॥ विश्वसारतन्त्रम् ॥
विश्वसारतन्त्रं
प्रथमः पटलः ।
प्रणम्य शङ्करं गौरीं सदानन्दविवर्द्धिनीम् ।
सुखमोक्षप्रदां रम्यां महाकालेन धीमता ॥ १ ॥
क्रियतेऽदोमहातन्त्रं तन्त्राणां सारमुत्तमम् ।
तत्र प्राक् पार्वती शम्भुं प्रतिपप्रच्छ तद् यथा ॥ २ ॥
कैलासे पर्वते रम्ये नानाधातुसमन्विते ।
सिद्धगन्धर्वसङ्घैश्च सेविते पर्वतोत्तमे ॥ ३ ॥
नानामुनिसमाकीर्णे नानासुरसमन्विते ।
लताजालसमाकीर्णे नानातरुसमन्विते ॥ ४ ॥
सुवर्णे मातृकावर्णे मूर्तिमद् भिरुपासिते ।
ब्रह्मादौर्देवसङ्घैश्च सेविते पर्वतोत्तमे ॥ ५ ॥
गङ्गानिर्झरसंसक्त-वहूपाषाण शोभिते ।
पार्वती प्राह देवेशं सर्वभूतहिते रतम् ॥ ६ ॥
श्रीपार्वत्युवाच ।
देवदेव जगन्नाथ योगशास्त्रविशारद ।
रहस्यं प्रष्टुमिच्छामि किञ्चित् त्वां भक्तवत्सल ॥ ७ ॥
गुह्याद् गुह्यतरं साक्षाद् यत् किञ्चित् सुरसत्तम ।
रहस्यं वद देवेश यत् सुरैरपि दुर्लभम् ॥ ८ ॥
यन्त्राणां मन्त्रवर्णानां सृष्टिरुत्पत्तिलक्षणम् ।
स्मृतिशास्त्रवर्षकृतां यत् किञ्चित् स्थिरजङ्गमम् ॥ ९ ॥
भूतं भव्यं भविष्यञ्च पाठस्य लक्षणं परम् ।
शालग्रामस्य माहात्म्यं तीर्थानां पर्वतस्य च ॥ १० ॥
षट्कर्मणश्च माहात्म्यं शक्तिमाहात्म्यमुत्तमम् ।
मन्त्राणां साधकानाञ्च साधनस्य महेश्वर ॥ १२ ॥
वर्षकृत्यस्य माहात्म्यं उपरागस्य वै तथा ।
पत्रपुष्पस्य माहात्म्यं साध्यस्य च तथैव च ॥
बलिदानस्य माहात्म्यं पशुपक्ष्यादिकस्य च ।
कर्मणश्च तथा कृत्यं देहस्य च तथैव च ॥
मुद्रासनस्य योगस्य धारणाध्ययनस्य च ।
वर्णानां वर्णमाहात्म्यं तथा कर्तव्यकर्मणः ॥
देवस्य विहितस्यापि धर्म्माधर्म्मस्य तत्परम् ।
युगानां युगमानस्य ज्योतिः शास्त्रस्य वै तथा ॥
काव्यशास्त्रस्य माहात्म्यं शब्दब्रह्म ततः परम् ।
देहस्य देहयोगस्य कुण्डस्य यज्ञकर्मणः ॥
ब्रह्माण्डस्य च माहात्म्यं भूतभव्यभविष्यतः ।
देहस्य च तथा तस्य परलोकस्य वै तथा ॥
आयुर्वेदस्य माहात्म्यं च भक्तान्नक्तं ततः परम् ।
कथयमास मन्त्राणां आचाराणां तथैव च ।
तस्यास्तद्वचनं श्रुत्वा विहश्य जगदीश्वरः ॥
कथयामास तत् सर्वं प्रश्नानां प्रश्नमुत्तमम् ॥
श्री ईश्वर उवाच ।
साधु देवि त्वया पृष्टं साधु लोकहितं परम् ।
कथयिष्ये सुगोप्यं वै शृणुष्वावहिता भव ॥
योगशास्त्रस्य माहात्म्यं कथयामि सुरप्रिये ।
आगमन्त विना योगं न बोधयति मानवः ॥
आगतः शिववक्त्रेभ्यो गतश्च गिरिजामुखे ।
मलत्रयव्यपारत्वात् तस्मादागम उच्यते ॥
आदौ देहं प्रवक्ष्यामि तत् शृणुष्व युथायुथम् ।
विना देहे आगमस्य प्रकाशः क्रियते कुतः ॥
कारणं परमब्रह्म कार्ययो हि वाचकात्मकः ।
वाच्यवाचकमात्रेण तत् सर्वं वाचकं भवेत् ॥
वाचावाचेन या येन परं ब्रह्मानुमीयते ।
वाचको हि हरिः साक्षात् वाच्यश्च परमेश्वरः ॥
आसीच्छक्तियुतो देवः सदाशिव इति श्रुतः ।
शुद्धः सनातनो नित्यः सच्चिदानन्दरूपकः ॥
अक्षरं परमं ब्रह्म अच्युतः शुद्धनिर्मलः ।
गुणत्रयात्मकः श्वेतः सृष्टिमूलमुदाहृतः ॥
सदाशिवेति विख्यातश्चित्स्वरूप इति स्मृतः ।
शब्दब्रह्मात्मको विष्णुर्योगीन्द्रः सुरनायकः ॥
तस्य क्रीडाविभागेन इयं सृष्टिर्व्वितन्यते ।
काले मायारतः सोथ संसृजेत् सचराचरम् ॥
मायया सह तस्यापि अहं तत्वं मनन्ततः ।
अहं तत्वाद् विकुर्वाणः सर्वञ्च सचराचरम् ॥
अहङ्कारात्मकं सर्वं जगत् स्थावरजङ्गमम् ।
क्रीडया सकलं विश्वं संसृजेज्जगदीश्वरः ॥
इच्छावतेभा उत्पात्य वहवो जज्ञिरे पुरा ।
विघ्नाश्च जज्ञिरे पूर्वं धर्मकर्म ततः परम् ॥
धर्मो हि शास्त्ररूपेण योगेन जायते प्रिये ।
विघ्नानां पूजनं तत्र ततः कुर्ययाद् विधानतः ॥
अथ [अर्थ] योगं प्रवक्ष्यामि शृणुष्व कमलानने ।
सदाशिवाद् भवेदिच्छा कालयोगसमन्विता ॥
गुणक्षोभकरी सा तु सर्वसम्मोहकारिणी ।
आद्या परा महामाया नित्यानिष्टविनाशिनी ॥
सुखदा शुभदा नित्या सर्वभूतेषु संस्थिता ।
न मायायोगयुक्तेन सृष्टिरेषा भवेदिति ॥
(प्. २) यदा तुष्टा भवेन्माया तदा सिद्धिमुपालभेत् ।
दैवी ह्येषां गुणमयी सर्वभूतसमन्विता ॥
तस्याः क्रीडाविभागेन सृष्टिरेषा भविष्यति ।
यस्यां सर्वं समुद्भूतं यस्यामद्यापि तिष्ठति ॥
लयमेष्यति कालान्ते तस्मै [तस्यै] देव्यै नमो नमः ।
या ब्राह्मी वैष्णवी रौद्री देवी प्रज्ञा शिवा तथा ॥
सर्वभूतस्थिता माया तस्मै [तस्यै] देव्यै नमो नमः ।
दर्पणप्रतिबिम्बेन यथा माया प्रदृश्यते ॥
बहूउमिथ्या यथानित्यं तथा सृष्टिषु पार्वति ।
माया सेच्या सदा नित्या माया पूज्या सदा प्रिया ॥
माया स्तुत्या सदा देवि वन्दनीया पुनः पुनः ।
मायया तु विना सृष्टेर्नास्ति उत्पत्तिकारणम् ॥
सर्वत्र सर्वभूतेषु स्थावरेषु चरेषु च ।
ज्योतिर्ब्रह्ममयीं देवीं लक्षते सचराचरम् ॥
लोभमोहकामक्रोधाः सगुणा निर्गुणा तथा ।
कालयुक्ता यदा सैव तदा सर्वं विधीयते ॥
कालमायामयी भूत्वा गुणक्षोभं नयेत् सदा ।
कालेन प्रेरयेन्मायां सृष्टेरुत्पत्तिहेतवे ॥
या मूलप्रकृतिः प्रोक्ता सा माया परिकीर्तिता ।
यो ह्ययं सदाशिवः प्रोक्तः स एव पुरुषः परः ॥
एकं ब्रह्म द्विधा भूत्वा सृष्टिरेषा विधीयते ।
अर्द्धेन पुरुषो भूत्वा अर्द्धेन वनिता तथा ॥
तावुभौ तु समौ भूत्वा सृष्टिव्यक्तिं नयेत् सुधीः ।
यथा सदाशिवः प्रोक्तस्तथा माया प्रकीर्तिता ॥
यथा माया तथा चार्द्धा तथा चैव सदाशिवः ।
यथा गृहे प्रदृश्येत गृहिणी गृहपालयोः ॥
तथा शिवस्य सा नित्या शिवानी मूलरूपिणी ।
गृहिणी परिहीनस्य यथा गृहपतेर्गतिः ॥
तथा भवति देवेशि तथैव च सदाशिवः ।
तस्मान्माया सदा वन्द्या पुजनीया परात् परा ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरोऽन्ये च ये पराः ।
सर्वे ते मायया देहं लभन्ते नात्र संशयः ॥
अर्च्चियो ये यथा भूमौ भास्करस्य गभस्तयः ।
ब्रह्मवस्तु तथा भूत्वा मायया व्यापकं महत् ॥
न तु ब्रह्मातिरिक्तः स्यात् जगत् स्थावरजङ्गमम् ।
मायया वशगाः सर्वे ब्रह्म-विष्णु-शिवादयः ॥
न मायावशगाः केचिन् महाकालवचो यथा ।
सर्वदा सर्वभावेन माया सेव्या दिवानिशम् ॥
स्थूलं प्रकाशयेत् सूक्ष्मं स्थूलं सूक्ष्मार्थमाश्रयेत् ।
न हि स्थूलाद् विना देवि सूक्ष्मं याति प्रकाशनम् ॥
यदिहास्थि तदान्यत्र यन्नेहास्थि न तत् क्वचित् ।
आगमस्य समो ग्रन्थः सदा नास्थीह भूतले ॥
किमन्यैरसदालापैर्यत्रायुर्व्ययतामिषात् ।
निद्रया ह्रियते देवि व्यवायेन च वायवः ॥
दिवाचार्थेह या देवि कुटुम्बभरणेन च ।
सर्वत्र सर्वकालेषु जाग्रत् स्वप्नसुषुप्तिषु ॥
वन्दनीया सदा स्तुत्या पूजनीया च सर्वदा ।
श्रोतव्या कीर्तितव्या च माया नित्या नगात्मजे ॥
यदा माया भवेत् तुष्टा आद्या संवित्प्रदायिनी ।
हरिर्ब्रह्मा शिवः सर्वे लभेयुस्तोषमुत्तमम् ॥
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः सर्वं महेश्वरि ।
श्रोतव्या कीर्तितव्या च हरेर्माया दिवानिशम् ॥
अथ सृष्टिं प्रवक्ष्यामि स्थूलबोधस्य हेतवे ।
स्थूले निर्जित्य चात्मानं तदा सूक्ष्मं विशेद् धिया ॥
(प्. २ब्) यत् तु सूक्ष्मं महेशानि तत्सृष्टेर्गोचरं न हि ।
अनुमानेन तद्भाव्यं तत् सर्वं शास्त्रवर्त्मना ॥
सूक्ष्मं यत् परमं ब्रह्म तत् दुर्गे गोचरं न हि ।
तत् तु सर्वं समाधौ च तत् सर्वं शास्त्रवर्त्मना ॥
? ?
सूक्ष्मं यत् परमं ब्रह्म आत्मनोगोचरं न हि ।
तत् सुभाव्यं महेशानि तत् सर्वं शास्त्रवर्त्मना ॥
सर्वेषां लोचनं देवि बुद्धिशास्त्रं प्रचक्षते ।
स्थिरचित्तेन भक्त्या च असं सर्गसमन्वितैः ॥
श्रोतव्यं सर्वदा शास्त्रमागमः सर्वकालतः ।
श्रवणाज्जायते भक्तिर्भक्त्या चैव प्रपूजयेत् ॥
पूजनाज्जायते ज्ञानं ज्ञानाद् भूतानि शोधयेत् ।
आत्मनः शुद्धितां प्राप्य दृढचित्तः प्रजायते ॥
दृढचित्ते समाधिः स्यात् समाधेर्मोक्ष उच्यते ।
मायासेवां विना न स्यात् मुक्ति ज्ञानञ्च शोभनम् ॥
चतुर्विधविधानं स्यात् पुर्वादिषु यथाक्रमम् ।
पृथिव्या यधादेशे च सुमेरुः पर्वतः स्थितः ॥
तत् पूर्वादिषु विज्ञेयः सर्वशास्तेष्वयं विधिः ।
आचारो मन्त्र यन्त्राणां देशभेदे च सर्वतः ॥
कर्तव्यं सर्वभावेषु महाकाल वचो यथा ।
विद्या वा पाथवाविद्या द्वावेते मायया वृते ॥
विद्या तु सर्वदा सेव्या नापविद्या कथञ्चन ।
या विद्या सा महामाया सा तु सेव्या सदा बुधैः ॥
अविद्या कर्मबन्धः स्यात् बन्धाज्ज्ञानं विनश्यति ।
ज्ञाननाशात् भवेद्धानिर्हानौ संसरणं पुनः ॥
संसारात् तु भवेद्धानिघोरं नरकमेव च ।
तस्मादविद्यां कुत्रापि न सेवेत् मोक्षमिच्छुकः ॥
शिवस्तु द्विविधः प्रोक्तः सगुणो निर्गुणस्तथा ।
निर्गुणः प्रकृतेरम्यः सगुणः सकलात्मकः ॥
सकलात्मकादियं सृष्टिः कथ्यते ब्रह्मणा पुरा ।
सगुणं निर्गुणं वापि कथ्यते शृणु पार्वति ॥
यदुक्तं ब्रह्मणा पूर्वं यदुक्तं विष्णुना पुरा ।
सदाशिवेन यत् प्रोक्तं तत् सर्वं प्रवदाम्यहम् ॥
ऋषिभिस्तु पुराप्रोक्तं भारतीं शुभलक्षणाम् ।
तान्ते सर्वं प्रवक्ष्यामि शृणुष्व कमलानने ॥
वाच्यं हि परमं ब्रह्म वाचका अक्षराः स्मृताः ।
आश्रयाश्रयिभावेन तत् सर्वं प्रवदाम्यहम् ॥
क्षरतीति क्षरः प्रोक्तः सर्वतन्त्रसमन्वितः ।
तन्नास्ति यत्र तत्रापि अक्षरः परिकीर्तितः ॥
यथा धातुषु देहस्य उत्पत्तिः परिकीर्तिता ।
तत्र यत् परमं ब्रह्म तत् सर्वं प्रवदाम्यहम् ॥
सदाशिवो भवेदग्निस्तदा घोषस्ततः परः ।
अघोषश्चैव सङ्घोषो महाप्राणस्ततः परः ॥
महाप्राणात् सुघोषश्च तस्माच्चैव अनाहतः ।
अनाहताद्धनिश्चैव तस्मान्नादः सुरेश्वरि ॥
नादाद् तवेत्तदा बिन्दुर्बिन्दुन्तु शशिसुर्यययोः ।
(प्. ३) शैवात्मिका भवेत् सृष्टिः सृष्टिरेषा विधा स्मृता ॥
सा सृष्टिः सर्वतन्त्रेषु कीर्तिता सात्विकी शुभा ।
अथ शैवात्मिका सृष्टिः कथ्यते क्रमयोगतः ॥
शिवः शक्तियुतः साक्षात् सा हङ्कारसमन्वितः ।
न हि शक्तिं विना देवि सृष्टिरेषा विधीयते ॥
क्षेत्रं विना यथा चैव वीजोत्पत्तिर्न दृश्यते ।
शक्तेरिच्छा भवेद् देवि यदा सृष्टिस्तदा भवेत् ॥
दर्पणप्रतिबिम्बेषु प्रतिबिम्बं महेश्वरि ।
यपेयं सृष्टिरुत्पत्तिः कथ्यते शृणु पार्वति ॥
सृष्टिस्तु द्विविधा चासीत् मानसी मैथुनी तथा ।
पुराकृतयुगे सृष्टिर्मानसेभूत् प्रजापतेः ॥
तेनैच्छत् कामाकर्माणि वासुदेवपरायणा ।
तत्र क्रोधमभुद्विष्णो रूपसर्गस्ततः परम् ॥
ते तु क्रोधरशात् सर्वे जगत् क्षयपरायणाः ।
रजोगुणात्मिका सृष्टिस्तदा भवति तत् परा ॥
चन्द्रसूर्यात्मकोबिन्दुर्नादश्च त्रिगुणात्मकः ।
चन्द्रसूर्यात्मकामन्त्राः कथिताः पद्मयोनिना ॥
बिन्दुः शिवात्मको ज्ञेया नादश्च जगदीश्वरी ।
शक्तेः सम्भोगमात्रेण भवेन्नादः क्रियापरः ॥
नादाद् भवेन्महाबिन्दुः स च कर्मपरायणः ।
बिन्दुः सर्वात्मकः सर्वशास्त्रेषु परिकीर्तितः ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रिविधा परिकीर्तिताः ।
रजः सत्वः तमश्चैव त्रिगुणाः सर्वसम्मताः ॥
सर्वेषु भूतवर्गेषु त्रिगुणाः परिकीर्तिताः ।
देवता त्रिविधा देवि तमोरजः समत्वयुक् ॥
तेषां तु लक्षणं तत् तत् पश्चात् सर्वं वदाम्यहम् ।
बिन्दौ भवेन्महादेवि शब्दब्रह्मशिवात्मके ॥
गुणत्रयं भवेद् बिन्दौ सिद्धयः शुभदायकाः ।
योगशास्त्राणि तत्रैव जायन्ते कमलानने ॥
तत्त्वशास्त्राणि तत् पश्चात् मोक्षशास्त्राणि तत् परम् ।
ज्ञानशास्त्राणि तत् पश्चात् पुराणानि ततः परम् ॥
महापुराणशास्त्राणि पारहंस्यानि तत् परम् ।
दीनांशतत्वशास्त्राणि जायन्ते तदनन्तरम् ॥
ब्राह्मणाः क्षत्रिया वैश्याः सर्वे बिन्द्वात्मकाः स्मृताः ।
वेदशास्त्रादयः सर्वे सर्वे बिन्द्वात्मकाः स्मृताः ॥
अथ बिन्दोर्विभागेन शब्दस्त्वेको भवेन्महान् ।
अवाचां परमं ब्रह्म अदृश्यञ्च विशेषतः ॥
शब्दब्रह्म हि तत् प्राहूः सर्वागमविशारदाः ।
अथ कामाञ्च यद् वस्तु ज्ञानेन परिगीयते ॥
शब्दब्रह्मं तदेवाहूः सर्वतन्त्रविशारदाः ।
सुप्तोश्यानावरोहत्वात् प्रोक्तोनेतादृशोरवः ॥
शब्दक्षेत्रेति त्वां प्राह साक्षाद् देवः सदाशिवः ।
अनाहतेषु चक्रेषु स शब्दः परिकीर्त्त्यते ॥
अनाहतं महाचक्रं हृदये सर्वजन्तुषु ।
तत्र ओङ्कार इत्युक्तो गुणत्रयसमन्वितः ॥
शिवोब्रह्मा तथा विष्णुरोङ्कारेषु प्रतिष्ठिताः ।
अकारश्च भवेद् ब्रह्मा उकारः सच्चिदात्मकः ॥
मकारो रुद्र इत्युक्त इति वर्णस्य कल्पना ।
अकारे च भवेद् विष्णु रुकारे च प्रजापतिः ॥
मकारे च भवेद् रुद्र इति वा वर्णनिर्णयः ।
(प्. ३ब्) इत्येरं सर्वतन्त्रेषु कथिता पद्मयोनिना ॥
तस्मिन्नेव क्षणे बिन्दुः स भवेद् द्विविधः प्रिये ।
भक्ति युक्तात्मको बिन्दुरिति वेदेषु निश्चयः ॥
रौद्री वामा तथा ज्येष्ठा त्रिविधा शक्तिरुत्तमा ।
रौद्री रुद्रप्रिया शक्तिः सदा रुद्रगुणान्विता ॥
वामा तु विष्णुसंशक्ता वैष्णवो तदगुणान्विता ।
ज्येष्ठा तु ब्रह्मणः शक्तिः सृष्टिरुत्पत्ति लक्षणा ॥
रजो गुणान्विता सृष्टिर्ज्येष्ठा सर्वसमन्विता ।
तमोगुणान्विता शक्तिर्वैष्णवी सर्वसम्मता ॥
या तु रौद्री महाशक्तिः सा शुभा परिकीर्तिता ।
सात्त्विका सा महाशक्तिः शिवस्य वचनं यथा ॥
सदाशिवात् परं किञ्चित् शिवमेरुं प्रचक्ष्यते ।
तस्य शक्तिर्भवेद् देवि या शक्तिस्तामसी मता ॥
सदाशिवस्य देवेशि शक्तयो वहूधाः स्मृताः ।
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्ततः परा ॥
शिवस्य विविधा शक्तिर्विमलाद्याः शुभप्रदाः ।
विमलोत् कर्पिणी ज्वाला क्रिया सत्या ततः परा ॥
योगा प्रह्वी तथैशानी उग्राणी च पुनः पुनः ।
ब्रह्माण्याद्याः शक्तयश्च जगदेतच्चराचरम् ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यनन्तरेन्द्राणी चामुण्डा कमला पुनः ॥
ततो नानाविधा चैव शक्तयो वहूधा मताः ।
सर्ववर्णात्मिका शक्तिः सदा पूर्व शिवस्य च ॥
भूतं भव्यं भविष्यञ्च यत् ब्रह्माण्डसमुद्भवम् ।
सर्वं शिवस्य देवेशि शक्तिः सर्वसमन्विता ॥
नहि शक्तिं विना विश्वं क्षणमात्रं प्रदृश्यते ।
शक्तिभिः पुरितं विश्वं सर्वं स्थावरजङ्गमम् ॥
आश्रयाशयि भावेन सम्प्राप्याद्यापि तिष्ठति ।
अथ बिन्द्वात्मिका शक्तिः सा रौद्री परिकीर्तिता ॥
अथ नादात्मिका शक्तिः सा ज्येष्ठा परिकीर्तिता ।
अथ वीजोद्भवा शक्तिः सा वामा परिकीर्तिता ॥
वामा तु वामदेवस्य शक्तिः सा प्रकृतिः शुभा ।
शब्दब्रह्म इति प्राहूः सर्ववेदविदो जनाः ॥
शब्दस्तु शब्दमात्रं स्यात् ब्रह्मेति परमं पदम् ।
कथं शब्देन ब्राह्मेण एकत्वं प्रतिबुध्यते ॥
वाच्यवाचकशब्देन ब्रह्मशब्देन वा प्रिये ।
एकत्वमुह्यते सर्वं शब्दब्रह्म तदुच्यते ॥
यथा धातुं विना देवि देहस्य धारणं न हि ।
तथा जीवं विना देवि न धातुः प्रतिबुध्यते ॥
धातुजीवात्मनो चैक्यं यथा देवेषु गीयते ।
शब्दब्रह्म पदादेकं तथैव परिकीर्त्यते ॥
एकत्र देहयोगेषु जीवात्मा परमात्मना ।
तथैव सर्वतन्त्रेषु शब्दब्रह्मेति कीर्त्यते ॥
न हि ब्रह्म विना शब्दः प्रकाशात्मा भवेत् स्वयम् ।
शब्दब्रह्मेति तत् सर्वं भूतं भव्यं भविष्यकम् ॥
प्रकाशमभिधीयेत यथा सुर्ययो दिवानिशम् ।
अनुमानेन तत्सर्वं शब्दार्थञ्च धिया स्मरेत् ॥
अचिन्त्यो हि यदाब्रह्म प्रकाश उपजायते ।
तदा तस्यापि शब्दार्थं प्रत्यक्षमुपजायते ॥
(प्. ४) तत् प्रत्यक्षेण तत् सर्वं तत् तद्वस्तुषु जायते ।
अथ बिन्दो महेशानि लक्षणं परिकीर्त्त्यते ॥
रिन्दोः प्रकाशात् सर्वे वै कालपादादयः क्रमात् ।
कालाद् भवेन्महाबिन्दुर्बिन्दुः शक्तिसदात्मकः ॥
अजायन्ते जगत् साक्षि ब्रह्म-विष्णु-शिवादयः ।
काल योगाद् भवेन्नादः स च सर्वगुणान्वितः ॥
नादाद् भवेत् तदा देवि क्रियायोगदायस्त्विमे ।
नादाद् भवेत् तदा देवि पञ्चाशन्मातृकाः क्रमात् ॥
अकारादि क्षकारान्ताः स्वरास्तन्त्रसमन्विताः ।
पूर्वे ह्रस्वाः परे दीर्घाः षण्तास्तु तदनन्तराः ॥
ऋ ॠ ऌ ॡ तथा सप्ताः सर्व तन्त्रसमन्विताः ।
कादिमान्ताभवेत् प्पर्शाः सर्वतन्त्रसमन्विताः ॥
या दिक्षान्तास्तु ये वर्णास्ते वर्णास्तन्त्रसम्मताः ।
धातवः सर्वतन्त्रेषु यादिवान्ताः शुभप्रदाः ॥
उष्माणः शषसहाज्ञेया अस्थिमज्जादयः शुभाः ।
लक्षौ वर्णौ परात्मानौ जीवात्मपरमात्मकौ ॥
मकारान्तानि तत्वानि वर्णानि कीर्तितानि वै ।
जीवे प्राणे मनोबुद्धौ महदहङ्कारसंयुते ॥
मादितान्तो महाभुते कर्णे त्वचि च चक्षुषि ।
जिह्वा ग्राणे वाचि पाणौ पायुपादे च लिङ्गके ॥
भुतेषु ङादिकान्तस्य हृदये मण्डलत्रय ।
रादिवान्तानि सञ्चिन्ता षडङ्गानि च धातुषु ॥
एवं सञ्चिन्ता वर्णानि सृष्टेरुत्पत्तिलक्षणम् ।
शब्दब्रह्मति देवेशि सर्वतन्त्रेषु सर्वदा ॥
वर्णात्मनाविर्भवति पद्यपद्मानि भेदतः ।
पञ्चाशद्वर्णबीजाच्यं चराचरमिदं जगत् ॥
देवता ब्राह्मणा देवि सर्ववर्णात्मिकाः स्मृताः ।
अथ बिन्दुद्भवाः सर्वे भूतात्मानः सुरासुराः ॥
अथ बिन्दुद्भवः शब्दस्तस्मादाकाशसम्भवः ।
आकाशात्तु भवेत् स्पर्शः स्पर्शाद्वायोः समुद्भवः ॥
अथ वायोर्भवेत्तेजस्तेजसोग्निसमुद्भवः ।
रसोग्नेस्तु भवेत्तस्माद्रसाज्जलसमुद्भवः ॥
जलाद्भवेत्तदा गन्धस्तस्मात्तु पृथिवी स्मृता ।
गन्धादिपञ्चसंयुक्ता गुणाभुमेः सुरेश्वरि ॥
चतुर्गुणं जलं ज्ञेयं वह्नेर्वायोर्गुणास्त्रयः ।
आकाशश्य द्विधाप्रोक्तो गुणोलक्षितलक्षणः ॥
आकाशात् द्विगुणं प्रोक्तमनिलञ्च ततः परम् ।
तस्मात् तु द्विगुणं वह्निर्वह्नेस्तु द्विगुणं जलम् ॥
जलात् तु द्विगुणा पृथ्वी समाना वा प्रकीर्तिता ।
अथावा सगुणं प्रोक्तं भूतं तन्त्रसमन्वितम् ॥
पृथिव्यामोषधिर्जाता ओषधेरन्नमेव च ।
अन्नाद्भवेत् तदा देवि ब्रह्माण्डं शशिसुर्ययोः ॥
शशिसुर्यात्मकं सर्वं चराचरमिदं जगत् ।
अचरा बहुधा देवि गिरिवृक्षादि भेदतः ॥
ते सर्वे तु चराज्ञेयाः शङ्करेण च भाषिताः ।
जङ्गमा विविधाः सन्ति पशुपक्ष्यादि भेदतः ॥
चरास्तु त्रिविधा ज्ञेयाः स्वेदाण्डजजरायुजाः ।
स्वेदजाः क्रमिदं शाद्या अण्डजाः पन्नगादयः ॥
जरायुजाश्च वहवः सर्वे वै मानुषादयः ।
मनुष्यः सर्वतन्त्रेषु भवेदिति जरायुजः ॥
पञ्चभूतात्मकं सर्वं कथितं पद्मयोनिना ।
(प्. ४ब्) पञ्चभूता महाभूतैर्व्याप्तं सर्वं चराचरम् ॥
शब्दस्पर्श रूपरसगन्धाश्च परिकीर्तिताः ।
महाभूतानि देवेशि कथितानि मनीषिभिः ॥
आकाशञ्च तथा वायुरग्निरापस्तथा धरा ।
भूतानि कथितान्येव स्थूलरूपेण पार्वति ॥
देहश्च तुर्विधोज्ञेयो जन्तोरुत्पती भेदतः ।
उद्भिज्जः स्वेदजोण्डोऽखश्चतुर्थश्च जरायुजः ॥
उद्भिद्य भुमिमुद्गच्छुत्युद्भिदः स्थावरस्तु सः ।
निर्दिष्टः स्कन्दविटपपत्रपुष्पफलादिभिः ॥
पञ्चभूतात्मकं सर्वं क्षामधिष्ठाय जायते ।
अतायोन्यग्निपवननभसां समवायतः ॥
स्वेदजः सिद्यमानेद्योभुवह्न्यद्भ्यः प्रजायते ।
षुक्मत्कुनकीट्याद्याः प्रियाद्याः क्षणभङ्कुराः ॥
अण्डजोवर्तुलीभूतात् शुक्रशोणितसम्भवात् ।
कालेन भिन्नात् पुर्णात्मा निर्गच्छन् प्रक्रमिष्यते ॥
अहिगोधादयो भेकशिण्डमारादयश्च ये ।
जरायुजो ग्रामगतः क्रियते सृष्टिसम्भवः ॥
प्रजायते चतुर्विंशतत्तसंयुक्तदेहवान् ।
स्वस्तानाच्च च्युतात् शुक्राद् बिन्दुमादाय मारुतः ॥
एवं सर्वत्र देहेषु जायते च जरायुजाः ।
उत्पत्तिस्थितिरूपेण संहारेण शिवप्रिये ॥
ब्रह्माणी वैष्णवी भुत्वा तथा रौद्री भवेत् परा ।
पञ्चभूतकला देदि शृणुष्व सर्वसिद्धिदाः ॥
शान्तातीता तथा शान्तिर्विद्या च सम्प्रतिष्ठिता ।
निवृत्तिरेषा कथिता पञ्चभूतकला प्रिये ॥
उत्पत्तिरेषा कथिता तन्त्रेषु परमेश्वरि ।
संहारा व्युत् क्रमेणैव आकाशान्ता प्रकीर्तिताः ॥
मण्डलान्येव भूतेषु परिमीतानि यत् शृणु ।
आकाशमण्डलं प्रोक्तं वर्तुलं सर्वसम्मतम् ॥
षट्कोणमण्डलं वायोस्त्रिकोणन्तु विभावसोः ।
अष्टास्रं वरुणस्यापि चतुरस्रं धरागतम् ॥
त्रिकोणन्तु भवेद् वायोस्त्रिकोणं वरुणस्य च ।
इति वा सर्वतन्त्रेषु कथितं पद्मयोनिना ॥
अर्द्धेन्दुसन्निभं व्ट्तं जलस्य इति वा प्रिये ।
त्रिकोणं स्वस्तिकोपेतं वह्नेः सर्वसुखावहम् ॥
षड् बिन्दुलाञ्छितं वृत्तं मण्डलं गगनस्य च ।
शुक्लवर्णं जलस्यापि गौरवर्णन्तथा परे ॥
भूतानि सर्वभुतेषु कथितानि मनीषिभिः ।
पृथिव्यां सर्वभूतानि जायन्ते स चराचरम् ॥
श्रोत्रं त्वक् लोचनं जिह्वा घ्राणं बुद्धिन्द्रियाणि च ।
वाक् पाणिपादपायुपस्थानि कर्मेन्द्रियाणि च ॥
वचनादाने च गतिः विसर्गानन्दकौ च सम्प्रोक्तावागाद्यार्थाः ।
मनोबुद्धिरहङ्कारं चित्तमपि च कारणम् ।
भुतेन्द्रियेन्द्रियार्थे वा दृष्टञ्च पञ्चविंशतिः ॥
सत्वं रजस्तम इति प्रधानाः परिकीर्तिताः ।
एतैरुक्तानि भूतानि कथितानि मनीषिभिः ॥
अथ बिन्दुद्भवाः सर्वे विकाराः स्थवरादयः ।
मनोबुद्धिरहङ्कारश्चित्तञ्च सर्वस्म्मतम् ॥
कामक्रोधौ लोभमेहौजरा च मरणादयः ।
अथ हिंसयदयः सर्वे तमोगुणयुतानताः ॥
(प्. ५) ये निवृत्ता महात्मानन्ते तु सत्वगुणाम्बिताः ।
इच्छायुक्ताश्च ये सर्वे ते सर्वे राजसाः स्मृताः ॥
अतः कलौ महेशानि राजसास्तामसा वहूः ।
नास्ति देवि कलौ कुत्र सत्ववान् पुरुषः क्वचित् ॥
रजोगुणाः कर्मपयाः दुःखेषु सुखबुद्धयः ।
अत्र कर्मादिसिद्धिः स्यात् कथिता पद्मयोनिना ॥
राजसास्तामसा ये तु तामसा अधमाः स्मृताः ।
इन्द्रियस्था महादेव्याः शक्तयन्तद् गुणाःन्विताः ॥
अथ बिन्द्वात्मिकाः सर्वाः सर्वतन्त्रेषु कीर्तिताः ।
धातवस्तत्र जायन्ते सर्वभूतसमन्विताः ॥
त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।
वातपित्तकफा दोषा दुख्याश्च स्युः सप्तधातवः ॥
हकारादि लकारान्ताः पञ्च बीजानि तानि ते ।
कीर्तयिष्यामि विधिना भुतोत्पत्तौ क्रमेण तु ॥
ह ष व र ल कारश्च क्रमेण परिचिन्तयेत् ।
अथ बिन्द्वात्मनः शन्तोर्जायन्ते कमलानने ॥
एकत्र योगयुक्तेन देहिदेहस्य सम्भवः ।
अथ देहात्मकाः सर्वे ब्रह्माविष्णुशिवादयः ॥
भिद्यमाने महात्मानन्ते सर्वे ब्राह्मनादयः ।
तेषु वेदविदः सर्वे ये ते देवि सुरासमाः ॥
विद्याविद्ये शिवः साक्षात् द्वौ तनु परिकीर्तितौ ।
या तु विद्या युता देवि सा पुज्या सुरनायकैः ॥
अविद्या या तनुः प्रोक्ता सापि भुज्या पशोः समा ।
विन्द्वार्भरं त्रिकालञ्च परमात्मादिलक्षणम् ॥
असङ्क्षयञ्च तत् सर्वं सुक्ष्मातिसुक्ष्मसंयुतम् ।
निमिषाद्यास्तथा माया दिवसाश्च तथा निशा ॥
पक्षमासाश्च ऋतवश्चायनो वत्सरं पुनः ।
युगञ्च युगमानञ्च तथा मन्वन्तराणि च ॥
महाप्रलयपर्यान्तं सर्वं बिन्द्वात्मकं स्मृतम् ।
अथवा स्यान्महेशानि बिन्दुनादात्मकं जगत् ॥
मूलभूतात् तदाव्यक्ताद् विकृतात् परवस्तनः ।
आसीत् किल महत्तत्वं विकारमयसम्भवम् ॥
महत्तत्वाधङ्कारस्त्रिविधः परिकीर्तितः ।
विविधास्त्रिविधाश्चैव गुणानां मानयोगतः ॥
वैकारिकस्तैजसश्च तामसश्च अहन्त्रिधा ।
वैकारिकादहङ्काराद् भवेयुः सुरपालकाः ॥
इन्द्रादयः सुराधीशाः सर्वेहङ्कारसम्भवाः ।
अवतारस्तथा सर्वे स्मृता वैकारिकाः प्रिये ॥
मायया मोहितधियः सर्वावस्तवलिप्सरः ।
न मायासेवया पुर्वं मुर्तिर्न भवति प्रिये ॥
आधाय वारिणा बीजं गगणं युगपदाविशेत् ।
मुखे वाणी चन्द्रसुर्यौ चक्षुषी वरुणं वसेत् ॥
नासादग्नौ तु नासाभ्यां सगुणेन समन्वितौ ।
लौभमोहौ तथाचौष्ठौ यमस्तु दशने ततः ॥
दिशः कर्णौ तथा मघाः कालपाशे भुजे तथा ।
इन्द्रस्तु तनुयग्मे च धर्मपुष्ठेऽधर्मकरः ॥
नाभौ ब्रह्मा तथोपस्थे भगे लक्ष्मीस्ततः परम् ।
गुह्ये मित्रं तथा पादौ विष्णुः साक्षात् ततः परम् ॥
(प्. ५ब्) सर्वत्र सगुणेनैव गणमाविश्य पार्वति ।
विकारमनुभुयात् तु शरीरमनुकम्पयेत् ॥
वैकारिकादलङ्काराद्देवतैकादशन्तथा ।
दिग्वातार्कप्रचेतोऽग्रिहारीन्द्रोपेन्द्रमित्रकाः ॥
अहङ्कारात्तैजसात् तु इन्द्रियाणि दशाभवन् ।
तन्मात्रक्रमयोगेन सर्वं तत्र गुणागुणम् ॥
भूतादिकादहङ्कारात् पङ्चभूतानि जज्ञिरे ।
अहङ्कारात्मकं सर्वं देवि स्थावरजङ्गमम् ॥
रिकारान्तेऽभवन्नष्टौ युक्तान्ते त्वविकारिणः ।
विशुद्धं निर्मलं यत् तु तद्युक्तं परिकीर्तितम् ॥
कर्मणा जायते जन्तुण् कर्मणैव प्रलीयते ।
देहे प्रनष्टे तत् कर्मपुनर्देहे प्रलभाते ॥
देहः कर्मात्मकः प्रोक्तः तत् तु वेदे प्रतिष्ठितम् ।
वालकस्य यथा मात्मां ततः पूर्वक्षणे नहि ।
सर्वं मिथ्यैव देवेशि कथिता पद्मयोनिना ।
चराचरमिदं देवि सर्वं कर्मात्मकं शृणु ॥
माता कर्म पिता कर्म कर्मो हि परमो गुरुः ।
स्वर्गः वा नरकं वापि कर्मनैव लभेत् तनुम् ॥
यदिदं विहितं कर्म तत्त्व कुर्याद् दिवानिशम् ।
मनुष्यानां महेशानि लक्षणं शृण्वतः परम् ॥
आदौ जन्म प्रवक्ष्यामि शृणुष्व कमलानने ।
ऋतुकाले तु सम्प्राप्ते स्त्रिया पुरुषयोगतः ॥
कालेन पुरयेद्देवं स्त्रियञ्च पुरुषं पुनः ।
मैथुनेषु तदा भुत्वा मैथुनन्तु विधियते ॥
तदा धन्ञ्जयो वायुस्तं वीजं गर्भमञ्चये ।
विधाय योनिमार्गे च पुनरेव निवशयेत् ॥
कलनन्ते कवात्रेणा पञ्चरात्रेण बुद्बुदम् ।
एवं क्रमेण तं देहं वायुना वर्द्धयेत् क्रमात् ॥
ततः प्रभृति तस्यापि आयुर्व्युनशताष्टकम् ।
आदौ भावेन्महेशानि पञ्चभूतात्मकं वपुः ॥
सगुणं सकलं तत्र शरीरे चिन्तयेत् सदा ।
असत् सच्चैव यत् किञ्चित् यत् किञ्चिद् करणी तले ॥
तत् सर्वं चिन्तयेद्देवि शिवस्य वचनं यथा ।
भावान्ते सर्वकालेयु काले चेष्टौ विधीयते ॥
आदौ भवेन्महेशानि समन्तं देह योगतः ।
आदौ वा पादतो जन्म प्रतिलोमक्रमेण च ॥
पुराकृतपुगे माये ब्रह्मणा भावितं क्रमात् ।
महाकालमतं सर्वं शङ्करस्य मदेन च ॥
विष्णुना भावितं सर्वं विधानं व्युत्क्रमेण च ।
मन्तकाज्जयते मुर्द्ध्नि तदा चक्षुर्द्वयं प्रिये ॥
तदा कर्णे तदा जिह्वा द्वयं तस्या भवेत् तदा ।
नासारन्ध्र द्वयं तत्र जायते देहयोगतः ॥
ग्रीवाच्च ङ्कन्धयुग्मौ तौ स्तनन्धं ततः परम् ।
नितयं कर्चिदेहञ्च नाभिदेहं ततः परम् ॥
लिङ्गगुह्यं तदा आदौ सर्वतन्त्रेष्वयं विधिः ।
पूर्वकर्मानुरोधेन लिङ्गभेदः प्रजायते ॥
लोमानि यत्र जायन्ते वह्निदेहे सुरेश्वरि ।
नाभेः सकासाज्रजायन्ते नाभ्यः क्षेत्रप्रपोषकाः ।
अग्न्यात्मिका भवेन्नाडी पिङ्गला दक्षदेशके ।
इडा भुवामभागस्य दक्षिणे पिङ्गला शुभा ॥
(प्. ६) मध्ये सुषुम्ना विज्ञेया नाडी देवि स्वरात्मिका ।
नात्योऽनन्ताः समुतपनाः सुषुम्ना पञ्चपर्वषु ॥
या सुषुम्ना महानाडी अग्निसोमात्मिका सती ।
अग्न्यात्मिका भवेन्नडी पिङ्गला दक्षदेशके ॥
चन्द्रात्मिका भवेन्नाडी वामे सर्वषुखा वहा ।
गान्धारी हस्तिजिह्वा च सपुषा लम्बुषा महा ॥
यशस्विनी शङ्खिनी च कुहूः स्युः सप्त नाडयः ।
मूलाधारस्थिताः प्राणाः सर्वे ते वायुधारिणः ॥
वायरस्त्र दश प्रोक्ताः क्ष्त्रेषु परमेश्वरि ।
सेव्यसेवकरूपेण बोद्धव्यान्ते क्रमादिमे ॥
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
प्रधाना वायवः प्रोक्ताः सेवकाः कथ्यते पुनः ॥
साधनं प्राणवायुनां पश्चाद् वक्ष्यामि तत्वतः ।
हंसाख्या साधनमन्त्रे तत्वार्थं कथयामि ते ॥
नागः कुर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।
अग्नयो दोषदुष्टैषु संलीना दशवायवः ॥
प्राणादौ च हृदिस्थाने पद्मरागसमद्युतिः ।
अपानो गुह्यदेशे च इन्द्रगोपसमः स्मृतः ॥
गोक्षीरधरणाकारः समानो नाभिदेशके ।
उदानः कण्ठदेशे च धूम्रवर्णः प्रकीर्तितः ॥
व्यानः सर्वेषु देहेषु ज्योतीरूपेण दृश्यते ।
हृदये प्राणवायुश्च अपानस्तु गुदेदिशेत् ॥
इन्द्रियाणां क्रमेनैव शृणुष्व कमलानने ।
चक्षुषो विषयं दृष्टिः कर्णयोः शब्दमेव च ॥
गन्धस्तु नसि? विज्ञेयः सर्वतन्त्रसमन्वितः ।
आदानं भूजयुग्मेषु जिह्वायां रस उच्यते ॥
गुह्ये विसर्गं विज्ञेयमानन्दस्तु उपस्थके ।
गमनं पादयुग्मे च कथ्यते परमेश्वरि ॥
वुभूक्षा च पिपासा च प्राणदेशे प्रतिष्ठिता ।
मनसः शौकमोहौ च ज्वरा मृत्युः शरीरके ॥
विनाशकाले शारीरे सर्वजन्तुषु उद्धृताः ।
उद्धृतान्ते महात्मानो महावलपराक्रमाः ॥
षट्कोषिकन्तु सर्वेषां शरीरं परिकीर्तितम् ।
मज्जास्थिपायरः शुक्रास्तथा त्व*? सशोणितम् ॥
इति षट्कोषिकं नाम भेदो भवति देहिनाम् ।
अथोपस्ते भगे चैव आनन्दः परिकीर्तितः ॥
विपन्तौ सर्ववर्णानां विनाशः परिकीर्तितः ।
भूतानामेव चोत्पत्ति दैहजन्म उदाहृतम् ॥
एकब्रह्मणि नानात्वं जीवभावः प्रकीर्तितः ।
तनिरोधोऽस्य मरणं सर्वतन्त्रसमन्वितम् ॥
ब्रह्मणो मरणं नास्ति नैव तस्य तु जीवनम् ।
याः स्त्रियः सर्वतन्त्रेषु शिवपत्न्यः शुभावहाः ॥
ये च ते पुरुषाः प्रोक्तास्ते सर्वे रुद्ररूपिणः ।
हरगौर्यात्मकं सर्वं चराचरमिदं जगत् ॥
विनाशः सर्वधातुनां तत्तु पार्थविकारजम् ।
शुक्रशोणितसंयोगात् शरीरं परिकल्पितम् ॥
शुक्रमन्नसमुद्भूतं अन्नन्तु पृथिवी तले ।
शुक्रादिस्थं ततो मज्जा मदेश्च परमेश्वरि ॥
त्वगसृङ् मां सलोमानि शोणितात् परिकीर्तितम् ।
(प्. ६ब्) शुक्रात् तथा देवि रुक्षं सर्वतत्वरसात्मकम् ॥
पुरुषेषु तथा स्त्रीषु शरीरं परिकल्पितम् ।
यथा दीपस्य दीपत्वं स्नेहयोगेन दृश्यते ॥
तथा कर्ममनुप्राप्य शरीरं सम्प्रजायते ।
कर्मक्षये भवेत् तस्य पमनं देहवोगतः ॥
यथा तृणजनौकैवं तृणं त्यक्त्वा तृणं ब्रजेत् ।
क्षेत्रं त्यक्त्वा पुनः क्षेत्रं तथा जीवः समाश्रयेत् ॥
नाडी आप्यायनी नाम स्त्रीणां नाभौ प्रतिष्ठिता ।
उदरे गर्भकाले तु पोषयेदगर्भसञ्चयम् ॥
इडास्तु स्दृशास्तत्र स्त्रीषु तत् पुरुषेषु च ।
अथायोग्या? त्मिकाः सर्वाः स्त्रियः सर्वसमन्विताः ॥
अथ लिङ्गात्मक्यः सर्वे पुरुषाः परिकीर्तिताः ।
पुर्वकर्मानुरोधेन लिङ्गभेदं निगद्यते ॥
अथ शृङ्गारयोगेन शरीरं कथ्यते प्रिये ।
रजोऽधिकाद्तवेत् तत्र नारी रेतोऽधिकः पुमान् ॥
अतः परं तयोस्तुल्यं षण्डं शरीरावयवं ततः ।
इन्द्रियाणि तदा देवि जायन्ते क्रमयोगतः ॥
आध्यात्मिकमाधिभौतिकमाधिदैवं ततः परम् ।
भावाभावौ ज्वरामृत्युर्यत् किञ्चित् कुण्डसम्भवम् ॥
तत् सर्वं शृणु देवेशि शरीरेऽस्ति सदानृणाम् ।
योनिदेशे भवेद्रन्ध्रं नाभिमुलं यतो ध्रुवम् ॥
गर्भशेषन्तुतं प्राहूं सर्वतन्त्रविदो जनाः ।
उन्दनं तत्र तिष्ठेति तत्र देहे प्रजायते ॥
कर्मयोगानुरूपेण निर्माणं विधिनादिशेत् ।
विनिर्माय कर्मफलं पुर्वपुर्वभवं कृतम् ॥
प्राप्ते तु पञ्चमे मासि सप्तमे वा तथा पुनः ।
जीवप्रसेचनं कुर्यात् पुर्वकर्मफलं स्मरन् ॥
द्यानेन ध्यानयोगेन योगध्यानं सदा स्मरेत् ।
एवं मासत्रयं कृत्वा तदा भुमौ पतेत् पुनः ॥
ईश्यस्तुतस्तदा गर्भः पुर्वजन्म शुभाशुभम् ।
स्मरं स्तिष्थन् क्षणं तत्र निश्चेष्टौ भवति ध्रुवम् ॥
कालपुर्णे तदा तस्य दशमासं तदोदरे ।
पुर्वकर्म स्मरन् देही यावदगर्भे भवेत् स्थितिः ॥
सदाशिवात् तदा जीवः स्वशक्त्या गता तत् तनुम् ।
व्यक्तं निधाय तत् क्षेत्रं रहिर्देशं नयेत् तदा ॥
वहिर्देशन्तु तत् प्राप्य पुर्वज्ञानं विनश्यति ।
तदा तु लौकिकं कर्म शास्त्रोक्तं विधिनामुना ॥
पुर्वकर्मानुरोधेन क्रियते देहवान् ततः ।
ततश्चैव तन्यरूपा सा शिवशक्तिः सुरेश्वरी ॥
आश्रित्य पालयेत् क्षेत्रं यथा माता स्वयं शिशुम् ।
दिक्पालाह्य नवच्छिन्ना अवस्था देहभेदतः ॥
वाल्यकश्च शिशुश्चैव पौगण्डः कैशोरस्तथा ।
अतः परन्तु युवकः प्रौढश्चैव ततः परम् ॥
अतिप्रौढास्तथा वृद्धोऽतिवृद्धन्ततः परम् ।
पलितं मरणञ्चैव अवस्था शरिकीर्तिता ॥
बाल्यपौगण्डकैशोरयुवकप्रौढमेव च ।
अतिःप्रौढश्च वृद्धश्च पलितं तदनन्तरम् ॥
मरणान्ता दशाः प्रोक्ताः सर्वतन्त्रसमन्विताः ।
दशातु नवधा प्रोक्ता महाकालवच्चे यथा ॥
इति वा सा दशाप्रोक्ता शङ्करश्च मतेन च ।
(प्. ७) निषेकगर्भजन्मादिबाल्यकौमारषौवनम् ॥
वरोमध्यं जन्ममृत्युरित्यरस्थातनोर्नव ।
अन्तर्दशास्ततस्त्वेताः कथिताः पद्मयोनिना ॥
जाग्रत् स्वप्न सुषुप्तिश्च तुरीयं सर्वसम्मतः ।
परापरविभागेन शिवशक्तिरियं मता ॥
योगिनां हृदयास्तोजे नृत्यन्ती प्रेतरूपिणी ।
सर्वेषां भूतवर्गाणां मृगाधारे प्रतिष्ठिता ॥
विद्युदग्निसमुद्भूता प्रसुप्तभुजगातनुः ।
सर्ववेदमयी देवी सर्वतन्त्रमयी शिवा ॥
सर्वतन्त्रमयी नित्या सर्वतन्त्रस्वरूपिणी ।
नित्यानन्दश्वरूपा वा अध्यात्मदीपरूपिणी ॥
सर्वतत्वमयं साक्षात् सुक्ष्मात् सुक्ष्मतरा विभुः ।
त्रिधामजननी चैव शब्दब्रह्मश्वरूपिणी ॥
पञ्चाशद्वर्णरुपासा सर्वतन्त्रसमन्विता ।
सर्वेषु भूतवर्गेषु नानाशब्दविनासिनी ॥
चैतन्यं सर्वभुतेषु महाकालवचो यथा ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराह्यनस्तरैन्द्राणी चामुण्डा सप्तमी तथा ।
महालक्ष्मीर्महादेवी विकृता प्राकृता तथा ॥
अणिमा सधिमा? प्राप्तिः आकाश्या महिमा तथा ।
ईशित्वञ्च वशित्वञ्च ततः कामावशायिता ॥
विमलोत् कर्षिणी ज्ञाना प्रह्वी सत्या ततः परा ।
इशानानुग्रहा नित्या अन्या सा विविधा स्मृत्य ॥
नवग्रहान्तथा चामी लोकपालाः सुरेश्वराः ।
करणानि च रोगानि झङ्कानि राशयन्तथा ॥
चन्द्रवंशाः सुर्यवंशा मनुवं शान्तथा पराः ।
नागयक्षाश्च गन्धर्वाः किन्नराश्चारणादयः ॥
अस्त्राणि सर्वशास्त्राणि गुप्तरत्नानि यानि च ।
प्राकृतानि विकृतानि भावाभावानि वान्यपि ॥
पञ्चभूतानि भूतानि महाभूतानि यानि च ।
उक्तानुक्तानि यत्किञ्चित् स्थावराणि चराणि च ॥
पुष्पगन्धादिकान्यैव रसास्तैजसवृत्तयः ।
कालमासादयः सर्वे ब्रह्माण्डभाण्डसम्भवाः ॥
महामायाप्रभावेण विश्वमेतत् प्रकीर्तितम् ।
बालिका तरुणी वृक्षा पौगण्डी कैशोरी तथा ॥
युवती सुकुमारी च प्रौढा च अतिपुर्विका ।
महाप्रौढा च प्रौढा च अतिवृक्षा ततः परा ॥
पलितास्ता दशान्तस्याः सर्वक्षेत्रेषु पार्वति ।
द्यात्वात्मकं तदा देहं विन्यस्य सुरदायिका ॥
अत उर्द्धं महामाया भवेत् सैव रजस्वला ।
आवस्थ्य द्वादशाब्दांश्च यावद्विंशतिसङ्ख्यकम् ॥
सुकुमारी तु सा प्रोक्ता सर्वतन्त्रसमन्विता ।
मणिपाषाणधातुनां तेजोरूपेण संस्थिता ॥
जीवजन्तुषु देवेशि किं वक्तव्यमतः परम् ।
यत्र नास्ति महामाया तत्र किञ्चिन्नविद्यते ॥
वर्णात्मिका महामाया सर्वतन्त्र स्वरूपिणी ।
श्रीपार्वत्युवाच ॥
वर्णाः के देवदेवेश का शक्तिः सर्वसम्मता ।
कला का देवदेवेश कथयामास तत्वतः ॥
तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः ।
कथयामास तत् सर्वं रहस्यं सुरदुर्लभम् ॥
श्री ईश्वर उवाच ।
साधु पृष्टं महामाये साधुलोकहितं परम् ।
धन्यासि कृत पुण्यासि धन्यासि लोकवत्सले ॥
कथयिष्यामि तद्गुह्यं सुण्डप्यं भुवनत्रये ।
अकारादि क्षकारान्ताः पञ्चाशद्वर्णसंज्ञकाः ॥
महाविद्या महेशादि तव मूर्तिः प्रकीर्तिता ।
पुरा कृतयुगे देवि कैलाशे पर्वतोत्तमे ॥
त्वदीयपादयुगलं द्यायेऽहं ध्यानयोगतः ।
मम सिद्धिर्भवेद्देवि युगान्ते कमलानने ॥
महानन्दं समुत्पन्नं यत् क्षेत्रे तदनन्तरम् ।
नृत्यगीतं पुरा भुत्वा हस्तवाद्यमथा भवेत् ॥
ततस्तस्मिन् क्षणे देवि शब्दब्रह्मविभूषितम् ।
सर्वश्रुतिगणाकीर्णं सर्वकालसमन्वितम् ॥
ब्रह्माण्डस्य यथा जीवं विष्णुं सर्वगुणाशयम् ।
तदाहि पटहं प्राप्यं तस्य राद्यमथा भवेत् ॥
तत्र शब्दे तदा याता आदिक्षन्ता सुरालये ।
पञ्चाशब्वर्णयोगेन वाच्यवाचक योगतः ॥
सर्वमन्त्रा महामन्त्रा महाविद्या महामहा ।
गुढाक्षरेण जायन्ते तत् सर्वं प्रवदाम्ह्यहम् ॥
दीर्घस्वरान्त्वदीयाज्ञा मदीराज्ञान्ततः परा ।
त्वदीया च मदीया च कादिमान्ता प्रकीर्तिताः ॥
एषां मध्ये मकारस्तु पुरुवः परिकीर्तितः ।
हक्षौ वर्णौ महेशानि जीवात्मपरमात्मकौ ॥
हकारस्त शिवः साक्षात् सर्वतन्त्रसमन्वितः ।
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ततः परम् ॥
ओ औ अं अः स्वराः प्रोक्ताः सर्वतन्त्रसमन्विताः ।
वाच्यवाचकयोगेन जिह्वागुणेन सर्वतः ॥
एको हि परमं ब्रनानात्वेन निरूप्यते ।
यथावह्नेः स्फुलिङ्गानि नानारूपाणि दृश्यते ॥
यथा निराच्छरीरञ्च च्छिन्नाकारं प्रदृश्यते ।
एको नालायते वह्निर्दारुयोगे यथा पुरा ॥
दीर्घ स्वरस्य देवेशि देवता भुवनेश्वरी ।
ह्रस्वस्वरस्य देवेशि देवता शङ्करः स्वयम् ॥
कादिक्षान्ताः हमाः? प्रोक्ताः सर्वतन्त्रसमन्विताः ।
शब्दार्था अज्मले देवि द्रव्यायोगेन कथ्यते ॥
हलानि सर्वबीजानि कीलकानि स्वराणि च ।
विनाकीलैरियं सृष्टिर्न देवि स्थिरतामियात् ॥
न कर्म लभते देवि विनाप्राणैर्यथा तनुः ।
तत्तद्बुद्ध्या निरूप्येत प्रत्याक्षं दृष्टिगोचरम् ॥
देशे देशे च शब्दार्थाः नानार्थाः परिकीर्तिताः ।
अज्झलैः सर्वद्रव्याणां क्रिया संज्ञा विधीयते ॥
सुषुम्ना मध्यदेशे च वैखरी नाडिका स्मृता ।
वायुरूपा तु सा नाडी वहू (वायु) योगेन शब्द्यते ॥
सुषुम्ना मूलदेहे तु शब्दोत् पत्तिश्च हेतवः ।
कण्ठादिकरणैर्भिन्ना वर्णरूपा महेश्वरी ॥
आविर्भवन्ति वर्णानि स्पर्शाश्च व्यापकान्तथा ।
कादिमान्तास्तथास्पर्शा यादयो व्यापकाः स्मृताः ॥
उष्माण शवसाः? ज्ञेया सर्वतन्त्रसमन्विताः ।
सप्तवर्गस्य देवेशि देवताः कथयामि ते ॥
रक्तवर्णा सुर्यरूपा कवर्गस्य च देवताः ।
काव्यश्च वर्गप्रभवष्टवर्गस्य रुधः स्मृतः ॥
(प्. ८) तवर्गस्य गुरुः सुरः पवर्गस्य शनैश्चरः ।
षवर्गस्य यथा चन्द्रो देवि सर्वार्थसाधकः ॥
शवर्गस्य च भुविस्वो वर्गाधिष्ठाभुदेवताः ।
वर्गन्यासे यजेद् देहे सर्वसिद्धिफलाप्तये ॥
पञ्च पञ्च भवेद्देवि कादिलान्तामयः क्रमात् ।
हक्ष्मवर्गस्य देवेशि नृसिंहः सर्वसम्मतः ॥
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण ।
त थ द ध न प फ ब भ म ततः परम् ॥
य र ल व श ष स ह क्ष वर्णाः प्रकीर्तिताः ।
अ आ ए क च छ त प षसा वायव्याः परिकीर्तिताः ॥
ऌ ॡ अं ङ् ञ ण न म वक्ष्मा आकाशाः परिकीर्तिताः ।
ई ऊ ऐ ख छ ठ थ प वक्षा आग्नेयाः परिकीर्तिताः ॥
ऋ ॠ औ घ झ च ध भ ब मा वरुणाः परिकीर्तिताः ।
उ उ ओ गजडदर नानाः पार्थिवाः परिकीर्तिताः ॥
पञ्चभूतात्मका वर्णा अज्झलाः परिकीर्तिताः ।
पञ्चभूतात्मका वर्णा सर्वतन्त्रेषु गोपिताः ॥
पञ्चाशद्वर्णसंयुक्ता मातृका चक्रसंस्थिताः ।
षटचक्रात्मिका मन्त्रा मातृकान्ता शरीरिणी ॥
सप्तचक्रेऽपि वैकुण्ठः स्वदेहे चिन्तयेत् सदा ।
आधारे लिङ्गनाभौ हृदयसरसिजे तालुमुले ललाटे द्वे पत्रे षोडशारे
द्विदशदलगते द्वादशाजे चतुष्के ।
वासान्ते वालमध्ये ड फ क ठ सहिते कण्ठदेशे स्वरांश्च हक्षं
तत्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥
अथ वक्ष्ये महेशानि वर्णानां शक्ति व्यञ्जना ।
अकारादि क्षकारान्ताः सर्वतन्त्रसमन्विताः ॥
शक्तिस्तु द्विविधा प्रोक्ता कलास्तु द्विविधाः स्मृताः ।
निवृत्तिश्च प्रतिष्ठाश्च विद्याशान्तिस्ततः पराः ॥
इक्षिका दीपिकाचैव वाचिका मोचिका तथा ।
सुक्ष्मासुक्ष्मामृताज्ञाना अमृताप्यायनी तथा ॥
व्यापिणी व्योमरूपा च स्वरवर्णात्मिका स्मृताः ।
सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा ॥
स्थितिर्बुद्धिर्जरा चै गालिनी शान्तिरीश्वरी ।
रतिश्च कामिअकाचैव वसुदानादिनी तथा ॥
प्रीतिर्दीर्घा तथातीक्ष्ना रौद्री च अभया तथा ।
निद्रा तन्त्री क्षुधा क्रोधी क्रियोत्कारी ततः परा ॥
मृत्युश्चैव तथा श्वेता पीता च वारुणा सिता ।
अनन्ताश्च कलाः सर्वा ब्रह्मविष्णुशिवात्मिकाः ॥
सदाशिवात्मिकाः सर्वाः कलाश्चैता महेश्वरि ।
अक्षक्रक् स्वस्तक गुण कपालाढ्य कराम्बुजाः ॥
न्यासे तु योजयेत् सर्वा यथास्थानविधानतः ।
कपालवदने वाक्ष्नोः कर्णयोर्नसि गण्डयोः ॥
ओष्ठाधरे दन्तपक्तौ जिह्वायां चन्द्रमण्डले ।
अकारादि क्षकारान्ताः स्वरास्तत्र समन्विता ॥
दक्षस्कन्धेः कूर्परे च मणिरन्ध्रेऽङ्गुलि मूलके ।
अङ्गुल्यग्र तु विन्यास्याः कादि ङान्ता विधान्तः ॥
अथ वामभुजस्थाने चादि ञान्ता विधानतः ।
नितम्बे जानुचक्रे च जङ्घा मूले कटौ तथा ॥
अङ्गुल्यग्रे तु विन्यास्याष्टादि णान्ताः स्वदक्षिणे ।
(प्. ८ब्) वामभागे तथान्यास्यास्यास्तादिनान्ता विधानतः ॥
दक्षपार्श्वे वामपार्श्वे पृष्ठे द्व्यंशे नाभौ तथा ।
जठरे विन्यसेद्देहे पादिमान्ता विधानतः ॥
हृदये दक्षस्कन्धे च ग्रीवामुलावामांशके ।
हृदादिदक्षपादे च हृदयादि तथोदरे ॥
हस्तयोः पादयोर्न्यास्या विधानेन च पार्वति ।
हृदयादितथोपस्थे हृदयादि स्वमुर्द्धनि ॥
त्वगसृगादिविज्ञेयः सर्वतन्त्रसमन्वितः ।
सहौ रसात्मके क्रमात् क्षकारः परमात्मनि ॥
त्वगसृङमांसमेदेषु अस्थिमज्जात्मक्षुक्रसु ।
जीवात्मा परमत्मा च विन्यसेद्देहमात्मनि ॥
एषु स्थानेषु देहेषु कलान्यासे नियोजयेत् ।
नीलकण्ठाद्याश्च ताः सर्वाः मुर्तयः सर्वसम्मताः ॥
यथाक्रमे यथास्थाने विन्यसेद्विधिनाऽयुना ।
श्रीकण्ठाद्यसुक्ष्मा च त्रिमुर्तिरमरेश्वरौ ॥
अर्घीशोभावभुती च तिथीशस्थानको हरः ।
झिन्टाशो भौतिकः सद्योजातश्यानुग्रहेश्वरः ॥
अर्जुनश्च महासेनः षोडशः स्वरमुर्तयः ।
क्रोधीशश्चैव चण्डेशः पञ्चात्मकशिवोत्तमौ ॥
एकरुद्रश्च कुर्मैकनेत्रैकश्च तु वानानः ।
अजेशः सर्वसोमशा तथा लाङ्गुलदारुकौ ॥
अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ।
अभ्री मीनश्च मधोख्यो लोहितश्च शिखी पुनः ॥
छगलण्ड द्विरण्डेशो महकालसुकालिनौ ।
भुजङ्गेशः? पिनाकीशः खड्गीशाख्या व कुन्तथा ॥
श्वेतो भूग्वीश नकुली शिवाः संवर्तुकास्तथा ।
एता रुद्रात्मिकाः सर्वाः शक्तयः शुनखर्परा ॥
शुक्लवर्णास्त्विमाः सर्वा वर्णन्यासे नियोजयेत् ।
पृणोदरी च विरजा शाल्मली तदनन्तरा ॥
लोलाक्षी वर्तुलाक्षी च दीर्घघोन ततः परा ।
सुदीर्घमुखी गोमुख्या दीर्घजिह्वा ततः परा ॥
दण्डोदरी ऊर्द्धकेशी विकृतास्या ततः परा ।
ज्जालामुखी शुचिमुखी उल्कामुखी ततः परा ॥
विद्यामुखी तु विज्ञेया सुराणां शक्तयन्तिमाः ।
सरस्वती महाकाली गौरी त्रैलोक्यमोहिनी ॥
मन्त्रशक्तिरात्मशक्तिर्भूतमाता ततः परा ।
लम्बोदरी द्राविणी च नगरी खेचरी तथा ॥
म**? दरा रूपिणी च विधिनी तदनन्तरा ।
काकोदरी पुतना च भद्रकाली ततः परा ॥
योगिनी शङ्खिनी चैव गन्धिनी कालरात्रिका ।
कूजिनी कवर्दिनी चैव **? चैव क्रिया तथा ॥
सुमुखी ईश्वरी चैव रेवती च ततः परा ।
मायवी वारुणी चैव वायसी वक्ष (वि) दारिणी ॥
सहजा च तथा लक्ष्मीर्व्यापिनी च ततः परा ।
ब्रह्मपीठस्थितास्त्वेता रक्तवर्णाः शुभप्रदाः ॥
रक्तोत् पलकपालाढ्या अलङ्कृतकराम्बुजा ।
रुद्राण्यः सर्वैस्द्धाख्या इति वा कल्मयेत् सदा ॥
केश्व नारायण गोविन्दविष्णवः ।
मधुसूदन त्रिविक्रम वामनः श्रीधरस्तथा ॥
माधव हृषिकेशः पद्मनाभो दामोदरन्ततः परः ।
वासुदेवः सङ्कर्षणः विष्णुशक्तिं स्तिमाः स्मृताः ॥
(प्. ९) प्रद्युम्नश्चानिरुद्रश्च सर्वतन्त्रसमन्विताः ।
चक्रीगदी तथा शाङ्गी खड्गी शङ्खी हली पुनः ॥
मुषली शूली च पाशी अङ्कुशी तदनन्तरा ।
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ॥
कृष्णसखः साततश्च सौरी शुरो जनार्दनः ।
भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषः परः ॥
वली वलानुजो वालो वृषघ्नश्च वृघी पुनः ।
हंसो वराहो विमलो नृसिंहः सर्वसम्मतः ॥
केशवाद्यास्त्विमाः सर्वा विन्यसेद्विष्णुपूजने ।
सर्वे श्यामा च शुभदाः शङ्खचक्रलसत् कराः ॥
कीर्तिः कान्तिस्तुष्टिपुष्टी स्मृतिः शान्तिः क्रिया दया ।
मेधा सहस्रो श्रद्धा च लज्जा लक्ष्मीः सरस्वती ॥
प्रीती रतिश्च ताः सर्वाः शक्तयः सुरनायिकाः ।
जया दुर्गा प्रभासत्या चण्डा वाणी विलासिनी ॥
विजया विनदा विश्वा विनोदा शूलदा स्मृतिः ।
ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा ॥
वरामा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परायणा तथा सूक्ष्मा सन्ध्या प्रज्ञाअ तथा निऽसा ॥
अमोघा विच्युता चैव देव्याङ्गे शक्तयन्त्विमाः ।
विद्युद्गमे समानार्द्यः पङ्कजद्वयवाहूना ॥
एकदेव्याः समानार्द्यः सुस्मिताः सर्वसिद्धिदाः ।
मातृकावर्णभेदेभ्यो मन्त्रविद्या प्रजज्ञिरे ॥
मातृका हि महादेवि सर्वबीजस्वरूपिणी ।
यथा देहे इन्द्रियाणां मनसाश्च प्रधानता ॥
यथा ज्योतिर्गगनाहि सुर्याश्चैव वरस्तथा ।
तथा सर्वेषु मन्त्रेषु मातृका बीजरूपिणी ॥
मन्त्रे मन्त्राङ्गता न्यस्य विद्याङ्गे शक्तयः शुभाः ।
आत्मनः क्षेत्रयोगेन विन्यसेत् सर्वसम्मतः ॥
मन्त्राङ्गे मन्त्रशक्तीस्ता देव्याङ्गे देवशक्तयः ।
अस्य मन्त्रस्य मन्त्राङ्गं विद्याङ्गे शक्तयः शुभाः ॥
राशयो विन्यसेद्देहे मेषादिषु विधानतः ।
शीर्षे मुखे बाहूद्वयोदरे च विन्यसेत् क्रमात् ॥
कटिरस्थिगुह्ये च उरु जानु जङ्घे चरणाचितिक्रमशः ।
महाकालमतं न्यासं राशीनां सिद्धिदायकम् ॥
अरुणासितहरित पाटलपाण्डु विचित्रासितेतरपिङ्गलौ ।
पिङ्गल कर्वुरभूकमलिना रुचयो यथासङ्ख्यम् ॥
मेषादीनां यथास्थानेषु वर्गेन विचिन्तयेत् ।
मूर्द्ध्नि वदने कण्ठे हृदये च भूजद्वये ॥
पृष्ठे नाभौ उदरे उपस्थे गुह्ये पादयुगे तथा ।
मेवं वृषं मिथुनञ्च कर्कटं सिंहं ततः परम् ॥
कन्यां तुलां विच्छां धनुर्मकरं कुम्भमेव च ।
मीनान्तं विन्यसेद्देहे ओङ्कारान्तं नमोऽन्वितम् ॥
नक्षत्राणि न्यसेत् तत्र मुर्द्ध्यादिपादमन्तकम् ।
अश्वन्यादिरेवत्यन्ता अष्टाविंशतिसंज्ञका ॥
अश्विनी भरणी चैव कृर्त्तिका रोहिणी मृगा ।
आर्द्रापुनर्वसु पुष्या अश्लेषा च मघा तथा ॥
पूर्वोत्तरफल्गुनी च हस्ता चित्रा ततः परा ।
स्वाती विशाखानुराधा ज्येष्ठा मुला ततः परा ॥
(प्. ९ब्) पूर्वाषाढा उत्तरा च श्रवणाभिज्तस्ततः ।
धनिष्ठा शतभिषा च पूर्वभाद्रपदा ततः ॥
उत्तरभाद्रपदा चैव रेत्यान्ताः समीरिताः ।
प्रणवाद्या नमोऽन्ताश्च विन्यसेद्देहमात्मनः ॥
मूर्द्ध्नि भूयुगे चक्ष्नोः कर्णयोर्नसि गण्डयोः ।
जिह्वायां ग्रीवामूले च स्तनद्वन्द्वे तथा हृदि ॥
पृष्थे नाभौ तथा लिङ्गे गुह्ये शिश्ने न्यसेत् क्रमात् ।
ओङ्काराद्या नमोऽन्ताश्च तिथयः सर्व सिद्धिदाः ॥
पीठानि विन्यसेद्देहे सर्वकार्यार्थ सिद्धये ।
मूर्द्ध्नि वदने गले पादौ नाभौ कुक्षे नितम्बके ॥
पादयोर्विन्यसेद्देहे सर्वकार्यार्थसिद्धये ।
कामरूपं कामकटं उड्डीशं तदनन्तरम् ॥
जालन्धरञ्चास्रतकं तथाज्वालामुखी प्रिये ।
श्रीशैलं मलयञ्चै विन्यसेत् सर्वसिद्धये ॥
आधारशक्तिं कुर्मञ्च वराहं तदनन्तरम् ।
महामण्डुक कालाग्नि रुद्रसंज्ञं ततः परम् ॥
ततः परन्त तत् सर्वमनन्तं पृथिवीं तथा ।
मणिमण्डपं कल्पतरुं स्वर्णसिंहं ततः परम् ॥
सन्विन्नालमनन्तञ्च सर्वतत्वात्मकं ततः ।
कमला'न्चाङ्गपत्रञ्च केशवं कर्णिकां तथा ॥
सर्वतत्वमयं तत्र कमलं विन्यसेद्धिया ।
सत्वं रजस्तमश्चैव आत्मानं परमात्मकम् ॥
अन्तरात्मानं ज्ञानात्मानं क्रमेण विन्यसेत् ततः ।
ओङ्कारादिनमोऽन्तञ्च मूलाधाराद् शुदात्मकम् ॥
धर्मपीठं न्यसेत् तत्रात्मानं देव प्रपूजयेत् ।
धर्मं ज्ञानञ्च वैराग्यं ऐश्वर्यं तदनन्तरम् ॥
दक्षस्कन्धे तथा वामे तथा पादस्य मुलके ।
मुखे पार्श्वे तथा नाभौ सव्ये च विन्यसेत् सदा ॥
अधर्मञ्चैव वैराग्यमपूर्वं विधिना ततः ।
अज्ञानञ्चैव ऐश्वर्यमपूर्वञ्च क्रमेण वै ॥
ओङ्काराद्यं नमोऽन्तन्तु विन्यसेत् सर्वकालतः ।
तत्त्वन्यासं ततः कुर्यात् जीवादिपूर्वसम्भवम् ॥
सर्वेषु मन्त्रवर्गेषु तत्वन्यासं विलिष्यते ।
विना तत्वेन तत्त्वस्य उत्पत्तिः प्रतिबुध्यते ॥
धर्मं इरितश्यामवह्नौ मरुति पित्तञ्च वैराग्यम् ।
ज्ञानं भूतागारं च द्विरद तत्त्वमैश्वर्यं मीने कृष्णम् ॥
न ए ञ पूर्वन्तु जयतु दिशि चित्राणि गात्रपीठानि ।
सर्वेषु मन्त्रविद्याषु न्यासोऽयं कामदायकः ॥
मातृकां विन्यसेद्देहाभान्तरे विधिनामुना ।
अन्तर्यागं तथा योगं वायुं कुर्याद्विचक्षणः ॥
भूतशुद्धिं पुराकुर्यात् विधिनानेन दोहकः ।
यादिवान्तैर्विधानेन पूरककुम्भकरेचकैः ॥
इडया पुरयेद्वायुं श्वासनाड्याः शनैः शनैः ।
मात्रया षोडशेनैव ततः कुर्याच्च कुम्भकम् ॥
यम्मन्त्रेण चतुःषष्ट्या यथा कुम्भं ततः परम् ।
सुषुम्नायां कुम्भयित्वा पिङ्गलायान्तु रेचयेत्? ॥
चतुर्धाचन्द्र सह जप्त्वा रंवीजेनैव प्लावनी ।
श्वाससंहरणा नाड्या त्यजेद्वायुं शनैः शनैः ॥
पुरा कुक्षिगतः पापं चिन्तनीयो मनीषिभिः ।
(प्. १०) ब्रह्महत्या शिरङ्कञ्च स्वर्णस्तेय भुजद्वयम् ॥
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत् संसर्गात् पदद्वन्यद्व मङ्गप्रत्यङ्गपातकम् ॥
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ।
खड्गचर्मधरं वामाङ्गुष्ठपरिमाणकम् ॥
अधोमुखः कृष्णवर्णं वामकुक्षौ विचिन्तयेत् ।
एषु ये ऋषयः प्रोक्तास्तान् प्रवक्ष्याम्यनुक्रमात् ॥
पुरकादिषु देवेशि ऋषयः सर्वसम्मताः ।
किस्कन्दः कश्यपश्चैव हिरण्यगर्भस्ततः परम् ॥
अस्य पापस्य देहस्य अन्तर्यामी ऋषिः स्मृतः ।
एवं द्यात्वा वह्निनाडी दाहयेत् सकलां तनुम् ॥
प्राणायामं ततः कुर्यात् भूतशुद्धिरनन्तरम् ।
भूतानां शोधनं कृत्वा भावना तु तथा दिशेत् ॥
आपादमुर्द्ध्नि पर्यान्तं भावयेद्देहमात्मनः ।
पञ्चाशद्वर्णबीजाढ्यं महाभूतादिसंयुतम् ॥
गन्धं रसं तथा स्पर्शं रूपं शब्दं ततः परम् ।
भावयेदात्मनो देहं सहस्रं कमलं यतः ॥
सहस्रारे महापद्मे द्यायेद्देवीं सनातनीम् ।
सदाशिवेन संयुक्तां विपरीतरतस्थिताम् ॥
भूतानि च महापूर्वसंलीनानि विधानतः ।
स्थापयेत् तत् पदाम्भोजे तदा वर्णादि चिन्तयेत् ॥
क्षकारादि अकारान्तं प्रतिलोमेन देशिकः ।
संहारचक्रं समुद्दिष्टं सर्वतन्त्र समन्वितम् ॥
षट्चक्रं चिन्तयेद्देहे विधिनानेन देशिकः ।
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ॥
आज्ञा विशुद्धं शुद्धाख्यं क्रमेणैव स्वदेहके ।
सहस्रारं महापद्मं विशुद्धाख्यं प्रकीर्तितम् ॥
मूलाधारं तथोपस्तं नाभिदेशं ततः परम् ।
हृदयं कण्ठदेशञ्च भ्रूयुग्मं तदनन्तरम् ॥
सहस्रारान्तकं प्रोक्तं सप्तचक्रं सदेहके ।
डाकिनी हाकिनी चैव राकिनी लाकीनि तथा ॥
काकिनी शाकिनी चैव षट्चक्रस्य च देवताः ।
हाकिनी देवता प्रोक्ता सहस्रारे सुरेश्वरी ॥
पत्रवर्णात्मकं तत्र क्रमेण चिन्तयेद्धिया ।
चतुःपत्रं मूलाधारं वादिसान्तं महेश्वरी ॥
वादिलान्तञ्च षट्चक्रं स्वाधिष्ठानं विचिन्तयेत् ।
मूलाधारं गुदे चैव स्वाधिष्ठानञ्च लिङ्गके ॥
दशपत्रं डादिफान्तं नाभिदेशं विचिन्तयेत् ।
मणिपूरं महाचक्रं शब्दब्रह्मविभूषितम् ॥
विशुद्धं द्विदलं प्रोक्तं हक्षवर्णविभूषितम् ।
सर्ववर्णात्मकं पत्रं पद्मना परिकीर्तितम् ॥
दक्षिणावर्तयोगेन लिखनं चिन्तयेद्धिया ।
अनुलोमः सृष्टिकाले संहारे प्रतिलोमकः ॥
एवं विचिन्त्य स्वदेहं जीवात्मानं विचिन्तयेत् ।
मूलाधारे स्थितं जीवं कुण्डलीरूपसंस्थितम् ॥
बिद्युदग्निसमुद्भूतं तडित्कोटिसमप्रभम् ।
हूङ्कारेण समुच्चार्यं मूलाधारात् तदा पुनः ॥
निर्वात् इव दीसोऽपि यथा देहसमन्वितः ।
सोऽहं मन्त्रमयं देहं जीवात्मानं विचिन्तयेत् ॥
(प्. १०ब्) ध्यानेन ध्यानयोगेन चिन्तयेच्च शनैः शनैः ।
एवं विचिन्त्य स्वदेहं प्राणायामं ततः परम् ॥
देवता च तथा जीवं समभारं विचिन्त्य च ।
अकारादिक्षकारान्तं पुरकं कुम्भ(क) रेचकम् ॥
वारत्रयं ततः कुर्यात् विधिनानेन देहिकः ।
अकारादि क्षकारान्तं पुरयेदिडया शनैः ॥
एवं विचिन्त्य स्वदेहं प्राणायामः ततः परम् ।
कादिमास्तैः कुम्भयेच्च सुषुम्नायां विधानतः ॥
पिङ्गलायां रेचयेच्च यादिफान्तैः शनैः ।
प्राणायाममिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
त्रिः पठेदायतः प्राणः प्राणायामः प्रकीर्तितः ।
कुम्भयित्वा समातृका मातृका चानुलोमतः ॥
पञ्चभूतं महाभूतं स्वजीवञ्च विचिन्तयेत् ।
स्वजीवं गुणसंयुक्तं विन्यस्य प्राणमुच्चरेत् ॥
सम्पुट्य स्वरवर्णेन सर्वगेण हृदादिषु ।
प्राणप्रतिष्ठां कूर्ध्वीत हृदये तनुसंयुतम् ॥
दक्षस्य तनुसंयुक्तं कथितं मन्त्रवेदिना ।
आननं बिन्दुसंयुक्तं अर्द्धचन्द्रविभूषितम् ॥
लज्जाबीजमिदं प्रोक्तमक्षोभ्येन सुरेश्वरि ।
ब्रह्मा बिन्दुसमायुक्तं वह्निबीजसमन्वितम् ॥
एषोदशस्वरेणाद्यं अङ्कुशं परिकीर्तितम् ।
प्राणप्रतिष्ठामन्त्रस्य देवता ब्राह्मणादयः ॥
ब्रह्मा विष्णुश्च रुद्रश्च ऋषयः परिकीर्तिताः ।
ऋग्यजुश्चैव सामानि च्छन्दांसि च तदा भवेत् ॥
याद्याः सप्तसकारान्ता अत्रिमेत्रसमन्विताः ।
शिरोऽर्द्धदन्तसंयुक्तं हंसमन्त्रसमन्वितम् ॥
कुण्डलीं तां समानीय तेन मार्गेण साधकः ।
मूलाधारे स्थापयित्वा हंसमन्त्रं जपेद्बुधः ॥
पञ्चाशद्वर्णबीजानि बिन्दुयुक्तानि चिन्तयेत् ।
मम प्राणा इह प्राणा मम जीव इह स्थितः ॥
सर्वेन्द्रियाणि धातुनि सत्वानि परिचिन्तयेत् ।
भूतानि चैव तत्वानि विचिन्त्य विधिनामुना ॥
इहागत्य सुखं चिरं तिष्ठस्तु वह्निसुन्दरी ।
एष प्राणमनुः प्रोक्तः सर्वतन्त्रसमन्वितः ॥
नृसिंहस्य च बीजेन प्राणप्रवेशनं स्मृतम् ।
तदा प्राणस्य ध्यानञ्च सम्म्मरेत् प्रयतः शुचिः ॥
वाह्यदेवतायाः प्राणमन्त्रं दिशेच्च सुन्दरी ॥ ॥
इति श्रीविश्वसारतन्त्रे देहोत्पत्तिर्नाम प्रथमः पटलः ॥ १ ॥
९९९९९
द्वितीयः पटलः ।
अथ योगं प्रवक्ष्यामि शृणुष्व कमलानने ।
ब्रह्मणा भाषितं पूर्वे नारदाय कृते युगे ॥
तत् शृणुष्व महेशानि मन्त्रमूर्तिविशुद्धये ।
पञ्चभूतस्य विज्ञानं प्रधानं योगमुत्तमम् ॥
तेषां गतिं विचिन्त्याथ इष्टदेवीं विचिन्तयेत् ।
भूतानाञ्च गतिं वक्ष्ये स्वदेहे शृणु पार्वति ॥
(प्. ११) तदा तत् कालकालदासा गतिः शुभदायिनी ।
योगशास्त्रं महेशानि साङ्गं मोक्षप्रदायकम् ॥
जीवात्मपरमात्मनोरैक्यं सञ्चिन्तयेद्धिया ।
समाधिः परमं योगं सर्वतन्त्रसमन्वितम् ॥
विशुद्धं निर्मलं नित्यं सदसद्भाववर्जितम् ।
मनसा वचसा चैव कायिकेन विचिन्तयेत् ॥
तदेव परमं योगं शिवेन भावितं पुरा ।
शुद्धं शुद्धगुणं देवं चिन्तयेत् तमहनिर्शिम् ॥
सदाशिवं शक्तियुक्तं सहस्रदलसस्थितम् ।
मनसा भावशुद्धेन समाधौ चिन्तयेत् सदा ॥
मन्त्रवर्णात्मकं देवं मन्त्रवर्णात्मिकां शिवाम् ।
मनसाभ्यासयोगेन चिन्तयेत् साधकः सदा ॥
निश्चेष्टो निरहङ्कारो निर्द्वन्द्वा निस्परिग्रहः ।
गो-काक-मृग-चर्चायां यदाचरति देशिकः ॥
भावयेद्विधिनानेन सर्वकालेषु सर्वदा ।
सर्वतत्वेषु तं देवं तां देवीं सुरपूजिताम् ॥
नित्यां विशुद्धां शुद्धाद्यां सदसद्भाववर्जिताम् ।
सर्वकालक्षयकरीं सर्वमन्त्रेषु संस्थिताम् ॥
अस्त्रविद्यात्मिकां नित्यां नानास्वर निवासिनीम् ।
न जरा मरणं तत्र चिन्तयेद्दक्षजात्मिकाम् ॥
ज्योतिर्ब्रह्मात्मिकां देवीं चिन्तयेद्ध्यानयोगतः ।
जित्वा दारात्मनः शत्रुन् कामक्रोधादिकं प्रिये ॥
कामं क्रोधं तथा मोहं लोभहिंसादयस्तथा ।
इन्द्रादयश्च तान् सर्वान् ध्यानेन विधिना मुना ॥
ध्यायेन्मानसपद्मस्थां शक्तिं शिवसमन्विताम् ।
नानालङ्कारसंयुक्तां नानागुणसमन्विताम् ॥
षडुर्मयन्तदा जिह्वा चिन्तयेज्जगदम्बिकाम् ।
कामादयन्तु देवेशि दुःखानि कथितानि ते ॥
योगाष्टाङ्गैरिमां जित्वा योगिनो युगमाप्नुयात् ।
अपश्यदात्मनो देहे सहस्रारे शिवं स्मरेत् ॥
तदेवं पुरुषं पूर्णं मायाञ्च तदपाश्रयाम् ।
एवं चिन्तयित्वाथ समाधिं योगमभ्यसेत् ॥
दाहशक्तिं यथाङ्गारे आश्रयं वाप्य तिष्ठति ।
यमाद्यागमसस्पग्ने स एव श्रीसदाशिवम् ॥
तस्य चाङ्गविभागेन शास्त्रमेतत् प्रकीर्त्यते ।
यमं नियममासनं प्राणायामस्तत परम् ॥
प्रत्याहारं धारणञ्च ध्यानञ्चैव समाधिकम् ।
अष्टङ्गेयोगमित्युक्तं सर्वतन्त्रसमन्वितम् ॥
अहिंसा सत्यमन्तयं ब्रह्मचर्यकृपार्जवम् ।
क्षमा धृतिर्मिताहारः शौचञ्च दमनं तथा ॥
एते यमा महेशानि सर्वतन्त्रसमन्विताः ।
तपः सन्तोषमास्तिक्यं दानं देवस्य पूजनम् ॥
सिद्धान्तश्रवणं नित्यं ह्रीर्मतिश्च जपो हृदम् ।
दशैते नियमाः प्रोक्ताः सरतन्त्रसमन्विताः ॥
पद्मासनं स्वस्तिकाख्यं तथा ।
बीरासनमिदं प्रोक्तं पञ्चकं क्रमतः सुधीः ॥
उर्वो भद्रवज्रासनं रुपरि विन्यस्य सम्यक् पादयुगं प्रिये ।
अङ्गुष्ठौ च निबद्धयात् व्युत्प्रमेणैव पृष्ठके ॥
पद्मासनमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
(प्. ११ब्) जानुनोरन्तरे सम्यक् कृत्वा पादतले पुनः ॥
ऋजुकायो विशेद्योगी स्वस्तिकासनमीरितम् ।
सीमान्याः पार्श्वयोर्न्यसेद् गुल्पयुग्मं सुनिश्चितम् ॥
वृषाधः पार्श्वपादौ तु पाणिभ्यां परिलाञ्छयेत् ।
भद्रासनमिदं प्रोक्तं योगिनां हृदयङ्गमम् ॥
उर्वाः पादौ क्रमाम्नस्य जान्वोः प्रत्यङ्मूखेऽङ्गुली ।
करौ निदध्याद्देवेशि वज्रासनमुदाहृतम् ॥
एक्पादमधः कृत्वा विन्यस्योरौतथेतरम् ।
ऋजुकायो विशेद्योगी वीरासनमुदाहृतम् ॥
आसनानि वहुन्येव सन्ति वेदेषु पार्व्ति ।
सर्वेषां श्रेष्ठमित्व्युक्तं स्वस्तिकाख्यं सुखावहम् ॥
इडया पुरयेड्वायुं यं जप्त्वा षोडशमात्रया ।
धारयेच्च सुषुम्नायां चतुःषष्ट्या तु तं स्मृतम् ॥
पिङ्गलायां त्यजेद्वायुं द्वात्रिंशत्तेन मात्रया ।
भूतशुद्ध्यात्मकं प्राहूः सर्वतन्त्रविदो जनाः ॥
रम्मन्त्रंअ प्र्तिलोमेन पूरककुम्भकरेचकम् ।
तेनैव विधिना कृत्वा ठम्मन्त्रं प्रज्पेत् ततः ॥
तेनैव विधिना जप्त्वा पापे भष्मनि सन्त्यजेत् ।
लम्मन्त्रे चिन्तयेद्देहं पञ्चाशद्वर्णसंयुतम् ॥
धराबीजेन तं देहं दृढीकृत्य स्वयं ततः ।
मात्रावृद्धिक्रमेणैव जपेद् द्वादश षोडश ॥
जपेन्न्यासादिकं कृत्वा सर्वसिद्धिं लभेन्नरः ।
क्रमादभ्यसतस्तस्य न्वोदगमा * * * धमः ॥
मध्यमं कल्पसंयुक्तो भूमित्यागं ततः परम् ।
उत्तमस्य गुणावाप्तिर्यावत् शीलनमीष्यते ॥
इन्द्रियाणां विचरतं विषषेषु द्विधा कृताम् ।
वलादाहरणं तेभ्यः प्रत्याहारः समहृतः ॥
अङ्गुष्ठगुलफजानुरुर्मनसि लिङ्गनाभिषु ।
हृच्छिरः कण्ठदेशेषु लम्बिकायास्तथ नसि ॥
भ्रूमध्ये मस्तके मूर्द्ध्नि द्वादशान्ते तथा विधिः ।
धारणं प्राणमरुतो धारणा परिकीर्तिता ॥
समाहितेन मनसा चैतस्यान्तरवर्तिना ।
आत्मन्यभीष्ठदेवानां ध्यानं ध्यानविदो विदुः ॥
समत्वभावनानित्यं जीवात्मपरमत्मानोः ।
समाधिः कथितो देवि सर्वतन्त्रसमन्वितः ॥
ध * * * वत्यङ्गुलायां शरीरमुभयात्मकम् ।
गुदधवान्ते तु * स्कन्धमुत्सेधं द्वाङ्गुलं विदुः ॥
तस्य द्विगुणविस्तारं वृत्ताकारेण संस्थिताम् ।
नाड्यन्तत्र समुद्भूता मुख्यान्तिस्रः समीरिताः ॥
इडा वामे स्थिता नाडी चित्र सा योगिनां शुभा ।
ब्रह्मरन्ध्रं विदुस्तस्यां पद्मसुत्रनिभं प्रिये ॥
आधारञ्च विदुस्तत्र सर्वतन्त्रसमन्वितम् ।
दिव्यमर्ग्मिदं प्राहरमृतानन्दलक्षणम् ॥
इडायां चिन्तयेच्चन्द्रं पिङ्गलायां दिवाकरम् ।
सुषुम्नायान्तु देवेशि तावुभौ चिन्तयेत् तनौ ॥
अग्निसोमात्मिका नाडी सुषुम्ना तन्त्रसम्मता ।
आधारपद्ममध्यह्नं? त्रिकोणमतिसुन्दरम् ॥
ज्योतिषां निलयं तच्च कथितं पद्मयोनिना ।
तत्र विद्युल्लताकारा कुण्डली परदेवता ॥
परिष्कृरति देहेऽस्मिन् सुप्ताहिसदृशाकृतिः ।
(प्. १२) विभर्ति कुण्डली देहमात्मानं हंसमन्त्रतः ॥
हङ्कारवर्णसम्भूता कुण्डली कुलनायिका ।
गमनागमने मन्त्रं हङ्कारं लङ्करेण च ॥
कथितं बीजमन्त्रस्य कुण्डस्यास्तत्र सम्मतम् ।
हंसप्राणाश्रयो नित्यं प्राणनाडी पथाश्रयम् ॥
आधाराद्वहते वायुर्यथावत् सर्वदेहिनाम् ।
देहं प्राप्य सुनाडीभिः प्रयाणं कुरुते वहिः ॥
द्वादशङ्गुलमात्रेण प्राणस्य पुरुषस्ततः ।
वायुरूपेण जीवोऽसौ सर्वज्ञो व्यापकः स्मृतः ॥
मुलाधारात् सहस्रारं व्याप्य तिष्ठति कुण्डली ।
सुषुम्ना मध्यदेहे च सुक्ष्मात् सुक्ष्मस्वरूपिणी ॥
वायुस्वरूपा सहिता वायुमास्थाय तिष्ठति ।
आयाति याति सततं कुण्डली परदेवता ॥
रम्ये मृद्वासने पुण्ये पटाजिनकुशोत्तरे ।
स्वस्तिकासनमास्थाय योगमार्गपरो भवेत् ॥
ज्ञात्वा भूतोदयं देहे यथावत् प्राणवायुना ।
शक्तिरूपां ध्यायेद्वामे पार्श्वे नाभौ सदा प्रिये ॥
पिङ्गलाया महेशानि शम्भुरूपं दिवाकरम् ।
चन्द्ररूपां वामनाड्यां शिवानीं चिन्तयेद्धिया ॥
भूतात्मके तु देहेऽस्मिन् सर्वभूतोदयं शृणु ।
चिन्तयेद्वायुनानेन सर्वसिद्धाप्तये सुधीः ॥
किं राज्यैरसदालापैर्षत्रायुर्वायतामियात् ।
श्वाससंहरणान्नाड्या गतिं तेषां विचिन्तयेत् ॥
ध्यात्वात्मकमिदं देहं पोषयेच्छम्बुगेहिनी ।
दण्डाकारगतिर्भूमेस्तोस्वस्य पु* कामता ॥
ऊर्द्धागतिः पावकस्य वायोतिर्यक् गतिः स्मृता ।
गतिर्व्योम्नोर्भवेन्मध्या सर्वतन्त्रसमन्विता ॥
ध्यात्वात्मकमिदं देहं पोषयेद्वायुरूपिणी ।
त्वचि स्थिता महामावा असृक् स्थिता शिवा शुभा ॥
तथा मांस स्थितां देवी तथा मेदं स्थिता सती ।
अस्थि स्थिता शिवपत्नी सा मज्जारां शम्भुसुन्दरी ॥
शुक्रस्था वायुरूपा च तथा प्राणात्मिका स्मृता ।
जीवप्रापात्मिका नित्या सर्वक्षेत्रेषु संस्थिता ॥
मारणादिं प्रकूर्वीत भूतानामुदये सुधीः ।
विचिन्त्य चात्मानो देहे गतिस्तस्य प्रिये सदा ॥
वरणेरुदये कुर्यात् स्तम्भनं सर्वसम्मतम् ।
शान्तिकं पौष्टिकं तोयस्य समये प्रिये ॥
मारणं कुरुते शत्रोरग्नेरुदययोगतः ।
वायोस्तु उदये कुर्यात् स्तम्भनं सर्वसम्मतम् ॥
अथ उच्चाटनं कुर्यात् सर्वतन्त्रसमन्वितम् ।
क्षेत्रादिनाशनं कुर्यात् आकाशस्योदये सुधीः ॥
आसुर्योदयमारभ्य यावद्वै घटिकाद्वयम् ।
एवं क्रमेण विज्ञाय षट्कर्मषु विचिन्तयेत् ॥
आधाय वायुनक्षत्रं योगमेवं विचिन्तयेत् ।
मारुतं चिन्तयेद्देहे ध्यानयोगेन देहिकः ॥
ध्यात्वा वायुं स्वदेहे तु चिन्तयेत् परदेवताम् ।
नादः सञ्जायते क्षेत्रे वायुना परमेश्वरि ॥
मत्तभृङ्गसमश्चादौ तथा वंशीधवनिं श्रुतः ।
तदा घण्टास्वनो जातस्तदा मेघस्वनन्ततः ।
(प्. १२ब्) एवमभ्यसतस्तस्य नास्ति शोकादिदोषजम् ।
भयं तस्य भवेत् सिद्धिः सर्वसिद्धिरनुत्तमा ॥
नादो भवेत् ततो बिन्दुश्चन्द्रसुर्यात्मकः स्मृतः ।
बिन्दुं नादात्मकं केचिद्वदन्ति मुनिमत्तमाः ॥
बिन्दुनादात्मकं सर्वं चराचरमिदं जगत् ।
बिन्दुः पुमान् भवेन्नादः स्त्रीरूपः सर्वसम्मतः ॥
जगतां कारणं नादः कथितः पद्मयोनिना ।
बिना मैथुनधर्मेण न सिद्धिः स्यात् कथञ्चन ॥
हंसौ तत्र समुद्भूतौ पुंस्त्रियौ तन्त्रसम्मतौ ।
हम्मन्त्रे पुरुषः प्रोक्तः सकारः प्रकृतिः स्मृता ॥
तविमौ सकलं विश्वं व्याप्तौ तत् कुण्डकेन च ।
तदा तद्भावमाप्नोति तदा सोऽहमिति स्मृतः ॥
स एव परमं ब्रह्म कुटस्थो जगदङ्कुरः ।
सर्वे देवास्तथावेदा दिग्वाताद्यादरन्तथा ॥
त्रुट्यादिकालकल्पाश्च तत्तद्देवस्तदात्मकः ।
यस्मिंश्च प्रणयं यान्ति विनाशं जगदीश्वरि ॥
यस्मिन् सृष्टिः सदोद्भूतिर्यस्मिन्नद्यापि जायते ।
स एवं परमं ब्रह्मसोऽहस्तावेन जायते ॥
सहवर्णो बिन्दुपाथसक्तिवर्णं दिशेस्मुदा ।
प्रणवं सर्वतन्त्रेषु कथितं पद्मयोनिना ॥
परानन्दमयं ब्रह्म शब्दब्रह्मविभूषितम् ।
आत्मनो देहमध्ये तु सर्वतन्त्रात्मकं प्रिये ॥
चिन्तयेद्विधिनानेन ब्रह्मविष्णुशिवात्मकम् ।
जगतां कारणं प्रोक्तं वेदमन्त्रस्य कारणम् ॥
गायत्री प्रणवञ्चैव सर्वतन्त्रेष्वयं विधिः ।
गायत्री प्रणवस्याथ मन्त्रार्थं ब्रह्मणा पुरा ॥
चतुर्वेदेषु शास्त्रेषु न निष्ठातः पुरोगतः ।
समाधियोगमेतद्धि कथितं पद्मयोनिना ॥
समाधौ चिन्तयेद्देवीं भूतशुद्ध्यादिकं दिशेत् ।
न्यासजालं विधायाथ समाधौ पूजयेत् सदा ॥
समाधौ यादृशं कुर्यात् पूजनं जलतर्पणम् ।
वाह्ये तु तादृशं कुर्यात् शङ्करेण च भाषितम् ॥ ॥
अतः परं कर्मयोगं वक्ष्यामि शृणु शङ्करि ।
आश्रमं विविधं तत्र कथितं पद्मयोनिना ॥
ब्राह्मणाः क्षत्रिया वैश्याः सर्वतन्त्राधिकारिणः ।
कर्माधिकारिणस्ते तु सर्व तन्त्राधिकारिणः ॥
ये चान्ये सङ्कराः प्रोक्ता अथ शुद्रा महेश्वरि ।
ते सर्वे कर्मकर्तुणां सेवकः परिकीर्तिताः ॥
तेषामर्द्धफलं लब्द्धा मोदते दिवि देववत् ।
न शुद्राय मतं दद्यात् प्रेणवं वेदवाधितम् ॥
न मन्त्रं मन्त्रयोगञ्च तथा मन्त्राङ्गिताः पुनः ।
न शूद्रेभास्तथा स्त्रीभ्यः प्रदद्यात् साधकः सदा ॥
वलाम्बा यदि वा कुर्यात् सर्वकर्मान्तरं सदा ।
तदा स्वर्गात् पतन्त्येव रक्षणात् सैकतहर्म्यवत् ॥
देवपुजादिकः कर्म वक्ष्यमि शृणु सुन्दरि ।
प्रथमं तत्र वक्ष्यामि लक्षणं गुरुशिष्यषोः ॥
सर्वशास्त्रपरो दक्षः सर्वशास्त्रार्थवित् सदा ।
युवकः सुन्दरः साङ्गः कुलीनः शुभदर्शनः ॥
जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः ।
पितृमातृहिते युक्तः सर्वकर्मपरायणः ॥
(प्. १३) आश्रमी देशस्थायी च गुरुरेचं विधीयते ।
शिवान्ते तादृशो ज्ञेयः साधनः सर्वसम्मतः ॥
कथितं यागले पूर्वं तव प्रीत्या निवेदितम् ।
अथ भक्ष्यं प्रवक्ष्यामि शृणुष्व कमलानने ॥
अन्नं दुग्धं तथा तरुं पायसं पुपसुपकम् ।
नवनीतं फलान्ये च गुडपायससं युतम् ॥
सर्वाणि फलपुष्पाणि भक्षयेच्च विधानवित् ।
लसुनं गुञ्जनं निम्बमसुरं शुरणं तथा ।
जम्बीरं नकुचं कांस्यं अलाबुमयथुं तथा ।
बीजमांसं तथा मांसं लाकञ्चैव पलाण्डुकम् ॥
आमिषं रक्तश्राकादीन् ताम्बुलञ्च अलातकम् ।
तालगर्जुनमुषितं दुग्धं ब्रष्टादिकञ्च यत् ॥
कार्षिकञ्चैव षद्भ्रष्टं हविषो परिवर्जयेत् ।
कुचेलञ्च तथा तैलमाम्लञ्च नखलोमकाः ॥
अभाङ्गमसदालापं हविष्याली विवर्जयेत् ।
अथ देव्या मतं वक्ष्ये पुष्पाणि शृणु पार्वति ॥
तुलस्यौ पङ्कजौ जात्यौ केतक्यौ करबीरकौ ।
शस्तानि वश? पुष्पाणि तथा रक्तोत् पलानि च ॥
उत्पलानि नलिन्यानि कह्लारकुसुदानि च ।
मालती कुमुदाङ्गार-नन्द्यावर्णादिकानि च ॥
पलाशपटलावेड्रेथवलावटकानि च ।
अलोकोद्तवबिल्वेषु कर्णिकारोद्तवानि च ॥
एतान्यन्यानि तन्त्रेऽस्मिन पुष्पाणि सन्ति वै प्रिये ।
नानादेशोद्भवानि स्युः सर्वकालोद्भवानि च ॥
दलानि चैव पुष्पाणि दद्यादेवैर्विशेषतः ।
अथ पुष्पं प्रवक्ष्यामि कर्मयोगे महेश्वरि ॥
शृणुष्व परया भक्त्या मथोक्तं ब्रह्मणा पुरा ।
कमले करवीरे देवे कुमुदे तूलसीद्वयम् ॥
जातीद्वयं केतकी द्वे कह्लारं? चम्पकोत्पलम् ।
कुन्दमन्दारपनागपटलानागचम्पकम् ॥
अरुष्करं कर्णिकारं पार्वन्ती नवमल्पिका ।
सौगन्धिकं सोकवण्डः पलाशाशोकमज्जका ॥
धुस्तुरं वर्जकं निम्बमर्जनं मणिपुरकम् ।
सिन्धुवारमपामार्गं कालपुष्पं निकामजम् ॥
व्याघ्राटकं दमनकं मरुवकं ततः परम् ।
लवङ्ग-जल-कर्पुरं तगरञ्च जवां तथा ॥
बिल्वपुष्पं द्रोणपुष्पं कामराजं सुहोडकम् ।
दलानि करबीराणि जलस्थानि स्थलानि च ॥
गिरिज्यानि देशज्यानि नानापुष्पाण्यतः परम् ।
कथितं सर्वतन्त्रेषु विश्वसारे विशेषतः ॥
कव्यकारुष्कराख्यामलक डुम्बुरो जम्बुसंज्ञक ।?
