षमिष्ये न्यक्कारमन्यथा तु महीपते ।
सद्यो विनाशयिष्यामि त्वामहं सपरिच्छदम् ॥ २०.२७.८१ ॥
श्रुत्वैतत्सो भयाद् राजा प्रतिपेदे तथेति तत् ।
तिरःबभूव च ब्रह्मराक्षसः सोऽपि तत् क्षणम् ॥ २०.२७.८२ ॥
अथ चन्द्रावलोकोऽसौ राजा सेन्दीवरप्रभः ।
हयारूढस्ततः प्रायात्सैन्यं चिन्वन् सुदुर्मनाः ॥ २०.२७.८३ ॥
अहो अहं मृगयया मदनेन च मोहितः ।
गतः पाण्डुः इवाकाण्डे विनाशं बत बालिशः ॥ २०.२७.८४ ॥
प्राप्यते ह्युपहारोऽस्य राक्षसस्तादृशः कुतः ।
तन्निजं नगरं तावत् यामि पश्यामि भावि किम् ॥ २०.२७.८५ ॥
इति ध्यायन् सश्च प्राप स्वसैन्यं चिन्वदागतम् ।
तत्युक्तश्च सदारः स्वं चित्रकूटमगात्पुरम् ॥ २०.२७.८६ ॥
तत्र तस्योचितां भार्याप्राप्तिं वीक्ष्य कृतौत्सवे ।
राष्ट्रेऽन्तर्गतदुःखस्य दिनशेषः जगाम सः ॥ २०.२७.८७ ॥
द्वितीयेऽह्नि रहः सर्वं स्ववृत्तान्तं शशंस सः ।
मन्त्रिभ्यस्तेषु चैकस्तं मन्त्री सुमतिरब्रवीत् ॥ २०.२७.८८ ॥
विषादः देव ते मा भूत् उपहारं हि तादृशम् ।
आनेष्याम्यहमन्विष्य बहु-आश्चर्या हि मेदिनी ॥ २०.२७.८९ ॥
एवमाश्वास्य राजानं सः सौवर्णीमकारयत् ।
मन्त्री सप्ताब्ददेशीयबालकप्रतिमां द्रुतम् ॥ २०.२७.९० ॥
रत्नैरलङ्कृतां तां च कृत्वा कर्णिरथार्पिताम् ।
भ्रामयामास नगरग्रामघोषेष्वितस्ततः ॥ २०.२७.९१ ॥
यः सप्तवर्षदेशीयः स्वैच्छया विप्रपुत्रकः ।
ददाति सर्वसत्त्वार्थमात्मानं ब्रह्मरक्षसे ॥ २०.२७.९२ ॥
उपहाराय सत्त्वस्थो मातापित्रोरनुज्ञया ।
हन्यमानश्च यस्ताभ्यां हस्तपादे प्रगृह्यते ॥ २०.२७.९३ ॥
तस्मै ग्रामशतौपेतां हेमरत्नमयीमिमाम् ।
ददाति प्रतिमां राजा पित्रोः उपचिकीर्षवे ॥ २०.२७.९४ ॥
इति च भ्राम्यमानायाः तस्याः प्रतिकृतेः शिशोः ।
पटहौद्घोषणां मन्त्री सोऽग्रेऽजस्रमदापयत् ॥ २०.२७.९५ ॥
तावच्छ्रुत्वा तत् एकस्मिन्नग्रहारे द्विजार्भकः ।
कोऽपि सप्ताब्ददेशीयोऽप्यतिधीरोऽद्भुताकृतिः ॥ २०.२७.९६ ॥
पूर्वाभ्यासेन बाल्येऽपि सदा परहिते रतः ।
प्रजापुण्यपरीपाकेव साकारतां गतः ॥ २०.२७.९७ ॥
उवाचोद्घोषकान् एत्य युष्मतर्थे ददाम्यहम् ।
आत्मानं पितरौ गत्वा बोधयित्वाभ्युपैमि च ॥ २०.२७.९८ ॥
इत्यूचिवान् तान्मुदितान् सः बालोऽनुमतश्च तैः ।
गत्वा गृहं जगाद स्वौ पितरौ रचिताञ्जलिः ॥ २०.२७.९९ ॥
ददामि सर्वसत्त्वार्थं देहमेतं विनश्वरम् ।
तन्मामभ्यनुजानीतं हतां चापदमात्मनः ॥ २०.२७.१०० ॥
आत्मप्रतिकृतिं ह्येतां गृहीत्वा वितरामि वाम् ।
हेमरत्नमयीं राज्ञा दत्तां ग्रामशतान्विताम् ॥ २०.२७.१०१ ॥
एवं मे युष्मतानृण्यं परार्थश्चैव सिध्यति ।
युवां च ध्वस्तदारिद्र्यौ बहून् पुत्रान्नवाप्स्यथः ॥ २०.२७.१०२ ॥
इत्युक्तवन्तं सहसा पितरौ तौ तमूचतुः ।
किमेतत् भाषसे पुत्र वातेन क्षुभितोऽसि किम् ॥ २०.२७.१०३ ॥
किं वा ग्रहगृहीतोऽसि प्रलपस्यन्यथा कथम् ।
कः ह्यर्थैः घातयेत्पुत्रं देहं दद्याच्च कः शिशुः ॥ २०.२७.१०४ ॥
एतत्पित्रोः वचः श्रुत्वा बालः पुनरुवाच सः ।
न बुद्धिमोहात् जल्पामि शृणुतं मेऽर्थवत् वचः ॥ २०.२७.१०५ ॥
अवाच्याशुचिसम्पूर्णमुत्पत्त्यैव सुगुप्सितम् ।
दुःखक्षेत्रं विनाश्येव शरीरमचिरात् इदम् ॥ २०.२७.१०६ ॥
तत् एतेनात्यसारेण सुकृतं यत् उपार्ज्यते ।
तत् एव सारं संसारे कृतबुद्धिभिः उच्यते ॥ २०.२७.१०७ ॥
सर्वभूतौपकाराच्च किमन्यत्सुकृतं परम् ।
तत्रापि पित्रोः भक्तिः चेत् किं देहाद्दृश्यते फलम् ॥ २०.२७.१०८ ॥
इति-आदिवाक्यैः सः शिशुः शोचन्तौ दृढनिश्चयः ।
तवङ्गीकारयामास पितरौ स्वमनीषितम् ॥ २०.२७.१०९ ॥
गत्वा च राजभृत्येभ्यः प्रतिमां तं हिरण्मयीम् ।
आनीय प्रददौ ताभ्यां सग्रामशतशासनाम् ॥ २०.२७.११० ॥
ततः कृत्वाग्रतो राजभृत्यान् तान् एव सः द्रुतम् ।
पितृभ्यामन्वितः प्रायाच्चित्रकूटं नृपान्तिकम् ॥ २०.२७.१११ ॥
तत्र चन्द्रावलोकस्तं वीक्ष्याखण्डिततेजसम् ।
रक्षारत्नमिव प्राप्तं बालं राजा ननन्द सः ॥ २०.२७.११२ ॥
आरोप्य गजपृष्टं च रचितस्रक्विलेपनम् ।
नीनाय तं सपितृकं केतनं ब्रह्मरक्षसः ॥ २०.२७.११३ ॥
तत्र मण्डलमालिख्य तस्याश्वत्थस्य पार्श्वतः ।
विहितौचितपूजेन हुते वह्नौ पुरःधसा ॥ २०.२७.११४ ॥
आविर्बभूव मुक्ताट्टहासः सोऽध्ययनं पठन् ।
घूर्णन् रक्तासवक्षीबः जृम्भमाणो मुहुः श्वसन् ॥ २०.२७.११५ ॥
ज्वलत्नेत्रः दिशः कुर्वन्देहछायान्धकारिताः ।
ज्वालामुखो महारौद्रदर्शनः ब्रह्मराक्षसः ॥ २०.२७.११६ ॥
ततश्चन्द्रावलोकस्तं दृष्ट्वा प्रह्वोऽब्रवीन्नृपः ।
नरौपहारो भगवन्नानीतः स मया तव ॥ २०.२७.११७ ॥
सप्तमः दिवसश्चाद्य प्रतिज्ञातस्य सोऽस्य ते ।
तत्प्रसीद गृहाणैतमुपहारं यथाविधि ॥ २०.२७.११८ ॥
इति राञ्जार्थितो विप्रकुमारं ब्रह्मराक्षसः ।
सस्तमालोकयामास जिह्वया सृक्किणी लिहन् ॥ २०.२७.११९ ॥
तत् क्षणं स महासत्त्वः बालः हृष्यन्नचिन्तयत् ।
स्वदेहदानेनानेन सुकृतं यन्मयार्जितम् ॥ २०.२७.१२० ॥
तेन मा भून्मम स्वर्गो मोक्षो वा निःउपक्रियः ।
भूयात्तु मे परार्थाय देहः जन्मनि जन्मनि ॥ २०.२७.१२१ ॥
इति सङ्कल्पयत्येव तस्मिन्नापूर्यत क्षणात् ।
विमानैः सुरसङ्घानां पुष्पवृष्टिमुचां नभः ॥ २०.२७.१२२ ॥
अथाग्रे प्रापितं तस्य बालं तं ब्रह्मरक्षसः ।
माता जग्राह करयोः पिता चरणयोस्तथा ॥ २०.२७.१२३ ॥
ततो यावत्तमाकृष्टखड्गो राजा जिघांसति ।
तावत् जहास सः शिशुः तथा सर्वेऽत्र ते यथा ॥ २०.२७.१२४ ॥
सब्रह्मराक्षसाः त्यक्त्वा स्वं स्वं कर्म सविस्मयाः ।
रचिताञ्जलयः प्रह्वाः तत्मुखप्रेक्षिणोऽभवन् ॥ २०.२७.१२५ ॥
इति व्याख्याय वेतालो विचित्रसरसां कथाम् ।
तं त्रिविक्रमसेनं स निजगाद नृपं पुनः ॥ २०.२७.१२६ ॥
तत् ब्रूहि राजन्कः हेतुः यत्तेन हसितं तदा ।
बालेनैतादृशेऽप्यस्मिन् प्राणान्तसमयेऽप्यहो ॥ २०.२७.१२७ ॥
कौतुकं च महन्मेऽत्र तत् एतच्चेन्न वक्ष्यसि ।
जानानोऽपि ततो मूर्धा शतधा ते स्फुटिष्यति ॥ २०.२७.१२८ ॥
इति वेतालतः श्रुत्वा स राजा प्रत्युवाच तम् ।
शृणु योऽभूदभिप्रायः हासे तस्य शिशोस्तदा ॥ २०.२७.१२९ ॥
यो नाम दुःबलः जन्तुः स भये प्रत्युपस्थिते ।
क्रन्दति प्राणहेतोः स्वं पितरं मातरं तथा ॥ २०.२७.१३० ॥
तत्व्यपाये च राजानमार्तत्राणाय निर्मितम् ।
ततलाभेऽपि यद्यत्र यथासम्भवि दैवतम् ॥ २०.२७.१३१ ॥
तस्य त्वेकस्थमप्येतत्सर्वं सञ्जातमन्यथा ।
पितृभ्यां हस्तपादं हि रुद्धं तस्यार्थतृष्णया ॥ २०.२७.१३२ ॥
राजा च त्रातुमात्मानं स्वयं तं हन्तुमुद्यतः ।
दैवतं तत्र यत् ब्रह्मरक्षस्तत्तस्य भक्षकम् ॥ २०.२७.१३३ ॥
अध्रुवस्यान्तविरसस्याधिव्याधिक्षतस्य च ।
देहस्यार्थे विमूढानां तेषामीदृक् विडम्बना ॥ २०.२७.१३४ ॥
ब्रह्मा-इन्द्रविष्णुरुद्राद्याः यत्रावश्यं विनाशिनः ।
तत्रैषामीदृशी कापि शरीरस्थैर्यवासना ॥ २०.२७.१३५ ॥
एतत्तन्मोहवैचित्र्यं दृष्ट्वा मत्वा च वाञ्छितम् ।
सिद्धमाश्चर्यहर्षाभ्यां सः जहास द्विजार्भाकः ॥ २०.२७.१३६ ॥
इत्युक्त्वा विरतस्य तस्य नृपतेः अंसात्सो भूयोऽपि
तत् वेतालः झगिति स्वकं पदमगादन्तर्हितो मायया ।
राजा सोऽप्यविकल्पमेव पुनोऽप्यन्वक् ययौ तम्
जवादक्षोभ्यं हृदयं बतेह महताम्
अम्भःनिधीनामिव ॥ २०.२७.१३७ ॥
अथ गत्वा पुनः प्राप्य शिंशपातस्ततोऽग्रहीत् ।
सस्त्रिविक्रमसेनोऽंसे वेतालं तं नराधिपः ॥ २१.२८.१ ॥
आगच्छन्तं च तं भूयः स वेतालोऽब्रवीन्नृपम् ।
राजन्नुद्गाढकन्दर्पां शृण्वेकां वच्मि ते कथाम् ॥ २१.२८.२ ॥
अस्ति शक्रपुरीवान्या धात्रा सुकृतिनां कृते ।
दिवश्च्युतानां विहिता विशालाख्या पुरी भूवि ॥ २१.२८.३ ॥
तस्यां बभूव नृपतिः पद्मनाभः इति श्रुतः ।
सत्चक्रनन्दकः स्रीमान्नाक्रान्तबलिराजकः ॥ २१.२८.४ ॥
तस्मिन् पृथ्वीपतौ तस्यां नगर्यां सुमहावणिक् ।
अर्थदत्ताभिधानोऽभूद्धनैः विजितवित्तपः ॥ २१.२८.५ ॥
तस्यैका च सुतानङ्गमञ्जरीत्युदपद्यत ।
स्वःसुन्दरीप्रतिकृतिः भुवि धात्रेव दर्शिता ॥ २१.२८.६ ॥
दत्ता च तेन वणिजा वणिक्वरसुताय सा ।
मणिवर्माभिधानाय ताम्रलिप्तीनिवासिने ॥ २१.२८.७ ॥
एकापत्यतया चातिवत्सलः स न तां वणिक् ।
भर्तृयुक्तां सुतां गेहात्तत्याजानङ्गमञ्जरीम् ॥ २१.२८.८ ॥
तस्याः चानङ्गमञ्जर्याः पतिः द्वेष्यः बभूव सः ।
मणिवर्मा सरोगस्य कटुतिक्तमिवाउषधम् ॥ २१.२८.९ ॥
पत्युः तु सास्य सुमुखी जीवितादप्यभूत्प्रिया ।
धनऋद्धिः कृपणस्येव कृच्छ्रात्सुचिरसञ्चिता ॥ २१.२८.१० ॥
एकदा चान्तिकं पित्रोस्ताम्रलिप्तीं निजं गृहम् ।
उत्कण्ठादिनिमित्तेन मणिवर्मा जगाम सः ॥ २१.२८.११ ॥
ततः दिनेषु यातेषु तीक्ष्णसूर्यांशुसायकैः ।
प्रोषितानां निरुद्धाध्वा घर्मकालः इहाभ्यगात् ॥ २१.२८.१२ ॥
वसन्तविरहात् उष्णाः निःश्वासाः ककुभामिव ।
मल्लिकापाटलामोदमेदुराः मरुतो ववुः ॥ २१.२८.१३ ॥
उत्पेतुः पवनौद्धूताः गगने रेणुराजयः ।
दूत्यः घनागमायेव प्रहिताः तप्तया भुवा ॥ २१.२८.१४ ॥
आकाङ्क्षिततरुछायाः कठोरातपतापिताः ।
पथिकाः इव यान्ति स्म चिरेण दिवसाः अपि ॥ २१.२८.१५ ॥
चन्द्रांशुपाण्डुरुचयः गाढाश्लेषसुखप्रदम् ।
विना हेमन्तमगमन्नतिदुर्बलतां निशाः ॥ २१.२८.१६ ॥
तत्कालं चन्दनालेपधवला सा वणिक्सुता ।
संवीततनुकौशेयशोभितानङ्गमञ्जरी ॥ २१.२८.१७ ॥
ददर्श स्वगृहौत्तुङ्गवातायनगतैकदा ।
आप्तसख्या युता भव्यं युवानं विप्रपुत्रकम् ॥ २१.२८.१८ ॥
सञ्चरन्तं रतिप्राप्त्यै नवौत्पन्नमिव स्मरम् ।
कमलाकरनामानं पुत्रं राजपुरःधसः ॥ २१.२८.१९ ॥
सोऽपीन्दोः इव मूर्तिं तां कान्तां दृष्ट्वोपरि स्थिताम् ।
कुमुदाकरतां भेजे सानन्दः कमलाकरः ॥ २१.२८.२० ॥
तयोरभूदमूल्यं तन्मनःसंवननं तदा ।
स्मरगुरु-आज्ञया यूनोरन्यःअन्यस्यावलोकनम् ॥ २१.२८.२१ ॥
उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा ।
रजःअभिभूतौ जह्राते मन्मथावेगवात्यया ॥ २१.२८.२२ ॥
दृष्ट्वा च मदनाविष्टः सख्या सः कमलाकरः ।
सहस्थितेन नीतोऽभूत् कथम्चित् भवनं निजम् ॥ २१.२८.२३ ॥
सापि तं नामतोऽन्विष्य विवशानङ्गमञ्जरी ।
तया स्वया समं सख्या प्राविशत् वासकं शनैः ॥ २१.२८.२४ ॥
तत्र सञ्चिन्तयन्ती च कान्तं कामज्वरातुरा ।
नापश्यन्नाशृणोत्किम्चिल्लुठन्ती शयनीयके ॥ २१.२८.२५ ॥
गतेष्वहःसु द्वित्रेषु सत्रपा सभया च सा ।
असहा विरहौन्मादं विसोढुं कृशपाण्डुरा ॥ २१.२८.२६ ॥
दुःप्रापप्रियसंयोगनिःआस्था नक्तमेकदा ।
गवाक्षप्रेरितकरेणाकृष्टेव हिमांशुना ॥ २१.२८.२७ ॥
सुप्ते परिजने स्वैरं निर्गत्य मरणौन्मुखी ।
जगाम स्वगृहौद्यानवापीं तरुलतावृताम् ॥ २१.२८.२८ ॥
तत्र पित्रा कृतौदारप्रतिष्ठां कुलदेवताम् ।
उपेत्य चण्डिकां देवीं नत्वा स्तुत्वा व्यजिज्ञपत् ॥ २१.२८.२९ ॥
अस्मिन् जन्मनि चेत् भर्ता न मया कमलाकरः ।
प्राप्तस्तद्देवि भूयान्मे सोऽन्यस्मिन्नपि जन्मनि ॥ २१.२८.३० ॥
इत्युक्त्वा पुरतस्तस्याः देव्याः साशोकपादपे ।
पाशं विरचयामास स्वौत्तरीयेण रागिणी ॥ २१.२८.३१ ॥
तावदाप्ता सखी तस्याः सा प्रबुध्यात्र वासके ।
तामदृष्ट्वा तत् उद्यानं दैवादागात् विचिन्वती ॥ २१.२८.३२ ॥
तत्र दृष्ट्वा च तां पाशमर्पयन्तीं तथा गले ।
मा मेत्युक्त्वा प्रधाव्यैव पाशं तस्याह् तमच्छिनत् ॥ २१.२८.३३ ॥
सापि तां वीक्ष्य सम्प्राप्तां कृत्तपाशां निजां सखीम् ।
अनङ्गमञ्जरी भूमौ पपाताधिकदुःखिता ॥ २१.२८.३४ ॥
आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात् ।
दुःखहेतुं समाख्याय पुनः एनामभाषत ॥ २१.२८.३५ ॥
सखि मालतिके तन्मे दुःलभे प्रियसङ्गमे ।
गुरु-आदिपरतन्त्रायाः न सुखं मरणात्परम् ॥ २१.२८.३६ ॥
इति ब्रुवाणैवानङ्गशराग्निज्वलिता भृशम् ।
सानङ्गमञ्जरी मोहं ययौ नैराश्यनिःसहा ॥ २१.२८.३७ ॥
कष्टं स्मराज्ञा दुःलङ्घ्या यया नीता दशामिमाम् ।
अन्याविनीतवनिताहासिनीयं सखी मम ॥ २१.२८.३८ ॥
इत्यादिविलपन्ती च तां सा मालतिका सखी ।
शनैः आश्वासयामास शीताम्बुपवनादिभिः ॥ २१.२८.३९ ॥
तापौपशान्तये चास्याः चकार नलिनीदलैः ।