खदिर कृष्णलापा च पुष्पाणः नागरौहिणौ ॥
पलाशप्लक्षमाम्राक विक्षार्जुन विकक्षता ।
वञ्जुलो विकलः सज्जो बन्धुकपनशार्ककौ ॥
शमई कदम्ब निम्बाम्र मधुगन्धादिनाङ्घ्रिपा ।
आयुष्कारः श्रीकामश्च कदाचिच्छेदषेन्नहि ॥
ए? षु वृक्षेबु देवेशि शिवः साक्षात् सदा स्थितः ।
(प्. १३ब्) अथ स्थानं प्रवक्ष्यामि कर्मयोगेन पार्वति ॥
अयोध्या मथुरा माया काशी काञ्ची अवस्तिका ।
द्वारका च हरिद्वारं तथा गोदावरी प्रिये ॥
सेतुबन्धश्च सरयुः कुरुक्षेत्रं गया तथा ।
ह्रदं द्वैपायनं नाम सुर्वारुकमतः परम् ॥
रोहिताश्चं शोणभद्रं विष्णोः पाद्यन्वितां गयाम् ।
फल्गुञ्चैवोदीची स्थानं कञ्चनञ्च ततः परम् ॥
मानसरोवरञ्चैव तथा विन्धेश्वरं प्रिये ।
कैलाशञ्च भृण्डपुरं मन्दरञ्च हिमालयम् ॥
चर्मन्नती वेत्रवती बाहू दासुरसा तथा ।
दशाश्वमेधसम्भूतं प्रयागं पूलहाश्रयम् ॥
यमुनां चन्द्रभागाञ्च गङ्गाञ्च पनसं तथा ।
जालन्धरं वदरिकां तथाचैव सरस्वतीम् ॥
सङ्केताश्रममित्युक्तं कपिलस्याश्रयं तथा ।
पुरोबोधं व्यासनीञ्च तथा चैव प्रियम्बदाम् ॥
कामरूपञ्च गोकर्णं वकार्या सहितं प्रिये ।
गुह्यकन्याश्रनं देवि नटिकालयमेव च ॥
हाटकाचलकञ्चैव एकलिङ्गनदस्य च ।
गन्धमादनं किम्पुरुषं दुर्गापीठं ततः परम् ॥
पुराणभारतादिनामालयं तुलसीतलम् ।
गोस्थानं बिल्वमूलञ्च निजखातजलाशयम् ॥
देवताखातकं स्थानं नदीदीरं ततः परम् ।
देवस्थानं श्मशानञ्च कुलवृक्षस्य मूलकम् ॥
देवतायतनञ्चैव शिवस्याश्रममेव च ।
अन्यानपि महेशानि भारते यं प्रकीर्तितम् ॥
पुराणे यामले तन्त्रे अन्येषु यत् प्रकीर्तितम् ।
सिद्धाश्रमं सकलञ्च सप्तसागरकं तथा ॥
गङ्गाद्वारञ्च गङ्गाञ्च गङ्गासागरमेव च ।
सप्तगोदावरीञ्चैव नारदश्याश्रमं तथा ॥
वेदे रामायणे प्रोक्तं यानि तीर्थानि भाविनि ।
दीक्षां मङ्गलकार्व्यञ्च शालग्रामान्तिकं दिशेत् ॥
स्थानान्ये तानि देवेशि कथितानि मनीषिभिः ।
मीक्षामङ्गलकार्येषु सर्वत्र विधिरिष्यते ॥
भैरवं भैरवगणं वान्त्वीशं? पूर्वतोऽर्चयेत् ।
मन्त्रेणानेन देवेशि प्रणवादिनमोऽन्वितम् ॥
नानोपहारवलिभिर्यावकाद्यैरलङ्कृतम् ।
ओं तीक्ष्मदंष्ट्रैमहाकाय कल्पान्तदहनोपमः ॥
भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ।
गृह्न गृह्न वलिं देव स्वकीयगणसंवृतः ॥
सर्वोपद्रवविघ्नानि नाशय त्वं सुरेश्वरः ।
यज्ञकुण्डं प्रवक्ष्यामि शृणुष्व कमलानने ॥
कुण्डमष्टविधं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
चतुरस्रं योनिमर्द्धचन्द्रं त्रास्रञ्च वर्तुलम् ॥
षडस्रं पङ्कजाकारमष्टस्रः तन्त्रसम्मतम् ।
चतुरस्रं चतुकोणं सर्वतन्त्रसमन्वितम् ॥
अर्द्धचन्द्रानभं कुण्डमर्द्धचन्द्रं विदुर्वुधाः ।
त्रिकोणं त्र्यस्रमुद्दिष्टं सर्वतन्त्रसमन्वितम् ॥
वर्तुलं वर्तुलाकारं षडस्रं षट्कसंयुतम् ।
अष्टकोणेषुतं कुण्डं अष्टास्रं परिकीर्तितम् ॥
एकहस्तमिते भुमौ कुण्डं कुर्याद्विधानतः ।
चतुरस्रं भवेत् कुण्डं सर्वतन्त्रसमन्वितम् ॥
(प्. १४) कोणायुतं कुर्यात् सुत्रं षत्तु दीर्घं प्रदृश्यते ।
तदेव तद्वितस्तं स्यात् सर्वतन्त्रसमन्वितम् ॥
एवं द्वदशकं यावत् तावत् कुण्डं विनिर्मयेत् ।
कौ पृथिव्यां यदातीनं दृश्यते सुमनोहरम् ॥
तस्मात् कुण्डं समाख्यातं साधकानां हिताय वै ।
परिमाणमिते भूमौ कुण्डं कुर्याद्विधानतः ॥
कुण्डाणां यादृशं सानं तादृशं खननं स्मृतम् ।
त्रिसुत्री करणं कुर्यात् मूलमध्याग्रदेशके ॥
सुन्दरं विधिना कुर्यात् साधकस्य मनोहरम् ।
कुण्डाणां मेखलास्तिस्रः सर्वतन्त्रसमन्विताः ॥
एकाङ्गुलान्तरं कुर्यात् मेखला सुमनोहरा ।
दशहस्तस्तु यावत् स्यात् तावत् कुर्याद्विधानतः ॥
एकैकाङ्गुलमानेन क्रमेण परिवर्द्धयेत् ।
मेखला सुरकार्या सा साधकस्य मनोहरा ॥
एकाङ्गुलं द्वाङ्गुलञ्च त्र्यङ्गुलञ्च क्रमेण तु ।
वर्द्धयेद्विधिनानेन शङ्करेण च भाषितम् ॥
कुण्डस्य सम्मुखे दद्यात् योनिन्तां सुमनोहरम् ।
योन्यग्रन्तु क्रमेणैव परमात्रेण वर्द्धयेत् ॥
हस्ताद्धस्तान्महादेवि षवद्वितयमानतः ।
सरन्ध्रं कुरुते योनिं सर्वतन्त्रसमन्विताम् ॥
षावान् कुण्डस्य खननं तदन्तं योनिरन्ध्रकम् ।
तदन्ते निर्मयेत् पद्मं सुन्दरं सुमनोहरम् ॥
कुण्डमधो तु कुर्वीत खननोऽपि च सर्वतः ।
किञ्चित् तिर्यक् क्रमेणैव पूर्णमुत्तर्कं पुनः ॥
अश्वश्यपल्लवाकारां योनिं कुर्याद्विधानतः ।
सुन्दरं सदृशं कुर्यात् यथा दृष्टिमनोहरम् ॥
चतुरस्रं कृते क्षेत्रे सर्वं कुण्डं विनिर्मयेत् ।
कुण्डन्तु यादृशं कुर्यात् तादृशी मेखला स्मृता ॥
हस्तस्य कथितं मानं चतुर्विंशति चाङ्गुलम् ।
यवाष्टकैरङ्गुलं स्यात् सर्वतन्त्रसमन्वितम् ॥
कुण्डानां यादृशं मानं खननं तादृशं स्मृतम् ।
तदर्द्धं वा खनेत् कुण्डं सर्वतन्त्रसमन्वितम् ॥
शतहोमे हस्तमात्रं हस्तमात्रं सहस्रके ।
अयुते तु द्विहस्तं स्याद् क? स्तं वा परिकल्पयेत् ॥
चतुर्हस्तन्तु लक्षे स्याद् द्विलक्षे द्विगुणं स्मृतम् ।
षड् हस्तं दशलक्षे स्यात् कोट्यामष्टकरं स्मृतम् ॥
एकहस्तमितं कुण्डमेकलक्षे विधीयते ।
लक्षन्तु दशकं यावत् तावद्धस्तेन वर्द्धयेत् ॥
दशहस्तमितं कुण्डं कोटीहोमे विधीयते ।
कलौ नैव महेशानि महायज्ञस्य सम्भवम् ॥
महाहोमे कृते लोका अश्वमेधमवाप्नुयुः ।
सर्वसिद्धिकरं कुण्डं चतुरस्रं महेश्वरि ॥
पूल्र? प्रदं योनिमुण्दमर्द्धचन्द्रं धनावहम् ।
शत्रुक्षयकरं त्रास्रं वर्तुलं शान्तिकर्मणि ॥
षडस्रं मारणे प्रोक्तं पुष्टिदं पद्ममुत्तमम् ।
रोगोपनाशनं कुण्डं चतुरस्रं महेश्वरि ॥
विप्राणां चतुरस्रञ्च राज्ञाञ्च वर्तुलाकृतिः ॥
वैश्यानामर्द्धचन्द्रं हि सर्वतन्त्रसमन्वितम् ।
चतुरस्रन्तु सर्वेषामिति * * * सरसम्मतम् ॥
कुण्डस्य रूपं जानीयात् परमं प्रात *र्वपुः ।
(प्. १४ब्) प्राच्यां शिरः समाख्यातं हृदि दक्षिणसौम्ययोः ॥
कुण्डन्तु उदरं ज्ञेयं योनिपादौ तु पश्चिमे ।
एवं कुण्डं विजानीयात् सर्वतन्त्रेषु गोपितम् ॥
नित्यं नैमित्तिकं कर्म स्थण्डिले परिकल्पयेत् ।
बालुकाभिर्विनिर्माय षावदङ्गुलमानकम् ॥
एवं बहूविधं देवि तन्त्रे तन्त्रे निरूपितम् ।
नानावर्णैश्चित्रवर्णैश्चित्रितं सुमनोहरम् ॥
गुण्डीककण्ठसमायुक्तं मृगपादादिसंयुतम् ।
वारहोष्ट्रमृगोष्ट्रञ्च गजोष्ट्रकुर्ममेव च ॥
हस्तिकुम्भसमायुक्तं एवं कुर्याद्विधानतः ।
एवं श्रुवं विजानीयात् मण्डलानि ततः परम् ॥
मण्डलं चतुर्विधं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
पञ्चाजं नवनाभञ्च सर्वतोभद्रमेव च ॥
लघुसर्वतमाख्यातं सर्वतन्त्रसमन्वितम् ।
चतुरस्रं कृतं क्षेत्रं समभागसमन्वितम् ॥
पञ्चधा वा चतुर्द्धा वा चतुष्कं मध्यदेहके ।
सम्भागेन कुर्वीत चतुर्दिक्षु विधानतः ॥
तन्मध्ये विलिखेत् पद्मं सुन्दरं सुमनोहरम् ।
किञ्जल्कसहितं वेश्यं साष्टपत्रं सकर्णिकम् ॥
पद्माद्वहिर्भवेत् पिठं चतुर्दिक्षु विधानतः ।
वीथिका पङ्क्तियुक्तेन भावशोभोपशोभितम् ॥
विधिना विलिखेन्मण्डलं सर्वतन्त्रसमन्वितम् ।
नानाचुर्णैः पुरषेत् तं विधिना साधकः सदा ॥
रञ्जयेत् पञ्चचुर्णेन मण्डलं सुमनोहरम् ।
पीतं हरिद्रचुर्णञ्च शुक्लं शालिअसमुद्भवम् ॥
कौशम्भं लवणं प्रोक्तं कृष्णं दग्धपुलाकजम् ।
अथवा नीलचूर्णं स्यात् कृष्णवर्णमुदाहृतम् ॥
बिल्वादिपत्रजं श्याममित्युक्तं पञ्चवर्णकम् ।
नानाचुर्णेन तत् पद्मं रचयेद्विधिनामुना ॥
कर्णिकां पीतवर्णेन केशराण्यरुणेन च ।
शुक्लाअनि पत्रवर्णानि अग्ररक्ता समीरिता ॥
उपशोभा पातवर्णेन सत्वानि श्यामलेन च ।
अथवा रक्तवर्णेन रचयेत् कर्णिकां सुधीः ॥
यत्र तत्र यथास्थाने पद्मं तत् रचयेत् क्रमात् ।
सुन्दरार्थमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
पीन्तु? तत्र सम्प्रोक्तं पद्मानि शुक्लसम्भवम् ।
द्वाराणि शुक्लवर्णानि शोनरक्ता समीरिता ॥
उपशोभा पीतवर्णा कोणानि अरुणानि च ।
पीठादनन्तरं दद्याल्लतिका कल्पसंज्ञका ॥
नानवर्णेन सा कार्या फलपुष्पसमन्विता ।
सर्वत्र समभगेन मण्डलं रचयेत् सुधीः ॥
सर्वाणि दृश्यते यस्मात् तन्त्राणि सुमनोहरम् ।
राक्षसं पूजयेत् पूर्वे वास्त्वधीशं विशालधीः ॥
कृतेन येन मन्त्रज्ञो दीक्षायाः फलमश्नुते ।
राक्षसं वास्तनामानं हत्वाधिष्ठाय तत्तनुम् ॥
घोरदंष्ट्रं महाकायं पिङ्गाक्षञ्च त्रिलोचनम् ।
कपालखट्टाङ्गधरं स्वकीयगुणसंयुतम् ॥
गुजयेद्गन्धपुष्पाद्यै रक्तमांसादिसंयुतः ।
तस्याज्ञाञ्च पुरा कृत्वा वास्तुयागं विधीयते ॥
सर्वतो भद्रकं नाम कथितं पद्मयोनिना ।
उपशोभां परित्यज्य लघु सर्वत्र नामकम् ॥
(प्. १५) चतुरस्रं भुवं कृत्वा समभागेन देशिकः ।
नवपद्मं लिखेत् तत्र विधिनानेन पार्वति ॥
सुन्दरं सदृशं कुर्यात् नानावर्णेन देशिकः ।
नवलाभमिदं प्रोक्तं मण्डलं सर्वसिद्धिदम् ॥
चतुष्कोणे दिशि मध्ये लिखेत् पद्मं सुलक्षणम् ।
पञ्चनाभमिदं प्रोक्तं मण्डलं सुमनोहरम् ॥
येन तेन प्रकारेण देवपुजाविधानके ।
अवश्यमेव कर्तव्यं मण्डलं विधिनामुना ॥
तदा भवति सा देवी सुप्रीता भवसुन्दरी ।
सर्वतो दृश्यते भद्रं सर्वतोभद्रसंज्ञकम् ॥
नानाचूर्णेन संयुक्तं मण्डलं सर्वतन्त्रके ।
अथ वक्षो महेशानि वास्तुयागं सुशोभनम् ॥
सर्वमङ्गलकार्येषु वास्तुयागं देशेत् पुरा ।
पृथिवीं प्रणमेदादौ मन्त्रेण नेन देशिकः ॥
ओं सर्वरत्नसमकीर्णे वसुधे सिन्धुमेखले ।
सिद्धिं देहि जगन्मातः सर्वभीष्टफलाप्तये ॥
चास्तयागं विनाअ देवि न कर्म किञ्चिदाचरेत् ।
चतुरस्रं भुवं कुर्यात् समरेखा शिता शुभा ॥
कर्णसुत्रमिदं दद्यात् समभागेन देशिकः ।
नानावर्णैः समारेखा सुन्दरी सुमनोहरा ॥
रञ्जरेत् पञ्चवर्णेन विधिनानेन देशिकः ।
पूजयेत् तत्र तान् देवान् यथा भागेन देशिकः ॥
यथोक्तविधिना देवान् यथास्थाने च देशिकः ।
पूजयेद्विधिनानेन गन्धपुष्पादिचन्दनैः ॥
नालोपहारवलिभिर्न्नानान्नैः पुपशृपकैः? ।
पूजायद्विधिना धीमान् धूपदीपान्नवारिभिः ॥
ब्रहाणं पूजयेत् तत्र मध्यकोष्ठचतुष्टये ।
दिक्चतुष्.के तु पूर्वादि पूजयेद्विधिना ततः ॥
पूजयेत् परया भक्त्या सर्वकार्यार्थसिद्धये ।
द्वौ द्वौ कृत्वा यजेद्देवि सर्वसिद्धिफलाप्तये ॥
अर्चयेद्दिक्षु पूर्वादि क्रमतो विधिना त *? ।
देवसाधकयोर्मध्ये तत् सर्वं कथितं प्रिये ॥
अर्यामनं विवस्तन्ता? तथा मित्रमहाधवम् ।
पूजयेद्विधिना पूर्वं यथोक्तेनैव साधकः ॥
वह्न्यादि कोणार्द्धद्वन्द्वेषु पूजयेत् परितः सुधीः ।
सावित्रां सवितारञ्च् शुक्रमिन्द्रयमं पुनः ॥
रुद्रं रुद्रवनञ्चैव आपं आप्यापवत्सकम् ।
तत् कर्णसुत्रस्यो भयतः कोष्ठेषु परितः पुनः ॥
पूर्वादिषु क्रमेणैव पूजयेद्विधिनामुना ।
सर्वं शुद्धं चार्यामनं जम्भकं निपिपित्सकम् ॥
अर्चयेद्दिक्षु पूर्वादि ततः कोष्टावसारके ।
ईशानाद्यैरपर्जन्यो जयस्तः शत्रुभाष्करः ॥
सद्योवृवान्तरीक्षश्च ततः पूर्वे यजेत् सुधीः ।
अग्निपुषा च वितथो यमश्च ग्रहरक्षकः ॥
गन्धर्वभुण्डराणौ? च मृगश्च दक्षिणे यजेत् ।
निमति द्वौवारिकश्च सुग्रीववरुणस्तथा ॥
पुष्पदन्ता सुरेशेय रौगौप्रताग्दिशिस्तिता? ।
वायुर्नागश्च मुख्यश्च सोमो भलाट एव च ॥
मङ्गलाध्यो दित्यदिती सोमस्य दिशि संस्थिताः ।
(प्. १५ब्) एवं बहूविधानेन गन्धपुष्पान्नावारिभिः ॥
पूजयेत् परया भक्त्या ब्रह्मणा भाषितं पुरा ।
नानावर्णैश्चित्रवर्णैश्चित्रितं मणिमण्डलम् ॥
वितानपत्रमालादौ र *? ङ्कुर्याद्विधानतः ।
पताकाभिर्ध्वजं कुर्याच्चतुर्दिक्ष मनोहरम् ॥
अष्टौ कुम्भानष्टदिक्षु मण्डपे रचयेत् सुधीः ।
आचार्याकुण्डं कुर्वीत मधो विदिविधानतः ॥
जाताङ्कुराणि कुर्वीत तत्र तत्र चतुर्दिशि ।
पालिका पञ्चमुख्यश्च सवविश्च ततः क्रमात् ॥
षोडशद्वादशाष्टाभिरङ्गुलीषु क्रमादिमाः ।
सुगन्धितोयपुर्णेन जाताङ्कुरमुदाहृतम् ॥
सुधावीजेन बीजानि निःक्षिपेत् तत्र सर्वतः ।
आचार्यं विधिना कुर्यात् सर्वशास्त्रार्थपारगम् ॥
श्यामाकमायकन्धुश्च ब्रीहयः सर्वसम्मताः ।
दीक्षायाः सप्तमे पूर्वदिवसे संयतः सदा ॥
सप्तरात्रिषु कूर्वीत पूजनं सर्वदेवताः ।
नानोपहारवलिभिः पूजयेत् परमेश्वरीम् ॥
प्रणवाद्यैर्नमोऽन्तैश्च पूजयेत् परमेश्वरीम् ।
भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हविः ॥
क्रमेण पूजयेत् सर्वान् सप्तरात्रिषु देशिकः ।
सप्तानामपि रात्रीणां देवता सर्वसम्मता ॥
उपहारैः पूजयेत् तान तानि वक्ष्यामि पार्वति ।
लाजाभिः पूजयेद्भूतान् गन्धपुष्पादि चन्दनैः ॥
भूताधिपं भूतगणं भूतेशञ्चा क्र्मेण तान् ।
ति? लहरिद्रादधिशक्तुभिः पूजयेदुपहारकैः ॥
तण्डुलान् तिलसम्मिश्रान् सान्नपुष्पैः प्रपूजयेत् ।
पितॄणां पूजयेन्नित्यं कथितं पद्मयोनिना ॥
करम्भजालायक्षेभ्यो नारिकेलोदकान्वितम् ।
गुडेदेकं गुडान्नञ्च नानारससमन्वितम् ॥
दधिदुग्धं पायसान्नं यद्यच्च प्रियता महत् ।
विष्णवे विनिवेद्योथ सर्वसिद्धिं लभेन्नरः ॥
तदालोकेश्वरेभाश्च पूजयेत् कर्मसिद्धये ।
मातृकाः पूजयेत् तत्र गौर्याद्याः सर्वदेवताः ॥
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा ॥
आत्मदेवता कुलदेवता पूजयेत् क्रमतः सदा ।
गणेशाद्याः पूजयेत् ता क्षमस्वेति क्रमाद्वदेत् ॥
वसोर्धारा तदा देया सर्वविघ्नविनाशिका ।
पूजयेत् परया भक्त्या द्वारोपरिचरं रुधः ॥
तदा नान्दीयुधश्राद्धं कुर्याच्च विधिनामुना ।
पितरं पितामहञ्चैव तथैव प्रपितामहम् ॥
जीविते पितरि कुर्यात् श्राद्धं तत् पितृपूर्वकम् ।
मातामहं प्रमातामहं वृद्ध प्रमातामहन्ततः ॥
षट्पिण्डं प्रक्षिपेद्देवि अनुद्दिश्य स्वशक्तितः ।
नामगोत्रानुरोधेन श्राद्धं कुर्याद्विधानतः ॥
देवता पूर्वकं श्राद्धं कुर्यान्नान्दीमुखं पुनः ।
पुरोरवोमाद्रवसौ सर्वकार्येषु देवताः ॥
सर्वदेवक्रमेणैव श्राद्धे दद्याज्जलाञ्जलिम् ।
पुण्याहं वावयित्वा च सर्वकर्मसमुद्दिशेत् ॥
(प्. १६) सर्वत्र सर्वकार्येषु गणेशघटपूर्वकम् ।
गणेशं सवितारञ्च शिवमतः परम् ॥
विष्णुञ्च पूजयेद् यत्नात् सर्वकार्यार्थसिद्धये ।
लक्ष्मीं सरस्वतीं गङ्गां यमुनां विघ्ननाशिनीम् ॥
दिक्पालान् दिग्गजान् देवान् ऋषीन् मणिगणांस्ततः ।
वासराणि तिथिर्योगान् करणानि च पार्वति ॥
पूजयेत् परया भक्त्या सर्वतन्त्रसमन्विता ।
तदग्निं प्रज्वलेत् कुण्डे विधिनानेन देशिकः ॥
पूर्वोक्तकुण्डवर्गेषु क्रमेणैव सुसाधकः ।
प्रज्वलेद्विधिना वह्निं मन्त्रवाचनपूर्वकम् ॥
मूलमन्त्रेण तं कुण्डं सङ्कुर्याद्विधिनामुना ।
यस्य लोकस्य यं मन्त्रं दद्याच्च विधिना गुरुः ॥
तं मूलमन्त्रं विज्ञेयं सर्वतन्त्रसमन्वितम् ।
अथवा कथयष्येऽहं शृणुष्व कमलानने ॥
कवचेनास्त्रेमन्त्रेण तं कुण्डं खननं स्मृतम् ।
प्रोक्षयेत् तच्चरणेनैव सर्वतन्त्रसमन्वितम् ॥
पान्तं हलटसमायुक्तमन्त्रमन्त्रं विदुर्बुधाः ।
शिवबीजं समुद्धृतय षष्ठस्वरसमन्वितम् ॥
बिन्दुनादसमायुक्तं कवचं परिकीर्तितम् ।
मायाबीजञ्च तं बिद्यां महाकालवचो यथा ॥
मायाबीजेन अस्त्रेण समं कुर्याद्विधानतः ।
लज्जाबीजेन तं कुण्डं लेपनं परिकीर्तितम् ॥
शान्तं वह्निसमायुक्तं नादबिन्दुविभूषितम् ।
लज्जाबीजमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
मायाबीजेन अस्त्रेण तं कुण्डं सेचयेत् ततः ।
तत्र रेखा प्रकर्तव्यास्तिस्रः तिस्रः क्रमेण ताः ॥
प्रागग्रा उदगग्रास्तः सर्वतन्त्रसमन्विताः ।
यावान् कुण्डस्य विस्तारस्तावान् ताः समभागताः ॥
कुशेन कुशमूलेन समभागेन देशिकः ।
ताः कुर्व्यान्मूलमन्त्रेण कवचेन तथा प्रिये ॥
अथवा कवचेनैव शिखां कुर्याद्विधानतः ।
प्रागग्राणां स्मृता देवा मुकुन्देशपूरन्दराः ॥
रेखाणामुदग्राणां ब्रह्मवैवस्वतेन्दवः ।
पूजयेद्गन्धपुष्पाद्यैः कुण्डाभान्तरदेशके ॥
रेखासु पूजयेद्देवान् ततः षट्कोणमारभेत् ।
कुण्डस्य मध्ये कुर्वीत षट्कोणमतिसुन्दरम् ॥
तत्रापि पूजयेदग्निमावाहनपूरःसरम् ।
सर्वत्र प्रणवेणैव कवचेनैव पार्वति ॥
संस्कुर्यात् तथा रेखाः सर्वतन्त्रसमन्विताः ।
वागीश्वरीमृतुस्नातां ततः सुक्ष्मस्वरूपिणीम् ॥
वागीश्वरसमायुक्तां शृङ्गाररसिकां युताम् ।
सर्वालङ्कारसंयुक्तामकालजलदोपमाम् ॥
नानोपहारवलिभिः पूजयेद्गन्धचन्दनैः ।
एवं ध्यात्वा पूजयित्वा तत्राग्निज्वलनं दिशेत् ॥
चतुर्भूजं रक्तवर्णं सर्वलङ्कारसंयुतम् ।
सुर्याकान्तसमुद्भूतमथवा लोहसम्भवम् ॥
सवानस्योद्भवं वापि पाषाणसम्भवन्तथा ।
मुखतः संसृजेद्वापि वेदमन्त्रविधानतः ॥
विद्युदग्निसमुद्भूतं यत्नाद्वा आनयेत् ततः ।
द्विजगेहात् तथानीर अग्निं ब्राह्मणसंयुतम् ॥
संस्कुर्याद्विधिना चैव मन्तेणानेन देशिकः ।
(प्. १६ब्) कवचं प्रणवाद्यञ्च अस्त्रान्तं मन्त्रमुद्धरेत् ॥
निरस्तं परवारेड प्रक्षिपेद्दक्षिणे सुधीः ।
क्रव्यादांशस्य त्यागेषु मन्त्रमेनं समुद्धरेत् ॥
शरेण वह्निबीजेन कवचेन महेश्वरि ।
ज्वालयेत् कुण्डमध्ये च तं वह्निं शुभहेभवे ॥
देनुमुद्रां तदा तत्र दर्शयेद्वह्निमुर्द्धनि ।
अस्त्रेण रक्षयेदग्निं कुण्डेषु विधिनामुना ॥
कवचेनावगुण्ठ्यापि ततः कुण्डोपरिभ्रमेत् ।
प्रणवेण परिभ्राम्य वह्निबीजेन पूजयेत् ॥
गन्धपुष्पादिना देवीं तदा वागीश्वरीं प्रिये ।
क्षालयेन्मनुनानेन वह्निस्तत्र समन्वितः ॥
बिन्दुनादसमायुक्तं सान्तं बीजं समुद्धरेत् ।
शिवबीजेमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
तदाग्निं ज्वालयेत् तत्र मन्त्रेणानेन देशिकः ।
चित् पिङ्गल दह दह पच युग्ममुदीर्या च ॥
सर्वं ज्ञापय जायान्ता वह्नेस्तत्र समन्वितः ।
चन्द्रबीजं नान्तर्युक्तं मुखवृत्तसमन्वितम् ॥
शिवबीजं तथोद्धृता मुखवृत्तं नियोजयेत् ।
वह्निजाया समुदिष्टा सर्वतन्त्रसमन्विता ॥
सुवर्णवर्णं द्यायेद्वह्निसाधकसत्तमः ।
ततोऽग्निः सर्वताङ्गेषु बीजादि विन्यसेत् क्रमात् ॥
मूर्द्ध्नि वज्रं तथा प्राणपायुलिङ्गेषु देशिकः ।
चक्षुर्युग्मं न्यसेज्जिह्वां वह्नेः सर्वाङ्गसिद्धये ॥
बिन्दुनादसमारूप? सादिवान्तान् क्रमेन तान् ।
षष्ठस्वरसमायुक्तान् यकारसहितान् क्रमात् ॥
जिह्वा वह्नेस्तु विविधा ब्रह्मणा भाषिता पुरा ।
सात्वका राजसा चैव तामसा सर्वसिद्धिदा ॥
वह्निमन्त्रेण सर्वत्र विन्यसेत् सर्वसिद्धये ।
हिरण्या गगणारक्ता कृष्णा च सुप्रभा तथा ॥
बहूरूपा च रूपा च सत्वकर्मसुयोजयेत् ।
पद्मरागः सुपर्णा च तथा च भद्रलोहिता ॥
लोहिता च तथा श्वेता धूम्र चैव करालिका ।
रजोगुणयुताः सर्वाः सर्वकार्येषु योजयेत् ॥
विश्वमूर्तिस्फुलिङिन्यो धूम्रवर्णो जरा तथा ।
लोहिता च करालाख्या काली च तदनन्तरा ॥
क्रूरकर्मणि सप्तैता योजयन्ति विधानतः ।
जिह्वा स देवता वर्णः शृणुष्व हरवल्लभे ॥
गुणवर्णात्मिका जिह्वा कथिता तन्त्रवेदिभिः ।
अमराः सर्वगन्धर्व यक्षगन्धर्व पिशाचकाः ॥
साक्षमः सप्तजिह्वानां देवताः समुदीरिताः ।
पूजयेद्गन्धपुष्पाद्यैः र्धूपदीपावरादिभिः ॥
प्राणप्रतिष्ठां कुर्वीत प्राणमन्त्रेण देशिकः ।
अष्टोङ्गे चाष्टमन्त्राणां विन्यसेद्देशिकोत्तमः ॥
मूर्द्ध्नि अंशे च कट्याञ्च पार्श्वयोः कटिदेशके ।
हृदये विन्यसेन्मन्त्रान् सर्वतन्त्रसमन्वितान् ॥
जातवेदाः सप्तजिह्वा हवावाहनसंज्ञकः ।
अश्वोदरजसंज्ञोऽन्यः पूर्वविश्वनराह्वया ॥
कौमारतेजा स्यात् विमुखस्ततश्चाग्निमुखः स्मृतः ।
ताराश्रये पदानि स्युर्न तास्ता वह्निमूर्तयः ॥
अङ्गुषादिक्रमेण हि विन्यसेद्विधिनामुना ।
अङ्गुष्ठा तर्जनी मध्यानामिका च कनिष्ठिकाः ॥
सर्वाङ्गुलिकरद्वन्द्व प्रतिलोमतः परः ।
(प्. १६) आवाहनादिकं कृत्वा आसनं परिकल्पयेत् ॥
वह्नये नम इत्व्युक्तं आसनं प्रणवादिकम् ।
तदा ध्यायेच्च तं वह्निं मन्त्रेणानेन देशिकः ॥
रक्षयेत् परतो वह्निं तत्तोयैस्तस्त? वेदिभिः ।
वह्निबीजेन देवेशि कवचेन शुभेन च ॥
प्रणवेन नमोऽन्तेन फडन्तेन यथाविधि ।
दक्षिणावर्तयोगेन जलरेखा निवेदयेत् ॥
तथा कुशेषु सर्वत्र चतुर्दिक्षु सुसाधकः ।
मुलाग्रेण च संस्पृश्य पूर्वाग्रेण विधानतः ॥
स्वदक्षिणप्रमाणेन ततः कुर्यात् परिस्तरम् ।
कवचेन चतुर्दिक्षु कुशप्रस्तरणं स्मृतम् ॥
सम्मुखं वर्जयित्वा च कथितं पद्मयोनिना ।
तदा देवीं तदा देवं ततः कुर्याद्विसर्जनम् ॥
क्षमस्वेति च मन्त्रेण सर्ववेदानुसारतः ।
स्वस्थानं गच्छ देवेशि शक्तियुक्तः सदाशिवः ॥
वैश्वानरं जातवेदं तदा क्रयादिहावहः ।
लोहिताक्षपदं क्रमात् सर्वकर्माणि साधकः ॥
वह्नेर्जायावधिर्विद्या रेफाद्या सर्वसिद्धिदा ।
मन्त्रोद्धारमिदं वह्नेर्विंशत्येकोणवर्णकैः ॥
आवाहनस्य मन्त्रोऽयं कथितं पद्मयोनिना ।
षट्कोणे कुण्डमध्ये च जिह्वास्ताः पूजयेत् क्रमात् ॥
गन्धपुष्पान्ननैवेद्यैर्धुपदीपैर्श्च चन्दनैः ।
लोकपालानष्टकुन्ते पूजयेत् पूर्वयोगतः ॥
इन्द्रं वह्निं यमं रक्षः वरणञ्च नभःस्वतम् ।
स्वधान्तं पूजयेदीशं शस्त्रवाहनभूषणम् ॥
ईशाने तत्र ब्रह्माणं नैर्-ऋते सर्पराजकम् ।
पूजयेदासनेष्वेतान् सर्वकामार्थसिद्धये ॥
कृष्णवर्णं तथा कृष्णं नीलवर्णं ततः परम् ।
अनन्तं चिन्तयेद्धीमान् वह्नेश्चैव चतुर्दिशि ॥
वज्रं शक्तिं तथा दण्डं खड्गपाशं ततः परम् ।
धूम्रवर्णं शुक्लवर्णं कृष्णवर्णं ततः परम् ॥
शुद्धवर्णं तथा शुद्धं पूजयेन्मूर्द्ध्नि योगतः ।
ब्रह्माणं रक्तवर्णञ्च शुक्लवर्णं ततः परम् ॥
अनन्तं चिन्तयेद्धीमन् वह्नेश्चैव चतुर्दिशि ।
वज्रं शक्तिं तथा दण्डं खड्गपाशं ततः परम् ॥
अङ्कुशञ्च गदां शूलं पद्मं चक्रं ततः परम् ।
दिक्पालानामिदं प्रोक्तं मन्त्रतन्त्रसमन्वितम् ॥
अस्त्राणां वरवर्णानां वक्ष्यामि शृणु पार्वति ।
पीतं हिमाभं शुक्लाभं भास्वरं कन्दवर्णकम् ॥
नीलञ्च करबीजञ्च गौरं शुक्लं ततः परम् ।
ईषद्रक्तं श्वेतारुणं क्रमतः परिकल्पयेत् ॥
पूजयेद्वाहनं तत्र स्वस्थानेन यथाविधि ।
ऐरावतमजं वाहं नरं मकरमेव च ॥
मृगमश्वं वृषं हंसं कुर्मञ्च देशिकः क्रमात् ।
मूलमन्त्रेण सर्वत्र कवचेन तथैव च ॥
श्रुवस्य शोधनं कृत्वा इत्तरस्यां दिशिक्षिपेत् ।
अस्त्रमन्त्रेण तां शा? लीं तेनैव संस्कृतं दिशेत् ॥
कुशपत्रद्वयं तत्र मूलमन्त्रेण निःक्षिपेत् ।
होमार्थं निःक्षिपेत् तत्र घृतं मन्त्रं समुच्चरन् ॥
कुशपत्रद्वयं पश्चाद्धुनेद्वह्नौ विधानतः ।
(प्. १७ब्) हृदयेनैव मन्त्रेण कथितं पद्मयोनिना ॥
सर्वाङ्गेसम्मरेत् तत्र वह्नेः सर्वसमृद्धये ।
नाडीं प्राणांस्तथा दन्तान् मुखं वा कुक्षिकर्णयोः ॥
गण्डयोरोष्ठयोरग्नेः पायुपस्थं कटिं तथा ।
नितम्बमुदरं स्मृत्वा जानुयुग्मं कटिद्वयम् ॥
भूजद्वन्द्वं नसिद्वन्द्वं जिह्वा पृष्ठं ततः परम् ।
स्तनद्वन्द्वं ग्रीवामूलं लोमकूपं ततः परम् ॥
ततो ध्यात्वा घृतं दद्यात् समृद्धये ।
एभिमन्त्रैर्महेशानि इन्द्राणि विनिमर्द्धयेत् ॥
कवचं प्रणवेनैव अग्निशब्दं ततः परम् ।
स्वाहान्ता कथिता विद्या अग्नेर्दक्षिणयोगतः ॥
तत्वबीजं समुद्धृत्य सोमाय वह्निवल्लभा ।
वामलोचनतो दद्यादाहूतिः सर्वसिद्धये ॥
तदाग्नीसोमाभ्यां क्रषात् स्वाहान्ताः सर्वसम्मताः ।
वह्निबीजं अग्निं ङेन्तं समुद्धरेत् ॥
तदास्विष्टिकृतं क्रयात् स्वाहान्ताः सर्वसम्मताः ।
तन्मुखे जुहूयाद्धीमान् स्वाहा सर्वसमृद्धये ॥
पूर्वबीजद्वयं स्मृत्वा ङेऽन्तमग्निं समुद्धरेत् ।
प्रत्येकेन च प्रत्यङ्गं स्वाहान्तं मन्त्रपूञ्जकम् ॥
समुद्धृत्य तदा तद्यात् अग्नेरङ्गसमृद्धये ।
वह्निबीजेन प्रत्यङ्गे दद्यादाहूतिकं क्रमात् ॥
पुनः पुनश्च जुहूयाद्वह्निबीजेन सर्वतः ।
प्रत्येकैकाहूतिं दद्यात् सर्वाङ्गोऽपाटने बुधः ॥
मूलमन्त्रेण तत्राग्नौ पञ्चविंशाहूतिः क्षिपेत् ।
वह्निदेवतयोरैक्यं चिन्तयेद्विधिनामुना ॥
ब्रह्मणे सृष्टिकर्त्रे च तदा दद्यात् प्रजायतेः ।
ओङ्काराद्या नमोऽन्ताश्च स्वाहाशक्तिसमन्विता ॥
इड्यग्निज्वलनं प्रोक्तं महाकालं मतं प्रिये ।
अथ द्रव्यविधिं वक्ष्ये होमार्थं मानसंयुतम् ॥
कर्षमात्रं घृतं प्रोक्तं तन्मानन्तु पयः स्मृतम् ।
पञ्चामृत'न्च तन्मानं तत्समं मधुदुग्धयोः ॥
गव्यं यत् तत् समानं स्यात् लाजाद्यामुष्टिसम्मता ।
ब्रीहयो मुष्टिमात्राः स्युन्तद्विकारस्तथैव च ॥
गुडादिकं पलार्द्धं स्यात् सर्वतन्त्रसमन्वितम् ।
फलमेकैकं संस्निग्धं पत्रं पुष्पं तथैव च ॥
वृहत्फलं खण्डखण्डं यथोक्तं प्राह संयुयुतम् ।
अनुग्राससमं कुर्यात् सर्वतन्त्रसमन्वितम् ॥
सुक्तिप्रमाणं लवणं मरिचान्यपि विंशतिः ।
गुग्गुलं तिन्तिडीबीजं हिङ्गुञ्च तादृशं स्मृतम् ॥
चन्दनागुरुकर्पुरकस्तुर्कस्तुरीकुङ्कुमानि च ।
सर्वत्र सर्वतन्त्रेषु होममानमुदाहृतम् ॥
अघोरञ्च तदा दद्यात् प्रत्यघोरं ततः परम् ।
इन्द्राय पदमुद्धत्य इत्तराग्रं पुराक्षिपेत् ॥
षमाष? पदमुद्धत्य पूर्वाग्रं वरुणं तथा ।
सोमार च ततो दद्यात् सर्वद्वारचतुर्दिशि ॥
दक्षिणावर्तुःयोगेन आसनं परिकल्पयेत् ।
(प्. १८) तत्रोपरि सदा ध्यायेदिष्टदेवं विधानतः ॥
अथाङ्गहोमसानस्य फलं वक्ष्यामि पार्वति ।
विअश्यानरं सदा ध्यायेत् समिद्धोमेषु पार्वति ॥
समानमाज्यहोमेषु ध्यायेद्वह्निं विचक्षणः ।
तन्मुखे जुहूयात् सर्वं होमे सर्वसमृद्धये ॥
कर्णहोमे भवेद्याधिर्नेत्रे कुजोकृतिर्भवेत् ।
नासिकायां मनः पीण्दा मस्तके धनसङ्क्षयः ॥
सर्वकार्ययेषु सर्वत्र मुखे होमं दिशेत् सुधीः ।
अग्नेर्नामानि वक्ष्यामि शृणुष्व कमलानने ॥
काम्यकर्मसु नित्येषु कुर्याद् यत्नेन देशिकः ।
अग्नेस्तु मरुतो नाम गर्भाधाने विधीयते ॥
चन्द्रमाः पुंसवने ज्ञेयः पौष्टिके शृङ्गनामकः ।
शीमन्ते मङ्गलो नाम प्रगल्भो जातकर्मणि ॥
नाम्ना वै पार्थिवो वह्निः प्राऽसने शुचिनस्तथा ।
सत्यनामा च चुडायां ब्रतोद्देशे समुद्भवः ॥
गोमेधे धृर्यनामा च विवाहे योजकः स्मृतः ।
सर्वत्र सर्वकार्येषु योजको ब्रह्मसम्मतः ॥
देवानां हव्यवाहः स्यात् पितॄणां कव्यवाहनः ।
अग्नेस्तु तेजसो नाम रौद्रहोमे विधीयते ॥
शान्तिहोमे शिखी नाम उतसर्गे जातवेदसः ।
भूमौ शुद्धौ हसुर्नाम स्वजाते च धनञ्जयः ॥
लक्षहोमे भवेद्वह्निः कोटिहोमे हू? ताशनः ।
शान्तयर्थे अग्निनामा च वारुणे च हू? ताशनः ॥
विष्णुहोमे हू? तश्चैव कल्याणे भद्र एव च ।
वह्नेर्नाम इदं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
अन्येषु काम्यकर्मेषु योजकः सर्वसम्मतः ।
अथाग्निवर्णं वक्ष्यामि शृणुष्व कमलानने ॥
स्वर्णसिन्दुरवालार्क कुङ्कुमक्षौद्रसन्निभः ।
सुवर्णरेतसो वर्णः शोभनः परिकीर्तितः ॥
अथ स्वरं प्रवक्ष्यामि वह्नेः सर्वसमृद्धिदम् ।
भैरवादीन् दहन्तीव्रधवनिरग्नेः शुभावहः ॥
नागचम्पक पुन्नाग पाटला युथिकान्वितः ।
पूष्पेन्दीवर कह्लार सोऽपि गुग्गुलसद्तवः ॥
पावकस्य शुभो गन्धः सर्वतन्त्रसमव्नितः ।
प्रदक्षिणस्त्यक्तकम्पश्च्छत्राभाशिखिनः शिखा ॥
शुभदा यजमानस्य राज्यस्यापि विशेषतः ।
कुन्देन्दुधवलो धूमः सर्वकर्मशुभावहः ॥
कृष्णवह्निगतो वह्निः सर्वनाशं करिष्यति ।
वायसस्वरसंयुक्तं तत्रायुश्च विनश्यति ॥
श्वरस्वरसमो वह्निः सर्वं नश्यति तत्क्षणात् ।
पुतिगन्धो भवेद्वह्निः सर्वनाशं करिष्यति ॥
एवं बहूविधं दोषं तन्त्रे तन्त्रे निरूपितम् ।
सर्वदोषप्रशान्त्यार्थं शताष्टाहूतिकं हूनेत् ॥
वह्निदेवतरोरैक्यं विभाव्य परिचिन्तयेत् ।
तदा हूनेद्वह्निमुखे देवरूपे विधानतः ॥
अथ चक्रं प्रवक्ष्यामि सर्वतन्त्रसमन्वितम् ।
सिद्ध्यादिचक्रं वक्ष्यामि शृणुष्व कमलानने ॥
चतुरस्रं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम् ।
(प्. १८ब्) पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु ॥
अकारादि क्षकारान्तं मूलकोष्ठादितः सुधीः ।
विलिखेत् क्रमयोगेन पूर्वं पूर्वतरेण च ॥
दक्षिणाचतुर्योगेन कोष्ठवर्णान् लिखेत् क्रमात् ।
येनैव लिखनं कुर्यात् तेनैव गणनं स्मृतम् ॥
सिद्धिः साध्यः सुसुद्धोऽरिः क्रमेण चिन्तयेद्बुधः ।
पुनः पुनश्च तत्रैव तद्काम यत्र योगतः ॥
तथैव क्रमयोगेन चिन्तयेद्विधिना ततः ।
दक्षिणावर्तयोगेन क्रमेण गणयेत् सुधीः ॥
सिद्धिः सिध्यति कालेन जपात् साध्यो हूतादिभिः ।
सुसिद्धाः पोषका ज्ञेया अविलम्बं निकृन्तति ॥
धुस्तुरपुष्पसदृशं राशिद्वादशसंयुतम् ।
वानं गौरं खुरं गौणं शमी शोभेति राशिषु ॥
क्रमेण भेदिता वर्णः कन्यायं शादयः स्मृताः ।
अकारादिक्षकारानतान् मेषादिराशियोगतः ॥
मीनान्तं विलिखेत् कोष्ठे वर्णान् देशिकसत्तमः ।
वामदक्षिणयोगेन तान् वर्णान् विलिखेत् सुधीः ॥
तेनैव गणनं कुर्यात् स्वराशिमिलनं स्मृतम् ।
स्वनामकाक्षरं यत्र तत्र तं मिलनं स्मृतम् ॥
एकपञ्च नव बान्धवाः स्मृता द्वौ च षट् दशमन्तमेवकाः ।
वह्निरुद्र मूल षस्तु पोषका द्वादशाष्त चतुरस्रघातकाः ॥
प्राणोभापच्छप्राय रुद्रस्याद्रिरुरुकरम् ।
लोकलोपच्छ प्राय खलोदयातेषु ते दिता थ ॥
वर्णाः क्रमात् स्वरान्यौ ओर रेवत्यां स्वगतस्तथा ।
नक्षत्रचक्रमित्युक्तं वर्णमानेन तं लिखेत् ॥
नवकोष्ठ त्रिः क्रमेण विलिखेत् साधकोत्तमः ।
स्वराशि भावकोष्ठानामनुकुलान् यजेन्मनुन् ॥
जन्ममप्पद् विपत्क्षेमः प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥
अश्वियमानलो धाता शशिरुद्रादिति
गुर्वहिपितृभगार्यमादनकृ? त्वष्टृपवन तथैन्द्राग्नीमित्रेन्दौ निर्-ऋति
जलविश्वदेवा हरिस्तथा वासवः वरुणोऽजैकपादोऽहिव्रध्नपुषेति भानाम् ॥
स्व-ऋक्षेण च देवेन मित्रेण राशियोगतः ।
ऋअक्षस्य मलिनं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
स्वकुलानाकुल्ञ्च क्रमं वक्ष्यामि शृणु पार्वति ।
भूतवर्णात्मकं चक्रं स्वकुलान्यकुलं स्मृतम् ॥
भूतात्मकं मन्त्रवर्णं साधकाय निवेदयेत् ।
स्वकुलं कथितं चक्रं स्वनामाक्षरसंयुतम् ॥
स्वकुलं विभजेन्मन्त्रं नान्यत् कुलं कपञ्चन ।
अग्नेस्तु वायवो मित्रमन्योन्यसरसम्मतः ॥
यद्येकभूतदैवत्यं जानीयात् स्वकुलं हि तत् ।
पार्थिवो वरुणं मैत्रमोग्नेषापि मारुतम् ॥
पार्थिवस्याक्षराणाञ्च शत्रुत्वे मारुतं स्मृतम् ।
आग्नेयस्यान्तसं शत्रुर्नचभसन्तेज एव च ॥
एतेषामेव सर्वेषामविरोधि च नाभसम् ।
परस्परविरुद्धानां न कुर्यान्मलिनं बुधः ॥
जलञ्च वह्निवर्णस्य प्रतिकुलं बिदुर्बुधाः ।
(प्. १९) इन्द्रर्क्षनेत्र रविपञ्च दशर्तुवेद वह्न्यायुधाष्ठनवभिर्गुणितां
साध्यान् ॥
दिग्दृगिवश्रुतिगजाग्निमुनिषु वेद षड्वह्निभिश्च गुणितानथ साधकार्णान् ।
नामाज्झ नादक च वाद्याहूजभुक्तशेषजिज्ञात्वोभयोवधिकशेषमृणं
धनं स्यात् ॥
देवताक्षरं कुर्यात् विचारविधिना ऋणी ।
अन्यथा विपरीतेन तत् सर्वं निष्फलं भवेत् ॥
क्रमेण क्रमयोगेन गृहैरङ्गानि वर्द्धयेत् ।
इन्द्रार्क्षादि विचार्याथ तन्त्रोऽयं क्रमसम्मतः ॥
षट् षट् षट् शून्यमित्युक्तं त्रिचतुष्कद्वयं ततः ।
शून्यं ताञ्च ततः शुन्यं त्रिस्तत्रान्ते निवेदयेत् ॥
देवताङ्गमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
द्वौ द्वौ पञ्च हि शून्यं स्यात् द्वावेकः शून्यमेव च ॥
चतुश्चतुस्तपैकञ्च साधकस्याङ्कमीरितम् ।
अकठमत्रुमेणैव गणनं परिकीर्तितम् ॥
कूर्मचक्रमहं वक्ष्ये जपसिद्धिफलप्रदम् ।
विना विदारात् तत् सिद्धिं न लभेत् कथञ्चन ॥
वर्तुलं नवकोष्ठञ्च कूर्माकारां लिखेत् सुधीः ।
हस्तौ पादौ पृष्थमुखकुक्षिपार्श्वयुगे पुनः ॥
पूर्वादिक्रमयोगेन विलिखेत् साधकः स्वयम् ।
नवकोष्ठे लिखेद्वर्णान् पूर्वादिक्रमयोगतः ॥
पूर्वादिक्रमयोगेन विलिखेदष्टवर्गकान् ।
पञ्च पञ्च पञ्चवर्गः कादिङान्तमिदं क्रमात् ॥
चादि ञान्तं तादिनान्तं टादिणान्तं ततः परम् ।
पादिमान्तं षादिवान्तं चतुष्कं तदनन्तरम् ॥
शादिसान्तं त्रिभिः कुर्यात् हक्षवर्णौ ततः परम् ।
वर्गाष्टकमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
कुक्षिकोष्ठं विनिर्भेद्य नवकोष्ठं विनिर्मयेत् ।
तत्र पूर्वादिक्रमतः द्वौ द्वौ कृत्वा लिखेत् स्वरान् ॥
दिक्षु पूर्वादिविधिना गणनं परिकीर्तितम् ॥
क्षेत्राद्यक्षरकं यत्र तत्र कर्म सुखं स्मृतम् ।
मुखे सिद्धिप्रदः प्रोक्तं करस्थं स्वल्प? जीविनः ॥
उदासीनः कुक्षिसंस्थः पादस्थो दुःखमेव च ।
वन्दनोच्चाटनं कुर्यात् पुच्छस्थं सर्वकर्मसु ॥
कूर्मचक्रमिदं प्रोक्तं सर्वसिद्धिफलप्रदम् ।
रेखाद्वयं पूर्वपरेण कुर्यात् तन्मध्यतो याम्यकुवेरभेदात् ॥
महेशरक्षोऽधिपतिक्रमेण भित्वा तथा वायुहूभाशनेन ॥
अक्लीववर्णान् विलिखेदथादीन् यथाद्यकोष्ठे कडमा भवन्ति ।
मेषाद्यमालिख्य विधानमेतत् यथाण्डजान्ते तु समर्पणं स्यात् ॥
अत्रापि राशेर्विहितो विचारः पराशरव्यासवशिष्ठमुख्यैः ।
यथा तु राशेर्गणनं विधानं पूर्वे महेशानि तथैव चेत् ॥
विना विचारेण यथा भवेच्च न सिध्यते सिद्धिचतुर्युगेषु ।
षट्चक्रशोधितो मन्त्रो नास्ति संसारमध्यतः ॥
काञ्चनं रजतं वापि दिव्यास्त्रं * विशेषतः ।
गुरुसन्तोषणं कृत्वा दद्याद्दीक्षां विशालधीः ॥
ऋणादौ परिदीहात्तु जपं कुर्याच्चतुर्गुणम् ।
(प्. १९ब्) हृदये तु नमःशब्दः शिरसे वह्निसुन्दरि ॥
शिखायै वषडित्युक्त्यं कवचाय हूमीरितम् ।
वौषट् नेत्रेषु विन्देत सर्वाङ्गेऽस्त्राय फट् स्मृतः ॥
अथ मन्त्रस्य जननं वक्ष्यामि तन्त्रसम्मतम् ।
यं ज्ञात्वा सिद्धिमन्त्राणामधिपो जायते नरः ॥
मातृकावर्णभेदेभ्यः सर्वमन्त्राः प्रजज्ञिरे ।
अज्झलैकत्रसंयुक्तं कुटाक्षरमुदाहृतम् ॥
कुटो बीजः प्रकटितः परिभाषासमा स्मृताः ।
यस्तु कुटः स बीजः स्यात् बीजकुटाक्षरः स्मृतः ॥
मन्त्राः पुन्देवताः ज्ञेयाः विद्यास्त्री देवता स्मृता ।
स्त्रीनपुंसकान्मानो मन्त्राः सर्वे समीरिताः ॥
पुम्मन्त्राङ्गफडन्ताः स्युर्द्विठान्ताः स्युस्त्रियो मताः ।
न पुंसका नमान्ताः स्युरित्युक्ता मनुना त्रिधा ॥
स्त्रियो वा पुरुषो वापि वर्णास्ते समुदीरिताः ।
शन्तान्ते त्रिविधा मन्त्रा वश्यशान्त्यभिचारके ॥
अग्निसोमात्मिका मन्त्रा विज्ञेया क्रुरकाम्यया ।
मन्त्रविद्या विभागेन द्विविधा मन्त्रजातयः ॥
कर्मणो विहिता रान्त्य विषत् प्रायसमीरिता ।
आग्नेया वयवः सौम्या भूमिष्ठेन्द्वमृताक्षरा ॥
आग्नेया दक्षिणे संस्था सौम्या वामे नियोजिता ।
सुषुम्नायान्तु ते सर्वे बोधयन्ति मणीषिणः ॥
मन्त्रात्मकन्तु क्षेत्रोऽयं नाड्यो मन्त्रान्तत्मकाः स्मृताः ।
धातवो मन्त्रसंयुक्ता अन्तःकरणमुत्तमम् ॥
अन्तः करण मन्त्रञ्च वचनानि च मन्त्रयुक् ।
रात्रिदिवं मन्त्रमयं सर्वतन्त्रमयं जगत् ॥
विना मन्त्रैर्न किञ्चित् स्यात् ब्रह्माण्डे शृणु भाविनि ।
आगमोक्त विधानेन सर्वं कुर्यादतन्त्रितः ॥
प्रयच्छन्ति फलं सर्वे प्रबुद्धा मन्त्रिणां सदा ।
च्छिन्नादिदुष्टा ये मन्त्रा पालयन्ति न साधकम् ॥
छिन्नोरङ्गशक्तिहीनः पराङ्मुख उदीरितम् ।
रधिरो नेत्रहीनश्च कीलितस्तन्तितस्तथा ॥
दग्धस्तम्भश्च भीतश्च मलिनश्च तिरस्कृतः ।
भेदितश्च केकारवो * * * जीवहीनकः ॥
धूमितो लिङ्गितश्चैव मोहितश्च क्षुधार्तकः ।
अतितृष्णाङ्गहीनश्च अतिक्रूरस्ततः परम् ॥
अतिकुटस्तथाब्रीडः शान्तमानस एव च ।
स्थानभ्रष्टो विकलश्च अतिवृद्धस्ततः परः ॥
निस्नेहः पीडितश्चैव वक्ष्याम्येषाञ्च लक्षणम् ।
यस्यादिमध्यमान्तेषु नीलबीजं स्वराक्रान्तं स एव च्छिन्नः ।
आदि मध्यावशानभूबीजद्वन्द्वं स एव रुद्धः कथितः ।
मायात्रषञ्च प्रणवं रेफहीनं यस्य हीनः स कथितः पद्मयोनिना ॥
कामबीजं मुखे माया शिरस्थङ्गुलमेव च ।
पराङ्मुखं सम्मन्त्रन्तु कथितः पद्मयोनिना ॥
हूङ्कारो बिन्दुसंयुक्तश्चाद्यन्तमध्य इन्दुबीजविवर्जितः ।
स एव वधिरो मन्त्रः सर्वसिद्धिविवर्जितः ॥
पञ्चवर्णो मनुर्यस्य रेफार्केन्दुविवर्जितः ।
नेत्रहीनः सर्वसिद्धिविवर्जिते मन्त्रश्च सः ।
आदौ मध्ये तथाचान्ते हंसप्रसादवाग्भवः ।
बिन्दुयुक्तं हकदरं फट्कारं वा तथैव च ॥
अङ्कुशं वा तथा माया नमामि च ततः परम् ।
स एव कीलितो मन्त्रः सर्वसिद्धिविवर्जितः ॥
एकं मध्ये द्वयं मूर्द्ध्नि षम्मिन्निद्रपुरन्दरौ ।
न विद्याते समन्त्रं स्यात् स्तम्भितः सर्वसिद्धिविवर्जितः ॥
वह्निराद्यसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि ।
सप्तधा दृश्यते तन्तु दग्ल? मन्त्रं प्रचक्षते ॥
अस्त्रं द्वाभ्यां त्रिभिः षड्भिरष्टा भिर्दृश्यतेऽक्षरैः ।
स्तम्भः स कथितो मन्त्रः सर्वसिद्धिविवर्जितः ॥
यस्य मुखे नास्ति माया प्रणवं वा विधानतः ।
भीतः स कथितो मन्त्रः सर्वसिद्धिविवर्जितः ॥
आदौ मध्ये तथाचान्ते यस्य सान्नचतुष्टयम् ।
स एव मलिनो मन्त्रः सर्वविघ्नसमन्वितः ॥
यस्य मध्ये दकारो वा कवचं मूर्र्ध्नि दृश्यते ।
त्रिविधं दृश्यते चास्त्रं तिरष्कृत उदाहृतः ॥
हद्वयं हृदये शीर्षे वषट् वौषट् च मध्यतः ।
स एव भेदितो मन्त्रः सर्वशास्त्रविवर्जितः ॥
त्रिवर्णो हंसहीनो यः स सुषुप्त उदाहृतः ।
मन्त्रो वाप्यथवा विद्या सप्ताधिकदशाक्षराः ॥
फट्कारः पञ्चकादिर्यो मदोन्मत्त उदाहृतः ।
सप्तदशाक्षरा मन्त्राश्चास्त्रमन्त्रं सदा प्रिये ॥
मूर्च्छितः कथितो मन्त्रः सर्वसिद्धिविवर्जितः ।
पञ्चफट् यस्य मन्त्रस्य विरामस्थानसंयुतः ॥
कृतवीर्यः स कथितो नास्ति तस्य प्रयोजनम् ।
सप्तवर्णो भवेद्वाणः कुमारोऽष्टाक्षरः स्मृतः ॥
षोडशार्णो युवा मन्त्रः सर्वसिद्धिविवर्जितः ।
चत्वारिंशल्लिपिर्यस्य प्रौढः स परिकीर्तितः ॥
आदौ मध्ये तथा चान्ते चतुरष्कयुतो मनुः ।
स एव छीनमन्त्रः स्यात् तथा चाष्टादशाक्षरः ॥
त्रिकोणविंशो यो मन्त्रस्तावद्वर्णसमन्वितम् ।
हृल्लेखाङ्कुशबीजाढ्यं प्रध्वस्तस्त्वं प्रचक्ष्यते ॥
द्वाविंशत्यक्षरी विद्या माया कामविवर्जिता ।
ध्वस्तरूपा च सा विद्या सर्वसिद्धिविवर्जिता ॥
मूर्च्छिता कथिता विद्या मन्त्राणां हानिकारिणाम् ।
त्रिंशद्वर्णश्चतुः षष्टिवर्णो मन्त्रः शताक्षरम् ॥
चतुःशताक्षरश्चापि वृद्धः स परिकीर्तितः ।
नवाक्षरो ध्रुवयुतो मनुर्नित्रिंशदैवतः ॥
यस्यावसाने च हृदयं शिवौ मन्त्रो च मध्यतः ।
शिखावर्म संयुक्तं वषट् वौषट्कार एव च ॥
शिवशक्त्यर्णहीनो वा स निर्बीज उदाहृतः ।
एषु स्थानेषु फट्कारः षोढा यस्मिन्न विद्यते ॥
स मन्त्रः सिद्धिहीनः स्यात् सर्वतन्त्रविवर्जितः ।
द्विवर्णं सत्वहीनः स्यात् चतुर्वर्णस्तु केकरः ॥
षडक्षरो बीजहीनस्तच्च सप्ताक्षरो मनुः ।
सार्द्धद्वादशवर्णोऽपि धुमितः सत्वनन्दितः ॥
सार्द्धबीजस्त्रयस्तद्वदेकविंशतिसंज्ञकः ।
विंशत्यर्णस्त्रिंशवर्णो यः स्यादाल्लिङ्गितः स्मृतः ॥
द्वात्रिंशदक्षरो मन्त्रो मोहितः परिकीर्तितः ।
चतुर्विंशति मन्त्रोऽयं सप्तविंशतिवर्णकः ॥
क्षुधार्तः स तु विज्ञेयः सर्वतन्त्रविवर्जितः ।
चतुर्विंशतिवर्णो यः सप्तविंशति संज्ञकः ॥
एकादशाक्षरो वापि पञ्चव्ंशति वा प्रिये ।
एषोविंशति वा वर्णः स मन्त्रस्त्वङ्गहीनकः ॥
षड्विंशत्यक्षरो मन्त्रः षड्विंशदर्णकस्तथा ।
त्रिंशदेकोणवर्णो वा अङ्गहीनः स एव च ॥
अष्टाविंशत्यक्षरो य एकविंशदथापि वा ।
अतिक्रूरं सविज्ञेयो निन्दितः सर्वकर्मसु ॥
पञ्चषष्ठाक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः ।
एकोणशतपर्यान्तं पञ्चषष्ठाक्षरादितः ॥
ते सर्वे विफला ज्ञेया शतं सार्द्धं शतन्तु वा ।
शतद्वयं त्रिनवतिरेकहीनाथ सापि वा ॥
यावत् शतत्रयं सङ्ख्या निःस्नेहास्ते प्रकीर्तिताः ।
चतुःशतान्यथावच्च यावद्वर्णसहस्रकम् ॥
अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्जितः ।
सहस्रार्णाधिका मन्त्रा दण्डकापीडिताह्वया ॥
द्विसहस्राङ्ग वा मन्त्राः खण्डशः शतधा कृताः ।
ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः ॥
तथा विद्याश्च बोद्धव्या मन्त्रभिः काम्यकर्मसु ।
दोषान्वितमविज्ञाय यो मन्त्रं भजते बुधः ॥
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ।
यदा दोषमविज्ञाय मन्त्री विद्यां भजेन्नरः ॥
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ।
छिन्ना दुष्टाश्च ये मन्त्रा तन्त्रे तन्त्रे निरूपिताः ॥
ते सर्वे शोधमायान्ति मातृकार्णप्रभावतः ।
मातृकार्णं पुटीकृत्य मन्त्रविद्यां विशेषतः ॥
शतमष्टोत्तरं पूर्वे प्रजपेत् फलसिद्धये ।
तदा मन्त्रो महाविद्या यथोक्तफलदो भवेत् ॥
मातृकापुटिते कृत्वा मध्ये वर्णान्निधाय च ।
मन्त्रान् वर्णान् ततः कुर्याद् बोधनं सर्वसम्मतम् ॥
योनिमुद्रां विधायाथ प्राणायामपुरःसरम् ।
ब्राह्मणान् भोजयेदादौ शतमष्टोत्तरं प्रिये ॥
तदाहूनेन्महेशानि द्रव्याणि विधिनामुना ।
गुडत्वकं हूनेदादौ शतमष्टाहूतिं प्रिये ॥
लाजान् हूनेत् तदा देवि शतमष्टोत्तरः हूतीः ।
नानासुगन्धिद्रव्याणि शतमष्टोत्तराहूतीः ॥
सहस्राष्टोत्तरं तत्र हूनेदाह्यं विधानतः ।
वस्त्रालङ्कारकं तत्र विभवस्यानुरूपतः ॥
ताम्बूलकर्पुरादिनि यथा विभवयोगतः ।
सुवर्णं रजतं गाञ्च आचार्याय निवेदयेत् ॥
तदा भवेन्मन्त्रसिद्धिः सर्वतन्त्रमन्वितः ।
एकाक्षरी भूवनेशान्या गणेशस्य शिवस्य च ॥
विष्णुरेकाक्षरञ्चैव सुर्यास्य प्रणवस्तथा ।
श्रीरामस्य तथा वह्नेः सिद्धिविद्यादयश्च ये ॥
तेषां ग्रहणमात्रेण सिद्धादिदुषणं नहि ।
मोहाद्वा यदि वा दैवाच्छोधयेदात्मशुद्धये ॥
देवता जायते सैव लङ्करस्य मतेन च ।
अथ दीक्षां प्रवक्ष्यामि श्र्णुष्व कमलानने ।
यस्य विज्ञानमात्रेण देवत्वं लभते नरः ।
दिव्यज्ञानं यतो दद्यात् कुर्यात् पापक्षयं यतः ।
तस्याद् दीक्षेति सा प्रोक्ता सर्वतन्त्रसमन्विता ।
(प्. २१) चतुर्विधा तु सा दीक्षा ब्रह्मण भाषिता पुरा ॥
क्रियावती वर्णमयी कलावती वेधमययपि ।
ताः क्रमेणैव कथान्ते सर्वस्म्पत् प्रदाः शुभाः ॥
गुरोर्निमन्त्रणं कुर्यात् पूर्वेद्युः साधकः सदा ।
वस्त्रालङ्कारस्वर्णैश्च गोभिश्चैव विधानतः ॥
छिन्नादिमन्त्रविद्यासु महाविद्यामहासु च ।
शोधनञ्च न कुत्रापि शङ्करस्य मतेन च ॥
छिन्नायां कालिकायाञ्च सुन्दर्यास्त्रिपुरा तथा ।
उग्रतारापि विद्यासु तथा एकाक्षरीषु च ॥
यक्षिणी गणमन्त्रेषु विष्णुमन्त्रगणेषु च ।
नारसिंहेषु मन्त्रेषु माहेशे गाणपतेषु च ॥
विशेषतो देवीमन्त्रे क्वचिद्दोषो न जायते ।
कलौ चण्डी नृणां हेतौ शिवस्थानं विसुज्य च ॥
पृथिव्यां निजवृन्देषु विचारात्तु न संशयः ।
विधिना स्नान मुन्दिश्य कुर्यात् पौर्वाह्निकीं क्रियाम् ॥
नदीं वा देवखातं वा दीर्धिकां सागरन्तथा ।
गङ्गाद्याः सरितः सर्वा स्थानेषु शस्यते बुधैः ॥
काश्यादिसर्वतीर्थाणि भारते यानि सन्ति वै ।
तानि स्नाने प्रशस्येत सर्वपापहराणि वै ॥
परधाते तु कर्तव्यः पञ्चपिण्डोद्भाद्धरो बुधैः ।
उत्तिष्ठोत्तिष्ठ पङ्क त्वं त्यज पुण्यं परस्य च ॥
पापाणि मे विनश्योथ शान्तिं देहि सदा मम ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ।
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते वरेः ॥
तेन सतोन मां देवि तीर्था *? देहि दिवाकर ।
श्रेयो व्रतानि तीर्थानि सुर्यारश्मि स्थितानि च ॥
अत्रागत्य अवः हित्वा सर्वसिद्धिं प्रपच्छ मे ।
चतुरस्रं विनिर्माय तत्र स्नानं दिशेत् सुधीः ॥
मृद्गोसरञ्च गङ्गाञ्च मक्षयित्वा विधानतः ।
स्नानं कुर्वीत विधिना महाकालवचो यथा ॥
ओं अश्व क्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धते? ।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥
ऊद्धृतासि ववाहेण कृष्णेन शतवाहूना ।
नमस्ते सर्वभूतानां प्रभवारिणि सुव्रते ॥
आरुह्य मम गात्राणि सर्वपापं प्रमोचय ।
तवा? स्नानं दिशेत्तत्र चतुरस्रे विधानतः ॥
उत्तराभिमुखीभूव? पूर्वाभिमुखमाविशेत् ।
स्वस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ॥
तत् पादोदकजां धारां निपतन्तीं स्वमूर्द्धणि ।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥
तदा सङ्क्षालयेत्तोयमन्त्रर्देहगतं मसम् ।
तत् क्षणात् विरजो मन्त्र भवेदेवं न संशयः ॥
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च ।
वारुणं मानसञ्चैव सप्तस्नानं प्रकीर्तितम् ॥
एवं स्नात्वा विधानेन शुचिर्भवति नान्यथा ।
वृद्धिश्राक्तं ततः कुर्याद् गनेश्व घटपुर्वकम् ॥
ओङ्कारादि नमोऽन्तेन आवाहनपुरसरैः ।
गनेशं पूजयेत्तत्र सर्वविघ्नप्रशान्तये ॥
तत्रापि च गृहे पूजा दीक्षास्थाने विधानतः ।
(प्. २१ब्) हस्तपादौ विशुद्धार्थं शुद्धवस्त्रं पिधाय च ॥
आचम्य विधिना धीमन् द्वारदेवान् ततोऽर्चयेत् ।
क्षेत्राधीपं क्षेत्रपालं गृहदेवीं ततः परम् ॥
गन्धपुष्पं धूपदीपं नैवेद्यानि निवेदयेत् ।
एषां पूजां विलङ्घ्याथ न सिद्धिः स्याद् युगे युगे ॥
अग्राणामुपवाराणां कियद्भागं ददेत् पुरा ।
गणेशं विघ्नराजञ्च लक्ष्मीं दुर्गां सरस्वतीम् ॥
विनायकञ्च वटुकं गङ्गाञ्च यमुनान्ततः ।
भोगवतीं प्रपूज्याथ वामशाखां स्पृशन् कियत् ॥
गृहं प्रविश्य विधिना तत्तद्विघ्नान् विनाशयेत् ।
कृताञ्जलि पुटौ भूत्वा मन्त्रमेनं समुच्छरेत् ॥
ओं सूर्यः सोमो यमः कालो महाभूतानि पञ्च च ।
एते शुभाशुभमोह कर्मणो नरसाक्षिणः ॥
घटस्यारोपणं कुर्यान्मन्त्रेणानेन देशिकः ।
घटारोपणमन्त्रश्च सर्वतन्त्रसमन्वितः ॥
आवाहयेद्यटे तत्र गणेशं शिवनन्दनम् ।
पुण्याहं वाचयित्वादौ स्वस्तिवाचनपूर्वकम् ॥
अस्त्राय फण्मन्त्रेण भौमान् विघ्नान् विदुरयेत् ।
दिव्यदिष्ट्यादिवाविघ्नान् दुरयेच्च चतुर्दिशि ॥
अनिमेषचक्षुषा दृषिर्दिव्यदृष्टिः प्रकीर्तिता ।
मासभक्तेन चान्नेन यावकेन च संयुतम् ॥
अजाकर्णस्य रक्तेन दुग्धेन मधुरेग? च ।
पूजयित्वा विधानेन द्वारदेशेन साधयेत् ॥
कवचेनैव बीजेन सप्तकृत्वोजपेन च ।
निःसार्य विघ्नान् तान् सर्वान् तदा रक्षां दिशेत् पुनः ॥
आत्मानं रक्षयेत् तत्र वह्निप्राचीरयोगतः ।
वह्निबीजेन चतुर्दिक्षु प्राचीरं भावयेद्धिया ॥
तदा तालत्रयं दद्यात् वह्निबीजेन देशिकः ।
उर्द्धेर्द्धे क्रमयोगेन गुरुप्रणतिमादिशेत् ॥
ओं गुरुभ्यो नमो नित्यं तदा च गुरुपादुकाम् ।
परं परं परां परात् परापरमतः परम् ॥
क्रमेण प्रणमेद्धीमन् ओं कारादिनमोऽन्वितान् ।
गणेशं दक्षिणे नत्वा वम्मुखे? इष्टदेवताम् ॥
गणेशं स्थापयेत् तत्र पूर्वोक्तेन वटे सुधीः ।
आवाहयामाहं देवं गणेशं शिवनन्दनम् ॥
व्याघ्रचर्मास्वरधरं कालयज्ञोपवीतिनम् ।
गणकोट्या परिवृतं देवं मोदकभोजनम् ॥
अविघ्नेशं महाकायं सर्वलोकैकपूजितम् ।
तमीशं सर्वशास्तार्थं रौद्रमावाहयाम्यहम् ॥
एह्येहि भगवन् देव सर्वविघ्नविनाशक ।
इमां पूजां गृहाण त्वं सर्वं मे सफलं? कुरु ॥
सिन्दुररक्तपुष्पाद्यैः पूजयेच्छिवनन्दनम् ।
अञ्जल्यावाहयेदादौ सर्वत्रायं विधिः स्मृतः ॥
स्वागतादि ततः प्रश्नं प्रत्युत्तरसमन्वितम् ।
आसनन्तु तदा दत्वा पाद्यमर्घ्यं निवेदयेत् ॥
पाद्यं सुवासितं स्वादु सर्वभूतसुधावहम् ।
दुरयात्राश्रमहरं पाद्यञ्च प्रतिगृह्यताम् ॥
पाद्यं नमः पादमूले स्वाहार्घ्यं शिरसि स्थितम् ।
मधुपर्कं स्वधान्ते तु पुनराचमनीयकम् ॥
स्नानीयञ्च नमो ब्रूयात् पुनर्गन्धादिकं ततः ।
(प्. २२) वस्त्रं यज्ञोपवीतञ्च नमोऽन्ते परिकल्पयेत् ॥
अन्नं भक्ष्यं स्वधान्ते तु धूपदीपं स्वधा नमः ।
क्रमेण निक्षिपेत् तत्र देवाय विधिनामुना ॥
अर्घ्यपात्रे प्रदद्याच्च ततः शृणु वरानने ।
अर्घ्योदकं भवेच्छङ्खे श्यामार्कयवदुर्वकैः ॥
नानागन्धसमायुक्तं कुशाग्रतिलसर्षपम् ।
विष्णुक्रान्ता च यवकं शङ्खे अर्घ्यं निवेदयेत् ॥
मूलमन्त्रेण सर्वत्र ओङ्कारादि नमोऽन्वितान् ।
काण्डाच्चैवेति मन्त्रेण चार्घ्यं दद्याच्च साधकः ॥
पाद्यमन्त्रेण कुर्वीत तथाचाचमनं पुनः ।
दद्यात् पुरुषसुक्तेन स्नाननीयं साधकोत्तमः ॥
पुनरचमनं गन्धं गन्धद्वारेति मन्त्रवित् ।
श्रीश्च तेति च मन्त्रेण पुष्पन्दद्यात् शुभाय च ॥
नानास्वादुसमायुक्तं ब्रह्मत्वफलहेतवे ।
मया निवेदितं भक्त्या मधुपर्कं गृहाण मे ॥
दध्ना च मधुसर्पिर्भ्यां मधुपर्कं प्रकीर्तितम् ।
वनस्पतिरसोत्पन्नो गन्धाच्यो गन्ध उत्तमः ॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
सुप्रकाशो महादीपः सर्वतस्तिमिरापनुः ॥
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
प्रक्षालनाय हस्तस्य पश्चात् पात्रं क्षिपेत् सुधीः ॥
प्रदीपावलिभिः कुर्यान्निकटे धूपदीपदौ ।
शातकुम्भप्रपूर्णेन मण्डपः रचयेत् सुधीः ॥
गणेशं पूजयित्वा च सुर्यं विष्णुं शिवां शिवम् ।
पूजयेद्विधिना तत्र घटे सर्वसमृद्धये ॥
वृद्धिश्राद्धं ततः कुर्यान्मातृकापूजनं पुरा ।
नमः स्थाने वदें पुष्टिं श्राद्धे नान्दिमुखे बुधः ॥
वसुधारां ततो दत्त्वा दीक्षाकर्म समुद्दिशेत् ।
गुरुणा स्वेन देवेशि शिष्यः कुर्याद्विधानतः ॥
गुरुणा कारयेत् कर्म शिष्यः सर्वं चरेत् सुधीः ।
चन्दनागुरुकर्पुरैः र्धूपयेद् यागमण्डपम् ॥
तदा वटं स्थिरीकुर्याद् यावद्दीक्षाविधिर्भवेत् ।
ओं स्थिरो भवेति मन्त्रेण स्थिरीकरणमुद्दिशेत् ॥
ततः कृताञ्जलिर्भूत्वा मन्त्रमेनं वदेत्ततः ।
ओं नमो गणेभ्यः इति ।
मासभक्तवलिन्दद्यात् भूतप्रेतपिशाचके ।
ओं भूत्यः प्रेताः पिशाचाश्च पाताले भूतले स्थिताः ॥
पर्वताग्रे तथा वृक्षे गृहक्षेत्रादिषु स्थिताः ।
तुष्टा भवन्तु ते सर्वे मम गृह्नस्त्विमं वलिम् ॥
यावकैरक्तकुसुमैरजामहिषशोणितैः ।
मत्स्यमांसादिभिभ्रष्टैदुर्गकैश्च विधिनामुना ॥
वलिं दद्याच्च तत्रापि तदा मङ्गसमारभेत् ।
यज्ञोपवीतमन्त्रेण दद्यात् यज्ञोपवीतकम् ॥
नानारत्नैश्च घटितं विश्वकर्मादिनिर्मितम् ।
सर्वाङ्गशोभाभरणं गृहाण फलहेतवे ॥
अत्र विष्णोर्मतेनैव विघ्नानान्तु पुनर्वलिम् ।
अन्यत्र मूलमन्त्रेण सर्वं दद्याद्विधानतः ॥
ओङ्कारादिनमोऽन्तेन दद्याद् वा शिवसम्मतम् ।
कुर्चमुष्टिं क्षिपेदादौ फट्मन्त्रेण सुसाधकः ॥
तिलान् कुशान् श्वेतसर्षपान् कुर्चमुष्टिः प्रकीर्तिता ।
विकीरान् प्रक्षिपेच्चैव सप्तजप्तान् परात्मना ॥
लाजचन्दनसिद्धार्थयवदुर्वाकुशाक्षताः ।
विकिरा इति निर्दिष्टाः सर्वविघ्नविनाशकाः ॥
अष्टदिक्षुचाष्टकुम्भान् रक्षार्थतोषपुरितान् ।
ब्राह्म्यादि मातॄः सम्पूज्य सर्वतन्त्रसमन्विताः ॥
ध्यात्वैता विधिनानेन गन्धपुष्पान्नवारिभिः ।
दण्डकमण्डलुधरमक्षसुत्राभयन्ततः ॥
विभ्रती कनकच्छायां ब्राह्मी कृष्णाजिनोज्ज्वला ॥ १ ॥
शूलं कपालं परुशं मृगपोतं मनोहरम् ।
वहन्ती हिमशङ्काशा ध्येया माहेश्वरी शुभा ॥ २ ॥
अङ्कुशं दण्डखट्टाङ्गौ पाशञ्च दधती करैः ।
ध्येया बन्धुकसङ्काशा कौमारी शर्मदायिनी ॥ ३ ॥
चक्रं घण्टां गदां खड्गं विभती सा मनोहरा ।
तमालश्यामला ध्येया वैष्णवी शर्मदायिनी ॥ ४ ॥
मुषलं कारवालञ्च खेटकं दधती फलम् ।
करैश्चतुर्भिर्वाराही ध्येया कालघनच्छविः ॥ ५ ॥
अङ्कुशस्तोमरं विद्युत् कुलीशौ विभ्रती करैः ।
इन्द्रनील निभेन्द्रानी ध्येया सर्वसमृद्धिदा ॥ ६ ॥
शूलं कृपाणं नृशिरः कपालं दधती करैः ।
मुण्डसृङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा ॥ ७ ॥
अक्षस्रजं बीजरूपं कपालं पङ्कजं करैः ।
वहन्ती हेमशङ्काशा महालक्ष्मीर्हरिप्रिया ॥ ८ ॥
एवं सम्पूजा विधिना तदा कुर्वीत मङ्गलम् ।
द्विज स्त्रीणां ब्राह्मणानां आशीर्वादं प्रगृह्या च ॥
जयशब्दैर्ब्रह्मशब्दैर्ब्राह्माणान् परितोष्य च ।
बन्धुवर्गान् प्रतोष्याथ अधिवासं ततो दिशेत् ॥
मन्त्रेणानेन द्रव्येण क्रमेण साधकोत्तमः ।
अधिवासं प्रकुर्वीत शिवस्य सावधानतः ॥
ओङ्कारं पूर्वमुच्चार्या नमोऽन्तेन समर्पयेत् ।
भूरसीति च मन्त्रेण मृत्तिकां प्रक्षिपेद् गुरुः ॥
गन्धद्वारेति मन्त्रेण गन्धं ददात् तु देशिकः ।
प्रपर्वतस्य वृषभस्य पृष्ठान्नावंश्चरन्ति च यानि च ईशानान्ता
आववृत्तन्नधराण्डदक्ता अहिब्रध्नमनुरीषमाणाः ॥
मन्त्रेणानेन देवेशि शिलान्दव्याद्विधानतः ।
विष्णोर्विक्रमण विज्ञोर्विक्रान्तमसि वैष्णवमसि वैष्णवे धानां
स्यान्मन्त्रेण धान्यं सर्वतन्त्रसमन्वितम् ॥
ओं काण्डादिति च मन्त्रेण दुर्वान्दद्यात् विधानतः ॥
ओं श्रीश्च त्ति च मन्त्रेण पुष्पं दद्यात् शिरोपरि ॥
ओं या कलिनीति च मन्त्रेण फलं दद्याच्छशोः? शिरे ॥
ओं घ्वतवती भूवनानामभिश्रियोर्वी पृथ्वीमधुदुघे सुपेससा ।
द्यावा पृथिवी वरुणस्य धर्मणा विष्कभिते अजार? भूरिरेतसा ॥
मन्त्रेणानेन घृतं दद्याच्छिशोः शिरे ॥
स्वस्ति न इति मन्त्रेण स्वस्तिकञ्च निवेदयेत् ॥
ओं सिद्धोरिवेति सिन्दुवम् ॥
ओं लङ्घं वेतीति मन्त्रेण लङ्घं दद्याच्छिशोः शिरे ॥
ओं समिद्धेति च मन्त्रेण कर्जमन्त? निवेदयेत् ॥
(प्. २३) ओं युञ्जन्ति ब्रध्नमरुतं चरन्तं परितस्थु? यः ।
रोचन्ते रोचनादिवि रोचनां परितो दद्यान्मन्त्रेणानेन देशिकः ॥
अन्नपते अन्नस्य नो देहान् मीवस्य शुष्मिणः ।
प्रप्रदातारं तारिष उर्जं नो हि द्विपदे चतुस्पदे ॥