शय्यां ददौ च हृदये हारं तुहिनशीतलम् ॥ २१.२८.४० ॥
ततः साश्रुरुवाचैतां सखीं सानङ्गमञ्जरी ।
सखि हारादिभिः नायं दाहोऽन्तो मम शाम्यति ॥ २१.२८.४१ ॥
येन प्रशाम्यति पुनः स्वबुद्ध्यैव विधत्स्व तत् ।
मां संयोजय कान्तेन जीवितं मे यदीच्छसि ॥ २१.२८.४२ ॥
एवमुक्तवतीं तां सा स्नेहान्मालतिकाब्रवीत् ।
सखि भूयिष्टयाताद्य रात्रिः प्रातोऽहं पुनः ॥ २१.२८.४३ ॥
इहैव कृतसङ्केतमानेष्यामि प्रियं तव ।
तदालम्ब्य धृतिं तावन्निजं प्रविश मन्दिरम् ॥ २१.२८.४४ ॥
इतिउक्तवत्यै सन्तुष्य तस्यै सानङ्गमञ्जरी ।
हारं स्वकण्ठादाकृष्य प्रददौ पारितोषिकम् ॥ २१.२८.४५ ॥
गच्छाधुनैव स्वगृहं प्रातः सिद्ध्यै ततो व्रज ।
इति चैतां सखीं प्रेष्य सा विवेश स्ववासकम् ॥ २१.२८.४६ ॥
प्रातश्च सा मालतिका केनाप्यनुपलक्षिता ।
तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥ २१.२८.४७ ॥
चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् ।
चन्दनार्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम् ॥ २१.२८.४८ ॥
रहस्यधारिणैकेन कदलीदलमारुतैः ।
आश्वास्यमानं सुहृदा दह्यमानं स्मराग्निना ॥ २१.२८.४९ ॥
तस्याः विनेयमस्य स्यात् कामावस्था-ईदृशीति सा ।
विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥ २१.२८.५० ॥
तावच्च सुहृदा तेन सः ऊचे कमलाकरः ।
क्षणमेकमिहोद्याने दत्त्वा दृष्टिं मनःरमे ॥ २१.२८.५१ ॥
विनोदय मनो मित्र मात्र विक्लवतामगाः ।
तच्छ्रुत्वा तं स्वसुहृदं विप्रपुत्रः जगाद सः ॥ २१.२८.५२ ॥
यन्ममानङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम् ।
विनोदयामि तत् इदं कुतः शून्याशयो मनः ॥ २१.२८.५३ ॥
स्मरेण शून्यहृदयः बाणतूणीकृतः ह्यहम् ।
तत्प्राप्स्यामि मनःचौरीं तां यथा कुरु मे तथा ॥ २१.२८.५४ ॥
इत्युक्ते विप्रपुत्रेण तेनात्मानं प्रदर्श्य सा ।
हृष्टा मालतिकाभ्येत्य तमुवाचास्तसंशया ॥ २१.२८.५५ ॥
तवास्म्यनङ्गमञ्जर्या सुभग प्रहितान्तिकम् ।
सन्देशं चाहमेवैषा विस्पष्टार्थं ब्रवीमि ते ॥ २१.२८.५६ ॥
एषः कः शिष्टधर्मो यत्प्रविश्य हृदयं हठात् ।
मनो मुषित्वा मुग्धायाः गम्यते स्थगितात्मना ॥ २१.२८.५७ ॥
चित्रं च यत् वामदृशा तुभ्यमेव तयाधुना ।
मनःहराय देहोऽपि दातुं प्राणैः सहेष्यते ॥ २१.२८.५८ ॥
निःश्वासान् सा हि सन्तप्तान् विमुञ्चति दिवानिशम् ।
ज्वलतः हृदि कन्दर्पवह्नेः धूमौद्गमान् इव ॥ २१.२८.५९ ॥
सम्पतन्ति मुहुः चास्याः साञ्जनाः बाष्पबिन्दवः ।
वदनाम्भःजसौगन्ध्यलुब्धाः मधुकराः इव ॥ २१.२८.६० ॥
तत् यदीच्छसि तत् वच्मि शिवं वामुभयोरहम् ।
इत्युक्तो मालतिकया सोऽब्रवीत् कमलाकरः ॥ २१.२८.६१ ॥
भद्रे भयं करोत्येषा वाक्तवाश्वासयत्यपि ।
वदन्ती विधुरावस्थां बद्धभावां च मे प्रियाम् ॥ २१.२८.६२ ॥
तत् एका गतिरत्र त्वं यथा वेत्सि तथा कुरु ।
इतिउक्तवाक्ये कमलाकरे मालतिकाब्रवीत् ॥ २१.२८.६३ ॥
अनङ्गमञ्जरीमद्य गुप्तं तां प्रापयाम्यहम् ।
नक्तं स्वभवनौद्यानं त्वं तिष्ठेः तत्र बाह्यतः ॥ २१.२८.६४ ॥
ततः प्रवेशयिष्यामि त्वामत्रान्तः स्वयुक्तितः ।
एवं यथा-इष्टो युवयोः भविष्यति समागमः ॥ २१.२८.६५ ॥
इत्युक्त्वानन्द्य तं विप्रपुत्रं मालतिका ततः ।
गत्वा कृतार्था सानङ्गमञ्जरीमप्यनन्दयत् ॥ २१.२८.६६ ॥
अथाह्ना सह यातेऽर्के क्वापि सन्ध्यानुरागिणि ।
ऐन्द्र्या दिशेन्दुतिलकेनानने सुप्रसाधिते ॥ २१.२८.६७ ॥
त्यक्तपद्माकरा प्राप्ता श्रीः मयेतीव हर्षतः ।
हसत्युफुल्लवदने विशदे कुमुदाकरे ॥ २१.२८.६८ ॥
कृतप्रसाधनः सौत्कः स्वैरं सः कमलाकरः ।
कामी कान्तागृहौद्यानद्वारबाह्यमुपागमत् ॥ २१.२८.६९ ॥
तावच्च सा मालतिका तां युक्त्यानङ्गमञ्जरीम् ।
आनिनाय तत् उद्यानं कृच्छ्रात् गमितवासराम् ॥ २१.२८.७० ॥
उपवेश्य च तां मध्ये गुल्मके चूतशाखिनाम् ।
प्रावेशयत्तं निर्गत्य तत्रैव कमलाकरम् ॥ २१.२८.७१ ॥
सश्च प्रविश्य पत्त्रओघघनपादपमध्यगाम् ।
तामध्वगः इव छायां ददर्शानङ्गमञ्जरीम् ॥ २१.२८.७२ ॥
उपैति यावच्च सस्तां तावद्दृष्ट्वा प्रधाव्य सा ।
कामवेगहृतव्रीडा कण्ठे तं सहसाग्रहीत् ॥ २१.२८.७३ ॥
क्व यासि लब्धोऽसि ममेत्यालपन्ती च तत् क्षणम् ।
सातिहर्षभरस्तब्धनिःश्वासा पञ्चतामगात् ॥ २१.२८.७४ ॥
पपात च महीपृष्ठे वातरुग्णा लतेव सा ।
विचित्रः बत कामस्य विपाकविषमः क्रमः ॥ २१.२८.७५ ॥
तद्दृष्ट्वाशनिपातौग्रं सद्यः सः कमलाकरः ।
हा हा किमेतत् इत्युक्त्वा मूर्च्छितो न्यपतत् भुवि ॥ २१.२८.७६ ॥
लब्धसंज्ञः क्षणेनाथ तामङ्कारोपितां प्रियाम् ।
आलिङ्गन् परिचुम्बन् च तत्तच्च विलपन् बहु ॥ २१.२८.७७ ॥
तथा दुखातिभारेण सः प्रसह्य निपीडितः ।
यथा तस्य टसत्कृत्य क्षणात् हृदयमस्फुटत् ॥ २१.२८.७८ ॥
अथ तौ मालतिकया शोच्यमानावुभवपि ।
दृष्ट्वा प्राप्तक्षयौ शोकात् इव क्षीणाभवत् क्षपा ॥ २१.२८.७९ ॥
प्रातरुद्यानपालेभ्यः ज्ञात्वा बन्धुजनस्तयोः ।
तत्राययौ त्रपाश्चर्यदुःखमोहाकुलीकृतः ॥ २१.२८.८० ॥
आसीत् कर्तव्यतामूढश्चिरं खेदादवाक्मुखः ।
कष्टाः कुलखलीकारहेतवः बत कुस्त्रियः ॥ २१.२८.८१ ॥
तावच्च ताम्रलिप्तीतः सस्तस्याः पतिः आगमत् ।
सौत्कण्ठोऽनङ्गमञ्जर्याः मणिवर्मा पितुः गृहात् ॥ २१.२८.८२ ॥
सः श्वाशुरं गृहं प्राप्य यथातत्त्वमवेत्य तत् ।
बाष्पान्धलोचनः ध्यायन् तत् एवोद्यानमाययौ ॥ २१.२८.८३ ॥
तत्र भार्यां गतासुं तां दृष्ट्वान्यसहितामपि ।
शोकाग्निज्वलितो रागी सद्यः सोऽपि जहवसून् ॥ २१.२८.८४ ॥
ततः क्रन्दति तत्रस्थे जने कोलाहलाकुलाः ।
आययुः ज्ञातवृत्तान्ताः पौराः सर्वेऽत्र विस्मिताः ॥ २१.२८.८५ ॥
अथात्रानङ्गमञ्जर्याः पित्रा पूर्वावतारीता ।
देवी सन्निहिता चण्डी विज्ञप्ताभून्निजैः गणैः ॥ २१.२८.८६ ॥
त्वताकारप्रतिष्ठाकृदर्थदत्तः सदैषस्ते ।
भक्तो वणिक्तदस्यास्मिन्दुःखे देवि दयां कुरु ॥ २१.२८.८७ ॥
एतत् गणेभ्यः श्रुत्वा सा शरण्या शङ्करप्रिया ।
शान्तानङ्गाः त्रयोऽप्येते जीवन्त्विति समादिशत् ॥ २१.२८.८८ ॥
अथ सर्वेऽपि ते सुप्तप्रतिबुद्धाः इव क्षणात् ।
तत्प्रसादात्समुत्तस्थुः जीवन्तो वीतमन्मथाः ॥ २१.२८.८९ ॥
ततः दृष्ट्वा तदाश्चर्यं सानन्दे सकले जने ।
लज्जानतमुखः प्रायात्स्वगृहं कमलाकरः ॥ २१.२८.९० ॥
अर्थदत्तोऽपि तां ह्रीतामादायानङ्गमञ्जरीम् ।
सुतां स्वभर्तृसहितां ययौ बद्धौत्सवः गृहान् ॥ २१.२८.९१ ॥
इति कथयित्वा तस्यां रात्रौ मार्गे कथां स वेतालः ।
निजगाद तं त्रिविक्रमसेनं क्षोणीपतिं भूयः ॥ २१.२८.९२ ॥
राजन्कस्य वदैतेष्वधिको मोहोऽनुरागमूढेषु ।
सोऽत्र च पूर्वौक्तस्ते शापः जानन् न चेत् वदसि ॥ २१.२८.९३ ॥
इत्येतत् वेतालाच्छ्रुत्वा सः प्रत्युवाच तं नृपतिः ।
एतेषु रागमूढः प्रतिभाति ममाधिकः स मणिवर्मा ॥ २१.२८.९४ ॥
इतरौ हि तावुभवपि कालक्रमपक्वमन्मथावस्थौ ।
अन्यःअन्यसानुरागौ यदि जीवितमुज्झतः स्म तत् भवतु ॥ २१.२८.९५ ॥
मणिवर्मा त्वतिमूढो यो भार्यामन्यपुरुषसक्तमृताम् ।
दृष्ट्वैव कोपकाले प्रत्युत रक्तः शुचामुचत्प्राणान् ॥ २१.२८.९६ ॥
इति गदित वतः सस्तस्य राज्ञः बत वेतालपतिः पुनः जगाम ।
निजमेव पदं तदंसपीठादथ राजापि तम्
अन्वगात्सो भूयः ॥ २१.२८.९७ ॥
ततो राजा पुनः गत्वा वेतालं शिंशपाग्रतः ।
सस्त्रिविक्रमसेनस्तं प्राप्यांसारोपितं व्यधात् ॥ २२.२९.१ ॥
आयान्तं तं च राजानं स वेतालोऽब्रवीत्पथि ।
राजन् साधुः सुसत्त्वस्त्वं तदपूर्वां कथां शृणु ॥ २२.२९.२ ॥
बभूव पूर्वं कुसुमपुराख्यनगर-ईश्वरः ।
पृथ्वीतलेऽस्मिन्धरणीवराहो नाम भूपतिः ॥ २२.२९.३ ॥
तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधः ।
अग्रहारोऽभवत्तत्र विष्णुस्वामीत्यभूद्द्विजः ॥ २२.२९.४ ॥
तस्यानुरूपा भार्याभूत् यथा स्वाहा हविः भुजः ।
तस्यां च तस्य चत्वारः क्रमात् उत्पेदिरे सुताः ॥ २२.२९.५ ॥
अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः ।
विष्णुस्वामी दिवं प्रायात् भार्ययानुगतस्तया ॥ २२.२९.६ ॥
ततस्ते तत्र तत्पुत्राः सर्वेऽप्यानाय्य दुःस्थिताः ।
गोत्रजैः हृतसर्वस्वाः मन्त्रयाञ्चक्रिरे मिथः ॥ २२.२९.७ ॥
नास्तीह गतिरस्माकं तत् व्रजामो वयं न किम् ।
इतो मातामहगृहं ग्रामं यञ्जस्थलाभिधम् ॥ २२.२९.८ ॥
एतत् एव विनिश्चित्य प्रस्थिताः भैक्ष्यभोजनाः ।
मातामहगृहं प्रापुः तेऽथ तत् बहुभिः दिनैः ॥ २२.२९.९ ॥
तत्र मातामहाभावान्मातुलैः दत्तसंश्रयाः ।
भुञ्जानाः तत्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥ २२.२९.१० ॥
कालक्रमाच्च तेषां ते मातुलानामकिम्चनाः ।
अवज्ञापात्रतां जग्मुः भोजनाच्छादनादिषु ॥ २२.२९.११ ॥
ततः स्वजनसंस्फूर्जतवमानहतात्मनाम् ।
तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीत् इदम् ॥ २२.२९.१२ ॥
भो भ्रातरः किं क्रियते सर्वमाचेष्टते विधिः ।
न शक्यं पुरुषस्येह क्वचित् किम्चित् कदाचन ॥ २२.२९.१३ ॥
अहं ह्युद्वेगतो भ्राम्यन् प्राप्तोऽद्य पितृकानने ।
विपन्नस्थितमद्राक्षं त्रस्ताङ्गं पुरुषं भुवि ॥ २२.२९.१४ ॥
अचिन्तयं च दृष्ट्वा तमहं तां स्पृहयन् गतिम् ।
धन्योऽयमेवं विश्रान्तः दुःखभारं विमुच्य यः ॥ २२.२९.१५ ॥
इति सञ्चिन्त्य तत् कालं कृत्वा मरणनिश्चयम् ।
वृक्षाग्रसङ्गिना पाशेनात्मानमुदलम्बयम् ॥ २२.२९.१६ ॥
यावच्च मे विसंज्ञस्य तदा निर्यान्ति नासवः ।
तावत्त्रुटितपाशोऽत्र पतितोऽस्मि महीतले ॥ २२.२९.१७ ॥
लब्धसंज्ञश्च केनापि पुंसा क्षिप्रात् कृपालुना ।
आश्वास्यमानमात्मानमपश्यं पटमारुतैः ॥ २२.२९.१८ ॥
सखे कथय विद्वान्नप्येवं कं प्रति खिद्यसे ।
सुखं हि सुकृताद्दुःखं दुःकृतात् एति नान्यतः ॥ २२.२९.१९ ॥
दुःखात् यदि तवोद्वेगः सुकृतं तत्समाचर ।
कथं तु नारकं दुःखमात्मत्यागेन वाञ्छसि ॥ २२.२९.२० ॥
इत्युक्त्वा मां समाश्वास्य सश्च क्वापि गतः पुमान् ।
अहं चेहागतस्त्यक्त्वा तादृशं मरणौद्यमम् ॥ २२.२९.२१ ॥
तत् एवं नेच्छति विधौ न मर्तुमपि लभ्यते ।
इदानीं च तनुं तीर्थे तपसा दाहयाम्यहम् ॥ २२.२९.२२ ॥
येन निःधनतादुःखभागी न स्यामहं पुनः ।
इत्युक्तवन्तं ज्येष्ठं तं कनिष्ठाः भ्रातरोऽब्रुवन् ॥ २२.२९.२३ ॥
अर्थैः विना कथं प्राज्ञोऽप्यार्य दुःकेन बाध्यसे ।
किं न वेत्सि यदर्थानां शरदभ्रचला गतिः ॥ २२.२९.२४ ॥
आहृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी ।
असत्मैत्री च वेश्या च श्रीः च कस्य कदा स्थिरा ॥ २२.२९.२५ ॥
तत् उद्योगेन सः गुणः कःअप्युपार्ज्यो मनस्विना ।
आनीयन्ते हटात् बद्ध्वा येनार्थहरिणाः मुहुः ॥ २२.२९.२६ ॥
इत्युक्तो भ्रातृभिः धैर्यं क्षणात् ज्येष्ठोऽवलम्ब्य सः ।
उवाच कः गुणस्तादृकर्जनीयो भवेत् इति ॥ २२.२९.२७ ॥
ततो विचित्य सर्वे ते वदन्ति स्म परस्परम् ।
विचिन्त्य पृथ्वीं विज्ञानं किम्चिच्छिक्षामहे वयम् ॥ २२.२९.२८ ॥
निश्चित्यैतच्च सङ्केतस्थानमुक्त्वा समागमे ।
एकैकशस्ते चत्वारश्चतस्रः प्रययुः दिशः ॥ २२.२९.२९ ॥
याति काले च मिलिताः ते सङ्केतनिकेतने ।
किं केन शिक्षितमिति भ्रातरोऽन्यःअन्यमब्रुवन् ॥ २२.२९.३० ॥
अथात्रैकोऽब्रवीत् ईदृक् विज्ञानं शिक्षितं मया ।
येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥ २२.२९.३१ ॥
उत्पादयाम्यहं तस्मिन्मांसं ततुचितं क्षणात् ।
एतत्तस्य वचः श्रुत्वा द्वितीयस्तेष्वभाषत ॥ २२.२९.३२ ॥
अहं तत्रैव सञ्जातमांसेऽस्थिशकले किल ।
जाने जनयितुं लोमत्वचं तत्प्राणिसम्भवि ॥ २२.२९.३३ ॥
ततस्तृतीयोऽप्यवदत् जाने तत्रैव चास्म्यहम् ।
तत्प्रान्यवयवान् स्रष्टुं जातत्वङ्मांसलोमनि ॥ २२.२९.३४ ॥
चतुर्थश्च ततोऽवादीत् उत्पन्नावयवाकृतिम् ।
तमेव प्राणिनं प्रानैः युक्तं कर्तुमवैम्यहम् ॥ २२.२९.३५ ॥
एवमुक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते ।
चत्वारोऽप्यस्थिखण्डाय प्रययुः भ्रातरोऽटवीम् ॥ २२.२९.३६ ॥