मन्त्रेणानेन अन्नस्य स्पर्शनं परिकीर्तितम् ।
हिरण्यगर्भेति मन्त्रेण काञ्चनं परितो ददेत् ॥
रूपेण वो रूपमाद्यानान्तु वो विश्ववेदा विभजतु ।
एतस्य पथा श्वेतचन्द्रदक्षिणायतस्त्वन्तरिक्षं यतस्व सदस्थैः ॥
मन्त्रेणानेन देवेशि रौप्यं दद्याद्विधानतः ।
असौ य इति मन्त्रेण ताम्रं दद्याद्विचक्षणः ॥
रक्षोहनो इति मन्त्रेण् सिद्धर्थं दत्त्वा दपर्णन्दद्याच्छिष्यस्य मूर्द्धनि ।
आकृष्णेनेति ।
मनोज्योतिरिति मन्त्रेण दीपं दद्याद्विधानतः ।
प्रतिपदसि प्रतिपदेत्वा अनुपदसि अनुपदेत्वा सम्पदसि सम्पदेत्वातेजोसि तेजसेत्वा
प्रणस्तवसि सम्पात्रोसि प्रसन्नं मम कुरु सर्वं देवीचरणयुगलं
वन्दनीयम् ।
अधिवासमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
ततः परदेने शिष्यं स्नात्वाचम्य विधानतः ॥
आशीर्वादं द्विजानाञ्च मङ्गलं स्त्रीसमन्वितम् ।
गृहं प्रविस्य विधिना कुर्यात् यज्ञेश्व ॥ र्च । घटे च पूजयेद्विष्णुं
गन्धपुष्पगुडोदकैः ।
शालान्नैः पुपसुपाद्यैरावाहनपुरःसरैः ।
पूजयित्वा हरिं तत्र भूतशुद्ध्यादिकं दिशेत् ॥
गुरुं प्रणस्य विधिना भूतशुद्धिमथाचरेत् ।
ओं अज्ञानतिमिरान्धस्य ज्ञानाज्ञानपलाकया ॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।
नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ॥
यस्य वागमृतं हन्ति विषं संसारमज्ञकम् ।
प्रातःशिरसि शुक्लेऽजे द्विनेत्रं द्विभूत्वं गुरुम् ॥
वराभयकरं शान्तं स्मरेत्तन्नाम पूर्वकम् ।
एवं प्रणम्याथ पुरा भूतशुद्धिमथाचरेत् ॥
ब्रह्माणं क्षेत्रपालञ्च वास्त्वीशं नैर्-ऋतन्ततः ।
ईशानादिषु कोणेषु भ्हुतशुद्धिं तदादिशेत् ॥
यमिति वायुबीजेन षोडशेन प्रपूरयेत् ।
श्वाससंहरणनाड्या सुषुम्नायाञ्च कुम्भयेत् ॥
चतुःषष्ट्या तु तेनैव पापदेहं प्रशोधयेत् ।
तेन बीजेन विधिना पिङ्गलायाञ्च रेचयेत् ॥
द्वात्रिंशन्मात्रय भस्म श्वासमार्गे शनैः शनैः ।
एवं वारत्ररं? कृत्वा भूतानां शोधनं स्मृतम् ॥
पूरयेत् प्रतिसोमेन वह्निबीजेन देशिकः ।
षोडशेन चतुःषष्ट्या कुम्भयेद्रेचयेत्ततः ॥
द्वात्रिंशन्मात्रया चैव दाहनं परिकीर्तितम् ।
चतुर्विंशप्रपू? ह्याथ तत्वर्णं प्रज? पेत् क्रमत् ॥
शोषणं दहनञ्चैव प्लावनं परिकीर्तितम् ।
किस्कन्नः? कश्यपश्चैव हिरण्यगर्भस्तथैव च ॥
बीजानां ऋषयः प्रोक्ता ब्रह्मणा कमलेक्षणा ।
प्राणायामन्ततः कुर्यत् क्रमेण देशिकोत्तमः ॥
सहस्रारे महापद्मे चिन्तयेदिष्टदेवतम् ।
यथध्यानं यथोक्तेन गुरुमार्गेण देशिकः ॥
(प्. २३ब्) तदा भूतानि तत्रस्थानि सगुणानि विधानतः ।
स्कामशक्तियुक्तानि वर्णमात्राक्रमेण च ॥
प्रतिलोमेन संहृत्य सतद्वत् धातुसंयुतैः ।
मुलाधारात् सहस्रारं षट्चक्रक्रमयोगतः ॥
व्युत्क्रमेण विचिन्त्याथ शस्रारं यथाविधि ।
हूम्मन्त्रे चाननयेज्जिवं षट्चक्रक्रमयोगतः ॥
ऐक्यं विभाव्य तत्स्थाने मन्त्रमेनं समभ्यसेत् ।
सोहं मन्त्रं समुच्चार्य सुक्ष्मं ब्रह्म विचिन्तयेत् ॥
तत्क्षणात् निर्मलं देहं निर्दन्द्वं निस्परिग्रहम् ।
अद्वैतञ्चिन्तयेत् तत्र मनसा भक्तियोगतः ॥
अकारादि क्षकारन्ता वर्णमाला क्रमेण च ।
चिन्तयेत् श्वासरोधेन पुरकुम्भकरेचकैः ॥
एवं विचिन्त्य तान् सर्वान् ततश्चन्द्रमनुं स्मरेत् ।
ठान्तं बिन्दुसमायुक्तमर्द्धचन्द्रविभूषितम् ॥
चतुर्द्धा प्रजपेन्मन्त्रं मनसा वायुना सुधीः ।
इन्द्रबीजं जपेत्तत्वद्धराबीजं ततः परम् ॥
दृढीकृत्य विधानेन धारया सुधया पुनः ।
तदा सञ्चिन्तयेद्देहं पूर्वोक्तं मातृकामयम् ॥
सकलानादसंयुक्तं सशक्तिसहितन्ततः ।
पञ्चाशद्वर्णसंयुक्तं महाभूतसमन्वितम् ॥
पञ्चभूतात्मकं देहमनुलोमेन चिन्तयेत् ।
अतर्यामि ऋधिस्तस्य प्राणाश्च देवताः स्मृताः ॥
वक्षस्थले दक्षः हस्तं दद्याद्यत्नेन देशिकः ।
पूर्वोक्तप्राणमनुना ऋषिच्छन्दःसमन्वितम् ॥
हंसमन्त्रेण तं प्राणमावाहनमुदाहृतम् ।
सधाभूनि च सत्वानि इहागत्य सुखं चिरम् ॥
तिष्ठ्यन्तु वह्निजायान्तं मन्त्रमेनं समुद्धरेत् ।
अकारादि क्षकारान्तं पञ्चाशद्वर्णसंयुतम् ॥
विचिन्त्य मनसा देहं तदा देहौ भवेन्नरः ।
प्राणायामेन त्रिवृता वलं प्राणेषु निःक्षिपेत् ॥
अकारादि क्षकारान्तैः पूरकुम्भकरेचकैः ।
प्रतिलोमानुलोमेन विचिन्त्य प्राणमावहेत् ॥
तत् क्षणाद्वीरजो मन्त्री भवेत् साक्षात् सदाशिवः ।
नृसिंहेनैव बीजेन देहे जीवं विनिःक्षिपेत् ॥
मूलाधारं तदा प्राप्तं जीवात्मानं विचिन्तयेत् ।
कुण्डलीरूपसम्भूता विद्युदग्निसमप्रभा ॥
निर्मला निर्विकारस्था सर्वसिद्धिसमन्विता ।
तदा तु विन्यसेद्देहे मातृकां वर्णरूपिणीम् ॥
मन्त्रेणानेन तां ध्यात्वा विन्यसेत् सकलां तनुम् ।
ओं पञ्चाशल्लिपिभिरिति ।
एवं ध्यात्वा वर्णमालां विन्यसेत् साधकोत्तमः ।
आदौ न्यसेत् स्वदेहे तु वर्णमालाक्रमेण च ॥
रक्ताद्धिप्तारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासवाणान् ।
शूलं कपलं दधतीं कराजै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥
षट्चक्रे विन्यसेद्वर्णान् भूतवर्णविभूषितान् ।
यथाक्रमेण पत्राणि देवतासहितानि च ॥
यथा स्थाने न्यसेद्वर्णान्मस्तकादिविधानतः ।
अन्तरे विन्यसेदादौ तदा न्यासेर्वहिर्दिशेत् ॥
मूर्द्ध्न्यादि विन्यसेद्वर्णान् वाह्यस्थानेषु देशिकः ।
रक्ताम्भोधिस्तपोतोज्वलदरुणसरोजाधिरूढा ॥
कराग्रैः पाशं कोदण्डमिक्षुशरमथगुणमप्यङ्कुशं पञ्चवाणान् ।
(प्. २४) यिभ्राणासृक् कपालं त्रिनयनविलसत् पीनवक्षोरुहाच्या देवी
वालार्कवर्णा भवतु शुभकरी प्राणशक्तिः परा मे ॥
सधातुप्राणशक्त्याथ शक्तियुक्तेन देशिकः ।
विन्यसेत् परया भक्त्या यथा देवो भवेत् सदा ॥
पाशाङ्कुशं न्यसेत् देहे विधिनानेन देशिकः ।
पाशबीजं पादयुगे अङ्कुशं मूर्द्ध्नि विन्यसेत् ॥
हृदये शक्तिबीजञ्च विन्यसेद्विधिनामुना ।
ध्यात्वा देवीं विधानेन साधको यतमानसः ॥
वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
वालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां हरगेहशालिनीम् ॥
एवं विन्यस्य स्वदेहं तदादिग्बन्धनञ्चरेत् ।
अस्त्राय फट् मन्त्रेण चतुर्दिक्षु निवेदयेत् ॥
च्छोटिकाभिः क्रमेणैव दशैर्वा द्वादशैः क्रमात् ।
तदा तु लक्ष मनन्तं पुनः कुर्याद्विधानतः ॥
अघोरास्त्रं चतुर्थ्यन्तं कर्तृकाबीजसंयुतम् ।
चतुर्दिक्षु नियुज्याथ प्राणायामं पुनः पुनः ॥
मूलमन्त्रेण कुर्वीत प्राणायामं विधानतः ।
त्रिधा चतुर्द्धा तत्रैव पुनः कुर्याश्रिधा प्रिये ॥
पुरकं रेचकं कुर्यत् कुम्भकं विधिनामुना ।
हृदयादि षडङ्गेषु हृल्लेखां विन्यसेत् क्रमात् ॥
दीर्घस्वरेण सर्वत्र षडङ्गमभियोगतः ।
पञ्चाङ्गमन्त्रवर्गेषु नेत्रहीनं दिशेद्धिया ॥
कल्पयेदात्मनो देहे धर्मपीठन्ततः परम् ।
कुर्याच्च कीलकं मन्त्री मन्त्रवर्णेन संयुतम् ॥
आधारादिस्वदेहेऽस्मिन् विन्यसेत् पूर्ववत् सुधीः ।
तत्वानि विन्यसेद्देहे शिवोक्तानि विधानतः ॥
अध्वयुक्तानि तत्वानि मन्त्रसिद्धिफलाप्तये ।
कलाध्वाचैव तत्वाध्वा भुवनाधरा च पार्वति ॥
वर्णाध्वा च पदाध्व च मन्त्राध्वा तदन्तरम् ।
ओङ्काराद्यं ङेयुतञ्च नमोऽन्तञ्च यथास्थिति ॥
विधिना विन्यसेत् सर्वं शङ्करस्य मतेन च ।
निवृत्त्याद्याः कलापञ्च कलाध्वा परिकीर्तिताः ॥
पञ्चभूतस्य स्थानेषु विन्यसेद्विधिनामुना ।
आकाशात् कण्ठर्यन्तं गगनं विन्यसेत्ततः ॥
आकण्ठान्नाभिपर्यन्तं न्यसेद्वायुं विधानतः ।
आनाभिमूलपर्यान्तं विन्यसेत्तु विभावसुः ॥
आमुलाज्जानुपर्यन्तं वरुणं विन्यसेत्ततः ।
आजानोः पादपर्यन्तं धरणीं विन्यसेत् क्रमात् ॥
कलान्यासमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
तत्वाध्वा तु महेशानि बहूधा कीर्तिता बुधैः ॥
षट् त्रिंशत् शिवतत्वानि द्वात्रिंशद्वैष्णवानि च ।
चतुर्विंशति तत्वानि ब्रह्मतत्वानि पार्वति ॥
दशाधिकं तथा सप्तशिवतत्वानि तानि च ।
शिवतत्वानि वक्ष्यामि शृणुष्व कमलानने ॥
सदाशिवः शिवशक्तिर्विद्या ईश्वर एव च ।
पञ्च शुद्धानि शैवेऽस्मिन् कथितानि मनीषिणा ॥
माया कालश्च नियतिः कलाविद्या ततः परा ।
रागः पुरुष एतानि शुद्धाशुद्धानि सप्त च ॥
(प्. २४ब्) प्रकृतिर्बुद्धिरहङ्कारो मनोज्ञानेन्द्रियाणि च ।
कर्मेन्द्रियाणि तन्मात्रपञ्चभूतनि यानि च ॥
अशुद्धानि महेशानि कथितानि मनीषिभिः ।
शिवतत्वानि देवेशि शुद्धाशुद्धानि सर्वतः ॥
शैवनामिह तत्वानां विभागः परिकीर्तितः ।
विष्णुतत्वानि वक्ष्यामि शृणुष्व कमलानने ॥
जीवप्राणधिरश्चित्तं ज्ञानं कर्मेन्द्रियं तथा ।
तन्मात्रपञ्चभूतानि हृत्पद्मं तेजसा त्रयम् ॥
वासुदेवः सङ्कर्षणः? प्रद्युम्नश्चानिरुन्धकः ।
विष्णुतत्वानि सर्वाणि कथितानि मनीषिभिः ॥
पञ्चभूतानि हृत्पद्म इन्द्रियाणि च षट् तथा ।
गर्वो बुद्धिः प्रधानश्च शिवतत्वानि पार्वति ॥
निवृत्ताद्याः कला पञ्च तदाबिन्दुकला पुनः ।
नादः शक्तिः शिवश्चैव सदा पूर्वप्रकीर्तितः ॥
आत्मविद्या शिवः शक्तिः शिव एव स्वयं पुनः ।
सर्वतत्वञ्च तत्वानि शिवायाः परिकीर्तिताः ॥
एवं तत्वानि देवेशि विन्यसेदात्मनस्तनौ ।
अतलं वितालञ्चैव सूतलञ्च तलातलम् ॥
महातलञ्च पातालमानाभेर्विन्यसेत्ततः ।
भुर्भुवः स्वर्महर्ज्ञानस्तपः सत्यं ततः परम् ॥
विन्यसेदात्मनो देहे हृदयादिशिखावधि ।
ईरितो भूवनाध्वेति भूवनानि चतुर्दश ॥
वर्णाध्वेति वदन्त्यर्णान् आदिक्षान्तान्मनीषिणः ।
वर्णैः सह पदानि स्युर्विन्यसेत् स्वतनौ सदा ॥
मन्त्राणि विन्यसेद्देहे यथास्थानविधानतः ।
एवं विन्यस्य स्वं देहं कुण्डे वह्निञ्च ज्वालयेत् ॥
पूर्वोक्तविधिना चैव घटे देवीं प्रपूजयेत् ।
गङ्गातोयाम्बुपूर्णेन ईशाने स्थापितं घटम् ॥
तत्रापि पूजयेद्देवीं गन्धपुष्पान्नवारिभिः ।
नानोपहारवलिभिः खड्गखेतकधारिणीम् ॥
नयनत्रयसंयुक्तामुद्यतकोटिसमप्रभाम् ।
शिवशक्तिमषीं देवीं सर्वालङ्कारभूषिताम् ॥
शवरूपमहादेव हृदयस्थां सूशोभनाम् ।
व्याघ्रचर्म परिधानां कुङ्कुमारुणपल्लवाम् ॥
शुष्कमांसां घोरदंष्ट्रां योगिनीगणसंयुताम् ।
पूजयित्वा महेशानीं हूत्वा च विधिना ततः ॥
ततः परदिने कुर्याद्दीक्षान्तन्त्रविदः सदा ।
दन्तकाष्ठं तदा दद्याच्छिध्याय नियतात्मने ॥
क्षीणशाखिसमुद्भूतं तिक्ताकुञ्च ततः परम् ।
द्वादशाङ्गुलमानेन ततः पूर्वमुखः क्षिपेत् ॥
उत्तराभिमुखीभूयदन्तधावनमाचरेत् ।
दिवसे दक्षिणा मुखो निर्मलेन जलेन वै ॥
ओं अन्नादाय व्युहध्वं सोमराजायमागमत् ।
समेमुखं प्रमार्ज तु यशसा च भगेन च ॥
तदा न्यास तनुः कुर्यात् पूर्ववत् विधिनामुना ।
पञ्चगव्यं पाययित्वा शिष्यं दक्षिणदेशतः ॥
वामदेशं समानीय मन्त्रसंस्कारमारभेत् ।
जननं जीवनं पश्चात् ताडनं बोधनन्ततः ॥
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं शुप्तिर्दशैता मन्त्रसंस्क्रिया ॥
मन्त्राणां मातृकामध्यादुद्धारो ज्ञ? ननं स्मृतम् ।
ह्रस्वदीर्घस्वरेणैव विधिना विलिखेद् यतः ।
(प्. २५) क्रमेण मन्त्रवर्णानामूद्धारं समुदीरितम् ।
प्रणवान्तरितं कृत्वा प्रत्येकेन जपेद्दश ॥
जीवनं कथितं सर्वतन्त्रेषु परमेश्वरि ।
मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ॥
दशधा शृणु देवेशि ताडनं परिकीर्तितम् ।
अश्वश्यपत्रैर्विधिना सर्वतन्त्रसमन्वितम् ॥
प्रत्येकं वायुबीजेन बोधनं तदनन्तरम् ।
विलिख्य मन्त्रवर्णानि तद्वर्णे करवीरजैः ॥
यान्तेन बोधनं कुर्यात् बोधनं तदुदाहृतम् ।
पञ्चविंशतिवारेण तं मन्त्रमभिषेचयेत् ॥
शुभोदकेन दुग्धेन अभिषेकमुदाहृतम् ।
प्रणवं शिवबीजञ्च चतुर्दशस्वरान्वितम् ॥
त्रिधा निःक्षिप्य मन्त्रस्य मूलान्तेन तथोदरे ।
प्रजपेद्विधिना मन्त्रं पञ्चविंशतिसङ्ख्यया ॥
विमलीकरणं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
तारमायारमायोगपुटितेन जपेनमनुम् ॥
शतमष्टोत्तरेणैव दीपयेत् साधकोत्तमः ।
दीपनं कथितं मन्त्रं गोपनं त्वप्रकाशकम् ॥
भद्रस्याप्यथवा भद्रं गुरुवक्त्राद्विलाप्य च ।
प्राणान्तेऽपि न कुत्रापि प्रकाशमभिधीयते ॥
दशसंस्कारकं कृत्वा ऋषिन्यासादिकृत्य च ।
पूजयेत् परया भक्त्या घटे तां जलरूपिणीम् ॥
अ
आआअर्घ्यादिना प्रपूज्याथ सर्वसिद्धिं लभेन्नरः ।
सपर्या त्रिविधा प्रोक्ता देवपूजा विधानके ॥
गन्धपुष्पाक्षतयवकुशाग्रतिलशर्षपा ।
दुर्वाङ्कुरैः क्रमाद्दिव्यैरर्घ्याष्टकमुदाहृतम् ॥
पाद्यं श्यामाकदुर्वाजविष्णुक्रान्ताभिरुच्यते ।
जातिलवङ्गकक्कोलैरक्तमाचमनीयकम् ॥
विऽऽउस्द्धेन जलेनैव वरमाचमनीयकम् ।
अर्घ्यपात्रं दिशेत् वामे त्रिकोणमण्डले क्रमात् ॥
तत्र वह्निं प्रपूज्याथ तदा तस्य कला स्मरेत् ।
धुम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥
सुश्रीः सुरुपा कपिला हव्यकव्यवहा तथा ।
ओं शङ्खाधाराय नमः ।
इति त्रिपदीं परिपूजयेत् ।
अस्त्राय फट् च मन्त्रेण शङ्खं प्रक्ष्याल्य यत्नतः ।
पूजयेच्छ्ङ्खयोगेऽपि सुर्यस्यैव कलास्ततः ॥
तपिनी तापिनी धूम्रा मरिचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥
एताः कलास्तु सुर्यास्य सुर्यमण्डलसंस्थिताः ।
ओङ्कारादि नमोऽन्ताश्च कलाः सर्वाः सुरेशरि ॥
तीर्थमन्त्रेण सम्पूज्य सोममण्डलतः परम् ।
अमृता मानदा पुषा तुष्टिः पुष्टीरतिर्धृतिः ॥
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिन्यः सुरसम्भवाः ॥
मत्स्यमुद्रां प्रदर्श्याथ धेनुमुद्रां प्रदर्शयेत् ।
अङ्कुशन्तु प्रदर्श्याथ सुगन्धिकुसुमं क्षिपेत् ॥
मुद्रान्ता विधिना देवि पश्चाद्वक्ष्यामि यत्नतः ।
तेनैव विधिना कुर्यात् मुद्रा तन्त्रामुसारतः ॥
सर्पिषा तिलजेनैव दद्याद्दिपं विधानतः ।
स्वदक्षिणे दीपमुच्चैर्दद्यात् देशिकसत्तमः ॥
मूलमन्त्रं जपेत्तत्र अष्टधा विधिना सुधीः ।
(प्. २५ब्) मातृकाः प्रतिलोमेन जपेत्तेन क्रमेण वै ॥
मन्त्राङ्गं विन्यसेत्तत्र षडङ्गपरिमाणतः ।
नैवेद्यं गन्धपुष्पेषु तज्जलं प्रक्षिपेद् यतः ॥
नानाशाल्यादिसम्भूतं गव्यं सन्देशसंयुतम् ।
नानारससमायुक्तं नैवेद्यं देवपूजने ॥
धूपदीपौ ततः कुर्यात् विधिनानेन देशिकः ।
धूपन्तु विविधं प्रोक्तं ब्रह्मविष्णुशिवात्मकम् ॥
ब्रह्मात्मकन्तु यद्धूपं सर्वेषां परिकीर्तितम् ।
अगुरुजिरगुग्गुलुशर्करामधुचन्दनैः ॥
धूपयेदाज्यसम्मिश्रैस्ततः सर्जरसैः प्रिये ।
चन्दनागुरुकर्पुरचोरकुङ्कुमरोचना ॥
जटामांसई कपियुता शक्तिगन्धाष्टकं विदुः ।
चन्दनागुरुकर्पुरङ्गी? वेवकुष्ठकुङ्कुमम् ॥
जटामांसी सुरमिति विष्णोर्गन्धाष्टकं विदुः ।
चन्दनागुरुकर्पुरतमालदलकुङ्कुमम् ॥
कुसितं कुष्ठसंयुक्तं शैवं गन्धाष्टकं विदुः ।
आज्यं दधिमधुमिश्रं मधुपर्कं प्रकीर्तितम् ॥
गोमुत्रं गोमयं क्षीरं दधिसर्पिक्रमेण च ।
पञ्चगव्यादिकं प्रोक्तं सर्वतन्त्रसमन्वितम् ॥
दधिदुग्धं घृतं दद्यात् नारिकेलोदकं ततः ।
शर्करादीनि संयोज्य पञ्चामृतमुदाहृतम् ॥
एतानि सोपचाराणि कथितानि मनीषिभिः ।
प्रधानं षोडशं तत्र दशा च दशकं स्मृतम् ॥
पञ्चोपचारं कर्तव्यं अवश्यं शृणु तत् परम् ।
विनोपचारैर्या पूजा सा पूजा न प्रसीदति ॥
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्काचमनं स्नानं वसनाभरणानि च ॥
सुगन्धिकुसुमं धूपदीपं नैवेद्यकन्ततः ।
क्षौमवासं चन्दनञ्च उपहारस्तु षोडश ॥
पाद्यमर्घ्यमाचमनं मधुपर्कः पुनर्जलम् ।
सुगन्धिकुसुमं धूपदीपं नैवेद्यचन्दनम् ॥
दशोपचारमित्युक्तं मनुना प्राब्रवीत् पुरा ।
सुगन्धकुसुमादीनां पूजा पञ्चोपचारिका ॥
षोडशी तु प्रधाना तु दशधा तदनुस्मृता ।
पञ्चधा तदनुप्राप्ता कर्तव्या भूतिमिच्छता ॥
एवं वहूविधं देवि तन्त्रे तन्त्रे निरूपितम् ।
आत्मनो यद्धितं वस्तु तद्दद्याद्देवपूजने ॥
देवता आत्मनो देहे स्पृहयन्ति वहुन्यपि ।
यद्यद्वाञ्छितवस्तुनि तत् कुर्याद्देवपूजने ॥
सुतिथौ शुभनक्षत्रे मन्त्रं दद्याद्विचक्षणः ।
पौर्णमासी सप्तमी च अष्टमी नवमी तथा ॥
चतुर्दशी दशमी च पञ्चमी च विशेषतः ।
एतास्तु तिथयः प्रोक्ता दीक्षामङ्गलकर्मसु ॥
अश्विनी मघमूला च तथा पूर्वत्रयेषु च ।
स्वाती विशाखा ज्येष्ठा च रोहिणी च शुभावहा ॥
ववकोलवतैलश्च वणिजस्तदन्तरम् ।
करणानि शुभान्येव सर्वतन्त्रे.उस् भामिनि ॥
ऋक्षप्रधानकाले च दीक्षां कुर्याद्विधानतः ।
ध्रुवमृदुसुनक्षत्रशुभवारे सत्तिथौ दीक्षा ॥
शुभलग्ने शुभचन्द्रे केन्द्रकोणे तु शुक्रे गुरौ धर्मे ।
अथ सामान्यकाले मनः प्रसादितदीक्षा ॥
सुतिथौ शुभनक्षत्रे मन्त्रं गृह्नीराद्वचक्षणः ।
(प्. २६) वैशाखादिषु मासेषु मन्त्रारम्भः शुभप्रदः ॥
वैशाखे सर्वसिद्धिः स्यात् ज्यैष्ठे सर्वविनाशकः ।
आषाढे पुत्रलाभः स्यात् श्रावणे धनसञ्चयः ॥
भाद्रे प्रजाविनाशः स्यात् आश्विने शुभदा भवेत् ।
कार्तिके वस्कुलाभः स्यात् मार्गे स्युः सर्वसम्पदः ॥
ज्ञानहानिकरः पौषे माघे मेधासमन्वितः ।
फाल्गुणे सर्वसिद्धिः स्यात् न चैत्रः शुभसुचकः ॥
चैत्रे दीक्षापि कर्तव्या मदनस्य त्रयोदशी ।
सम्वत्सरस्य यत् पुण्यां तत् पुण्यं लभते प्रिये ॥
उत्तरायणसङ्क्रान्त्यां महाविषुवके पुनः ।
महोत्सवे प्रकूर्वीत दीक्षाकर्ममनुत्तमम् ॥
अविहितकालेषु चन्द्रसूर्यग्रहः स्मृतः ।
सूर्यग्रहसमः कालः सर्वकालेषु दुर्लभः ॥
चन्द्रग्रहसहस्रं हि सूर्यस्य परिकीर्तितः ।
न वारो न च नक्षत्रं न तिथ्यादिषु दुषणम् ॥
न योगकरणञ्चैव शङ्करस्य मतेन च ।
सूर्यः सोमः शशीपुत्रः शुक्राचार्यः सुराधिपः ॥
नन्दाभद्रासु कर्तव्यं सर्वतन्त्रसमन्वितम् ।
सुचित्तस्य प्रसादेन गुरौ राज्ञां सदा लभेत् ॥
पूराप्रसादमात्रेण चतुर्वर्गं लभेन्नरः ।
तत्पादुको धर्मदाता पितृपुत्रसमन्वितः ॥
पित्तरप्यधिकं मन्ये गुरुं तन्त्रेषु पार्वति ।
किन्नरैः किं कुलैस्तेषां किन्भृत्यैः पुत्रवान्धवैः ॥
सर्वदा सर्वभावेषु गुरो राज्ञां लभेत्तु यः ।
त्रिविधा च भवेद्दीक्षा सर्वतन्त्रसमन्विता ॥
महादीक्षा तथा दीक्षा उपदेशस्ततः परम् ।
युगे युगे च बोद्धव्या उपदेशः कलौ प्रिये ॥
कृते प्रत्युक्तमार्गेण त्रेतायां स्मृतिर्भारते ।
द्वापरे तु पुराणोक्ता कलावागमतो द्विजाः ॥
एवं वहूविधा देवि तन्त्रे तन्त्रे निरूपिता ।
कलौ दीक्षा प्रकर्तव्या देशकालासुरूपतः ॥
न कुर्यान्निर्द्धनो दीक्षा शुभयोर्मङ्गलाय च ।
दक्षकर्णे तदा मन्त्रं ऋष्यादिकसमन्वितम् ॥
तदा तस्मिन् क्षणे देवि जपेन्मन्त्रं शताष्टकम् ।
तदा हूनेदग्निकुण्डे सहस्राष्टात्तरं शतम् ॥
सुगतिरक्षणार्थाय सगुरुस्तु जपेन्मनुम् ।
तं देवं पूजयेत्तत्र तदा सिद्धिं न नाशयेत् ॥
तदा देवीं यजेद्विद्वान् गन्धपुष्पान्नवारिभिः ।
दशपुष्पाणि तत्रैव दद्याद्देव्यै विधानतः ॥
तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरजे ।
शस्तानि दशपुष्पाणि तथा रक्तोत्पलानि च ॥
एतानि संयोज्य यथाविधानि समन्त्रयुक्तेन च साधकेन्द्रः ।
तथा लभेन्मन्त्रवरप्रसादं यथोक्तं * * गुरुणा कृते पुरा ॥
नानालङ्कारसंयुक्तां देवीं कुर्याद्विधानतः ।
तदा तस्मिन् क्षण् दद्यादाशीर्वादं सदा गुरुः ॥
ओं भद्रमन्तु शिवष्णान्तु महालक्ष्मीः प्रसीद तु ।
सिद्धयः सन्तु सततं तव वा~छाफलप्रदाः ॥
आत्मानञ्च गुरुञ्चैव नानालङ्कारभूषणम् ।
दण्डने कटकैर्होमे मुकुटैरङ्गदैरपि ॥
(प्. २६ब्) हारकेयुरवलयनुपुराणि यथाविधि ।
पट्टवस्त्रैः स्वर्णसुत्रैर्दद्याद् यज्ञोपवीतकम् ॥
नानालङ्कारसंयुक्तं गुरुं कुर्याद्विशालधीः ।
धरां वृत्तिकरीं दद्याद्धेनुनामर्बुदार्बुदम् ॥
शरीरमर्थं प्राणांश्च सर्वं तस्मै निवेदयेत् ।
प्राणान्तेऽपि च कस्मैचित् न मन्त्रञ्च प्रकाशयेत् ॥
गुरोर्लक्षा मनुं दद्यात् सुवर्णदक्षिणां प्रिये ।
अवश्यं स्वर्णं गुरवे दद्याच्च विधिना सुधीः ॥
पञ्चाङ्गदीक्षा कर्तव्या साधकः सर्वसिद्धये ।
तुर्याक्षर'न्च देवानां तुर्याणाञ्च क्रमेण च ॥
शङ्करञ्च गणेशञ्च तथा तुर्यं हरिं तथा ।
सान्तः सत्यान्तसंयुक्तो बिन्दुभूषितमस्तकः ॥
पञ्चान्तकं शशधरं बीजं गणपतिर्विदुः ।
शान्तं वह्निसमायुक्तं परा मनुवर्णयुक् ॥
वह्निवसुस्वरयुतः स्वर्गकृष्णमनुर्मतः ।
शम्भौ मध्यगते हवीनहरभूदेष्टौ हरौ शङ्करे
भाष्यनागयुताववौ गणपश्रीशेषदुर्गास्थिता ।
देव्यां विष्णुहरैकदन्तरवयः गौरीसुते शङ्करेनार्या वैष्णव एव
शङ्करादि शान्यस्तत्तेते हानिदा ।
एतत् पूजाक्रमं प्रोक्तं नराणां शुभदायकम् ।
ब्राह्मणान् भोजयेत्तत्र वेदबोधेन वर्त्मना ॥
एको विद्वान् सहस्रेषु मुर्खेषु च विशेष्यते ।
पण्डितान् भोजयित्वा च महादेव्यां लज्ञ्? न्नेरः ॥
सदा कुर्यात् विधानेन कुमार्या भोजनं प्रिये ।
कुमारीं पूजयित्वा च सर्वसिद्धिं लभेन्नरः ॥
गृहीत्वा च महाविद्यां जपेज्जीवावधिप्रिये ।
मन्त्रभागे भवेन्मृत्युः शङ्करेण च भाषितम् ॥
यत्र तत्र यथास्थाने जीवेत् जपेत् सर्वार्थसिद्धये ।
न दोषो मानसे जापे सर्वकालेऽथ सर्वदा ॥
प्रजपेत् परया भक्त्या महाविद्यामहर्निशम् ।
नास्ति तत्र विचारं स्यान्न ब्रात्याञ्च कथञ्च न ॥
न दुरं प्रवदेद्विद्वान् नाश्विनं प्रवदेत् सदा ।
असदालापनं तत्र न कुर्वीत कथञ्चन ॥
महागुरूनिपातादौ न पूजायां विकल्पना ।
मोहाद्वा य दिवा दैवात् पूजयेन्न च साधकः ॥
तस्य सर्वं विनश्याथ मारयेत्तं सदाशिवः ।
अशुचौ वा शुचौ वापि सर्वकालेऽपि सर्वदा ॥
पूजयेत् परया भक्त्या सर्वकर्मसु सिद्धये ।
कौलं वेशं सदा कुर्यात् देव्याः पूजाविधानतः ॥
एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे ।
शवोपरिचितास्थो वा जपेद्विद्यामनन्यधीः ॥
बिल्वमूले तडागे वा गोष्थाने च सुरालये ।
चतुस्पथे तथागारे पीठे च परमात्मनि ॥
यावत् सिद्धिर्भवेन्मन्त्रस्तावच्च प्रजपेत् सुधीः ।
यजैर्दानैस्तथा होमैब्राह्मणस्य च भोजनैः ॥
पूरश्चरणमानेन नियमेन जपेत् सदा ।
जपसङ्ख्या प्रकर्तव्या नासङ्ख्या च कथञ्चन ॥
असङ्ख्याकारकस्यापि सर्वं भवति निष्फलम् ।
यत्फलं यस्य मन्त्रस्य तदैव सिद्धिरिष्यते ॥
सिद्धे मनौ सदा कुर्यात् यद्यमन्यत् प्रकीर्तितम् ।
(प्. २७) पूरश्चरणकार्यस्य प्रारम्भश्च विधीयते ॥
तत्क्षणादस्य देवेशि शङ्करस्य मतेन च ।
मन्त्रसिद्धिं प्रथमतः ततः कामाफलाविधिः ॥
इति विश्वसारतन्त्रे द्वितीयः पटलः ।
९९९९९
तृतीयः पटलः ।
अथ मन्त्रान् प्रवक्ष्यामि शृणुष्व कमलानने ।
यस्याः प्रसादमात्रेण चतुर्वर्गं लभेन्नरः ॥
वैशाखस्य चतुर्दिक्षु मन्त्राणां साधनस्य च ।
सन्ति सर्वत्र तन्त्राणि चतुर्द्धा परमेश्वरि ॥
कोटिकोटी च मन्त्राणां यन्त्राणां साधनस्य च ।
पृथिव्यां देवलोकेषु गन्धर्वेषु रसातले ॥
नागलोके ऋषिलोके कुष्माण्डे राक्षसेषु च ।
नानारूपाणि तन्त्राणि सन्ति वैशेषिकानि च ॥
सर्वेषां तन्त्रमन्त्राणां मानुषेषु षिशिष्यते ।
यानि तन्त्राणि सन्तीह देवता प्रार्थितानि च ॥
मनुष्य सदृशो जन्म कुत्रापि नैव विद्यते ।
देवताः पितरः सर्वे वाञ्छन्ति जन्म मानुषम् ॥
दुर्लभो मानुषो देहं सर्वदेहेषु सर्वदा ।
तत्रापि भारताखे च जन्म वै तत् सुदुर्लभम् ॥
तत्र विद्यारतां गेहे जन्म चेदतिदुर्लभम् ।
तत्रापि संशयच्छेत्ता विशेषेण च भाविनि ॥
तत्र मन्त्रवतः पुंसः सोऽपि चेदतिदुर्लभः ।
तत्रागमविदः श्रेष्ठः सर्ववेदेषु पूजितः ॥
तत्रापि साधकश्रेष्ठः सर्वतन्त्रेषु गोपितः ।
श्मशानवासिनी श्रेष्ठा देवतन्त्रेषु पार्वति ॥
यक्षगन्धर्वनागेषु विचक्रमनिवासिनी ।
कुष्न्माण्दविघ्नलोकेषु भैरवः सर्वसम्मतः ॥
मनुष्येषु भवेद्देवि देवः साक्षात् सदाशिवः ।
रक्त पीतपयोदमौक्तिकजवावर्णैर्मुखैः पञ्चभिस्त्र्यक्षैर्वा
स्थिताअङ्गीशमिन्दुमुकुटं पूर्णेन्दुकोटि प्रभम् ।
शूलं टङ्ककृपाणवज्रदहनाम्नागेन्द्रघण्टाङ्कुशान् पाशं भीति
हरं दधानममिताकल्पोज्वलाङ्गं भजे ॥
प्रणम्य कथयष्येऽहं सर्वलोकहितं परम् ।
यस्मिन् मन्त्रे यथाचारस्तत्र धर्मस्तु तादृशः ॥
कृतार्थस्तेन जायेत स्वर्गमोक्षसमाहितः ।
भ्रान्तिस्तु एव कर्तव्या वदि सिद्धिः प्रजायते ॥
शुद्धचित्तो भवेदत्र सिद्धिः स्यादपवर्गतः ।
महाचीनक्रमान्नत्वा देवीं त्रैलोक्यसुन्दरीम् ॥
पूजयेत् प्रत्यहं मन्त्रं सर्वसिद्धिपरायणः ।
न श्रुतिर्न स्मृतिस्तत्र न क्रिया कान्तस्म्भवम् ॥
एकभावेन सततं पूजयेत् परदेवताम् ।
मुक्तामुखे देवतायाः सर्वमन्त्रं जगाद सः ॥
यक्षगन्धर्वन्यासेषु ततः पीतमुखे विदुः ।
कुष्माण्डविघ्नलोकेषु पयोदेन मुखेन वै ॥
मौक्तिकेन जवावक्त्रेण मनुष्येषु निगद्यते ।
शिष्येभ्योऽध्यापयानाम महाविद्यां सुरेश्वरि ॥
सर्वेषां श्रेष्ठमित्युक्तं मनुष्यार्थं विधानतः ।
मनुष्यस्य च मन्त्रस्य देवता स्पृहषन्ति हि ॥
कोटिमन्त्रेषु ये गोप्या मनुष्याणां विधानकम् ।
अद्यापि भूतले देवि मनुष्याः पञ्चदेवताः ॥
(प्. २७ब्) प्रार्थयन्ति तपस्याभिः कथितं पद्मयोनिना ।
प्राथयन्ति तपस्याभिः कथितं पद्मयोनिना ॥
इत्युक्ताः श्रुतियुक्ताश सर्वविद्याः प्रजज्ञिरे ।
महाविद्यां महापूर्वां ध्यानन्यासं तथा जपम् ॥
पूजाविधिं तथास्तोत्रं कवचञ्च स्तवं तथा ।
आचारं साधनञ्चैव क्रमेण कथयामि ते ॥
मन्त्रविद्याविशेषश्च तन्त्रे तन्त्रे निरूपितः ।
जीवकोटिप्रविष्टास्ता महाविद्या महेश्वरि ॥
देवकोटिप्रविष्टास्ताः सर्वतन्त्रसमन्विताः ।
महाविद्या महेशानि जीवदेवौ प्रकीर्तिता ॥
जीवे जीवस्य सिद्धिः स्यात् देवे देवत्वमिष्यते ।
द्वावेतौ सर्वतन्त्रेषु मनुष्येषु नियुज्यते ॥
मननाग्राहिमन्त्रोऽयं साधकं भववन्धनात् ।
अतोऽत्रगीयते सद्भिर्मन्त्रः संसारच्छेदकः ॥
अथ विद्यां प्रवक्ष्यामि शृणुष्व कमलानने ।
प्रचण्डचण्डिकां वक्ष्ये चतुर्वर्गफल प्रदाम् ॥
यस्य विज्ञानमात्रेण तवेद्भुमिपूरन्दरः ।
धनं धान्यं सुतां जायां हयं हस्तिनमेव च ॥
वसुन्धरां महाविद्यां अष्टौ सिद्धिं लभेन्नरः ।
मातृकावर्णभेदेभ्यः सर्वमन्त्राः प्रजज्ञिरे ॥
महाविद्या महापूर्वा महामन्त्रश्च भाविनि ।
सर्वेषां बीजमित्युक्तं शङ्करस्य मतेन च ॥
विविधा च महाविद्या सर्वतन्त्रसमन्विताः ।
प्रकृतिर्विकृतिश्चैव सर्वतन्त्रेषु सम्मतः ॥
श्रीबीजं प्रकृतिर्लज्जा विकृतिर्माया ।
प्रकृतिविकृती वाग्भरं प्रकृति विकृती च ॥
सम्बोधनपदं कीलं मायाद्वन्द्वं प्रकृतिः फट् ।
प्रकृतिर्विकृतिर्वह्नि*? न्दरी । लक्ष्मीबीजं मायाबीजं ततः परम् ।
वाग्भरं तदनन्तमेव वज्रवैरोचनीये ततः ।
मायाद्वन्द्वं फडन्तञ्च तदन्ते वह्निसुन्दरी ॥
पूर्वमायापदे देवि कामबीजं प्रतन्यते ।
महाकालमतं प्रोक्तं मन्त्रोद्धरशुभावहम् ॥
कामाद्यां वागभवाद्याम्बा मायाद्याम्बा यजेत् सुधीः ।
लज्जाद्यां वा यजेद्विद्यां चतुर्वर्गफलप्रदाम् ॥
लक्ष्याद्याम्बा श्रीप्रसिद्धार्थं कामाद्याः कामसिद्धये ।
मायाद्या वश्यकार्येषु लज्जाद्याः शत्रुनाशने ॥
पश्चिमे प्रजपेद्विद्यां मेरोर्दक्षिणकुलतः ।
उत्तरे प्रजपेद्विद्यां तथा प्राच्यां विशेषतः ॥
पश्चिमे च मायायुक्ता श्रीविद्यायाश्च दक्षिणे ।
उत्तरे वाग्भराद्याश्च कामाद्यास्तदनन्तरे ॥
भैरवेण तत् कथितं विधानञ्च कृते युगे ।
एवं तद्देवतासङ्घर्ज्जपेद्विद्यां विधानतः ॥
सहस्रशतकं विद्या तन्त्रे तन्त्रे निरूपिता ।
श्यामावक्ता महाविद्या विविधा तन्त्रशास्त्रतः ॥
गायत्रीं प्रजपेद्विद्वान् विधानेन शृणुष्व तत् ।
कामाद्यां प्रजपेद्विद्यां सर्वकामफलाप्तये ॥
चित्स्वरूपां तथा ङेन्तां विद्महे तदनन्तरम् ।
वज्रवैरोचनीं ङेन्तां धीमहि तदनन्तरम् ॥
तन्नो मातः प्रचोदयात् गायत्री सर्वसिधिदा ।
वैरोचनीं वदेद्धीमान् ङेन्तञ्च विद्महे ततः ॥
(प्. २८) छिन्नमन्तां तथा ङेन्तां धीमहि तदनन्तरम् ।
तन्नो देवी समुद्धृत्य तदा क्रयात् प्रचोदयात् ॥
महाकालमता देवी गायत्री सर्वसम्मता ।
लजाद्यां वा कामाद्यां वा मायाद्यां वा जपेत् सदा ॥
वाग्भवाद्यां जपेद्विद्यां चतुर्वर्गफलप्रदाम् ।
गायत्र्या त्राति तान् सर्वान् साधकान् भववन्धनात् ॥
तेनैव गीयते सद्भिर्गायत्री सर्वसम्मता ।
चतुर्लक्षं जपं कुर्यात् पूरश्चरणकर्मणि ॥
लक्ष्मीं लज्जां तथा मायां मात्रां द्वादशिकामपि ।
वज्रवैरोचनीयेति मात्रे फट् स्वाहया युतम् ॥
वान्तं वहनसंयुक्तं रतिबिन्दुविभूषितम् ।
चतुर्थस्वरवर्णस्य रतिसंज्ञां कृते बुधैः ॥
लक्ष्मी बीजमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
वामाक्षिवह्निसंयुक्तं बिन्दुनादविभूषितम् ॥
शिवबीजं महेशानि लज्जाबीजमुदाहृतम् ।
ईशानमुद्धृत्य पूरारिबीजं सबिन्दुकं नादविभूषितञ्च ॥
सवामकर्ण परितः प्रकल्पा मायासुवन्तीह मनीषिनन्ताम् ।
द्वादशस्वरवर्णस्य नादबिन्दुसमन्वितम् ॥
वाग्भवं बीजमित्युक्तं सर्ववाक्यविशुद्धये ।
सम्बोधनपदे देवि देवतामूर्तिरीरिता ॥
अतः परे मायाबीजं तदन्तेऽस्त्रं ततः परम् ।
योजयेत् परया भक्त्या शक्तिस्तु वह्निसुन्दरी ॥
अन्या या विविधा विद्या सा तु देवी सुरेश्वरी ।
विकृतिः श्वरूपिणी सैव सर्वतन्त्रसमन्विता ॥
भैरवस्तु ऋषिश्चान्याः सम्राट्च्छन्दः समीरितः ।
देवता सर्वसिद्धाख्या नाम्ना त्रिभुवनेश्वरी ॥
मायाबीजं स्वाहाशक्तिः कथितं पद्मयोनिना ।
अथ ध्यानं प्रवक्ष्यामि शृणुष्व कमलानने ॥
ध्यानं तत्रिविधं प्रोक्तं सकलं निष्कलं तथा ।
कलातीतञ्च तत् पश्चात् शृणु देवि यथातथम् ॥
निष्कलं यतिभिः कार्यं सकलं गृहमेधिनः ।
कलातीतं ब्रह्मचर्यं कथितं पद्मयोनिना ॥
स्वनाभौ नीरयं ध्यायेत् छन्दो विकसितस्मितम् ।
तत् पद्मकोषमध्ये तु मण्डलं चण्डरोचिषु ॥
जवाकुसुमसङ्काशं रक्तबन्धुकसन्निभम् ।
रजः सत्वतमोरेखा योनिमण्डलमण्डितम् ॥
मध्ये तु तां महादेवीं सुर्यकोटिसमप्रभाम् ।
छिन्नमस्ता करे वामे धारयन्तीं समस्तकम् ॥
प्रसारितमुखीं देवीं लेलिहानोग्रजिह्विकाम् ।
पिवन्तीं रौधिरीधारां निजकण्ठविनिर्गताम् ॥
विकीर्णकेशपाशञ्च नानापुष्पसमन्वितान् ।
दक्षिणे च करे कर्त्रीं मुण्डमालाविभूषिताम् ॥
दिगम्बरीं महाघोरां प्रत्यालीढपदे स्थिताम् ।
अस्थिमालाधरां देधीं नागयज्ञोपवीतिनीम् ॥
रतिकामोपविष्टञ्च सदा ध्यायन्ति मन्त्रिणः ।
सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥
विपरीतरतस्थौ च ध्यारेद्रतिमनोभवौ ।
डाकिनी रुक्षिणी युक्तां वामदक्षिणयोगतः ॥
देवी गलच्छोणितानां धारापानं प्रकुर्वतीम् ।
डाकिनीं वामपार्श्वे च कल्पान्तज्ज्वलनोपमाम् ॥
(प्. २८ब्) विद्युच्छटाभनयनां दन्तपङ्क्तिवलाकिनीम् ।
दंष्टाकरालवदनां पीनोन्नतपयोधराम् ॥
महादेवीं मुक्तकेशीं महाघोरां दिगम्बरीम् ।
कपालकर्तृकाहस्तां वामदक्षिणयोगतः ॥
देवी गलच्छलद्रक्तधारापाणं प्रकुर्वतीम् ।
करस्थितकपालेन भीषणेनातिभूषणाम् ।
आद्यां निषेव्यमानां तां ध्यायेद्देवीं विचक्षणः ।
एवं ध्यात्वा यजेद्देवीं सर्वसिद्धिफलाप्तये ॥
भैरवोक्तमहं वक्ष्ये ध्यानं सर्वष? नाशनम् ।
उद्यात्कोटिरविप्रभं * * * * वामे करे विभ्रतीं भीमां घोरकपालिकां
स्वरुधिरापाने प्रसक्ताननाम् ।
भोगेन्द्रोचितदेहतीरुरुचिरां खड्गं तथा दक्षिणे प्रत्यालीढपदां
दिगन्तवसनां ध्यायेत् सदा सुन्दरीम् ॥
पूर्ववद्विन्यसेद्देहं पूर्ववद्भूतशोधनम् ।
प्राणायामं पूर्ववच्च अर्घ्यपात्रं ततः परम् ॥
पूजोपकरणं कुर्याद् वाह्ययोगप्रसिद्धये ।
पूर्ववत् स्थानमुद्दिश्य प्रान्तरे सततं जपेत् ॥
नार्चनं पूजनं तस्या मन्त्रमात्रं जपेत् सदा ।
महाविद्याविशेषे तु विचारो नैव विद्यते ॥
महागुरुनिपातादौ नास्ति दोषः कथञ्चन ।
अशुचौ वा शुचौ वापि सर्वकालं जपेत् सुधीः ॥
लेहवक्षं प्रकुर्वीत विचारं तन्त्रसम्मतम् ।
नापि देहविचारं स्यात् न मित्राद्यापि हर्षणम् ॥
सर्वत्र सर्वकालेषु मन्त्रविद्यां जपेत् सदा ।
चक्रं विलिख्य विधिना यजेच्छक्तिर्विचक्षणः ॥
त्रिकोणं विन्यसेत् पूर्वं योनिमण्डलमण्डितम् ।
विश्वत्रयं तत्र कुर्यात् साष्टपत्रं प्रमाणतः ॥
बूपुरत्रितयं दद्यात् वज्रशूलसमन्वितम् ।
कपालकर्तृकां दद्यात् वामदक्षिणयोगतः ॥
मध्ये कुर्चयुगं लिख्यं स्वाहान्तं वा फडन्तकम् ।
महाचक्राय इति च नमोऽन्तं पूजयेद्धिया ॥
अथ यन्त्रान्तरं वक्ष्ये शृणु सावहितो भव ।
लिखेदष्टदलं पद्मं मध्ये तस्य त्रिकोणकम् ॥
मण्डलं विलिखेद् तानोन्तदन्ते? योनिमण्डलम् ।
मायाबीजं लिखेत्तत्र त्रिकोणे फट्समन्वितम् ॥
तत्र आवाहयेद्देवीं तासां वाहनमन्त्रतः ।
आधारशक्त्यादिकं कुर्यात् पूजां सर्वसमृद्धये ॥
आधारशक्तिं पूजयेत् पङ्कजद्वयधारिणीम् ।
अधःकुर्मासनारूढां शरच्चन्द्रनिभानाम् ॥
तदुर्द्धे पूजयेद्देवं कुर्मं नीलाभसन्निभम् ।
यजेद्त? नधरं देवमेककुण्डलधारिणम् ॥
सहस्रफणसंयुक्तं देवगन्धर्वसेवितम् ।
तन्मूर्द्ध्नि पूजयेद्देवि सागरान्तां समेखलाम् ॥
पृथिवीं रत्नद्वीपञ्च कल्पवृक्षं ततः परम् ।
तदधः पूजयेद् दिव्यं स्वर्गसिंहासनं शुभम् ॥
नानाचित्रसमायुक्तं पूजयेद् विधिनामुना ।
आनन्दकन्दं तत्रैव सम्बिन्नालमतः? परम् ॥
सर्वतत्वात्मकं तत्र कमलं सुमनोहरम् ।
रजःसत्वं तमोयुक्तं गुणं तत्र प्रपूजयेत् ॥
(प्. २९) आत्मानमन्तरात्मानं तत्रापि परिपूजयेत् ।
रतिकामस्तदा तत्र विपरीतरतौ स्थितौ ॥
तत्रोपरियजेद् देवीं त्रिशक्तिरूपिणीं सदा ।
रजोगुणात्मिकां शक्तिं वर्णिनीं दक्षदेशकम् ॥
तस्याः सदशरूपस्थां सर्वतन्त्रसमन्विताम् ।
तमोगुणात्मिकां शक्तिं वामपार्श्वे यजेत् सदा ॥
डाकिनीं सर्वसिद्धाख्यां मध्ये देवीं सनातनीम् ।
शुद्धसत्त्वसमुद्भूतां नानावर्णविभूषिताम् ॥
ओङ्कारादिनमोऽन्तञ्च मन्त्रसिद्धिफलप्रदाम् ।
सर्वसुसिद्धिवर्णीं ब्रूयात् सिद्धिश्च डाकिनीम् ॥
वज्रवैरोचनीं ब्रूयात् सम्बुद्धान्तां विधानतः ।
इहावह इह तिष्ठ तिष्ठ इति मन्त्रेण पूजयेत् ॥
प्राणप्रतिष्ठां कुर्याच्च पूर्ववत् कमलानने ।
दद्यादासनमन्त्रेण आसनावाहनन्ततः ॥
षडङ्गञ्च तदा न्यस्य यजेद्देवीं सुसाधकः ।
तदा देवीं यजेद्देवि वलिदानादिमन्त्रतः ॥
सम्बुद्ध्यन्तं पदं ब्रूयात् देहि एहि पदद्वयम् ।
गृह्न गृह्न इमं ब्रूयात् वलिशब्दं ततः परम् ॥
ममशब्दं समाभाष्य सिद्धिं देहि पदद्वयम् ।
कवचं द्वितीयं चोक्त्वा करालिके पदं ततः ॥
फट् स्वाहान्तो महामन्त्रो वलिदानविधानके ।
वलिं नानाविधं दद्यात् आमं पक्वं ततः परम् ॥
आमान्नं परमान्नञ्च गौडं गुडविकारजम् ।
रक्तमांसं तथा भ्रष्टं सुरां नानाविधामपि ॥
गौडीं पौष्टीञ्च तालञ्च खर्जुरीं पुष्पसम्भवाम् ।
सुपक्वकाज्ञिका चैव दानाचामरयोषितः ॥
ब्राह्मणाः क्षत्रिया वैश्याः सर्वे पात्राधिकारिणः ।
पशुं नानाविधं दद्यात् नरञ्चैव विशेषतः ॥
समभ्यर्च्य बलिं पूर्वे गन्धपुष्पादिचन्दनैः ।
तदानुज्ञां गृहीत्वा च अङ्गदेवान् प्रपूजयेत् ॥
तुषारस्फटिकश्यामः नीलकृष्णारुणार्चिषः ।
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ॥
हृदयादि यजेद् देवीं क्रमेण साधकोत्तमः ।
खड्गाय हृदयं ब्रूयात् खड्गाय च शिरोपरि ॥
श्रीवक्त्राय शिखादेशे पाशं तं कवचेन च ।
अङ्कुशं नेत्रयुग्मे च सर्वाङ्गे विन्यसेत् ततः ॥
असुरक्षयकाराय सर्वाङ्गे विन्यसेत् सुधीः ।
अष्टपत्रे यजेच्छक्तीः ओङ्कारादिविधानतः ॥
ओङ्कारीं वर्तिनीञ्चैव डाकिनीं तदनन्तरम् ।
महाभैरवीं भैरवीञ्च इन्द्राक्षीं पूजयेत् ततः ॥
पिङ्गलाक्षीं संहारिणीं पूर्वादिक्रमयोगतः ।
मध्ये तु कवचद्वन्द्वं फडन्तं पूजयेत् क्रमात् ॥
स्वाहान्ते सर्वदा देव्याः पूजनं परिकीर्तितम् ।
भैरवं पूजयेद् देवं सम्मुखे विधिनामुना ॥
सम्राट् छन्दो दक्षिणे च मन्त्रवर्णान् तथोत्तरे ।
बीजशक्तिर्दक्षदिशि पूजयेत् क्रमतः सुधीः ॥
मातरः पत्रमध्ये च ब्रह्मद्याः सर्वसिद्धिदाः ।
पूर्वोक्तध्यानन्यासेन पूजयित्वा यथाक्रमात् ॥
इन्द्रादिलोकपालान्ताः पूजास्तत्र समन्विताः ।
(प्. २९ब्) भूपुरे पूजयित्वा च पूर्वादिक्रमयोगतः ॥
इन्द्रादिकं पूर्वमुक्तं तेषां मूर्तिं प्रत? न्यते ।
पीतरक्ता शिता श्यामा धूम्रा शुक्ला च पार्वती ॥
कृष्णा गौरी च रक्ता च शुक्लवर्णा ततः परा ।
ब्रह्माणी च तथा देवी हरेर्लक्ष्मी समीरिता ॥
तत्रापि पूजयेत् तेषां मन्त्राणां मूर्तयस्त्विमाः ।
वज्राद्या अस्त्रसन्दिष्टाः सर्वतन्त्रसमन्विताः ॥
पीता शुक्ला शिताकाशा विद्युद्रक्तासितासिता ।
कारवेल्लपाटलाभा वज्रद्याः कीर्तिता बुधैः ॥
अथासनस्य मन्त्रोऽयं कथितं पद्मयोनिना ।
सम्बुद्धान्तं पदं ब्रूयात् देहि एहि पदद्वयम् ॥
इदमासनसमुद्धृत्य गृह्न गृह्न पदद्वयम् ।
सा सिद्धिञ्च समुद्धृत्य देहि देहि पदद्वयम् ॥
मम शत्रून् समाभाष्य मारयद्वितयं पुनः ।
कर्तृकाद्वितयञ्चोक्ता अस्त्रान्तायान्तसुन्दरी ॥
आसनस्य तु विद्येयं कथिता पद्मयोनिना ।
एवं सम्पूज्य विधिना नैवेद्यान्तं विधानतः ॥
चक्रस्य दिक्षु कुर्वीत विधानेन प्रपूजनम् ।
गन्धपुष्पधूपदीपनैवेद्यैर्विधिनामुना ॥
करालं विकरालञ्च अतिकरालं ततः परम् ।
महाकरालं देवेशि चतुर्थ्यन्तं प्रपूजयेत् ॥
मायाबीजादिकं कृत्वा नमोऽन्ते पूजयेत् सदा ।
पञ्चाङ्गदेवतां वक्ष्ये शृणुष्व कमलानने ॥
एवं विना न सिद्धिः स्यात् शङ्करेण च भाषितम् ।
एवं सञ्चिन्ता विधिना गन्धपुष्पादिभिस्ततः ॥
पूजयेत् परया भक्त्या महाविद्यां विशालधीः ।
अन्तर्यागं ततः कृत्वा वहिर्यागं ततः परम् ॥
मन्त्रन्यासं ततः कुर्यात् जपकाले विधानतः ।
आपादमस्तकं कुर्यात् प्रतिलोमानुलोमतः ॥
प्राणायामं ततः कृत्वा जपेद्विद्यां विधानतः ।
आत्मानं देवतात्मानं भावयित्वा विधानतः ॥
वस्तालङ्कारगन्धाद्यैर्भूषयित्वात्मनस्तनुम् ।
जपेन्मन्त्रं विधानेन जापकः सर्वसिद्धये ॥
एकै कर्मात्रं कुर्वीत जपनन्तु दिवानिशम् ।
द्वितीये चञ्चला मूर्तिः कथिता पद्मयोनिना ॥
प्रणवाद्यां लज्जायुगं सम्बुद्धान्तपदं ततः ।
मायाफट् स्वाहया युक्तां चतुर्वर्गफलप्रदाम् ॥
न प्रकाश्या इयं विद्या प्राणान्तेऽपि कदाचन ।
नीलवर्णा भवेन्मूर्तिः सर्वतन्त्रसमन्विता ॥
श्रीपार्वत्युवाच ।
येन वर्णेन ये देवाश्छन्दांसि ऋयश्च ये ।
तान् सर्वान् श्रोतुमिच्छामि कथयस्व प्रसादतः ॥
ईश्वर उवाच ।
एवं प्रणम्य देवेशि ब्रह्मविष्णुमहेश्वरम् ।
कथयिष्ये विधानेन शृणु सावहिता भव ॥
वकारे वरुणः साक्षात् जाकारे च सुरारिणः ।
ऐकारे त्रिपुरा देवी रेफस्त्रिपुरसुन्दरी ॥
त्रैलोक्यविजया देवी सदैवोद्धारसंस्थिता ।
इकारे च महादेवं नकारे गिरिनायकः ॥
ईकारे कमला साक्षात् मकारे च सरस्वती ।
(प्. ३०) मयोमुखे महादेवी प्रकृतिः सर्वसिद्धिदा ॥
विकृतिश्चैव फट्कारे स्वाक्रे कुसुमायुधः ।
हाकारे च रतिस्तिष्थेत् लक्ष्मी श्रीबीजयोगतः ॥
मनोभवा लज्जाबीजे मायायान्तु महामता ।
चतुर्थे तु गुणातीता मुक्तिविद्या प्रदायिनी ॥
छन्दः सम्राट् भैरवस्तु ऋषिर्मन्त्रसमुच्चयः ॥
अथ स्तवं प्रवक्ष्यामि ब्रह्मणा यं क्रतं पुरा ।
तत् शृणुष्व महेशानि विधानं सुरदुर्लभम् ॥
नाभौ शुभ्रारबिन्दं तदुपरिकमलं मण्डलं चण्डरश्मेः
संसारास्यैकसारा त्रिभुवनजननी धर्मकर्मोदया या ।
तस्मिन् मार्गे त्रिमार्गे त्रितयतनुधरीं छिन्नमस्तां प्रशतां तां वन्दे
ज्ञानरूपां मरणभयहरां योगिनीं योगनिद्राम् ॥
नाभौ शुभ्रसरोजवक्त्रविलसद्वन्धुकपुष्पारूणं
वामेच्छिन्नशिरोधरां तदितरे पाणौ वृहत् कर्तृकाम् ।
प्रत्यालीढपदां दिगन्तवसनामुन्मुक्तकेशव्रजां छिन्नास्वीयशिवः
समुच्छलदसृग्कारां पिवन्तीं पराम् ॥
वालादित्यसमप्रकाशविलसन्नेत्रत्रयोद्भाषिणीं वामादन्यत्र नाडी
वहूवहूलगलद्रक्तधाराभिरुच्चैः ।
धारन्तीमस्तिभूषां करकमललसत् कर्तृकामुग्ररूपां
रक्तामारक्तकेशीमपगतवमनां वर्णिनीमात्मशक्तिम् ॥
प्रत्यालीढारुपादां दिगन्तरलसत्केयुरकोटिप्रभां दिग्वस्त्रां
मस्तकेशां प्रलयघनघटां घोररूपां प्रचण्डाम् ।
दंष्टा दुष्प्रक्षवक्त्रो रविवरविलसत् लोलज्जिह्वाप्रभाषां
विद्युलोलाक्षियुग्मां हृदयतटलसद्भागी भीमात्ममूर्तिम् ॥
सदाश्छिन्नात्मकण्ठप्रगलितरुधिरैर्डाकिनीं वर्द्धयन्तीं
ब्रह्मेशानाच्युताद्यैः शिरसि न हि तां
वन्द्यपादारविन्दामात्मज्ञैर्योगिमुख्यैः प्रतिपदमनिशं चिन्तितां
चिन्तरूपाम् ।
संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्तां तां वन्दे
ज्ञानरूपां मरणभयहरां योगिनीं योगनिद्राम् ॥
इष्टान्तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि
उत्पत्तिस्थितिसंहृतीर्घटयितुं * * त्रिरूपां तनुम् ।
त्रिअगुण्याज्जगतो मदीयविकृतिर्ब्रह्मा हरिः शूलधृक् तामाद्यां प्रकृतिं
स्मरामि मनसा सर्वार्थसंसिद्धये ॥
(यस्याः स्मेरपदारबिन्दुयुगशं नित्यं भजन्तेऽमराः)
अलिपिसिपुरन्क्रीयोगपूजापरोऽहं बहूविधजलधारारम्भसम्भारितोऽहम् ।
पशुजनविरतोऽहं भैरवीसंसृतोऽहं गुरुचरणपरोऽहं भैरवोऽहं
शिरोऽहम् ॥
इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा ।
सर्वसिद्धिप्रदं साक्षात् महापातकनाशनम् ॥
यः पठेत् प्रातरुश्याय देव्याः सन्निहितोऽपि वा ।
तस्य सर्वार्थसिद्धिः स्यात् यदयन्मनसि वर्तते ॥
धनं धान्यं सुतां जायां हयहन्तिनमेव च ।
वसुन्धरां महाविद्यामष्टौ सिद्धिर्भवेद्द्रुवम् ॥
(प्. ३०ब्) अन्यच्च वाञ्चितं सर्वं तत् सर्वं तदनुग्रहात् ॥
इति विश्वसारतन्त्रे प्रचण्डचण्डिकास्तोत्रं समाप्तम् ॥
९९९९९
प्राणाग्निहोत्रं वक्ष्यामि देव्याः प्रीतिकरं परम् ।
कांस्यपात्रे तु सिद्धर्थं कुर्यात् सपयसं घृतम् ॥
अस्त्रेणोत् क्षिपेधेन्नास्वतिकृत्याष्टधा मन्त्रं जप्ताशोषणदहनपचनं
कुर्यात् संस्पृश्य वामाङ्गुष्ठेन पुनर्धेनुमुद्रया अमृतीकृत्याभार्च्च्य
मूलं यथापदं ङेन्तं वह्निसुन्दरी ।
पुनरञ्जलिं दत्त्वा कुसुमं समुखमानीय वामहस्ते ग्रासमुद्रां
प्रदर्श्य निवेदयामि तुभ्यं गृहाणेदं सुरेश्वरि ।
दक्षिणे प्राणादिमुद्रां प्रदर्शयेत् ।
कनिष्ठानामिकाङ्गुष्ठा प्राणाय स्वाहेति पदम् ॥
तर्जनीमध्यमाङ्गुष्ठा अपाअनाय पदं वदेत् ।
कनिष्ठानामिकामध्या अङ्गुष्ठाव्यानार पदं वदेत् ॥
मध्यमा तर्जन्यनामा वृद्ध्याचोदनाय पदम् ।
सर्वाङ्गुलिभ्यः समानियेति च पदं वदेत् ॥
परमात्मिकायै भुवनेश्वर्यौ नमः । इति ॥
पुनराचमनीयादिकं दत्त्वा अग्निहोत्रं तेनैव कृत्वा ताम्बुलादिकं दत्त्वा
धूपदीपौ च दत्त्वा छत्रचामरादिकं प्रदर्श्य कर्मार्पणं कृत्वा
प्रणम्य निर्माल्यादिकं वैष्णवीगणेभ्यो दत्त्वा परमानन्दं कृत्वा
महाप्रसादं भुञ्जीत ।
महाकालमतं सर्वं कथितं पद्मयोनिना ।
भीमोद्भीमभयापहं हरवधुं वन्दे भवानीं पराम् ।
नीलान्तोदलितां समस्तजननीमाद्यां परां चिन्मधीम् ।
धारारक्तप्रपूरितान् नरगलन्मुण्डं स्वरामे भूजे ॥
दक्षे खर्पररत्नाविलसत् हारावलीशोभिताम् ।
ओङ्काररूपां परमां परमाशक्तिं समस्तां जननीं नमस्ते ।
आनन्दरूपां रुधिरार्द्धवक्त्रां स्वमस्तकं वामकरे भवानीम् ।
नमोऽस्तु तां नित्यमलक्षलक्षणां सुरासुराभ्यर्चितपादपद्माम् ।
दक्षे वर्णमयीं सुतीक्ष्णकिरणां रक्तां विचित्रां पराम् ।
दिग्वासां सुरपूजितां स्मितसुखीं तां वर्णिनीं वै नमः ।
वामे देवीं समस्तैस्त्रिदशगणशतैः पूजितां सु * भीमाम् ।
रक्तालङ्कारवस्तां निखिलपशुगणोन्माखिनीं तां नमस्ते ।
यां देवैर्ब्रह्ममुख्यैरसितकिलकलाशक्तिरूपस्य चाद्या ।
या विद्या देववन्द्या हरिहरनममिता या परा श्रीभवानी ।
या नित्यानन्दरूपा निखिलभयहरा ब्रह्मरूपस्वरूपा ।
तां देवीम् । छिन्नमस्तां भवभयशमनीं कालरूपां रुपुणाम् ॥
नमो नमस्ते जननीं समस्तां ओङ्काररूपां किल वज्रवक्त्रां
हूङ्कारकारीं रवद्यैत्यमुख्यान् ।
हूङ्कारशब्दैः कृतचुर्णितां तान् ।
हुङ्कारशब्दावृतदिग्विभागां हुङ्कारशब्दाच्चरतीं समस्ताम् ।
हुङ्कारशबाद् गलितां भवानीम् ।
नमो नमस्तेऽखिललोककर्त्रीम् ।
(प्. ३१) आद्यां नमस्ते जय भीमरूपे नमोऽस्तुते देवि परा परोक्षे ।
नमो नमः शम्भुपराक्रमाणां शक्तिं समास्ताञ्च नमो नमस्ते ।
त्वं देवी सुरपूजिता भयहरा शम्भुप्रियानन्दिनी ।
भक्तानं सूलभा महालयमयीं सिंही समस्तां द्विधाम् ।
ये त्वां गादमयीं भजन्ति जननीमादाश्च सिद्धाश्च ये ।
आद्यां श्म्भुपराक्रमां हरिहरब्रह्मादिभिः सेवितां ब्रह्माणीं
सुरसङ्घवन्दितपदां भीमां महाभैरवीम् ।
सर्वानन्दकलाकलापकलितां नित्योत्सरां साधके वन्दे त्वां जगतां
समस्तजननीं श्रीमद् भवानीं पराम् ॥
नमो देवी चण्डे प्रचण्डैकचण्डि नमो देवि दुर्गे भवानीति सत्यम् ।
स्तुवन्ति प्रसनात्मना ये च नित्यं न तेषां ज्वरायातनाचोग्रभीतिः ।
जया चण्डरूपा प्रचण्डातिचण्डा भवानीहृदा सागरा सिद्धिरूपा ।
स्तुवन्तो जपन्तः स्मरन्तश्च नित्यं न तेषां ज्वरा यातना चोग्रभीतिः ।
उमे देवि दुर्गे परा सिद्धिरूपा परा डाकिनी वर्णिनी विश्वमाता ।
हरार्द्धाङ्गभागा परित्राहि दीपं नमस्ते नमस्ते नमस्ते तु दुर्गे ॥
निधीनां निधीशो नरस्त्वां प्रपन्ना नराणां नरेन्द्रास्त्वदीयप्रसादात् ।
किमन्यं शरणां विलङ्घ्याङ्घ्रियुग्मं प्रपन्नं प्रसादं मनुष्यान
पुनीहि ॥
ईश्यं त्वां स्तुतिरष्टकैर्द्विगुणितैः संस्तौति विश्वेश्वरीम् ।
धन्यः सर्वसुखावहो भूवितले नित्योत् सवं तद्गृहे ।
सिद्धिः सर्वजनेश्वरः सुकविता वाग्मी च विद्यान्वितो मुक्तिं भुक्तिकरं
सवस्तजगतां पूजाः सुरेन्द्रा यथा ॥
इति विश्वसारतन्त्रे परदेवता कौशिकी स्तवराजः समाप्तः ।
९९९९९
श्रीपार्वत्युवाच ।
नमस्ते नाथ भगवन् शिवायाः शिवरूपिणे ।
विद्यावतां रसं सिद्धौ श्रीकृतानेकविग्रहः ॥
नराय नररूपाय परमात्मैकरूपिणे ।
सर्वज्ञान ततो भेदभानवे चिद्घनाय ते ॥
स्वतन्त्राय सदाक्लप्तविग्रहाय शिवाय च ।
परतन्त्राय भक्तानां भव्यानां भावदायिने ॥
विवेकानां विवेकाय विमर्षाय विमर्षिणाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥
पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्याद्विपर्ययः ।
सदासत् चित् स्वरूपेता देहि मे तव दासताम् ॥
ईश्वर उवाच ।
अथ वक्ष्ये महेशानि नित्या श्रीः सर्वसिद्धिदा ।
यस्याः प्रस्तावाल्लभते चतुर्वर्गान् सुदुर्लभान् ॥
ईश्वरी प्राह देवेशं या नित्या हिन्नमस्तका ।
तस्याः प्रभावसकलं तत्वतो ब्रूहि मे प्रभो ॥
पुरा प्रोक्ताचले रम्ये कैलाशे त्रिपुरान्तक ।
अद्यैव तत् समस्तं मे प्रकाशय दयानिधे ॥
ईश्वर उवाच ।
कोटितन्त्रेषु गोप्या हि मन्त्राणां मन्त्रनायकौ ।
कवचं हि तयोर्देवि शृणुष्व सर्वकामदम् ॥
रहस्यं त्वां महादेवि सुशुप्तं परमं महत् ।
कथयिष्यामि मन्त्राणां सर्वसिद्धिकरं परम् ॥
ओङ्कारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ।
कर्तव्यं सर्वभावेन जपश्चात्र दिवानिऽसम् ॥
नार्चनं पूजनं चास्या मन्त्रमात्रं जपेन्नरः ।
करस्थाः सिद्धयः सर्वा अणिमादि गुणाकराः ॥
ओं अनयोश्छिन्नमस्तामन्त्रयोर्भगवान् शिव ऋषिरसुष्टुप्छन्द
आद्याशक्तिर्भगवतीश्छिन्नमस्ता देवता मम सुकवित्वपाण्डित्यसमृद्धये
विनियोगः ।
ओङ्कारे मस्तके पातु वदने ह्री/ सदावतु ।
वज्रवैरोचनी मे कण्ठे हृदये पातु सर्वदा ॥
हु/ पातु गुह्यलिङ्गे हुं पातु पृष्थे हरिप्रिया ।
फट् स्वाहा पार्श्वयोः पातु हस्तयोः पादयोस्तथा ॥
विजया नाभिदेशे स्यात् जया रक्षतु कर्णयोः ।
गण्डे कवित्वदा पातु शिखायाञ्च पराजिता ॥
भवानी पातु भवने सर्वैश्वर्यप्रदायिनी ।
विद्यादानरता देवी पातु वक्त्रे सरस्वती ॥
सिद्धाख्या भैरवी पातु राजस्थाने सुरार्चने ।
भीमरूपा सदा पातु श्मशाने भयहारिणी ॥
पुत्रान् रक्षतु देवेशि भावरूपा भयापहा ।
शास्त्रे वादे च सङ्ग्रामे जले च विमले गिरौ ॥
अरण्ये सर्वदा पातु जया श्रीछिन्नमस्तका ।
आपादमस्तकं रक्षां करोतु मम चण्डिका ॥
दारान् रक्षतु देवेशी चण्डरूपा भयापहा ।
नित्यानन्दस्वरूपा या सर्ववेदे प्रतिष्ठिता ॥
पातु नित्यं महेशानि सर्वदा शिवभूतिका ।
डाकिनी वर्णिनी रक्षां करोतु मम सर्वदा ॥
भूतप्रेतालये घोरे दुर्गमे भीषणावतु ।
इति ते कवचं देवि त्रिषु लोकेषु दुर्लभम् ॥
यत्र तत्र न वक्तव्यं न वक्तव्यं कदाचन ।
गोपितं सर्वतन्त्रेषु विश्वसारे प्रकाशितम् ॥
तत् शृणुष्व महेशानि निषिद्धं यमनौ प्रिये ।
दत्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥
शठाय भक्तिहीनाय क्रूराय शुचकाय च ।
लोलुपाय च दुष्टार न दद्यात् कवचं प्रिये ॥
भक्तियुक्ताय शिष्याय महेच्छाय शुभाय च ।
वैष्णवाय विशुद्धय दातव्यं कवचं प्रिये ॥
कवचं स्मरणाद्देवि चतुर्वर्गफलं लभेत् ।
कवचस्य तु महात्मां नाहं वर्षशतैरपि ॥
न शक्नोमि महेशानि वक्तुं तस्य फलञ्च यत् ।
न दाराणां न पुत्राणां न वन्धुनाञ्च पार्वति ॥
पश्यन्ति न हि ते शोकं नृपपूज्या भवन्ति च ।
शुचिर्भुत्वा शुचिर्वापि कवचं सर्वकामिकम् ॥
पठनं स्मरणं वापि मर्त्यः शापासुग्रहक्षमः ।
आनन्दनन्दसिन्धुनामधिपः कविराड् भवेत् ॥
सर्ववागीश्वरो मर्त्यो लोकवन्द्यो धनेश्वरः ।
रणे भूते विवादे च जयं तस्य भवेद्ध्रुवम् ॥
पुत्रपौत्रान्वितो मर्त्यो विलासी सर्वयोषिताम् ।
(प्. ३२) शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा ॥
गर्वी खर्वो भरतोव वादी स्खलति दर्शनात् ।
मृत्युश्च दैवतां याति दासस्तस्यावनीभुजः ॥
प्रसङ्गात् कथितं देवि रहस्यं सुरदुर्लभम् ।
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ॥
तत्रापि कवचं देवि दुर्लभं भुवनत्रये ।
गुरुर्द्देवो हरः साक्षात् पत्नी तस्य हरप्रिया ॥
अभेदेन यजेद्यस्तु तस्य सिद्धिरदुरतः ।
मन्त्राचाराः पुरा प्रोक्ताः क्रमतस्तान् भजन् जपेत् ॥
नाभौ ज्योतिस्तथा वक्त्रं हृदये परिचिन्तयेत् ।
ऐश्वर्यं सुकवित्वञ्च महावागीश्वरो नरः ॥
नित्यं तत्र महेशानि महिलासङ्गमञ्चरेत् ।
पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा ॥
शक्तियुक्तो जपेन्मन्त्रं न मन्त्रं केवलं जपेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥
तं दृष्ट्वा साधकं देवि प्रसंशन्ति मुदान्विताः ।
इति ते कवचं देवि चण्डादेव्याः प्रकीर्तितम् ॥
भक्तिमुक्तिप्रदं साक्षात् कल्पवृक्षस्वरूपकम् ।
(आसाद्यापि गुरुः प्रासाद्य इयं कल्पद्रुमोपमम् ॥ )
मोहेनापि मदेन वा न हि जनो जाडोन वा मुह्यति ।
सिद्धोऽसौ खलु सर्वदुःखविपदां पारं प्रयान्ति * दे ॥
नित्यं तस्य नृपश्च देवि परतो नश्यन्ति तस्यास्तये ।
लिखितं धारयेद्घस्तु कण्ठे वा मस्तके भुजे ॥
तस्य सर्वार्थसिद्धिः स्यात् यद्यन्मनसि वर्तते ।
गोरोचनाकुङ्कुमेन भूर्जपत्रे महेश्वरि ॥
साधयो व्याधयस्तस्य दुःखलोकभयं क्वचित् ।
वादी मुकतिपोषकस्तवयति क्ष्मा वल्लभोदासते ॥
गर्वी खर्वति वङ्कतिः क्षितिपतिर्वैश्वानरः शीतति ।
आचाराष्टकसिद्धिरूपसपरं सिद्धाष्टकं तद्भुजे ॥
तां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रियाम् ॥
इति विश्वसारतन्त्र प्रचण्डचण्डिका कवचं समाप्तम् ।
९९९९९
ईश्वर उवाच ।
प्रातरेव समुश्याय हस्तपादं विशुद्ध्य च ।
उत्तराभिमुखीभुय कुर्याद्भक्त्या गुरोर्नतिम् ॥
मनसा वचसा वापि कायिकैश्च विशेषतः ।
क्षेत्रेशं वास्तुराजञ्च विघ्नराजं ततः परम् ॥
दुर्गां विनायकं शम्भुं भैरवं वटुकान्वितम् ।
ब्रह्माणं नैर्-ऋतञ्चापि चक्रपाणिं नमेत् सदा ॥
विघ्नेभ्यो विघ्ननाथेभ्यः ऋषिभ्योऽपि नमेत् सदा ।
एवं प्रणम्य देवेशि ध्यायद्देवीं विचक्षणः ॥
प्रान्तरे वा श्मशाने वा शून्यवासे तथा गृहे ।
अद्वैतभावनां कुर्यात् ब्रह्माण्डसदृशीं तनुम् ॥
आधारशक्तिं सञ्चिन्त्य पङ्कजद्वयधारिणीम् ।
तन्मूर्द्ध्नि चिन्तयेद्देवि कुर्मरूपं जनार्दनम् ॥
नीलमेघनिभं देवं सर्वतत्त्वसमन्वितम् ।
तस्य पृष्ठस्थितं देवमनन्तं चिन्तयेद्धिया ॥
सहस्रफणसंयुक्तं शुद्धस्फटिकसन्निभम् ।
ककुद्यंशे हलं ध्यायेत् मुद्गरं वामपार्श्वके ॥
एककुण्डलरत्नेन भूषणेनाभिभूषणम् ।
एकचक्रस्य उपरि पृथिवीं चिन्तयेद्धिया ॥
तथा पृथिव्यां सिद्धार्थं तथैनां चिन्तयेत् सुधीः ।
कृष्णवर्णं शुक्लब्रीहिं भूजयुग्मेन भूषिताम् ॥
नानागुणगणादाञ्च सर्वसत्त्वप्रपूरिताम् ।
सपर्वतरणाकीर्णां सर्वरत्नविभूषिणाम् ॥
सर्वमन्त्रमयी देवीं विष्णुपत्नीं मनोहराम् ।
समुद्रनदसङ्कीर्णां सर्वकालविभूविताम् ॥
अत्रापि मण्डपं ध्यायेत् मनसा मणिभूषिताम् ।
ततः कल्पतरुं तत्र सर्ववाञ्छाफलप्रदम् ॥
तदवस्थाञ्च ते? येच्च सत्वसिंहासनं महत् ।
धर्मादिसंयुक्तं पीठं सर्वज्ञानसमन्वितम् ॥
करालादि चतुर्दिक्षु द्वारदेशे विभूषितम् ।
नानाचित्रसमायुक्तं नानारत्नैश्च भूषितम् ॥
नानाङ्गस्त्रसमायुक्तं ओङ्कार्यादिविभूषितम् ।
सृखड्गादिसमायुक्तं चिन्तयेद्विधिनामुना ॥
आनन्दकन्दं तन्मूर्द्ध्नि चिन्तयेत् सर्वदा सुधीः ।
सम्विन्नालं तदा तत्र सर्वं ज्ञानसमन्वितम् ॥