तत्र सिंहस्य ते प्रापुः अस्थिखण्डं विधेः वशात् ।
अविज्ञातविशेषाः च गृह्नन्ति स्म तथैव तत् ॥ २२.२९.३७ ॥
एकश्च तत्समुचितैः ततो मांसैरयोजयत् ।
द्वितीयोऽजनयत्तस्य तद्वत्त्वक्लोमसंहतीः ॥ २२.२९.३८ ॥
तृतीयश्चाखिलैरङ्गैः तत्योग्यैः तदपूरयत् ।
चतुर्थश्च ददौ तस्य सिंहीभूतस्य जीवितम् ॥ २२.२९.३९ ॥
उदतिष्ठदथोद्धूतसटाभारोऽतिभैरवः ।
सः दंष्ट्रासङ्कटमुखः सिंहः खरनखाङ्कुशः ॥ २२.२९.४० ॥
धावित्वा च स्वनिर्मात्क़्न् तान् एव चतुरोऽपि सः ।
अवधीत् केसरी तृप्तो विवेश च वनं ततः ॥ २२.२९.४१ ॥
एवं ते सिंहनिर्माणदोषान्नष्टाः द्विजातयः ।
दुष्टं हि जन्तुमुत्थाप्य कस्यात्मनि सुखं भवेत् ॥ २२.२९.४२ ॥
इत्थं चोपार्जितो यत्नात् गुणोऽपि विधुरे विधौ ।
सम्पत्तये न न परं जायते तु विपत्तये ॥ २२.२९.४३ ॥
मूले ह्यविकृते दैवे सिक्ते प्रज्ञानवारिणा ।
नयालवालः फलति प्रायः पौरुषपादपः ॥ २२.२९.४४ ॥
इति तस्यां निशि मार्गे वेतालेनांसतः कथां तेन ।
आख्याय सस्त्रिविक्रमसेनो राजा पुनः जगदे ॥ २२.२९.४५ ॥
राजन् तेष्वपराध्यति चतुर्षु कस्तत्र सिंहनिर्माणे ।
यन्न्यवधीत्तत्क्ळ्प्तो वद समयः सोऽत्र पूर्वस्ते ॥ २२.२९.४६ ॥
इति वेतालाच्छ्रुत्वा राजा सोऽचिन्तयत् विमौनस्य ।
इच्छति गन्तुमयं मे यात्वानेष्याम्यमुं भूयः ॥ २२.२९.४७ ॥
इति हृदि निश्चित्य सस्तं महीपतिः प्रत्युवाच वेतालम् ।
यस्तस्य जीवदायी सिंहस्य सः पापभाक्तेषु ॥ २२.२९.४८ ॥
प्राणिविशेषमबुद्ध्वा मांसत्वक्लोमगात्रनिर्माणम् ।
युक्तिबलात्तु कृतं यैः तेषां दोषोऽस्ति नाज्ञानात् ॥ २२.२९.४९ ॥
येन तु सिंहाकारं दृष्ट्वा विद्याप्रकाशनौत्केन ।
प्राणाः तस्य वितीर्णाः तेन कृताः ब्रह्महत्याः ताः ॥ २२.२९.५० ॥
एतत्सो राज्ञो वचनं निशम्य स्वधाम वेतालवरः जगाम ।
तस्यांसतस्तत्पुनः एव मायी राजापि तं सः
अनुससार भूयः ॥ २२.२९.५१ ॥
ततः गत्वा पुनः प्राप शिंशपापादपात्ततः ।
सस्त्रिविक्रमसेनस्तं वेतालं राजसत्तमः ॥ २३.३०.१ ॥
स्कन्धे कृत्वा च तं मौनी दर्शितानेकवैकृतम् ।
यावत्प्रतिष्ठते तावत्सो वेतालस्तमब्रवीत् ॥ २३.३०.२ ॥
राजन्नकार्येऽप्येतस्मिन्दुःवारोऽयं ग्रहस्तव ।
तत्ते श्रमविनोदाय कथयामि कथां शृणु ॥ २३.३०.३ ॥
आसीत् कलिङ्गविषये नाम्ना शोभावती पुरी ।
दिवीव शक्रनगरी वसतिः शुभकर्मणाम् ॥ २३.३०.४ ॥
यां प्रद्युम्नः इवाइश्वर्यवीर्यातिशयविश्रुतः ।
प्रद्युम्ननामा नृपतिः शशासोर्जितशासनः ॥ २३.३०.५ ॥
गुणापकर्षश्चापेषु मुरजेषु कराहतिः ।
युगेष्वश्रूयत कलिः यस्यां प्रज्ञासु तीक्ष्णता ॥ २३.३०.६ ॥
एकदेशे पुरस्तस्याः नृपेण प्रतिपादितः ।
यज्ञस्थलाभिधानोऽभूदग्रहारः बहुद्विजः ॥ २३.३०.७ ॥
तत्रासीत् यज्ञसोमाख्यः ब्राह्मणो वेदपारगः ।
महाधनोऽग्निहोत्री च पूजितातिथिदेवतः ॥ २३.३०.८ ॥
तस्य व्यतीते तारुण्ये मनःरथशतैः सुतः ।
भार्यायामनुरूपायामेकः एवोदपद्यत ॥ २३.३०.९ ॥
ववृधे च पितुः सोऽस्य गृहे बालः सुलक्षणः ।
कृताभिधानो विधिवद्देवसोमः इति द्विजैः ॥ २३.३०.१० ॥
प्राप्तषोडशवर्षश्च स विद्याविनयादिभिः ।
आवर्जितजनोऽकस्मात् ज्वरेण प्राप पञ्चताम् ॥ २३.३०.११ ॥
ततः परासुं स्नेहात्तमाश्लिष्य सह भार्यया ।
यज्ञसेनः पिता शोचन् न दाहाय जहौ चिरम् ॥ २३.३०.१२ ॥
ब्रह्मन् संसारगन्धर्वनगरस्य न वेत्सि किम् ।
परावरज्ञोऽपि गतिं वारिबुद्बुदभङ्गुराम् ॥ २३.३०.१३ ॥
ये सैन्यैः पूरितधराः हर्म्यपृष्ठेषु हारिषु ।
लसत्सङ्गीतनादेषु रत्नपर्यङ्कवर्तिनः ॥ २३.३०.१४ ॥
श्रीखण्डद्रवलिप्ताङ्गाः वरस्त्रीपरिवारिताः ।
व्यलसन्नमरम्मन्याः भूलोकेऽस्मिन् नराधिपाः ॥ २३.३०.१५ ॥
तेऽप्येककाः श्मशानेषु रुदत्प्रेतानुयायिषु ।
चिताधिशयिनो यत्र जग्धाः क्रव्यात्कृशानुभिः ॥ २३.३०.१६ ॥
शिवाभिः वलितौपान्ताः कालेन कवलीकृताः ।
न रोद्धुं शकिताः कैःचित्तत्रान्येषां कथैव का ॥ २३.३०.१७ ॥
तत् एतं प्रेतमाश्लिष्य विद्वन् वद करोषि किम् ।
इति-आद्यबोधयन् वृद्धाः मिलिताः तं द्विजं ततः ॥ २३.३०.१८ ॥
ततस्तेन कथम्चित्तं मुक्तमारोप्य तत्सुतम् ।
शिबिकायां गतप्राणं कृतप्रेतप्रसाधनम् ॥ २३.३०.१९ ॥
बान्धवाः वैशसौदश्रुमिलत्बन्धुजनान्विताः ।
श्मशानं प्रापयामासुः कोलाहलसमाकुलाः ॥ २३.३०.२० ॥
अत्रान्तरे च तत्रासीच्छ्मशाने कोऽपि तापसः ।
वृद्धः पाशुपतो योगी मठिकायां कृतस्थितिः ॥ २३.३०.२१ ॥
वयसा तपसा चातिभूयसा सुकृशां तनुम् ।
बिभ्राणो भङ्गभीत्येव सिराभिः परिवेष्टितम् ॥ २३.३०.२२ ॥
नाम्ना वामशिवो भस्मपाण्डुरोमावृताकृतिः ।
विद्युत्पिङ्गजटाजूटो महेश्वरेवापरः ॥ २३.३०.२३ ॥
सस्तापसोऽत्र तत् कालं दत्तौपालम्भखेदितम् ।
मूर्खं शठं ध्यानयोगाद्यवलिप्तमहम्कृतम् ॥ २३.३०.२४ ॥
भिक्षाफलव्रतधरं शिष्यमन्तिकवासिनम् ।
जगाद दूराच्छ्रुत्वा तं जनकोलाहलं बहिः ॥ २३.३०.२५ ॥
उत्तिष्ठ गत्वात्र बहिः विज्ञायागच्छ सत्वरम् ।
कुतोऽत्राश्रुतपूर्वोऽयं श्मशाने तुमुलारवः ॥ २३.३०.२६ ॥
इत्युक्ते गुरुणा तेन सः शिष्यः प्रत्युवाच तम् ।
नाहं यामि स्वयं याहि भिक्षावेला ह्यपैति मे ॥ २३.३०.२७ ॥
तच्छ्रुत्वोवाच सः गुरुः धिक् मूर्खोदरतत्पर ।
अह्नोऽर्धप्रहरे याते भिक्षावेलात्र का तव ॥ २३.३०.२८ ॥
श्रुत्वैवैतत्सस्तं क्रुद्धः कुशिष्यः प्राह तापसम् ।
धिक् जराजीर्ण नाहं ते शिष्यो न त्वं गुरुः मम ॥ २३.३०.२९ ॥
अहमन्यत्र यास्यामि वह पात्रीमिमां स्वयम् ।
इत्युक्त्वोत्थाय सः प्रायात्त्यक्त्वाग्रे दण्डकुण्डिकाम् ॥ २३.३०.३० ॥
विहसन्नथ निर्गत्य मठिकायाः सस्तापसः ।
तत्रागात् यत्र दाहार्थमानीतः सः द्विजार्भकः ॥ २३.३०.३१ ॥
दृष्ट्वा च तं जनतया शोच्यमानाग्र्ययौवनम् ।
योगी प्रवेष्टुं तत्देहं मतिं चक्रे जरार्दितः ॥ २३.३०.३२ ॥
गत्वा च द्रुतमेकान्ते मुक्तकण्ठं प्ररुद्य च ।
ननर्त सस्ततः क्षिप्रमङ्गहारैः यथा-उचितैः ॥ २३.३०.३३ ॥
ततो विवेश योगात्तद्द्विजपुत्रकलेवरम् ।