सकलानादसंयुक्तं मण्डलत्रयभूषितम् ।
तत्रापि चिन्तयित्वा च साष्टपत्रं सकर्णिकम् ॥
नानावर्णं चिन्तयित्वा भूषितं सुमनोहरम् ।
एवं सचिन्त्य मनसा हृत्पद्मास्थां सुरेश्वरीम् ॥
चिन्तयेद्विधिनानेन शङ्करेण च भाषितम् ।
विपरीतरतस्थौ च रतिकामौ विचिन्तयेत् ॥
तत्पृष्थे चिन्तयेद्देवीं मूलप्रकृतिरूपिणीम् ।
डाकिनीं वर्णिनीयुक्तां वामदक्षिणयोगतः ॥
कपालकर्तृकाहस्तां मुण्डमालाविभूषितम् ।
अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् ॥
स्वमस्तकं वामभूजे भवानीं स्वदक्षिणे तीक्ष्न करालकर्तृकाम् ।
सुरासुराद्यर्चितपादपद्मां सदा भवानीं प्रणयामि चित्ते ॥
प्रत्यालीढपदस्थितां त्रिभूवन प्रक्षोभविद्राविणीं नित्यां
त्रैपुरवन्दिनीं त्रिजगतां सङ्क्लेशदारात्मिकाम् ।
तामाद्यां सुरयङ्घवन्दितपदद्वन्द्वां त्रिशदात्मिकाम् ।
विस्वोष्ठां निखिलाघ्यपादशमनीं नित्यं सदा वै नमः ॥
मम मनसि विधत्वं सर्वभूतात्मसंस्थं शमयतु तव
पादद्वन्द्वमेतन्महेशि ।
प्रतिदिनमनुमेनेमत्कृते प्राणसंस्था भवसि भयदात्रीं शक्तिरुपां
नमामि ।
मातस्त्वतीयपदमज्ञमेतत् नमामि नित्यं दुरिस्तं निहन्तम् ।
सुरासुरार्चितकारणार्थं तं नौमि नित्यं सकलाप्तहेतोः ।
भवानि त्वं दासे मयि वितर दृष्टिं सर्वसुहृदां हृदाषाढां सारां
निखिलभवभावौघशमनीम् ।
वितन्वन् चिन्तां वासमयमखिलं नित्यमहसीम् ।
महिमास्था मेध्यां युगयुगान्तां कालशमनीम् ।
नमस्ते नमस्ते जगतां धुगन्तां संहारकारीं भवभावरुपाम् ।
पुरा पुरारेव स्वकुलमूलं क्रूलसूलङ्घविपन्नकालम् ॥
त्वं ब्राह्मी त्वञ्च रौद्री हरिहरनमितां त्वं पराख्या भवानी ।
त्वं नित्या कालरूपा निखिलभयहरा सर्वविद्यापरा या ।
(प्. ३३) त्वं गौरी छिन्नमस्ता कलिमलमथनी त्वं नदी सागराख्या ।
त्वं माता त्वञ्च ताण्डस्त्रिभुवनजननी कालरूपारिपुणाम् ।
त्वं काली शम्भूपत्नी हरिहरनमिता भद्रकाली कराली ।
प्रेताख्या प्रेतरूपा परिकरकमला पाशरूपा पराख्या ।
त्वामाद्यां प्रकृतिं स्मरामि मनसा तारार्णसम्प्राप्तये ।
मातस्तातः सुतानां भवभयशमनीं तत्क्षणाद्दुरतोऽपि ।
अपि मातः प्रणीधामकौतुकं भवसं सारपारापारात्मकानाम् ।
सततं परिहृत्य तत्समाप्तं निजकुलन्तीं विनिधान मां न हि सुरा त्वं
सुरारिः ।
परात्वं पुरात्वं रतीत्वं सुरारिः ।
निशा त्वं दिवा त्वं दरिद्रा धनाढ्या त्वं सुखी त्वं दुःखानां कृती
त्वं कृपाणाम् ।
मातस्तारयं परमासावीराणादोनापरिमितहारा ।
खेलासाधनशक्तिः श्रेष्ठा युवती प्रौढा वृन्दावाला ।
निद्रा तन्द्रा हेला हला काला काली घोरनादा ।
नमस्ते नमस्ते नमस्तेऽस्तु दुर्गे नमस्ते भवानी सत्यम् ।
नमस्ते नमस्ते कृपासिद्धिरुपा नमस्ते नमस्ते परा डाकिनी या ।
तवास्थिमाला परिकल्पिता बुधैः सुगन्धिपुष्पेण यथा सुरारेः ।
त्वदीयमुण्डेन संहन्तु निवेदितन्तु यद्बू देवपद्माख्यमुदीरिता मया ।
त्वदीयमुण्डं स्वभूजे तु यतः स्थितं तदेव मुण्डं तदेव मुनीन्द्रैः ।
स्वदक्षिणं यत्तु त्वदीयकर्तृका तदा भव वेदविदो वदन्ति ।
या ते वर्णिनी डाकिनीहरवधू सव्ये तदादक्षिणे ।
ब्राह्मि त्वं सुरसङ्घवन्दितपदा कृष्णा तथा वैष्णवी ।
त्वं देवी सुरसङ्घवन्दितगतिं प्राप्तौ च सन्तोषतः ।
प्रस्थात्वां भवसुन्दरीं गिरिसुते देवाय पदा शान्तिः शुभा शाङ्करी ।
क्षेस्याक्षेमदार्थाशेषभयहरा माता जगन्मोहिनी ।
यौ तौ प्रत्यासन्तस्थौ हरेः पुरा ।
शम्भुना शम्बोका च कलापकलितौ विस्वापयन्तो जगत् ।
तेनेमां सुरसङ्घवन्दितगतिं प्राप्तौ च सन्तोषतः ।
प्रस्थात्वां भवसुन्दरीं गिरिसुते देवाय भूत्यं नमः ।
मातः पद्मदलार्चिते परिमिते तन्मण्डलाभ्यन्तरे ।
चक्रं योनिनिभं सुरासुरवधुरभ्यर्चिता तन्मुहूः ।
नित्यं स्तौमि नमामि हरवधुं शान्तिफलप्राप्तये ।
तृप्तिं देहि यज्ञप्रदां सुरविपोर्लक्ष्मीसमाभीष्टये ।
त्वं श्रीस्त्वमीश्वरी बुद्धिर्लज्जा लक्ष्मीः सरस्वती ।
शान्तिर्जयदा नित्या अम्बा क्षेमङ्करी तथा ।
ब्राह्मी माहेश्वरी गौरी कराली विअकरालिनी ।
सती पतिव्रता साध्वी सुन्दरी पुरसुन्दरी ।
चित्स्वरूपा शुभा गीता गङ्गा सीता सरस्वती ।
सर्वमन्त्रमयी देवी सर्वशान्तिफलप्रदा ।
आपस्त्वं चित्स्वरूपा च सर्वमन्त्रमयी विभूः ।
इयं स्थिता नित्या वसुन्धरा प्रिये त्वदीरशान्त्यादिमपीह भूतले ।
विना स्थितिः शान्तिकारिणी भवेत् पुरा येन सती प्रकोपिता ।
(प्. ३३ब्) जले रसात्मिका शक्तिर्दाहिका वह्निमण्डले ।
स्पर्शात्मिका च तद्वायौ कीर्तिता मुनिभिः सदा ॥
आकाशे शब्दरूपा त्वं सूक्ष्मा सूक्ष्मस्वरूपिणी ।
पृथिव्यां पूर्णशक्तिस्त्वं कथिता पद्मयोनिना ॥
सुकुमारी तथा प्रौढा युवती रसदायिनी ।
सर्वशक्तिमयी देवि कथिता पद्मयोनिना ॥
लक्ष्मीस्त्वं लक्ष्मीबीजस्था लज्जा या भुवनेश्वरी ।
माया बीजाङ्कुरी नित्या भवभीतिविनाशिनी ॥
सरस्वती वाग्भवस्था वकारे वारुणीस्थिता ।
जकारे जगतां माता वैकारे विमलास्थिता ॥
सर्वपापप्रशमनी रकारे वह्निसुन्दरी ।
चकारे चण्डिका देवी चण्डमुण्डविनाशिनी ॥
नारायणी नीकारे च कारे चित्स्वरूपिणी ।
ब्रह्माणी वैष्णवी ज्ञेया चकारे परमेश्वरी ॥
फलप्रदा फट्कारे च स्वाकारे शम्भुसुन्दरी ।
अर्द्धनारिश्वरश्चात्मा हाकारे हरवल्लभा ॥
एतास्तु सततं पूज्या स्तुत्याहहरवल्लभे ।
वर्णस्था मातृकाः प्रोक्ता ब्रह्मणान्ताः पूराकृताः ॥
मातस्तदीयमहिमा किमपीह शक्तिर्विष्णुं जगत्यखिलकृत्यशेषम् ।
पुनीहि नित्यं शकलाशयार्थं पुनीहि भक्तान् फलसिधिहेतौ ॥
आराध्य मातस्तव पादयुग्मं ब्रह्मादयोऽपि श्रुतिभागवतादिषु ।
अन्ये ये परे च मुनयः सुराश्च तेषां भवेत् कीर्तिरलङ्घ्यरूपा ॥
वेदान्तराक्यैः परितोषिता त्वं वेदान्तवाक्यैर्विभूषिता त्वम् ।
वेदान्तवाक्यैः परमाः परा या तां नौमि नित्यं हरगेहशालिनीम् ।
काली त्वं कालरूपा भवभयशमनी कालकाली कराली ।
तुङ्गा त्वं तुङ्गरूपा घुरघुरवता घोररूपा कृपाद्या ॥
नित्या त्वं नित्यरूपा भवभयशमनी योगरूपा युगाद्या ।
चिद्रूणा वह्निरूपा परिहर सकलं दोषरूपं भवान्धौ ॥
हरार्द्धाङ्गभागी शिवानी च नित्यं शिवापरा त्वं डाकिनी विश्वयोनिः ।
मुनीनां मुनीन्द्रा भक्तियोगेन नित्यं सदासिद्धिरुपा त्वदीया प्रकृतिः ।
क्षमा त्वं कला त्वं कालरूपा शिवात्वं शरण्यं भरण्यं विभुनां
विभुतिः ।
वसीत्वं वसीनां सुरात्वं सुराणां रसानां रसत्वं रिपुवान् पुनीहि ।
सर्वार्थसाधनी चिन्ता चञ्चला चपला चला ।
सर्वशक्तिमयी देवी सर्वनित्या नगात्मजा ॥
चण्डा त्वं चण्डरूपा चपलतनु तनुभाविधात्री स्वरूपा ।
स्वाहा त्वं शक्तिरूपा सुरवरनमिता द्रीटी? द्रीः स्वरूपा ।
आद्या त्वं विश्वरूपा वरिरथपरिखामानिता भुमिरेषा ।
त्वां वन्दे भावरूपां हरिहर नमितां सिद्धिदां सिद्धिकानाम् ।
शाधा? त्वं वेदरूपा प्रणवतनुधरा ब्रह्मरूपा भवानी ।
वन्द्या त्वं वन्दनीया निखिलभयहरा साधकानां सदैव ।
ओङ्कारे वर्णरूपा त्रितयतसुधरा वर्णरूपा भवानी ।
नित्या त्वं वन्द्यारूपा अतनुतमुधरा वेदवाता वलाध्या ।?
निधीनां निधी त्वं सदाश्वेतवर्णा कलानां कला त्वं सदागौरवर्णा ।
(प्. ३४) क्षुधार्ता क्षुधा हि कला हि प्रतप्ता रसानां रसैस्तान् प्रतप्तान्
पुनीहि ।
विन्यस्य स्वतनौ त्वदीयचरणं सद्धौ सदावाञ्छितम् ।
नम्यस्ते जगतां मदीयविकृतिं सशान्तिमाप्ताप्तये ।
यद् देहं विनिधार विश्वमात्मानं तक्त्या भवेत् शास्त्रतः ।
त्वं त्वां नित्य त? सुं नमामि मनसा भक्त्या तथा कायिकैः ।
अतो नित्यं धन्या धन्यापवादं तत् पादयुतैः पुनस्तां शुमन्तीं
खिलकिलगतिं पादपरमाम् ।
पराख्यां नित्याध्यां किलिकिलिकालवलयां विपन्नां विनयगहनां
सत्वरपदां यस्य विद्यां प्रगायन्तीं त्वदीयगुणसम्भवां यस्य कर्णौ
विशृणुस्तौ त्वदीयगुणमुत्तमम् ।
यस्य हन्तौ प्रकुर्वन्तौ त्वदीयपूजनं प्रिये ।
यस्य पादौ च गन्तव्यौ तदर्थे कमलानने ॥
तेत्य ऋषिभ्यो देवेशि नमो नित्यं नमो नमः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः ।
नमो नमस्तेऽखिललोककर्त्री नमो नमस्ते जगतां जनित्री ।
नमो नमः श्म्भुपराक्रमाणां नमो नमो देवि परापराख्या ॥
जगतिजन विवादः स्थानरूपे नराणां स्मररिपुवनिताभिः कीर्तिता
सुक्ष्मरूपा ।
मदनकिलवलानां कल्पते कामिनीभिः परिकययुवतीभिः प्रेषिता प्रेषणीया ।
इश्यमेव शतार्द्धेन यस्तां स्तौति दिने दिने ।
तस्य श्रीर्वसगा भद्रे अणिमाद्यागुणाकरा ॥
क्रमेण स्तौति यो देवीं क्रमस्तोत्रैर्दिने दिने ।
तेषां स्त्रीर्वशगाः सर्वाः सम्पदामालयो भवेत् ॥
अनेन सदृशं स्तोत्रं जगत् स्वपि न विद्यते ॥
इति श्री विश्वसारतन्त्रे परदेवतायाः प्रचण्डचण्डिकायाः क्र? म स्तोत्रं
समाप्तम् ॥
९९९९९
संस्तुत्य विधिना येन प्राणायामं दिशेत् तदा ।
प्राणायामं विविधं तत्र कथितं पद्मयोनिना ॥
आत्मसमर्पणं कुर्यात् मन्त्रेणानेन देहिकः ।
कृत्वाञ्जलिपुटौ भूत्वा मन्त्रमेनं समुद्धरेत् ॥
इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारितः ।
जाग्रत् स्वप्नसुसुप्त्यवस्थावेतीररेत् ॥
ततश्च मनसा वाचा कर्मणा इति कीर्तयेत् ।
तथा पद्भामुदारेणेति पुनः पुनः ॥
शिङा च यत् कृतञ्चैव स्मृतञ्च यत् पदं पुनः ।
सर्वं ब्रह्मार्पणञ्चान्तु प्रणवादिनमोऽन्वितम् ॥
श्रीपार्वत्युवाच ।
प्रचण्डचण्डिकाविद्या पूर्वोक्ता सर्वसम्मता ।
सहस्रनामस्तोत्रस्य कथयामास तत्वतः ॥
कैलाशशिखरे रम्ये नाना धातुसमन्विते ।
सिद्धगन्धर्वसंङ्घैश्च सेविते पर्वतोत्तमे ॥
(प्. ३४ब्) नानावृक्षगताकीर्णे शीकराम्बुकलावृते ।
ध्यानापतपसासीनं प्रमन्नमुखपङ्कजम् ॥
रिपुच्छलेभनरनं त्रिनेत्रं शुरधारिणम् ।
जटाजूटसमायुक्तां त्रिनेत्रं भास्करात्मकम् ॥
नानावेदैश्च शास्त्रैश्च सेवितं शशिशीतलम् ।
चन्द्रच्छविनिभं गौरं नानातालसमन्वितम् ॥
देवी पप्रच्छ गिरिशं सर्वभूतात्मकं शिवम् ।
प्रचण्ड चण्डिकादेव्या माहात्मां सुरदुर्लभम् ॥
कथयामास देवेश यथोक्तं ब्रह्मणा पुरा ।
तस्य तद्वचनं श्रुत्वा विहसा जगदीश्वरः ॥
कथयामास तत्सर्वं ब्रह्मवज्रविनिर्गतम् ।
प्रचण्डचण्डिकादेव्या माहात्म्यं शृणु पार्वति ॥
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ।
लयमेष्यति तत्सर्वं जगदेतच्चराचरम् ॥
तद्योनौ सर्वमेतद्धि प्रतिपादयति प्रिये ।
कालमायाकलात्मानः सर्वे तस्यां प्रतिष्ठिताः ॥
तस्यामहं पुरा जातः सर्वैस्तत्वसमन्वितैः ।
तस्या ध्यानाज्जगत्स्तोत्रं नमस्कारः क्रमात् पुनः ॥
जन्मादिमरणं मर्त्यं नास्ति तस्य युगे युगे ।
तस्या प्रभावं देवेशि शृणुष्व विधिनामुना ॥
प्रातःकाले निशीखे च सन्ध्ययोरुभयोरपि ।
यः पठेत् साधकश्रेष्ठः स एव श्रीसदाशिवः ॥
प्रचण्ड चण्डिकासहस्रनामस्तोत्रस्य भगवान् श्रीसदाशिव ऋषिः सम्राट्
छन्दः आद्या शक्तिर्भगवती प्रचण्डचण्डिकात्मशक्तिरूपिणी देवीदेवता
मम चतुर्वर्गफलाप्तये विनियोगः ।
पूर्वोक्तरूपां तां देवीं ध्यात्वा स्तोत्रं सदा पठेत् ॥
ओं प्रचण्डचण्डिका चण्डी चण्डरूपा सतीसखी ।
अति चण्डा महाचण्डा कालरात्रिर्वसुन्धरा ॥
महामाया घोररूपा विशोका शोकनाशिनी ।
कात्यायनी जगन्माता विश्वमाता पतिव्रता ॥
जगन्मान्या जगज्जीवा चण्डीचण्डविनाशका ।
सुखी सत्यवती लोभा नदीनादा सुवेनिका ॥
मुक्तदेशी सुकेशी च घोरा घर्घररूपिणी ।
विसन्ना च विपन्ना च स्वच्छत्पन्ना पतिव्रता ॥
घोरनेत्रा विशालाक्षी कामाख्या कुलसुन्दरी ।
कुसुमा च महाकामा विनोदा सर्वसिद्धिदा ॥
त्रिनेत्रा रक्तनेत्रा च त्रिनेत्रा केकराकृति ।
पलिता पललप्रीता वृद्धमाता पतिव्रता ॥
सुपतिः सत्पतिः सत्या सभासङ्क्षोभकारिणी ।
अनुप्रेमा महाप्रेमा सुप्रेमा च प्रेमात्मिका ॥
कालाक्षी कालरात्रिश्च घोरनेत्रा घृणाकृपा ।
सुतृप्ता च स्वतृप्ता च अहल्या पापनाशिनी ॥
केकराक्षी कुलाक्षी च सुकुला कुलपूजिता ।
विपृथुः परिपाल्याच भक्तिरम्या सनातनी ॥
शुची मुखी कलामुखी लोलजिह्वा विपन्नगा ।
ललना चलना लोला नानासुरविनाशिनी ॥
शब्दरूपा च ओङ्कारी ह्री? ङ्काराक्षररूपिणी ।
श्रीबीजा लज्जारूपा च कोपना च नितम्बिनी ॥
शवासना चिताचैत्या चैत्यवृक्षप्रिया शिवा ।
छिन्नमस्ता विमन्ता च सुमन्ता मन्तरूपिणी ॥
कोटराक्षी पद्मनेत्रा मृगनेत्रा मृगाक्षिका ।
चट्टला चञ्चला चाना चपला चपलप्रिया ॥
चपलाङ्गी चपला च कर्मपाशाकहाकृमि ।
कृपावती तथा कृपा इन्द्राक्षी हरवल्लभा ॥
नारायणी विश्वमाता भवानी पापनाशिनी ।
चामुण्डा उग्रचण्डा च महाचण्डा उमा उषा ॥
प्रज्ञाज्ञाना महाज्ञानाज्ञानज्ञाज्ञाननाशिनी ।
ज्ञानदा ज्ञानवृद्धा च षड्वर्गबीजरूपिणी ॥
अनुरूपा वृहद्रूपा स्वरूपा रूपवर्जिता ।
विरूपा च स्वरूपा च सत्यधर्मपरायणा ॥
सन्ध्या सन्ध्या सुशीला च सत्यधर्मस्वरूपिणी ।
शालग्रामशिला सौम्या शालग्रामनिवासिनी ॥
शालासभा सकला च सुस्तनी स्तनरूपिणी ।
विगता विगतप्राणा कामधेनुः कलासमा ॥
विसमा च विसङ्गा च सुसङ्गा सङ्गरूपिणी ।
सृष्टिस्थितिक्षयकरी वाराही विरलातनुः ॥
नारसिंही रमा रामा वामदेवप्रिया तनुः ।
कामकण्ठी कम्बुकण्ठी सुग्रीवा ग्रीवरूपिणी ॥
कबन्धा कबन्धा कृत्व्या सर्वकृत्या विनाशिनी ।
राधिका सत्यभामा च बालिका बालरूपिणी ॥
सुवहा च सुरङ्गा च विवाहूर्वाहूरुपिणी ।
दीर्घवाहूस्तथा खर्वा खर्वदेहा विनावती ॥
दन्तुरा सुदतीभीक्षा युगदन्ता युगावती ।
सुदन्ता च विदन्ता च अतिदन्ता महामती ॥
एकदन्ता एकदंष्ट्रा घोरदंष्टा रविशशी ।
सूर्यात्मिका सूर्यपत्नी सूर्यमण्डलसंस्थिता ॥
गगणाविरणावेला विपन्ना विसमागतिः ।
सूर्यः सूर्यकला सौरिर्द्वादशात्मा दिवाकरः ॥
भानुः सुभानुः स्वर्भानुर्भानुरूपा भरीदुति ।
तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ॥
सुनन्दा भोगदा विश्वबोधिनी धारिणी क्षमा ।
पूर्णा पूर्णामृता चन्द्रा अर्द्धचन्द्रातिचन्द्रिका ॥
चन्द्रमण्डलसंस्था च सदाचन्द्रावती प्रिया ।
चन्द्रात्मिका चन्द्रकान्तिर्ज्योत्स्ना श्री प्रीतिरङ्गदा ॥
पूर्णा पुर्णामृता तोया तुष्टिः पुष्टिः रतिधृतिः ।
शशिनी चन्द्रिका कान्तिः सर्वर्कान्ता निवासिनी ॥
चन्द्रमण्डलमध्यस्था कामदा सुरसम्भवा ।
आत्मा बुद्धिर्महाबुद्धिः सर्वबुद्धिः सुबुद्धिधृक् ॥
सर्वात्मा सर्वमाता च सर्वाचारवती सती ।
सत्यधर्मस्वरूपा च सभासङ्क्षोभकारिणी ॥
अविद्याविधिरूपा च ज्ञानमायाचलाकृती ।
आत्मबुद्धिरहङ्कारामनस्तत्वा चिताचिति ॥
चिन्ताचिन्त्यप्रमेया च सरतत्त्वप्रतिष्ठिता ।
बीजरूपा जीवरूपा सर्वबीजशरीरिणी ॥
विरिणी रेणुका कुम्भा सुकुम्भा च शुभामति ।
कृशाङ्गी कुलीशाङ्गी च वज्राङ्गी वज्रसम्भवा ॥
वृक्षशोभा सुशोभा च विशोभा विशभप्रभा ।
पाण्डवा धूम्रवर्णा च रक्तवर्णा रतिः स्मृतिः ॥
शुक्लवर्णा च शुक्ल्यङ्गी शुक्ला च शुक्लवर्णिका ।
सिताङ्गी च सुतीक्ष्ना च नानावर्णा विवर्णिका ॥
विगता विगतप्राणा विरूपा रूपवर्जिता ।
सिन्दुराञ्चितसिमन्ता सूशीला दीर्घनेत्रिका ॥
मुक्तारञ्जितनासा च सुनासा गिरिका तथा ।
(प्. ३५ब्) क? णती च गतीरा च नाभिमूलनिवासिनी ।
षट्चक्रभेदनकरी परमामृतशोभना ।
सुसुम्नेडायोगवती पिङ्गलाक्षी च वैखरी ॥
गान्धारी हस्तिजिह्वा च हस्तिनी च विलोलिका ।
अनन्तनाडीसम्भूता सुनाडी नलिनी नटी ॥
गर्भाशाया गर्भरूपा सुगर्भा गर्भमोचनी ।
प्राणापानसमाना च उदानव्यानरूपिणी ॥
कुण्डली च कुलीना च चञ्चला च विशोधिका ।
शोधिका सुन्दरी सैत्या शोधिका बिन्दुरूपिणी ॥
परात्मात्स विश्वासासाम्समाशशिनी शशि ।
कुलकुण्डा कुहरिणी कुमतिः सुमतिः शिशुः ॥
डाकिनी हाकिनी चैव राकिनी लाकिनी तथा ।
शाकिनी काकिनी चैव षट्चक्रक्रमदेवता ॥
वशिनी योगिनीरूपा योनिदेशनिवासिनी ।
योनिप्रिया योनिरुचिः सुयोनिः क्षुद्रयोनिका ॥
शोणरूपा महारूपा वलिनी योनिसम्भवा ।
योनिप्रिया योनिरता योन्यन्तरनिवासिनी ॥
योन्यामतिर्योनिसुता सद्ययोनिप्रियङ्करी ।
लिङ्गा लिङ्गप्रिया लिङ्गा लिङ्गस्था लिङ्गसुन्दरी ॥
लिङ्गागतिर्महामुद्रा लिङ्गरूपा सदागतिः ।
लिङ्गदेशनिवासी च लिङ्गिनी लिङ्गरुपिणी ॥
लिङ्गमाला कण्ठदेशा भगमालाविभूषिता ।
लिङ्गस्वरूपिणीप्रेताः शिवलिङ्गाभिधायिनी ॥
महायोनिर्महद्योनिर्योनिजा योनिरूपिणी ।
कुमारी बालिका बाला कुमारी पूजकप्रिया ॥
कुमारीरूपिणी कुन्ती कुलजा कुलरूपिणी ।
कुलस्था कुलरूपा च कुलवंशा कुलावती ॥
कुमाराङ्गी कुमारी च रोहिणी रेवती रमा ।
गौरी च रोहिणी रम्या रजता च रजस्वला ॥
युवती प्रौढिका प्रौढा महाप्रौढा विलाशिनी ।
कामिनीः कामदाः कान्ताः कामाज्ञाः कामभाविनी ॥
कामाः काली कुलाक्लेशा सर्वक्लेशविनाशिनी ।
रतिदा च रतिप्रीतिः सुरतासुरदा शुभा ॥
कन्या धन्या तथा मान्या विमानी मानदावती ।
स्थूला दीर्घा महादीर्घा दीर्घनेत्रा सुलक्षणा ॥
बहूला च विपन्ना च सुगन्धा प्रमदा गतिः ।
नानारूपवती सत्या युवती यमुना सदा ॥
यशोदा गती यज्ञा यादवी वनवासिनी ।
वनमालिनी विपख्या च विशेषाख्या रतिप्रिया ॥
नानागुणवती यज्ञा ज्ञाना ह्यज्ञाननाशिनी ।
धीर्धृतिरसलोमा च लोमसी च सुलोमसा ॥
नानारूपवती रम्या रूपहा रूपदायिनी ।
रूपणी च विपन्ना च सम्पन्ना च महाहृतिः ॥
चन्द्रानना च विज्ञेया आद्या त्रिभुवनेश्वरी ।
दुरिता कुलपुज्या च मातङ्गी कुलसुन्दरी ॥
दीर्घजङ्घा काकजङ्घा सुपदापदरूपिणी ।
पादपद्मा महापद्मा पद्मानन्दा प्रियाशुभा ॥
सर्वाङ्गसुन्दरी नित्या तथा त्रिपुरसुन्दरी ।
आर्या द्वैपायनी कृष्णा विरूपा च विपाचिका ॥
षड्गर्भा च नहागर्ता प्रेमप्रीता रमावती ।
सुशीला पुण्यशीला च शाम्भवी च विमानिता ॥
(प्. ३६) प्रभावती विमाना च चण्डघण्टा महामतिः ।
पिङ्गलाक्षी च इन्द्राक्षी उमा शाकम्भरीति च ॥
अपर्णा निश्चला लोला सर्वनित्या नगात्मजा ।
कैरातीरोक्षसी घोरा उग्रतारा सरस्वती ॥
महोग्रा च सुमध्या च एका एकजटा मना ।
मन्त्रविद्या महाविद्या महामन्त्रा महामहा ॥
देवता देवमाता च महामाता महामतिः ।
चित्रलेखा सुलेखा च लेखा च प्रियदायिनी ॥
कालिका कालमाता च महाकाला कलाकृती ।
श्मशानवासिनी प्रेता प्रेतस्थाननिवासिनी ॥
प्रेतानना गणक्रीडा प्रेतवाहनवाहना ।
नागयज्ञोपवीताङ्गी नागिनी नागवल्लभा ॥
मुण्डमालाधरा देवी पञ्चमुद्राविभूषिता ।
नागपाशधरा कृष्णा रक्तारुधिरलोमिका ॥
धूमार्चिः शवरीचन्द्रा शवस्था शववाहिनी ।
अस्थिमालाधरा आस्था अनास्था वेदनिन्दका ॥
वेदमाता वेदशिखा विशाखा शिखिवर्तिनी ।
नानावाणधरा देवी चर्मचापप्रबोधिनी ॥
पाशमुद्गरकुन्ती च नानास्त्रधारिणी सुरा ।
वीरासना वीरपाना मांसपाना सदा तथा ॥
मद्यपाना मांसरुचिर्मुदाशीर्मुदनामदा ।
तोतला तुलसी तुण्डा तुण्डाक्षरनिवासिनी ॥
आधाररूपिणी ध्येया मूलाधारनिवासिनी ।
नानातेजस्विनी क्लिन्ना रूद्रग्रस्ता प्रणीपृथुः ॥
पृथिवी द्वीपिका ज्येष्ठा कमला विमला कला ।
कलाख्या कालमान्या च सर्वकालविलासिनी ॥
महाकाला कालरूपा परमाख्यादिरूपिणी ।
पावनीवदना वेदा सर्वविद्या विसालिनी ॥
अम्लानवसना वासा पट्टवस्त्रपिधायिनी ।
मानालङ्कारसंयुक्ता नानास्त्रधारिणी शुभा ॥
सर्वाणी सर्वसन्ध्या च त्रिसन्ध्या कालरूपिणी ।
महानिशा तथानित्या सर्वसैन्यविनाशिनी ॥
धनिष्ठा धनदा धन्या धनधान्यविवर्द्धिनी ।
सेनानी सैनिका सेना सर्ववाहनवाहना ॥
तोषिणी पोषिणी पोषा सपुषा लम्बुधा तथा ।
कोषिणी कुशिनी कोषामुवलास्त्रा तिलोत्तमा ॥
नरनारायणी गौरी कामदेवी वनस्पतिः ।
वदनावासिनी वश्या वेश्यावेशविलासिनी ॥
कुलटा सत्यलोकेशा नानालोकनिवासिनी ।
गन्धर्वा च तीर्थपतिर्महातीर्थवनस्पतिः ॥
अम्बा अम्बालिका चाम्बा अम्बिकाद्रू? दिनी महत् ।
पुरुषाङ्गी पुरुषी च स्त्रीस्वरूपा तथा पुमान् ॥
सर्वशास्त्रमयी देवी सर्वमन्त्रमयी शिवा ।
नानाविद्या च मन्त्रा च नानास्त्रधारिणीवरा ॥
नदीसिन्धु सर्वमयी सर्वतीर्थमयीमना ।
गङ्गा गीता च गायत्री सावित्री नरकान्तका ॥
रेवती रोहिणी चेता चिन्तासर्वविनाशिनी ।
सप्तविंशति ऋङ्गाणि काश्यपि कश्यपप्रिया ॥
मृत्स्ना सुला च माला च सर्वमाला महत् प्रभा ।
प्रेतदेहकरा ज्येष्ठीवाला रौद्री च भ्रामरी ॥
डामरी डमरूपा च वसुधान्तः प्रकाशिनी ।
(प्. ३६ब्) उर्वी गुर्वी गुरुज्ञेया गुरुरूपा महामतिः ॥
अतसी च सती गङ्गा सर्वश्वेता प्रियम्बदा ।
फु? ल्लनीटि विटित्वा च कैकटी शङ्कटी तथा ॥
छेदनी क्षेपणि क्षेपा सर्वसिद्धेषु संस्थिता ।
ज्योतिर्ब्रह्ममयी देवी सर्वज्योतिःषु दीपिका ॥
विदीप्ता अतिदीप्ता च सुदीप्ता मुद्रिका तथा ।
महाधूद्रा वृहद्योनीः सर्वयोनिषु संस्थिता ॥
योनिप्रिया योनिरुचिर्योनिक्रीडा सदागतिः ।
विरिणी मञ्जरी पाला विपदो कृपणाकृतिः ॥
सरयुसरस्वतीफल्गुः कैङ्किला सा महानदी ।
वङ्क्षुमुद्रा तथा सीता अलका नन्दनावनी ॥
हरिद्वारावती तीर्था मथुरा द्वारका तथा ।
अवन्ती अङ्गदा पम्पा विचित्रा विभ्रमा तथा ॥
स्वप्नावती हंसमुखी लोपामुद्रा सुभद्रिका ।
श्वेतारुणा च भेरुण्डा उत्तरा कुलसुन्दरी ॥
भैरवी विपुलादेहा रिपुदेहेषु संस्थिता ।
पार्वती मानदा नित्या अविद्या विकला तथा ॥
हंसाख्या च वलाका च काकस्याविकटानना ।
पुभ्रता पुष्पहास्या च सुपुष्पा पुष्पहासिनी ॥
विलोलिका विभ्रमा च सर्वाश्रमनिवासिनी ।
असच्च सदसच्चेव सर्वविश्वक्षयङ्करी ॥
शकुन्तला देवयानी पुत्रिका अप्सरा तथा ।
गोपालिका नदीवेन्धा विकटाकटपुतना ॥
त्रिपुरा भैरवी देवी पञ्चमी तिथिरूपिणी ।
सर्वपर्वतवासी च श्मशानालयवासिनी ॥
सर्ववेदमयी स्वर्गास्वर्गद्वारनिवासिनी ।
अष्टमी नवमी चैव कुहूः शुक्ला चतुर्दशी ॥
षष्ठी च पौर्णमासी च योगासि करणानि च ।
सर्वत्तु प्रलयाकल्पा सुकल्पाक्षयकारिणी ॥
सर्वकन्या सर्वमाता सर्वसत्या सती शिशुः ।
कुन्ती च कुशला क्रीडा शम्भुदर्पविनाशिनी ॥
निशुम्भशुम्भहन्त्री च रक्तबीजविनाशिनी ।
हालाहलप्रियकरी कालीका दुर्गनाशिनी ॥
नारी नगरवासी च सर्वद्वारस्थितालया ।
गणरूपा गया गोत्री प्रेता गोपालरूपिणी ॥
अरुणाक्षी चन्द्रमुखी सर्वनाम्नी सरस्वती ।
श्रुतिश्च स्मृतिरूपा च कार्यशास्त्रविनोदिनी ॥
मधुकैटभहन्त्री च दुर्गासूरविनास्शिनी ।
चण्डमुण्डक्षयकरी शिवदुती शिवप्रिया ॥
त्रैलोक्यपावनी नन्दा मन्दभागा ह्यूपद्रूता ।
अल्लायुषी क्षीणपुष्टा परप्रीतिविवर्द्धिनी ॥
सुप्रीता श्लोकिनीश्लोका चाण्डाली वायसी तथा ।
सर्वासुरक्षयकरी कालीकोण निवासिनी ॥
माकरी च तथा भौमी होरानटका निर्झरा ।
कुलघ्ना यावती कोला निकोला त्रासरूपिणी ॥
कृतान्तत्रासिनी भीमा सावित्री मुक्तिदायिनी ।
माता च स्कन्दमाता च जियमाता जिनेश्वरी ॥
अजिना कुत्तिवसना व्याघ्रकीर्तिपिधायिनी ।
त्रिशक्तिः शक्तिरूपा च डाकिनी वर्णिनी तथा ॥
दंष्ट्राभीमा पिङ्गलाक्षी कंशिनी औदरी तथा ।
ओङ्कारी वर्णमाता च क्षेमङ्करी स्वरूपिणी ॥
प्राणशीला सुशीला च सुरक्ता रक्तवाहिनी ।
(प्. ३७) चेलिनी सिंहसंस्था च व्याघ्रस्था जगवाहिनी ॥
पारिजातहरा मर्त्यसत्यलोकनिवासिनी ।
सुरभी वामनी चैव निन्दका नन्दिनीति च ॥
लक्ष्मीश्च सत्यभामा च हिडम्बा वकरूपिणी ।
ज्वरमाता ज्वरी ज्वाला ज्वालिनी ज्वलदा ज्वला ॥
त्रिशिरा त्रिपथा तिस्रः कर्माङ्गवासिनी क्रिया ।
मन्दा मन्दमती भोगवती पातालगामिनी ॥
गगणाश्वा गणाश्वा च आश्वाम्बा सुकुलीमहि ।
कुमदा भक्तिसंयुक्ता भक्तिरम्या सनातनी ॥
निष्कामा च सकामा च सर्वकामाङ्गवासिनी ।
कामाङ्गनाशिनी क्लिन्ना मनोभुः पुष्टिवर्द्धिनी ॥
औषढी वैद्यमाता च सर्वमृत्युविनाशिनी ।
उक्तानुक्ता च यत् किञ्चित् स्थावराणि चराणि च ॥
तत्र नित्यस्थिता देवी छिन्नमस्ता शिवप्रिया ।
इति सहस्रनामेदं शिवायाः शिवभाषितम् ॥
यः पठेत् प्रातरुश्याय प्रात्रःकाले निशामुखे ।
अर्द्धरात्रौ तथा रात्रौ पूजाकाले महेश्वरी ॥
श्मशाने प्रान्तरे दुर्गे घोरे निगडवन्धने ।
नौकायां गिरिदुर्गे च शङ्कटे प्राणसंशये ॥
यत्र तत्र भये प्राप्ते विषवह्निभयादिषु ।
रवौ सिंहे च सम्प्राप्ते योऽर्चयेत् परमेश्वरीम् ॥
पठित्वा पाठयित्वा च सर्वान् दुष्टान् विनाशयेत् ।
न पश्यन्ति च ते सर्वे साधकं सर्वकालतः ॥
पठित्वा कवचं देवि स्तवमेनं विधानतः ।
यत्र तत्र गतो वापि जयन्तस्य करे स्थितः ॥
केतौ वा दुन्दुभौ वापि स्वर्गस्थाने विशेत् सदा ।
विजिते पार्थिवान् सर्वान् गृहमायातिसंहरेत् ॥
भौमावास्यां निशाभागे चतुष्पथगतो नरः ।
श्मशाने प्रान्तरे गत्वा दग्धमीनसमन्वितम् ॥
पायसान्नं वलिं दत्वा कुबेर इव मानवः ।
चितायां भौमवारे च यो जपेत् साधकोत्तमः ॥
पठित्वा कवचं तत्र पठेन्नाम सहस्रकम् ।
सोऽदर्ऽऽगनो भवत्याशु षण्मासाभ्यासयोगतः ॥
जपेन्मन्त्रं महादेवि चण्डदेव्या विधानतः ।
गजाष्टकायुतं ज्ञात्वा वाणीवत् सत् कविर्भवेत् ॥
समिषान्नं वलिं दत्वा शून्यारामे तथा गृहे ।
जपित्वा च पठित्वा च भवेद्वागीश्वरः परः ॥
रजस्वला भगं दृष्ट्वा जपेच्च साधकः स्वयम् ।
षट् सहस्रं जपित्वा च भवेद्भूमिपुरन्दरः ॥
स्वशुक्रैः शोणितैश्चैव पठित्वा कवचं सुधीः ।
वलिं दत्वा जपेन्मन्त्रं स भवेत् सम्पदां पदः ॥
परयोनौ जपेन्मन्त्रं स भवेत् सम्पदां पदः ।
दग्धमीनं कुक्कुटाण्डं मुषिकं महिषं नरम् ॥
मधुमांसं पिष्टकान्नं वलिं दद्यान्निशामुखे ।
यत्र तत्र यथा स्थाने स्वयं नृत्यपरायणः ॥
दिगम्बरो मुक्तकेशः स भवेत् सम्पदां पदः ।
परयौनौ जपेन्मन्त्रं सर्वकालेषु सर्वदा ॥
धर्मार्थकाममोक्षार्थी चतुर्वर्गं लभेन्नरः ।
(प्. ३७) मद्यमांसं बलिं दत्वा निशायां साधकैः सह ॥
जपित्वा च महाविद्यां सुन्दरीं भवसुन्दरीम् ।
योनिक्षालनतोयेन तर्पयेत् चण्डिकां सुधीः ॥
षट् सहस्र प्रमाणेन भवेत् तस्य वसेज्जगत् ।
परिचिन्त्तं विचिन्त्याथ जपेल्लक्ष्यमनन्यधीः ॥
तानि सर्वाणि विधिना देवीं दद्याद्दिने दिने ।
यदन्निवेदयेद्देव्यै तसांशं भक्षयेन्नरः ॥
तदा भवेन्महाप्राज्ञः सर्वतत्त्वपूरस्कृतः ।
दग्धमीनं दग्धमांसं काककुक्कुटमुषिकम् ॥
निशाभागे बलिं दत्त्वा साक्षान्नारायणो भवेत् ।
नैवेद्योच्छिष्टद्रव्येण दद्यात् साधकसत्तमः ॥
अर्द्धरात्रे निशाभागे पूजयित्वा विधानतः ।
स्तुत्वा भगवतीं नित्यां देवीं मूलस्वरूपिणीम् ॥
षण्मासेन लभेत् सिद्धिं देवैरपि सुदुर्लभाम् ।
भगलिङ्गैर्भगाख्यानैर्भगशब्दाभिधानकैः ॥
भगलिङ्गामृतैर्द्दद्यात् नैवेद्यां साधकोत्तमः ।
स भवेत् पार्वतीपुत्रः चण्डदेव्याः प्रसादतः ॥
योनिक्षालनतोयेन च्छन्दकैकं क्षिपेत् सदा ।
स्वधानेदं भगवती भगलिङ्गामृतं मम ॥
स्वशक्तौ परशक्तौ वा सर्वकालं जपेत् सुधीः ।
निशायां दिवसे वापि देव्याः प्रीतिं विवर्द्धयेत् ॥
मासमात्रेण ते सिद्धिर्देवैरपि सुदुर्लभा ।
मद्यैर्मांसैर्यजेद्देवीं छिन्नमस्तां महामतिः ॥
तस्यांशं भक्षयित्वा च भवेद्भूमिपुरन्दरः ।
मारणं द्वेषणञ्चैव वशीकरणमेव च ॥
यमसूर्येन्दुवास्वादीन् स्तम्भयेत् साधकः सदा ।
मोहनोच्चाटनञ्चैव षट् कर्माणि भवेन्नरः ॥
राजा च दासवद्भावं करोति कमलानने ।
वादी मुकोभवेद्दृष्ट्वा स एव निष्प्रभामताः ॥
वक्षभूतपिशाचाद्या डाकिनो ये सुरादरः ।
कुष्माण्डा विघ्नकर्तारः स्वयमेव यमः स्वराट् ॥
न पश्यन्ति न शृणुन्ति दृष्ट्वाचारविधिप्रिये ।
स्वर्गमर्त्ये च पाताले गन्धर्वाकु भूतला ॥
निवातकवचादीनां भयं तेषां न जायते ।
गोरोचनाकुङ्कुमेन लिखेदेतत् स्तवं सुधीः ॥
स्वयम्भूकुसुमैः शुक्रैर्भूर्जपत्रे कुजे शनौ ।
शुभयोगे सुनक्षत्रे सुतिथौ शून्यमन्दिरे ॥
सद्या च विलिखेन्मन्त्रकवचं स्तवनं शुभम् ।
तद्योनौ पूजयेद्विद्यां निशाशेषे विधानतः ॥
वस्त्रालङ्कारगन्धाव्यै? स्तोषयेत् परमेश्वरीम् ।
तथानिवेदयेद्रक्षां देवीं ध्यात्वा विधानतः ॥
मस्तके वा भूजे धृत्वा सर्वसिद्धिं लभेन्नरः ।
सिन्दुरचन्दनैर्देव्याः स्वभूषणविभूषणैः ॥
कुमार्याः पूजयित्वा च स एव श्रीसदाशिवः ।
स्वरतीं कुलटां रम्यां वालिकां मदनान्विताम् ॥
पूजयित्वा जपित्वा च वशयेत् सकलं जगत् ।
नास्ति विद्वेषणं तत्र मित्राः सर्वे सुरासुराः ॥
यत्र तत्र स्थितो ग्रहः कमला तत्र तिष्ठति ।
न माचार्यादि भयं तत्र नाधन्नो व्याधयस्ततः ॥
दुर्भिक्षशमनं याति दीर्घायुर्भवति ध्रुवम् ।
(प्. ३८) न शोकं नगवां व्याधिर्ग्रहदोषादिकञ्च यत् ॥
नास्ति चौरभयं तत्र रोगशोकयुतो नरः ।
नष्टे वा अग्निदाहादौ स्तवे यन्त्रे वरानने ॥
मासोपवासं कर्तव्यं देव्याः प्रीतिं विवर्द्धयेत् ।
पूजयित्वा विधानेन छागमेषादिभिर्गवैः ॥
रुरुभिर्हरिणैर्ष्ट्रैर्गजैः क्रोडै शिवाखुभिः ।
स्ंहैरश्वर्वयलोलैर्नारिकेलैश्च कच्छपैः ॥
हूत्वा च पूजयित्वा च तुष्टा भवति चण्डिका ।
मासि मासि सदा दद्यात् वलिं देव्यै विधानतः ॥
कुम्भे कुम्भे सुरां नित्यं हूत्वा च विधिना सुधीः ।
तोषयेत् पार्वतीं चण्डीं छिन्नमस्तां विरूपिणीम् ॥
शिवावलिं निवेद्याथ तोषयेर्जगदम्बिकाम् ।
भगशब्दं समुच्चार्य भगशब्दैस्भवेत् सदा ॥
रजस्वला भगे नित्यं जपेद्विद्यां विशालधीः ।
लक्षमेकं तदर्धं वा तदर्धं वा तदर्धकम् ॥
निशायां पूजयेद्देवीं कुमारीं पर्वतत्मजाम् ।
तदा भवति सन्तुष्टा स्कन्दमाता सरस्वती ॥
कामाद्यां च जपेद्विद्यां लक्ष्याद्व्यां वा जपेत् सदा ।
ओङ्काराद्यां जपेद्विद्यां लज्जाद्या च जपेत् सदा ॥
सर्वदा सर्वकालेषु लक्ष्याद्यां सर्वसिद्धिदाम् ।
उपास्य विधिना धीमान् पूजयित्वा कुमारिकाम् ॥
तद्योनौ प्रजपेद्विद्यां षट् सहस्रं दिने दिने ।
न दोषो विद्यते तत्र ब्रह्मणो भाषितं पुरा ॥
आचाराष्टकरूपेण सिद्धिरूपेण संशयः ।
किमन्यं वहूना देवि कथितव्यमतः परम् ॥
इति विश्वसारतन्त्रे प्रचण्डचण्डिकासहस्रनामस्तोत्रं समाप्तम् ॥
९९९९९
अथातः सम्प्रवक्ष्यामि मन्त्रं त्रैलोक्यपूजितम् ।
महाविद्या महापूर्वा ब्रह्मणा भाषिता पुरा ॥
विष्णुना कथिता विद्या ब्रह्मणे नाभिपङ्कजे ।
ब्रह्मणा कथिता विद्या नारदाय ततः परम् ॥
नारदो असितायेति असितो देवलाय च ।
देवलो गौतमायेति गौतमः कश्यपाय च ॥
कश्यपेन पुरा विद्या षण्मात्रं प्रजपेत् सदा ।
तदा भवेन्महाप्राज्ञः प्रजापतिरिवापरः ॥
ततः प्रजापतिर्भूत्वा सशरीरं दिवं गतः ।
एतस्मिन्नेव काले तु भैरवश्चिन्ततो भवेत् ॥
विद्यां गृहीत्वा स ऋषिः स्वर्गन्तुमुपचक्रमे ।
तदास्वेति महेशानि नरलोके कथं भवेत् ॥
धनिनः श्रोत्रिषश्चैव सर्वे धर्मपरायणाः ।
इति कृत्वा मतं तत्र कश्यपस्थानमागमत् ॥
तत्कृत्वा कश्यपो देवा महाविद्यां षडक्षरीम् ।
कथयामास तां विद्यां छिन्नमस्तां सुरेश्वरीम् ॥
तदा भवन्ति ते लोकाश्चतुर्वर्गफल प्रदाः ।
अथातः सम्प्रवक्ष्यामि देव्या मन्त्रं मनोहरम् ॥
सुगुप्तं परमं पुण्यं सर्वसिद्धिप्रदायकम् ।
मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने ॥
(प्. ३८ब्) यस्य विज्ञानमात्रेण भवेद्गङ्गाधरः स्वयम् ।
किमन्यैः देवेशि ययद्वाञ्छितमुत्तमम् ॥
तद् सर्वं लभते देवि मन्त्रज्ञानेन देशिकः ।
शिवबीजं समुद्धृत्य रतिबिन्दुविभूषितम् ॥
वह्निबीजान्वितं कुर्याद्वर्णेयं समुदाहृता ।
इन्द्रबीजं समारूढं वर्गाद्यं परिकीर्तितम् ॥
रतिबिन्दुसमायुक्तं कामबीजं समाहितम् ।
लक्ष्मीबीजन्तु पूर्वोक्तं वाग्भवं तदनन्तरम् ॥
मायाबीजं तथास्त्रञ्च षड्वर्णं परिकीर्तितम् ।
हृल्लेखा मदना लक्ष्मीर्वाग्भवं कुर्चमेव च ॥
अस्त्रान्तं छिन्नमस्ताया महाविद्या प्रकीर्तिता ।
अस्यापि सदृशी विद्या जगत्स्वपि न विद्यते ॥
षड्वर्णोऽयं मनुः साक्षात् मोक्षदो नात्र संशयः ।
जपपूजादिकं सर्वमस्याः षोडशवर्णवत् ॥
देवकुटात्मिका विद्या चतुर्वर्गफलप्रदा ।
अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने ॥
प्रीत्यालीढपदां सदैव दधतीं छिन्नं शिवः कर्तृकां दिग्वस्त्रां
स्कन्दशोणितसुधाधारां पिबन्तीं मुदा ।
सर्पावन्ध शिरोवलिस्त्रिनयनां हृद्यूत् पलानां कृताम् ।
मद्याशक्तमनोमनो भवोपरिहृदि ध्यानाज्जवासन्निभाम् ॥
दक्षे चातिसिता विचित्रगदय कुन्तं तथा खर्परम् ।
हस्ताभ्यां दधतीं रजोगुणभवान्नाम्नापि सावर्णी ॥
देव्या च्छिन्नकवन्धतः पतदसृग्धारां पिबन्तीं मुदा ।
नागाबन्द्धशिरोवलिर्मनुविदा ध्येया तथा सा सुरैः? वामे कृष्णतनुं
तथैव दधतीं खड्गं तथा खर्परम् ।
प्रत्यालीढपदां कवन्धविगलद्रक्तं पिवन्ती मुदा ।
शेषाया प्रलये समस्तभूवनं भोक्तुक्षमी तामसी ॥
शक्तिः सैव पदा परा भगवती नाम्नापि सा डाकिनी ।
एवं सञ्चिन्त्य तां देवीं पूर्ववत् प्रजपेत् सदा ॥
आचारात् पूर्ववत् कुर्यात् अथवा कालिकासमम् ।
ऋषिन्यासादिकं कृत्वा भूतशुद्धिं विधाय च ॥
अथ वक्ष्ये महेशानि स्तवराजं शुभावहम् ।
शृणुष्व परया भक्त्या सर्वकामफलप्रदा ॥
थेलत्कुण्डलमण्डलयुगस्फारभ्य
वक्त्राम्बुजस्कुर्ज्यानीरजलोचनैस्त्रिजगतीव्यक्तं त्रिलोकीगता ।
प्रोद्गण्डप्रकटाट्टहासपट्टभिर्दंष्ट्राङ्कुरौ
प्रोल्लसन्नालाकुञ्चितकेशपिङ्गलजटाजुटटेस्तुभ्यं नमः ॥
वैषाघ्राजिनरञ्जितसज्यादानेरन्यै प्रलयघोरे खर्वानिर्वचनीय
नीलशुभगे मुण्डावलिमण्डिते ।
कर्तृं कन्दरुचिं विचित्ररुचित्रा भालं दधाने पदे मातर्भक्तजनानुकल्पनि
महामाये तुभ्यं नमः ।
इश्यं मे सुरवृन्दवन्दितपदद्वन्द्वारविन्दप्रभाम् ।
देवीमिष्टफलार्थसाधनकरीं ज्ञानप्रदामिश्वरीम् ॥
ध्यायन्ति स्तुतितिस्तुवन्ति? सततं प्रायेण तेषां मुखाद्वाचा
निर्मलगद्यपद्यरुचिराङ्कीयस्त्यनं सम्पदम् ॥
इति विश्वसारतन्त्रेषडक्षरी स्तवराजः समाप्तः ॥
९९९९९
(प्. ३९) श्रीपार्वत्युवाच ॥
देवदेव महादेव सर्वविद्याविशारद ।
कपालखट्ट्वाङ्गधर सर्वमन्त्रपुरङ्कृतः ॥
षडक्षरस्य कवचं कथयामास तत्वतः ।
श्री ईश्वर उवाच ॥
देव देवा महादेवः सर्वविद्या विशारदः ।
तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः ॥
षडक्षरस्य कवचं कथयामास तत्वतः ।
श्री ईश्वर उवाच ॥
साधु साधु महेशानि साधुलोकहितञ्च यत् ।
कथयामि महागोप्यं कवचं सुरदुर्लभम् ॥
सुगोप्यं सर्वतन्त्रेषु सर्वदेवेषु गोपितम् ।
गोपितं सुरसङ्घैश्च विश्वसारे प्रकाशितम् ॥
प्रातःकाले तथा मध्ये सायाह्ने च विशेषतः ।
अर्द्धरात्रौ तथा रात्रौ निशाभागे विशेषतः ॥
सशक्त्या प्रजपेन्मन्त्रं कवचं प्रपठेन्नरः ।
तत्क्षणात् देवतासिद्धिर्लभते नात्र संशयः ॥
ध्यात्वा देवीं पठेदेतत् कवचं सुरपूजितम् ।
ओङ्कारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ॥
नार्चनं पूजनं तस्या मन्त्रमात्रं जपेन्नरः ।
प्रपठन् कवचं नित्य भैरवेण च भाषितम् ॥
हृल्लेखामूर्द्ध्नि मां पातु ह्रींस्वरूपा महेश्वरी ।
क्लीं स्वरूपा महामाया सर्वतन्त्रसमन्विता ॥
लक्ष्मीरूपा सदा पातु सर्वदेहेषु पूजिता ।
वदने सर्वविद्याख्या वैष्णवी सिद्धिदायिनी ॥
सरस्वती सदा पातु जिह्वायां शक्तिरूपिणी ।
ऐकारबीजरूपा च कवचे हृदये इवतु ॥
हुङ्कारबीजरूपा च माया रूपा महेश्वरी ।
हस्तायाः पादयोर्नाभौ पार्श्वयोश्चक्षुषोर्नसि ॥
उदरे च नितम्बे च लिङ्गे गुह्ये पदद्वये ।
हस्तयोः पृष्ठवंशे च ककुद्यंशे नितम्बके ॥
फट्कारः सर्वदा पातु अस्त्ररूपा शिवप्रिया ।
डाकिनी वर्णिणी रक्षां करोतु मम मस्तके ॥
वज्रवै रोचनी पातु सर्वाङ्गे छिन्नमस्तका ।
ओङ्कारि सर्वदा पातु सर्वाङ्गेष्वङ्गदेवता ॥
पिङ्गलाक्षी सदा पातु सर्वाङ्गेष्वङ्गदेवता ।
इति वा प्रपठेद्देवि सर्वशास्त्रे स्वयं विधिः ॥
खड्गरूपा सदा पातु मूर्द्ध्नि देशे सदा मम ।
श्रीवज्रा सर्वदा पातु शिखायां मन्त्ररूपिणी ॥
पाशरूपा सदा पातु सर्वाङ्गे कवचरूपिणी ।
अङ्कुशा सर्वदा नेत्रयोः शशिसूर्ययोः ॥
असुरक्षयकरी देवि सर्वाङ्गे अस्त्ररूपिणी ।
ओङ्करालः सर्वदा पातु विकरालः सदावतु ॥
अतिकरालः सदा पातु महाकरालः सदावतु ।
ओं गणपतिः सदा पातु परमगुरुः सदावतु ॥
गुरुर्वा सर्वदा पातु क्षेत्रपालः सदावतु ।
आधारशक्तिः सदा पातु कुर्मेऽयं सदावतु ॥
अनन्तः सर्वदा पातु हृत्पद्मं सर्वदावतु ।
वर्णरूपा सदा पातु छिन्नमस्ता शिवप्रिया ॥
इति कवचं दिव्यं कथितं सुरदुर्लभम् ।
यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः ॥
गोपितः सर्वतन्त्रेषु विश्वसारे प्रकाशितम् ।
प्राणान्तेऽपि न वक्तव्यं नाशिष्याय कदाचन ॥
(प्. ३९ब्) शठार भक्तिहीनाय क्रूराय कवचं प्रिये ।
न वक्तव्यं न वक्तव्यं न वक्तव्यं कथञ्चन ॥
रे पुभ्रा? मित्रा शृणुष्व शैवेनोक्ता पुरा श्रुती ।
तस्मान्मन्त्रं यथायन्त्रं कवचञ्च विधानवित् ॥
न दातव्यं न प्रकाश्यं दर्शयेन्न कदाचन ।
मासमेकं पठेद्यस्तु कवचं सुरदुर्लभम् ॥
स भवेत् सुन्दरः साक्षात् कुवेर इव चापरः ।
मासद्वयं पठेद्यस्तु स भवेत् सम्पदां पदः ॥
मासत्रयं पठेद्यस्तु स भवेन्निधिभाजनम् ।
मासचतुर्थे सम्प्राप्ते कवीनामग्रणीर्भवेत् ॥
सम्प्राप्ते पञ्चमे मासि भवेत् शैवो निरामयः ।
षष्ठे मासे तु सम्प्राप्ते भवेद्भूमिपुरन्दरः ॥
सप्तमे मासि सम्प्राप्ते त्वधनी धनवान् भवेत् ।
अष्टमे मासि सम्प्राप्ते पुत्रप्रौत्रान्वितो भवेत् ॥
नवमे मासि सम्प्राप्ते निरुग्नो भवति ध्रुवम् ।
दशमे मासि सम्प्राप्ते सर्वविद्येश्वरो भवेत् ॥
एकादशे तु सम्प्राप्ते चतुर्वर्गं लभेन्नरः ।
इति विश्वसारतन्त्रे परदेवतायाः षडक्षर्याकवचं समाप्तम् ॥
९९९९९
एवं सञ्चिन्त्य विधिना तज्जपञ्च समर्पयेत् ।
मन्त्रेणानेन देवेशि पूजयित्वा सुरेश्वरीम् ॥
गन्धपुष्पैश्च धूपैश्च गीतवाद्यपुरःसरैः ।
पूजयित्वा महामायां सालङ्कारेण देशिकः ॥
ओङ्कारं पूर्वमुच्चार्य गुह्यातिगुह्यमुच्चरेत् ।
गोप्तीपदं समुद्धृत्य गृहाणपद पूर्वकम् ॥
अस्मत् कृतं समुद्धृत्य तदा जपपदं भवेत् ।
सिद्धिर्भवतु मे देवि त्वत् प्रसादात् त्वयि स्थिता ॥
मन्तोऽयं कथितो देवि सदा जपसमर्पणे ।
यन्त्रोसर्गात् ततः कुर्यात् मन्त्रेणानेन देशिकः ॥
मूलमन्त्रं समुच्चर्य चतुर्थ्यन्तपदं वदेत् ।
चतुर्वर्ग फलोद्देशं स्वगोत्रञ्च सुरेश्वरि ॥
नमोऽनन्तञ्च ततो दद्यात् शङ्करेण च भाषितम् ।
(लक्षमेकं जपं कुर्यात्) यथालिङ्गे तथा पादं लिङ्गसङ्ख्या कृता
मया ।
शालग्रामे मनौ यन्त्रे प्रतिमा चित्रकेषु च ॥
पुस्तके त्रिशिखे स्वर्गे गुरुपादद्वयेषु च ।
पूजयेत् पयया भक्त्या शङ्करेण च भाषितम् ॥
लक्षमेकं जपं कुर्यात् पुरश्चरणकर्मणि ।
महाविद्या विषये तु जपं लक्षं प्रमाणकम् ॥
सर्वत्र सर्वतन्त्रेषु कथितं पद्मयोनिना ।
मद्यैर्मांसैर्वैर्जयन्तैः शक्तुभिर्मधुमांसकैः ॥
पूजयेत् परया भक्त्या देवीं दानवनाशिनीम् ।
प्राणप्रतिष्ठां सर्वत्र कृत्वा मन्त्रं जपेत् सुधीः ॥
पूजां कृत्वा विधानेन स्विकारं प्रतिपादयेत् ।
नानात्वदामि न शृणोमि न चिन्तयामि न स्मरामि न भजमि न चाश्ररामि ।
त्यक्त्वा त्वदीयचरणा पूजमादरेण मां त्राहि देवि कृपया मयि देहि
सिद्धिम् ।
(प्. ४०) अज्ञानाद्वा प्रमादाद्वा वैगुण्यात् साधनस्य च ।
यन्न्युनमतिरिक्तं वा तत् सर्वं क्षत्तुमर्हसि ॥
द्रव्यहीनं क्रियाहीनं श्रद्धभक्तिविवर्जितम् ।
तत्सर्वं कृपया देवि क्षमस्व त्वं दयानिधे ॥
यन्मया क्रियते कर्म षन्महत् स्वल्पमेव वा ।
तत् सर्वञ्च जगाद्धत्रि क्षन्तव्यमयमञ्जलिः ॥
तदा पुष्पाञ्जलिं दत्वा जाग्रत् स्वप्नसुषुप्तिषु ।
तत्सर्वं भाववान् पूजाहया हत्यै नमः शिवे ॥
यन्मया क्रियते कर्म षन्महत् स्वल्पमेव वा ।
तत्सर्वञ्च जगत्धात्रि क्षन्तव्यमयमञ्जलिः ॥
तदा पुष्पाञ्जलिं दत्वा अद्वैतञ्च समुच्चरेत् ॥
श्री ईश्वर उवाच ॥
अद्वैतभावनां वक्ष्ये शृणुष्व कमलानने ।
यस्य विज्ञानमातेण भवेद्गङ्गाधरः स्वयम् ॥
अहं स्त्री पुरुषोऽहं सदाशिवोऽहं परमप्रकृत्यहम् ।
पवमपुरुषोऽहं नादोऽहं बिन्दुरहं कलाश्चाहम् ॥
शब्दब्रह्मोऽहं क्रियायोगोऽहं ब्रह्माहं विष्णुरहं सौराऽहं
ब्राह्माहं वैष्णवोऽहं शिवाहम् ।
नानाशक्त्यहमसुरोऽहं सुरोऽहं उच्चारवहितोऽहम् ।
विद्योहं वेदाश्चाहं वेदसाक्षिणश्चाहं वेदक्रियाहं कर्मयोगोऽहं
धर्मकर्माहम् ।
पितामहं मातामःअं पुत्रोऽहं गुरुरहं आचार्योहं आगमोऽहम् ।
महाभागवतोऽहं श्रीभागवतोहं श्रुतिशास्त्राण्यहम् ।
मन्त्रार्थाऽहं स्तवोऽहं कवचोऽहं अहं सहस्रनाम गायत्र्यहं
बीजानाहं त्र्यक्षरोऽहं पञ्चाशद्वर्णमातृकाहं
पञ्चमहाभूतान्यहं तत्वानाहं स्थुलोहं सूक्ष्मोऽहं
कुलाचलश्चाहं प्राणायामादिषोडशपदार्थोऽहम् । ऋषिश्चाहं
मुनयश्चाहं लक्ष्म्यहंअ श्रियोऽहं प्रियोऽहं गौर्यहं प्रेतोऽहं
कुष्माण्डाश्चाहं लोकपालाश्चाहं ग्रहाश्चाहं दिग्गजाश्चाहं
दशदिशोऽहं ऊर्द्धोऽहं अधोऽहं चतुर्दशभुवनान्यहम् । तत् स्थोऽहं
तदहं सम्प्रकुर्यात् ।
जपेन्मन्त्रं विधानेन सङ्ख्यां कुर्वन् विधानतः ।
न दोषो मानसे जापे इत्याह भगवान् हरिः ॥
इति विश्वसारतन्त्रे प्रचण्डचण्डिका विवरणे तृतीयः पटलः ॥
९९९९९
अथातः सम्प्रवक्ष्यामि पुण्यां वै दक्षिणाविधिम् ।
सर्वसिद्धि प्रदं साक्षात् महापातकनाशनम् ॥
देवैर्देवत्वविषये सिद्धेः सिद्धत्वसिद्धये ।
राक्षसैः पन्नगैर्देवि मनुष्यैश्च मुमुक्षुभिः ॥
श्मशाने च शून्यागारे चतुष्पथे ।
शवोपरि चितास्थो वा शययास्थो मैथुने रतः ॥
परयोनौ योनियन्ते पूजयेत् परदेवताम् ।
योनिकुण्डे रक्तपुष्पैर्विल्वैः गुरुसमन्वितैः ॥
ऋतुकालोद्भवैः पुष्पैर्जवाजावकसं युतैः ।
(प्. ४०ब्) कुक्कुटैर्महिषैर्मत्स्यैर्मार्जारैर्नकुलैस्तथा ।
मृगैर्मेषैः काकशूकैर्मद्यैर्मधुरपायसैः ॥
नरास्थैर्नरमांसैश्च महाशङ्घैर्विशेषतः ।
नारास्थैर्मालिकां कृत्वा महादेवीं जपेत् सदा ॥
मणिपाषाणधातुनां मालाकार्या विचक्षणैः ।
दिवसे वैष्णवाचारो विष्णुवेशे च संस्थितः ॥
धर्मशास्त्रप्रसङ्गेन श्रीभागवतगायने ।
हविष्यान्नं दिवा कुर्यात् साधकः सफलाप्तये ॥
किन्तु रात्रौ प्रकुर्वीत सामिधान्नं शिवप्रिया ।
दन्ताख्यां मालिकां कृत्वा सदा मन्त्रं जपेत् सुधीः ॥
लतागृहे जपेन्मन्त्रं साधकः सुसमाहितः ।
पूजा स्थाने विनिक्षिप्य नरमुण्डं तदुर्द्धके ॥
कमलासनमासाद्य पूजयेत् परदेवताम् ।
षट्सहस्र प्रमाणेन प्रत्यहं किं न सिध्यति ॥
अशुचौ वा शुचिर्वापि यथस्थाने च देशिकः ।
प्रजपेत् परया भक्त्या सर्वतन्त्रसमन्विता ॥
धर्मार्थकाममिक्षार्थी सततं प्रजपेन्मनुम् ।
भक्ष्याभक्ष्यविचारं हि न कर्तव्यं सदाबुधैः ॥
न च ब्रात्यं तथा हिंसा न मिथ्याभाषणं क्वचित् ।
सर्वत्र सर्वभावेषु यजेत् कालिं महामतिः ॥
करालवदनां घोरां मुक्तकेशीञ्चतुर्भुजाम् ।
चामुण्डां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥
सदाश्छिन्नशिरः खड्गवामाधोर्द्धकराम्बुजाम् ।
अभयं वरदञ्चैव दक्षिणोर्द्ध्वोधपाणिकाम् ॥
महामेघ प्रभां श्यामां मुण्डमाला विभूषिताम् ।
दिगम्बरीं महाभीमां प्रत्यालीढपदे स्थिताम् ॥
कण्ठावशक्तमुण्डालिगलद्रूधिरचर्चिताम् ।
कर्णावतंशतां नीतशवयुग्मभयानकाम् ॥
घोरदंस्ट्रां करालस्यां पीनोन्नतगयोधराम् ।
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मूखीम् ॥
सृक्कद्वयगलद्रक्तधारा विक्षूरिभाननाम् ।
अकालजलदश्यामां श्मशानालयवासिनीम् ॥
शिवाभिर्घोरावाभिश्चतुर्दिक्षुसमन्विताम् ।
शवरूपमहादेवहृदयोपरि संस्थिताम् ॥
स्वयोनिं शिवलिङ्गे तु निक्षिपत्तिं मुहूर्मुहूः ।
एवं ध्यात्वा महाकालीं चतुर्वर्गफलप्रदाम् ॥
मद्यैर्मांसैर्स्तथा शुक्रैर्गोमांसैः पूजयेत् सदा ।
अमाद्यै पूजयेद्देवीं भवानीं भवमोचिनीम् ॥
सर्वकाले सदा देवीं ध्यत्वा च विधिना सुधीः ।
स्वशक्त्य प्रजपेन्मन्त्रं न शक्त्या च कथञ्चन ॥
अविकारेण मनसा ध्यात्वा देवीं सनातनीम् ।
प्रजपेत् परया भक्त्या सर्वकाले च सर्वदा ॥
त्रिसन्ध्ये च जपेद्विद्यां श्मशाने च विशेषतः ।
सहस्रप्रमाणेन प्रत्यहं किं न सिध्यति ॥
नात्र सिद्धाद्यपेक्षा च न च मित्रादिदुषणम् ।
न वित्तव्ययवाहूल्यं न च व्यत्यं कथञ्चन ॥
मत्स्यैर्मद्यैः पुरश्चर्यां सर्वदा कारयेद्बुधः ।
तस्यां सम्भक्षयेद्धीमान् शिष्याय प्रणतात्मने ॥
न भक्षयेच्च तस्यांशं देवता जायतेऽचिवात् ।
(प्. ४१) यत्र मां चिन्तयेद्देवीं सर्वकामसमृद्धये ॥
तस्य हस्ते सदैवास्ति अणिमादिर्न संशयः ।
गद्यपद्यमयीं वाणीं सभायां तस्य जायते ॥
तस्य दर्शनमात्रेण वादिनो निष्प्रभा भवेत् ।
राजा च दासभावत्वं भजते चापरेण किम् ॥
वह्नेः *? तां जलस्तस्भं गतिस्तस्तं विवस्वतः ।
दिवारात्रिव्यत्ययञ्च वशीकरणमेव च ॥
सर्वेषां वल्लभो याति यशः कीर्तिविवर्द्धनः ।
अन्तेऽभवन्महादेव्या गणत्वं नात्र संशयः ॥
देव्यानन्दे सदानन्दः स एव कालिका तनुः ।
निन्दाद्रव्येषु नैवेद्यं त्रिसन्ध्ये च निवेदयेत् ॥
नित्यं यो निन्दयेद्भूत्वा द्रव्याणि मनसापि वा ।
योगिन्यः पाशहस्तेन तं वध्नाति यदृच्छया ॥
लौहद्गमुरयोगेन चुर्णयन् मस्तकं ततः ।
मांसास्थिमज्जाचर्वण्यो योभिन्यः शुभलक्षणाः ॥
पूजां कृत्वा तु देव्याः स भगगीतिं विनिर्दिशेत् ।
लिङ्गगीतिं विशेषेण महेशानि विनिर्दिशेत् ॥
आनीय योषितं दिव्यां विवस्त्रां नृत्यमारभेत् ।
शून्यागारे तया सार्द्धं स्वयं नृत्यपरायणः ॥
शुक्रशोनितयोगाभ्यां पूजयेत् परदेवताम् ।
षण्मासेन लभेत् सिद्धिं देवैरपि सुदुर्लभाम् ॥
तन्मासे तस्य सिद्धिः स्यान्महाकालेन भाषितम् ।
श्रीपार्वत्युवाच ॥
काली विद्या महाविद्या सर्वविद्यासु चोत्तमा ।
कथयामास तत्त्वञ्च तत्त्वार्थेन विशेषतः ॥
काली विद्या महाविद्या सुचिता न प्रकाशयेत् ।
तस्यास्तद्वचनं श्रुत्वा प्रजहास महेश्वरः ॥
विहस्य कथयामास अश्रुशष्यादिकञ्चरेत् ।
श्री ईश्वर उवाच ।
साधु पृठं महादेवि साधुलोकहितञ्च यत् ।
तत्सर्वं कथयामाद्य तत्त्वा*? न विधानतः ॥
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ।
सृष्टिसंहारकाले च लयमेष्यति यत्तनौ ॥
पञ्चभूतमयी विद्या सर्वतन्द्रमयी शिवा ।
दिवारात्रिमयी विद्या सर्वतन्त्रमयी शिवा ॥
मातृकावर्णभेदेभ्यः कालीमन्त्राः प्रजज्ञिरे ।
प्राणायाम्प्रभावेण मन्त्रसिद्धिं लभेन्नरः ॥
भैरवस्तु ऋषिश्चास्यो अनुष्टूप्छन्द एव च ।
कालिका देवता प्रोक्ता स्वाहाशक्तिसमन्विता ॥
त्वदीयांशं समुद्धृत्य पुरा काली महातनुः ।
निशुम्भशुम्भमथने सहृतं तनुसंज्ञितः ॥
यथा ते क्रोधसम्भूता तदा काली विनिःसृता ।
पुराक्रोधातुरवपुः कृष्णवर्णं महेश्वरि ॥
तस्माच्च कालीसम्भुता भवशत्रुविनाशिनी ।
मन्त्रोद्धारमहं वक्षो भैरवेण च भावितम् ॥
वर्गाद्यं वह्निसंयुक्तं रतिबिन्दुविभूषितम् ।
त्रिगुणञ्च ततः कुर्चद्वयं मायाद्वयं ततः ॥
दक्षिणे कालिके चेति पूर्ववच्च तथैव च ।
ठद्वयेन समामुक्ता महाविद्या महेश्वरि ॥
नातः परतरा विद्या नातः परतरा श्रुतिः ।
(प्. ४१ब्) नातः परतरा सिद्धिः कथिता पद्मयोनिना ॥
कादिवर्णानि प्रकृतयः हादिवर्णादिव्? इकृतयः ।
कूर्चद्वयं प्रकृतिर्लज्जाद्वयं विकृतिसम्बोधनपदम् ॥
कीलकं पुनरतिकादिवर्णानि प्रकृतयः ।
हादिवर्णानि विकृतयः कूर्चद्वयं प्रकृतिविकृतिवह्निजाया शक्तिरूपा प्रकृति
मत्र मां जा *? न्ति सर्वेषां वल्लभां भवन्तीति ।
संवारं तरति च मृत्युं जयति । स पा *? नं तरति । स सर्वहत्यां तरति ।
स च महापातकान्यु पपातकानि तरन्ति ।
नाशिष्याय नातिंस्राय क्रूराय हठवादिने ॥
न्युनाङ्गे चातिरिक्ताङ्गे न वक्तव्यं कदाचन ।
मोहाद्वा यदिवा दैवात् हठवादेन वा प्रिये ॥
कथयित्वा थलायैनां तस्य सर्वं विनश्यति ।
यथा दरिद्रोऽपि प्रभुतमर्थं प्राप्यं सुगोप्तं परितः प्रकल्पयेत् ।
तथैवमेनां परितो निरूपयेत् विधानमेतत् कथितं पुरारिणा ।
कौलवेशे सदा जप्या कौलाचारेण सर्वदा ॥
शुद्धगोलोद्भवैर्देवि कुण्डगोलविधेन च ।
श्रीदेव्युवाच ।
केनोपायेन भगवन् कुण्डगोली भवेन्नरः ।
श्री ईश्वर उवाच ॥
अमृते जायते भर्त्ता या नारी कुण्डमुच्यते ।
मृते तु गोलकः प्रोक्तः सर्वकर्मफलप्रदः ॥
तस्या योनौ विशेषेण जपेन्मन्त्रं विशालधीः ।
ऋषिन्यासादिकं कृत्वा पूर्ववत् न्यासमाचरेत् ॥
गुर्वादिकं नमस्कृत्य यजेद्देवीं समाहितः ।
त्रिकोणं विन्यसेत् पूर्वं पुनश्चैव त्रिकोणकम् ॥
नवकोणन्तु तस्यान्ते तन्मध्ये स्थापयेच्छिवाम् ।
ततः पद्मं लिखेद्विद्वानष्टपतं सकर्णिकम् ॥
त्रिपुरान्वितयारूढं योनिमण्डलमण्डितम् ।
तन्मध्ये पूजयेद्देवीं दक्षिणा सिद्धिदायिनीम् ॥
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ।
विप्रचित्तं वलाकाञ्च ततो नीलां घनां पुनः ॥
मेवनादां मिताञ्चैव अमिताञ्च ततः परम् ।
मुद्रां मात्रां तथाचोग्रामुग्राञ्च तदनन्तवम् ॥
दीप्तां प्रदीप्तां चित्राञ्च वहिर्योनौ प्रपूजयेत् ।
त्रिपञ्चारे महापीठे काल्याद्याः शक्तयः शुभाः ॥
सर्वा असिकराः श्यामा मुण्डमाला विभूषिताः ।
देव्याः सदृशवेशाछ्याः स्वस्वभर्तृसमन्विता ॥
पूजयेद्विधिना कालीं कलिकन्मयनाशिनीं छिन्नवत् पूजयेद्देवीं
मद्यमांसादिभिर्मुदा ।
पुरश्चरणमस्याश्च पूर्वं कुर्यान्निरामिषैः ।
सावित्राख्यानमित्युक्तं हरिष्यान्नैर्विधानतः ॥
सिद्धेमनौ प्रकुर्वीत कुलाचारः सदा शुचिः ।
यावत् शुद्धिर्भवेद्विद्या तारच्च प्रजपेत् सदा ॥
पुरश्चरणमस्याश्च पूर्वं कुर्यान्निरामिषैः ।
पूजास्थानं प्रकुर्वीत नानाचित्रैश्च चित्रितम् ॥
सिन्दुरहरितालाभ्यां रचरेत् मण्डलं बुधः ।
तत्रापि पूजयेत् कालीं साधकः शक्तिसंस्थितः ॥
(प्. ४२) एकत्र भोजनं कुर्यात् स्वशक्त्या सर्वकालतः ।
ताम्बूलपूरितं वक्त्रं कुर्याच्च विधिनामुना ॥
कर्पूराद्या सदाजिह्वा जपकाले दिशेद्बुधः ।
करण्डैर्वेष्टितैः स्थाने एकैकं साधकैः सह ॥
प्रजपेत् परया भक्त्या लक्षमेकं दिवानिशम् ।
सिद्धे मनौ प्रकुर्वीत प्रयोगान् साधकोत्तमः ॥
निष्टीवनं दन्तकाष्ठं स्वदेहोद्वर्तनं तथा ।
संयुक्तैर्मानुषैः केशैर्मुद्गीर्णान्नेन भोजनम् ॥
होमयेत् सिद्धिकालेन साधकः सकवाप्तये ।
गोमांसं मधुनालोडा वामहस्तेन होमयेत् ॥
मासार्द्धेन भवेत्तस्य अष्टौ सिद्धिर्नसंशयः ।
लक्षणं जायते तस्य स्वप्नतादि तद्गुणैः ॥
गायत्रीं प्रजपेदादौ तत् शृणुष्व वरानने ।
कालिकां वै वदेत् ङ्तां विद्महे तदनन्तरम् ॥
दक्षिणायै तदा ब्रूयात् धीमहीति ततः परम् ।
तन्नो मातः समुद्धृत्य तदा ब्रूयात् प्रचोदयात् ॥
कामाख्यद्यां वा जपेद् विद्यां लक्ष्म्याद्यां वा जपेत् सुधीः ।
मायाद्यान्वा जपेद्वापि गायत्रीं सर्वकालतः ॥
लज्जाद्यां वा जपेद्वापि कूर्चाद्यां वा विशेषतः ।
नीजबीजादिकां वापि ओङ्काराद्यां तथैव च ॥
तदा भवेन्महासिद्धिर्महाकालेन भाषितम् ॥
अथ यन्त्रान्तरं वक्ष्ये शृणुष्व कमलानने ।
त्रिकोणं विन्यसेत् पूर्वं नवकोणं ततः परम् ॥
पद्मं त्रिपुरसंयुक्तं त्रिकोणं तत्र पार्वति ।
पूजयेद्गन्धपुष्पाभ्यां सिन्दुरहरितालकैः ॥
मत्स्यैर्मांसैरासपकैर्मद्यैर्नानाविधैस्तथा ।
चतुर्लक्षप्रमाणेन पुरश्चरणमुच्यते ॥
यत्र तत्र यथाचारं यथास्थाने जपेत् सुधीः ।
यावत् सिद्धिर्भवेद्विद्या तावज्ज्यप्यं दिवानिशम् ॥
मासार्द्धेन भवेत् तस्य अष्टसिद्धिर्न संशयः ।
जपाद्दशांशतो होमस्तद्दशांशेन तर्पणम् ॥
मार्जनं तद्दशांशेन तद्दशांशेन भोजनम् ।
एवं विचिन्त्य मनसा पूजयित्वा तु यत्नतः ॥
वहिर्यागं ततः कुर्यात् साधको यतमानसः ।
हृल्लेखाबीजमुच्चार्य सदाशिवं वदेत्ततः ॥
अशक्तौ द्विगुणं जप्यं दशांशस्य विधीयते ।
सर्वमन्त्रेषु विद्यासु विधानं समुदीरितम् ॥
काल्यस्तु विधिना देवि सन्तिमूर्त्या विशेषतः ।
ताः सर्वाः कथयामाद्य तन्त्रेऽस्मिन् सम्पदावहा ॥
श्मशानकाली देवेशि गुह्यकाली ततः परा ।
एकजटा तथा काली दक्षिणा शुभलक्षणा ॥
भद्रकाली महाकाली रक्तकाली ततः परा ।
कालरात्रिस्तथा काली सर्वतन्त्रेषु गोपिता ॥
दक्षिणावज्जपेत् सर्वाः सर्वसिद्धिसमृद्धये ।
भैरवेण पुरा प्रोक्ता सर्वविद्यारणुत्तमा ॥
महाकालमतं ध्यानं वक्ष्ये सर्वफलप्रदम् ।
महामेघप्रभां श्यामां मुण्डमालाविभूषिताम् ॥
(प्. ४२ब्) खड्गं दक्षिणपाणौ तु विभ्रतीन्दीवरं तनुम् ।
कर्तृकं खर्परं चैव क्रमाद्वामेन विभ्रतीम् ॥
द्वां लिखन्तां जटामेकां विभ्रती शिरसा शुभम् ।
साट्टहासां महाघोरां रावयुक्तां विभीषणाम् ॥
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् ।
चतुर्भूज्वां घोरा दंष्ट्रां त्रिनेत्रां युगदन्तुराम् ॥
एवं विचिन्त्य मनसा पूजयित्वा तु यत्नतः ।
वहिर्यागं ततः कुर्यात् साधको यतमानसः ॥
हृल्लेखा बीजमुच्चर्य सदाशिवं वदेत्ततः ।
महाप्रेतपदं ब्रूयात् ङेन्तं ब्रूयात्तदासनम् ॥
परात्परा ङेन्तां प्रवदेत्तदनन्तरम् ।
तदा देवीं चतुर्थ्यन्तां नदान्तां प्रणवादिकाम् ॥
देव्या आसनदानेन तु एषा विद्या प्रकीर्तिता ।
अथापरं प्रवक्ष्यामि ध्यानं सर्वार्थसाधनम् ॥
भैरवोक्तमहं वक्षें शृणुष्व सुसमाहितः ।
शवशिरोरचितामालयाभवद्यदा विभावितमुद्रया ॥
श्रुतियुगाञ्चितशवयुग्मकाङ्घितौ उरु च भानुमहेशहृत्तिमण्डलौ ।
हृदयकर्मणि संस्थितया कृपात्र करण
कलिकर्मपादयावदनमिन्दुकलाङ्कितामीक्षतेमितयामाऽमिततयाविरुता
परिचेष्टिता स्वजलवाञ्चित सिद्धित सिद्धिकरीम् ।
सदा भव्तु मे शुभदा किल दक्षिणा ॥ एवं वा चिन्तयेद्देवीं
कलिकल्मषनाशिनीम् ।
नमस्कारं प्रकुर्वीत पूजयित्वा सुरेश्वरीम् ॥
एकं चण्ड्यां सप्त सूर्ये त्रिणि कुर्याद्विनायके ।
चत्वारि केशवे कुर्यात् शम्बोरर्द्धप्रदक्षिणम् ॥
शङ्खहस्तेन सर्वत्र दक्षिणं परिकीर्तितम् ।
ततः कर्मार्पणं कुर्यात् मन्त्रेणानेन देशिकः ॥
इतः पूर्वपदञ्चोक्त्वा प्राणबुद्धिदेहकारितो वदेत् ।
जाग्रत् स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां
पद्भ्यामुदरेण शिश्य? रात्रिन्दिवा च वदेत् ।
यदुक्तं यत् कृतं चोक्त्वा सर्वं त्वषि सनर्पितमस्तु वदेत् ।
ओं तत् सर्वं त्वयि समर्पितमुचार्य सिद्धो भवति साधकः ॥
सर्वत्र भक्ष्याद्रव्येण ॥
अभ्युक्षणं प्रकुर्वीत तुलसीदलपूर्वकम् ।
धेमुद्राप्रदर्श्याथ गालिनीं दर्शयेत् सदा ॥
प्रणवादिनमोऽन्तेन देवनाम चतुर्थकम् ।
निवेदयामि तत्सर्वं जुषानेदं महेश्वरि ॥
पुनराचमनं दत्त्वा बलिदानं दिशेत् ततः ।
एह्येहि जगतां मातर्जननिं जगतां तथा ॥
गृह्न गृह्न इमं नित्यं बलिदानं ततः परम् ।
सिद्धिं देहि पदद्वन्दं ततः शत्रुक्षयं कुरु ॥
यगशब्दं समुच्चार्य ततः कुर्चयुगं पुनः ।
हृल्लेखाद्वितयं पूर्वे तत्र कवचद्वयं पुनः ॥
तदा मन्त्रं समुद्धृत्य फडन्तं वह्निसुन्दरी ।
वलिदानमिदं मन्त्रं सर्वतन्त्रसमन्वितम् ॥
सर्वासु मन्त्रविद्यासु यथानाम्ना क्षिपेद्वलिम् ।
वलिदानन्तु सर्वत्र विज्ञेयं साधकोत्तमैः ॥
अथ स्तोत्रम् ॥
कर्पूरं मध्यमान्त्य स्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजन्ते
मातरेतत् त्रिपुरहरवधू त्रिः कृतं ये जपन्ति ।
(प्. ४३) तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छुन्दं
ध्वान्तधाराधरुरुचिचिकुरे सर्वसिद्धिं गतानाम् ॥ १ ॥
ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता
यदि जपति जनो वारमेकं कदाचित् ।
जित्वा वाचामधीशं धनदमपि चिरं मोहयन्त्यम्बुजा? क्षी वृन्दं
चन्द्रार्द्धचुडे प्रभवति महाघोरवाणावतंसे ॥ २ ॥
ईशो वैश्यानरस्थः शशधरविलसद्वामनेत्रेण युक्तो बीजन्ते
द्वन्दमन्यद्विगलितचिकुरे कालिके ये जपन्ति ।
द्वेष्टारन्ते निहन्ति त्रिभुवनमखिलं वऽस्यभावं नयन्ति
सृक्कद्वन्दाश्रुधाराविनिहितवदने दक्षिणे कालिकेति ॥ ३ ॥
उर्द्धं वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः ।
सव्ये चाभिर्वरञ्च त्रिजगद्घहरे दक्षिणे कालिकेति ।
जप्त्वै तन्नाम ये वा तव मनुविभवं भावसन्त्येवमन्व तेषामष्टौ
करस्थाः प्रकटितवदने सिद्धयस्त्रा स्वकस्य ॥ ४ ॥
वर्गाद्यं वह्नियुक्तं विधुरतिललितं तभ्रयं कूर्चयुग्मं
लज्जाद्वन्द्वञ्च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा ।
मातर्ये जपन्ति स्मरहरमहिले भारयन्तः स्वरूपं ते लक्ष्मीर्लास्य
लीलाकमलदलदृशः कामरूपा भवन्ति ॥ ५ ॥
प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना
योजयित्वा सकलमपि सदा भाव्यित्वा जपन्ति ।
तेषां नेत्रारविन्दे विहरति कमला वक्त्र शुभ्रांशुविम्बे वाग्देवी
देवीमुण्डस्रगतिशयलसं कण्ठि पीनस्तनाढ्ये ॥ ६ ॥
गतासूनां वाहू प्रकरकृतकाञ्चीपरिलसन्नितम्बां दिग्वस्त्रां
त्रिभुवनविधात्री त्रिनयनाम् ।
श्मशानस्थां तल्पे शवहृदि महाकालसुवताप्रशक्तां त्वां ध्यायन्
जननि जडचेता अपि कविः ॥ ७ ॥
शिवाभिर्घोरावाभिः शवनिवहमण्डास्थिनिकरैः परं सङ्कीर्णायां
पकटितचितायां हरवधूम् ।
प्रविष्टां त्वां तुष्टामुपरि सुरतेनातियुवतीं प्रसन्नां त्वां ध्यायन्ति
क्वचिदपि न तेषां परिभवः ॥ ८ ॥
वदामन्ते किंवा जननि वय मुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते
वेत्ति परमम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्माकमपि ते तदेतत् क्षन्तव्यं न खलु
पशुरोषः समुचितः ॥ ९ ॥
समस्तादापीनन्तनजघनध्वग् यौवनवती रताशक्तो नक्तं यदि जपति
भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि
चिरतरं जीवति कविः ॥ १० ॥
समाः सुस्थीभूतां जपति विपरीतं यदि सदा विचिन्त्य त्वां
ध्यायेन्नतिशयमहाकालसुरताम् ।
तदा तस्य क्षौणीतलविलसमानस्य विदुषः कराम्भोजे वश्याहरवधु
महासिद्धिनिवहाः ॥ ११ ॥
प्रसुते संसारं जननि निजगतिं पालयति च समस्तं क्षित्यादि प्रलयसमये
नाशयति च ।
(प्. ४३ब्) अतस्त्वां धातापि त्रिभुवनपतिः श्रीपतिरथ्ये महेशऽपि प्रायः
सकलमपि किंस्तौमि भवतीम् ॥ १२ ॥
अनेन्के सेवन्ते तवाचरगीर्वाणनिवहाविमूढान्स्ते मातः किमपि न हि जानन्ति
परमम् ।
समायाध्यामाद्यां हरिहरविरिञ्च्यादिविबुधैः प्रपन्नोऽस्मि स्मैरं
रतिरसमानन्दनिरताम् ॥ १३ ॥
(प्. ४३ब्) धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेकाकन्याणी
गिरिशरमणि कालि सकलम् ।
स्तुतिः का ते मातस्तव करूणया मामगतिकं प्रसन्ना त्वं भूयात् तव
मनुनभूयान्मम जनुः ॥ १४ ॥
श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं तस्का? नां
निजगलितवीर्येण कुसुमम् ।
पदं त्वत् प्रत्येकं मनुमपि तव ध्याननिरतो महाकाली स्वैरं स भवति
धरित्रीपरिवृढ ॥ १५ ॥
गृहे सम्मर्जन्या परिगलि? तबीजं हि कुसुमं श्मशाने मध्याह्ने वितरति
चितायां कुजदिने ।
समुच्चार्या प्रेम्नामनुमपि सकृत् कालि सततं गजारूढो याति
क्षितिपरिवृढः सत् कविवरः ॥ १६ ॥
स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरे ध्यायन् ध्यायन् यदि
ज्वपति भक्तस्तवमनुम् ।
स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी न दीनः पर्यान्ते परमपदलीनः
प्रभवति ॥ १७ ॥
त्रिपञ्चारे पीठे शवलिवहृदि स्मेरवदनां
महाकालेनोच्चैमदनरसलावण्यनिरताम् ।
समाशक्तो नक्तं स्वयमपि वतानन्द निरतो जनो यो ध्यायेत् त्वामयि जननि स
स्यात् स्मवहरः ॥ १८ ॥
सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्रं मेषं
नरमहिषयोश्छागमपि वा ।
वलिन्ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा
प्रतिपदमपूर्वं प्रभवति ॥ १९ ॥
वशी लक्षं मन्त्रं प्रजपति हविष्यासनरते
दिवामातर्युस्मच्चरणयुगलध्याननिरतः ।
परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं सम्यक्
स्मवहरसमानः क्षितितले ॥ २० ॥
इदं स्तोत्रं मातः तव मनुसमुद्धारणरतो (जनुः) स्वरूपाक्षं
पादाम्बुजयुगलपूजाविधियुतम् ।
निशंर्द्धं वा पूजासमयमथवा यस्तु पठति प्रलापस्तस्यापि प्रसरति
कवित्वामृतरसः ॥ २१ ॥
कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वधन्तस्य क्षौणीपतिरपि
कुवेरप्रतिनिधिः ।
रिपुः कारागारं कलयति तं कलि कलया चिरं जीवन्मुक्तः स भवति
सुभक्तः प्रतिजनुः ॥ २२ ॥
अथ कवचम् ॥
कथयामास तत्वेन येन स्यात् प्रीतिरुत्तमा ॥
ईश्वर उवाच ॥
शृणु वक्ष्यामि कवचं सर्वशत्रुविदारणम् ।
सर्वशान्तिकरं साक्षात् महापातकनाशनम् ॥
सर्वव्याधिप्रशमनं सर्वसम्पत् प्रदायकम् ।
चतुर्वर्गप्रदं साक्षात् महापातकनाशनम् ॥
(प्. ४४) अस्याः श्रीदक्षिणकालिकायाः कवचस्य श्रीभगवान् महाकाल्
ऋषिरनुष्टुपच्छन्दः आद्या शक्तिर्भगवती देवता द्रीऊ बीजं स्वाहा
शक्तिसमृद्धये विनियोगः ।
क्लीं पातु मस्तके देवि शिखायां द्रीऊं महेश्वरि ।
भ्रूमध्ये क्रीं महेशानि पातु मां चक्षुषोर्द्वयोः ॥
क्लीं पातु नासिकावक्रे हुं जिह्वायां महेश्वरी ।
द्रीऊं पातु तालुमूले च द्रीऊं पातु ब्रह्मरन्ध्रके ।
दक्षिणे कालिका पातु हृदये सर्वसिद्धिदा ।
क्रीं पातु कर्णयुगले क्रीं पातु ओष्ठयुग्मके ॥
द्रीऊं पातु जिह्वामूले तु हुं पातु वदने पुनः ।
दन्तपङ्क्तौ च हुं पातु द्रीऊं पातु पार्श्वयुग्मके ॥
मूलाधारे महेशानि द्रिऊं पातु मय सर्वदा ।
पार्श्वयोर्हस्तयोश्चैव अंशयोश्च कटिद्वयोः ॥
लिङ्गगुह्ये नितम्बे च नाभौ च जठरे पुनः ।
सर्वधातुषु प्राणेषु इन्द्रियेषु तदात्मके ॥
महाभूतेषु भूतेषु तत् कालासु च पार्वति ।
सर्वाङ्गे पातु देवेशि स्वाहाशक्ति समन्विता ॥
करालवदना पातु जानुयुग्मं सदा मम ।
सद्यश्छिन्नमुण्डधरा पातु मे पाद्युग्मकम् ॥
सर्गाङ्गुलिषु मे पातु वामोर्द्ध्वखड्गधारिणी ।
अभया वरदा पातु श्मशाने मां महेश्वरी ॥
महानेघप्रभा पातु रणे द्युते च पार्वती ।
चामुण्डा पातु देवेशि अरण्ये सर्वसिद्धिदा ॥
श्यामा देवी सदा तु शङ्कटै शत्रुमध्यतः ।
दिगम्बरी सदा पातु राजद्वारे सुरार्चने ॥
मुण्डमालाधरा पातु जानुदेशे सदा मम ।
शवकुण्डलधारिणी मां प्रान्तरे परमेश्वरी ॥
घोरदंष्ट्रा सदा पातु जलमध्ये महेश्वरि ।
करालास्या सदा पातु वह्निमध्ये शिवप्रिया ॥
पीनस्तनी सदा पातु योषितां सङ्गयोगतः ।
शवकाञ्चीधरा पातु भूतप्रेतादिमध्यतः ॥
रक्तपाना सदा पातु प्रमत्तस्थानयोगतः ।
घोररूपा महारौद्री पातु मां भोजने सदा ॥
श्मशानवासिनी पातु मृत्युस्थाने सदा मम ।
भवने पतु मां देवी काली सर्वसमृद्धिदा ॥
कपाली पातु मां देवी पुत्रान् सर्वसमृद्धये ।
कुरुकुल्ला सदा पातु शयने मां महेश्वरी ॥
कुल्ला मां सर्वदा पातु गमने विघ्ननाशिनी ।
विरोधिनी सदा पातु शत्रूणाञ्च विरोधने ॥
विप्रचित्ता सदा पातु पर्वते पर्वतत्मजा ।
उग्रा देवी सदा पातु वाग्वाये सर्वसिद्धिदा ॥
उग्रप्रभा सदा पातु क्षुधायां पर्वतात्मजा ।
निद्रायां पातु देवेशि दीप्ता सर्वसमुद्धिदा ॥
लीला देवी सदा पातु मम वृद्धौ महेश्वरी ।
लज्जायां पातु देवेशि घना नाम महेश्वरी ॥
चौरव्याधिभयात् पातु कराला कालनाशिनी ।
मात्रादेवी सदा पातु गृहे क्षेत्रादिकेषु च ॥
शुभ्रा देवी सदा पातु स्वर्गे मर्त्ये महेश्वरी ।
मात्रादेवी सदा पातु मम सर्वार्थसिद्धिदा ॥
(प्. ४४ब्) पातु पातालदेशे मां ब्रह्माणी सर्वकामदा ।
सङ्ग्रामे पातु देवेशि इन्द्राणी विजयप्रदा ॥
चामुण्डा पातु मां देवी परराष्ट्रे महेश्वरी ।
स्वर्गे मां पातु देवेशी लक्ष्मीः सर्वसमृद्धिदा ॥
योगिनी चक्रसहिता पातु काली सदा मम ।
कवचस्य तु माहात्मां त्रैलोक्यमध्यमध्यतः ॥
मन्त्रं मन्त्रार्थकं सर्वं कवचे गदितं मया ।
न दाराणां न पुत्रा? णां न बन्धूनाञ्च पार्वति ॥
पश्यन्ति न हि ते शोकं नृपपूजा भवन्ति ते ।
शुचिर्भुत्वाशुचिर्वापि कवचं सर्वकामिकम् ॥
प्रपठन् वा स्मरन्मर्त्यः शापानुग्रहणक्षमः ।
आनन्दसिन्धुनामधिपः *? विराड् भवेत् ।
सर्ववारीश्वरो मर्त्यः शापानुग्रहणक्षमः ।
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ॥
तत्रापि कवचं देवि दुर्लभं भुवनत्रये ।
गुरुदेवो हरः साक्षात् पत्नी तस्य हरप्रिया ॥
अभेदेन भजेद्यस्तु तस्य सिद्धिरदुरतः ।
मन्त्रद्वारा पुराप्रोक्तक्रमतस्तां भजन् जपेत् ॥
ऐश्वर्यां सुकवित्वञ्च महावारीश्वरो भवेत् ।
नित्यं तत्र महेशानि महिलासङ्गमञ्चरेत् ॥
पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा ।
लज्जायुक्तो जपेन्मन्त्री न मन्त्रं केवलं जपेत् ॥
स मायायोगयुक्तेन जपेन्मन्त्रमनन्यधीः ।
ब्रह्मा विष्णुश्च रूद्रश्च देव्याश्च सुरसत्तमाः ॥
तं दृष्ट्वा साधकं देवि लज्जायुक्तो भवन्ति ते ।
स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः ॥
प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम् ।
विघ्नात्मकाश्च देवा ये स्वर्गे मर्त्ये रसातले ॥
प्रशंसन्ति सर्वे तं दृष्ट्वा साधकसत्तम् ।
इति ते कवचं देवि महाकाल्याः प्रकाशितम् ॥
भक्तिमुक्तिकरं साक्षात् महापातकनाशनम् ।
आसाद्वापि गुरुं प्रासाद्य य इदं कल्पद्रुमावल्म्बनम् ॥
मोहेनापि मदेन वा नहि जनो जाभ्यं न वा युज्यति ।
सिद्धोऽसौ भुवि सर्वदुःखविपदां ** * * * प्रान्तको मित्रं तस्यनृपस्य
देवरिपवो नश्यन्ति तस्याप्तये ॥
लिखितं धारयेद्यस्तु कण्ठे वा सन्तके भुजो तस्य सर्वार्थसिद्धिः स्यात्
यद्यन्मनसि वर्तते ।
गोरोचनाकुङ्कुमेन भुर्जपत्रे महेश्वरि ।
नाधयो व्याधयन्तस्य दुःखशोकभरं क्वचित् ॥
गोरोचनाकुङ्कुमैर्वा रक्तचन्दनकेवला ।
यावकैर्वा महेशानि लिखेद्यस्तु विशेषतः ॥
अष्टम्यां मङ्गलदिने चतुर्दश्यायथापि वा ।
दुर्गां वा देवदेवेशि लिखेत् देशिकसत्तमः ॥
मध्यायां श्रवणायां वा रेवत्यां वा विशेषतः ।
सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ॥
मीनराशौ गुरुगते कस्थेवृश्चि शनैश्चरे ।
लिखित्वा धाररेद्वस्तु उत्तराभिमुखी भवेत् ॥
श्मशाने प्रान्तरे वा शुन्यागे विशेषतः ।
(प्. ४५) निशायान्तु विशेषेण तस्य सिद्धिरचञ्चला ॥
भूर्जपत्रे लिखेन्मन्त्रं तरुणा च महेश्वरि ।
ध्यानधारणयोगेन धावयेद्यस्तु भक्तितः ॥
अचिरे तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ।
वादी मुकति प्रोषकस्तरवति क्ष्मारन्न भेदो मतः ॥
गर्वी खर्वति सर्वविज्जडयति वैश्वानरः शीतति ।
आचाराष्टकसिद्धिरूपमपरं सिद्धाष्टकं सिद्धिदम् ॥
त्वां वन्दे भवभीतिभञ्जकरीं तद्भजे गिरीशप्रियाम् ॥
इति श्रीविश्वसारतन्त्रे दक्षिणाकवचं समाप्तम् ॥
९९९९९
मन्त्रभेदान् प्रवक्ष्यामि शृणुष्व कमलानने ।
यस्य विज्ञानमात्रेण भवेद्गङ्गाधरः स्तयम् ॥
दक्षस्कन्दं समुद्धृत्य रतिबिन्दुसमन्वितम् ।
बिन्दुनादसमारूढं महाविद्या प्रकीर्तिता ॥
एकाक्षरी महाविद्या चतुर्वर्गफलप्रदा ।
दशलक्षं जपेद्विद्यां पुरश्चर्या विधानतः ॥
तथारात्रौ जपेद्विद्यां सर्वसिद्धिसमन्विताम् ।
पूर्ववत् पूजनं तस्याः पूर्ववत् कर्ममाचरेत् ॥
ऋषिन्यासादिकं सर्वं पूर्ववत् परिकल्पयेत् ।
पुरश्चरणमस्याश्च पूर्ववत् कल्पयेद्बुधः ॥
सर्वं पूर्ववदेवास्या महाकालेन भाषितम् ।
त्र्यक्षरी च महाविद्या तामादा कथयामिते ॥
मूलबीजं तदा माया लज्जाबीजं ततः परम् ।
महाविद्या महाकाल्या महाकालमता प्रिये ॥
अथ पञ्चाक्षरी विद्या शृणुष्व कमलानने ।
प्रजापतिं समुद्धृत्य वह्न्यारूढं ततः परम् ॥
चतुर्थस्वरसंयुक्तं नादबिन्दुविभूषितम् ।
वामश्रवणसंयुक्तं ईशानञ्च समुद्धरेत् ॥
बिन्दुखण्डेन्दु संहृत्य कूर्चबीजमिदं स्मृतम् ।
ईशो वैशानरारूढो रतिबिन्दुविभूषितः ॥
लज्जाबीज मिदं प्रोक्तं सर्वतन्त्रसमन्वितम् ।
बीजत्रयं क्रमेणैव तदन्ते वह्निसुन्दरी ॥
पञ्चाक्षरी महाविद्या कथिता पद्मयोनिना ।
षडक्षरी महाविद्या वक्ष्यामि शृणु पार्वति ॥
बीजत्रयं समुद्धृत्य अस्त्रवर्णं समुद्धरेत् ।
वह्निजाया विधिप्रोक्ता विद्या त्रैलोक्यमोहिनी ॥
अष्टाक्षरी महाविद्या कथ्यते शृणु पार्वति ।
बीजत्रयं क्रमेणैव पुनर्बीजत्रयं सुधीः ॥
स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा ।
एकादशाक्षरी विद्या कथ्यते शृणु पार्वति ॥
वाग्भवं हृदयं ब्रूयात् वह्न्यारूढं प्रजापतिम् ।
चतुर्थस्वरसंयुक्तं नादबिन्दुविभूषितम् ॥
द्विगुणञ्च ततः कृत्वा ङेन्ताञ्च कालिकापदम् ।
स्वाहान्ता कथिता विद्या प्रिये एकादपाक्षरी ॥
ऋषिः स्याद्दक्षिणा मूर्तिः छन्दः पङ्क्ति रुदाहृतः ।
परात्परतरा शक्तिर्देवता कालिका स्मृता ॥
एकादशाक्षरी विद्या कालिकायाः सुदुर्लभा ।
भाघ्येन लभते चैषां चतुर्वर्गफलप्रदा ॥
(प्. ४५ब्) लक्षद्वयं जपेद्विद्यां पूरश्चरणकर्मणि ।
अन्यासां वर्णलक्षं स्यात् कथितं पद्मयोनिना ॥
अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने ।
ऋषिणा यं पुरा प्रोक्तं दक्षिणा मूर्तिसंज्ञका ॥
चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम् ।
खड्गञ्च दक्षिणे पाणौ विभ्रतीन्दीवरद्वयम् ॥
कर्तकां खर्पवञ्चैव क्रमाद्वामेन विभ्रतीम् ।
द्यां लिखन्तीं जटामेकां विभती शिवसा स्वयम् ॥
मुण्डमालाधरा शीर्षा ग्रीवायामपि सर्वदा ।
वक्षसा नागहारेण विभ्रतीं रक्तलोचनाम् ॥
कृष्णवस्त्रधरा कनां व्याघ्राजिनसमन्विताम् ।
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ॥
विन्यस्य सिंहपृष्ठे तु लोलिहाना शवः स्वयम् ।
अट्टहासां महाघोरां रावयुक्तान्तु भीषणाम् ॥
एवं सञ्चिन्तयेत् कालीं कलिककलुषनाशिनीम् ।
सततं भक्तिमन्त्रैस्तु भाग्यैश्वर्यसुखेन्दुभिः ॥
गुरुं नत्वा विधानेन चिन्तयेत् परदेवताम् ।
अथापरं प्रवक्ष्यामि प्रकारं ।अऽगुभलक्षणम् ॥
शृणुष्व परया भक्त्या कालीं कल्मषनाशिनीम् ।
मूलबीजं तदा माया लज्जाबीजं ततः परम् ॥
तदा दक्षिणकालिकेति तदन्ते वह्निसुन्दरी ।
एकादशाक्षरी काली चतुर्वर्ग फलप्रदा ॥
कवचं मूलबीजाढ्यं तदन्ते भूवनेश्वरीम् ।
तदा च दक्षिणे चेति अस्त्रान्ता समुदीरिता ॥
अथापरां प्रवक्ष्यामि विद्यां विंशतिवर्णिकाम् ।
यस्याः प्रसादमात्रेण भवेद्भूमि पुरन्दरः ॥
मूलबीजद्वयं ब्रूयात् ततः कूर्चयुगं पुनः ।
लज्जायुगं सम्बोधान्तपदद्वयम् ॥
पूर्ववत् षट्तथाबीजं तदन्ते वह्निसुन्दरी ।
ऋषिः स्याद्दक्षिणा मूर्तिश्छुन्दःपङ्क्तिरुदाहृतः ॥
देवता कथिता सद्भिः काली दक्षिणपूर्विका ।
एकादशीक्षरी विद्या कथ्यते शृणु पार्वति ॥
मूलं कवचमायाञ्च सम्बुद्धान्तपदद्वयम् ।
स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा ॥
ॠषिः स्याद्दक्षिणामूर्तिश्छन्दोऽनुष्टुबुदाहृतम् ।
अथापरां प्रवक्ष्यामि विद्यां त्रिभवमोचनीम् ॥
निजबीजं समुद्धृत्य तदन्ते वह्निसुन्दरी ।
भैरवा ऋअषयः प्रोक्ताः सर्वतन्त्रसमन्विताः ॥
असिताङ्गोरुरुश्चण्डोग्रक्रोधोन्मत्तसंज्ञक्म् ।
कपाली भीषणञ्चैव संहाराश्चाष्टभैरवाः ॥
एषा माता महाविद्या शृणुष्व कमलानने ।
अष्टाक्षरी च सा विद्या सर्वतन्त्रेसुगोपिता ॥
नीजबीजद्वयं कूर्चद्वयं लज्जाद्वयं ततः ।
स्वाहान्ता कथिता काली धर्मकर्म फलप्रदा ॥
अथ पञ्चाक्षरी विद्या भैरवाणां तथा शृणु ।
निजकूर्चं तथा लज्जा तदन्ते वह्निसुन्दरी ॥
पञ्चाक्षरी महाविद्या पञ्चवकृअ ऋषिः स्मृतः ।
नवाक्षरी महाविद्या शृणुष्व कमलानने ॥
निजबीजत्रयं कूर्चयुगं लज्जा ततः परम् ।
स्वाहान्ता कथिता विद्या सर्वसम्पत्करी शुभा ॥
नवाक्षरी महाविद्या नवलक्षणसंयुता ।
(प्. ४६) अथ चाष्टक्षरी विद्या शृणुष्वावहिता भव ॥
निजबीजं ततः कूर्चं तदा मायां समुद्धरेत् ।
पुमस्तान्येरतेनैव स्वाहान्ता मोक्षदायिनी ॥
अथापरां प्रवक्ष्यामि दशतत्वसमन्विताम् ।
यस्य कटाक्षमात्रेण भवेत् त्रैलोक्यमोहनः ।
मुलद्वयं द्वयं कूर्चं द्वयं लज्जा द्वयं ततः ।
पुनस्तान्येव तेनैव तदन्ते वह्निसुन्दरी ॥
चतुर्दशाक्षरी विद्या चतुर्वर्गफलप्रदा ।
अथ वक्ष्ये महेशानि कालीं कलुषनाशिनीम् ॥
यस्याः कटाक्षमात्रेण तवेद्वागीश्वरः परः ।
धनं धान्यं सुतां जायां हयं हस्तिनमेव च ॥
यद्यन्मनसि वाञ्छन्ति तत्तत् सर्वन्तु फलं लभेत् ।
नातः परतरा विद्या मुनीनां मोक्षदायिनी ॥
गृहीणाञ्च यतीनाञ्च सर्ववाञ्छा फलप्रदा ।
रेपुत्रे मित्र शृणुतविद्या नातः परा क्वचित् ॥
किं धनैः किं जनैन्ते * *? किं पुत्रैर्वन्दुवान्धवैः ।
किमन्यैरसदालापैर्यत्रयुर्वायतामियात् ॥
नार्चनं पूजनं तस्या मन्त्रमात्रं जपेन्नरः ।
करस्थाः सिद्धयः सर्वा भविष्यन्ति कलौ युगे ॥
ब्रह्म त्रयं समुद्धृत्य रतिबिन्दुसमन्वितम् ।
नादबिन्दुसमायुक्तं लज्जाकूर्चद्वयं पुरा ॥
पुनः क्रमेण उद्धृत्य वह्निजायावधिस्ततः ।
षोडशीयं समाख्याता विद्या कल्पद्रुमा यथा ॥
पूर्ववत् पूजनञ्चास्याः सर्वं न्यासादिकं प्रिये ।
त्रिकोणं विन्यसेत् पूर्वं पुनश्चापि त्रिकोणकम् ॥
नवकोणं पुनस्तत्र तन्मध्ये स्थापयेच्छिवाम् ।
सर्वाणां कालिकानाञ्च यन्त्रोऽयं परिकीर्तितः ॥
मद्यैर्मांसैर्भगैर्गोभिर्वैजयन्तीश्च गृञ्जनैः ।
कुक्कुटैर्महिषैश्छागैर्नकुशैश्च गवैस्तथा ॥
गजैरुष्ट्रैश्च सुवहैर्मांसैश्च मधुपायसैः ।
स्वरक्तैः केशमांसैश्च स्वशुक्रैः पूजयेच्छिवाम् ॥
भगलिङ्गैर्भगाख्यानैः शक्तिभिः सुरनायिकाम् ।
नानापुष्पैश्चन्दनैश्च नानोपहारवारितिः ॥
नानामद्यैश्च मांसैश्च शौण्डैः शोण्डप्रियां यजेत् ।
नानापुष्पैश्च धूपैश्च साधकैः सह पार्वति ॥
निशायां पूजयेद्देवीं सर्वकालेषु सर्वदा ।
एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे ॥
शवोपरि चितास्थो वा कुलवृक्षस्य मूलके ।
परयोनौ योनियन्त्रे कालीपीठे दिवानिशि ॥
स्वषम्भुकुसुमैः शुक्रैः सूतिकागारके तथा ।
यथाकाले यथास्थाने यथा देवीं सनातनीम् ॥
शिवाभिः पशुमांसैश्च कुलटायो निदेशके ।
सर्वदा पूजयेद्देवीं यथाचारेण देशिकः ॥
न ब्रह्मणो स्य विचारः स्यात् नाशुचिः कुत्र पार्वति ।
अशुचौ वा शुचौ वापि सर्वकालेषु सर्वदा ॥
ऋषिन्यासादिकं कृत्वा यजेद्विद्यामहनिशम् ।
जपेनदेवताः सर्वाः स्तूयमाना प्रसीदति ॥
जापकस्य च माहात्मां नास्ति देवी महीतले ।
सर्वत्र साधको धन्यः स एव साधकः पर ॥
(प्. ४६ब्) आत्मानं दिव्यवस्त्रेण दिव्यालङ्कारचन्दनैः ।
स्त्रीवेशे भूषरेद्देहं यथाकाल्या भवेत्तनुः ॥
कूलाचारं सदा कुर्यात् मासि मासि विशेषतः ।
तत्सर्वं देवदेवेशि पश्चाद्वक्ष्यामि यत्नतः ॥
चतुर्दशी शोडशी च विंशत् ब्रह्मात्मिका च या ।
तासां लक्ष्यप्रमाणं स्यात् पुरश्चरणकर्मणि ॥
अन्यासां सर्वविद्यानां वर्णलक्षं प्रकीर्तितम् ।
सर्वासान्तु महापूजा दक्षिणावत् प्रकीर्तिता ॥
आचाराष्टकरूपेण सिद्धिरूपेण संशयः ।
क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ॥
नीजबीजस्य देवेशि देवो नारायणः परः ।
काकारस्य तु देवेशि देवता (च प्रजापावता) कालिका स्मृता ॥
ककारस्य तु देवेशि देवी त्रैलोक्यमोहिनी ।
मायाबीजस्य देवेशि देवता भूवनेश्वरी ॥
दकारस्य तु देवेशि दुर्गाशक्तिः समीरिताः ।
क्षिकारस्य तु देवेशि नृसिंहः परिकीर्तितः ॥
णेकारस्य तु देवेशि देवो नारायणः परः ।
काकारस्य तु देवेशि देवता च प्रजापतिः ॥
निकारस्य तु देवेशि देवता च पुरन्दरः ।
बीजार्थं पूर्वमुक्तं हि वह्निजायां शृणुष्व तत् ॥
सकारस्य तु देवेशि सावित्री देवता स्मृता ।
वकारस्य तु देवेशि वरुणः परिकीर्तितः ॥
आकारस्य तु देवेशि अनन्तः परिकीर्तितः ।
सर्वेषां कथितं देवि मन्त्रार्थं तन्त्रसंयुतम् ॥
ब्राह्मेमुहुर्ते चोश्याय ध्यारेद्देवीं सनातनीम् ।
पूर्वोक्तं गुरुणा ध्यानं कुर्यात् साधकसतामः ॥
अष्टोत्तरसहस्रं हि जपित्वा विधिनामुना ।
क्रमस्तवं पठेन्नित्यं विधिनानेन देशिकः ॥
ओं नमो गुरुभ्यो देवताभ्यस्तथापरतराय च ।
परापरेस्त्यस्तं (? ) नत्वा परात् पराय क्षेत्रपालं नमस्कृत्य द्वारदेवान्
विधानतः ।
लक्ष्मीं सरस्वतीं दुर्गां ग्ङ्गां गोदावरीं तथा ।
भोगवतीं नमस्कृत्य वास्तुदेवं नमेत् तु सः ॥
विघ्नराजञ्च वास्त्वीशं क्षेत्रेशं प्रणमाम्यहम् ।
नैर्-ऋतञ्चैव ब्रह्माणं ब्रह्मकर्मात्मकं प्रिये ॥
विघ्नान् प्रण्म्य विधिना स्थनदेवं नमेत् ततः ।
आधारशक्तिं तां नत्वा पङ्कजद्वयधारिणीम् ॥
नीलवर्णां महामायां द्वादशाक्षररूपिणीम् ।
नीलवर्णं महाकायं कुर्मं हिमाद्रिसन्निभम् ॥
सर्वशक्तियुतं विष्णुं कुर्माकारं नमाम्यहम् ।
तस्य पृष्ठे स्थितं देवमनन्तं तं नमाम्यहम् ॥
सहस्रफलसंयुक्तं सर्पाकारं हरिं नमः ।
हेमाद्रिस (? ) दृशं विज्ञं एककुण्डलधारिणम् ॥
फणासहस्रैर्मणिभिर्भूषितं तं नमाम्यहम् ।
तस्य पृष्ठे स्थितं देवमनन्तं तं नमाम्यहम् ॥
तस्य कक्षः स्थितं ध्यायेत् लाङ्गलं शत्रुनाशनम् ।
मुद्गरं वामभागेन रत्नैकादशसंयुतम् ॥
तस्य मूर्द्ध्नि स्थितं ध्यायेत् वराहं विष्णुमव्ययम् ।
एकदन्तं महाकायं कालमेघसमप्रभम् ॥
तस्य दन्ते सदा ध्यायेत् पृथिवीं कर्मदायिनीम् ।
(प्. ४७) नीलवर्णां महादेवीं शनिशूकविभूषिताम् ॥
अणिमादिगुणैर्युक्तां सर्वसत्वप्रतिष्ठिताम् ।
तस्य मूर्द्ध्नि सदा ध्यायेत् समुद्रान् रत्नसंयुतान् ॥
नानापर्वतसंयुक्तां पृथिवीं चिन्तयेद्धिया ।
पर्वतान् चिन्तयेत् तत्र चिन्तरेत् कुलभूषितान् ॥
दिग्गजेभ्यो नमस्कृत्य योगभ्यः प्रणमेत् सदा ।
मुनीन्द्रेभ्य ॠषिभ्यश्च योगशास्त्रधराय च ॥
शाक्तेभ्यो वैष्णवेभ्यश्च शैवेभ्यः प्रणमेत् सदा ।
मन्त्रेभ्यो मन्त्रदेवेभ्यो मन्त्रशास्त्रपराय च ॥
चन्द्राय चन्द्रवंशेभ्यः सूर्यावंशेभ्य एव च ।
महाभूतेभ्यो भूतेभ्यः कलाभ्यः प्रणमेत् सदा ॥
पूष्पेभ्यः पुष्पहासेभ्यो गन्धर्वेभ्यो नमः सदा ।
यक्षेभ्यो भूतवर्गेभ्यः प्रेतेभ्यः सर्वकर्मसु ॥
शब्देभ्यः शब्दब्रह्मेभ्यः प्रणयामि सदा प्रिये ।
रुद्रेभ्यो रुद्रवंशेभ्यो भैरवेभ्यो नमो नमः ॥
लिङ्गेभ्यो लिङ्गदेवेभ्यो वेदेभ्यो वेदशाक्षिणे ।
भारतेभ्यो नमस्कृत्य श्रीमद्भागवताय च ॥
संहिताभाश्च शास्त्रेभ्यः सशास्त्रेभ्यो नमो नमः ।
ग्रस्थार्थेभ्यो नमस्कृत्य तन्त्रेभ्यः प्रणमेत् सदा ॥
यामलेभ्यो नमस्कृत्य चन्द्रसूर्यां नमेत् सदा ।
जीवेभ्यः सर्वभावेभ्यो जङ्गलेभ्यो नमो नमः ॥
स्थावरेभ्यो नमस्कृत्य ऋषिभ्यः प्रणमेत् सदा ।
प्रमाणादिपदार्थेभ्यः शोषभ्योऽपि नमो नमः ॥
यन्त्रेभ्योऽशि नमस्कृत्य यथार्थेभ्यो नमो नमः ।
स्थावरेभ्यो नमस्कृत्य ऋषिभ्यः प्रणमेत् सदा ॥
पूजोपकरणेभ्यश्च ब्राह्मणेभ्यो नमो नमः ।
योगिनीभ्यो नमस्कृत्य सशक्तिभ्यो नमो नमः ॥
रत्नेभ्योऽपि नमस्कृत्य नदीभ्यः प्रणमेत् सदा ।
पीठेभ्योऽपि नमस्कृत्य मातृभ्यः प्रणमेत् सदा ॥
सत्वेभ्योऽपि नमस्कृत्य इन्द्रियेभ्यो नमः सदा ।
क्षेत्रेभ्योऽपि नमस्कृत्य क्षेत्रपालेभ्य एव च ॥
कुलाचलेभ्यो नत्वा च प्रदुर्भावेभ्य एव च ।
उक्तानुक्तञ्च यत्किञ्चित् तेभ्यो नित्यं नमो नमः ॥
नमामि सत्यसम्कल्पां सर्वपर्वतवासिनीम् ।
पार्वतीञ्च नमस्कृत्य नमो नित्यं नगात्मजे ॥
मातस्तदीयशरणं नृपाणां ध्यानाष्पदैर्वाञ्छितवाञ्छनीयम् ।
तेषां हृदि स्फुरति त्वच्चरणारविन्दं स एव धन्यः सुरलोकपूज्यः ॥
गाङ्गैः शुभैः कुङ्कुमपङ्कलेपैर्मातस्त्वदीयशरणं यदि
भावशुद्धैः ।
स्मरन्ति शृणुन्ति लुठन्ति धीरास्तेषां जरा नैव भवेद्भवानि ॥
त्वदीयजङ्घाशरणं सुराणां परापराणां परमां प्रकृतिः ।
दिने दिने देवि भाव्यकरस्था किमन्यमुच्चं कथयन्ति सन्ति ॥
कवीन्द्राणां दर्पं करकमलशोभापरिचितं विधुन्वन् तज्जङ्घामेतद्
गिरिसुते ।
अतस्त्वपादाब्जं जननि चेतसि हितम् ।
नरीभूतं भूतं प्रणिहितपदं शङ्करमपि ।
ये ते दरिद्राः सततं हि मातस्त्वदीयपादं मनसा जपन्ति ।
(प्. ४७ब्) देवासुरासिद्धवराश्च सर्वे तव प्रसादात् सततं लुठन्ति ॥
हरिस्त्वं पादाब्जं ध्यात्वा निखिलजगतां भूतिवभूतशिवः सिद्धो
भूयात् किमपि परमं तत्परम् ।
प्रजानां नाथोऽयं तदनु जगतां सृष्टिविहितम् ।
किमन्यत् ते नातस्तव चरणयुगलस्य फलता ॥
इन्द्राः सुराणां शरणं शरण्ये प्रजापतिः कश्यप एव नान्यः ।
गिरां भूतिर्विष्णुभवौ परेशि पादाब्जफलं समस्तम् ॥
त्वदीयपादार्चनतत्परो हरिः सुदर्शनाधीश्वमुपालभेत् ।
धरित्री गन्धरूपेण वासिनं तज्जलं धृतम् ॥
तेजसा वह्निरूपेण वायुपुष्पवपुर्धृतम् ।
आकाशं शब्दरूपेण प्रणवे ब्रह्मरूप्धृक् ॥
मुखं मुखं चन्द्राकारिस्त्रिभुवनपदैर्मुग्धसहितं त्रिनेत्रन्ते मातः
परहितमनोभिः सप्तण्डम् ।
न सिद्धिं तस्यापि स्मरति सततं विश्वमखिलम् ।
कटाक्षैस्ते मातः सकल * (? ) दपद्मं स लडते ॥
तवसी मन्त्रं जपतः सत्यं न हि तेषां खलु साध्यतत्वम् ।
ये सुरपाले सुरतचित्ते धन्या तु विश्वरता विधत् ते ॥
क्रतुस्त्वंहविस्त्वं मुरारिः पुरा त्वं परात्वं सदा श्रीमुवारे ।
हरिस्त्वं तरा त्वं शिवात्वं शिवानी ॥
गडिस्त्वं मतिस्त्वं गतिस्तं भवानी ।
नरात्वं नरस्त्वं नाराणां क्रियाया ॥
चयत्वं वरस्त्वं वरण्ये शिवायाः ।
नदस्त्वं नदीस्त्वं गतिस्त्वं निधीनां सुता त्वं सुतस्त्वं पिता त्वं
गृहीणाम् ।
त्वदीयमुण्डाख्यवभवानीमालां विधाय च ते पद्मजादयः ।
सुराधिपात्वं लभते मुनीन्द्राः शरण्यमेतत् किमपीय चान्यत् ॥
नरस्य मुण्डञ्च तथा हि खड्गं भुजद्वये ये मनसा जपन्ति ।
तथेतरो देवि वराभयञ्च भवन्ति ते सिद्धिजनैर्मुनीन्द्राः ॥
शवोपरि त्वं हृदये निधाय जपन्ति विद्याञ्च हितं कदाचित् ।
तदा भवेत् काव्यरहस्य वेत्त (? ) अन्ते पदद्वन्द्वमुपाश्रयेत् ॥
दिगन्धी त्वां मनसा विचिन्त्य जगत् पराख्या जतां जनित्री ।
भवेत् पराख्ये जगतां गतिश्च किमापराख्यं शरणं भवामः ॥
शिवार्वैर्वा परिवेष्ठितान्तां विधाय चित्ते सततं जपन्ति भवेयुर्द्देवेशि
जनापवादे निधी शतां देवि परा वदन्ति ।
त्वदीयशृङ्गाररसं निधाय जपन्ति मन्त्रं यदि वेदमुख्याः ।
भवन्ति ते देवि जनापवादं कविः कवीनामपि स्वजन्मा ॥
विकीर्णकेशं मनसा विधाय जपन्ति विद्याञ्चकितं कदाचित् ।
सुरादिपत्यं लभते नरः स किमन्त भूम्यां शृणु कालकाली ॥
त्वदीयबीजत्रयमाभवेत् जपन्ति सिद्धा भूवि मुक्तकेतुः ।
तदेवमातस्तव पादयोगा भवन्ति सिद्धञ्च दिनत्रयेऽपि ॥
त्वदीरकूर्च द्वयजापकत्वात् सुरासुरेभ्येऽपि भवेच्च वन्द्यः ।
धनित्वपाण्डित्य लभन्ति सर्वे किमापरं देवि परापराध्ये ॥
त्वदीयलज्जाद्वयजापकत्वात् भवेन्महेशानि चतुर्थसिद्धिः ।
त्वदीयसम्बुद्धिपद प्रसादात् नराधिपत्वं लभते मुनीन्द्रः ॥
(प्. ४८) पुनस्तन्नाम्नः शृणु मातरे तत्फलं चतुर्वर्गं वदन्ति सन्तः ।
बीजत्रयं पुनरप्यपास्य सुरापत्वं लभयत मुनीन्द्रः ॥
पुनस्तथा कूर्चयुगे च मातर्नमन्ति सिद्धा नरसिंहरूपाः ।
अतो लज्जाद्वयजापकत्वात् लभन्ति सिद्धिं मनसा जनास्ते ॥
अनन्तदं क्षिप्य विभावसोः सतीत्वन्मन्त्रमुदारमिदं वदन्ति ।
त्रिपञ्चारे पीठै जननि सततं सिद्धिसहितं विचिन्वन् सञ्चिन्वन्
परमामृतरूपदक्षिणापदाम् ॥
सदा कालीं ध्यात्वा विधिपूजां परिकरां विशेषाख्यां न खलु
भवगङ्गाभयमदः ।
अतीतवनीलायेपादपद्मे जनित्री भवति विभूत्यै ।
शेर्योवासामुपहरान्नयति पदत्वाङ्खिलमनुमत्ता ॥
त्वऽम श्रीस्त्मीश्वरीकाली कराली विकरालिका ।
लज्जा लक्ष्मी सती गौरी नित्या चिन्ता चितिप्रिया ॥
परा * (? ) द्या परीक्षा च परमा परमावपुः ।
यैर्गन्द्धद्यैश्चित्ते प्रचयपदपद्मैः पदयुतैः ॥
सदा नत्वा स्तुत्वा जपति हृदि मन्त्रं मनुविद्या ।
न तेषां संसारे विभवभयभङ्गप्रमथने ॥
क्षणं चित्तं देवि प्रभवति विमार्गे परिकरः ।
त्रयस्त्रिंशैः श्लोकैर्यदि जपभि मन्त्रं स्तुवति च ॥
नमेच्चेतामेता परमममृतकलशं सुरवरम् ।
भवेत् सिद्धिसिद्धो जगति शिरसा त्वत्पदयुगम् ॥
प्रणम्य प्राकाम्य सुरासुरजनैः पूज्याविहितम् ॥
इति विश्वसारतन्त्रे दक्षिणकालिका विवरणे चतुर्थः पटलः ॥
९९९९९
अथ दुर्गामहं वक्ष्ये शृणुष्व कमलानने ।
यस्य * (? ) प्रसादमात्रेण भवेद्गङ्गाधरः स्वयम् ॥
थान्तवर्णं समुद्धृत्य वामकर्णसमन्वितम् ।
इन्दुबिन्दुसमायुक्तं बीजं दुर्गामनोः प्रिये ॥
चतुर्वर्गप्रदं साक्षात् महापातकनाशनम् ।
अस्यापि सदृशी विद्या जगत्यस्मिन्न विद्यते ॥
किमन्यैरस * (? ) लापैर्यत्रायुर्व्ययक्ताअमियात् ।
तत् तु दुर्गामनोर्देवि षोडशांशं लभते ॥
एकाक्षरीसमो नास्ति विद्यां त्रिभुवने प्रिये ।
विना गन्धैर्विना पुष्पैर्विना होमपुरःसरैः ॥
प्राणायामः विना देवि जपमात्रेण सिद्धिदा ।
जमदग्निर्भरद्वाजो भूण्डगौतमकश्यपाः ॥
विश्वमित्रः शिरो नन्दिः कहोलिस्तुण्डिकस्तथा ।
एते च ऋषयः प्रोक्ता दुर्गामन्त्रस्य पार्वति ॥
मन्त्रस्य ऋषिर्द्देवेशि नारदः परिकीर्तितः ।
गायत्रीछन्द आख्यान्तं दुर्गधिष्ठ तु देवता ॥
चतुर्वर्खप्रदा देवी सर्वतन्त्रेषु संस्थिता ।
यस्याः कटाक्षमात्रेण भवेद्भूमिपुरन्दरः ॥
ईहैव धनिनो भूत्वा राजानञ्च वसं नयेत् ।
स भवेत् वचसा धीमान् वृहस्पतिरिवापरः ॥
ब्राह्मणो वेदविद्भूयात् राजावशमवाप्नूयत् ।
वैश्यो धनसमृद्धिः स्यात् सर्वसिद्धिं लभेन्नरः ॥
विविधा सा महाविद्या तत् शृणुष्व गणेश्वरि ।
(प्. ४८ब्) कूर्चाद्यां वा जपेद् विद्यां तदन्ते वनिसुन्दरी ॥
लज्जाद्यां वा जपेद्विद्यां फडान्तान्ता विशेषतः ।
वधुर्बीजयुतावापि स्वाहान्तां वा जपेत् सुधीः ॥
शतविश्वं महेशनि वधूबीजं प्रकीर्तितम् ।
अथ लज्जायुतावापि स्वाहान्तां वा जपेन्मनुम् ॥
षोडशव्यञ्जनं वापि माक्षिवह्निथंयुतम् ।
इन्दुबिन्दुसमायुक्तं लज्जाबीजमिदं स्मृतम् ॥
महाकालमता लज्जा अयं भेदः प्रकीर्तितः ।
लज्ज द्याम्बा जपेद्विद्यां चतुर्वर्गफलाप्तये ॥
वाग्भवाद्यां जपेद् वापि प्रणवाद्यापि वा पुनः ।
कामबीजादिकं वापि फडान्तां वा जपेत् सदा ॥
ऐक्षरी विविधा विद्या कथिता ब्रह्मणा पुरा ।
लज्वाद्यां वा वाग् भवाद्यां वा कामाद्याम्बा जपेत् सदा ॥
प्रणवाद्यां फडन्ताम्बा कवचाद्यां विशेषतः ।
लज्जाद्यां वा वधूबीजयुतां वा प्रजपेत् सदा ॥
एतास्त्र्यक्षरयुक्ता च दुर्गाविद्या प्रकीर्तिता ।
फडान्ता सर्वबीजाद्या कथिता पद्मयोनिना ॥
दीर्घस्वरसमायुक्ते इन्द्रबीजानि (? ) पार्वति ।
विन्यसेदात्माना देहे हृदयादिषु पार्वति ॥
पूर्ववन्न्यासवर्गं स्यात् पूर्ववत् कर्ममाचरेत् ।
कालीवदाचरेत् विद्यां जपेद्विद्यामहर्न्निशम् ॥
लक्षद्वादशके देवि पुरश्चरणमीरितम् ।
सिद्ध्यादिशोधनं नात्र न च मित्रादिदुषणम् ॥
न वित्तवायवाहूलां न च कार्यं कथञ्चन ।
यथाकाले यथास्थाने यथाचारविधानतः ॥
पूजयेत् परय भक्त्या दुर्गां दुर्र्गतिनाशिनीम् ।
मद्यर्मांसैः शूपपूपैर्भगा शशकशल्लकैः ॥
लिङ्गगीतैर्भगाक्षालैर्मार्जारवहूलैस्तथा ।
गोमांसैर्मृगमांसैश्च मत्स्यैश्च शूकराखुभिः ॥
सुवहैर्दृष्टान्धैर्श्च सिक्तैश्चायैश्च पिच्चलैः ।
नानामद्यश्च पशुभिः पूजयेत् परमेश्वरीम् ॥
कालीवत् पूजयेद्विद्यां दुर्गां दुर्गविमोचिनीम् ।
स्वयम्भु कुसुमैः शुक्रैः सुगन्धकुसुमान्वितैः ॥
यवायावकसिन्दुरै वक्तचन्दनसंयुतैः ।
नानामांसैः काकशूकैः पेचकैर्महिषैर्न रैः ॥
गजैरुष्ट्रैः ख ऐ (? ) र्गृध्रैः पूजयेद्विधिनामुना ।
तदा भवेन्महादेवि सिद्धिः स्यान्नत्र संशयः ॥
गायत्रीं प्रजपेद्देव्या विधानेन दिने दिने ।
नक्ष्म्याद्यां (? ) प्रणवाद्यां वा वाग्भवाद्यां क्रमादिका ॥
लज्जाद्यां वा जपेद् देव्या गायत्रीं तन्त्रसम्मृताम् ।
दुर्गा देवीं वदेत् ङेन्तां विद्महे तदनन्तरम् ॥
चित्स्वरूपां तथा ङेन्तां विद्महे चैव धीमहि ।
तन्नोदेवी समुद्धृत्य तदन्ते च प्रचोदयात् ॥
एषा देव्याश्च गायत्री सर्वसिद्धि प्रदायिनी ।
चतुर्लक्षं पुरश्चर्यां जपेद्विद्यां विशालधीः ॥
प्रणवाद्यां जपेद्विद्यां देव्या आसनदानके ।
प्रणवं पूर्वमुच्चार्य तदा वज्रनखं वदेत् ॥
दंष्ट्रायुधं समुद्धृत्य ङेन्तं सिंहं महादिकम् ।
(प्. ४९) आसनाय समाभाष्य नमो देव्यै वदेत् पुनः ॥
पूर्ववन्न्यासवर्गं स्याद् कायेद्देवीं सनातनीम् ।
महाकालमतं ध्यानं शृणुष्व कमलनने ॥
सिंहस्कन्ध दिरूढाञ्च नानालङ्कारभुषिताम् ।
चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् ॥
रक्तवस्त्रपरीधानां वालार्कसदृशीं तनुम् ।
नारदाद्यैर्मुनिगणैः सेवितां भवसुन्दरीम् ॥
त्रिवली वलयोपेतां नाभिनालमृणालिनीम् ।
रत्नद्वीपमणिद्वीपे सिंहासनसमन्विते ॥
प्रफुल्लकमलारूढां ध्यायेत्तां भवगेहिनीम् ।
अथवा चिन्तयेत् दुर्गां सर्वदुर्गविनाशिनीम् ॥
सिंहस्था शशिशेधरा मरकतप्रप्यैश्चतुर्भिर्भुजैः शङ्खं
चक्रधनुःशरांश्च दधतीं नेत्रैस्त्रिभिः शोभिताम् ।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीक्कणन्नृपुरा दुर्गा दुर्गतिहारिणी
भवत्युनो रत्नोल्लसत्कुण्डला ॥
चतुर्लक्ष्मं हधिष्याशी एकलक्षमथापि वा ।
जपित्वा तु त्रयं लक्षं परशक्तौ सदा जपेत् ॥
सावित्री विधिना पूर्वं पुरश्चर्यां जपेन्मनुम् ।
सिद्धे मनौ सदा कुर्यात् मासि मासि विधानतः ॥
कुलाचारः विधानेन कुर्याद्देव्शिकसत्तमः ।
विन्यसेत् पूर्ववत् सर्वं न्यसेद् देवीं विशालधीः ॥
सदा हूनेन्महादेव्याः परमार्थं दिने दिने ।
साज्यैर्विल्वदलैर्हूत्वा वशयेत् सकलं जगत् ॥
करवीरं पटलञ्च पद्ममाम्रं मधूकजम् ।
चम्पकं नागमुण्डञ्च हिङ्गुकर्मामरीचकैः ॥
तेजपत्रं गुण्डत्वञ्च महामासं हूनेत् सदा ।
छागमुषिकमेषदीन् सततञ्च हुनेत् सुधीः ॥
सिद्धे मनौ सदा हूत्वा वशयेत् सकलं जगत् ।
पलाशं पद्मपुष्पञ्च सर्वदा होममादिशेत् ॥
भवेद्वागीश्वरः साक्षात् शङ्करेण च भाषितम् ।
किमन्यद्वहूना देवि यद्वद्वाञ्छितमात्मनः ॥
कृत्वा च विधिना सम्यक् भवेद् भूमिपुरन्दरः ।
किमन्यद्वहूना देवि चतुर्वर्गफलं लभेत् ॥
दुर्गायन्त्रं प्रवक्ष्यामि शृणुष्व कमलानने ।
त्रिकोणं विन्यसेदादौ नवकोणसमन्वितम् ॥
त्रिवृत्तं सहितं सर्वं पद्मपत्रसमन्वितम् ।
त्रिरेधसहितं वज्रशूलं भूपुरमण्डितम् ॥
समीकृत्य यथोक्तेन विलिखेद्विधिनामुना ।
नानास्त्रसंयुतं लेख्यं चक्रं तन्त्रसमन्वितम् ॥
तत्र तां पूजयेद्देवीं मूलप्रकृतिरूपिणीम् ।
पद्मस्थां पूजयेद् दुर्गं सिंहपृष्ठे निषेदुषीम् ॥
प्रभाद्याः शक्तयः पूज्या गन्धाद्यैर्नवकोणके ।
प्रभा माया जया सुक्ष्मा विशुद्धा नन्दिनी पुनः ॥
सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः ।
क्रमाद्यां पूजयेत् ताभिः * * * * * * * * ॥
ओङ्कारं पूर्वमुचार्य द्रीऊं कारं तदनन्तरम् ।
यथाप्दं सम्बुद्ध्यन्तां पूजयेत् क्रमतः क्रमात् ॥
शङ्घपद्मनिधी देव्या वामदक्षिणयोगतः ।
पूजयेत् परया भक्त्या रक्तचन्दनपूर्वकैः ॥
अर्घ्यदानं तदा कुर्यात् पूजान्ते पर्वतात्मजाम् ।
(प्. ४९) अङ्गवृत्तिः पुनः पूज्या नवकोणेषु मातरः ॥
ब्रह्माद्या मातरश्चैव स्वभूषणभूषणाः ।
वज्राद्यायुधसंयुक्ता भूपुयरे लोकनायकाः ॥
पूजयेत् परया भक्त्या दुर्गां दुर्गतिनाशिनीम् ।
पूर्ववत् साधयेत् सर्वान् सर्वाभीष्टफलाप्तये ॥
श्री ईश्वर उवाच ॥
त्रिकोणं विन्यसेत् पूर्वं नवकोणसमन्वितम् ।
साष्टपत्रं त्रिविम्वाच्यं भूपुरशूलयुक्सदा ॥
तत्रापि पूजयेद् देवीं दुर्गां दुर्गतिनापिनीम् ।
सिन्दुरहरितालाभ्यां सुन्दरीवत् प्रपूजयेत् ॥
अथवक्ष्यामि कवचं शृणुष्व कमलानने ।
यज्ज्ञात्वा साधकाः सर्वे लभन्ते श्रियमुत्तमाम् ॥
अज्ञात्व कवचं देवि दुर्गामन्त्रञ्च यो जपेत् ।
न पूजाफलमाप्नोति अन्ते च दुर्गतिं व्रजेत् ॥
ओं उमा देवी शिरः पातु ललाटं शूलधारिणीम् ।
चक्षुषी खेचरी पातु (मुलाचां) नासा च द्वारवासिनी ॥
सुगन्धवासिनी पातु वदने साधनी तथा ।
जिह्वाञ्च चण्डिका पातु ग्रीवां सौभद्रिका तथा ॥
अशोकवासिनी चेतो द्वौ वाहु वज्रधारिणी ।
हृदयं ललिता देवी उदरे सिंहवाहिनी ॥
कट्यां भगवती देवी द्वावुरू विन्ध्यवासिनी ।
महवला तु जङ्घे द्वे पादौ भूतलवासिनी ॥
एवं स्थितासि देवी त्वं त्रैलोक्यरक्षणात्मिका ।
रक्षमां सर्वगात्रेषु दुर्गे देवी नमोऽस्तु ते ॥
इति विश्वसारतन्त्रे दुर्गाकवचं समाप्तम् ॥
९९९९९
श्रीपार्वत्युवाच ।
येन वर्णेन देवेशि ये देवाश्छन्दांसि ऋअषयश्च ये ।
तान् सर्वान् देवदेवेश कथयामास तत्त्वतः ॥
श्री ईश्वर उवाच ।
प्रणम्य श्यामवर्णाभां दुर्गां दुर्गतिनाशिनीम् ।
दकारे दक्षिणामूर्तिरुकारे च उमापतिः ॥
अर्द्धचन्द्रे शिवः साक्षात् देवस्त्रिभुवनेश्वरः ।
दुर्गाध्या देवता प्रोक्ता सर्वदुर्गप्रणाशिनी ॥
येन बीजादिकं कुर्यात् दैवतेव तदादिकम् ।
अथ वक्ष्ये महेशानि देव्या नाम सहस्रकम् ॥
शृणुष्व परया भक्त्या न वेदेन च भाषितम् ।
अस्या दुर्गा विद्यायाः सहस्रसामस्तोत्रस्य भगवान्नारद
ऋषिरनुष्टुप्च्छन्द आद्या शक्तिर्भगवती दुर्गा देवता महामाया
शक्तिश्चतुर्वर्गफलप्राप्तये विनियोगः ।
ओं दुर्गा शिवा क्षमा धात्री लोकमाता शिवप्रिया ।
ब्राह्मी माहेश्वरी देवि कौमारी वैष्णवी तथा ॥
वाराही नारसिंही च कमला चण्डिका तथा ।
आद्या वाणी देवता च देवमाता दया द्युतिः ॥
विद्याः पुष्टिस्तथा तुष्टिः क्षुधा निद्रा विभावरी ।
मन्त्रमाया महाशक्तिर्विद्या विद्याविपन्नगा ॥
सर्वमन्त्रमयी शीक्षासर्वविद्यामयी तथा ।
लक्ष्मिर्वाणि * * * * वाग्भवा भवनप्रिया ॥
(प्. ५०) कलकण्ठी कम्बुकण्ठी वेणुवीणापरायणा ।
ताला तालवती देवी नानागानप्रिया सदा ॥
नारायणी महामाया जयदुर्गा जयाजनी ।
विजया च जया जैत्री जयनी जयगामिनी ॥
जयदा सुखदा सत्या मोक्षदा जयनादिनी ।
विनिता विष्णुमाता च विश्वनाता विपाचिका ॥
ब्रह्माणी विमला रौद्री ज्येष्ठा जाया च वामना ।
वसना वासना क्रोडा कुब्जिका अप्सरा तथा ॥
उर्वशी कदली केका कामाख्या च क्षमावती ।
तीव्र च वनदा धात्री त्रिजगज्जननी चला ॥
दानपात्री मितिमित्रा त्रासिनी त्रासवासिनी ।
निम्ननाभिर्भिन्दिपाला वल्लभा वशदार्थिनी ॥
त्रिनेत्रा जगतां माता * * सत्यम्बधा स्मृतिः ।
विस्मृतिर्विपथुः प्रेम्ना प्रेयशास्त्रविशारदा ॥
धनपुत्रविनाशी च चण्डिका कमलालया ।
यादवी यदुकन्या च चञ्चला चपला तथा ॥
त्रितेत्रा एकनेत्रा च द्विनेत्रा च सुनेत्रिका ।
पोषणी पोषका पोषा वलहानिकरिविधिः ॥
धीर्धितिर्धनदा नामा दानवी विधिरूपिणी ।
कालिका कालरात्रिश्च रक्तचन्दनसंयुता ॥
कुङ्कुमाङ्कितसर्वाङ्गी रक्तवस्त्रविधारिणी ।
अतसीपुष्पवर्णाभः गौरी सर्वप्रियङ्करी ॥
भानुमती सती पात्री त्रैलोक्य जननी यतिः ।
जामाता जयरूपा च जामातुप्रियवादिनी ॥
नीतिप्रिया नीतिरुचिः सुरुचिश्च रुचिस्तथा ।
रतिप्रिया रतिकरी रतिदा रतिवर्द्धिनी ॥
लयरूपा महारूपा सर्वसत्त्वरतिः स्वधा ।
शोभना शोभनाङ्गी च सुकुमारी शिवातनुः ॥
बालिका च कुमारी च कुमाराङ्गनिवाशिनी ।
कुलीना च सुपर्णा च शोभनङ्गी शुभातनुः ॥
कुमारी पूजक प्रीता कुमारी प्रीतिदायिनी ।
कुमारी सेवका सन्त्य कुमारी सुखदायिनी ॥
कुमारीयोनिसंस्थात्री कुमारीभोगदायिनी ।
कनका च रजोयुक्ता ऋतुरूपा ऋतुप्रिया ॥
रजस्वला तद्गुणा च सगुणा गुणपूजिता ।
सगुणा निर्गुणा क्षेमा गुणभेदकरी क्रिया ॥
कैशोरी च किशोरस्था किशोरप्रियवासिनी ।
किशोरस्था किशोरी च किशोरप्रियपूजका ॥
युवती च युवायुथा यौवनस्था युगानगा ।
युगनानायुगकरी युगस्था युकपूजका ॥
युवतीशरणप्रीता युवत्या सहसंयुता ।
अमाकला सहस्था च शशिरेखा शिखाशिखी ॥
आशापुरा च चन्द्रेणा चन्द्रकान्तिप्रिया चता ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिन्यः कामदा कला ॥
अनेकरूपिणी रूपा अनेकसुरदायिनी ।
विनया विरवा वेला वेलासन्ध्या विधिप्रिया ॥
अरतिः सुरतिः स्तुत्याः सत्यवत्याः सदा चसाः ।
अनलाः कमलास्था च सुमाल्या मालदारिनी ॥
माननीया सदा सत्या सर्वसत्यप्रिया तनुः ।
शोण्डप्रिया रतिकरी कालाक्षी कालरूपिणी ॥
(प्. ५०ब्) सर्वकालक्षयकरी सर्वकालविनाशिनी ।
अनुरूपा वृहद्रूपा स्वरूपा रूपवर्जता ॥
जगता जगतां माता जगन्मान्या जयावती ।
जननी च जया जेया सर्वजेयदा सुधीः ॥
विसङ्गा च सुसङ्गा च अनेकसङ्गवर्जिता ।
निर्जिता विजना विज्ञा विधिज्ञा ज्ञानदायिनी ॥
मार्गदात्री मार्गकर्ती सुमार्गा पापनाशिनी ।
परदारा परप्रीता परदारप्रियाश्रया ॥
प्रम्नेचो केकरा कृत्या उम्नोचा च उमावती ।
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥
वैशारदी विशेषज्ञा कालशस्यविवर्द्धिनी ।
औषधिर्वैद्यमाता च चिकित्सा च चिकित्सिका ॥
कलावती वर्णमन्नी मेदामयापि पूतना ।
क्रियावती वर्णतनुः सुवर्णा रसिका रमा ॥
काली कृष्णा कृपापेता कोलानां सङ्गवादनी ।
काकिनी चपलवती तथा कार्षापणप्रिया ॥
तस्का शुभ्रा च तस्कस्था तल्पस्था च सुतप्लिका ।
गुह्यकाली भद्रकाली महाकाली कलावती ॥
अतितल्पा महातल्पा सुतल्पा शोषिका तथा ।
विन्ध्यचक्रनिवासी च सावित्री भुवनेश्वरी ॥
एकपक्षा एकनेत्रा एकदा लक्षदायिनी ।
कोटिदा धनरूपा च धनधान्यनिवासिनी ॥
दुर्गा च दुर्गरूपा च दुर्गे देवि नमोऽस्तु ते ।
ओङ्कारी चैव ह्रीङ्कारी वर्णमाता वलप्रदा ॥
द्रीऊङ्कारी च स्त्राङ्कारी च हुङ्कारी बीजरूपिणी ।
स्त्रीङ्कारी चैव हुऽन्कारी सर्वमन्त्रमयी स्मृतिः ॥
सुस्मृतिः स्मृतिरूपा च स्मृतिरूपा रसप्रदा ।
सर्वशास्त्रमयी देवी नानासर्थप्रियातनुः ॥
अनर्था वहूला खेला वाला च वालिकारिणी ।
अर्थप्रिया अर्थकरी त्रिकूटा कूटरूपिणी ॥
त्रिकुटस्था पञ्चकूटा सर्वकूटशरीरिणी ।
एकवस्त्रा त्रिनेत्रा च एकनेत्रा त्रिनेत्रिका ॥
चन्द्रानना महागौरी गर्भाशयनिवासिनी ।
गर्भाशया जरायुस्था स्वेदजा अण्डजा तथा ॥
उद्तदा अण्डरूपा च अरूनाराक्तदन्तिका ।
रम्भात्मना यशस्वी च योनिदेशनिवासिनी ॥
इडासुषुम्ना योगवती गान्धारी च कुहूः पुनः ।
अलम्बुषा हस्तिजिह्वा नलिनी च निडावती ॥
वैखरी शब्दरूपा च षट्चक्रक्रमवासिनी ।
षट्चक्रभेदनकरी परमामृतसम्भवा ॥
मन्त्रमण्डलमध्यस्था कालरूपा गुणाकरा ।
सूर्यमण्डलमध्यस्था सूर्यमण्डलवासिनी ॥
अरुणा अरुणी दृष्टा सूर्यकान्तिर्दिवापतिः ।
तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ॥
सुषुम्ना भोगदा विश्वा बोधिनि धारिणी क्षमा ।
नानाधातुमयी देवी नानाधात्वन्तराफला ॥
वहूला वहूदा विज्ञा अज्ञानज्ञानहारिणी ।
मनोज्ञा ज्ञानहानिश्च भेरुण्डा भैरवीति च ॥
सुन्दरी पुरुरूपा च कात्ययन्यपि पूतना ।
राक्षसी डाकिनी देवमयी वेदविभूषणा ॥
जरा वृद्धा वृद्धमाता वृद्धस्था वृद्धरूपिणी ।
देवयानि सती पात्री विचित्रा चित्ररूपिणी ॥
(प्. ५१) चित्रलेखा च कुष्माणी कुम्भकर्णविनाशिनी ।
मधुकैटभहन्त्री च विश्वेशभवनाशिनी ॥
चण्दवैरी विनाशी च कैटभी कपटेश्वरी ।
कपटा कपटा क्रोडा विकृतिः कृतिनाशिनी ॥
कंसासुरविघाता च वकासुरविनाशिनी ।
(मधुकैटभहन्त्री च विश्वशभवनाशनी ॥ ।
चण्डवैरी विनाशी च) पूतनाजीवहन्त्री च केश्यसुरविनाशिनी ।
कालयवनहन्त्री च जटासुरविनाशिनी ॥
अरिष्टधेनुहन्त्री च जगतः शोकनाशिनी ।
कालनेमि वधे प्रोक्ताः सर्वसत्त्वेषु संस्थिता ॥
अलक्ष्मीर्लक्ष्मीरूपा च सर्वशक्तिस्वरूपिणी ।
निशुम्भशुम्भहवनी रक्तबीजविनाशिनी ॥
वैदामाता सुमाता च सुमित्रामित्रनाशिनी ।
कौशल्या केकयी नित्या मन्थरा वहूदा तथा ॥
साश्वती चैव गायत्री द्रौपदी च सुभद्रिका ।
उत्तरा चैव गान्धारी जगद्धात्री वपुःप्रिया ॥
चित्रिणी चैव कुष्माणी प्रभावती रातप्रिया ।
ज्वरारुरुद्ररूपाश्च लोमसा राक्षसी तथा ॥
हिडम्बा वकरूपाश्च शुकी कृत्वा कृपावती ।
मनोन्मयी मानमयी रमणीया मनोहरा ॥
मोहिनी मोहरूपा च सर्वमोहविनाशिनी ।
न प्त्री पात्री देवहुतिः सत्य च सत्यवादिनी ॥
सत्यभामा च माना च भुषणा भुषणावती ।
कुक्कुटा वायवी वेनि सुमाना राक्षसी प्रिया ॥
अनेकरूपा रूपा च वहूरूपा वहूप्रदा ।
जया दुर्गा प्रभा सत्या सटिनाटिर्विटम्बिका ॥
अतिचैत्वी महाचैत्वा शिखिनी कृपणावती ।
कृपणा भिन्दिपाली च कुन्ती सुन्दरवासिनी ॥
धनुः शवी च पाशा च पाशहन्ता गदागदी ।
खट्वाङ्गधारिणी धीरा वाणपुन्थानुवर्तिनी ॥
गङ्गा काशी सती सीता अलका अलकप्रियः ।
चक्षुर्भद्रा कपाली च पुष्पा चैव वसुन्धरा ॥
पुनः पुनः कर्म * णा विपासा मदनावती ।
कावेरी सविता सत्या वेत्रवती च वेदिका ॥
अमुना चैव आयुर्दा तथा तुङ्गवती प्रिये ।
अनेकनद्यः सर्वास्ता वान्धवा परतात्मजा ॥
अम्बिका गिरिका मेना गौरी सर्वज्ञभाविनी ।
भवानी कमला लक्ष्मीर्ब्रह्मपुत्रप्रिया तथा ॥
निदिग्किका स्पृ * (? ) ई व्याघ्री वद्या वैद्यचिकित्सका ।
आहेरूरथरूपा च रथ्या चत्वरवासिनी ॥
सर्वज्ञानमयी सत्या वर्णरूपा वनप्रिया ।
ततः शङ्कररूपा च शङ्करी कमलप्रिया ॥
ब्राह्मणी रङ्गिका वेश्या कुलटा वेशरूपिणी ।
कामचारी कामगमा कामभावविअर्द्धिका ॥
अकामा चैव कामा च कामराजेश्वरी प्रिया ।
सुन्दरी भैरवी स्तुत्या स्तवनीया तिथिप्रिया ॥
पञ्चमी च तथा षष्ठी अष्टमी नवमी तथा ।
चतुर्दशी कुहूश्चैव स्कन्दषष्ठी च पूर्णिमा ॥
नक्षत्ररूपिणी ध्येया सर्वनक्षत्रवासिनी ।
अश्विनी भरणी चैव रोहिणी रेवतीति च ॥
नक्षत्रगणमाला च सर्वपर्वनिवासिनी ।
त्रिसन्ध्यवासनी सन्ध्या शुभदा च शुभप्रदा ॥
(प्. ५१ब्) नित्यरतिस्थला नित्या नित्यानन्दस्वरूपिणी ।
जयदा जयमान्या च जर्जरा ज्वरनाशिनी ॥
जनित्री जन्मदात्री च जन्मभूमिः कृतालया ।
पार्वती पुरवासी च शाम्भवी दैत्यरूपिणी ॥
दनुपुत्रप्रमाथी च कद्रुश्च वनिता तथा ।
देवकन्या देवमाता देवपत्नी दितिप्रिया ॥
आदितिः सुदितिर्ज्ञेया दानवी दानरूपिणी ।
दानमान्या दानवी च अनन्या मृत्युरूपिणी ॥
वधिरा वनदा विश्वा विश्वमाता वलप्रदा ।
कुमुदा च गणाम्बा च अम्बा मङ्गलचण्डिका ॥
विशेषज्ञा विशेषस्था सर्वतत्त्वेषु संस्थिता ।
कालरात्रिः कुजिनी च चण्डमुण्दा महातपा ॥
इन्द्राक्षी पङ्गलाक्षी च दीर्घनेत्रा सुलोचना ।
दीर्घघेनो महाघोणा सुघोणा घोणरूपिणी ॥
सुदती युगदन्ता च अनेकदन्तरूपिणी ।
सुगन्धा गन्धरुपा च वहूगन्धा सुगन्धिका ॥
नानावाद्ययुता देवी वाद्यरूपा विनावती ।
निरशा नागरी भूयश्चौरप्रिया च शाङ्करी ॥
गृहस्य जननी गुह्या अतिगुह्यातिगोपिता ।
सर्वशास्त्रमयी शक्तिरक्षरा वर्णमालिका ॥
द्रिऊ/ स्त्रिं स्वरूपाङ्गीं च तालातालप्रिया तनुः ।
वेत्रपानिश्चित्रकरी विचित्रा विद्रुमा तथा ॥
ललिता ललना ये यित् आशीरूपा युगालिका ।
मुक्तामाणिक्यवैदुर्यस्पर्शरूपवती रतिः ॥
विनेया विनता दाना दानरूपा नदी नदा ।
पुरुषाङ्गी च पुरुषी सुपुरुषप्रिया तनुः ॥
चञ्चला चपला बाला बालक्रीडावती विभुः ।
प्राकृतादेशभाषा च गाथागायनसम्भवा ॥
वलिमाता वलिदेशा सुवलिर्वलिरूपिणी ।
रक्तपाना रक्तरुचिः सुरुची रुचिरानना ॥
सर्वमङ्गलमध्यस्था सर्वमण्डलवासिनी ।
अग्निरूपा अग्निवर्णा मण्डली अग्निरूपिणी ॥
धुम्रार्चि रुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः स्वरूपा भव्या च हव्यकव्यवहा तथा ॥
कव्यस्था कव्यरूपा च कव्यदा कव्यरूपिणी ।
पितुभुर्मातुरूपा च तत्स्था तत् स्थानरूपिणी ॥
किङ्कराख्या कुलश्रेष्ठा कपटा कपटाकृतिः ।
क्षीणाङ्गी कुलिङ्गाङ्गी च वज्राङ्गी वज्रसम्भवा ॥
नृमुण्डस्रग्विनी सुश्रीः सुरूपा रूपवर्जिता ।
शिवदुती दुतीमाता सिद्धिदा सिद्धिवल्लभा ॥
अनिमा लघिमा प्राप्तिः प्रकाम्या महिमा तथा ।
इषत्वा च वसित्वा च तथ कामावशायिता ॥
इच्छासिद्धिरसिधा च वसित्वार्द्धनिवासिनी ।
मत्स्यपाना मत्स्यहारा सर्वाशी मांसभक्षणा ॥
साधका साधकप्राणा साधकप्राणदायिनी ।
विनीता विनयप्रेम्ना अपि कीटपतङ्गिका ॥
भुजङ्गभुषणा काली भुजङ्गक्रोडशायिनी ।
शवतल्पगता नारी भैस्मी भमी कुशावती ॥
कुशधा कुशलप्रेम्ना सुकुशा च कुशाकृतिः ।
कुसन्ताना दीनवती दविता दविणीदवि ॥
अदरिद्रा सुदरिद्रा तपोयुक्ता तपप्रिया ।
इञ्चवृत्तिकरिः सिद्धिः सर्वमाना मनोरमा ॥
वमना वमनप्रीता त्रिबीजबीजरूपिणी ।
(प्. ५२) निर्विजा जनत जन्या जगज्जीवनरूपिणी ॥
जीवात्मा परमात्मा च आत्म आत्मविवर्जिता ।
अर्चिता प्रणता ध्याता ध्यानगम्या धनञ्जया ॥
वैरिणी सारिणी मारी मारणा मरणप्रिया ।
दुर्गमा दुर्गरूपा च दुर्गा दुर्गतिनाशिनी ॥
राजपुत्री रजपत्नी राजमाता रजोवती ।
भञ्जघङ्गभयाभाना भवना भवनप्रिया ॥
भवानी भाविनी भव्या भव्यभावा भयापहा ।
भवित्री भवरूपा च भवानी भवनाशिनी ॥
मूर्तिमूर्तिमयी मृत्युर्मृत्युदा मूर्तिदा मतिः ।
चौरप्रिया चौररुचिः चौरैर्नित्यं नमस्कृता ॥
वाग्देवीवदना माया विकटाक्षा कटाक्षिका ।
नारदी देवमाता च दानवेन्द्राप्रिया तनुः ॥
जित्वरा जयमान्या च जयदा जयवाहना ।
उच्चैःश्रवा हयानां हि मनुष्याणां नराधिपः ॥
वासनाममृता सत्या धनानां धनसञ्चया ।
धेनुनां नन्दिनी नाम वाद्यघण्टा प्रकीर्तिता ॥
विपदा ब्राह्मणी नित्या अकारा अक्षरेतरे ।
अकारे च ओकारे च स्त्रीङ्कारे च उकारके ॥
औकारी च वर्णमाला पण्डिता पण्डितप्रिया ।
इन्द्रियाणां मनश्चास्मि शास्त्राणामागमाकृतिः ॥
आचाराणां भवेद्वारा वामदेवप्रियावलिः ।
वामाङ्गवासिनी देवी अर्द्धनारी स्वरूपिणी ॥
सृष्टिस्वरूपिणी आद्या परमाद्या पराजया ।
अजया विजया बिम्बी विश्वाविस्वतनुर्विदः ॥
विमुथा सुमुथ वेश्या वृक्षानाश्वथरूपिणी ।
संसारसमया माया मायाशास्त्रप्रकीर्तिता ॥
कुपटाकपटा कुप्या कुप्यपर्वतवासिनी ।
कैलाशवासिनी कीला अवला च स्वरस्वती ॥
कीलालपा (? ) अपाल्पा च अजप्ता अर्घवत्सल ।
औजडज्जडरूपा च सुजडा जडवर्जिता ॥
अनेकनाम्नी एकनाम्नी सर्वनामविवर्जिता ।
ज्योतिर्ब्रह्ममयी साक्षात् छन्दोब्रह्मस्वरूपिणी ॥
सर्वसत्त्वक्षरकरी सर्वसत्त्वेषु संस्थिता ।
वीणा वद्यवती वेश्या अर्चिश्च सुरुचिस्तथा ॥
सुनीतिश्च कयाधुश्च हृतद्युतिस्ततः परा ।
चाण्डाली वायसी वाला वान्याचरणभद्रिका ॥
रसालमातृका वान्यः वनस्था वनगोचरा ।
पृथिवी च तथा रीति त्रिपधा सामगायिनी ॥
सामवेदरता सीमा सामवेदविनाशिनी ।
कौटुम्बी च कटुम्बी च कुमनानयनानना ॥
सुभद्रा कुन्तला दन्त्री श्रीः सल्लोकैश्चरा वहिः ।
अभ्यन्तरा वहिस्था च नानामालाविधारिणी ॥
यामिनी मासिका माता प्रमाता मातृकायतिः ।