क्षणात्सः स्वतनुं त्यक्त्वा तपस्वी यौवनैच्छया ॥ २३.३०.३४ ॥
तत् क्षणं रचितायां च चितायां सहसैव सः ।
लब्धजीवः द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः ॥ २३.३०.३५ ॥
तद्दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति ।
इत्युद्बभूव नादोऽत्र निखिलस्य जनस्य च ॥ २३.३०.३६ ॥
अथामोक्ष्यन् व्रतं सर्वान्मृषा योग-ईस्वरः स तान् ।
विप्रपुत्रशरीरान्तःप्रविष्टस्तापसोऽब्रवीत् ॥ २३.३०.३७ ॥
लोकान्तरगतस्याद्य महापाशुपतव्रतम् ।
ग्राह्यं साक्षान्ममाभाष्य दत्तं शर्वेण जीवितम् ॥ २३.३०.३८ ॥
अधुनैव च धार्यं तत् गत्वैकान्ते व्रतं मया ।
जीवितं मेऽन्यथा नास्ति तत् यूयं यात याम्यहम् ॥ २३.३०.३९ ॥
इति सर्वान् सस्तत्रस्थान् सम्बोध्य दृढनिश्चयः ।
स्वगृहान् प्रेषयामास हर्षशोकाकुलान् व्रती ॥ २३.३०.४० ॥
स्वयं च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्वकलेवरम् ।
आत्तव्रतो महायोगी युवीभूतोऽन्यतो ययौ ॥ २३.३०.४१ ॥
इति व्याख्याय वेतालः कथां निशि तदा पथि ।
तं त्रिविक्रमसेनं स राजानं पुनोऽब्रवीत् ॥ २३.३०.४२ ॥
राजन् ब्रूहि स योगी-इन्द्रः कस्मात्परपुरे वसन् ।
प्ररुरोद ननर्ताथ कौतुकं महदत्र मे ॥ २३.३०.४३ ॥
इति वेतालतः श्रुत्वा शापशङ्की स भूपतिः ।
विमुच्य मौनमेवं तमवादीद्धीमतां वरः ॥ २३.३०.४४ ॥
शृणु तत्र बभूवास्य योऽभिप्रायस्तपस्विनः ।
सह वृद्धं चिरायेदं शरीरं सिद्धिसाधनम् ॥ २३.३०.४५ ॥
पितृभ्यां लालितं बाल्ये त्यजाम्यद्येति दुःखितः ।
सः जरत्तापसोऽरोदीद्देहस्नेहः हि दुःत्यजः ॥ २३.३०.४६ ॥
नवं देहं प्रवेक्ष्यामि साधयिष्याम्यतोऽधिकम् ।
इति हर्षादनृत्यच्च कस्य नेष्टं हि यौवनम् ॥ २३.३०.४७ ॥
एतत्तस्य वचो निशम्य नृपतेः अंसत्सो भूयोऽपि
अगात् वेतालो मृतपूरुषान्तरगतस्तं शिंशपापादपम् ।
राजा सोऽपि तमन्वधावदधिकौत्साहः पुनः प्रेप्सया
कल्पान्तेऽप्यचलं कुलाद्रिविजयि स्थैर्यं हि धीरात्मनाम् ॥ २३.३०.४८ ॥
ततस्तां तिमिरश्यामां चिताग्निज्वलित-ईक्षणाम् ।
स्मशाने भीषणे तस्मिन् वीरो रजनिराक्षसीम् ॥ २४.३१.१ ॥
घोरामगणयन् राजा गत्वा तां शिंशपां पुनः ।
सस्त्रिविक्रमसेनस्तं तस्याः वेतालमाददे ॥ २४.३१.२ ॥
स्कन्धे कृत्वा च तं यावत्प्रक्रामति सः पूर्ववत् ।
तावत् भूयः स वेतालो नरदेवमुवाच तम् ॥ २४.३१.३ ॥
भो राजन्नहमुद्विग्नो न पुनस्त्वं गतागतैः ।
तत् एकं मे महाप्रश्नमिमं कथयतः शृणु ॥ २४.३१.४ ॥
आसीन्माण्डलिकः कोऽपि नृपतिः दक्षिणापथे ।
धर्माभिधानः धौरेयः साधूनां बहुगोत्रजः ॥ २४.३१.५ ॥
तस्य चन्द्रवतीनाम भार्या मालवदेशजा ।
अभून्महाकुलौत्पन्ना वरस्त्रीमौलिमालिका ॥ २४.३१.६ ॥
तस्यां च तस्य भार्यायां भूपतेः उदपद्यत ।
एकैव लावण्यवती नामान्वर्थाभिधा सुता ॥ २४.३१.७ ॥
प्रदेयायां च तस्यां सः सुतायां धर्मभूपतिः ।
उन्मूलितोऽभून्मिलितैः दायादैः राष्ट्रभेदिभिः ॥ २४.३१.८ ॥
ततः पलाय्य निरगात्सः देशात् भार्यया सह ।
दुहित्रा च तया रात्रावात्तसत्रत्नसञ्चयः ॥ २४.३१.९ ॥
मालवं प्रति च स्वैरं प्रस्थितः श्वशुरास्पदम् ।
विन्ध्याटवीं तया रात्र्या प्राप भार्यासुतायुतः ॥ २४.३१.१० ॥
तस्यां प्रविष्टस्योदश्रुः इवावश्यायशीकरैः ।
निशानुयात्रां दत्त्वेव ययौ तस्य महीक्षितः ॥ २४.३१.११ ॥
आरुरोहाथ पूर्वाद्रिमुत्क्षिप्ताग्रकरो रविः ।
मा गाः चौराटवीमेतामिति तं वारयन् इव ॥ २४.३१.१२ ॥
ततोऽत्र ससुताजानिः क्षताङ्घ्रिः कुशकण्टकैः ।
पदातिः स नृपः गच्छन् भिल्लानां प्राप पल्लिकाम् ॥ २४.३१.१३ ॥
परेषां प्राणसर्वस्वहारिभिः पुम्भिः आवृताम् ।
वर्जितां धार्मिकैः दुर्गां कृतान्तनगरीमिव ॥ २४.३१.१४ ॥
तत्र दृष्ट्वैव तं दूरात्सवस्त्राभरणं नृपम् ।
मोषितुं बहवोऽधावन् शबराः विविधायुधाः ॥ २४.३१.१५ ॥
तान् विलोक्य सुताभार्ये राजा धर्मः जगाद सः ।
पुरा स्पृशन्ति वां म्लेच्छाः तत् इतो विशतं वनम् ॥ २४.३१.१६ ॥
इति राज्ञोदिता रज्ञी वनमध्यं विवेश सा ।
लावण्यवत्या सुतया सार्धं चन्द्रवती भयात् ॥ २४.३१.१७ ॥
राजाप्यभिमुखायातान्खड्गचर्मधरोऽत्र सः ।
अवधीत्तान् बहून् शूरः शबरान् शरवर्तिणः ॥ २४.३१.१८ ॥
ततस्तेनाखिला पल्ली पत्याज्ञप्ताः निपत्य तम् ।
प्रहारक्षतचर्माणमवधीन्नृपमेककम् ॥ २४.३१.१९ ॥
गृहीताभरणे याते दस्युसैन्ये विलोक्य तम् ।
भर्तारं निहतं दूरात् वनगुल्मान्तरस्थिता ॥ २४.३१.२० ॥
राज्ञी चन्द्रवती सात्र दुहित्रा सह विह्वला ।
पलायमाना गहनं दूरमन्वक् अगात् वनम् ॥ २४.३१.२१ ॥
तत्र मध्याह्नतापार्तास्विव मूलानि शाखिनाम् ।
छायास्वपि प्रविष्टासु शिशिराणि सहाध्वगैः ॥ २४.३१.२२ ॥
एकदेशेऽब्जसरसस्तीरेऽशोकतरोस्तले ।
शोकार्ता रुदती श्रान्ता ससुता समुपाविशत् ॥ २४.३१.२३ ॥
तावत्तत् वनमभ्यर्णनिवासी मृगयाकृते ।
महामनुष्यः कोऽप्यागादश्वारूढः सपुत्रकः ॥ २४.३१.२४ ॥
सश्चण्डसिंहनामा तं पुत्रं सिंहपराक्रमम् ।
उवाच दृष्ट्वात्र तयोः पांसूत्थे पदपद्धती ॥ २४.३१.२५ ॥
एते सुरेखे सुभगेऽनुसृत्याप्नुवो यदि ।
स्त्रीयौ ते तत्तयोः एकां स्वीकुरुष्व यथारुचि ॥ २४.३१.२६ ॥
इत्युक्तवन्तं तं स्माह पुत्रः सिंहपराक्रमः ।
यस्याः सूक्ष्मविमौ पादौ सा भार्या प्रतिभाति मे ॥ २४.३१.२७ ॥
सा हि स्वल्पवयाः नूनं जाने समुचिता मम ।
बृहत्पादा तु योग्येयमेतत्ज्येष्ठवयाः तव ॥ २४.३१.२८ ॥
इति सूनोः वचः श्रुत्वा चण्डसिंहः जगाद तम् ।
कैषा कथा भवत्माता प्रत्यग्रं हि गता दिवम् ॥ २४.३१.२९ ॥
तादृशे सुकलत्रे च गते कान्यत्र वासना ।
तच्छ्रुत्वा सोऽपि पुत्रस्तं चण्डसिंहमभाषत ॥ २४.३१.३० ॥
तात मैवमभार्यं हि शून्यं गृहपतेः गृहम् ।
अन्यच्च मूलदेवौक्ता गाथा किं न श्रुता त्वया ॥ २४.३१.३१ ॥
यत्र घनस्तनजघना नास्ते मार्गावलोकिनी कान्ता ।
अजडः कस्तदनिगडं प्रविशति गृहसंज्ञकं दुर्गम् ॥ २४.३१.३२ ॥
तत् जीवितेन मे तात शापितोऽसि न तां यदि ।