रसानाञ्च मधुस्वादुः शब्दानां प्रणवस्तथा ॥
वर्णनां ब्राह्मणः साक्षात् धान्यानां शालिरुत्तमा ।
शस्यानां शालिका नामा क्षेत्राणां काशिका तथा ॥
ह्र्दानां सागरा गङ्गा रत्नानां काञ्चनं तथा ।
नगानां मेरुरुद्दिष्टा पर्वतानां पितुः प्रिया ॥
नदीनाञ्च भवेद्गङ्गा तीर्थे पुष्कररूपिणी ।
पुलस्तस्यालयं प्रोक्तमाश्रमेषु च पार्वती ॥
धन्यानाञ्च कुबेरश्च पतीनां पततात् पतिः ।
(प्. ५२ब्) गतिर्गतिमताञ्चैव विनरेषु प्रमाष्टिका ॥
सर्वाणी तमसी ज्ञेया वदनामृतरञ्जिका ।
कर्पूरा मोदनी श्वासा ताम्बूलपूरितानना ॥
रक्तवस्त्रपरिधाना रक्तवस्त्रोत्तरीयनी ।
पात्तनी पात्तनी प्रेम्ना कोपकन्या प्रमोदनी ॥
कालिः कालिप्रिया केलिः क्रीडाथेला च कुर्द्धिका ।
चिठी कुठी प्रियकरी वेन्द्धटा कन्दनी तथा ॥
जन्मभूमिः सुजन्मा च जन्मद्वारनिवासिली ।
नाडीसन्धानरूपा च सर्वमांसप्रिया तथा ॥
शृङ्गा राङ्गनिवासी च शृङ्गारभावभाविका ।
चन्द्रिका चन्द्रकान्तिश्च ततश्चन्द्रकरी क्रिया ॥ १००० ॥
इदं सहस्रनामानि नारदेन च भाषितम् ।
तदहं कथितं देवि दुर्गानामसहस्रकम् ॥
श्लोकं वा पादमेकाम्बा यः पठेत् प्रातरेव हि ।
स भवेत् पार्वती पुत्रः स्वयं नारदभाषितम् ॥
वन्ध्या वा काकवन्ध्या वा मृतपत्या च योषिताम् ।
पठनात् श्रवणाद्वापि भवेत् पुत्रः स्वयं शिवः ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
सर्वं नश्यति देवेशि स्तवस्यास्य प्रसादतः ॥
दिगम्बरो मुक्तवेशः श्मशानालयमागतः ।
मासभक्तवलिं दत्वा भवेन्नित्यपरायणः ॥
दग्धमीनं दग्धमांसं दग्धद्रव्यादिकञ्च यत् ।
म्दयं मांसं सदा दद्यात् दग्धमीनसमन्वितम् ॥
निवेद्य देव्यै तत्सर्वं जपेन्मन्त्रमनन्यधीः ।
षट्सहस्रं निशाभागे तदा नृत्यपरायणः ॥
आगत्य स्वगृहं तत्र गुरवे दक्षिणां दिशेत् ।
ततस्तवं महादेवीं विधिनानेन देशिकः ॥
पूजयेत् प्रातरेव प्राक् कुमार्याः सुरपूजकाः ।
सुन्दर्याः सुकुमाराङ्गाः सर्गमुक्तिप्रदायिकाः ॥
पूजयित्वा विधानेन तद्योनौ प्रजपेत् सुधीः ।
नित्यं त्रिसन्ध्यं प्रजपेत् शतमष्टोत्तरं ततः ॥
एवं यः कुरुते धीमान् षण्मासं तन्त्रसंयुतः ।
भस्य साक्षात् भवेद्देवि दुर्गा दुर्गतिनाशिनी ॥
गोरोचना कुङ्कुमेन यावकैश्चन्दनैस्तथा ।
सिन्दुरकर्पूरमधुरैर्विलिखेत् तं ततः सुधीः ॥
भूजे वा मस्तके धृत्वा वशयेदाखिलं जगत् ।
गन्धपुष्पादिनाभार्च्य गीतवाद्यैः पुरःसरैः ॥
देव्यः प्रीतिविशेषं यं कुर्यान्मननवाचनम् ।
आखेटकमुपाख्यानं ततः कुर्याद्दिनत्रयम् ॥
ब्राह्मणान् भोजयित्वा च नार्याश्चैव सुशोभनाम् ।
तदा भवेन्महारक्ष्यां यावज्जिवनसंयुतम् ॥
स भवेत् पार्वती पुत्रः सर्वसत्त्वपुरस्कृतः ।
तं दृष्ट्वा साधकं देवि सिंहव्यघ्रादयश्च ये ॥
ते सर्वे प्रपलायन्ते सिंहं दृष्ट्वा यथा मृगाः ।
सिद्धे मनौ प्रकुर्वीत प्रयोगान् सुरपूजकान् ॥
साध्यप्रामस्य आनीयमृत्तिकां किञ्चितुत्तमाम् ।
तल्रिभागं विभक्त्याख पलद्वादशकं यथा ॥
त्रिभागञ्च भवेन्नित्यं ग्रामान्तिकं खनेत् सुधीः ।
तद्भागं विलिखेद् येन विधानं तत् शृणु प्रिये ॥
करीषवालुकामृद्भिः पत्राश्वत्थसमाहिते ।
(प्. ५३) स्वप्रमाणे खनेद्गर्त्ते गीतवाद्यपुरःसरैः ॥
विमुखेन निखन्येत गृहमागत्य साधकः ।
गीतवाद्यैर्महामायां बलिदानैः प्रपूजयेत् ॥
तत्रात्रौजागरणं कुर्यात् मधुना सिञ्चयेत् सुधीः ।
गृहाभ्यन्तरदेशे च खनेत्तां मृत्तिकां यतः ॥
तदा भवेत् तथात्वञ्च सिद्धिः कुर्यादतन्त्रितः ।
नैवेद्यं निक्षिपेद्देवैर्विधानेन सुसाधकम् ॥
साधकान् भोजयित्वा च तोषयेत् सेवनादिभिः ।
तदा भवेन्महप्रीतिर्देव्या सर्वार्थसिद्धये ॥
क्रुद्धां दुष्टां तथाक्रान्तां केकरां शोकसंयुताम् ।
चिन्तयेत् परया भक्त्य देवी षट्कर्मयोगतः ॥
निशुम्भं वैरिणं ध्ययेदात्मनां पर्वतात्मजाम् ।
मारयेदखिलान् शत्रून् हेमाद्रिसदृशानपि ॥
यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ।
दुर्गापदप्रसादेन तं तमाप्नोति नित्यशः ॥
स्वयम्भुकुसुमैः शुक्रैर्यवायावकसंयुतैः ।
पूजयित्वा विधानेन लभेत् सिद्धिमनुत्तमाम् ॥
मासिमसि यजेद्देवीं दुर्गां दुर्गतिनाशिनीम् ।
मत्स्यैर्मांसैम्.गैर्गाभिः पूजयेत् पर्वतात्मजाम् ॥
चन्दना गुरुकर्पुरविडङ्गवकुलानि च ।
सर्वौषधिजले स्नात्वा पूजयेत् परदेवताम् ॥
कुङ्कुमपद्मगुरुभिर्हेम्नैः नानागन्धसमन्वितैः ।
शवाङ्गारेण च सम्पिष्य तथा मूलस्य दारुभिः ॥
शोधयित्वा विधानेन मूलमन्त्रेण साधकः ।
शतमष्टोत्तरञ्चैव तिलकं कुरुते सुधीः ॥
तद्दृष्ट्वा तिलकं देवि भवेत् तस्य वशे जगत् ।
भौमावास्यां निशिथे च श्मशाने च दिने दिने ॥
दद्याद्वलिं महदेव्यै ध्यात्वा तां पर्वतात्मजाम् ।
स भवेत् सम्पदामादिं महेशहैव चापरः ॥
किमन्यैर्वहूना देवि सर्वसिद्धिर्लभेन्नरः ।
इति विश्वसारतन्त्रे दुर्गानामसहस्रं समाप्तम् ।
९९९९९
श्री ईश्वर उवाच ।
शतनामं प्रवक्ष्यामि शृणुष्व कमलानने ।
षस्याः प्रसादमत्रेण दुर्गाप्रीतिर्भवेत् सदा ॥
ओं सती साध्वी भवप्रीता भवानी भवमोचनी ।
आद्या दुर्गा जया आर्या त्रिनेत्रा शूलधारिणी ॥
पिणाकधारिणी चित्ता चण्डमुण्डमहातपा ।
मनोबुद्धिरहङ्कारा चित्तरूपा चिताचितिः ॥
सर्वमन्त्रमयी सत्या सत्यानन्दस्वरूपिणी ।
अनन्त भाविनी भाव्या भव्या भवाभयापहा ॥
आसुरी वेददाता च चिन्तावर्त्मप्रिया सदा ।
सर्वविद्या दक्षकन्य दक्षयज्ञविनाशिनी ॥
अपर्णानेकपर्णा च पाटला पाटलावती ।
पट्टास्वरपयीधाना कलन्मञ्जीररञ्जिनी ॥
अमेया विक्रमा क्रूरा सुन्दरि पुरसुन्दरी ।
नवदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥
द्राक्षी माहेश्वरी चैन्द्रा कौमारी वैष्णवी तथा ।
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥
विमलोत्कर्षिणी ज्ञाना क्रिया सत्या च बुद्धिदा ।
बहूना बहूला प्रेम्ना सर्वा वाहनवाहना ॥
निशुम्भशुम्भहननी महिषासुरमर्द्धिनी ।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥
सर्वासुरविनाशी च सर्वदा नरघातिनी ।
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥
अरुणा अरुणी दृष्ट्वा सुर्याकान्तिर्दवापतिः ।
तपनि तापनि धूम्रा मरीचि ज्वलनी रुची ॥
सुषुम्ना भोगदा विश्वा वाधिनी धारिणी क्षमा ।
नानाधातुमयी देवी नानाधात्वन्तराफला ॥
अनेकशस्त्रहन्त च अनेकास्त्रविधारिणी ।
कुमारी चैव कन्या च कौमारी युवतीमतिः ॥
अप्रौढ चैव प्रौढा च वृद्धमाता वलप्रदा ।
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ॥
नासाध्यं विद्यते तस्य त्रिषु लोकेषु पार्वति ।
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ॥
चतुर्वर्गं तथा चान्ते लभेन्मुक्तिञ्च सात्वतिम् ।
कुमारीं पूजयित्वा च ध्यात्वा देवीं सुरेश्वरीम् ॥
पूजयेत् परया भक्त्या पठेन्नम शताष्टकम् ।
तस्यसिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि ॥
राजानो दाशतां यान्ति राज्यश्रियमवाप्नुयात् ।
गोरोचनालक्तकुङ्कुमेन सिन्दुरकर्पूरमधुत्रयेण ॥
विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः ।
भौमावास्यां निशाभागे चन्द्रे शतभिषागते ॥
विलिख्य प्रपठन् स्तोत्रं स भवेत् सम्पदां पदम् ।
इति विश्वसारतन्त्रे दुर्गानामशताष्टकं स्तोत्रं समाप्तम् ॥
९९९९९
श्री पार्वत्युवाच ।
देव देव महादेव सर्वज्ञ सुरपूजक ।
गौरस्य शिवपुत्रस्य विधानं कथय प्रभो ॥
तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः ।
कथयामास तत्सर्वं विधानं सुरपूजकः ॥
श्री ईश्वर उवाच ।
साधु साधु वरारोहे गणेशस्य महात्मनः ।
पूजनञ्च तथा यन्त्रं सर्वतन्त्रेषु गोपितम् ॥
हरिद्रस्य गणेशस्य माहात्मां सुरदुर्लभम् ।
देवैर्देवत्वविधयो गन्धैर्वैः सिद्धमात्मनः ॥
पञ्चवक्त्रैर्महेशानि किं वक्तव्यं सुरेश्वरम् ।
माहात्मां तन्त्रयन्त्रस्य स जानामि वरानने ॥
सहस्रवदनैस्तस्य अनन्तो न गराट् स्वयम् ।
कदाचिद्वक्तु कामः स्यान्माहात्मां सुरदुर्लभम् ॥
ऋअषयः पितरो देवाः नागानागाः सुवासुराः ।
जपन्ति नियतं मन्त्रं गणेशस्य महात्मनः ॥
मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने ।
इन्द्रबीजं समुद्धृत्य निजबीजं समुद्धरेत् ॥
चतुर्दशस्वरेणाच्यो बिन्दुखण्डस्त्वलङ्कृतम् ।
एकाक्षरी महाविद्या कथिता पद्मयोनिना ॥
(प्. ५४) चतुर्वर्गप्रदा साक्षात् महापातकनाशिनी ।
नाशिष्याय च क्रूराय खलायामित्रदर्शिने ॥
न दर्शयेन्न श्रोवयेत् यदीच्छदात्मनो हितम् ।
काक्षरसमा नास्ति विद्या त्रिभवनप्रिये ॥
अथ ध्यानं प्रवक्ष्यामि शृणुष्व कमलानने ।
नवरत्नमयं द्वीपं अविदित्वा रसाम्बुधौ ॥
तद्वीचिधौतपर्याङ्के मन्दमारुतसेवितम् ।
मन्दरपारिजाताख्या कल्पवृक्षलताकुलम् ॥
उद्धृत्य रत्नच्छायाभिररुणीकृतभूषणम् ।
तस्य मध्ये पारिजातं नवरत्नमयं स्मरेत् ॥
सुरभिः सेवितं सद्भिरनिशं प्रीतिवर्द्धनैः ।
तस्याधस्तन्मनीपीठे रचिता मातृकाम्बुजे ॥
षष्ठौ नास्तस्तिकोणस्थं साष्टपत्रं त्रिबिम्बयुक् ।
अर्द्धचन्द्र प्रतीकाशं सविञ्जल्कसमन्वितम् ॥
नानास्त्रसंयुते मन्त्रे महागणपतिं स्मरेत् ।
हस्तीन्द्राननमिन्दुचुडमरुणच्छायं त्रिनेत्रं रसदाश्लिष्टं प्रियया
सपद्मकरषा स्वाक्षस्थया सन्ततम् ।
बीजायुगदिक्षुकर्मिकरुचा * * विषाणरत्नकलसान् हस्तैर्वहन्तं भजे ।
गण्डपाणी गलद्दानमानसोत्तानमानसान् ।
द्विवेफान् कर्ण * (? ) लाभ्यां वारयन्तं मुहूर्मुहूः ॥
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिसुतैः ।
रत्नच्छायं प्रणयन्तं साधकान् मदविह्वलम् ॥
माणिक्यमुटांशेषु रत्नाभरणभुषिताम् ।
ध्यत्वाअ तं प्रजपेद् देवं गणेशं शिवनन्दनम् ॥
चतुर्लक्षं पुरश्चर्यं जपेच्च नियतं शुचिः ।
करस्थाः सिद्धयः सर्वा भवन्ति कमलानने ॥
श्रीपार्वत्युवाच ।
वर्णस्य देवतादेव कथयामास तत्त्वतः ।
छन्दश्चैव ऋषिश्चैव लोकनाथ जगद्गुरो ॥
श्री ईश्वर उवाच ।
आद्यः सुराधिपश्चैव देव देवः सदाशिवः ।
गकारस्य महेशानि देवता परिकीर्तिता ॥
अर्द्धचन्द्रस्य देवेशि देवतागणनायकः ।
शकारस्य भवेदिन्द्रः सर्वकामफलप्रदः ॥
आद्या शक्तिर्महामाया ऊकारस्य प्रकीर्तिता ।
महादेवस्य मन्त्रस्य ऋषिवादीवरानने ॥
पूर्ववन्न्यासवर्गञ्च पूर्ववत् पूजनं प्रिये ।
कवचं कथितं देवि सर्वं तदादिषामले ॥
अत्रैव कथ्यते सर्वं तत् शृणुष्व वरानने ।
श्री ईश्वर उवाच ।
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा धारयित्वा च मुच्यते सर्वसङ्कटात् ॥
अज्ञात्वा कवचं देवि गणेशस्य यदा जपेत् ।
सिद्धिर्न जायात् तस्य कल्पकोटिशतैरपि ॥
ओं आमेदः पातु शिरसि प्रमेदश्च शिखोपरि ।
सन्मोदोरुयुगे पातु क्रमध्ये च गणाधिपः ॥
गणक्रीडश्चक्षुयुग्मे नासायं गणनायकः ।
गणक्रीडान्वितः पातु शिर *इ(? ) प्रमेदः वाहूयुग्मं सदा मम ॥
विश्वकर्ता च उदरे विश्वहर्ता तथोदरे ।
गजवक्त्रः कटीदशे एकदन्तो नितम्बके ॥
लम्बोदरः सदा पातु गुह्यदेशे सदा मम ।
(प्. ५४) व्यालयज्ञोपवीतिर्मां पातु पादयुगे सदा ॥
जापकः सर्वदा पातु जानुयुग्मे गणाधिपः ।
हारिद्रः सर्वदा पातु सर्वाङ्गगणनायकः ॥
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ।
कवचं सर्वसिद्धाख्यं सर्वविघ्नविनायकम् ॥
सर्वसिद्धिकरं साक्षात् सर्वपापविमोचनम् ।
सर्वसम्पत्प्रदं साक्षात् सर्वशत्रुक्षयङ्करम् ॥
ग्रहपीडा ज्वरारोगा ये चान्ये गुल्मजादयः ।
पठनात् श्रवणच्चैव नाशमायान्ति ततक्षणात् ॥
धनधान्यकरं देवि कवचं सुरपूजकम् ।
समो नास्ति महेशानि त्रैलोक्ये कवचस्य तु ॥
हारिद्रस्य महेशानि कवचस्य तु भुतले ।
किमन्यैरसदालापेर्यत्रायुर्व्ययतामियात् ॥
इति विश्वसारतन्त्रे हारिद्रगणेशस्य कवचं समप्तम् ॥
मन्त्रं वहूविधं देवि कथितं पद्मयोनिना ।
लक्ष्म्याद्यां वा कामाद्यां वा मायाद्यां वा जपेत् सुधीः ॥
लज्वाद्यां वा वधु * * बीजाद्यां वा जपेत् सदा ।
ओङ्काराद्यां महाविद्यां निजबीजादिकन्तथा ॥
गगणं विधुयुक् कृत्वा मध्यमान्भरलोपयेत् ।
निजबीजं महेशानि कथितं पद्मयोनिना ॥
द्व्यक्षरी सा महविद्या त्र्यक्षरी अस्त्रसंयुता ।
चतुर्वर्गप्रदा साक्षात् महापातकनाशिनी ॥
वाग्भवाद्यां जपेद्विद्यां पाण्डित्ये च सदा सुधीः ।
अथ दुर्गामहं वक्ष्ये शृणुष्व कमलनने ।
विविधा सा महाविद्या महाकालमता प्रिये ॥
लक्ष्म्याद्या वाग्भवाद्यां वा कामाद्या कामदायिनी ।
लज्वाद्यां वा नहाद्यां वा कूर्चाद्यां वा जपेत् सदा ॥
वधुबीजादिकं वापि जपेद्विद्या विशालधीः ।
षोडशव्यञ्जनं देवि वामाक्षिवह्निसंयुतम् ॥
इन्दुबिन्दुसमारूढां लज्जाबीजमिदं स्मृतम् ।
देवी बीजादिकं वापि प्रजपेज्जपसिद्धये ॥
इन्दुबिन्दुसमारूढमनुस्वरसमन्वितम् ।
देवी बीजमिदं प्रोक्तं ब्रह्मणा भाषितं पुरा ॥
फडन्ता त्र्यक्षरी विद्या सर्वतन्त्रेषु गोपिता ।
वह्निजायावधिः प्रोक्ता विद्या चैव त्रिवर्णिका ॥
भोग्येन लभते विद्यां सर्वसम्पत् प्रदायनी ।
नातः परतरा विद्या तीर्थं नातः परात्परम् ॥
विद्याचुडामणिं देवि कथितं पद्मयोनिना ।
कश्यपः काहलिश्चैव शिवानन्दोऽथ गौतमः ॥
च्यवनः शुक्रशुक्रौ च तथैव पुलहः क्रतुः ।
वशिष्ठश्चैव दुर्वासा शान्तनुः सगरः कृपः ॥
सर्वे शाक्ता महात्मानः सर्वाचारपरायणाः ।
ते शैवा वैष्णवान्ते स्युस्ते सर्वे शिवपूजकाः ॥
त एव शिवरूपेण विचरन्ती महीतले ।
तेषां मम न देवेशि न कुत्रापि महीतले ॥
(प्. ५५) देवकूटात्मिका विद्या कथिता पद्मयोनिना ।
यथा चारे यथाकाले यथास्थाने यथाविधि ॥
इति विश्वसारतन्त्रे श्रीदुर्गाविधाने पञ्चमः पटलः ।
९९९९९
अथ वक्ष्ये महेशानि विद्या सर्वफलप्रदा ।
चतुर्वर्ग प्रदा साक्षात् महापातकनाशिनी ॥
सर्वसिद्धिप्रदा नित्या सर्वपापक्ष्या तथा ।
सर्वमङ्गलनित्या तु भक्तिमुक्तिप्रदायिनी ॥
गुह्यकाली महाविद्या त्रैलोकेऽपि च दुर्लभा ।
देवकूटात्मिका विद्या सर्वतन्त्रेषु गोपिता ॥
मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने ।
इन्द्रादिरूढं वर्गाद्यां रतिबिन्दुसमन्वितम् ॥
विगुणञ्च तदा कृत्वा ईशानञ्च समुद्धरेत् ।
वामाक्षिवह्निसंयुक्तं नादबिन्दुसमन्वितम् ॥
लज्जाद्वयमिदं प्रोक्तं सर्वविद्यावसानुगम् ।
तदा गुह्यकालिकेति अथवा दक्षिणे वदेत् ॥
सप्तबीजं पुनः पूर्वं क्रमेण चिन्तयेद्धिया ।
वहिन्जायावधिप्रोक्ता विद्या त्रैलोक्यमोहिनी ॥
नातः परतरा विद्या तीर्थं नातः परं वरम् ।
ते धन्याः कृतपुण्यास्ते ते सर्वे शिवपूजकाः ॥
ते सर्वे वैष्णवाः शास्त्रवेत्ता च बोधनायकाः ।
तेषां समानं देवेशि त्रैलोक्ये नैव विद्यते ॥
तथा च श्रुतिः ॥
यदा गुह्यकालिकायाः कामराजं वा कूर्चं वा सम्बोधनपदं वा वेत्ति
सर्वदा सर्वकालेषु सर्वहत्यां तरति सर्वमृत्युं तरति सर्वशास्त्रं वेत्ति
धनिनो भवन्ति अन्तेदेवलोकं गच्छति ।
देव्याश्चरणप्रसादः स्वदेहदेवीं पश्यति असाध्यं साधयति ।
किमन्यद् वहूना देवि सर्वसिद्धिमुपालभेत् ॥
अस्यापि सदृशी विद्या त्रैलोक्येऽपि च दुर्लभः ।
अत्र कूर्चं शक्तिस्वाहा च शक्तिः ।
अथवा कूर्चवाजे द्वे स्वाहा च शक्तिः ।
सर्ववर्णात्मिका देवी चित्स्वरूपा च निर्मला ।
अविकारा आनन्दरूपा प्राणान्ते वा स्वगोत्रे शठाय मित्राय प्रकाशानाह
इति श्रुतौ ।
कामराजत्रयाणां शक्तिस्त्रैलोक्यमोहनः ।
कूर्चद्वयस्य शक्तिमूलप्रकृती नित्या ज्वालाद्यस्य शक्तीत्रिभुवनेश्वरी ।
आद्या गुह्याया दक्षिणां वा शब्दस्य शक्तिर्दाक्षणा मुर्ति ऋषिः
पुनर्बीजानां तथैव स्वाहा ।
शब्दस्य शक्तिकालका कल्मषनाशिनी ।
दक्षिणे पदं वा गुह्यपदं वा कीलकं गकारे तु महादेवी
देवतागणनायकः ।
उकारे च महादेवी हकारे च सदाशिवः ।
एकारे ईश्वरी देवी एवं वर्णस्य देवता ॥
विविधा सा महाविद्या कथिता पद्मयोनिना ।
तत् शृणुष्व महेशानि यदुक्तं ब्रह्मवादिभिः ॥
कामराजं तथा कुर्चं तदन्ते भूवनेश्वरी ।
गुह्य च कालिका देवी तथा बीजतृतीयकम् ॥
(प्. ५५ब्) स्वाहान्ता कथिता विद्या सर्वविद्यास्वनुत्तमा ।
द्वौ द्वौ बीजानि तदुद्धृत्य तदा सम्बोधने वदेत् ॥
पुनस्तथैव षड्बीजं तदन्ते वह्निसुन्दरी ।
विंशद्वर्णात्मिका विद्या त्रिकोण (? ) वाप्रकीर्तिता ॥
कामराजं तदा ब्रूयात् कवचं भुवनेश्वरी ।
सम्बोधनं तदा ब्रूयात् स्वाहान्तेत्यः परा स्मृता ॥
एकादशाक्षरी विद्या दशवर्णात्मिका भवेत् ।
एकाक्षरी कामराजं त्र्यक्षरी च त्रिबीजिका ॥
षड्क्षरी षड्बीजानि स्वाहान्ताष्टाक्षरी स्मृता ।
द्वाक्षरी कामबीजञ्च फडन्ता त्र्यक्षरीमता ॥
बीजत्रयं तदास्त्रञ्च कथिता चतुराक्षरी ।
बीजानि निर्गुणीकृत्य त्यक्त्वा सम्बोधनं पदम् ॥
स्वाहान्त कथिता विद्या सर्वतन्त्रेषु गोपिता ।
एषा तु षोडशी विद्या चतुर्वर्गफलप्रदा ॥
भक्तिमुक्तिप्रदा विद्या सर्वलोकवशङ्करी ।
सर्वशत्रुक्षयकरी कल्पवृक्षस्वरूपका ॥
भाग्येन लभते विद्यां सर्वत्रैव सुदुर्लभा ।
पराशरो वशिष्ठश्च मैत्ररः कश्यपस्तथा ॥
उतसकः काशीराजः तथा अश्वपतिः प्रिये ।
पुलस्त्यः पुल्हश्चैव क्रतुः कात्यायनस्तथा ॥
बोधायनः शङ्खधरः स्तु ण्डश्चैव वरनने ।
काश्यपिर्गरुडः श्वेतः केतकी काहलस्तथा ॥
जातनिश्चासुरिश्चैव हरिर्वामनरूपधृक् ।
सहस्रपादहिर्ब्रध्नभरद्वाजश्च भास्करः ॥
विशालाक्षः सुरानन्दो द्वादशात्मा दिवाकरः ।
एते स्युः सेवका देवि गुह्यकाल्यास्तु षोडशी ॥
षोडशी दुर्लभा विद्या सर्वतन्त्रेषु गोपिता ।
दक्षिणे पदमाभाष्य भवेत् पञ्च दशाक्षरी ॥
षोडशी गोपिता विद्या तत्रापि तद्गुरुः प्रिये ।
विधानं तत्र सुलभं नैव कुत्रापि पार्वति ॥
कामराजद्वयं भ्यक्त्या भवेद्विद्या चतुर्दशी ।
सप्तबीजं पुरा प्रोक्तं गुह्ये च कालिके पुनः ॥
स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता ।
कामराजं परित्यज्य अथवा षोडशाक्षरी ॥
एवं वहूविधा विद्या तन्त्रे तन्त्रे प्रकीर्तिता ।
अथ वक्ष्ये महाविद्यां सर्वतन्त्रेषु गोपिताम् ।
भृण्डरामेण या प्रोक्ता तत् शृणुष्व वरानने ॥
कामबीजं समुद्धृत्य सम्बुद्धन्तपदद्वयम् ।
पुनः कामं तदन्ते च दद्यात् कुर्चञ्च सुन्दरीम् ॥
एषा नवाक्षरी विद्या गुह्यशब्दसमन्विता ।
दक्षिणे पदमाभाष्य भवेद्विद्या दशाक्षरी ॥
एवं वहूविधा विद्या तन्त्रे तन्त्रेषु दुर्लभा ।
लक्षधा विद्यते विद्या महाकालेन भाषिता ॥
पूर्ववन्न्यासवर्गञ्च पूर्ववत् पूजयेत् शिवाम् ।
पूर्ववत् प्रजपेद्विद्यां सर्वं पूर्ववदेवहि ॥
वलिदानं तथा यन्त्रं पूर्ववत् परिकल्पयेत् ।
शतापराधे वनितां पूष्पेणैव न ताडरेत् ॥
कुत्सितां वा सुवेशं वा कुमारीं युवतीं तथा ।
न निन्देन्मनसा वाचा नमस्कृत्य विसर्जयेत् ॥
(प्. ५६) भद्रकाल्यादयो विद्य कल्पन्ते शृणु पार्वति ।
कामराजादिकं बीजं सर्वं पूर्वापरे यजेत् ॥
भद्रकालीं तथा ङेन्तां बीजमध्ये नियोजयेत् ।
स्वाहान्ता कथिता विद्या विंशद् वर्णात्मिका प्रिये ॥
चतुर्वर्गप्रदा देवी भद्रकाली शुभानना ।
शतधा विद्याते विद्या तन्त्रे तन्त्रे विशेषतः ॥
सप्तबीजं समुद्धृत्य श्मशानकालिकां ततः ।
पूर्वबीजक्रमेणैव स्वाहान्ता सर्वसम्मता ॥
विंशत्येकाधिका विद्या भद्रकाल्याः प्रकीर्तिता ।
बीजानि उद्धरेत् पूर्वे महाकालिपदं पुनः ॥
तदन्ते सप्तबीजानि स्वाहान्ता सर्वसम्मता ।
विंशद्वर्णा महाविद्या भद्रकाल्याः प्रकीर्तिता ॥
तासां ध्यानमहं वक्ष्ये शृणुष्व कमलानने ।
महामेघप्रभां रक्तां कृष्णवस्त्रपिधायिनीम् ॥
लसज्जिह्वां घोरदंष्ट्रां कोटराक्षीं लसन्मुखीम् ।
नागहारवलोपेतां चन्द्रार्द्धकृतशेखराम् ॥
द्यां लिऽऽखन्तीं जटामेकां लेलिहानां शवं स्वरम् ।
नागयज्ञोपवीताङ्गी नागशयया निशेदुषीम् ॥
पश्चाच्चैव नृमुण्डेन वनमालां महोदवीम् ।
सहस्रफलसंयुक्तमनन्तशिरसोपरि ॥
चतुर्दिक्षु नागफणावेष्टितां गुह्यकालिकाम् ।
अशी वषैर्नागफणैः कङ्कण द्वितीयं विदुः ॥
अनन्तनागराजेन दक्षिण करमण्डिताम् ।
वामे शवसुरूपान्तं कल्पितं शवरूपकम् ॥
द्विभुजां चिन्तयेद्देवीं नागयज्ञोपवीतिनीम् ।
नवरत्नैः समवद्धकुण्डले श्रुतिमण्डिते ॥
प्रसन्नवदनऽं सौम्यां सर्वरत्नविभूषिताम् ।
नारदाद्यैर्मुनिगणैः सेवितां शिवगेहिनीम् ॥
तट्टहासां महाभीमां साधकाभीष्टदायिनीम् ।
एवं ध्यात्वा यजेद्देवीं कालीं कल्मषनाशिनीम् ॥
अथवा चिन्तयेद्देवीं गुह्यकालीं महोदयम् ।
चतुर्भुजां महाकालीं शवकुण्डलधारिणीम् ॥
घोरदंष्ट्रां करालस्यां महामेघघनच्छविम् ।
मुण्डमालं कपालञ्च सुतीक्ष्णकर्तृकाम्पुनः ॥
नागवर्गञ्च हस्ते देवे सव्ये दक्षिणयोगतः ।
सहस्रफणसंयुक्तमनन्तगणभूषिताम् ॥
शिवाविकृतशब्देन सामवेदप्रगायतीम् ।
सृक्कद्वयग्लद्रक्ताधाराविस्फुरिताननाम् ॥
लेलिहानां शवं साक्षात् प्रत्यालीढपदस्थिताम् ।
दिगम्बरीं महाभीमां नानावाल्यैश्च सेविताम् ॥
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ।
शवरूपमहादेवहृदयपरिसंस्थितम् ॥
विकसद्रत्नवर्ष्यैश्च साधकार्थप्रपूरिणीम् ।
एवं वा चिन्तयेद्देवीं गुह्यकालीं महेश्वरीम् ॥
देवकूटात्मिका विद्या सर्वतन्त्रसमन्विताः ।
ध्यानभेदे भवेद्विद्या जीवकूटात्मिका प्रिये ॥
अथवा चिन्तयेत् कालीं महाकालमतां प्रिये ।
महामेघप्रभां श्यामां रक्तवस्त्रपिधायिनीम् ॥
ललज्जिह्वां करालास्यां घोरदंष्ट्रं भयानकाम् ।
शवकुण्डलयुग्मेन भूषितां सुमनोहराम् ॥
सर्वलावण्यवसतीं सृक्कद्वयगणर्ककम् ।
(प्. ५६ब्) शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ॥
शवरूप्महदेवहृदयोपरिसंस्थिताम् ।
अभयञ्च वरदञ्चैव खड्गं मुण्डं सुशोभनम् ॥
सहस्रफणसंयुक्तैर्नानानागैर्विभूषिताम् ।
शवरूपमहादेव कल्पिता शवरूपकम् ॥
अनन्तनागराजेन दक्षिणं करमण्डितम् ।
नानादेवैश्च गन्धर्वैर्नानातालसमन्वितैः ॥
नानानागसमायुक्तैः सेवितां सुमनोहराम् ।
एवं सञ्चिन्तयेद्देवीं कुरुकुल्लादिसंयुताम् ॥
पूजयेत् परया भक्त्या गुह्यकालीं महोदयाम् ॥
अथ यन्त्रं प्रवक्ष्यामि शृणुष्व कमलानने ।
त्रिकोणं विन्यसेत् पूर्वं षट्कोणपरिमण्डितम् ॥
नवकोणं पुनस्तत्र तत्रापि पूजयेत् शिवाम् ।
अथवा पूजयेत् यन्त्रे तत् शृणुष्व नगात्मजे ॥
त्रिकोणञ्चैव षट्कोणं नवकोणं मनोहरम् ।
त्रिविम्बं साष्टपत्रञ्च सकिञ्जस्कंसमन्वितम् ॥
भूपुरत्रितयारूढं योनिमण्डलमण्डितम् ।
त्रिपञ्चारमिदं चक्रं सर्वतन्त्रसमन्वितम् ॥
त्रिकोणञ्चैव षट्कोणं नवकोणं ततः परम् ।
त्रिविधं साष्टपत्रञ्च भूपूरत्रितयान्वितान् ॥
पूजयेत् परया भक्त्या तन्मध्ये भवसुन्दरीम् ।
त्रिपञ्चारे पीठे जननि सततं विधियुत महात्मानः सर्वे सततमहता
सिद्धिकविता ।
विनिर्द्धूता जिह्वासकलवाधनिहता न तेषां सङ्ख्यानां विभवमति जयति
चिरम् ॥
अथ देव्याश्च पूजासु शक्तयः परिकीर्तिताः ।
कालीं कपालिनीं कुल्लां विप्रचित्तां विरोधिनीम् ॥
उग्रामुग्रप्रभाञ्चैव षट्कोणे परिचिन्तयेत् ।
दीप्तां घनां प्रदीप्ताञ्च मात्रां मुद्रां मितां पुनः ॥
नीलां नीलघनां घोरां अट्टहासां करालिनीम् ।
अमिताञ्च मितां मुद्रां सुघोरां पूजयेत् क्रमात् ॥
ब्राह्म्यादिमातरः पूज्या पत्रेषु च ततः परम् ।
भूपुरे लोकपालाः स्युस्तदस्त्राणि च तद्वहिः ॥
भूपुरे च चतुष्कोणे पूजयेत् क्रमतः सुधीः ।
विष्णुं शिवं तथा सुर्यं गणेशं पूजयेत् क्रमात् ॥
महाविद्या विधानेन पञ्चदेवक्रमं विदुः ।
एवं यः पूजयेद्विद्वान् तस्य सिद्धिरदुरतः ॥
मूलमन्त्रेण सर्वत्र पाद्यमर्घ्यं निवेदयेत् ।
पूजयेत् परया भक्त्या गुह्याकालीं विधानतः ॥
सदाशिवं वदेत् ङेन्तं महाप्रेतपदं पुनः ।
गुह्यकाल्यासनं गुह्यकाली तथा तथा ङितः ॥
गृह्न गृह्न पदद्वन्द्वं मम शत्रून् वदेत् ततः ।
नाशय द्वितयं ब्रूयत् खादय द्वितयं वदेत् ॥
तुरु तुरु पदद्वन्द्वं तत् स्फुरस्फुरेति च ।
च । छिन्दि छिन्दि पदद्वन्द्वं सिद्धिं देहि पदद्वयम् ॥
कवचद्वितयं ब्रूयात् तदन्ते वह्निसुन्दरी ।
पञ्चाशद्वितया रूढो वलिधाने निवेदयेत् ॥
गायत्रीं प्रजपेत् काल्या गुह्यशब्दसमन्विताम् ।
कामराजं समुद्धृत्य मन्त्रराजं तथाङितम् ॥
(प्. ५७) विद्महे तत्रानन्तरे तु उद्धरेद् यत्नपूर्वकम् ।
विद्ये पुण्ये समाभाष्य धीमहि तदनन्तरम् ॥
ताम्रापदं समाभाष्य तदा देवी प्रचोदयात् ।
गुह्यकाल्यास्तथा काल्या गायत्री कथिता प्रिये ॥
नात्र सिद्धददापेक्षा च न च मित्रादिदुषणम् ।
न वित्तव्ययवाहूल्यं कथितं पद्मयोनिना ॥
यथाकाले यथास्थाने यथचारं यजेत् शिवाम् ।
गुरुं सन्तोष्य यत्नेन जपेद्विद्यामनन्यधीः ॥
गुरुसन्तोषतः सर्वं फलभाग् भववति ध्रुवम् ।
गुरोराज्ञामनादृत्य विद्यां प्राप्य जपेन्नरः ॥
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ।
शाकैः सूपैश्च पूपैर्वहूलघनघृतैर्मद्यमांसैश्च दुग्धैः
चोष्यैश्चर्व्यश्च लेह्यैः सुवहूवहूगलच्छोलितैः शिक्यमांसैः ।
ग्राहैः कूर्मैश्च गोभिद्दला शिवशरासुकैश्छागमेषैः
शल्ल्यैर्गोधाविडालैर्नवपशुपशुभिर्मत्स्यमांसैश्च दग्धैः ।
मार्ग्यैर्मेधैः परममसृतं पत्रपुष्पैश्च पिष्टैः शाल्यैन्नः पूजयेत्
तां सकलसुरवधुपूजितां तां नमामि ॥
गृञ्जैः शक्तिसमाप्ता जननि जनमभुः पूजयित्वा विधानै रात्रौ चाह्रि
शुचिरशुचिभिर्वैजयन्त्यं जयन्ताम् ।
एवं सम्पूज्य तां देवीं गुह्यकालीं महोदयाम् ।
स्तवेनानेन संस्तुत्य साधयेत् सिद्धिमुत्तमाम् ॥
अतः काल्यां स्तवं वक्ष्ये शृणुष्व कमलानने ।
यत् प्रसादान्महात्मानः सर्वसिद्धिमवाप्नुयुः ॥
शिव उवाच ।
ओङ्काल्यानीना महातेजा लोकधात्री महायशा ।
सरस्वती महालक्ष्मीः प्रजाश्रीबुद्धिवर्द्धिनी ॥
धृतिदा पुष्टिदा स्वाहा कालीं कालीकामरूपिणी ।
सर्वसत्त्वहिते युक्ता सङ्ग्रामे तारिणी जया ॥
इन्द्वती शङ्खिनी पुर्णा विद्या राज्ञी प्रियप्रदा ।
चन्द्रानना महागौरी कूजिता पितवासवा ॥
महामाया महालोका महावलपराक्रमा ।
महारौद्री महाचण्डा दुष्टदानवघातिनी ॥
प्रशान्ता शान्तरूपा च विजया च वलप्रदा ॥
विद्युन्माली गदी खड्गी चक्री चापोदातायुधा ।
जृम्भिनी स्तम्भिनी बाला कालरात्री निऽसाचरी ॥
यक्षिणी मोहिनी कृष्णा प्रशान्ता शान्तरूपिणी ।
ब्रह्माणी वेदमाता च तुहिनाचलवासिनी ॥
मङ्गला शाङ्करी सौम्या जातवेदा मनोभवा ।
करालिनी महावेगा साध्या सत्यपराक्रमा ॥
कान्तरी द्रविणी रक्ता नष्टशत्वविनाशिनी ।
वरदा शशिनी शास्त्रस्वरूपा मिविक्रमा ॥
शवरी योगिनी सिद्धा चाण्डाली चामृता ध्रुवा ।
पूण्या धन्या महाप्रीतिः प्रीतिदा प्रेमविह्वला ॥
कृतान्तवासिनी भीमा उग्रा उग्रमहातपा ।
जगदेकहितायुक्ता शरण्या भक्तवत्सला ॥
वागीश्वरी शिवा सूक्ष्मा सर्वा नित्या नगात्मजा ।
सर्वार्थसाधनी भद्रा गोष्ठी धात्री धनप्रदा ॥
(प्. ५७ब्) अभया गौतमी श्रेष्ठा निशीखे च श्रीः सर्वार्थकामुगा ।
अभया गौतमी श्रेष्ठा निशीथे च श्रीः सर्वार्थकामुगा ॥
तारानामगुणा सर्वा सर्वाशा परिपूजिता ।
अष्टोत्तरशतं नाम कीर्तितं हितकाम्यया ॥
रहस्यमद्भुतं गुह्यं देवानामपि दुर्लभम् ।
प्रातःकाले निशीथे च रात्रौ वा परमेश्वरी ॥
यः पठेत् पाठयेद्वपि षण्मासं प्रत्यहं प्रिये ।
तस्य सर्वार्हसिद्धिः स्यात् यद्यन्मनसिवर्तते ॥
अष्टोत्तरशतं नाम कीर्तनं हितकाम्यया ।
सौभग्यकरणं जन्तोः सर्वपापविनाशनम् ॥
सर्वव्याधिप्रशमनं सर्वकाले सुखावहम् ।
त्रिकालं यः पठेद्धीमान् शुचिर्भूत्वा समाहितः ॥
सोःअचिरेऽनैव कालेन राज्यश्रियमवाप्नुयात् ।
दुःखितोऽपि सुखी नित्यं दरिद्रो धनवान् भवेत् ॥
यतो भवेत् महाप्राज्ञो मेधावी नात्र संशयः ।
वन्धनान्मुच्यते वद्धो व्यावहारे जयी भवेत् ॥
स एव दासतां यान्ति शृङ्गिणश्चापि दंस्ट्रीणः ।
सङ्ग्रामे सङ्कटे दुर्गे नाभयं स्यात् समङ्गले ॥
स्मृत्वैतानि च नामानि सर्वपापं व्यपोहति ।
यस्त्विमां प्रातरुत्थाय मानवः कीर्तियिष्यति ॥
स दीर्घायुरायुष्मान् स श्रिया च न मुच्यते ।
देवा यक्षास्तथा नागा गन्धर्व्याः कटपूतना ॥
भूतप्रेतपिशाचाश्च मातरो देवमातरः ।
(अत्र पतितम् ।)
नितम्बे कालिका पतु कालिका कालनशिनी ।
क्लीं पातु कण्ठदेशे च पार्श्वे क्ली/ सर्वदावतु ॥
वामपार्श्वे सदा पातु क्ली/कारी सर्व्कामदा ।
स्तनयुग्मे सदापातु हू/कारी सर्वसिद्धिदा ॥
हुङ्कारी सर्वदा पातु स्कन्ददेशे महेश्वरी ।
द्रीऊं पातु नाभौ गुह्ये च सर्वशक्तिषु संस्थिता ।
स्वाहा मां पातु सर्वत्र हस्तयोर्वाहूपादयोः ॥
सर्वाङ्गे पातु मां देवीं गुह्यकाली महोदया ।
पातु मां सर्वदा काली कपाली सर्वदावतु ॥
राजद्वारे शङ्कटे च श्मशाने सर्वदावतु ।
सर्वदा पातु मां देवी दुर्गा सर्वसमृद्धिदा ॥
कुरुकुल्ला सदा पातु आसने सर्वकामदा ।
विप्रचित्ता सदा पातु चिताङ्गसर्वसिद्धये ॥
विरोधिनी सदा पातु मां सर्वसिद्धिदा ।
पर्वतेमां सदा पातु उग्रा देवी महोदया ॥
नद्यां पातु देवेशी मां माया उग्रप्रभा सदा ।
राजद्वारे सदा पातु दीप्ता दीप्तस्वरूपिणी ॥
लीला मां सर्वदा पातु श्मशाने सर्वसिद्धये ।
सुदीप्ता सर्वदा पातु गमने विघ्ननाशिनी ॥
अदीप्ता सर्वदा पातु शयने शत्रुनाशिनी ।
विदीप्ता सर्वदा पातु भोजने सर्वसिद्धिदा ॥
सदा नीला घना पातु कारागारे शिवप्रिया ।
लीला मां सर्वदा पातु प्रमत्त्य स्थानयोगतः ॥
मात्रा मां सर्वदा पातु योषितां सङ्गयोगतः ।
प्रमात्रा सर्वदा पातु देव्याः पार्श्वे समाश्रया ॥
मातरः सर्वदा पान्तु सुभूषण भुषणा ।
(प्. ५८) महामेघप्रभा पातु उत्तरे सर्वसिद्धिदा ॥
रक्तवर्णा सदा पातु पश्चिमे वरुणालये ।
हसन्मुखी महामाया वायव्यां परिरक्षतु ॥
नागहारलतापेता ऐशान्यां हरसुन्दरी ।
चन्द्रार्ध धारिणी पातु * * ऊर्द्धनिवासिनी ॥
सदा एकजटा पातु स्वर्गे मर्त्ये रसातले ।
लेलिहाना सदा पातु श्मशाने शत्रुनाशिनी ॥
शवकाञ्चीधरा पातु प्रेतस्थाने हरप्रिया ।
मुण्डमालाधरा पातु पातु सर्वत्र सर्वदा ॥
ततो नागफणा मूर्ध्ना पातु मां शम्भुसुन्दरी ।
शवपुत्रधरा पातु नागहस्ता सदावतु ॥
शवपृष्टस्थिता पातु देवी गुह्यादिकालिका ।
ततः शवसुता पातु सर्वत्र सर्वसम्पदा ॥
त्रिनेत्रा सततं पातु कारागारे शिव प्रिया ।
सृक्कवधः गलद्रक्ता शङ्कटे सर्वदावतु ॥
अट्टहासा महामाया दुर्गे मां सर्वदावतु ।
महामाया महेशानि श्मशाने सर्वदावतु ॥
श्मशानस्था महामाया सङ्ग्रामे सर्वदावतु ।
श्मशाने प्रान्तरे घोरे दुर्गे निगडवन्धने ॥
सङ्कटे गिरिदुर्गे च नद्यादितीरसंयुते ।
कारागारे प्रान्तरे च स्वर्गे मर्त्ये रसातले ॥
विवादे शत्रुमध्ये च सभायां वाग्वाये सदा ।
शत्रुमध्ये तथा नौषु सदा मां कालिकावतु ॥
स्वर्गे मां पातु देवेशि ब्रह्माणी ब्रह्मदायिनी ।
माहेश्वरी सदा पातु पृथिव्यां पर्वतात्मजा ॥
यौवने सततं पातु कौमारी रूपधारिणी ।
व्यवहारे सदा पातु वैष्णवी विष्णुवल्लभा ॥
जनमध्ये सदा पातु जयदा जयवर्द्धिनी ।
सङ्ग्रामे पातु देवेशी इन्द्राणी विजयप्रदा ॥
परराष्ट्रे सदा पातु चामुण्डा शत्रुनाशिनी ।
लक्ष्मीर्मां सर्वदा पातु गुह्ये सर्वसमृद्धिदा ॥
योगिनी चक्रसहिता कोकिला सर्व्दावतु ।
कवचस्मरणाद्देवि लभेद्वा स्थितमुत्तमम् ॥
अशुचौ वाशुचौ वापि कवचं सर्वकामदम् ।
हविष्याशी पठेद्धीमान् सदा च दिवसे सुधीः ॥
रात्रौ पठेद्विशेषेण रताशक्तौ महामतिः ।
पाण्डित्यं सुकवित्वञ्च षण्मासेन लभेन्नरः ॥
रणे द्यूते विवादे च सङ्ग्रामे शत्रुमध्यतः ।
वाग्वाये दुर्गमे धीमान् प्रपठेत् कवचं सदा ॥
नासाध्यं वर्तते तस्य पृथिव्यां पर्वतत्मजे ।
शत्रवो दासतं यास्ति सर्वेषां वल्लभः सदा ॥
गुरोः प्रसादमासाद्य प्रपठन् कवच सुधीः ।
नासाध्यं वर्तते तस्य त्रिषु लोकेषु पार्वति ॥
गोरोचनाकुङ्कुमेन लिखेद्विद्यां विशेषतः ।
मस्तके वा भुजे वापि धृत्वा वशयेत् सकलं जगत् ॥
श्मशाने प्रान्तरे वापि लिखेत् कवचमुत्तमम् ।
रक्तचन्दनसिन्दुरैर्यवकैश्च विशेषतः ॥
विलिखेद्विधिना रात्रौ कवचं सुरदुर्लभम् ।
सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ॥
मीनराशौ गुरुगते लिखेद् यत्नेन देशिकः ।
श्मशाने विलिखेद्विद्यां शत्रूणां मारणे सदा ॥
(प्. ५८ब्) चिताम्भसि लिखेद् यन्त्रं मारणे शत्रुवश्यके ।
उच्चाटने लिखेद् यन्त्रं गोमये कवचेलके ॥
ततः स्वर्णशलाकया लिखेद् यन्त्रमनन्यधीः ।
स्वरम्भुकुसुमैः शुक्रैः विलिखेद्विधिनामुना ॥
मारणे द्वेषणे भुमिपुत्रे राहोर्वारे लिखेद् यतः ।
तस्य सर्वाणि सिद्धानि कवचस्था चरन्ति ते ॥
गुरुणा वैष्णवैर्वापि ध्रियते यन्त्रमुत्तमम् ।
अणिमादिमहासिद्धिस्तस्य सेव्य विधीयते ॥
ततः सौरे जपेन्मन्त्रं तथा मङ्गलवासरे ।
चितायां वारुणमुखे सर्वसिद्धिं लभेन्नरः ॥
अशुचौ वा शुचौ वापि पठेत् कवचमुत्तमम् ।
तस्य सर्वार्थसिद्धिः स्यात् यद् यन् मनसि वर्तते ॥
धनं धान्यं सुतं जायां हरं हस्तिनमेव च ।
कवचस्य तु पाठाद्वै जायते वत्सरात् प्रिये ॥
कवचस्य तु माहात्मां नाहं शक्नोमि वेदितुम् ।
वहूना किं महेशानि सर्वसिद्धिं लभेन्नरः ॥
इति विश्वसारतन्त्रे गुह्यकाली कवचं समाप्तम् ॥
९९९९९
क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ।
ब्राह्म्ये मुहुर्ते उत्थाय गुरुदेवान् नमस्करेत् ॥
वारुणीमथमाश्रित्य नमस्कुर्यादुपर्याधः ।
गुरुभ्योऽपि नमो नित्यं नमस्तत्पादुकाय च ॥
परं परेभ्यः परात्परेभ्योऽपि नमोनमः ।
आधारशक्तिं नमस्कृत्य कुलाचारं नमस्करेत् ॥
धर्मकर्म नमस्कृत्य कूर्मराजाय वै नमः ।
अनस्ताय नमो नित्यं वराहाय नमो नमः ॥
पृथिव्यै च नमो नित्यं कुलाचारेभ्यो नमो नमः ।
नमो नमः समुद्रेभ्यो नमो नित्यं रत्नैरमृतैर्जलैः ॥
कुलवृक्षेभ्यो नमो नित्यं कल्पवृक्षाय वै नमः ।
स्वर्णसिंहासनेभ्यश्च मानवेभ्यो नमो नमः ॥
चतुर्दिक्षु नमस्याथ सर्वदेवान् नमस्करेत् ।
वेदभ्योऽपि नमो नित्यं वेदार्थेभ्यो नमो नमः ॥
भुचरेभ्यो नमो नित्यं खेचरेभ्यो नमो नमः ।
योगेभ्योऽपि नमो नित्यं योनिभ्योऽपि नमो नमः ॥
डाकिनीभ्यो नमो नित्यं रुद्रेभ्योऽपि नमो नमः ।
भुतेभ्योऽपि नमो नित्यं प्रेतेभ्योपि नमो नमः ॥
भुचरेभ्यो नमो नित्यं * * * * * * * * यक्षेभ्योऽपि नमो नित्यं विघ्नेभ्योऽपि
नमो नमः ।
मुनिभ्योऽपि नमो नित्यं मुनीन्द्रेभ्यो नमो नमः ।
राजर्षिभ्यो नमो नित्यं देवर्षिभ्यो नमो नमः ॥
हंसेभ्योऽपि नमो नित्यं मूर्तिभ्योऽपि नमो नमः ।
भुतेभ्योऽपि नमो नित्यं महाभुतेभ्यो वै नमः ॥
आचार्योभ्यो नमो नित्यं शङ्करेभ्यो नमो नमः ।
वैष्णवाय नमो नित्यं ये च मायाविनो न हि ॥
(प्. ५९) मायायै प्रणमेन्नित्यं तत्त्वेभ्योऽपि नमो नमः ।
भावनाभ्यो नमो नित्यं भावशास्त्रेभ्य एव च ॥
शरीरेभ्यो नमो नित्यं व्यापकेभ्यो नमो नमः ।
मन्त्रेभ्योऽपि नमो नित्यं मन्त्रार्थेभयो नमो नमः ॥
वर्णात्मिकाभ्यश्च नमस्तदधिष्ठातृदेवते ।
तत्पादेभ्यो नमो नित्यं तत्पादेभ्यो नमो नमः ॥
भवनाभ्यो नमो नित्यं भावशास्त्रेभ्य एव च ।
स्तवेभ्यश्च कवचेभ्यश्च नामभ्योऽपि नमो नमः ॥
आगमेभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः ।
तत् क्रियाभ्यो नमो नित्यं श्रेष्ठशास्तेति कीर्त्यते ॥
रसेभ्योऽपि नमो नित्यं गन्धेभ्योऽपि नमो नमः ।
पीठ्भ्योऽपि नमो नित्यं तत्स्थेभ्योऽपि नमो नमः ॥
सत्त्वेभ्योऽपि नमो नित्यं राजसेभ्यो नमो नमः ।
तामसेभ्यो नमो नित्यं गुणेभ्योऽपि नमो नमः ॥
सर्वविद्यावतरेभ्यो सिद्धेभ्योऽपि नमो नमः ।
आनन्दकन्दाय नमस्कृत्य सम्बिन्नालाय वै नमः ॥
सर्वतत्त्वाय कमलाय प्रकृति पत्रेभ्य एव च ।
सिद्धिपीठाय संन्यस्य शवरूपशिवाय च ॥
त्रिपञ्चाराय चक्राय नमो नित्यं नमो नमः ।
तत्रस्थायै कालिकायै गुह्यायै कामरूपिण्यै ॥
कुरुकून्दादिशक्तिभ्यः कालिकायै नमो नमः ।
नमो नमस्तेऽस्तु परापरख्ये नमो नमः शम्भुपराक्र्मायै ।
विशालनेत्रां सुरसङ्घ्यवन्दितां सुरासुराभ्यर्चितपादपद्माम् ॥
नृमुण्डमालां कलितांश अर्द्धैः परात्परे ते प्रभवन्ति सिद्धाः ।
स्थुलेति केचित् प्रवदन्ति सूक्ष्मा सूक्ष्मेति सर्वे मुनयो वदन्ति ॥
त्वामम्बिकां नौमि विशालनेत्रे सुमङ्गलं देहि मदीयगेहे ।
त्वदीयपादाम्बुजमेवमेतत् निष्यव्य सिद्धाः प्रभवं प्रयान्ति ॥
मातस्तरय पापात् सर्वान् शोकान् दुःखजगज्जनवश्यान् ।
त्वन्नाम्ना वि मनसि विधिना सर्वैः सकलफलाप्तविधिना ॥
इति विश्वसारतन्त्रे गुह्यकालिकायः क्रमस्तवः समाप्तः ॥
इति विश्वसारतन्त्रे षष्ठः पटलः ॥
९९९९९
श्रीपार्वत्युवाच ।
देवदेव महादेव सर्वशास्त्रविशारदः ।
पञ्चमीया पुरा प्रोक्ता विद्यात्रिपुरपूर्विका ॥
सुन्दरी सर्वसिद्धानां चुडामणिरिति स्मृता ।
तस्याः प्रभावसकलं कथयामास तत्वतः ॥
तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीऽस्वरः ।
कथयामास तत् सर्वं पार्वत्युक्तं विधानतः ॥
श्री ईश्वर उवाच ।
न देयं प्राकृतेलोके नाशिष्याय कथञ्चन ।
नाभक्ताय शठायैनां क्रूराय हठवादिने ॥
निन्दकार सुचकाय देवलाय विशेषतः ।
पट्टिकाख्यायनायैनां ग्रामयाजानिके तथा ॥
दारिद्रार लोलुपाय औदराय विशेषतः ।
शङ्कराय न शूद्राय दद्याद्विद्यां विशेषतः ॥
राज वा राजपुत्रो वा साधकः परिकीर्तितः ।
अभावन्न्यासिनः केचित् ये ते योगपरायणाः ॥
नमामि मद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् ।
शिरसा योगपीठस्थं मुक्तिकामार्थ्सिद्धये ॥
ब्रह्मा चाधारशक्तिश्च कालासुरपुरन्दरः ।
एतान् संयोज्य पुरतः ईश्वरी योजयेत् शिवाम् ॥
चन्द्रबीजं शिवादिस्थं शिवबीजं तदन्तिके ।
मादनंशत्रुबीजञ्च तदन्ते भुवनेश्वरी ॥
शिवबीजं मादनस्थं शिवबीजं ततः परम् ।
चन्द्रबीजं शत्रुबीजं तदन्ते भुवनेश्वरी ॥
तुण्डाक्षरं शिवादिस्थं चन्द्रबिन्दुसमन्वितम् ।
धराचलशुभाबीजं एकत्रापि नियोजयेत् ॥
शिवबीजं चन्द्रसंस्थं कामबीजं ततः परम् ।
शिवचन्द्रं समुद्धृत्य योजयेद्भुवनेश्वरी ॥
सर्वमेकत्र संयोज्य पञ्चपञ्चाक्षरी भवेत् ।
पञ्चकूटात्मिका विद्या सर्वतन्त्रेषु गोपिता ॥
विद्याचूडामणिर्देवि प्रोक्ता सर्वोत्तमा प्रिये ।
तव स्नेहान्मयाख्यातं नाख्येयं यस्य कस्य ते ॥
या नित्या परमा शकिर्त्यस्यात् चैतन्यरूपिणी ।
तां नमामि महादेवीं पञ्चमीमात्मरूपिणीम् ॥
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ।
जयमेष्यति तामेव पञ्चमीं प्रणमाम्यहम् ॥
भूगृहं गुणरेखा च वेदद्वारोऽपि शोभितम् ।
त्रिवित्तं षोडशदलं तथाष्टकलकर्णिकम् ॥
शत्रुकोणं दिक्युगञ्च वसुत्रिकोण वैन्दवम् ।
एवमेतन्महाचक्रं महाश्रीत्रिपुरालयम् ॥
अधः कल्पितरोर्नित्यं भवान्या वर्त्ममन्दिरे ।
रत्नसिंहासने देव्याः त्रिचक्र प्रणमाम्यहम् ॥
इन्द्रो मां रक्षयेत् पूर्वे आग्नेययामग्निदेवता ।
याम्ये यमः सदा पातु नैर्-ऋत्यां निर्-ऋतिश्च माम् ॥
पश्चिमे वरुणः पातु वायव्यां वायुदेवता ।
धनदश्चोत्तरे पातु ऐशान्यामीश्वरोऽवतु ॥
ऊर्द्धं प्रजापतिः पातु अधश्चानन्तदेवता ।
एवं दशदिशो रक्षां कुर्वन्तु देवतागणाः ॥
गणेशः सर्वदा पातु क्षेत्रेशः पातु सर्वदा ।
गणनाथः सदा पातु दुर्गा मां परिरक्षतु ॥
वटुको भैरवश्चान्ते क्षेत्रपालोऽपि रक्षतु ।
सह रत्या सपत्या च कामदेवेश सर्वदा ॥
पत्या सहवसन्तोऽपि पातु मां नन्दने वने ।
चक्रस्य पश्च्मिमे द्वारे भवन्या रत्नमन्दिरे ॥
शङ्खपद्मिनिधी रक्षां करोतु मम सर्वदा ।
पातु मां रत्नसोपानं परमैश्वर्यशोभितम् ॥
रक्षयेत् पश्च्मिमं द्वारं भवान्या रत्नमन्दिरे ।
सरस्वती महालक्ष्मीर्महामाया दुर्गा विभुतये ॥
भद्रकाली च चामुण्डा स्वाहा चैव शुभङ्करी ।
गौरी च लोकधात्री च वागीश्वर्यादयो मम ॥
एताः पञ्चस्थिताः सर्वा रक्षां कुर्वन्तु सर्वदा ।
चक्रस्य दक्षिणे भागे श्रीमत्पात्रस्य मण्डले ॥
(प्. ६०) वह्नेश्च मण्डलं पातु कुलदेव्याश्च पूजने ।
पाषण्डकारिणो भूता भूमौ ये चान्तरीक्षगाः ॥
दिव्यलोक स्थिता ये च ते नश्यन्तु शिवाज्ञया ।
शिवं कुर्वन्त ताः सर्वा आसने पञ्चदेवताः ॥
वास्तूनामधिपो ब्रह्मा स्रष्टा रक्षतु सर्वदा ।
सूर्याग्निमण्डले पूर्णे दुम्रार्चिरुष्मज्वलिनि ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः सुरूपा मां पातु मम कामार्थसिद्धये ॥
तपनी तापिनी धूम्रा मरीचि ज्वलिनी रुचिः ।
सुनन्दा भोगदा विश्वा वारिणी धारिणी क्षमा ॥
एताः कलास्तु सूर्यास्य सूर्यमण्डलसंस्थिताः ।
एताभिः सहितो नित्यं आदित्यः कुरुतां मम ॥
सवितुर्मण्डले तत्र सोमस्यामृतमण्डलम् ।
प्रथमं सर्वदा पातु भैरवानन्दहेतुकम् ॥
अमृता मादना पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥
पूर्णा पूर्णामृता कामदायिन्यः सुरसम्भवा ।
सोममण्डलमध्यस्था रक्षां कुर्वन्तु सर्वदा ॥
रचिवेदकमापूर्णे सुधांशुः पूर्णमण्डले ।
नक्षत्राधिपति रक्षां करोतु मम सर्वदा ॥
सूर्याग्निमण्डले देवि सम्पूर्णे शशिमण्डले ।
आनन्दभैरवो रक्षां करोतु मम सर्वदा ॥
तत्र पूर्णामृते पूर्णे शक्तिर्य वारुणी कला ।
आनन्दरूपिणी रक्षां करोतु मम सर्वदा ॥
सर्वाधोमण्डुकाधारे रुद्रः कालानलो विभुः ।
रक्षां करोतु मे नित्यं यामुनः प्रकृतिः सदा ॥
ततश्चाधारशक्रित्या मम रक्षां करोतु सा ।
कूर्मस्तु सततं पातु अनन्तो रक्षयेत् सदा ॥
तस्य मूर्द्ध्नि स्थिते चक्रे वराहः परिरक्षतु ।
दन्ते तस्य स्थिता पृथ्वी पातु नित्यं वसुन्धरा ॥
सदुद्रः सर्वदा पातु सुरत्नैरमृतैर्ज्जलैः ।
रत्नद्वीपस्तु मे रक्षां करोतु स्वर्णपर्वतः ॥
पातु मां नन्दनोद्यानं रक्षन्तु कल्पपादपाः ।
अधस्तेयां सदा पातु विचित्रा रत्नभूमिका ॥
श्रीरत्नमन्दिरं पातु सततं पतु वेदिका ।
श्वेतपुत्रं सदा पातु रत्नसिंहासनं सदा ॥
सिंहासनस्य पर्श्वस्थौ धर्मो ज्ञानञ्च रक्षतु ।
वैराग्यं रक्षयेन्नित्यमैश्वर्यं रक्षयेत् सदा ॥
अधर्मो रक्षयेन्नित्यमज्ञानं परिरक्षतु ।
अवैराग्यञ्च मां पातु अनैश्वर्यञ्च सर्वदा ॥
सिंहासनस्य मध्यस्था माया मां परिरक्षतु ।
विद्या मां पातु तत्रैव पञ्चनालञ्च सर्वदा ॥
अधश्चोर्द्धे सदा पातु तत्त्वरूपा च कालिका ।
सूर्यस्य मण्डलं पातु पातु सोमस्य मण्डलम् ॥
वह्नेश्च मण्डलं पातु सत्त्वञ्च पातु सर्वदा ।
रजस्तु पातु मां नित्यं पातु नित्यं तमोगुणः ॥
ज्ञानमाया कलाविद्या तत्त्वात्मने विभूतये ।
रत्नसिंहासने देव्या रक्षां कुर्वन्तु सर्वदा ॥
ब्रह्मा विष्णुञ्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेता रक्षां कुर्वन्तु सर्वदा ॥
स्वधास्तु वासनं पातु पातु प्रेताम्बुजासनम् ।
देव्यासनं सदा पातु पातु चक्रासनं सदा ॥
सर्वमन्त्रासनं पातु साध्यासिद्ध समं सदा ।
ईश्वरी सुन्दरी चैव वासिनी श्रीश्च मालिनी ॥
सिद्धैश्वर्यादयः सर्वास्त्रिराद्याश्च पान्तु माम् ।
समस्त प्रकटा गुप्ता तथा गुप्ततराश्च या ॥
सम्प्रदायकुलं कौलनिर्गतातिरहस्यगान् ।
परापररहस्याख्या अति पूर्वरहस्यगा ॥
एतास्तु सततं रक्षां कुर्वन्तु योग्नीगणाः ।
अणिमा पश्चिमे पातु लघिमा चोत्तरे सदा ॥
वसित्वा मरुते पातु प्राकाम्या पातु ईशके ।
भक्तिसिद्धिस्तथा रक्षामिच्छा रक्षतु नैर्-ऋते ॥
अधः पातु सदा प्राप्तिः सर्वकामप्रदायिनी ।
सर्वकामा सदा पातु ऊर्द्धे चोर्द्धनिवासिनी ॥
भैरवश्चासिताङ्गेयः कामरूपः पीठके ।
ब्रह्माणी सहितः पूर्वे द्वारे मां परिरक्षतु ॥
मलयेचाग्निदिग्भागे संस्थितो रुरुभैरवः ।
माहेशी सहितः पातु कुलाचरस्य सिद्धये ॥
चण्डकोऽनुगिरौ रक्षां कौमारी सहितो यमे ।
करोतु भैरवो नित्यं पूजकानाञ्च सिद्धये ॥
भैरवी सहितः क्रोधः कुलान्ते पीठराजके ।
नैर्-ऋत्यां सर्वदा पातु भोगकामार्थसिद्धये ॥
चौद्वारे पश्चिमे पातु वाराहीसहितः सदा ।
उन्मत्तो भैरवो रक्षां करोतु सर्वदा मम ॥
जालान्दरे महापीठे कपाली भैरवः सदा ।
इन्द्राणी भैरवी रक्षां वायव्यां प्रकरोतु मे ॥
उड्डीयानोत्तरे पीठे चामुण्डा सहिता सदा ।
भीषणो भैरवः पातु साधकानाञ्च सिद्धये ॥
संहारचण्डिकासिद्धिं देवीकोटस्य पीठके ।
ऐशान्यां सर्वदा पातु कुलाम्नायस्य सिद्धये ॥
सर्वसम्भोभेनी मुद्रा पश्चिमे पातु सर्वदा ।
द्राविणी चोत्तरे पातु पूर्वै चाकर्षिणी सदा ॥
याम्ये रम्ये सदा पातु उन्मादो मरुते सदा ।
ईशे महाङ्कुशा पातु त्रिखाण्डा पातु चालने ॥
नै-ऋत्यां बीजरूपा तु ऊर्द्धं रक्षतु खेचरी ।
महमुद्रा अधः पातु योगिनी योनिरूपिणी ॥
एताश्चक्रस्थिता नित्यं देवताः सर्वकामदाः ।
चतुरस्रत्रिरेखायां रक्षां कुर्वन्तु सर्वदा ॥
कामकर्षणरूपा च बुद्ध्याकर्षणरूपिणी ।
स्मृत्याकर्षणरूपा च नामाकर्षणरूपिणी ॥
अमृताकर्षिणी देवी शरीराकर्षरूपिणी ।
एताश्चक्रस्थिता नित्या सुरगाः षोडशे दले ॥
सर्वाभीष्टप्रदा देव्यो रक्षां कुर्वन्तु सर्वदा ।
अनङ्गकुसुमा पूर्वे दक्षिणेऽनङ्गमेखला ॥
पश्चिमेऽनङ्गमदना चोत्तरे मदनातुरा ।
अनङ्गरेखा चाग्नेययां नैर्-ऋतेऽनङ्गवेगिनी ॥
अनङ्गादशा तु वायव्ये ईशे चानङ्गमलिनी ।
कवर्गाद्यष्टवर्गस्था अष्टौ चानङ्गशक्तयः ॥
रक्षां कुर्वन्तु ताः सर्वदा देव्यश्चाष्टदले स्थिताः ।
सर्वसङ्क्षोभिनी शक्तिः सर्वविद्राविणी तथा ॥
सर्वाकर्षणशक्तिश्च सर्वाह्लादनकारिणी ।
(प्. ६१) सर्वकामप्रदा देवी सर्वदुःखविमोचनी ॥
सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥
वहिर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्याफलप्रदा ॥
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
तथैव हि महादेवी सर्वेप्सितफलप्रदा ॥
अन्तर्द्धव * चक्रस्था रक्षां कुर्वन्तु सर्वदा ।
वाग्देवी वासिनी पातु पातु कामेश्वरी च माम् ॥
मेदिनी विमला पतु अरुणाजयिनी च माम् ।
सर्वेश्वरी च मे रक्षां करोतु कौलिकी सदा ॥
अष्टकोणान्तरे देव्या रक्षां कुर्वन्तु सर्वदा ।
पाशाङ्कुशशवांशश्च नित्यं चायुधदेवता ॥
देव्याः श्रीचक्रन्त्रध्यस्था रक्षां कुर्वन्तु सर्वदा ।
षडङ्गं युवती पातु अङ्गस्थानाङ्गरूपिणी ॥
महादेव्याश्च चक्रस्था रक्षां कुर्वन्तु र्वदा ।
श्रीमत्रिकोणमध्ये तु तत्र कोणत्रयेषु च ॥
मध्ये तु सर्वदा पतु चतस्रः पीठवताः ।
वामे कामेश्वरी पातु पूर्णेवज्रेश्वरी सदा ॥
जालन्धरे नहापीठे पातु मां भगमालिनी ।
सूर्येन्दुवह्निपीठे तु बिन्दुचक्रनिवासिनी ॥
ब्रह्मस्वरूपिणी पातु श्रीमत्रिपुरसुन्दरी ।
त्रैलोक्यमोहनचक्रे तु सर्वसङ्क्षोभकारके ॥
तत्र चक्रेश्वरी नित्या पायात्रिपुरसुन्दरी ।
चतुर्द्धशारचक्रे तु सरसौभाग्यदायके ॥
तत्र चक्रेश्वरी नित्या पायात् त्रिपुरवासिनी ।
वहिर्द्वारे * चक्रे तु सर्वार्थसाधके चरे ॥
त्रिपुराश्रीः सदा पातु मम कल्याणहेतवे ।
अस्तर्दशारचक्रे तु सर्वरक्षाकरे वरे ॥
नित्यञ्चक्रेश्वरी देवी पायात् त्रिपुरमालिनी ।
अथाष्टदशारचक्रे तु सर्वरोगहरे वरे ॥
पातु मां त्रिपुरा सिद्धा देवी चक्रेश्वरी सदा ।
चक्रेश्वरी * मे रक्षां करो तु त्रिपुराम्बिका ॥
सर्वानन्दमये चक्रे श्रीमत्रिपुरमध्यगे ।
महाचक्रेश्वरी पातु श्रीमत्रिपुरसुन्दरी ॥
नित्या कामेश्वरी पातु पातु मां भगमालिनी ।
च्छिन्ना मां सर्वदा पातु भेरुण्डा पातु सर्वदा ॥
मां वह्निवासिनी पातु महाविद्येश्वरी तथा ।
पातु मां शिवदुती च त्वरिता रक्षयेत् सदा ॥
कुलसुन्दरी च त्वां पातु नित्यानित्या च पातु माम् ।
नित्या नीला पताका च विजया पातु सर्वदा ॥
श्रीसर्वमङ्गला पातु नित्यं ज्वालांशुमालिनी ।
विचित्रा सर्वदा पातु षोडशी पातु सुन्दरी ॥
महाविद्या तु वीर या पातु मां रसरूपिणी ।
महासप्तमी नित्या नित्या चानन्दकारिणी ॥
चतस्रः समया देव्या योगिन्यः पान्तु सर्वदा ।
डाकिनी राकिनी पातु राकिनी राकिणी तथा ॥
शाकिनी हाकिनी पातु चक्रस्था योगिनी गणा ।
रणस्था मातृकां सर्वा रक्षां कुर्वन्तु सर्वदा ॥
(प्. ६१ब्) चतुरस्रे महाचक्रे बुद्धो मां परिरक्षतु ।
पातु मामनिशं देवः षोडशारे प्रजापतिः ॥
तथाष्टदलचक्रे तु शिरो मां परिरक्षतु ।
चतुर्दशारचक्रे तु भास्करो रक्षयेत् सदा ॥
द्विदशारे सदा पातु प्रभुर्नारायणो विभुः ।
अष्टारचक्रमध्ये तु पातु मां परमेश्वरी ॥
नवचक्रेश्वरी नित्या या नित्या परमा परा ।
पातु मामनिशं देवी श्रीमत्रिपुरसुन्दरी ॥
महात्रिपुरसुन्दर्याश्चिन्तनीया च या परा ।
ब्रह्मस्वरूपिणी पातु पञ्चमी परदेवता ॥
ऐशान्यां सर्वदा पातु नित्यं निर्माल्यवासिनी ।
शेषिका सुन्दरी पातु विन्धचक्रनिवासिन ॥
नित्यं कामकला पातु मुद्रा मं पातु खेचरी ।
शक्तिर्मां सर्वदा पातु मुलाधारनिवासिनी ॥
इदं त्रिपुरसुन्दर्या रक्षामन्त्रन्तु पुण्यदम् ।
पूजाक्रमेण कथितं साधकानां सुखावहम् ॥
क्रमेणानेन विधिना श्रीमत्रिपुरसुन्दरी ।
सम्पुज्य साधकश्रेष्ठो रक्षामन्त्रं सदा पठेत् ॥
प्रातःकाले शुचिर्भूत्वा निशायामर्द्धरात्रके ।
अथवा शङ्कटे प्राप्ते राजस्थनेषु दुर्गमे ॥
जले वा चालने वापि श्मशाने दुर्गमे गिरौ ।
यत्र तत्रितये प्राप्ते सर्वत्रैव पठेन्नरः ॥
सर्वावयव भावेन देवीं सञ्चिन्त्य साधकः ।
रक्षां कुर्वीत यत्नेन सर्वोपद्रवनाशिनी ॥
स्तोत्रञ्चाद्भुतमेतत्रिलोक्ये चापि दुर्लभम् ।
गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम् ॥
यस्मै कस्मै न दातव्यं न दातव्यं कदाचना ।
शिययाय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥
भ्रष्टेभ्यः साधकेभ्योऽपि वान्धवेभ्यो न दापयेत् ।
दत्ते च सिद्धिहानिः स्यादित्यज्ञा शङ्करे कृता ॥
मन्त्राः पराङ्मुखा यान्ति क्रूद्धा भवति सुन्दरी ।
अशुभञ्च भवेत् तस्य तस्माद् यत्नेन गोपयेत् ॥
यद्गेहे विद्यते ग्रन्थं लिखितं स्तोत्रमुत्तमम् ।
चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥
तस्माद् यत्नादिदं ग्रन्थं पूजयेद्गन्धपुष्पकैः ।
पूजाफलं भवेन्नित्यं सान्निध्या सुन्दरी भवेत् ॥
स्तवराजमिदं पुण्यं यः पठेत् सुसमाहितः ।
यत् फलं लभते यस्मात् शृणु तत् साधकस्य च ॥
वारमेकन्तु योऽधीते प्राप्नोति पूजनं फलम् ।
विदितो मातृचक्रस्य साधको भुवि जायते ॥
मासमेकं क्रमेणैव पठेद्भक्तिपरायणः ।
स्वर्गेऽपि विदितो भुत्वा देवी पुत्रस्तु भुतले ॥
भक्ता वा धारयेद् यस्तु लिखित्वा स्तोत्रमुत्तमम् ।
शिखायामथवा कण्ठे करे वा वामदक्षिणे ॥
स भवेत् साधकश्रेष्ठो मातृकाणाञ्च भवेत् प्रियः ।
लभते सर्वकामांश्च परं स्वस्त्ययनऽ भवेत् ॥
तस्मादिदं प्रयत्नेन धारयेद्विधिनामुना ।
पठित्वा पाठयित्वा च त्रैलोक्यं वशमानयेत् ॥
भक्ताय दीयते यस्मै मन्त्रं रक्षाकरं परम् ।
धृत्वा सुवर्णमध्यस्थं सर्वकामं ततो लभेत् ॥
(प्. ६२) यद् यद्वाञ्छन्ति कामानि भक्तिमुक्ति कराणि च ।
लभते नात्र सन्देहो भुवि सर्गे रसातले ॥
दृष्ट्वा तं साधकश्रेष्ठं ग्रहराक्षसहिंस्रकः ।
दुरादेव पलायन्ते न समर्थश्च हिंसितुम् ॥
विषं निर्विषतां याति पापानि यान्ति सङ्क्षयम् ।
देववन्मनोवा भुत्वा भुनक्ति वहूलं सुखम् ॥
तस्माग्न्नित्यं पठेद्धीमान् मुक्तिकामार्थसिद्धये ।
भक्त्या च पूजयेद्देवीं सुरक्षां सर्वदाचरेत् ॥
पूर्वं याति परिज्ञानं वेत्ति जन्मसहस्रकम् ।
पुनर्न जायते योनौ मरणं नास्ति चापरम् ॥
गन्धर्वरूपवान् भूत्वा सम्पूज्य परमेश्वरीम् ।
रक्षामन्त्रं पठित्वा तु देवत्वं लभते ध्रुव्म् ॥
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ।
असाध्यं साधयेत् सर्वं दुर्लभं लभते ध्रुवम् ॥
अतिदुःखालये घोरै भीते निगडवन्धने ।
तत्रा अस्त्वं पठेन्भक्त्य ध्रुवं मुच्येत् वन्धनात् ॥
अतान्त रोगयुक्तो वा यदि देवीं प्रपूजयेत् ।
सम्यग् वा श्लोकयेकं वा सद्योरोगात् प्रमुच्यते ॥
मोहनस्तम्भनाकर्णणमरणोच्चाटनन्तथा ।
कल्पनादेव जायन्ते सर्वसिद्धिमुपालभेत् ॥
इदं त्रिपुरसुर्यास्तवराजं मनोहरम् ।
रक्षामन्त्रस्तु शुभदं शिवेन परिकीर्तितम् ॥
छत्रं मूर्द्ध्नि सहस्रपत्रकमलंअ रक्तं सुधावर्षणं
दिव्यस्त्रीपरिचार्यमाणमनिशञ्चात्मानमेवं सदा ।
ध्यायेन्मानसपङ्कजे भगवतीं रक्ताम्बुजापूर्णानमे सोऽहं यस्तु
समस्तमांशु लभते रक्षास्पदं भुतले ।
आकाशे सुप्रकशे सकलगुणमयीं सुन्दरीं रक्त नेत्रां
रक्तापद्मसनस्थां तरुणरविनिभां रक्तचन्दनप्रभावाम् ।
आत्मानं सर्वभावैः सकलगुणयुतां सर्वदा यो हि पश्येत् ।
साक्षाद् देवः शिवो वा मदनदहनकृत् खेचरो जायते सः ॥
इति श्रीविश्वसारतन्त्रे पञ्चमीस्तवराजः समाप्तः ॥
९९९९९
अथा ध्यानं प्रवक्ष्यामि शृणुष्व कमलानने ।
यस्याः प्रभावमात्रेण साक्षाद् देवो भवेत् सदा ॥
हृत्पद्ममध्ये देवेशीं सुन्दरीं चिन्तयेत् सदा ।
आनन्दकन्दसम्भुतं सम्बिन्नालात्मकं तथा ॥
रजःसत्त्वतमो रेखसंयुतं योनिमण्डलम् ।
षोडशारमहापद्मं सर्वतत्त्वगुणान्वितम् ॥
तन्मध्येऽष्टदलं पद्मं सर्वतत्त्वगुणान्वितम् ।
त्रिपञ्चारञ्च तन्मध्ये नवकोणं ततःअ प्रम् ॥
षट्कोणं तत्रिकोणास्थं बिन्दुनादसमन्वितम् ।
नारायह्यात्मके यन्त्रे सुन्दरीं चिन्तयेत् सदा ॥
देवीं दानवकोटिघ्नीं सुर्यकोटिसमप्रभम् ।
रक्तवस्त्रपरीधानां नानालङ्कारभूषिताम् ॥
अनर्घरत्नघटितं मुकुटं मूर्द्ध्निविर्भ्रतीम् ।
सुर्यकोटिसमं तेजे विभतीं नयनत्रयम् ॥
शवरूपमहादेवहृदयोपरिसंस्थिताम् ।
प्रत्यालीढपदां घोरा मुक्तकेशीं दिगम्बराम् ॥
शृङ्गाररससंयुक्तां हावभावसमन्विताम् ।
पाशाङ्कुशवराभीतं विभ्रतीं सुमनोहराम् ॥
अनङ्गाद्या महाशक्तिं सेवितां भवसुन्दरीम् ।
एवं ध्यात्वा यजेद् देवीं सुन्दरीं सुमनोहराम् ॥
मद्यैर्मांसैश्च शुक्रैश्च त्रिमधुत्रयसंयुतैः ।
दग्धभ्रष्टादिद्रव्यैर्मधुमद * विशेत् कामिनीभिश्च नित्यम् ॥
शोण्डैर्गोभिर्नकुलगवयैः शूकवैर्मुयिकाद्यैः ।
मार्जरैशिक्यद्रवैर्नवपशुपशुभिराद्रकैर्वाशुगत्यैः ॥
यद दत्स्थाने विहितमनुना मद्यमांसादिशिक्यै रात्रौ पूजा ।
नियतभवने कीर्तिता कीर्तिमद्भिः ॥
नानायोगैर्युवतीभिः सदाभुतिर्यागैर्विशेषैः ।
रात्रावह्निर्प्रजपति सदा तत्र योनौ समाधौ ॥
एवं यः पुजयेद् देवीं सुन्दरीं भवसुन्दरीम् ।
तस्य हस्ते भवेद् देवीं अणिमाद्या गुणाकरा ॥
विना मद्यैर्विना मांसैर्विना योनौ यजेत् शिवाम् ।
सिद्धिर्न जायते तत्र कल्पकोटिशतैरपि ॥
मांसास्थिमज्जाचर्वण्यो योगिन्यः सर्वकालतः ।
तस्य हानिर्भवेद् देवि प्रत्यहं चापरेण किम् ॥
अथवा तत्क्षणात् तस्य भवेन्मृत्युर्न संशयः ।
यतिर्वा भुपतिर्वा सोऽधिकारी प्रकीर्तितः ॥
विनामरैर्यजेद् देवीं सुन्दरीं यदि साधकः ।
भ्रातरं वा तथा पुत्रं खादयेद् तवसुन्दरीम् ॥
क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ।
ओं गुरुभ्योऽपि नमो नित्यमिद्यादि ॥
श्रीपार्वत्युवाच ।
देवदेव महादेव सर्वशास्त्रविशारद ।
कृपां कुरु जगन्नाथ सर्वज्ञोऽसि महामते ॥
तस्याश्च कवचं द्रव्यं कथयामास तत्त्वतः ।
तस्याश्च वचनं श्रुत्वा विहस्य जगदीश्वरः ।
कथयामास तत्सर्वं कवचं दिव्यरूपिणम् ॥
श्री ईश्वर उवाच ।
कथयिष्ये महाविद्यां कवचं सुरदुर्लभम् ।
तत्शृणुष्वात्र विधिना सुगोप्यं भुवनत्रये ॥
तस्याः प्रभावात् सकलं विभाति भुवनत्रयम् ।
यस्याः सर्वं समुद्भूतं यस्यामद्यापि तिष्ठति ॥
माता पिता जगन्माता जगद्रक्षास्वरूपिणी ।
सिद्धिदा सिद्धिजन्तूनामसिद्धा दुष्टजन्तवः ॥
सर्वभुतकरी देवि सर्वभुतस्वरूपिणी ।
ककारे पातुमां देवी कामिनी कामदायिनी ॥
एकारे पातु मां देवी मुलाधारस्वरूपिणी ।
ईकारे पातु मां देवी रतिः सर्वसुखप्रदा ॥
नकारे मातु मां * * इन्द्राणी हरवल्लभा ।
ह्रीङ्कारे पातु मां देवी सर्वत्र शम्भुसुदरी ॥
एतैर्वर्णैर्महामाया वाग्भवं पातु मस्तके ।
हकारे पातु मां देवी शिवानी हरगेहिनी ॥
सकारे पातु मां देवी सर्वपापप्रणाशिनी ।
(प्. ६३) ककारे पातु मां देवी कामरूपकला सदा ॥
लकारे पातु मां देवी धराधरणिरूपधृक् ।
ह्रीङ्कारे पातु मां देवी शङ्करार्धशरीरिणी ॥
एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी ।
सकारे पातु मां देवी सावित्री शर्मदायिनी ।
ककारे पातु सर्वत्र कलाः स्वरस्वरूपिणी ॥
ककारे पातु मां देवी लक्ष्मीः सर्वलक्षणा ।
ह्रीङ्कारे पातु सर्वत्र देवी त्रिभुवनेश्वरी ॥
एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी ।
वाग्भवं मस्तके पातु वदने कामराजिका ॥
शक्तिस्वरूपिणी पातु हृदये मन्त्रसिद्धये ।
सुन्दरी सर्वदा पातु सुन्दरी परिरक्षतु ॥
रक्तवर्णा सदा पातु सुन्दरी सर्वदा शर्मदायिनी ।
सर्वाङ्गसुन्दरी पातु सर्वत्र शिवदा शिवा ॥
नानालङ्कारसंयुक्ता सुन्दरी पातु सर्वदा ।
जगदाह्लदजननी सर्वत्र पातु मां सदा ॥
सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी ।
सर्वलक्ष्मीमयी पातु परमानन्दरूपिणी ॥
पातु मां सर्वदा देवी नाम्ना शङ्खनिधिप्रिया ।
ततः पद्मनिधी देवी शिवानी शर्मदायिनी ॥
दक्षिणामूर्तिर्मां पातु ऋषिः सर्वत्र मस्तके ।
पङ्क्तिछन्दः स्वरूपा मां मुखे पातु सुरेश्वरी ॥
गाद्धारस्वरात्मिका पातु हृदये शङ्करी सदा ।
सर्वसम्मोहिनी पातु सङ्क्षोभिनी सदावतु ॥
सर्व * द्राविणी पातु सर्वाकर्षणरूपिणी ।
पातु सर्वाह्लादकरी सर्वसङ्क्षोभिनी सदा ॥
सर्वसिद्धिप्रदा पातु सर्वाकर्षणरूपिणी ।
क्षोभिनी सर्वदा पातु वसिनी मां सदावतु ॥
आकर्तिणी सदा पातु सम्मोहिनी सदावतु ।
रती देवी सदा पातु भगा मां सर्वदावतु ॥
भगायै सर्वदा पातु भगमाला सदावतु ।
भगसर्पिणी सदा पातु त्रिपुरा सर्वदावतु ॥
त्रिपुरामालिनी पातु वाला मां सर्वदावतु ।
माहेश्वरी सदा पातु कौमारी सर्वदावतु ॥
वासिनी सर्वदा पातु महासिद्धिर्मदा सदा ।
सर्वविद्राविणी पातु गणनाथः सदावतु ॥
दुर्गा देवी सदा पातु वटुकं सर्वदावतु ।
क्षेत्रपालं सदा पातु पातु आधारशक्तिका ॥
अनन्तः सर्वदा पातु वराहः सर्वदावतु ।
पृथिवी सर्वदा पातु स्वर्णसिंहासनं तथा ॥
रक्तामृताम्बुधिसततं पातु मां सर्वकालतः ।
सुधाशुवाहनं पातु कल्पवृक्ष सदावतु ॥
श्वेतच्छत्रं सदा पातु रत्नद्वीपः सदावतु ।
नन्दनोद्यानसहितं पातु मां सर्वसिद्धये ॥
दिक्पालाः सर्वदा पान्तु इन्द्राद्याः कमलानने ।
वाहनानि सदा पान्तु अस्त्राणि पान्तु सर्वदा ॥
अस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा ।
सिद्धः पान्तु सदा देवी सर्वसिद्धिप्रदावतु ॥
सर्वाङ्गसुन्दरी देवी सर्वत्र सर्वदावतु ।
आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका ॥
सर्वत्र च सदा पातु सुन्दरी भवसुन्दरी ।
पथिदेवालये घोरे शङ्कटे दुर्गमे गिरौ ॥
अरण्ये प्रान्तरे चैव सर्वत्र सुन्दरी शिवा ।
इदं कवचमित्युक्तं मन्त्रोद्धारञ्च पार्वति ॥
यः पठेत् प्रातरुत्थाय त्रिसन्ध्ये नियतः शुचिः ।
तस्य सर्वार्थसिद्धिः स्यात् यद्यन्मनसि वर्तते ॥
गोरोचनाकुङ्कुमेन रक्तचन्दनकेऽपि वा ।
स्वयम्भुकुसुमैः शुक्रैः भुमिपुत्रे शनैश्चरैः ॥
श्मशाने प्रान्तरे वापि शून्यागारे शिवालये ।
स्वशक्त्या गुरुणा यन्त्रं पूजयित्वा कुमारिकाम् ॥
तद् योनौ पूजयित्वा तु गुरुपत्न्या विशेषतः ।
पूजयित्वा विधुत्या च स्तुत्वा च विधिनामुना ॥
धारयेद् गुरुणा यन्त्रं पूजयित्वा कुमारिकाम् ।
तद् योनौ पूजयित्वा च गुरुपत्नीं प्रतोष्य च ॥
देव्यै वलिं निवेद्याथ नरमार्जारमुषिकैः ।
नकुलैर्महिषैर्मषैः पूजयित्वा विधनतः ॥
धृत्वा सुवर्णमध्यस्थां कण्ठे वा मस्तके भुजे ।
सुतिथौ शुभनक्षत्रे सुराशेरुदये तथा ॥
धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः ।
कवचस्य तु माहात्मां न हि वर्षशतैरपि ॥
शक्नोमि तु महेशानि वक्तुं तस्य फलञ्चरेत् ।
नास्ति चौरभयं तस्य न तत्र व्याधिपीडनम् ॥
न दुर्भिक्षभयन्तत्र न चाधिपीडनं तथा ।
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥
सर्वरक्षाकरं जन्तोश्चतुर्वर्गफलप्रदम् ।
यत्र तत्र न वक्तव्यं न दातव्यं कदाचन ॥
मन्त्रं प्राप्य विधानेन पूजयेत् सततं सुधीः ।
तत्रापि दुर्लभं मन्ये कवचं देवरूपिणम् ॥
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपितम् ।
तत्रापि कवचं द्रव्यं दुर्लभं भुवनत्रये ॥
श्लोकं वा स्तवमेनं वा यः पठेत् प्रयतः शुचिः ।
तस्य सर्वार्थसिद्धिः स्यात् शङ्करेण च भाषितम् ॥
गुरोर्देवहरः साक्षात् पत्नी तस्य हरप्रिया ।
अभेदेन यजेद् यस्तु तस्य सिद्धिरदुरतः ॥
वादी मूकति पोषकस्तरयति क्ष्मावल्लभो दासते ।
गर्वी खर्वति सर्वविज्जडयति वैश्वानरः शीतति ॥
आहाराष्टकसिद्धिरूपमपरं सिद्धाष्टकं तद्भजे वन्दे तां
भवतीतिभञ्जनकरीं शम्भुप्रियां सुन्दरीम् ॥
इति विश्वसारतन्त्रे त्रिपुरसुन्दरी कवचं समाप्तम् ॥
९९९९९
श्रीपार्वत्युवाच ।
देवदेव महादेव गुह्यशास्त्रविशारद ।
शतनाम च सुन्दर्याः कथयामास तत्त्वतः ॥
श्री ईश्वर उवाच ।
साधुपृष्ह्तं त्वया देवि देवानां हतकारिणी ।
शृणुष्वावहिता देवि शतनामस्तवोदितम् ॥
सर्वसम्पत् करं साक्षात् सर्वविघ्नविनाशनम् ।
यः पठेत् प्रातरुत्थाय साधकः सुसमाहितः ॥
(प्. ६४) शुचिर्भुत्वा विशेत् तत्र आसने साधकोत्तमः ।
तस्य सर्वाणि विघ्नानि पलायन्ते दिशो दश ॥
समाधाय मनो देव्यै हृत्पद्मकर्णिकालये ।
कार्तिकोक्तं पठेत् स्तोत्रं सर्वसम्पत् करं शुभम् ॥
श्रीकार्तिकेय उवाच ।
ओं सुन्दरी परमेशानी भवानी कमलानना ।
पद्मालया महापद्मा लक्ष्मीर्नारयणी सदा ॥
ब्रह्माणी ब्रह्मरूपा च परब्रह्मकुटुम्बिनी ।
सर्वसिद्धिप्रदा सत्या पाशहस्ता च चापिनी ॥
अङ्कुशी खड्गहस्ता च नानालङ्कारधारिणी ।
अष्टसिद्धिप्रदा चैव योगशास्त्रपरायणा ॥
कल्याणी कामदात्री च सर्वकामप्रदायिनी ।
महामाया महामात्रा महामोहविनाशिनी ॥
यक्षिणी हिङ्गुमस्ता च ताराशुन्यनिवासिनी ।
पञ्चाशद्वर्णभेदा च सर्वाक्षरमयी सदा ॥
भैरवी सुन्दरी भारा कालिका चित्ररूपिणी ।
एकानैकामहेत्या च सर्वमन्त्रम्यी सदा ॥
स्वाहा स्वधा वषट्कारा सर्वकामप्रदायिनी ।
अनङ्गकुसुमानङ्गमदनामदनातुरा ॥
अनङ्गमेखलानङ्गा कामबीजेश्वरी कला ।
तपिनी तापिमी धुम्रा मरीचिर्ज्वालिनी रुचिः ॥
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ।
अमृता मानदा पूष्य तुष्टि पुष्टिरतिर्धृति ॥
शशिनी चन्द्रिका कान्तिर्ज्ज्योत्स्ना श्रीपतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिनी शम्भुसुन्दरी ।
धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिणी ॥
सुश्रीः कृपणा कपिला हव्यकव्यवहा तथा ।
स्वयम्भुकुसुमप्रीता शुक्रस्था शुक्रवल्लभा ॥
भगस्था भगरूपा च भगमालाविभूषिता ।
इति ते कथितं दिव्यं देव्या नाम शतं शुभम् ॥
ध्यात्वा च सुन्दरीं देवीं यः पठेत् सुसमाहितः ।
एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥
यः पठेत् प्रयतो भुत्वा साधकःसुसमाहितः ।
स भवेत् साधकश्रेष्ठो गणेश इव चापरः ॥
यद्यद्वाञ्छति जायते तत् तत् सर्वं फलं लभेत् ।
मासमेकं पठेद्यस्तु मध्याह्ने साधकोत्तमः ॥
अर्चयित्वा महादेवीं सुन्दरीं त्रिपुरात्मिकाम् ।
स भवेत् सम्पदामादिः कुवेर इव चापरः ॥
मासद्वयं यथाकाले यः पठेत् साधकोत्तमः ।
मासत्रयं पठित्वा च अपुत्रः पुत्रवान् भवेत् ॥
तूर्यमासं पठेद् यस्तु भवेद्वागीश्वरः परः ।
पञ्चमासं पठेद् यस्तु हतराज्यमवाप्नुयात् ॥
षष्ठे मासि पठेद् यस्तु धन्वान् जायते सदा ।
सप्तमे मासि सम्प्राप्ते शङ्करत्वमवाप्नुयात् ॥
मासाष्टकं पठेद् यस्तु श्मशाने शून्यमन्दिरे ।
सर्वशत्रुक्षयं तस्य जायते नात्र संशयः ॥
नवमे मासि सम्प्राप्ते सर्वयोगविशारदः ।
दशमे मासि सम्प्राप्ते वाञ्छाकल्पतरुर्भवेत् ॥
एकादशे रुद्ररूपी द्वादशे सिद्धिनायकः ।
एवं यः पठते स्तोत्रं पूजयित्वा सुरेश्वरीम् ॥
सिन्दुरैरक्तचन्दनैः सुकुसुमैर्विविधैस्तथा ।
दूर्वाविल्वदलैश्चैव कुशैश्चन्दनकुङ्कुमैः ॥
(प्. ६४ब्) अर्घ्यं दद्यात् पूजयित्वा सुन्दरीं भवसुन्दरीम् ।
सर्वसिद्धिं लभेत् तत्र कार्तिकेयेन भाषितम् ॥
हिङ्गुलैर्हरितालैश्च लाक्षागोरोचनादिभिः ।
पूजयित्वा जपित्वा च पठेन्नमशतं पुनः ॥
त्रिसन्ध्ये वार्द्धरात्रे वा प्रदोषे वा पुनः पुनः ।
शष्यायां यः पठेन्नित्यं प्रभाते सुसमाहितः ॥
तस्य सर्वसुसिद्धिः स्यात् शङ्करस्य मतेन च ।
भुर्जपत्रे लिखित्वा च गोरोचनादिभिः प्रिये ॥
सर्वसिद्धिः लभेत् तत्र धृत्वा साधकसत्तमः ।
इति विश्वसारतन्त्रे श्रीमत्रिपुरसुन्दरीस्तोत्रं समाप्तम् ॥
९९९९९
श्री पार्वत्युवाच ।
देवदेव महादेव सर्वशास्त्रविशारद ।
कृपां कुरु जगन्नाथ धर्मज्ञोऽसि महामते ॥
महापद्मवनास्तस्थां कारणानन्दविग्रहाम् ।
सर्वभुतहिता मातरित्याह परमेश्वरि ॥
महात्रिपुरसुन्दर्याः स्मृत्वा वाहनमुद्रया ।
विद्यायवाह्य शुभङ्गे नमस्कारुणि मुक्तया ॥
पूर्वोक्तया साधकेन्द्रा महात्रिपुरसुन्दरीम् ।
चक्रमध्ये तु सञ्चित्य ततः पूजां समारभेत् ॥
एवं ध्यात्वा स्वशिरसि पुष्पं दत्त्वा स साधकः ।
प्रक्षाल्य च करद्वन्द्वं पुनर्ध्यानं समाचरेत् ॥
कृत्वा कच्छपमुद्राञ्च कराभ्यां वागयतः शुचिः ।
कुङ्कुमैः कुसुमैरगुरुचन्दनैः सुमनोहरैः ॥
मृगनाभिसमायुक्तं पुष्पं कृत्वा विचिन्त्य च ।
मूलाधारोद्गता देवी कुण्डलीसिद्ध विग्रहा ॥
सर्वतेजोमयी देवी सर्वद्वन्द्वक्षयङ्करी ।
सर्ववाग्रूपिणी देवी षट्चक्रभेदिनी तथ ॥
श्वासमार्गेण आनीय संस्थाप्य मन्त्रमध्यके ।
पूर्वोक्तेन विधानेन श्रीमत्रिपुरसुन्दरी ॥
आवाह्य पूजयेद्विद्वान् नानागन्धानुलेपनैः ।
नानानैवेद्यवर्गैश्च वलिदानं पृथक् पृथक् ॥
आमैः पक्वैश्च विधिना शाकैः सुपैः सुरेश्वरीम् ।
पूजयित्वा लभेत् सिद्धिं शङ्करेण च भाषितम् ॥
श्रीपार्वत्युवाच ।
यन्त्रं कथय देवेश सुन्दर्यास्त्रिपुरात्मिकाः ।
श्री ईश्वरौवाच ।
बिन्दुत्रिकोणवह्यष्टकोणवाह्यादिककोणयुक् परचतुर्द्धशकोणयुक्तम् ।
वृत्ताष्टषोडशदला न वृत्तलोकभुपुरचतुर्मुखमहं प्रणमामि चक्रम् ॥
एवमेतन्महाचक्रे श्रीमात्रपुरसुन्दरीम् ।
पूजयित्वा महासिद्धिं लभते नात्र संशयः ॥
तत्रापि पूजयेछुक्ती देवा नव सुशोभनाः ।
अनङ्गकुसुमानङ्गमेखलामदना तथा ॥
अनङ्गरेखारूपिणी च अनङ्गानङ्गमालिनी ।
शशिरेखा च सम्प्रोक्ता सुन्दर्या नव शक्तयः ॥
ततस्तु षोडशी शक्तिः क्रमेणानेन पूजयेत् ।
सर्वसङ्क्षोभिणी चैव तथा सर्वातिद्राविणी ॥
सर्वाकर्षणशक्तिश्च सर्वाह्लादकारिणी ।
सर्वसङ्क्षोभिणी चैव सर्वसम्मोहिनी तथा ॥
(प्. ६५) सर्वस्तम्भनशक्तिश्च सर्वस्तम्भनकारिणी ।
सर्वार्थसाधनी देवी सर्वसम्पत्तिदायिनी ॥
सर्वत्र कुशलङ्कारी सर्वसिद्धिविधायिनी ।
सर्वसम्पत्प्रदा चैव सर्वप्रियङ्करी पुनः ॥
सर्वमङ्गलकारी च सर्वकामप्रदा तथा ।
सर्वदुःखविमोचनी सर्वमृत्युविनाशिनी ॥
सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ।
पूजयित्वा विधानेन ततः सिद्धिं लभेन्नरः ॥
श्रीपार्वत्युवाच ।
कृपां कुरु जगन्नाथ सर्वज्ञोऽसि महामते ।
सुन्दरी या पुरा प्रोक्ता लोपामुद्रेति विश्रुता ॥
तस्याः प्रभावं विधिना कथयामास तत्वतः ।
तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः ॥
कथयामास तां विद्यां सर्वविद्यामनुत्तमाम् ।
श्री ईश्वर उवाच ।
कथयिष्ये महाविद्यां यदुक्तं ब्रह्मणा पुरा ।
तत् शृणुष्वत्र विधिना सुगोप्यं भौवनत्रये ॥
तस्याः प्रभावात् सकलं विभाति भुवनत्रयम् ।
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ॥
माता पिता जगन्मान्या जगद्रक्षास्वरूपिणी ।
सिद्धिदा सिद्धिलोकानां असिधा दुष्टजन्तवः ॥
सर्वभूतहितकरी सर्वभूतस्वरूपिणी ।
यतीनाञ्च गृहस्थानां भुक्तिमुक्तिप्रदायिनी ॥
सदयतीनां सत्यैषां तस्मान्मुक्तिप्रदायिनी ।
मन्त्रोद्धरमहं वक्ष्ये शृणुष्व कमलानने ॥
शिवबीजं समुद्धृत्य शक्तिबीजं समुद्धरेत् ।
कामबीजं धरासंस्थं तदन्ते भुवनेश्वरीम् ॥
रविबीजं चन्द्रबीजं स्वाहाहंसन्ततः परम् ।
योजयेत् तत्र तां देवीं मायां त्रिभुवनेश्वरीम् ॥
शक्तपरतरामरः शिवबीजसमन्वितः ।
हृल्लेखा बीजसंयुक्ता विद्या त्रिपुरसुन्दरी ॥
एषा पञ्चदशी विद्या सर्वतन्त्रेषु गोपिता ।
अस्या विद्या समा नास्ति त्रैलोक्येऽपि च दुर्लभा ॥
ओं लोपामुद्रा शिरः पातु ललाटं सिंहवाहिनी ।
चक्षुषी पातु मां कृष्णा भारती पातु नासिकाम् ॥
कैलासवासिनी पातु कर्षयुग्मां महोदया ।
वदनं वासिनी पतु जिह्वाज्ञोत्तरवासिनी ॥
ग्रीवायां ललिता पातु सर्वतः पिङ्गलाक्षी हृदयं मम ।
धुम्रा पार्श्वद्वयं पातु कट्यां प्रान्तरवासिनी ॥
नितम्बकुसुमा पातु उपस्थं वलदायिनी ।
गुह्यं मिता सदा पातु जङ्घायां त्वरितावतु ॥
जानुचक्रं महामाया ललिता पातु सर्वतः ।
पादयुग्मं सदा पातु लोपामुद्रा सुरेश्वरी ॥
सर्वाङ्गे पातु मां देवी लोपामुद्रा सुरेश्वरी ।
प्राच्यां पातु सदा देवी लोपामुद्रा महोदया ॥
आग्नेययां चैव याम्ये च नैर्-ऋते वरुणे तथा ।
वायव्यां चैव सौम्यां वै ऐशान्यां पातु सुन्दरी ॥
लोपमुद्रा सदा पातु सुन्दरी शर्मदायिनी ।
इति ते कवचं दिव्यं कथितं सुखमोक्षदम् ॥
सर्वाऽऽउभकरं साक्षात् महापातकनाशनम् ।
(अत्र पतितम् ॥ )
(प्. ६५ब्) ओं अस्य श्रीलोपामुद्रा त्रिपुरसुन्दर्याः सहस्रनामस्तोत्रस्य भगवान्
सदाशिव ऋषिरनुष्टुप्छन्द आद्याशक्तिः भगवती श्रीमत्रिपुरसुन्दरी देवता
मम चतुर्वर्गसाधने विनियोगः ।
ओं अशोकवासिनी आशा आदित्या अनुरूपिणी ।
आनन्दा अचला आमा आनन्दा अन्नबुद्धिदा ॥
आसुरी अल्पदा शोका अशोका शोकनाशिनी ।
जयदा जित्वरा याङ्गी सुखदा शुभदा शुभा ॥
मनोहरा मानश्री च सुपाला पालिनी मही ॥
इन्द्रिका दीपिका चैव कृष्णा च शोभना प्रिया ।
कास्ताववासिनी कृष्णा चन्द्रकास्तिसमप्रभा ॥
कर्पूरागुरुकस्तुरी त्रैलोक्यपावनीमतिः ।
दिवारात्रिस्तथा सन्ध्या महेज्या चन्द्ररूपिणी ॥
एकानेका महामाया देवी भगवती कुहूः ।
अरुणा जयिनी जेया जयनी सर्वकामदा ॥
मानदा मानिनी मान्या माननीया महामतिः ।
महोल्का शुभदा क्षेमा सर्वपर्वतवासिनी ॥
भेरुण्डा कुरुकुन्दा च कालिका विन्ध्यवासिनी ।
नृमुण्डहन्ता शस्ता च मुण्डमालाविधारिणी ॥
सवासना चितास्तस्था प्रेतनृत्यपरायणा ।
सुन्दरी भैरवी घोरा पूर्णा च घृणदा घृणा ॥
नर्मदा नन्दिनी स्तुत्या स्तवनीया वलाकला ।
वाहूदा वाहूना प्रज्ञा प्रज्ञदा कामदायिनी ॥
ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कीर्तिकाकलिः ।
रोहिणी शुभदा * * श्वेताङ्गी शुभलक्षणा ॥
महाकुलीना सुक्षेमा क्षेमदा क्षेमवर्द्धिनी ।
मोहिनी पोषिणी क्षान्त्या तोषिणी शोषिणीमतिः ॥
रतिप्रिया रतिहरा रतिदा रतिमालिका ।
कौलिनी कलिदा कल्की कुन्दनाङ्गप्रियातनुः ॥
वहती जयदा जेत्री जयहा जयलक्षणा ।
जया जयित्री जयिनी सङ्गोमा सुकुली कुला ॥
मन्त्रज्ञा शोभना सत्या आहारप्रियदायिनी ।
क्षुत्पिपासा क्षोभकरा सर्वक्षोभविनाशिनी ॥
नलिनी नालिनी नाली वाहिनी रममानसा ।
मांसप्रिया मांसरुचिर्मद्यपान सदा महा ॥
हेला नीला महाशाली धुर्ज्या सिंहवाहिनी ।
वायसी पूतना कृत्या त्रैलोक्यभाविनी रतिः ॥
पद्मिनी पद्महस्ता च पद्मस्था पद्मवासिनी ।
महापद्मा सुपद्मा च स्तम्भिनी शुम्भुनाशिनी ॥
एकाक्षा केकराक्षा च त्रिनेत्रा शुलधारिणी ।
शुलिनी पिङ्गलाक्षी च कमला कालदायिनी ॥
मानदा माननीया च मानहा कान्दकारिणी ।
शुक्रस्था शुक्रपुज्या च शुक्रहा शुक्रमोहिनी ॥
शुक्रवक्षा शुक्रकरा शुक्रसेव्यातिशुक्रिणी ।
शुक्रमोहा शुक्रमना शुक्रक्षालनरूपिणी ॥
महाशुक्रा शुक्रपूर्णा शुक्रसेव्यातिशुक्रिणी ।
स्वयम्भुकुसुमप्राणा स्वयम्भुकुसुमाकुला ॥
स्वयम्भुपूजकप्रीता स्वयम्भुप्रीतिदायिनी ।
इडा पिङ्गला सुषुम्ना च नाड्यस्ता च शुभप्रदा ॥
गान्धारी हस्तजिह्वा च पूषा चालम्बुयामता ।
शङ्खिनी चित्रिणी वानी वलिनी वलहानना वैखरी केकरी केका लनना
मार्गवाहिनी ।
(प्. ६६) मार्गदा मोहिनी नन्दा मन्मथप्रियवादिनी ।
आनन्दभैरवी कालभैरवी कुलभैरवी ॥
वटुकाभैरवीसंस्था वलस्था वलदेवता ।
कुलीना कुन्दलकान्ता च कामाख्या कामवन्दिन्ता ॥
विशेषज्ञविवादा च विद्युज्जिह्वा वसुन्धरा ।
आवालिका च वसुदा विविधा कमलवती ॥
स्वाहा शाला तथा माला आर्या वैपायिनी कृपा ।
वामाचारवती वामा वामाचारविलासिनी ॥
सुमतिः कुमतिश्चण्डचण्डमुण्डवधोद्यता ।
निशुम्भशुम्भहरिणी रक्तबीजविनाशिनी चामुण्डा चर्चिका श्रेष्ठा
वहूभावनकारिणी ।
शोभना च शुभाकम्पा कम्पशाखितलस्थिता ।
युवती केटभी ज्योत्स्ना सुमनाविमना महा ॥
पीडा पीडाक्षयकरी कहोडा यामिनी शुचिः ।
वारुणी चैव इन्द्राणी सावित्री ब्रह्मरूपिणी ॥
चित्रिणी चित्ररूपा च मयुरपुच्छधारिणी ।
वायसी भुजगा भोगा कद्रुश्च विनता सता ॥
गुडाप्रेता विशालाक्षी सती साध्वी विरूपिणी ।
विकद्रुः शोभनी चण्डी प्रचण्डा अतिचण्डिका ॥
कराली च करालाक्षा विकराला करालिका ।
दैत्यदानवसंहन्त्री पैश्चाची यक्षिणी यतिः ॥
गान्धारी गगणा गम्या सर्वबीजप्रतिष्ठिता ।
कामदा च त्वरा चित्रा विचित्रचित्ररूपिणी ॥
अभया भयहारा च शुभदा शुभनाशिनी ।
विद्युता वैद्यामाता च कामकल्पाकविः क्रिया ॥
राधिका रूपिणी सत्या लक्षणा रेवती मघा ।
सुदन्ता शुभदन्ता च अद्भूता अरूणा उवा ॥
विद्युत्स्फुरस्महाहास्या आनन्दा कल्किरूपिणी ।
नानामणि कुमद्वाती पद्मिनी पद्ममन्दिरा ॥
विम्बोष्ठी ललिता चोक्षा तीक्ष्णाङ्गी सर्वसिद्धिदा ।
सर्वाङ्गसुन्दरी पिङ्गा पद्मरूपा मनोगतिः ॥
विशाला विलसत्क्षान्त्या सर्वचत्वरवासिनी ।
नारसिंही च वाराही अकुली नकुली ध्वनिः ॥
शूलहस्ता विशाला च जित्वरा जयदा जया ।
मृत्युरूपा मृत्युहरा कालदा कालमालिना ॥
नानास्त्रधारिणी सैत्या सर्वदैत्यावनाशिनी ।
स्वाहा स्वधा वषटकारा यज्ञदा यज्ञभुक् गुणी ॥
शरमा अमरा आद्या महामायाविनाशिनी ।
अस्त्रशस्त्रमयी विद्या दुरस्था दुरवासिनी ॥
नदी सिन्धुसर्वमयी सर्वाद्या सर्वदायिनी ।
उग्रा तारा यशोदा च निला नील सरस्वती ॥
जयिनी यामिनी विद्युच्चञ्चला चाटुकारिणी ।
लक्ष्मीरूपा महारूपा नानामूर्तिः प्रभातनुः ॥
सुसीमा च महासीमा अमेया खेचरी क्रिया ।
सूर्यकान्तिश्चन्द्रकान्तिः * * * * प्रियङ्करी ॥
मुण्डमालावहन्ती च सर्वशास्त्रविलासिनी ।
विद्यावती वसुमती गङ्गा काशी सतीपुरा ॥
नगदा मरदाख्या च राजलक्ष्मीर्मनागपि ।
विमना सुमन शम्भुः शाम्भवी हंसरूपिणी ॥
माता पिता विपुला च कुञ्जरेश्वरगामिनी ।
(प्. ६६ब्) लीला माला तथा तथ्या सुभक्ष्या अतिराग्मिता ॥
पुत्रिणी पुत्ररूपा च वत्सा वत्सप्रिया सती ।
शङ्कटज्ञा विसज्ञा च विकटा कपट तिथिः ॥
सुप्तासुप्तप्रसुप्ता च विमलाक्षी विशातनुः ।
हुङ्कारी बीजरूपा च द्रीऊङ्कारी बीजरूपिणी ॥
ह्री/ श्री गाङ्गी च गान्धारी सुगुणा विपुलास्तनी ।
कमली युवती सत्या स्तवनीया मामदोहृता ॥
शितला च सुशीला च वायुदा वायुरूपिणी ।
वृषप्रिया वृषारूढा वृषवाहनवाहना ॥
हूतिर्नितिः सुनीतिश्च कैलाशवासिनी कृतिः ।
कालरूपा कराला च अमिता असिता सिता ॥
चिन्तावती सुचिन्ता च विचिन्ता चिन्तितास्मृतिः ।
सुनीतिः सुरुचिः कान्तिः कृष्णाकृष्णाकृशाङ्गिका ॥
वज्राङ्गी वज्रहस्ता च गुरुहस्ता सरस्वती ।
अतसी कुलटा चेष्टा भर्तारानोडिनी भुता ॥
वहूवक्ता वत्सला च सुभक्ता भक्तवत्सला ।
वत्स्यल्या वहूला वेला कन्या गौरी च रोहिणी ॥
युवती चञ्चलाक्षी च चपलाक्षी शुभा तनुः ।
दीर्घघोणा दन्तुरा च युगदा युगदन्तुरा ॥
अवजा गोजः क्षत्रिया च विजया जयरूपिणी ।
शङ्खिनी टिविटित्वा च क्षट्वि घाटी स्वरूपिणी ॥
रूपिणी विविणी कृत्वा अतीता च पतिव्रता ।
कालाक्षी अवशाक्षी च निसङ्गा सङ्गवर्जिता ॥
चेष्टा शान्ति शाम्भवी च चर्चिका चण्डरूपिणी ।
कुलटा युवती वन्या सर्वाङ्गसुन्दरी सुधा ॥
केकराक्षी कृशाङ्गी च शशी च तामसी दया ।
गान्धारी विवशा विश्वा विकटाक्षा कटाक्षिणी ॥
सौम्या सोमवती सा वा ललिता चतुरानना ।
कार्तिकी कुलजा कुन्ती कुन्तरूपा कुमुद्वती ॥
चन्द्रमण्डलसंसर्गसूर्यकान्तिसमप्रभा ।
विद्युल्लोला विशालाक्षी सुन्दराक्षी सुलोचना ॥
मृगनेत्रा मृगाक्षी च चञ्चलाक्षी च चञ्चला ।
प्रचला च महामोहा महामदविनाशिनी ॥
कुलीना कुलवत्यां वा यक्षिणी यक्षरूपिणी ।
काकिन्येसी भल्लुको च विनष्टा चौजरूपिणी ॥
चिचितुटा विसर्पिण्यो वितानी विपुलानना ।
हिडम्बा दुर्घटा ज्ञेया वकास्या प्रियवादिनी ॥
कैराती कोणरूपा च कुक्कुट कुलमण्डिता ।
शान्तश्च शन्तिरूपा च सुमती सुमनप्रिया ॥
पिङ्गलाक्षी त्रिनेत्रा च अरुणा जयदायिनी ।
विपुला विमला विश्वा किङ्करी वासिना विना ॥
वेताली विपुला मोहा महामोहविवर्जिता ।
अनन्ता सत्यवादी च नित्या नित्यस्वरूपणी ॥
लिङ्गमाला कण्ठभूया भगमाला विभूषणा ।
भगाङ्गी भगिनी भोगा भगमोहा भगात्मका ॥
कात्ययनी जगन्माता सुमाता मदनावती ।
विपाशा च सुकेशा च हेमानिना पुलोपमा ॥
इन्द्राक्षी वारुणी यक्षा योनिमुद्रा धनप्रिया ।
अनङ्गकुसुमानङ्गमेखला मदनातुरा ॥
अम्बिका ह्रादिनी दुर्गा स्वरूपा हूं स्वरूपिणी ।
सुषुम्नेडा योगवती भैरवी वटुभैरवी ॥
काली वाली च गाली च सुसमा सामगायिनी ।
(प्. ६७) गायत्री यमुना यामा ससत्वा वरदायिनी ॥
लक्ष्मणा सत्यभामा च तथा जाम्बुवती सती ।
सुशीला पुण्यशीला च रूक्मिणी रेवती मघा ॥
विकृतिः कुन्तिमूर्तिन्यौ सेन्दुखण्दा शिखण्डिनी ।
सुर्यकान्तिः प्रिया क्रिया अमावास्या चतुर्दशी ॥
अष्टमी षष्ठी नवमी स्थिरा धीरा च पञ्चमी ।
तपस्विनी तपोयुक्ता मातृका गौररूपिणी ॥
शारदेन्दु प्रसन्नास्या अट्टहास्यासिनी सुसु ।
नलिनी नालिनी नाला मनुकन्या मनावती ॥
पार्वती खर्विणी खर्वा सर्वगर्वविवर्जिता ।
दर्पहारा सुदर्पा च दर्पतृप्तिमहोहरा ॥
दान्ती च कुम्भहन्ता च अहङ्काराकृतिः स्वयम् ।
जीवा च परामात्मा च तथा कुण्डलिनी स्मृता ॥
योषिता योषितप्राण योनिकुण्डनिवासिनी ।
गङ्गा काशी शता शोभा सुशोभा शोभकारिणी ॥
सता सत्या सुसत्या च सभासङ्क्षोभकारिणी ।
क्वहोडी कुसुमा कामा कामराजेश्वरी क्रिया ॥
पञ्चकूटा त्रिकुटा च एकाक्षा वर्गरूपिणी ।
वर्णमाला मन्त्रमाला सर्वमन्त्रमयी शिवा ॥
सर्वालङ्कारसंयुक्ता कलम्ञ्जीररञ्जिनी ।
पञ्चभूतगतिः प्रेमा महाभुतनिवासिनी ॥
दुराशया दुरासाध्या दुर्गेया दुर्गवासिनी ।
विभुतिर्विपुला नष्टा विनष्टा विनता सृतिः ॥
निर्माल्यवासिनी देवी शेयिका सुन्दरी तथा ।
चण्डेश्वरी विजया * उग्रचण्डा प्रचण्डिका ॥
प्रचण्डचण्डिका चण्डी चण्डदेवीति विश्रुता ।
मातुलानी पिपाठी च राक्षसी योगिनी जवा ॥
कुशला च कुशल्या च कुन्ती च कुमदा कृपा ।
हंसमुखी शुचिमुखी विनता ललिता त्रिधा ॥
वङ्क्षुमुद्रा रेवती च कावेरी सवितामृता ।
गिरिका वानरी वाला भूषणा उषिता तथा ॥
भानुमती चित्रलेखा विशाखा शिखिनर्तकी ।
मोहिनी तोषिणी स्तुत्या स्तवनीया सुभाविनी ॥
किङ्किनी चङ्किनी चित्रा योगिनी योगदायिनी ।
उल्लूकवदना देवी नानामूर्तिधरा तथा ॥
सर्वतत्वार्थवेत्ता च सर्वशास्त्रात्मिका तथा ।
मालावती सर्पहस्ता व्यालयज्ञोपवीतिनी ॥
डकिनी वर्णिनी घोरा वज्रपुष्पा तिलोत्तमा ।
असिता कुरुकुल्ला च बिन्दुचक्रस्वरूपिणी ॥
उष्मा च उष्मपाना च शब्दब्रह्मस्वरूपिणी ।
तस्विनी निशारात्रिर्नादशब्दप्रभेदिका ॥
रस्तोरुश्चतुराकारा कुमारी वृषभासुरी ।
शर्मिष्ठा यादवी यज्ञा सर्वशक्तिस्वरूपिणी ॥
आचार्याथ तथा आर्या अङ्कुशी तोमरी तथा ।
देवी कुण्डात्मिका कुण्डा यज्ञक्र्त्री यज्ञु (? ) प्रिया ॥
ऋक् सामाथर्वनिलया वेदशाखास्वरूपिणी ।
रम्या कन्या शताक्षी च तथा चैव हृतद्युतिः ॥
धात्री कर्त्री तथा इन्द्री काशीराजसुते शुभे ।
मज्ञस्थिता योगिनी च आकाशवासिनी वलिः ॥
वेतालि रिपुना श्वेता तथा गुणवती मतिः ।
प्रफुल्ला फुल्लरूपा च तथा कुलवती कुला ॥
फेत्कारिणी मनुमाता च अनुस्वरनिवासिनी ।
(प्. ६७ब्) भक्तानन्दकरी स्तुत्या स्तवनीयासुभाविनी ॥
अर्पणा निश्चला लोला विद्या विद्यावतीति च ।
विभीतिका तथा मृत्युर्मारिणी मृत्युनाशिनी ॥
अमेया तिन्तिडी दक्षा कृशाङ्गी कृशभुः कशा ।
विक्रमा विरला किन्ना वज्रप्रस्तारिणी सदा ॥
सुन्दराङ्गी सुराङ्गी च कुरङ्गी शरलालिका ।
नगीश्वरी अकामा च अवशा च ग्रहा अनुः ॥
मोहनामोहनामर्त्या मृण्मयी मद्यरूपिणी ।
काटनीकाटिनी श्लेषा केशाकृत्य निवासिनी ॥
कूर्चाक्षरी कालरूपा बिन्दुचक्रनिवासिनी ।
विषणा विषया वैश्या क्षत्रियाणी कृपावती ॥
आनन्दकन्दसम्भुता आनन्दा अंशुलोचनी ।
असत्या आकृति म्लेच्छा भाषाचातिप्रिया श्रुतिः ॥
प्रमोषा च प्रेम्नाप्रेम्ना साधका भक्तिरक्तपा ।
इदं सहस्रानामेति लोपामुद्रा प्रकीर्तिता ॥
यस्याः प्रसादनात्रेण साक्षान्नारायणो भवेत् ।
अपुत्रो लभते पुत्रमधनी धनवान् भवेत् ॥
राजा विजयमाप्नोति क्षत्रियाणी सुपुत्रिणी ।
वैश्यो धनसमृद्धिः स्यात् मूकश्च सुकविर्भवेत् ॥
अरोगी धनवांश्चैव दीर्घरोगैः प्रमुच्यते ।
रजःस्वलाभ्यां स्पृत्वा च जपेद्विद्यां दिवानिशम् ॥
कुवेर इव वित्ताच्यो जायते यदनोपमः ।
परदारपरो भूत्वा जपेद्विद्यां दिवानिशम् ॥
अधिकारेण मनसा स एव श्रीसदाशिवः ।
दुतीयागं सदा कुर्यात् दिवसे दिवसे सुधीः ॥
ऋतुमत्या भगंस्पृष्ट्वा दृष्ट्वा स्तुत्वा च मानवः ।
जपित्वा च महाविद्यां सर्वसिद्धिर्लभेन्नरः ॥
धर्मार्थकाममोक्षार्थी परयोनौ जपेत् सुधीः ।
स्वयम्भुकुसुलैर्हस्ते भूषयित्वा जपेत् सदा ॥
पूजयेत् परया भक्त्या देवी शुक्रैर्विशेषतः ।
स्वयम्भुकुसुमैः शुक्रैः पूजयेज्जगदम्बिकाम् ॥
गोरोचनाकुङ्कुमेन लिखेद् यन्त्रमनन्यधीः ।
यावकैश्चन्दनैर्गन्धैर्भूर्जपत्रे विशालधीः ॥
शून्यावासे लिखेद् यन्त्रं स्वशक्त्या सर्वभावतः ।
यजेद् देवीं विधानेन ध्यात्वा तां शम्भुसुन्दरीम् ॥
पुजयित्वा धरेद् यन्त्रं कुमारीं पर्वतात्मजाम् ।
भौमावास्यां निशातागे बलिं दद्यात्रिपादसुः ॥
कुक्कुटैर्नकुलैमेषैर्महिषैर्मुषिकैर्नरैः ।
दग्धमीनैर्दग्धद्रव्यैर्मद्यं दद्यात् सुसाधकः ॥
अष्टोत्तरसहस्रञ्च जपेत् तत्र विशालधीः ।
एहि एहि पदं ब्रूयात् तदा देव्यै निवेदयेत् ॥
योनिक्षालनतोयेन चुलुकं सततं क्षिपेत् ।
स भवेत् सम्पदामादि कुवेर इव चापरः ॥
मार्कण्डेर इवायुष्मान् ज्वरापलितवर्जितः ।
वृहस्पतिवाग्व्यये स्यात् सौन्दर्ये मदनोपमः ॥
विना मद्यैर्विना मांसैर्यदि देवीं यजेत् सदा ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥
सर्वविद्यावतां श्रेष्ठः कूलीनः प्रियदर्शनः ।
किमन्यद् वहना देवि चतुर्वर्ग लभेन्नरः ॥
इति विश्वसारतन्त्रे त्रिपुरसुन्दरी सहस्रनामस्तोत्रं समाप्तम् ॥
९९९९९
अथ वक्ष्ये महाविद्यां सुन्दरीं षोडशाक्षरीम् ।
यस्याः कटाक्षमात्रेण साक्षान्नारायणो भवेत् ॥
राज्यं देयं शिवो देयो न देया षोडशाक्षरी ।
एकैकमात्रा सुन्दर्या भवेद्गङ्गाधरः स्वयम् ॥
किं धनैः किं जनैः किम्वा भुत्यैर्वन्ध्जनैरपि ।
विद्या विज्ञानमात्रेण भवेद्गङ्गाधरः परः ॥
स वैष्णवः स शाक्तः स एव ब्राह्मणः सदा ।
सर्वविद्यावतां श्रेष्ठः स योगी सिद्धिवर्द्धकः ॥
अथ वक्ष्ये महेशानि मन्त्रोद्धरं सुशोभनम् ।
शृणुष्व परया भक्त्या सर्वकामार्थसिद्धये ॥
एषा वहूविधा विद्या कथिता पद्मयोनिना ।
पाद्मे कल्पे नारदाय इहैव त्वां वदाम्यहम् ॥
श्रीबीजाद्या यदा विद्या लक्ष्मीर्नारयणस्य च ।
लज्वाद्या वा यदा विद्या स भवेत् सुरपुजितः ॥
संसारं वशमानीय भवेत् शम्भोः प्रियः स्वयम् ।
रागाद्या वा यदा विद्या भवेत्रिभूवनेश्वरी ॥
ब्रह्माणी सा समाख्याता वेदव्यासेन संयुता ।
शिवप्रासादसंयुक्ता यदा भवति सुन्दरी ॥
तदा सैव भवेन्नित्या महेशत्वप्रदायिनी ।
एवं वहूविधा विद्या शिवेनोक्ता कृते युगे ॥
देशभेदे महाविद्या वहूधा परिकीर्तिता ।
अथ वक्ष्ये महाविद्यां सर्वसिद्धिसमृद्धिदा ॥
यस्याः कटाक्षमात्रेण त्रैलोक्याधिपतिर्भवेत् ।
मादनं तदहः शक्तिस्तदन्तर्बिन्दुमालिनी ॥
ऐन्द्रबीजस्थमध्यस्था ज्वलनाक्षरसंयुतम् ।
मायाबिन्द्वीश्वरीयुक्ता सर्वोपरिनियोजिता ॥
अयं स वाग्भवो देवि वागीशत्वप्रदायकः ।
शिवबीजं त्रिधा कृत्वा सृष्टिस्थितिलयक्रमैः ॥
द्वयमाद्येन रहितमाव्याधो मदनाक्षरम् ।
पुनः स्थितिशिवाधस्थादिन्द्रबीजं नियोजयेत् ॥
तथा नमः शिवाधोऽपि ज्वलनार्कं महेश्वरि ।
चतुर्थस्वरसंयुक्तं बिन्दुखण्डेन्द्वलं कृतम् ॥
एवमेतन्महाबीजं कामराजं महोदयम् ।
मायामीजं महेशानि मादनं शत्रुसंयुतम् ॥
चन्द्रबीजं केवलन्तु विनिर्युज्य वरानने ।
त्यक्त्वा सृष्टि क्रमं देवि प्राशु(? ) द्धारक्रमेण तु ॥
संहारक्रमयोगेन शक्तिबीजं समुद्धरेत् ।
एषा श्रीः सर्वतन्त्रेषु कथिता पद्मधोनिना ॥
अतः परा महाविद्या त्रैलोक्ये नैव विद्यते ।
सर्वविद्यास्वरूपा च स्वर्गमुक्ति प्रदायिनी ॥
सर्वकामप्रदा देवी सर्वकामस्वरूपिणी ।
यथा अनुगताः प्राणाः सर्वेषां षोडशी तथा ॥
सिन्दूरसदृशाकारां नेत्रत्रितयशोभिनीम् ।
शवरूपमहादेव हृदयोपरिसंस्थिताम् ॥
मुण्डमालाधरां देवीं नागयज्ञोपवीतिनीम् ।
नानालङ्कारसंयुक्तां सिद्धगन्धर्वसेविताम् ॥
दिगम्बरीं महाघोरां मुक्तकेशीं महोदराम् ।
सर्वलावण्यवसतीं चिन्तयेत् पार्वतीं सदा (? ) ॥
अस्या अङ्गसमुद्भूता ये चान्ये मन्त्र जा(? ) दयः ।
महामहा महाविद्या महामन्त्रा महामहा ॥
अस्या अङ्गसमुसमुद्भूता कथिता पद्मयोनिना ।
पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते ॥
यथा पारमहंस्येषु श्रीभागवतमुच्यते ।
अद्वैतभावनायास्तु यथा नारायणो नरः ॥
द्विपदेषु द्विजश्रेष्ठो नक्षत्रेषु च चन्द्रमाः ।
इन्द्रियेषु च मनःश्रेष्ठं पर्वतेषु हिमालयः ॥
नदीनान्तु यथा गङ्गा ब्राह्मणेषु च वेदवित् ।
वैष्णवानां यथा शम्भुः शास्त्रेषु चागमः स्वयम् ॥
विद्यासु च महाविद्या तास्वियं श्रीसमीरिता ।
नात्र सिद्ध्याद्यपेक्षा च न च मित्रादिधूषकम् ॥
नेह भक्ष्यविचारः स्यात् नास्ति स्थानस्य निर्णयः ।
न चित्तव्ययवाहूल्यं न च ब्रात्यं कथञ्चनः ॥
पूजयेत् परया भक्त्या सुन्दरीं सर्वभाषतः ।
षट्कोणं नवकोणञ्च त्रिकोणञ्च ततः परम् ॥
अन्योऽन्यं विलिखेद् यन्त्रं योनिमण्डलमण्डितम् ।
? (? ) जःसत्त्वतमोरेखासाष्टपत्रसमन्वितम् ॥
अनङ्गाद्या महाशक्तीरत्र नध्येषु चिन्तयेत् ।
त्रिकोणे पुजयेद् देवीं सुन्दरीं श्रीस्वरूपिणीम् ।
पूर्वोक्तन्यासवर्गैश्च विन्यसेत् सुतनौ सदा ॥
विन्यसेत् परमा देव्याः नवयोन्यात्मकं स्मृतम् ।
योन्याकारेण संन्यस्य चिन्तयेत् तां महेश्वरीम् ॥
नवयोन्यात्मकं न्यासं विन्यसेत् सुतनौ सदा ।
विधिनानेन देवेशी नवयोन्यात्मकं स्मृतम् ॥
नाभेराचारणं न्यस्य वाग्भवं बीजमुत्तमम् ।
हृदयानाभिपर्यन्तं कामबीजं न्यसेत् सदा ॥
शिरसो हृत् प्रदेशान्तं शक्तिबीजं न्यसेत् सदा ।
आद्यं द्वितीयं करयोर्विन्यसेत् परया यतः ॥
तृतीयमुभयोर्न्नस्यनवयोन्यात्मकं स्मृतम् ।
मूर्ध्न्याधारे हृदि न्यसेत् भुयो बीजत्रयं क्रमात् ॥
नवयोन्यात्मकं कुर्यात् न्यासञ्च विधिनामुना ।
त्रिभिर्बीजैः क्रमेणैव विन्यसेत् क्रमयोगतः ॥
कर्णयोश्चिबुके कुर्यात् योन्याकारं त्रिकोणकम् ।
अंशयोर्वदने कुर्यात् नेत्रयोर्नसिके ततः ॥
अंशयोः पाठके कुर्यात् कुक्षिकूर्परयोस्ततः ।
जानुनोभुर्जमूले स्यात् पादम्नोर्गुह्यदेशके ॥
पार्श्वयोर्हृदये कुर्यात् ततः कण्ठस्तनद्वये ।
नवयोन्यात्मकं नयासं महाविद्या प्रमाणकम् ॥
छिन्नायाः कालिकायाश्च सुन्दर्याश्च तथैव च ।
श्रीविद्यायास्तथा कुर्यात् नवयोन्यात्मकं स्मृतम् ॥
अथ रत्यादिकं न्यासं कुर्याच्च विधिनामुना ।
मूलाधारे रतिं न्यस्य हृदि प्रीतिं न्यसेत् पुनः ॥
मुलादिधू न्यसेन्मूर्ध्नि प्रतिलोमानुलोमतः ।
अमृतेशीञ्च योगेशीं विश्वगेशं पुनः पुनः ॥
(प्. ६९) मूर्ध्नि वक्त्रे च हृदये गुह्ये पादद्वये पुनः ।
क्रमेण विन्यसेदेतान् द्वौ द्वौ कृत्वा विधानतः ॥
स्वस्वमाद्यं बिन्दुयुतं मूलबीजमुदाहृतम् ।
मनोभवं न्यसेन्मूर्द्ध्नि ईशानेन विधानतः ॥
तत्पुरुषं विन्यसेद्वक्त्रे मकरध्वजसंयुतम् ।
अघोरं विन्यसेत् पूर्वं कन्दर्पं हृदये पुनः ॥
मन्मथं विन्यसेद् गुह्ये वामे देवादिसंयुतम् ।
सद्योजातं पादयुगे कामदेवसमन्वितम् ॥
अथात्मानं चिन्तयेच्च पञ्चवक्त्रं यथा शिवम् ।
ऊर्द्धप्राग्दक्षिणोदिच्यपश्चिमेषु मुखेषु तान् ॥
पूर्वोक्तेन विन्यसेद्बुद्ध्या हृल्लेखादिविधानतः ।
हृल्लेखान् पुटितान् कृत्वा कामबीजादिकानथ ॥
पञ्चवक्त्रं चिन्तयेच्च वर्णेनानेन देशिकः ।
मुक्तापीतपयोदञ्च मौक्तिकं यववर्णिकम् ॥
ऊर्द्धदिक्रम्योगेन दक्षिणावर्तयोगतः ।
भुण्डव्योमाग्निसंयुक्तं दीर्घस्वरसमन्वितम् ॥
इन्दुबिन्दुसमायुक्तं मुखाधिष्ठातृदेवता ।
अथवा पञ्चह्रस्वाच्यं ओङ्कारादिसमन्वितम् ॥
प्रतिलोमेन सिञ्चन्त्य विन्यसेच्च पुनः पुनः ।
पञ्चरूप्यं न्यसेद् देवि मूर्ध्नादिक्रमयोगतः ॥
क्रीमाद्यां द्राविणी मूर्द्ध्नि ह्रीमाद्यां क्षोभिणीं पदे ।
क्ली/ वशीकरणं वक्त्रे गुह्ये हू/ बीजपूर्विकाम् ॥
आकर्षिणीं हृदि पुनः स्वर्गाद्या भृण्डसंयुताम् ।
सम्मोहिनी क्रमादेवं वर्णन्यासोऽयमीरितः ॥
भालभ्रूमध्यवदनघटिकाकण्ठकृत्सु च ।
नाभ्यधिष्ठानयोः पञ्चतारा सुभगादिकाः ॥
कामबीजादिकाः सर्वाः मदविभ्रममन्तराः ।
सुभगाच्या न्यसेत् सर्वाः सुभगा च तथा भगा ॥
भगसर्पिण्यथ परा भगमालिन्यनन्तरम् ।
अनङ्गानङ्गकुसुमा भूयश्चानङ्गमेखला ॥
अनङ्गमदना सर्वामदविभ्रममन्तराः ।
प्रधानदेवता वर्णा भूषणाद्यैरलङ्कृता ॥
मुण्डमालावराभयौ धारिण्यः शुभदायिकाः ।
वाग्भवं कामराजञ्च वरुणमिन्द्रसंयुतम् ॥
इन्दुबिन्दुसमारूढं तृतीयं कथितं त्विदम् ।
षडबीजसमायुक्तां लज्वाबीजमुदाहृतम् ॥
चन्द्रबीजं स्वर्गयुक्तं पञ्चमं कथितं त्वदम् ।
सुभगाद्या समासेन न्यसेद्बीजानि देशिकः ॥
शिरसि भाले कर्णे च अक्षिणी नासायुगले गण्डयुगले ओष्ठे युगे दन्ते वदने
विन्यसेत् स्वरान् ।
चिबुके ख्याने च कण्ठे च पार्श्वयोः स्तनयुग्मके ।
दोर्मुलयोः कुर्परयोः पाण्योस्तत् पृष्ठदेशतः ॥
नाभौ गुह्ये पुनश्चोर्वोर्जानुनोर्जङ्घयोस्ततः ।
स्फिठो च पत्तनरोः पश्चात् चरणाङ्गुलयोर्द्वयोः ॥
ककारास्तान्न्यसेद्वर्णान् स्थानेष्वेतेषु देशिकः ।
काञ्च्यां ग्रैवयके कण्ठे हृदि गुह्ये न्यसेत् पुनः ॥
कर्णयोर्गण्डयोर्मौलौ वदनं रक्षसान्महौ ।
विन्यसेद्विधिना वर्णान् कामबीजादिकानथ ॥
मायाद्या पुटितान् कृत्वा प्रतिलोमानुलोमतः ।
तत्त्वन्यासं ततः कुर्यात् विधिनानेन देशिकः ॥
(प्. ६९ब्) यत्तत्त्वन्न्यासमात्रेण तत्त्वज्ञानं प्रजायते ।
मादिकास्तं न्यसेद् देहे प्रतिलोमेन देशिकः ॥
यादिक्षान्तं ततः कुर्यात् पश्चाद्वक्ष्यामि तत्त्वतः ।
प्रणवायं कामाद्यञ्च मायाकूर्चादिकं पुनः ॥
यथास्थाने न्यसेद्वर्णान् विधिनानेन देशिकः ।
सानुस्वारं नमोऽन्तञ्च यथास्थाने च देशिकः ॥
परं शब्दं चतुर्थ्यन्तं यथास्थाने च देशिकः ।
(परं शब्दं चतुर्थ्यन्तं) जीवात्मानं मकारञ्च सर्वाङ्गे चिन्तयेत्
ततः ।
प्राणात्मने भकारश्च सर्वाङ्गे चिन्तयेत् स्वयम् ।
बुद्ध्यात्मने वकारश्च हृदये चिन्तयेत् स्वयम् ॥
अहङ्कारे ककारश्च पकारो मनसि स्थितः ।
हृदये तु तत्र न्यसेद्विधिनानेन देशिकः ॥
परशब्दार्थशब्दश्च सर्वत्र परिचिन्तयेत् ।
शब्दात्मने नकारश्च (पादयुग्मे) मस्तके विन्यसेत् सदा ॥
स्पर्शात्मने धकारश्च मुखे न्यासं समुद्धरेत् ।
रूपात्मने दकारश्च हृदये परिचिन्तयेत् ॥
रसात्मने थकारश्च लिङ्गे च विन्यसेत् ततः ।
गन्धात्मने तकारश्च पादयुग्मे न्यसेत् ततः ॥
श्रोत्रात्मने णकारश्च विन्यसेत् त्वचि पार्वति ।
चक्षुरात्मने डकारश्च चक्षुयोः परिचिन्तयेत् ॥
जिह्वात्मने ठाकरश्च जिह्वायां विन्यसेत् पुनः ।
घ्राणात्मने टकारश्च नासिकायां विचिन्तयेत् ॥
वागात्मने ञकारश्च वाचि न्यासं समुद्धरेत् ।
पुण्यात्मने ऋकारश्च हस्तयुग्मे न्यसेत् ततः ॥
पद्मात्मने जकारश्च पायुदेशे न्यसेत् क्रमात् ।
पादात्मने हाकरश्च पत्स्थाने विन्यसेत् ततः ॥
उपस्थात्मने चकारश्च उपस्थे च प्रविन्यसेत् ।
व्योमात्मने ङकारश्च मूर्द्ध्नि विन्यासमाचरेत् ॥
रागात्मने घकारश्च मथदेशे न्यसेत् क्रमात् ।
तेजसात्मने गकारश्च हृदिन्यासं समाचरेत् ॥
जलात्मने थकारश्च गुह्यदेशे न्यसेत् क्रमात् ।
पृथिव्यात्मने काकारश्च पादयोर्विन्यसेत् ततः ॥
यादिक्षान्तं न्यसेत् तद्वत् योगेन विधिनामुना ।
पुरुषात्मने सङ्कर्षणाय यकारं हृदये न्यसेत् ॥
विश्वात्मने प्रद्युम्नाय रकारं हृदये द्वयम् ।
निवृत्त्यात्मनेऽनिरुद्धाय लकारं विन्यसेत् * * ॥
सर्वात्मने नारायणाय वकारं हृदये पुनः ।
सोमण्डलत्रययुक्ताय कला षोडशसंयुतम् ॥
यकारं विन्यसेद् देहे हृदये तन्त्रसम्मतम् ।
परमेष्ठात्मने वासुदेवाय हृदये न्यसेत् पुनः ॥
शुक्रात्मने सकारश्च विन्यसेद् विधिनामुना ।
सूर्याय हृदिनिर्दिष्टं हकारं तन्त्रसम्मतः ॥
कोपात्मने नृसिंहाय सर्वाङ्गे त्वचि विन्यसेत् ।
क्षकारं सर्ववर्णेषु व्यापकः परिकीर्तितः ॥
तत्वन्यासमिदं प्राहुर्न्यासतत्वविदो जनाः ।
अस्या विन्यासवर्गाणि न सिद्धिः स्यात् कथञ्चन ॥
एवं समुच्चार्य षोढान्यासं ततो दिशेत् ।
पश्चाद्वक्ष्यामि देवेशि षोढान्यासं ततः परम् ॥
एवं न्यासतनुं कृत्वा यजेद् देवीं सनातनीम् ।
अनङ्गानङ्गमदना कामेश्वरी ततः परम् ॥
(प्. ७०) भगमालिनी भगा चैव पूजयेत् शक्तयस्थिमाः ।
अथवा इच्छाद्या एव शक्तीः सर्व्तन्त्रसमन्विताः ॥
रतिरतिप्रिया नन्दा पूजयेद् यः क्रमादिमाः ।
वरदाभयधारिण्यः प्रधानतनवस्त्रियः ॥
देव्यङ्गे पूजयेत् सर्वा देव्या भूषणभूषिता ।
कामबीजादिकाः सर्वा नमोन्तात्तन्त्रसंयुताम् ॥
चित्स्वरूपां वदेत् ङेन्तां विद्महे तदनन्तरम् ।
जालन्धरीं समुच्चार्य धीमहि तदनन्तरम् ॥
तन्नो देवी समुद्धृत्य वदेद् देवि प्रचोदयात् ।
एषा स्यान्मन्त्रराजन्य गायत्री शिवसम्मता ॥
(कामादिकां जपेद्वापि) मायाद्यां वा जपेद्विद्यां
धर्मकामर्थसिद्धये ।
कूर्चाद्यां वा यजेद्विद्यां वधूबीजादिकापि वा ॥
सर्वेषां मन्त्रविद्यानां गायत्री परिकीर्तित्का ।
ओङ्काराद्या नमोन्ता व विद्या आसनभेदके ॥
सदाशिवं वदेत् ङेन्तं महाप्रेतपदं ततः ।
देव्यासनं चतुर्थ्यन्तं तदन्ते हृदयं पुनः ॥
मन्त्रमासनदाने तु कथितं पद्मयोनिना ।
कामबीजादिकाः पूज्या शक्तयः शुभदायकाः ॥
आसनस्य चतुर्दिक्षु पूजयेद् यो विधानतः ।
वामकोणे यजेद् यन्त्रे रतिबिन्दुसमप्रभाम् ॥
नतिपाशधरां सौम्यां मदविह्वलविह्वलाम् ।
प्रीतिं दक्षिणकोणस्थां तप्तकाञ्चनसमप्रभाम् ॥
अङ्कुशं प्रणतिर्दोर्भ्यां धारयन्तीं समर्चयेत् ।
अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलङ्कृताम् ॥
इक्षे कार्म्मुकपुष्पेषु धारयन्तीं समर्चयेत् ।
षट्कोणे पूजयेद् देव्या हृदयाद्यङ्गदेवता ॥
सर्वेषां मन्त्रयन्त्राणां दक्षिणा मूर्तिसंज्ञकः ।
अथवा सर्वविद्यानां महादेव ऋषिः स्मृतः ॥
एवं सम्पूज्य विधिवत् स्तवैरुच्चारणैस्तवेत् ।
मद्यैर्मांसैश्च वटकैः सुपपूपैश्च
शाकैर्मयैर्महिषैर्गवयैर्गाभिरुष्ट्रेः शिवाभिः ।
सोंहैर्व्याघ्रैश्च वेधकैः शकुलिभिव्वनाञ्जनैरश्च शल्यैर्हरणैः ।
शूकैर्नरपशुपशुभिर्मत्स्यामांसैश्च नित्यम् ।
यद्यन्नित्यं कथयति सदा मानवाः स्वर्गरूपास्तत्तत्त्वन्यं कथयति
स्वाराः शङ्करः शङ्करायाः ।
तत्तत्सर्वं हरवधुजनैः पूजयेत् पूजयित्वा ।
विद्यां सिद्धिर्न भवति सदा कीर्तिता नारदाद्यैः ॥
दग्धमीनं भ्रष्टञ्च सिक्यञ्च लेह्ययं पेयम् ।
मकारपञ्चकैर्देवीं पूजयेद् यः सदा बुधैः ॥
स्वयम्भुकुसुमैः शुक्रैः परशक्तौ विशेषतः ।
पूजयित्वा जपित्वा च चतुर्वर्गं लभेत् सदा ॥
वर्णलक्षं पुरश्चर्या विधिनानेन यो जपेत् ।
करस्थाः सिद्धयः सर्वा भविष्यन्ति कलौ युगे ॥
अथ वक्ष्ये महेशानि यन्त्रराजं सुशोभनम् ।
यं ज्ञात्वा साधकाः सर्वे लभन्ते शिवमुत्तमम् ॥
त्रिकोणं बिन्दुसंयुक्तं विलिखेत् पुरतः सदा ।
षट्कोणं नवकोणञ्च नवकोणं ततः परम् ॥
प्रतिलोमानुलोमेन योन्याकारं ततः परम् ।
रजःसत्वतमो रेख साष्टपत्रं सकर्णिकम् ॥
(प्. ७०ब्) भूपूरं गुणरेखच्यं विलिखेद् विधिनामुना ।
भदन्ते मण्डलं कुर्यात् योन्याकारं सुशोभनम् ॥
तन्मध्ये पूजयेद् देवीं स्वकीयगणसंयुताम् ।
वलिदानमवश्यं हि प्रक्षिपेत् साधकोत्तमः ॥
वलिदानं विना यस्तु सुन्दरीं परिपूजयेत् ।
मांसास्थिमज्जा तस्यापि दापयेत् सा सुशोभना ॥
स्वयम्भुकुसुमैः शुक्रैः पूजयेत् परदेवताम् ।
सुगन्धिकुसुमैः शुक्रैः सुगन्धिकुसुमन्वितैः ॥
पूजयेत् परया भक्त्या गन्धपुष्पान्नवारिभिः ।
अन्नाभावे यथा रुष्टा गृहिणी गृहपालके ॥
वलिं शक्तिं विना रुष्टा सा भवेद्भवसुन्दरीम् ।
योनिकुण्डे यजेद् यन्त्रं रक्तपुष्पैर्विशेषतः ॥
युगाचारं न नित्ये तत् कर्तव्यं कथितं मया ।
निशाभागे श्मशाने च प्रान्तरे शून्यमन्दिरे ॥
स्वशक्त्या प्रजपेद् विद्यां चतुर्वर्गफलाप्तये ।
कुमारीं पूजयेन्नित्यं कुमारीञ्च स्तवेत् सदा ॥
सिन्दूररक्तवस्त्रैश्च * * * * सुभूषणैः ।
कुत्सितां वा सुवेशां वा पूजयित्वा विधानतः ॥
देवीबुद्ध्या भोजयित्वा नमस्कृत्य विसर्जयेत् ।
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य विज्ञानमात्रेण देवी दर्शनगोचरा ॥
प्रातःकाले च मध्याह्ने सायाह्नेऽर्द्धरात्रके ।
गुरुं प्रणम्य विधिना कवचं प्रपठेन्नरः ॥
पुरस्तात् पार्श्वयोः पार्श्वे नमस्कुर्यादुपर्यधः ।
सहस्रपत्रकमले सुन्दरीं चिन्तयेत् सदा ॥
पाशाङ्कुशौ वराभयौ धारयन्तीं सरां भजे ।
वर्णानां देवताः स्मृत्वा प्रपठेत् कवचं सुधीः ॥
ककारे पातु मां देवी कामिनी कामदायिनी ।
एकारे पातु मां देवी शक्तिरूपा महेश्वरी ॥
इकारे पातु मां देवी बिन्दुमाली शुभानना ।
मकारे पातु मां देवी इन्द्राणी सर्वसिद्धिदा ॥
हकारे पातु मां देवी आकशवासिनी शिवा ।
रकारे पातु मां देवी सर्वाङ्गे वह्निरूपिणी ॥
इकारे पातु मां देवी माया नित्यास्वरूपिणी ।
नादबिन्दुयुता पातु देवी विश्वेश्वरी शुभा ॥
एतेर्वर्णैः सदा पातु वाग्भवी वाग्विशुद्धये ।
आमूर्द्ध्नि कठपयन्तं वाग्भवी पातु मां सदा ॥
हकारे पातु मां देवी शिवा सिद्धिप्रदायिनी ।
सकारे पातु मां देवी सावित्री शर्मदायिनी ॥
ककारे पातु मां देवी कामिनी कामदायिनी ।
हकारे पातु मां देवी हरार्द्धाङ्गनिवासिनी ॥
एभिर्वर्णैः सदा पातु कामरूपेश्वरी सदा ।
आकण्ठाल्लिङ्गपर्यन्तं कामराजेश्वरी वतु ॥
सकाअरे शातु मां देवी सावित्री शर्मदायिनी ।
ककारे पातु मां देवी कामिनी कामदायिनी ॥
नकारे पातु मां देवी सर्वकर्मफलप्रदा ।
हकारे पातु मां देवी हरार्द्धाङ्गस्वरूपिणी ॥
(प्. ७१) वकारे पातु मां देवी मायामारी शिवप्रिया ।
इकारे पातु मां देवी मायासर्वसमृद्धिदा ॥
बिन्द्वीश्वरी सदा पातु नादबिन्दौ विशेषतः ।
एतैर्वर्णैः सदा पातु शक्तिरूपा सुरेश्वरी ॥
आनाभि पादपर्यान्तं पातु मां शक्तिरूपिणी ।
वाग्भवी पातु सर्वाङ्गे वाग्भवी रक्षयेत् सदा ॥
कामराजेश्वरी पातु कामेश्वरी सदावतु ।
शक्तिरूपा सदा पातु शक्तिरूपा सदावतु ॥
शास्त्रे वादे च सङ्ग्रामे जने च विमले गिरौ ।
सर्वत्र पातु मां देवी वाग्भवी शर्मदायिनी ॥
राजस्थाने दुर्गमे च नौकायां शङ्कटेषु च ।
सुरार्चने शत्रुमध्ये विषवह्निभयादिषु ॥
सर्वत्र पातु मां देवी कामराजेश्वरी शिवा ।
श्मशाने गिरिदुर्गे च शङ्कटे निगडवन्धने ॥
यत्र यत्र भये प्राप्ते पातु मां शक्तिरूपिणी ।
शिखायां भूयुगे चाक्ष्नोर्गण्डयोर्नसि कर्णयोः ॥
ओष्ठयोर्दन्तपङ्क्तौ च जिह्वायां वदने तथा ।
ग्रीवायां स्तनयुग्मे च हस्तयोः पार्श्वयोः पुनः ॥
पृष्.ठे नाभौ हृदि कुक्षौ लिङ्गे गुह्ये पदद्वये ।
जिह्वारां जानुचक्रे च सर्वत्र पादसन्धिषु ॥
पूर्वस्यामग्निकोणे च याम्ये च नैर्-ऋते तथा ।
वारुण्यां वायुदेशे च सौम्यामीशानदेशके ॥
अधः ऊर्द्धक्रमेणैव पातु श्रीः सर्वतोमुखी ।
पातु देवी महेशानि श्रीविद्या श्रीप्रसिद्धये ॥
इच्छा पातु सदा ज्ञाना क्रिया पातु सदा मम ।
कामिनी पातु मां देवी पातु मां कामदायिनी ॥
रतिः पातु सदा जङ्घे रतीदेवी रतिप्रिया ।
योगिन्यः पान्तु सततं खेचर्यः पान्तु सर्वदा ॥
भूचर्यः पान्तु सततं पान्तु पातालगामिनः ।
चरस्थाः सर्वदा पान्तु पर्वतस्था सदावतु ॥
श्मशानस्थाः सदा पान्तु पातु मां विन्ध्यवासिनी ।
आकाशवासिनी पातु पातु मां शूलधारिणी ॥
अस्त्रशस्त्रमयी देवी सर्वशक्तिस्वरूपिणी ।
सर्ववर्णमयी देवी सर्वशक्तिस्वरूपिणी ॥
सर्वाभावे स्वरूपाया सर्वबीजेषु संस्थिता ।
सर्वत्र पातु मां देवी श्रीविद्या श्रीस्वरूपिणी ॥
सर्वतन्त्रमयी देवी सर्ववेदमयी तथा ।
सर्वज्ञानमयी पातु सर्वनित्या नगात्मजा ॥
आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका ।
सर्वत्र पातु मां देवी श्रीविद्या श्रीप्रसिद्धये ॥
इदं कवचमित्युक्तं मन्त्रोद्धारञ्च पार्वति ।
यः पठेत् प्रयतो भूत्वा त्रिसन्ध्ये नियतः शुचिः ॥
तस्य सर्वार्थसिद्धिः स्यात् यद् यन्मनसि वर्तते ।
गोरोचनाकुङ्कुमेन यावकै रक्तचन्दनैः ॥
स्वयम्भुकुसुमैः शुक्रैर्भूमिपुत्रे शनैश्चरे ।
श्मशाने प्रान्तरे वापि शून्यावासे तथालये ॥
सशक्त्या गुरुणा मन्त्रं पूजयित्वा कुमारिकाम् ।
यद् योनौ पूजयित्वा च गुरुपत्न्या विशेषतः ॥
पूजयित्वा विधृत्वा स्तुत्वा च विधिनामुना ।
धारयेद् गुरुणा यन्त्रं गुरुपत्नीं प्रतोष्य च ॥
(प्. ७१ब्) देव्यै वलिं निवेद्याथ नरमार्जारमूषकैः ।
कुक्कुटैर्महिषैर्मेषैः पूजयित्वा विधानतः ॥
धृत्वा सुवर्णमध्यस्थं कण्ठे वा मस्तके भुजे ।
सुतिथौ शुभनक्षत्रे सुराशेरुदये तथा ॥
धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः ।
कवचस्य तु माहात्मां नाहं वर्षशतैरपि ॥
शक्नोमि तु महेशानि वक्तुं तस्य फलञ्च यत् ।
नास्ति चौरभयन्तत्र नास्ति व्याधिभयञ्च यत् ॥
न दुर्भिक्षभयं तत्र न दस्योत्पीडनं तथा ।
सर्वविघ्नप्रशमनं सर्वशान्तिकरं परम् ॥
सर्वमृत्युप्रशमनं सर्वव्याधिविनाशनम् ।
सर्वरक्षाकरं जन्तोश्चतुर्वर्गफलप्रदम् ॥
यत्र तत्र न वक्तव्यं न दातव्यं कदाचन ।
मन्त्रं प्राप्य विधानेन प्रजपेत् सततं सुधीः ॥
तत्रापि दुर्लभं मन्ये कवचं देवरूपिणम् ।
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ॥
तत्रापि दुर्लभं दिव्यं दुर्लभं भुवनत्रये ।
श्लोकं वा पादमेकं वा यः पठेत् प्रयतः शुचिः ॥
तस्य सर्वार्थसिद्धिः स्यात् शङ्करेण च भाषितम् ।
गुरुर्देवो हरः साक्षात् पत्नी तस्य हरप्रिये ॥
अभेदेन यजेद् यस्तु तस्य सिद्धिरदूरतः ।
वादी मूकति पोषकस्तरयति क्ष्मावल्लभो दासते गुर्वी खर्वति सर्वविज्जडयति
वैश्वानरः शीतति ।
आचाराष्टकसिद्धिरूपमपरं सिद्धाष्टकं तद् भजे ।
तां वन्दे भवभीतिनाशनकरीं शम्भुप्रियां सुन्दरीम् ॥
इति श्रीविश्वसारतन्त्रे श्रीमत्रिपुरसुन्दरी श्रीविद्याकवचं समापतम् ॥
(क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ।
यस्य विज्ञानमात्रेण साक्षान्नारायणो भवेत् ॥
ब्राह्मे मुहुर्ते उत्थाय इत्यादि ।)
अथ वक्ष्ये महाविद्या नाम्ना त्रिपुरपूर्विका ।
भैरवी सर्वसिद्धाख्या चतुर्वर्गफलप्रदा ॥
आनन्दरूपिणी देवी सर्वविघ्नविनाशिनी ।
नित्या सा मूलप्रकृतिः सर्वतन्त्रसमन्विता ॥
अस्या विद्या समो नास्ति त्रैलोक्यसुरदुर्लभा ।
धर्मार्थकामदा विद्या सर्वशत्रुविनाशिनी ॥
देवैर्देवत्वविषये गन्धर्वैर्गन्धमाप्नुयात् ।
कामिभिर्धनिभिश्चैव स्वमूर्धानञ्च मुक्तिदा ॥
मन्त्रोद्धरमहं वक्ष्ये शृणुष्व कमलानने ।
शिवबीजं समुद्धृत्य वहिन्चन्द्रसमन्वितम् ॥
द्वादशस्वरसंयुक्तं उद्धरेत् परमेश्वरि ।
बिन्दुनादसमायुक्तं वाग्भवं परिकीर्तितम् ॥
स्थितिक्रमेण कथितं कामराजञ्च कथ्यते ।
ककारं चन्द्रबीजाढ्यं शिवबीजं तदुर्द्धकम् ॥
इन्द्रबीजं ककारस्थं वह्निबीजं ततः परम् ।
रतिबिन्दुसमारूढं कामराजमिदं स्मृतम् ॥
चन्द्रबीजं शिवादिस्थं वह्निबिन्दुविभूषितम् ।
(प्. ७२) मनुस्वरसमारूढं संसर्ग परिकीर्तितम् ॥
एषा श्रीं सर्वविद्यानां प्रधानं परिकीर्तितम् ।
नवनीतं यथा दध्नो द्विपादोर्ब्राह्मणो यथा ॥
नदीनाञ्च यथा गङ्गा देवानाञ्च यथा हरिः ।
वैष्णवानां यथा श्म्भुस्तथेयं परिकीर्तिता ॥
पूर्ववन्न्यासवर्नं स्यात् पूर्ववत् पूजनं स्मृतम् ।
सुन्दर्या इव पूजा स्यात् कथिता पद्मयोनिना ॥
नवयोन्यात्मके यन्त्रे रत्यादिशक्तिसंयुते ।
ब्रह्माद्या मातरः पूज्या पत्राणां विवरे पुनः ॥
भूपुरे लोकपालाश्च तदस्त्राणि च तद्वहिः ।
पूजयेत् परया भक्त्या सुन्दरिवद्वरानने ॥
गुणैर्लक्षञ्च भैरव्याः पुरश्चरणमिरितिम् ।
लक्षत्रयं जपेन्मन्त्रं पुरश्चरणकर्मणि ॥
रक्तवस्त्रपरीधानां नानालङ्कारभूषिताम् ।
पाशाङ्कुशौ वराभयौ धारयन्तीं यजेत् शिवाम् ॥
यथाचारेण त्वां देवीं सुन्दरीवत् प्रपूजयेत् ।
मुण्डमालां परिधानामरक्तनयनां शिवाम् ॥
सदाशिवमहाप्रेतहृअदयोपरि संस्थिताम् ।
त्रिभङ्गस्थानसंस्थानां पीनोन्नतपयोधराम् ॥
अनङ्गाद्या महाशक्तिः सेवितां सुमनोहराम् ।
यथाचारेण तां देवीं सुन्दरीवत् प्रपूजयेत् ॥
वलिदानैर्विना होमैर्विना ब्राह्मणभोजनैः ।
पूजयेद्भैरवीं देवीं त्रिपुरामपि गोपिताम् ॥
वाग्भवं बिन्दुसंयुक्तं लोहितेन लङेयुतम् ।
श्रीकण्ठोलोहितन लङेयुतं परिकीर्तयेत् ॥
सदाशिवमहाप्रेत हेसौ ङेयुतं परिकल्पयेत् ।
ओङ्काराद्या नमोऽन्तञ्च हृदेद्देव्यासनन्ततः ॥