द्वितीयां मदभीष्टायां भार्यार्थे स्वीकरीष्यसि ॥ २४.३१.३३ ॥
एतत्पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः ।
सश्चण्डसिंहोऽनुसरन् पदपङ्क्तिं शनैः ययौ ॥ २४.३१.३४ ॥
प्राप्य तच्च सरःस्थानं मुक्तातारा-ओघमण्डिताम् ।
श्यामां चण्द्रवतीं राज्ञीं तां ददर्शावभासिताम् ॥ २४.३१.३५ ॥
लावण्यवत्या सुतया ज्योत्स्नयेवावदातया ।
नैशीं द्यामिव मध्याह्ने तरुच्छायामुपाश्रिताम् ॥ २४.३१.३६ ॥
उपाययौ च पुत्रेण साकं तां सः सकौतुकः ।
सापि दृष्ट्वा तमुत्तस्थौ वित्रस्ता चौरशङ्किनी ॥ २४.३१.३७ ॥
अलं त्रासेन नाम्भैतौ चौरौ सौम्याकृतीमौ ।
सुवेषौ कौचिदाखेटकृते नूनमिहागतौ ॥ २४.३१.३८ ॥
इत्युक्ता सुतया राज्ञी यावद्दोलायतेऽत्र सा ।
तावदश्वावतीर्णस्ते चण्डसिंःओऽब्रवीत् उभे ॥ २४.३१.३९ ॥
किं सम्भ्रमेण वामावां प्रणयाद्द्रष्टुमागतौ ।
तत् विस्वस्य निःआतङ्के वदतं के युवामिति ॥ २४.३१.४० ॥
हरनेत्रानलज्वालादग्धमन्मथदुःस्थिते ।
रतिप्रीतीवारण्यमिदमेवमुपागते ॥ २४.३१.४१ ॥
प्रविष्टे स्थः कथं चेह बत निःमानुषे वने ।
रत्नप्रासादवासार्हमिदं हि युवयोः वपुः ॥ २४.३१.४२ ॥
कथं वराङ्गना-उत्सङ्गयोग्यौ कण्टकिनीमिमाम् ।
भुवं वां चरणौ भ्रान्तविति नौ मनसि व्यथा ॥ २४.३१.४३ ॥
एषा च चित्रं युवयोः पतन्ती धूलिः आनने ।
वातौद्धूता हतछायमावयोः कुरुते मुखम् ॥ २४.३१.४४ ॥
भवत्योः एषश्चाङ्गेऽस्मिन् निपतन् पुष्पपेशले ।
किरणौष्मा दहत्यस्मान्नुच्चण्डश्चण्डदीधितेः ॥ २४.३१.४५ ॥
तत् ब्रूतमात्मवृत्तान्तं दूयते हृदयं हि नः ।
द्रष्टुं न शक्नुमोऽरण्ये स्थितिं वां स्वापदावृते ॥ २४.३१.४६ ॥
इत्युक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः ।
लज्जाशोकाकुला तस्मै स्वं वृत्तान्तमवर्णयत् ॥ २४.३१.४७ ॥
ततो निःस्वामिकां मत्वा तामाश्वास्य च सात्मजाम् ।
स्वीचक्रे मधुरैः वाक्यैः चण्डसिंहोऽनुरञ्जयन् ॥ २४.३१.४८ ॥
आरोप्य चास्वयोः पृष्ठं सपुत्रस्तां सपुत्रिकाम् ।
निनाय वित्तपपुरीसमृद्धां वसतिं निजाम् ॥ २४.३१.४९ ॥
सापि जन्मान्तरगतेवावशाङ्गीचकार तम् ।
अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् ॥ २४.३१.५० ॥
ततस्तां सूक्ष्मपादत्वात् राज्ञीं सिंहपराक्रमः ।
चण्डसिंहसुतस्तत्र भार्यां चण्द्रवतीं व्यधात् ॥ २४.३१.५१ ॥
तत्सुतां तां च लावण्यवतीं नृपतिकन्यकाम् ।
बृहत्त्वात्पादयोः भार्यां चण्डसिंहश्चकार सः ॥ २४.३१.५२ ॥
प्राख़् हि सूक्ष्मबृहत्पादमुद्रापङ्क्तिद्वय-ईक्षणात् ।
प्रतिपन्नं तथा ताभ्यां सत्यं कश्चातिवर्तते ॥ २४.३१.५३ ॥
एवं पादविपर्यासात्ते पितापुत्रयोस्तयोः ।
दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥ २४.३१.५४ ॥
कालेन च तयोस्ताभ्यां भर्तृभ्यां जज्ञिरे द्वयोः ।
पुत्राः दुहितरश्चैव तेषामन्येऽप्यथ क्रमात् ॥ २४.३१.५५ ॥
इत्थं सम्प्राप्य तौ चण्डसिंहसिंहपराक्रमौ ।
तस्थतुः तत्र लावण्यवतीं चन्द्रवतीं च ते ॥ २४.३१.५६ ॥
इति व्यावर्ण्य वेतालस्तदा पथि कथां निशि ।
सस्त्रिविक्रमसेनं तं पप्रच्छ नृपतिं पुनः ॥ २४.३१.५७ ॥
तयोः मातादुहित्रोः ये पुत्रपित्रोस्तयोः नृप ।
सकाशात् जन्तवः जाताः क्रमात् उभयपक्षयोः ॥ २४.३१.५८ ॥
ज्ञात्वेदं ब्रूहि मे तेषामन्यःअन्यं के भवन्ति ते ।
पूर्वौक्तः सोऽत्र शापस्ते जानानश्चेन्न वक्ष्यसि ॥ २४.३१.५९ ॥
एतत् वेतालतः श्रुत्वा विमृशन् बहुधापि सः ।
नाज्ञासीत्तत् यदा राजा तूष्णीकः प्रययौ तदा ॥ २४.३१.६० ॥
ततस्ततंसकूटस्थो वेतालो विहसन् हृदि ।
मृतपूरुषदेहान्तो निविष्टः समचिन्तयत् ॥ २४.३१.६१ ॥
नायं राजा महाप्रश्ने वेत्त्यस्मिन्दातुमुत्तरम् ।
तेन तूष्णीं व्रजत्येषः हृष्टोऽतिचतुरैः पदैः ॥ २४.३१.६२ ॥
न च वञ्चयितुं शक्यः सत्त्वराशिरयं परम् ।
क्रीडन् भिक्षुः सश्चास्माभिः इयतैव न शाम्यति ॥ २४.३१.६३ ॥
तदद्य वञ्चयित्वा तं दुरात्मानमुपायतः ।
तत्सिद्धिं भाविकल्याणे राजन्यस्मिन् निवेशये ॥ २४.३१.६४ ॥
इत्यालोच्य स वेतालो नृपं तमवदत्तदा ।
राजन्कृष्णनिशाघोरे स्मशानेऽस्मिन् गतागतैः ॥ २४.३१.६५ ॥
एतैः क्लिष्टः सुखार्हस्त्वं न विकल्पश्च कोऽपि ते ।
तदाश्चर्येण धैर्येण तुष्टोऽहममुना तव ॥ २४.३१.६६ ॥
शवमेतं नयेदानीं निर्गच्छाम्यमुतः ह्यहम् ।
इदं तु श्र्णु यत् वच्मि हितं तव कुरुष्व च ॥ २४.३१.६७ ॥
आनीतमेतत् भवता यस्यार्थे नृकलेवरम् ।
कुभिक्षुः सोऽद्य मामस्मिन् समाहूयार्चयिष्यति ॥ २४.३१.६८ ॥
उपहारीचिकीर्षुः च त्वामेव सः शठस्ततः ।
भूमौ प्रणाममष्टाभिरङ्गैः कुर्विति वक्ष्यति ॥ २४.३१.६९ ॥
त्वं प्राक् दर्शय तावन्मे करिष्येऽहं तथैव तत् ।
इति सोऽपि महाराज वक्तव्यह् श्रमणस्त्वया ॥ २४.३१.७० ॥
ततो निपत्य भूतौ सः प्रणामं यावत् एव ते ।
दर्शय्ष्यति तावत्त्वं छिन्द्याः तस्यासिना शिरः ॥ २४.३१.७१ ॥
ततो विद्याधराइश्वर्यसिद्धिः या तस्य वाञ्छिता ।
तां त्वं प्राप्स्यसि भुङ्क्ष्वेमं भुवं ततुपहारतः ॥ २४.३१.७२ ॥
अन्यथा तु स भिक्षुः त्वामुपहारीकरिष्यति ।
एततर्थं कृतो विघ्नस्तवात्रेयच्चिरं मया ॥ २४.३१.७३ ॥
तत्सिद्धिरस्तु ते गच्छेत्युक्त्वा तस्यांसपृष्ठगात् ।
निर्गत्य स ययौ तस्मात् वेतालः प्रेतकायतः ॥ २४.३१.७४ ॥
अथ स नरपतिः तं प्रीतवेतालवाक्यात्
श्रमणमहितमेव क्षान्तिशीलं विचिन्त्य ।
वटविटपितलं तत्तस्य पार्श्वं प्रतस्थे
मृतपुरुषशरीरं तत् गृहीत्वा प्रहृष्टः ॥ २४.३१.७५ ॥
ततस्तस्यान्तिकं भिक्षोः क्षान्तिशीलस्य भूपतिः ।
सस्त्रिविक्रमसेनोऽत्र प्राप स्कन्धे शवं वहन् ॥ २५.३२.१ ॥
ददर्श तं च श्रमणं मार्गाभिमुखमेककम् ।
कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूलगम् ॥ २५.३२.२ ॥
असृग्लिप्तस्थले गौरेणास्थिचूर्णेन निर्मिते ।
मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके ॥ २५.३२.३ ॥
महातैलप्रदीपाढ्ये हुतपार्श्वस्थवह्निनि ।
सम्भृतौचितसम्भारे स्वैष्टदैवतपूजने ॥ २५.३२.४ ॥