स्वयमासदानेन कथितं पद्मयोनिना वाग्भवं त्रिपुरादेवी
विद्महेपदमुद्धरेत् ।
कामेश्वरीं समुद्धृत्या वदेद्धीमहितत् परम् ।
तन्नः क्लिन्नः समुद्धृत्य तदा ब्रूयत् प्रचोदयात् ॥
गायत्रीयं समाख्याता त्रिपुरा पूजने प्रिये ।
वाग्भवाद्यां जपेद्वापि कामाद्यां वा जपेत् सदा ॥
चतुर्लक्षं पुरश्चर्यां प्रजपेत् सततं मनुम् ।
गायत्रीमजपित्वा च यदि विद्यां जपेत् सुधीः ॥
सिद्धिर्न जायते विद्या कल्पकोटि शतैरपि ।
सर्वासां मन्त्रविद्यानां गायत्री परिकीर्तिता ॥
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
अस्याः प्रसादमात्रेण भवेद् देवो न संशयः ॥
ऋषिः स्याद् दक्षिणा मूर्तिश्छन्दः पङ्क्तिरुदाहृतम् ।
गन्धर्वोऽत्र सुरः प्रोक्तः सर्वतन्त्रसमन्वितः ॥
सर्वेषां मन्त्रवर्णानां ऋषिन्यासं पुराकृतम् ।
श्री ईश्वर उवाच ।
अथोच्यते महाविद्या भैरवी त्रिपुरान्विता ।
यष्या विद्या प्रसादाच्च चतुर्वर्गं लभेन्नरः ॥
हकारे पातु मां देवी सर्वत्र हरवल्लभा ।
चन्द्रबीजस्थिता पातु सावित्री ज्ञानरूपिणी ॥
बुद्धिरूपा सदा पातु मायारेफसमुद्भवा ।
ऐकारे वाग्भवी पातु देवीवाक्यविशुद्धये ॥
(प्. ७२ब्) बिन्दुनादस्वरूपा मां पातु देवी उमा प्रिया ।
एभिर्वर्णैर्महादेवी वाग्भवी पातुमस्तके ॥
हकारे व्योमरूपा सा देवी पातु शिवप्रिया ।
चन्द्रबीजस्वरूपा मां पातु चान्द्रि शिवप्रिया ॥
ककारे पातु मां देवी कामिनी कामदायिनी ।
लकारे पातु मां देवी इन्द्रानी शत्रुनाशिनी ॥
वह्निरूपा सदा पातु वकारे शत्रुनाशिनी ।
कलास्वरस्वरूपा मां इकारे पातु सर्वदा ॥
बिन्दुनादस्वरूपा मां पातु त्रिभवमोचनी ।
एतैर्वलैर्महामाया कामबीजप्रियावतु ॥
औकारे पातु मां देवी मनुवंशविवर्द्धिनी ।
बिन्दुनादस्वरूपा मां हरदेहसमाश्रया ॥
सर्वान्ते पातु देवेशी सर्वासुरविनाशिनी ।
एतैर्वर्णैः सदा पातु सर्वाङ्गे हरसुन्दरी ॥
शक्तिरूपा महामाया सर्वशक्तिषु पातु माम् ।
भैरवीरूपमाश्रित्य पार्श्वयुग्मे सदावतु ॥
दक्षिणामुर्तिर्मां पातु ऋषिः सर्वत्र मस्तके ।
पङ्क्तिश्छन्दःस्वरूपा मां पातु देवी शिवप्रिया ॥
सुरागार्धर्वरूपा च पातु त्रिपुरभैरवी ।
जिह्वायां सर्वदा पातु सर्ववाक्यविशुद्धये ॥
मुलाधारे सदा पातु रतिरूपा महेश्वरी ।
हृदये पातु मां देवी प्रीतिरूपा भयापहा ॥
भ्रूयोर्मध्ये सदा पातु देवीनाम्ना मनोभवा ।
कर्णयुग्मे सदापातु अमृतेशी हरप्रिया ॥
कण्ठदेशे महेशानि विश्वगेशी सदावतु ।
वक्त्रे मां पातु देवेशी कुमारयोगयोगतः ॥
तत्पुरुष-मकरध्वजभ्यां हृदये पातु सर्वदा ।
सर्वत्र भैरवी पातु देवी विघ्नकुले सदा ॥
कन्दर्पघोररूपाभ्यां महामाया सदावतु ।
काममन्मथ-युग्माभ्यां गृहे पातु महेश्वरी ॥
पादयुग्मे महेशानि पातु विघ्नविनाशिनी ।
शत्रु मध्ये सदा पातु देवीवंऽसविवर्द्धिनी ॥
सद्योजातकामदेवाभ्यां सर्वत्र पातु भैरवी ।
वाणरूपा सदा द्राविणी सर्वशङ्कटे ॥
क्षोभिनी पातु मां देवी सर्वत्र क्षोभनाशिनी ।
आकर्षिणी सदा पातु माया सर्वभयापहा ॥
सम्मोहिनी सदा पातु शत्रु मध्ये महेश्वरी ।
सुभगा पातु भवने देवी सौभाग्यवर्द्धिनी ॥
भगरूपा महामाया भगे मां सर्वदावतु ।
भगसर्पिणी सदा पातु व्यवहारे महेश्वरी ॥
भगमालिनी सदा पातु राजद्वारे च शङ्कटे ।
अनङ्गा कुसुमा पातु जलमध्ये भयापहा ॥
अनङ्गा पातु मां देवी दुर्गे दुर्गतिनाशिनी ।
अनङ्गमेखला देवी पर्वते पातु मां सदा ॥
अनङ्गामादना पातु प्रान्तरे हरवल्लभा ।
इच्छारूपा सदा पातु सर्वत्र वेदवादके ॥
ज्ञानरूपा महामाया शास्त्रे वादे सदावतु ।
क्रियारूपा सदा पातु महेशी धर्मकर्मसु ॥
कामिनी पातु मां देवी सर्वकामसमृद्धिदा ।
मां पातु सर्वकार्येषु देवी कामप्रदायिनी ॥
(प्. ७३) रतिर्मां पातु देवेशि राजद्वारे च शङ्कटे ।
रतिप्रिया महामाया योषितां सङ्गमेऽवतु ॥
आनन्दा पातु मां देवी सर्वत्र भयनाशिनी ।
मनोन्मनी सदा पातु व्यवहारे सुरेश्वरी ॥
सदाशिवप्रिया पातु देवी वाग्भवरूपिणी ।
योगमार्गे सदा ध्येया यागध्येया सदावतु ॥
उन्मत्तरूपा मां पातु श्मशाने विघ्ननाशिनी ।
कपालिनी पातु मां देवी सर्वत्र भयनाशिनी ॥
भीषणा पातु मां देवी सर्वकर्मषु सर्वदा ।
संहारिणी सदा पातु विवादे शत्रुमध्यतः ॥
ब्रह्माणी पातु मां देवी स्वर्गे ब्रह्मस्वरूपिणी ।
महेश्वरी महामाया प्रान्तरे सर्वदावतु ॥
कौमारी पातु मां देवी क्रीडायां शम्भुवल्लभा ।
जलमध्ये महेशानी वाराही पातु मां सदा ॥
इन्द्राणी पातु मां देवी देवानां भयनाशिनी ।
चामुण्डा पातु मां देवी अरण्ये भयनाशिनी ॥
अरुणा भैरवी देवी गृहे रक्षतु मां सदा ।
मुण्डमाला धरा देवी क्षुधायां पातु सर्वदा ॥
चतुर्भुजा महामाया पाताले पातु मां सदा ।
त्रिनेत्रा मां सदा पातु वह्निमध्ये भयापहा ॥
नानालङ्कारसंयुक्ता पातु सर्वभयापहा ।
शवरूपमहादेवहृदयस्था सदावतु ॥
सर्वाङ्गं सुन्दरी पातु सर्वाङ्गे त्रिपुरात्मिका ।
त्रिपुरा सर्वदा पातु भैरवी सर्वदावतु ॥
इति ते कथितं दिव्यं कवचं सर्वकामदम् ।
भूतिकरं भीतिहरं मृत्युहरं शान्तिकरम् ॥
भवभञ्जनं सिद्धिकरं वृद्धिकरं अर्थकरम् ।
कवचस्य तु माहात्म्यं नाहं वर्षशतैरपि ॥
शक्नोमि तु महेशानि वक्तुं तस्य फलञ्च यत् ।
पुजाजपस्तुतिफलं कवचेन लभेन्नरः ॥
शठाय भक्तिहीनाय निन्दकाय महेश्वरी ।
उनाङ्गे व्यतिरिक्ताङ्गे त्रुरे मिथ्याभिभाषणे ॥
न स्तवं दर्शयेद् दिव्यं सन्दर्शा शिवहा भवेत् ।
यत्र तत्र न वक्तव्यं कवचं देवरूपिणम् ॥
अशुचौ शुचौ वापि सर्वकालं पठेन्नरः ।
अणिमादिमहासिद्धि स्तस्य सेवा विधीयते ॥
गोरोचनाकुङ्कुमेनण भूर्यपत्रे महेश्वरि ।
यावकै रक्तचन्दनैः स्वरम्भु कुसुमैरपि ॥
लिखित्वा स्वर्णशलाकया मस्तके वा भूजेधरे ।
वर्तुलाकाररूपेण तस्य सिद्धिरचञ्चला ॥
मस्तके वापि सव्ये वा दक्षिणे वा भूजेधरे ।
स स्नानात् सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥
कवचं यस्य देहीयं तस्य सिद्धिवदुरतः ।
निऽसायां विलिखेद् यस्तु शून्यावासे तथा गृहे ॥
निशाभागे लिखेद् यन्त्रं शुचिर्भूत्वा महेश्वरी ।
आदितामङ्गलदिने गुरौ शुक्रे महेश्वरी ॥
ध्यायेद् गुरुणा यन्त्रं सर्वसम्पत् करं शुभम् ।
अष्टम्यां वा नवम्यां वा चतुर्दश्यामथापि वा ॥
निशायाम्तु लिखेद् यन्त्रं तस्य सिद्धिरचञ्चला ।
दशम्याञ्चापि षष्त्यां वा लिखेद् यत्नेन देशिकः ॥
सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ।
(प्. ७३) मीनराशौ गुरगते वृश्चिकस्थे शनिश्चरे ॥
लिखित्वा धारयेद् यन्त्रमुत्तराभिमुखी भवान् ।
श्मशाने प्रान्तरे वापि शून्यावासे प्रयत्नतः ॥
निशायान्तु लिखेद् यन्त्रं तस्य सिद्धिरचञ्चला ।
वादी मुकोभवेद् दृष्ट्वा राजाचारः समारभेत् ॥
गर्वी खर्वो भवतोव सर्वबीज्जडतामियात् ।
वैश्यानरो भवेत् शीतः सर्वत्र जयतामियात् ॥
कवचस्य च माहात्म्यं नहि शक्नोमि वेदितुम् ।
स्तवपूजा जपफलं कवचे गदितं मया ॥
तस्मात् सर्वं प्रयत्नेत कवचं प्रपठेन्नरः ।
अचिराद्वाञ्छितं प्राप्य खेचरो भवति ध्रुवम् ॥
पठति य इह मर्त्यो नितामार्द्रास्तरात्मा जपफलमनुमे यं लप्सतेऽसौ
विधेयम् ।
स भवति पदमुच्चैः सम्पदां पादमाशु क्षितिपदमुकुट
लक्ष्मीर्लक्ष्मीवान् स चिरायुः ॥
इति शान्तिकवचं स्तोत्रं शङ्करेण च भाषितम् ।
नातःपरतरा विद्या नातः परतरो मनुः ॥
नातः परतरा विद्या तीर्थं नातः परं तरम् ।
यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ॥
लयमेष्यति तत्सर्वं लयकामे महेश्वरी ।
नमामि त्रिपुरां देवीं भैरवीं भवमोचनीम् ॥
सर्वसिद्धिकरं साक्षात् महापातकनाशनम् ।
अस्य श्रीत्रिपुरानामभैरवीसहस्रनामस्तोत्रस्य भगवान् शिव ऋषिः
पङ्क्तिश्चन्द आद्या शक्तिर्भगवती त्रिपुरभैरवी देवता सर्वसमृद्धिसिद्धये
विदियोगः ।
ओं त्रिपुराभैरवीशानी योगसिद्धिनिवासिनी ।
सर्वमन्त्रमयी देवी सर्वशक्तिफलप्रदा ॥
सर्वाधारमयी देवी सर्वसम्पत् प्रदा शुभा ।
योगिनी योगमाता च योगसिद्धिप्रवर्तिनी ॥
योगध्येया योगमाता योगायोगविलासिनी ।
लीला हेला तथा क्रीडा कालरूपप्रवर्तिनी ॥
कालमाता कालरात्रिः काली कमलवासिनी ।
कमला कान्तिरूपा च कामराजेश्वरी क्रिया ॥
कुहूः कपटरूपा च कपटा कपटाकृतिः ।
कुमदा चर्चिका कान्ता कालरात्रिः प्रिया सदा ॥
घोररावा घोररूपा रणदा च घृणा कृपा ।
घर्घरा घोरिणी घुर्णा घोरनादप्रिया सदा ॥
घोराकारा च भावाढ्या भाव्या घर्घप्रदा मतिः ।
घण्टा घर्घरनादा च घण्टानादप्रिया सदा ॥
सुक्ष्मा सुक्ष्मतरा स्थुला अतिस्थुला महामतिः ।
क्षामा भावा तथा भीमा भीमनादप्रवर्तिनी ॥
भ्रमरूपा भयहरा भयदा भयनाशिनी ।
श्मशानवासिनी देवी श्मशानालयवासिनी ॥
शवासना शवाहारा शवदेहा शिवाशिवा ।
कण्ठदेशे शवाहारा शवकङ्कणमोहिनी ॥
दन्तुरा सुदती सत्याऽसत्या शङ्केतवासिनी ।
सत्यदेहा सत्यहरा सत्यवादविनाशिनी ॥
सत्याशया सत्यसंज्ञा सङ्गासङ्गविहारिणी ।
असङ्गासङ्गरहिता सुषुम्ना सङ्गमोहिनी ॥
माया मातर्महामाया महामदविलासिनी ।
(प्. ७४) मद्यपाना मदारता मद्यनिन्दकनाशिनी ॥
गलद्रुधिरमाला च सुक्कद्वयनिवासिनी ।
सदा नद्यमांसपाशी महामद्या सुमांसका ॥
मांसहरा मांसधरा मांसाशी मांसभक्षणा ।
रक्तपाना रक्तरुची रक्तास्या रक्तलोचना ॥
रक्तहरा रक्तप्रिया रक्तनिन्दकनाशिनी ।
रक्तपाना रक्तरुचि रक्तदेहा सुरक्तका ॥
स्वयम्भुकुसुमा स्वच्छा स्वयम्भुकुसुमात्सुका ।
स्वयम्भुकुसुमाहारा स्वयम्भुनिन्दनाशिनी ॥
स्वयम्भुपुष्पकप्रीता स्वयम्भुजन्मसम्भवा ।
स्वयम्भुपुष्पकहरा स्वयम्भुनिन्दकान्तका ॥
रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका ।
रक्तचन्दनसिक्ताङ्गी रक्तचन्दनवन्दका ॥
मत्स्या मत्स्यप्रिया माला मत्स्यभक्षा महोदया ।
मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी ॥
किङ्कराक्षी तथा क्रूरा क्रूरासत्यविनाशिनी ।
क्रूरान्ता कुलिशाङ्गी च वज्राङ्गी वज्रसम्भवा ॥
वज्रदेहा वज्रहा * (? ) वज्रकङ्कालवासिनी ।
निम्ननाभिभी *(? ) इहरा भयदा भयहारिणी ॥
भयप्रदा भयाभीमा सुभीमा भीमनादिनी ।
सुन्दरीशोभना सत्या क्षेमा क्षेमङ्करी तथा ॥
सिन्दूराञ्जितसीमन्ता सिन्दूरसदृशाकृतिः ।
मुक्तारञ्जितनासा च सुनासा निम्ननासिका ॥
स्वरा लम्बोदरी दीर्घा दीर्घघोणा महोत्कटा ।
कुटिला (चार्ववा) चण्डी चण्डनाभिचण्डिका ॥
अतिचण्डा प्रचण्डा च महाचण्डा चण्डवेगिनी ।
चण्डाली चण्डिका चाटुः शब्दरूपा चलाचमु ॥
चम्पा चम्पावती चौक्ष्ना तीक्ष्णप्रिया क्षितिः ।
जलदा जगदा योगा जगदानन्दकारिणी ॥
जगद्वन्द्या जगन्माता जगती जगतः क्षमा ।
जयो जया जनित्री च जयनी जयदा तथा ॥
जननी च जगद्धात्री जयाख्या जयरूपिणी ।
जगन्माता जगन्मान्या जया श्रीजयकारिणी ॥
जयनी जयमाता च जया च विजया जना ।
ख्ड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी ॥
खड्गरूपा खड्गधरा खड्गाङ्गी खड्गवल्लभा ।
खड्गदा खड्गमाया च खड्गदेहसमुद्भवा ॥
खड्गा खड्गधरा खेला खड्गिनी खड्गमुण्डली ।
शङ्खिनी चापिनी देवी वज्रिणी सुषणी मतिः ॥
रागिणी भिन्दिपाला च पाशी च अङ्कुशी शवी ।
धनुषी टङ्किनी चर्मी दन्ती च कर्पमालिका ॥
मुद्गरी हल्लरूपा च तूणी रणनिवासिनी ।
तृणालया तृणहरा तृणसम्भवरूपिणी ॥
अतृणा तृणरूपा च तूलाङ्गी तूलवल्लभा ।
नानास्त्रधारिणी देवी नाना अस्त्रसमुद्भवा ॥
लक्षालक्षहरा लाभा लाभदा लाभवासिनी ।
लाभहरा लाभकरा लाभिनी लाभरूपिणी ॥
धरित्री धनदा धन्या धन्यरूपा धरा धनुः ।
धन्विनी धनुःशब्दा च धनुर्मानी धनीधुना ॥
धुरशब्दा धनामान्या धन्याङ्गी धननाशिनी ।
धनुहा धनलाभश्च धनलभ्या महाधनुः ॥
सुशान्ता शान्तरूपा च श्वासमार्गनिवासिनी ।
गगणा गणसेव्या च गमनागमवर्द्धिनी ॥
गम्यदा गमनासी च गदहा गदवर्द्धिनी ।
(प्. ७४ब्) स्थैर्या च स्थैर्यनाशी च स्थैर्यान्तकारिणी कला ॥
दात्री च्छत्री प्रिया प्रेया प्रियदा प्रियवर्णिनी ।
प्रियहा प्रियभव्या च प्रियप्रेमा प्रियातनुः ॥
प्रियदा प्रियभव्या च प्रियस्य भवने स्थिता ।
सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्य वर्द्धिनी ॥
चञ्चला चपला चाला चपलाङ्गनिवासिनी ।
गौरी काली तथा छिन्ना माया मान्या महाप्रभा ॥
सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी ।
त्रिपुरनाशिनी देवी त्रिपुरप्राणनाशिनी ॥
भैरवी भैरवस्था च भैरवस्य प्रियातनुः ।
भैरवाङ्गी च भैरवकरी भैरवप्रियवल्लभा ॥
सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी ।
त्रिपुरनाशिनी देवी त्रिपुरप्राणनाशिनी ॥
भैरवी भैरवस्था च भैरवस्य प्रियातनुः ।
भैरवाङ्गी च भैरवकरी भैरवप्रियवल्लभा ॥
कालदा कालरात्रिश्च तथा कात्यायनी क्रिया ।
क्रियहा क्रियदा क्रैव्या क्रियप्राणक्रिया कथा ॥
ह्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः ।
प्रकृतिः पुरुषश्चैव पुत्राय पुन्नाम पुरुषाकृतिः ॥
पुरुषाङ्गी पूरुषी च तथा प्रकृतिरूपधृक् ।
परमपुरुषश्चैव रमा नारायणी सतिः ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा ॥
भैरवी चैव माहेशी कृष्णा कात्यायनीति च ।
राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा ॥
हंसिनी राकिनी भीता गन्धर्वी गन्धवाहना ।
केकरी कोटराक्षी च निर्मांसा शुष्कमांसिका ॥
ललज्जिह्वा सुजिह्वा च वाणदा वाणदायिनी ।
चन्द्रा चन्द्रप्रभा चन्द्री चन्द्रकान्तिषु तत्परा ॥
अमृता मानदा पूषा तुष्टिः पुष्टिः रतिर्धृतिः ।
शशिनी चन्द्रकान्तिर्ज्योत्स्ना श्रीः प्रीतिवर्गदा ॥
पूर्णा पूर्णामृता कल्पलतिका कल्पदाहना ।
सुकान्त्या कल्पहस्ता च कल्पक्षयकरी तनुः ॥
कल्पाख्या कल्पभव्या च कल्पवन्धकवन्धका ।
शुचीमूखी प्रेतमुखी उल्कामुखी महामुखी ॥
सूर्या सूर्य प्रभा सूर्यसूर्यमण्डलसंस्थिता ।
सूर्यकान्तिः * * * * सूर्याख्या सूर्यभावना ॥
तपनी तापिनी धूम्रा मरीचिर्जालिनी रुचिः ।
सुनन्दा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥
युगाद्या युगहा युग्या योग्यदा योग्यवर्द्धिनी ।
वह्निमण्डलमध्यस्था वह्निमण्डलवासिनी ॥
वह्निमण्डलरूपा च वह्निमण्डलसंज्ञका ।
वह्निप्रिया वह्निवर्गा वह्न्याहारा सुवर्तिनी ॥
वह्नितेजो वह्निवाणा वह्निदा वह्निनाशिनी ।
वह्निक्रिया वह्निभुजा काला वह्नौ स्थिता सदा ॥
धूम्रार्चि रूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा ॥
नानातेजस्विनी देवी परं ब्रह्मकुटुम्बिनी ।
ज्योतिर्ब्रह्ममयी देवी परम्ब्रह्मस्वरूपिणी ॥
पुरुषाऽन्गी पुरुषी च पुरुषस्य प्रियातनुः ।
पुन्नान्नी पुण्यमान्या च पुरुषाङ्गविवर्द्धिनी ॥
(प्. ७५) अजन्मा च अपापा च अनना औ *(? ) डत्तथा ।
नक्षत्रप्राणहर्ता च नक्षत्रालक्षवन्दका ॥
लक्षमान्या लक्षहरा लक्षा लक्षस्वरूपिणी ।
पुरुपाङ्गी पुरुणी च पुरुषस्य कला सदा ॥
सुपुष्पा पुष्पक पाणा पुष्पहा पुष्पवल्लभा ।
पुष्पप्रिया पुष्पहरा पुष्पवन्धकवन्दका ॥
पुष्पमान्या च पुष्पाणिकनाशिनी ।
नक्षत्राणी सुनक्षत्री नक्षत्रार्हा महोदया ॥
महामाला महामान्या महती महत्पूजका ।
महार्हा माननीया च महाकालेश्वरी महा ॥
महास्या वन्दनीया च महालङ्घनिवासिनी ।
महाशङ्खेश्वरी मीना मत्स्यगन्धा महोदरी ॥
लम्बोदरी च लम्बोष्ठी नम्रनिम्नतनुदरी ।
बिम्बोष्ठलक्षनासा च लम्बा घोणा सुलम्बका ॥
अतिलम्बा महालम्बा सुलम्बा लम्बवासिनी ।
लम्बहा च सुलम्बी च लम्बस्था लम्बपूजका ॥
विलम्बा च महालम्बा सुलम्बा च वृहत्तनुः ।
चण्डघण्टा महाघण्टा घण्टानादप्रिया सदा ॥
वाद्यप्रिया वाद्यरता सुराद्या वाद्यनाशिनी ।
रमा रमा च रामा च रमणीया सुभाविनी ॥
सुरम्या रम्यदा रम्भा रम्भोरु रामवलाभा ।
रामप्रिया रामकरा रामाङ्गी रमणीरतिः ॥
रतिप्रिया रतिमती रतिसेव्या रतिप्रिया ।
सुरतिः कुरतिः शोभा विशोभा शोभनाशिनी ॥
सुशोभा च महाशोभा अतिशोभा सुभागिनी ।
लोभनीया महालोभा सुलोभा लोभवन्दका ॥
लोभाङ्गी लोभवन्ध्या च लोभहा लोभनाशका ।
लोभप्रिया महालोभा लोभनिन्दकनिन्दका ॥
लोभाङ्गवासिनी गन्धविगन्धा गन्धनाशिनी ।
गन्धसङ्गी गन्धपूज्या सुगन्ध्य प्रेमगन्धका ॥
दुर्गन्धा पूतिगन्धा च अतिगन्धा सुगन्धिका ।
महागन्धा सुगन्धार्हा गन्धनाशकनाशिनी ॥
पद्मा पद्मायती प्रेम्ना पद्मगन्धा सुगन्धिका ।
पद्मालया पद्मकरा पद्मवाहकवाहना ॥
पद्मस्था पद्मवन्ध्या च पद्मक्रीडा सुपद्मिका ।
पद्मान्तकापद्मवहा पद्मप्रेमप्रियङ्करी ॥
पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना ।
रक्तोत्पलधरा देवी रक्तोत्पलप्रिया सदा ॥
रक्तोर्पलसुगन्धा च रक्तोत्पलनिवासिनी ।
रक्तोत्पलगृहापाला रक्तोत्पलमनोहरा ॥
रक्तौत्पलनेत्रा च रक्तौत्पलरूपधृक् ।
नारी नारायणीशाना नारायणगृहप्रिया ॥
नारायणस्य देहस्था नारायणमनोरमा ।
नारायणस्य देहस्था नारायणमनःस्थिता ॥
नारायणाङ्गसम्भुता नारायणप्रियातनुः ।
वैष्णवी विष्णुपूज्या च वैष्णवांशनिवानिनी ॥
विष्णुपूजकपूज्या च वैष्णवांशस्थितातनुः ।
हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा ॥
संहारी हरदेहस्था हरपूजनतत्परा ।
हरदेहा समुद्भूता हराङ्गवासिनी कुहूः ॥
हरपूजकपूज्या च हरवन्दनतत्परा ।
हरदेहसमुद्भूता हरक्रीडा सदागतिः ॥
सुगङ्गा सङ्गरहिता असङ्गा सङ्गनाशिनी ।
(प्. ७५ब्) निर्ज *(? ) विजना दुर्गा दुर्गादेहविवर्द्धिनी ॥
दुर्गस्था दुर्गरूपा च दुर्गदेहनिवासिनी ।
वायुक्ता * वायुकरा वायुपूजकपूजका ॥
वायुरूपधरा देवी सुसुम्नामार्गगामिनी ।
देहस्था देहरूपा च देहध्येया सुदेहका ॥
नाडीरूपा नाडीस्थाना नाडिनी नाडिकानना ।
इडा च पिङ्गला चैव सुसुम्नान्तरवासिनी ॥
सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् ।
अमृतेशी महेशानि शृङ्गाराङ्गनिवासिनी ॥
उत्पत्तिस्थितिसंहर्त्री प्रलयापदनाशिनी ।
महाप्रलययुक्त्या च सृष्टिसंहारकारिणी ॥
स्वधा स्वाहा व्यवहारा हव्याहव्यप्रियः सदा ।
हव्यस्था हव्यभक्ष्या च हव्यदेहसमुद्भवा ॥
हव्यक्रीडनका धेनुःस्वरूपा रूपसम्भवा ।
सुरभी नन्दिनी पुण्या यज्ञाङ्गी यज्ञसम्भवा ॥
यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी ।
अयोनिजा सती सत्या सुमती कुलटा तनुः ॥
अहल्या गौतमी चास्या विदेहा देहनाशिनी ।
गान्धारी द्रौपदी दूती शिवदूती शिवप्रिया ॥
त्रिपुरेशी पौर्णमासी अमावाश्या चतुर्दशी ।
पञ्चमी च तथा षष्ठी नवमी चाष्टमी तथा ॥
एकादशी द्वादशी च वाररूपा भयप्रदा ।
सङ्क्रान्त्या मासरूपा च ऋतुरूपा च ऋतुप्रिया ॥
परमात्मा द्विरूपा च घण्टिका दण्डरूपधृक् ।
यामरूपा महाकाली सन्ध्या सन्ध्याङ्गनाशिनी ॥
त्रियामा यामरूपा च यमकन्या यमी सदा ।
मातङ्गी कूलरूपा च कूलीना कुलनाशिनी ॥
कुलकान्ता कृषाकुम्भा कुम्भदेहा विवर्द्धिका ।
त्वरिता कुलवताम्बा अदूरा अरूणा उषा ॥
नदीः सागरगाः शान्ति शान्तिरूपा सुशान्तिका ।
आशा तृष्णा क्षुधा क्षोभा क्षोभरूपनिवासिनी ॥
नदी सागरगा शान्ति श्रुतिः स्मृतिर्द्युतिर्मही ।
दिवारात्रिः पञ्चभुतदेहाश्चैव सुदेहकाः ॥
तण्डुला च्छिन्नमस्ता च नागयज्ञोपवीतिनी ।
वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सकुलिका ॥
प्रत्यङ्गिरा अपराजिता अजिता जयनाशिनी ।
जया च विजया चैव महिषासुरघातिनी ॥
मधुकैटभहन्त्री च चण्डमुण्दविनाशिनी ।
निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी ॥
काशी काल्यनिवासी च मथुरा पार्वती परा ।
अपर्णा चण्डिका देवी मृढनी अम्बिका कला ॥
शुक्लाः कृष्णा रक्तवर्णा शारदेन्दुकलाकृती ।
रूक्मिणी राधिका चैव भैरव्याः परिकीर्तिताः ॥
अष्टाधिकसहस्रन्तु देव्या नामानुकीर्तिनात् ।
महापातकयुक्तोऽपि मुच्यते नात्र संशयः ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महापातककोटिश्च तथैव चोपपातकः ॥
गालवोक्तेन स्तोत्रेण गर्वं नश्यति तत्क्षणात् ।
सम्यग्वा श्लोकमेकं वा प्रपठन् वा स्मरन्नपि ॥
पठेद्वा पाठयेद्वापि सद्यो मुच्यते वन्धनात् ।
राजद्वारे भये दुर्गे शङ्कटे गिरिदुर्गमे ॥
(प्. ७६) प्रान्तरे पर्वते वापि लोकानां वा महेश्वरि ।
वह्निदुर्गे भयप्राप्ते सिंहव्याघ्रभयाकुले ॥
प्रपठन् वा स्मरन्मर्त्यः सर्वशङ्कटनाशकः ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् सुधीः ॥
सर्वशास्त्रपरो विप्रः सर्वयज्ञपलं लभेत् ।
अग्नि-वायु-जलस्तम्भं गतिस्तम्भं विवस्वतः ॥
मारणद्वेषणञ्चैव तथोच्चाटं महेश्वरि ।
वशीकरणमत्रैव जायते सर्वसिद्धयः ॥
प्रातःकाले शुचिर्भूत्वा मध्याह्ने च निशामुखे ।
पठेद्वा पाठरेद्वापि सर्वकामफलं लभेत् ॥
स्त्रिणां वामकरे धार्यं पुंसां दक्षकरे तथा ।
आदितामङ्गलदिने गुरौ वापि महेश्वरि ॥
शनैश्चरे लिखेद्वापि सर्वसिद्धिफलं लभेत् ।
प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ॥
शून्यावासे गृहे चैव लिखेद्यत्नेन देशिकः ।
संहराशौ गुरुगते कर्कटस्थे दिवाकरे ॥
मीनराशौ गुरु *(? ) ते लिखेद् यत्नेन साधकः ।
रजःस्वला भगं दृष्ट्वा तत्रस्थो वा लिखेत् सदा ॥
स्वयम्भुकुसुमैः शुक्रैः सुगन्धिगन्धचन्दनैः ।
मृगनाभिमृगमदैर्विलिखेद् यत्नपूर्वकम् ॥
लिखित्वा च पठित्वा च धारयेद्यन्द्रमनन्यधीः ।
कुमारीं पूजयित्वा च नार्यश्चैव विभूषिताः ॥
पूजयित्वा स्वकुसुमैर्गन्धचन्दनवस्त्रकैः ।
सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ॥
अथवा पूजयेद् देवाः कुमर्या दशमावधि ।
सर्वाभीष्टफलं तत्र लभेत तत्क्षणादपि ॥
नात्रसिद्ध्याद्यापेक्षान्ति न च मित्रारिदूषणम् ।
न वित्तव्ययवाहूल्यं जपमात्रेण सिद्धिदा ॥
सर्वदा सर्वकालेषु षट्सहस्रप्रणामतः ।
वलिं दद्याद्विधानेन प्रत्यहं पूजयेत् शिवा ॥
स्वयम्भुकुसुमैः शुक्रैर्वलिदानं दिवानिऽसम् ।
पूजयेत् पार्वतीं देवीं भैरववीं त्रिपुरान्विताम् ॥
ब्राह्मणान् भोजयेन्नित्यं दशकं द्वादशं तथा ।
हतराज्यं समासाद्यं तथा ना(? ) सचतुष्ठये ॥
दीर्घरोगात् प्रमुच्येत पञ्चमे कविराड भवेत् ।
सप्तमे खेचरत्वञ्च अष्टमे च वृहस्पतिः ॥
नवमे सर्वसिद्धिञ्च दशमे लोकपूजकः ।
एकादशे राजवश्यो द्वादशे भूपूरन्दरः ॥
वारमेकं पठेद् यस्तु प्राप्नोति पूजनं फलम् ।
सम्यक् वा श्लोकमेकं वा यः पठेत् प्रयतः शुचिः ॥
स पूजाफलमाप्नोति भैरवेण च भाषितम् ।
आयुष्मान् प्रीतियोगे च ब्रह्मेन्द्रे च विशेषतः ॥
सौभाग्यशोभने वापि सिद्धयोगे महेश्वरी ।
पञ्चम्यां वा तथा षष्ठी यत्र कुत्रापि तिष्ठति ॥
तत्र शङ्का न विद्येत न च नार्यादिदुषणम् ।
किमत्र वहूना देवी सर्वाभीष्टपह्लं लभेत् ॥
इति श्रीविश्वसारतन्त्रे श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् ॥
९९९९९
(प्. ७६ब्) अथ वक्ष्ये महेशानि विद्यां महिषमर्दिनीम् ।
पुत्रार्थी लभते पुत्रं राज्यार्थी राज्यमाप्नुयात् ॥
कामानवाप्नुयात् कामी सर्वसिद्धिफलं लभेत् ।
महिषगवषमेषैः कुकुटैर्गन्धदूपैः शवपशुपुष्पैर्दुग्धदीपैश्च
विल्वैः ।
शाकैः काकैश्च
पेचैर्मदनरणविनाचोष्मैर्गुञ्जैर्गुञ्जारिणीभिर्मधुमदमदिरासोदरे
रौद्रपुष्पैर्लवङ्गवकुलाकोटैधूस्तैर्वर्वरनाशनैः ।
अशोकपाटलैः कुन्दैर्नरः कुरुवकैस्तथा ।
जलजैः स्थलजैः पद्मैस्त्रिमध्वाक्तैर्विशेषतः ॥
आमिषैरुरुमालौश्च ओच्रैः कुरुवकैस्तथा ।
शल्वकैर्वानरैरश्वैर्मुगनाभिमृगैस्तथा ॥
शूकरैरक्तपुष्पैश्च रक्तशाकैश्च पायसैः ।
नवनातैर्गुडैश्चैव तथा गुडविकारजैः ॥
प्रत्यहं होमयेद् देवीं कुमारीं पूजयेत् सदा ।
कुमारीं तोषयेन्नित्यं तेन सर्वं भवेत् सदा ॥
शिवावलिं सदा दद्यात् गोमांसं गोपशुस्तथा ।
प्रत्यहं पूजयेद् देवीं गोमांसे नष्टासक्थकैः ॥
गन्धैर्द्रष्टैस्तथा सिक्थैः श्मशाने प्रान्तरे सदा ।
शवोपरि चितास्थो वा चितायां वारुणीमुखे ॥
पूजयेत् सततं देवीं विद्यां महिषमर्दिनीम् ।
शवोपरि चितास्थो वा शययास्थो मैथुमेऽपि वा ॥
अशुचौ वा शुचौ वापि यथास्थाने च देशिकः ।
पूर्ववन्न्यासयोगेन यजेद् विद्यामनन्यधीः ॥
स्वयम्भुकुसुमैर्देवीं पूजयेद्भक्तियोगतः ।
यन्त्रं कृत्वा विशेषेण तत्र तां पूजयेत् शिवाम् ॥
हविषाभुगजपेद्विद्यां भक्त्या च साधकोत्तमः ।
जलवायवग्निसूर्येन्दुस्तम्भश्च नात्र संशयः ॥
वादिनो निष्प्रभा यान्ति दृष्ट्वा साधकसत्तमम् ।
विपूणां मारणञ्चैव सप्ताहाज्जायतेऽचिरात् ॥
रोगानि नाशमायान्ति पक्षवासरके प्रिये ।
वहूना किमिहोक्तेन सर्वाभीष्टफलं लभेत् ॥
अथोच्यते मन्त्रोद्धारं शृणुष्व कमलानने ।
स्पर्शेषु यद्विंशतिपूर्वं तदा हि देवेशि वदेद्विधिज्ञः ॥
महिषमर्दिनीपदमुद्धृत्य तत्परं स्वाहापदं तत्र नियोजयेत् परे ।
अष्टाक्षरी समाख्यात विद्या महिषमर्दिनी ॥
प्रणवाद्यां जपेद् विद्यां महामहिषमर्दिनीम् ।
प्रणवाद्यां जपेद् विद्यां कामाद्यां वा जपेत् सदा ॥
मायाद्यां कूर्चबीजाद्यां * * * * * वा जपेत् सदा ।
वधुबीजादिकां वापि कवचाद्यां जपेत् सदा ॥
विना बीजैर्महाविद्या निर्बीजा परिकीर्तिता ।
सर्वत्र सर्वकालेषु कामाद्यां प्रजेपेत् सुधीः ॥
स कामः कामबीजाद्यां जपेन्महिषमर्दिनीम् ।
वाग्भवाद्यां जपेत् तान्तु देवी वाक्यविशुद्धये ॥
दशाक्षरी सदा जप्या स्तुत्या सेव्या दशाक्षरी ।
दशाक्षरी समो नास्ति विद्या त्रिभुवनप्रिये ॥
पुटितं बीजयुग्मे तु युग्मे युग्मकदेशके ।
प्रणवञ्च तथा माया भवेद् विद्या पुनर्दश ॥
एवं वहूविधा विद्या तन्त्रे तन्ते निरूपिता ।
(प्. ७७) अतः परं महाविद्या त्रैलोक्योऽपि च दुर्लभा ॥
नष्टे सृष्टौ महादेवी नष्टे स्थावररजङ्गमे ।
एकीभूते च ब्रह्माण्डे पुरा महिषपीडिते ॥
सुन्दर्या देहसम्भूता विद्या महिषमर्दिनी ।
दानवानां विनाशाय नागानाञ्च महेश्वरी ॥
विनाशाय समुद्भूता ये चापि दुष्टबुद्धयः ।
रक्षिता सर्वसत्वानां नाम्ना महिषमर्दिनी ॥
अस्या ध्यानं महेशानि कथ्यते शृणु पार्वति ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥
जटाजूटसमायुक्ता मर्द्धेन्दुकृतशेखराम् ।
नीलमेघप्रभां श्यामां मणिकुण्डलमण्डिताम् ॥
त्रिनेत्राष्टभुजां देवीं वज्रशङ्खकराम्बुजाम् ।
कृपाणखेटकं वाणं शूलपाशाङ्कुशं तथा ॥
धनुः शरांश्च दधतीं सिंहस्कन्धनिसेदुषीम् ।
किञ्चिदूर्द्धं तथा वाममङ्गुष्ठं महिषोपरि ॥
अर्द्धनिष्क्रान्तं तं देहं शूलेन निहतं तथा ।
कर्पूरशकलोन्मिश्रताम्बूलचर्चिताननाम् ॥
नानालङ्कारसंयुक्तां नागयज्ञोपवीतिनाम् ।
नागहाररतोपेतां महाशक्तिपराक्रमाम् ॥
कदलीललितस्तम्भयुग्मयुग्मसुशोभनाम् ।
एवं ध्यात्वा यजेद् देवीं नाम्ना महिषमर्दिनीम् ॥
मन्त्रन्यासं ततः कुर्याद्विधिनानेन देशिकः ।
महिषहिंसिके हूं हृदयं परिकीर्तितम् ॥
महिषशत्रोर्हूं फट् शिरसि परिकीर्तितम् ।
महिषहिंसाय द्वन्द्वं शिखायां विन्यसेत् पुनः ॥
हां महिषहनयुग्मञ्च कीर्तितं कवचं नेत्रयुग्ममुदाहृतम् ।
महिषं छेदयद्वन्द्वं महिषञ्च वदद्वयम् ॥
मारय द्वितयं चोक्त्वा कुट्टयद्वितयं पुनः ।
हूं फट् शब्दं समुचार्य सर्वाङ्गं विन्यसेत् पुनः ॥
एवं विन्यस्य विधिना कुर्यादासनमन्त्रकम् ।
प्रणवं कवचद्वन्द्वं मायालज्जाद्वयं पुनः ॥
वज्रनखदंष्ट्रायुधं ङेन्तं सिंहासनं तथा ।
कवचास्त्रसमायुक्तं हृदयान्ते समर्पयेत् ॥
अस्यक्तोसनमन्तोऽयं कथितं पद्मयोनिना ।
वलिदानमिदं मन्त्रं शृणुष्व कमलानने ॥
एहि एहि पदद्वन्द्वं गृह्न गृह्न पदद्वयम् ।
मदीम्नञ्च वलिं देवि लुलापकपदद्वयम् ॥
साधकद्वितयं ब्रूयात् खादयद्वितयं पुनः ।
सर्वसिद्धिपदं देहि ततः स्वाहा पदं वदेत् ॥
बलिदानमिदं मन्त्रं मर्द्धिन्याः परिकीर्तितम् ॥
अथ यन्त्रं प्रवक्ष्यामि सर्वसम्पत् प्रदं शुभम् ।
त्रिकोणं विन्यसेत् पूर्वं नवकोणं ततः परम् ॥
रजः सत्त्वतमो रेखा योनिमण्डलमण्डितम् ।
अष्टपत्रं महापद्मं सकिञ्जल्कसमन्वितम् ॥
मृणालङ्कुलरेखा च भूधरं शूलसंयुतम् ।
अर्द्धचन्द्रं धनुः स्थानं शरञ्च विधिना क्षिपेत् ॥
नानास्त्रसंयुतं यन्त्रं कुर्याच्च विधिनामुना ।
अथ पूजाङ्गता देव्यः कथ्यन्ते शृणु पार्वति ।
दुर्गा आर्या प्रभा चैव कणकख्या च कृत्तिका ॥
अभया च इमाः प्रोक्ताः षट्कोणे पूजयेत् क्रमात् ।
(प्. ७७ब्) सर्वा श्यामा असिकरा मद्विभ्रमविह्वला ॥
अष्टपत्रे इमाः पूज्याः शृणु देवि हरप्रिये ।
प्रभा माया जया सुक्ष्मा विशुद्धा नन्दिनी तथा ॥
सुप्रभा विज्ञेया ज्ञेया पूजयेद्विधिनामुना ।
प्रणवं पूर्वमुच्चार्य जातवेदसे वदेत् पुनः ॥
शूलवामपदं ब्रूयात् सोममराती ततो वदेत् ।
निदहातिपदं ब्रूयात् वेदं सनपदं पुनः ॥
पविसदतु पदं ब्रूयात् दुर्गानि च पदं पुनः ।
विश्वानावेव सिन्धुञ्च दुरितात्यग्निस्ततः परम् ॥
वेष्टयेद् भूपुरे यन्त्रं मन्त्रेणानेन देशिकः ।
चन्द्रलक्षं जपेन्मन्त्रं पुरश्चरणकर्मणि ॥
प्रत्यहं वलिदानेन पूजयेन्मर्द्धिनीं शिवाम् ।
स भवेत् सम्पदामादि साक्षान्महिषमर्दिनीम् ॥
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्याः प्रसादमात्रेण भवेत् साक्षात् सदाशिवः ॥
ओङ्कारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ।
प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥
ओं महिषमर्दिन्याः कयचस्य भगवान् महा ऋषिरनुष्टुपछन्दः
आद्याशक्तिर्भगवती श्रीमहिषमर्दिनी देवता चतुर्वर्गसिद्धये विनियोगः ।
क्लीं पातु मस्तके देवि कामिनी कामदायिनी ।
मकारे पातु मां देवी मर्दिनी सुरनायिका ॥
इकारे पातु मां देवी सावित्री कालनाशिनी ।
निकारे पातु मां देवी हृदये वाहुपार्श्वयोः ॥
नाभौ लिङ्गे गुदे कण्ठे कर्णयोः प्रौष्ठयोस्तथा ।
शिखायां कवचे पादयुगे जङ्घायुगे तथा ॥
सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता ।
कामाद्या पातु मां स्वाहा सर्वाङ्गे मर्दिनी शिवः ॥
दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी ।
मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा ॥
राजस्थाने तथा दुर्गे नौकायां वह्निमध्यतः ।
मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा ॥
दुर्गा पातु महादेवी आर्या पातु सदा मम ।
प्रभा पातु महेशानि कनका सर्वदावतु ॥
कृत्तिका पातु सततं सिद्धाः पान्तु सदा मम ।
प्रभा पातु महामाया माया पातु सदा मम ॥
ज्वरा पातु सदा सुक्ष्मा विशुद्धा पातु सर्वदा ।
नन्दिनी पातु सततं सुप्रभा सर्वदावतु ॥
विजया पातु सर्वत्र देव्याङ्गे नव शक्तयः ।
शक्तयः पान्तु सततं मुद्राः पान्तु सदा मम ॥
योगिनः पान्तु सततं खेचर्यः पान्तु सर्वदा ।
डाकिन्यः पान्तु सततं सिद्धः पान्तु सदा मम ॥
सर्वत्र सर्वदा पातु देवी महिषमर्दिनी ।
इति ते कथितं दिव्यं कवचं सुदुर्लभम् ॥
यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः ।
गोपितं सर्वशास्त्रेषु विश्वसारे प्रकाशितम् ॥
सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥
उनाङ्गे आतरिक्ताङ्गे क्रूरे मिथ्याभिभाषणे ।
(प्. ७८) न स्तव्यं दर्शयेद् दिव्यं कवचं सर्वकामदम् ॥
यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् ।
दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥
मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् ।
अशुभञ्च भवेत् तस्य तस्माद् यत्नेन गोपयेत् ॥
गोरोचना कुङ्कुमेन भुर्जपत्रे महेश्वरि ।
लिखित्वा शुभयोगेन ब्रह्मेन्त्रे वै धृतो यथा ॥
आयुष्मान् सिद्धियोगे वा वववालवकौलवे ।
वणिजे श्रवणायाञ्च रेवत्यां वा पुनर्वसौ ॥
ऊतरा एषयोगेषु तथा पूर्वत्रयेषु च ।
अश्विन्यां वा च रोहिण्यां तृतीया नवमी तिथौ ॥
अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमी तिथौ ।
दुर्गां वा पौर्णमास्यां वा निशायां प्रान्तरे तथा ॥
एकलिङ्गे श्मशाने च शून्यावासे तथालये ।
गुरुणा वैष्णवैर्वापि स्वयम्भुकुसुमैस्तथा ॥
शुक्रैर्वा रक्तकुसुमैश्चन्दनैरक्तसंयुतैः ।
शवाङ्गारे चितावस्त्रे लिखित्वा यो घरेत् पुनः ॥
तस्य सर्वास्तसिद्धिः स्यात् शङ्करेण च भाषितम् ।
कुमारीं पूजयित्वा तु देवीसुक्तं निवेद्य च ॥
पठित्वा भोजयेद् विप्रान् धनदारान् वेदपारगान् ।
आखेटकमुपाख्यानं कुर्याच्चैव दिनत्रयम् ॥
तदा भवेनमहारक्षां कवचं सर्वकामदम् ।
नाधयो व्याधयस्तस्य दुःखशोकभयं क्वचित् ॥
वादी मुको भवेद् दृष्ट्वा राजा च सेवकायते ।
मासमेकं पठेद्घस्तु प्रत्यहं नियतं शुचिः ॥
दिवा भवेद्धाविष्याशी रात्रौ शक्तिपरायणः ।
षट्सहस्रप्रमाणेन प्रत्यहं प्रजपेत् सदा ॥
षण्मासैर्वा त्रिभिर्मासैः खेचरो भवति ध्रुवम् ।
अपुत्रो लभते पुत्रमधनीधनवान् भवेत् ॥
अरोगी वलवांश्चैव राजानो दोसतामियात् ।
रजस्वला भगे नित्यं जपेद्विद्यां विधानतः ॥
एवं यह् कुरुते धीमान् स एव श्रीसदाशिवः ।
इति श्रीविश्वसारतन्त्रे महिषमर्दिनी कवचं समाप्तम् ॥
९९९९९
श्री ईश्वर उवाच ॥
अथ वक्ष्ये महेशानि देव्या नाम सहस्रकम् ।
यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥
अस्याः ।अस्रीमहिषमर्दिन्याः सहस्रनामस्तोत्रस्य भगवान् श्रीसदाशिव
ऋषिरनुष्टुपछन्दाअद्या शक्तिर्भगवतीमहिषमर्दिनी देवता स्वाहा शक्तिः
कामबीजं चतुर्वर्गफलप्राप्तये विनियोगः ।
ओं कीर्तिः कान्तिः स्तुष्टिः पुष्टीधृतिः शान्तिः क्रिया दया ।
वेधा सहर्षा धात्री च लज्जा लक्ष्मी सरस्वती ॥
प्रीतिरतिके शवाख्या तथा नारायणीति च ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसुन्दः ॥
त्रिविक्रमो वामनश्च श्रीधरः कमलासनः ।
हृषीकेशः पद्मनाभो दामोदरस्ततः परम् ॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
निवृत्तिः सम्प्रतिष्ठा च विद्या शान्तिश्च इन्दिरा ॥
वापिका रेचिका चैव मोचिका च ततः परा ।
सूक्ष्मा सूक्ष्मतरा चैव मृडाणी यामिनी तथा ॥
व्यापिनी व्योमरूपा च श्रीकण्ठानस्तमूर्तिका ।
अतिसूक्ष्मा अतिमूर्तिरमवा अमरेश्वरी ॥
अर्वी शोभा विभृतिश्च तिथिशस्थानको हरः ।
वाटशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ॥
अक्रूरश्च महासेन ऋद्धिः सृष्टिः समुन्नतिः ।
स्मृतिर्मेधा तथा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा तिथिः ॥
गतिर्जरायुजा चैव पालिनी शान्तिरीश्वरी ।
रतिश्च कामिका चैव वसुधा ह्रादिनी पुनः ॥
प्रतिदीर्घा च तीक्ष्ना च रौद्री चैवा भया पुनः ।
निद्रा तन्त्री क्षुधा क्रोधी क्रियोत्कारी तथा परा ॥
मृत्युश्चैव तथा सीता श्वेता चैवारुणासिता ।
अनन्ता च तथा क्रोधी चण्.एश पञ्चमन्त्रकः ॥
शिवो रुद्रश्च कूर्मश्च नेत्रासुरवितानना ।
अजेशः सर्वसोमेशः तथाऽन्गुलि * दारवौ ॥
अर्धानारीश्वरः कामी उमाकान्तः सुरेश्वरी ।
आष्.आढी कुन्तिका चैव गणश्चण्डः परापरा ॥
हेरुण्डश्च महाकालः कालीशश्च ततः परम् ।
भुजङ्गकः पिनाकीशः खड्गीशः कुश एव च ॥
अक्षोभश्च अतमश्च श्रीमीनो नन्दिनस्तथा ।
शिवसम्वर्तकः पूर्णा देवी च विरजा तथा ॥
शाल्मली चैव लोलाक्षी वर्तुलाक्षी ततः परा ।
दीर्घघोणा सुघोणा च तथा दीर्घमुखी पुनः ॥
शुचिमुखी विद्यामुखी काली चैव सरस्वती ।
सर्वसिद्धिस्तथा गौरी त्रैलोक्यवासिनी शिवा ॥
त्रैलोक्यविद्या मन्त्राश्च मन्त्रशक्तिपरात्मिका ।
आत्मशक्तिर्लता माता लम्बोदरी ततः परा ॥
द्राविणी नगरी चैव खेचरी मञ्जरी तथा ।
रूपिणी विरिणी चैव काकोर्यापि च पूतना ॥
भद्रकाली योगिनी च शङ्खिनी वज्रिणी तथा ।
कालरात्रिः कुजिनी च कपालापि च वज्रया ॥
जया च विजया चैव सुमुखी ईश्वरी तथा ।
रेवती माधवी चैव घायसी च विदारिणी ॥
सहजा चैव लक्ष्मी च व्यापिनी च जया तथा ।
दुर्गा प्रभा तथा सत्या वाणी चण्डा विलासिनी ॥
विजया विजया विश्वा विनन्दा सुनन्दा स्मृतिः ।
ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्बुद्धिर्मतिः क्षमा ॥
वामा च क्लेदिनी क्लिन्ना वसुधा वसुदापरा ।
परायणा च सूक्ष्मा च जया सन्ध्या प्रभा निशा ॥
अमोघा विद्युता चैव सर्वशास्त्रमयी तथा ।
चक्री गदी तथा शाङ्गी खड्गी शङ्घी हली पुनः ॥
मुषली च तथा शुली पाशी च अङ्कुशी पुनः ।
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ॥
स्तुष्णः सदाः साश्चतश्च शौरि शुरो जनार्दनः ।
भुधरो विश्वमुर्तिश्च वैकुण्ठः पुरुषः शिवः ॥
वली वलानुजो वालौ वृषघ्नश्च वृषीवलः ।
हंसो वराहो विमलो नृसिंहश्च ततः परः ॥
सर्वशास्त्रमयी देवी सर्वमन्त्रमयी शिवा ।
सर्ववर्णमयी स्तुत्या नित्यानन्दस्वरूपिणी ॥
वर्णरूपा चिदानन्दा सर्वज्ञानमयी तथा ।
महाविद्या महामन्त्रा महाभुतिर्मतिः क्रिया ॥
स्थुला सूक्ष्मा महासूक्ष्मा अनुरूपा वृहत्तनुः ।
ज्योतिर्ब्रह्ममयी देवी शब्दब्रह्ममयी शिवा ॥
ब्राह्मी माहेश्वरी चैव कौमारि वैष्णवी तथा ।
वाराह्यनन्ता रुद्राणी चामुण्डा सप्तमी तथा ॥
महालक्ष्मी च अणिमा लघिमा च ततः परा ।
वसित्वा चैव गायत्री तथा कामावसायिता ॥
विमलोत्कर्षिणी ज्ञाना क्रिया सत्या महोदया ।
प्रभवी सत्यानुग्रहा च नवमी सह पूजका ॥
महाकुली कुलीनाख्या शुद्धनारी शिवप्रिया ।
मेधा प्रज्ञा प्रभा सत्या विद्याधीर्धृतिबुद्धिदा ॥
विश्वेश्वरी सती साध्वी दक्षकन्यादितिः स्मृतिः ।
श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी ॥
व्यापिनी शालिनी ज्ञेया पावनी क्लेदिनी तथा ।
धारिणी मालिनी चैव हंसिनी शस्त्रिणीश्वरी ॥
शुभ्रा विलोला लोला च ललना च नितम्बिनी ।
शूलपाशधरा हस्ता सुहस्ता च त्रिलोचना ॥
विरला भरणा ज्ञेया सर्वज्ञानमयी दया ।
कालात्मा वर्ग ज (? ) नननीधरा वेधमयी वला ॥
क्रियावती वर्णमयी माया चैव कलावती ।
वेधमयी विमाना च भवाशक्तिस्वरूपिणी ॥
प्रपञ्चरूपा प्रेमा च जगद्धात्री जय जतिः ।
अम्बिका वाग्भवी दुर्गा धीस्वरूपा महामतिः ॥
कराली विकराली च उष उषा सरस्वती ।
श्रीदुर्गाशा तथा श्रद्धा मेधा कान्तिर्मतिः सुखी ॥
आर्या खेटकरूपा च विद्या ह्रीः पुष्टया स्मृताः ।
प्रज्ञासिनी च वाणी च कुहूः कपटरूपिणी ॥
रुद्रवीर्या महावीर्या प्रभा नन्दा क्षुधा कृषा ।
पोषणी उद्भिद सत्या सभा शुभकरी सहा ॥
कालरात्रिर्महारात्रिर्भद्रकाली कपालिनी ।
विकृतिः कुन्तिमूर्तिन्यः सेन्दुखण्डा शिखण्डिनी ॥
निशुम्भशुम्भमथिनी महिषासुरघातिनी ।
इन्द्राणी च तथा रुद्रा शङ्करार्द्ध शरीरिणी ॥
नारी नारायणी चैव त्रिशून्यापि शालिनी ।
अह्लादिनी अम्बिका च द्वात्रिंशन्मूर्तिरूपिणी ॥
चक्रहस्ता पिशाची च राक्षसी योगिनी जरा ।
वृद्धमाता वृद्धतल्ला चारुभुषणभूषणा ॥
शिताङ्गी शुक्लवर्णा च रक्ताङ्गी रक्तभूषणा ।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥
श्रद्धा स्वाहा तथा भिक्षा मायासंज्ञा वसुन्धरा ।
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥
स्वरूपा वहूरूपा च स्कन्धमाताऽच्युतप्रिया ।
विमला च मला चैव अरुणी दारुणी तथा ॥
प्रकृतिर्विकृतिः सुतिपुष्टिश्च स्थितिसंहृतिः ।
सन्ध्या माता सती हंसी मार्गकारी जिनापरा ॥
देवमाता भगवती देवकी कमलालया ।
त्रिमुखी पञ्चमुख्याश्च सुरासुरविमर्दिनी ॥
लम्बोष्ठी चार्द्धकेशी च वहूशीर्षा वृकोदरी ।
राधारुच्चार्गयापत्य कुलिरेखा गणात्मिका ॥
(प्. ७९ब्) गगणा गाणरेख च पवनवेगा स्वधा तथा ।
भुवनपाला गणक्रीडा मदना मदनातुरा ॥
अनङ्गानङ्गमदना मेखलानङ्गरूपिणी ।
अनङ्गाकुसुमा विल्वरूपिणी चाभयङ्करी ॥
भक्षोभ्या सत्यवादी च वहुरूपा शुचिः स्मृतिः ।
वरदाख्या च वागीशा चापराणधरा शिवा ॥
ज्वलज्जिह्वा महाजिह्वा सर्वजिह्वा महाप्रभा ।
धारिणी मालिनी चैव दंस्ट्रिणी ऊर्द्धकेशिनी ॥
रसज्ञा रसिका रम्या मुरा(? ) री रसदा रतिः ।
सिंहिका पूजका कृत्वा स्र्वकृत्वा विनाशिनी ॥
वाग्वादिनी वदन्या च तरुणी करुणालया ।
शुभ्रकान्तिः सुकान्तिश्च सर्वकान्तिसमन्विता ॥
विभूरुन्नतिः कान्तिश्च सृष्टिः कीर्तिः समुन्नतिः ।
व्युष्टिरूत्कृष्टि ऋद्धिश्च लक्ष्मीः सर्वसमृद्धिदा ॥
श्रीः सर्वशुभदा चेता चिन्तनीया हरिप्रिया ।
ब्रहाणी चैव रुद्राणी रुद्रावीर्यसदागतिः ॥
भुवनेश्वरी महाविद्या सर्वविद्यादानुत्तमा ।
जयाख्या विजया ज्ञेया अजिताख्या पराजिता ॥
नित्या विलासिनी दोग्ध्री सुघोणा वनमालिनी ।
गणाम्बा गगणाम्बा च शान्त्यतीताम्बिकामनुः ॥
वाग्भवी शम्भुवनिता रमाबीजात्रयान्विता ।
त्वरिता नवदुर्गा च हृल्लेखा गगणा सदा ॥
रक्ता कराला लोला च घर्घरी घूर्णनाशिनी ।
कृच्छया च घृणाचान्दाः सुगन्धा गन्धनाकुली ॥
कुण्डली च कुरूपा च विद्युदग्निसमप्रभा ।
षट्चक्रभेदनकरी परमामृतरञ्जिता ॥
डाकिनी राकिनी चित्वा वाकिनी लाकिनी तथा ।
काकिनी शाकिनी चैव हाकिनी चक्रदेवता ॥
सहस्रदलपद्मान्तश्चन्द्रमण्डलवासिनी ।
अमृता मानदा पूष तुष्टिः पुष्टीरतिर्धृतिः ॥
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्री प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिन्यः सूर्यमण्डला ॥
तपनी तापिनी धुम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा धारिणी बोधिनी क्षमा ॥
सूर्यमण्डलसंस्थात्री सूर्यमण्डलसम्भवा ।
वह्निमण्डलमध्यस्था वह्निमण्डलवासिनी ॥
धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः सुरुपा कपिला हव्यकव्यवहा तथा ॥
हू/कारी खेचरी चण्डा छेदिनी क्षेपिणी कला ।
क्षेमकारी विशालाक्षी विकटाक्षा मृगाक्षिका ॥
कृदङ्गा मृगनेत्रा च दीर्घनेत्रा मनोभवा ।
नानातन्त्रिमयी तन्त्रा नानाशस्त्रमयी शशी ॥
त्रिकण्टकी वृषाङ्गी च सर्वशत्रुविनाशिनी ।
सर्वाभरणसम्पन्ना सर्वालङ्कारधारिणी ॥
कामिनी सुन्दरी कामा सकामाकामदायिनी ।
शुचीमुखी कालमुखी एकाक्षा विकटानना ॥
केकराक्षी विपन्ना च विशेषा विमला कला ।
अनेकविधरूपा च वहूरूपा विरूपका ॥
रतीऽस्वरी रतिप्रीतिर्विप्रीतिः प्रीतिमञ्जरी ।
चर्मतिः सुमतिः कालः वितुष्टिस्तुस्टिरेव च ॥
वीणा वेणुर्मृदङ्गा च श्रीसल्लोकेश्वरी मयी ।
(प्. ८०) परमैश्वर्यरूपा च विरूपाकरणी तथा ॥
सर्वानन्दस्वरूपा च सर्वाह्लादनकारिणी ।
त्रिकूटा पञ्चकुटा च सर्वकूटस्वरीरिणी ॥
षोडशी पञ्चमः पञ्चदशी सप्तदशी पुनः ।
अष्टादशी शशधरी चन्द्री चन्द्रप्रिया तथा ॥
नित्या निरञ्जना क्लिना क्लेदिनी मदनावती ।
मदद्रव्या द्राविनी च नीलोत्पलदलप्रभा ॥
हृल्लेखा क्लेदिनी क्लिन्ना सर्वक्षोभविनाशिनी ।
रागी रागवती रेता मदना मदनावती ॥
मेखला द्राविणी सत्या स्मरणा विस्मृता तथा ।
लक्ष्मीर्हेमप्रभा तन्वी पद्माक्षी पद्मलोचना ॥
दीर्घजङ्घा सुजङ्घा च महाजङ्घा महातनुः ।
नीलमेघप्रभा श्यामा कृष्णवर्णा स्वरूपिणी ॥
बीजरूपा जीवरूपा सर्वजीवेषु संस्थिता ।
सर्वतत्त्वमयी देवी कुलमुद्भावभाविनी ॥
सर्वपीठमयी देवी सर्वधात्वन्तरा कला ।
अर्द्धपुण्ड्रा महामाया देवी पद्मावती शिवा ॥
नवदुर्गा च दुर्गा च दुर्गासुरविनाशिनी ।
स्वप्नावती विशालाक्षी चित्रलेखा च शाङ्करी ॥
लोपामुद्रा माननीया मदनामदनार्तिना ।
प्रभा माया जया दुर्गा विशुद्धा नन्दिनी तथा ॥
सुप्रभा विजया विश्वा विनदा सुनदा त्वरा ।
सुप्रतिष्ठा प्रतिष्ठा च रसलाभस्वरूपिणी ॥
आर्या भूर्या च महिषी मर्दिनी महिषान्विता ।
कलव्याख्या काननी च कृत्तिका कालनाशिनी ॥
योगिनी योगमाता च योगयुक्ता युगावती ।
आयातिर्नियतिः स्तुत्या स्तवनीया मनोरमा ॥
शूलहस्ता च हस्ता च चर्मचापधरा तथा ।
सौदामिनी सुद्यमा च सर्वरत्नमयी तथा ॥
आर्या दुर्गा च भद्राख्या कालिका च कला तथा ।
भद्रकाली कपाली च क्षेमाख्या क्षेमवन्धका ॥
वेदगर्भा महागर्भा शुगर्भाङ्गी सुलोचना ।
कालपावकवन्ध्या च कालपावकसन्निभा ॥
विभीषणा भीषणा च सुभीमा अतिभीषणा ।
अतिप्रीतिपराख्या च उत्तरा उत्तरप्रिया ॥
नमोत्तरा दिवारात्रिरमृतेशी पुनर्वसुः ।
योगेशी विश्वयोगेशी विश्वमाता धनप्रदा ॥
महावला वलाख्या च वलदा वलदायिनी ।
वालिका तरुणी वृद्धा कैशोरी युवती सदा ॥
द्राविणी क्षिभिणी क्षोभा क्षमा क्षोभा क्षमा क्षया ।
आकर्षिणी मोहिनी च सम्मोहिनी सदागतिः ॥
सुभगा च भगाख्या च भगसर्पिण्यनन्तरा ।
भगमाली भगाङ्गी च भगमालाविभूषणा ॥
लिङ्गिनी लिङ्गमाला च अनङ्गानङ्गपूजिता ।
भगमान्या भगाङ्गी च भगप्रीता भगात्मिका ॥
उदाद्तानुसहस्राक्षा उद्यदादि * (? ) सङ्कुला ।
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशाक्तः क्रियादया ॥
विविधा विविधा वेधा वेधा मन्त्रमयी विधुः ।
इच्छाज्ञाना क्रियाशक्तिः कामिनी कामदा कुहूः ॥
रतीरतिप्रिया नन्दा नवमी च मनोन्मनी ।
उन्मादा मदनप्रेम्ना मदामदविलालिता ॥
मत्स्या सत्यप्रिरामांसा महामांससदाशिता ।
(प्. ८०ब्) मद्यशीला महाप्रेम्ना मांसाशी मांसभक्षणा ॥
सदाशिवप्रिया इच्छा सर्व * (? ) तुषु संस्थिता ।
कुमाराङ्गी कुमारी च सुकुमारी विलम्बिनी ॥
महोत्सूक्ष्मा करालास्या षडङ्गयुवती सती ।
आकर्षिणी द्राविणी च खेचरी मञ्जरी शुभा ॥
मातङ्गी मुनिपूज्या च मतङ्गभवने स्थिता ।
द्राविणी शोषणी पुष्टा आकर्षिणी विधायिनी ॥
रौद्री प्रशान्तिः शुद्धाख्या क्रियाकान्ता शुभोदया ।
मोहिनी प्रमथा चण्डा भाविनी भवमोचनी ॥
विद्युल्लता वलाकाख्या सुन्दरानन्दशोभना ।
मन्दबुद्धिर्महाबुद्धिश्चिच्छक्तिः शान्तिरूपिणी ॥
श्यामा गायत्री श्यामाङ्गी श्यामा चैव विरोधिका ।
वर्णिनी वदना वन्ध्या सर्ववादापरायणा ॥
तीब्राख्या ज्वलिनी नन्दा भोगदा कामदायिनी ।
उग्रा उग्रप्रभा तेजोवती सत्याननाकृतिः ॥
बालिका बालरूपा च सर्वसत्वविभूषणा ।
चन्द्रिणी चन्द्रकान्तिश्च धनदा धनदायिनी ॥
रञ्जना मञ्जना विन्दी सर्वशान्तिः शुभप्रदा ।
सुभिक्षकरणी क्षेम्या सुक्षेम्या क्षेमवलाभा ॥
स्वयम्भुकुसुमा प्रीत स्वयम्भुपुष्पपूजका ।
स्वयम्भुपुष्पयद्धासा सयम्भुकुसुमाकुल ॥
सुषुम्न च योगवती गान्धारी नरवल्लभा ।
लिङ्गमाला लिङ्गगीतिर्भगमालाविभूषणा ॥
भगलिङ्गा मृता देवी भगलिङ्गा शुभात्मिका ।
भगलिङ्गामृता प्रीता सुलिङ्गा भगरूपिणी ॥
भगिनी भगमाला च भगस्था भगदा शुभा ।
शुक्रालया शुक्ररूपा महाशुक्रातिशुक्रिणी ॥
अतिशुक्रा शुक्रसेव्या शिवदेहा समुद्भवा ।
महाव्याहृतिरूपा च स्वधा स्वाहा सुधा धृतिः ॥
हव्यकव्यवरा प्रीतिर्यजुःकर्त्री यजुःप्रिया ।
ऋक्सामाथर्वनिलया सर्ववेदेषु पूजिता ॥
वेदवन्ध्या वेदमाता वेदाङ्गी वेदपूजका ।
वेदविद्याभिवादा च निष्कलङ्का शुभङ्करी ॥
क्षेमदा कुङ्कुमाङ्गी च सुरक्तादशनच्छदा ।
रक्तमाल्या च रक्ताङ्गी रक्तचन्दनरूपधृक् ॥
मुक्तारञ्जितनासा च सुदती युगदन्तुरा ।
सुरतिश्च सुगम्भीरा सर्वभावसमन्विता ॥
मुण्डमालाधरा देवी प्रत्यालीढपदे स्थिता ।
विऽस्वमान्या जगन्मान्या जयित्री जयिनी जयी ॥
सुन्दरी भैरवी विश्वा भैरवी पुरभैरवी ।
कामिनी पुरुरूपा च लाकिनी पुत्ररूपिणी ॥
राकिणी पुत्ररूपा च शाकिनी पुत्ररूपिणी ।
अजा च ऋअतजा गोजा अद्रिजा पर्वतात्मजा ॥
वासणी वन्ध्यरूपा च गुह्यकाली महाप्रभा ।
सुप्रभा विरजा सत्या सदा सत्यवती सदा ॥
गान्धारी नरकाख्या च नरकान्ता नराकृतिः ।
रुक्मिणी सत्यभामा च राधिका कुमुदा कृषा ॥
कुमुदाऽन्गी कौमदी च पद्मनेत्रा प्रियम्बदा ।
पूजका पूजकप्रीता टिविट्न्वा सुटीविका ॥
खड्गिनी कुशली कान्ता एकदन्ता गनाजना ।
कपट कुपटा कृष्णा सर्वपर्वतवासिनी ॥
विन्धस्थावामना विन्ध्या विन्धपर्वतसंश्रया ।
उर्वशी कालिका कैका विश्वरूपा वसुन्धरा ॥
(प्. ८१) विभीषनेतिभीषणा चण्डी विलासिनी ।
वेत्रवती विषण्णा च विमला मानदायिनी ॥
जगन्मान्या जगद्धाता जगती जगतः क्षमा ।
अजेया विह्वला विश्वारूपिणी विश्वमानिता ॥
अचेतना चितान्तस्था सुचेता मदनावती ।
हंसमुखी सुनेत्रा च त्रिनेत्रा च विलोचना ॥
कुरुकुल्वा सुकुल्वा च असिता अमिता सिता ।
मुद्रा मुद्रासती हंसी सिंहस्था शशिशेखरा ॥
अशोकवासिनी रेवा सुखस्या सुरनायका ।
शाम्भवी शाङ्करी माया कालक्षयकरी करा ॥
अनिमा भाविनीन्द्रा च जिनमाता जिनेश्वरी ।
अजिना कुत्तिवसना व्यालयज्ञोपवितिनी ॥
चर्विका चाटुकारी च सुकुटुम्बा वरानना ।
वज्रेश्वरी च जननी सर्वबीजक्षयङ्करी ॥
सर्वदुःखविनाशी च निर्द्वन्द्वा द्वन्द्ववर्जिता ।
दुराशया दुराराध्या दुर्ध्येया दुरतिक्र्मा ॥
दुर्विनीता विनेत्रा च चण्डमुण्डक्षयङ्करी ।
महिषासुरहन्त्री च मधुकैटभघातिनी ॥
राजराजेश्वरी बीजा सर्वदुष्टक्षयङ्करी ।
यक्षिणी योगिनी योगध्येया यज्ञा यदागतिः ॥
कूलीना शम्भुपत्नी च शाम्भवी शम्भुवल्लभा ।
त्रिकोणनिलया नित्या भेरुण्डा कुलसुन्दरी ॥
सर्वसम्भोगनिलया सर्वसम्भोगपूर्वका ।
पूजनीया महार्हा च महती सत्यभाषिणी ॥
श्मशानवासिनी पुण्या पुण्यदा पुण्यदायिनी ।
दानवी रीरिणी नेया त्रियागा महती मही ॥
सिंहासनेश्वरी गोत्रा तोतला तुलसीतुला ।
हालाहलप्रिया हेली लिङ्गस्था स्थानुपूजका ॥
कुण्डस्था कुण्डगोलस्था कुण्डगोलनिवासिनी ।
कुण्डपुष्पभवप्रीता सुप्रीता प्रीतिदायिनी ॥
चतुरा चतुरप्रेम्ना चतुरस्था च चातुरी ।
कुमारी पूजकवती कुमारी ब्रह्मचारिणी ॥
कुमारस्था कुमारी च तद्भगस्था भगात्मिका ।
कौशल्या च कुलीना च सुभगा सुर्भगा तथा ॥
सुमित्रा लक्ष्मणा देवी दमयन्ती दमात्मिका ।
मदयन्ती द्रौपदी च तथा सुस्था कुशात्मिका ॥
पञ्चचुडा मेनका च मैनाकभगिनी तडित् ।
पञ्चा नैव त्रिनेत्रा च पञ्चवक्त्रप्रिया स्मृतिः ॥
नागेन्द्रदण्डनिर्माणवलयाञ्चितवाहना ।
रत्नद्वीपस्थिता नित्या सिंहासनवासिनी ॥
गजचर्मपरिधाना कलमञ्जीररञ्जिता ।
पट्टवस्त्रपरीधाना गुञ्जाहारलसत्करा ॥
व्याघ्रचर्म परीधाना व्यालयज्ञोपवीतिनी ।
स्वयम्भुपुष्पतिलका विन्ध्यकैलासवासिनी ॥
विनीता वलिमाता च कुन्ती केका कृपावती ।
कुमुद्वती कृष्णदेहा शम्बरी उपवीतिनी ॥
विनीता खड्रूपा च पिङ्गलाक्षी प्रियव्रती ।
ब्रजाङ्गी व्रजदेहा च वज्रहस्ता विवस्त्रका ॥
दिगम्बरी रणस्था च कुमुदा कुमुदप्रिया ।
साधका साधकप्राणा नरकान्तककारिणी ॥
विद्या विद्या महाविद्या महामन्त्रा महामहा ।
ओङ्कारी साधका शक्ता साधकाशक्तमानसा ॥
वामाचारवती वामा विमला विनकार्मुका ।
(प्. ८१) पुष्पवाणधरा साध्वी इक्षुकार्मुकधारिणी ॥
मनोभवामनस्था च मनस्तुत्वा महामनुः ।
मनुकन्या देवहुतिः स्वर्णदी शुभपूजका ॥
इदं सहस्रनामेति मर्द्धिन्याः शिवभाषितम् ।
यः पठेत् प्रात्ररुत्थाय शुचिर्भुत्वा दिवानिशम् ॥
निशायामर्द्धरात्रौ च सन्ध्यायाञ्च विशेषतः ।
कृत्वा मन्त्रकरन्यासौ विधिनानेन देशिकः ॥
आचम्य विधिना भूत्वा कायबीजादिकं मनुम् ।
अनुलोमविलोमेन मन्त्रवर्णान् न्यसेत् सदा ॥
सप्तवारं न्यसेन्मन्त्रं पश्चिमाभिमुखीभवन् ।
पठेत् सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ॥
श्मशाने प्रान्तरे वापि शून्ये वासे तथालये ।
पठित्वा कवचं तत्र जपेन्मन्त्रसहस्रषट् ॥
कुक्कुटं मूषिकं मेषं महिषं नरमेव च ।
रक्तेन स वलिं दत्वा जपेन्मन्त्रमनन्यधीः ॥
गृह्न गृह्न पदद्वन्द्वं खादयद्वितयं तथा ।
मम शत्रुन् समाभाष्य नाशयद्वितयं पुनः ॥
सिद्धिं देहि पदद्वन्द्वं द्विठान्तं प्रादेत् ततः ।
तदा मन्त्रं जपेद्धीमान् यावद्भीतिर्न जायते ॥
अनिमादिर्महासिद्धिर्भवेत् तस्य वसेत् तदा ।
दग्धमीनं दग्धमांसं रक्तसाकं दिवानिशम् ॥
श्मशाने प्रान्तरे दत्वा विधिना प्रजपेन्मनुम् ।
षण्मासेन भवेद्वाग्मी महेशश्चैव चापरः ॥
स्वयम्भु कुसुमैः शुक्रैः पूजयेन्मर्द्धिनीं सदा ।
आखेटकमुपाख्यानं सदा कुर्याद् दिनत्रयम् ॥
पुरश्चरणकाले तु पुरा कुर्याद् दिनत्रयम् ।
तदा तुष्टा भवेद् देवी मर्दिनी सुरपूजिता ॥
सशक्त्या सर्वकाले तु जपेन्मन्त्रं दिवानिशम् ।
नित्यकर्मसदा कुर्यान्मनुमुखे चर्महान्नितैः ॥
स एव वैष्णवो धन्यः स शाक्तश्चैव एव च ।
निशायां प्रजपेन्मन्त्रं निशायां वलिमारभेत् ॥
तेषां समानं त्रैलोक्ये नास्ति देवि कथञ्चन ।
रजस्वलाभ्यां * स्पृष्ट्वा जपेन्मन्त्रं दिवानिशम् ॥
श्मशाने प्रान्तरे शून्यालये मन्त्रं दिवानिशम् ।
प्रजपेत् पर्या भक्त्या यावत् सिद्धिर्भवेन्मनुः ॥
अपुत्रो लभते पुत्रमधनी धनवान् भवेत् ।
अरोगी वलवांश्चैव जायते नात्र संशयः ॥
मासमेकं पठेत् स्तोत्रं भ्रष्टराज्यमवाप्नुयात् ।
मासद्वयं पठेद् यस्तु स भवेद् भुपुरन्द्वरः ॥
सप्तमं पठते धीमान् स भवेत् पुत्रवान् सुखी ।
गोरोचना कुङ्कुमेन रक्तचन्दनसंयुतैः ॥
धूपदीपरिमहादेवीं पूजयेत् पर्वतात्मजाम् ।
रक्तचन्दनदूर्वाभिः कुङ्कुमेन विधानतः ॥
दद्यादर्घ्यं महादेव्यै त्रिसन्ध्यं प्रत्यहं सदा ।
परदारपरो भुत्वा जपेन्मन्त्रमनन्यधीः ॥
षण्मासेन लभेत् सिद्धिं यद् यन् मनसि वर्तते ।
सर्वशन्न्तिकरं सर्वं सर्वसिद्धिसमन्वितम् ॥
सर्वपापप्