उपागाच्च सस्तं राजा सोऽपि भिक्षुः विलोक्य तम् ।
आनीतमटकं हर्षात् उत्थायोवाच संस्तुवन् ॥ २५.३२.५ ॥
दुःकरो मे महाराज विहितोऽनुग्रहस्त्वया ।
त्वा दृशाः क्व क्व चेष्टेयं देशकालौ क्व चेदृशौ ॥ २५.३२.६ ॥
निःकम्पं सत्यमेवाहुः मुख्यं त्वां कुलभूभृताम् ।
एवमात्मानपेक्षेण परार्थो येन साध्यते ॥ २५.३२.७ ॥
एतत् एव महत्त्वं च महतामुच्यते बुधैः ।
प्रतिपन्नादचलनं प्राणानामत्ययेऽपि यत् ॥ २५.३२.८ ॥
इति ब्रुवन् सः सिद्धार्थमानी भिक्षुः महीपतेः ।
तस्यावतारयामास स्कन्धात्तं मटकं तदा ॥ २५.३२.९ ॥
स्नपयित्वा समालभ्य बद्धमाल्यं विधाय च ।
मटकं मण्डलस्यान्तः स्थापयामास तस्य तत् ॥ २५.३२.१० ॥
भस्मौद्धूलितगात्रश्च केशयज्ञौपवीतभृत् ।
प्रावृतप्रेतवसनो भूत्वा ध्यानस्थितः क्षणम् ॥ २५.३२.११ ॥
तस्मिन्मन्त्रबलाहूतं प्रवेश्य नृकलेवरे ।
तं वेतालवरं भिक्षुः पूजयामास सः क्रमात् ॥ २५.३२.१२ ॥
ददौ तस्मै कपालार्घपात्रेणार्घ्यं सुनिःमलैः ।
नरदन्तैः ततः पुष्पं सुगान्धि च विलेपनम् ॥ २५.३२.१३ ॥
दत्त्वा मानुषनेत्रैः च धूपं मांसैः बलिं तथा ।
समाप्य पूजां राजानं तमुवाच सः पार्श्वगम् ॥ २५.३२.१४ ॥
राजन् इहास्य मन्त्राधिराजस्य कृतसंविधेः ।
प्रणाममङ्गैरष्टाभिः निपत्य कुरु भूतले ॥ २५.३२.१५ ॥
येनाभिप्रेतसिद्धिं ते दास्यत्येषो वरप्रदः ।
श्रुत्वैतत्स्मृतवेतालवचाः राजाब्रवीत्सस्तम् ॥ २५.३२.१६ ॥
नाहं जानामि तत्पूर्वं प्रदर्शयतु मे भवान् ।
ततस्तथैव तदहं करिष्ये भगवन् इति ॥ २५.३२.१७ ॥
ततः दर्शयितुं यावत्सो भिक्षुः पतितो भुवि ।
तावत् खड्गप्रहारेण स राजास्य शिरोऽच्छिनत् ॥ २५.३२.१८ ॥
आचकर्ष च हृत्पद्ममुदरादस्य पाटितम् ।
वेतालाय च तस्मै तत्शिरःहृत्कमलं ददौ ॥ २५.३२.१९ ॥
साधुवादे ततः दत्ते प्रीतैः भूतगणैः ततः ।
तुष्टोऽब्रवीत्सो वेतालो नृपं तं नृकलेवरात् ॥ २५.३२.२० ॥
राजन् विद्याधरेन्द्रत्वं भिक्षोः आसीत् यत् ईप्सितम् ।
तत्तावत् भूमिसाम्राज्यभोगान्ते ते भविष्यति ॥ २५.३२.२१ ॥
क्लेशितोऽसि मया यत्त्वं तदभीष्टं वरं वृणु ।
इत्युक्तवन्तं वेतालं स राजा तमभाषत ॥ २५.३२.२२ ॥
त्वं चेत्प्रसन्नः को नाम न सिद्धोऽभिमतो वरः ।
तथाप्यमोघवचनात् इदं त्वत्तोऽहमर्थये ॥ २५.३२.२३ ॥
आद्याः प्रश्नकथाः एताः नानाख्यानमनःरमाः ।
चतुर्विंशतिः एषा च पञ्चविंशी समाप्तिगा ॥ २५.३२.२४ ॥
सर्वाः ख्याताः भवन्त्वेताः पूजनीयाः च भूतले ।
इति तेनार्थितो राज्ञा वेतालो निजगाद सः ॥ २५.३२.२५ ॥
एवमस्तु विशेषं च शृणु वच्म्यत्र भूतले ।
याः चतुर्विंशतिः पूर्वाः यैषा चैका समापिनी ॥ २५.३२.२६ ॥
कथावलीयं वेतालपञ्चविंशतिकाख्यया ।
ख्याता जगति पूज्या च शिवा चैव भविष्यति ॥ २५.३२.२७ ॥
यः श्लोकमात्रमप्यस्याः कथयिष्यति सादरः ।
यो वा श्रोष्यति तौ सद्यो मुक्तपापौ भविष्यतः ॥ २५.३२.२८ ॥
यक्षवेतालकूष्माण्डडाकिनीराक्षसादयः ।
न तत्र प्रभविष्यन्ति यत्रैषा कीर्तयिष्यते ॥ २५.३२.२९ ॥
इत्युक्त्वा स ययौ तस्मान्निर्गत्य नृकलेवरात् ।
यथाभिरुचितं धाम वेतालो योगमायया ॥ २५.३२.३० ॥
ततस्तत्र सुरैः सार्धं राज्ञस्तस्य महेश्वरः ।
साक्षादाविरभूत्तुष्टः प्रणतं चादिदेश तम् ॥ २५.३२.३१ ॥
साधु वत्स हतोऽद्यायं यत्त्वया कूटतापसः ।
विद्याधरमहाचक्रवर्तिताहठकामुकः ॥ २५.३२.३२ ॥
त्वमादौ विक्रमादित्यः सृष्टोऽभूः स्वांशतो मया ।
म्लेच्छरूपावतीर्णानामसुराणां प्रशान्तये ॥ २५.३२.३३ ॥
अद्य चोद्दामदुःवृत्तदमनाय मया पुनः ।
त्वं त्रिविक्रमसेनाख्यः हीरः सृष्टोऽत्र भूपतिः ॥ २५.३२.३४ ॥
अतः सद्वीपपातालां स्थापयित्वा महीं वशे ।
विद्याधराणमचिरादधिराजो भविष्यसि ॥ २५.३२.३५ ॥
भुक्त्वा दिव्यान् चिरं भोगान्नुद्विग्नः स्वैच्छयैव तान् ।
त्यक्त्वा ममैव सायुज्यमन्ते यास्यस्यसंशयम् ॥ २५.३२.३६ ॥
अपराजितनामानं खड्गं चैतं गृहाण मे ।
यस्य प्रसादात्सर्वं त्वं प्राप्स्यस्येतत् यथोदितम् ॥ २५.३२.३७ ॥
इत्युक्त्वा खड्गरत्नं तद्दत्त्वा तस्मै महीभृते ।
वाक्पुष्पाभ्यर्चितस्तेन देवः शम्भुः तिरःदधे ॥ २५.३२.३८ ॥
अथ दृष्ट्वा समाप्तं कार्यमशेषं निशि प्रभातायाम् ।
प्रविवेश सस्त्रिविक्रमसेनः स्वपुरं नृपः प्रतिष्ठानम् ॥ २५.३२.३९ ॥
तत्र क्रमावगतरात्रिविचेष्टिताभिः
अभ्यर्चितः प्रकृतिभिः विततौत्सवाभिः ।
स्नानप्रदानगिरिशार्चननृत्तगीतवाद्यादिभिः
तदखिलं सः दिनं निनाय ॥ २५.३२.४० ॥
अल्पैः एव च वासरैः स नृपतिः शार्वस्य वीर्यादसेः
सद्वीपां सरसा तलां च बुभुजे निःकण्टकां मेदिनीम् ।
सम्प्राप्याथ हराज्ञया सुमहतीं विद्याधराधीशताम्
भुक्त्वा तां सुचिरं जगाम भगवत्सायुज्यमन्ते कृती ॥ २५.३२.४१ ॥
Originally encoded by Elena Artesani, a student of Paolo Magnone in
Kyoto input scheme and broken sandhis
improved and corrected for Sanskrit display NA
% Text title : vetAlapa.nchavimshati by Somadeva in Katahsaritasagar version in verses
% File name : vetala25.itx
% itxtitle : vetAlapa.nchaviMshati (somadevarachitam kathAsaritasAgarAntargatam)
% engtitle : vetAlapa.nchavimshati by Somadeva in Katahsaritasagar version in verses
% Location : doc_z_misc_major_works
% Sublocation : major_works
% Texttype : pramukha
% Author : Somadeva
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Elena Artesani, Completely updated for Devanagari display NA
% Proofread by : Updated for Sanskrit
% Description-comments : Text is portion of Kathasaritasagara
% Indexextra : scanned
% Acknowledge-Permission: Paolo Magnone http://www.jambudvipa.net/jambu.htm
% Latest update : July 2, 2016
% Send corrections to : Sanskrit@cheerful.com
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .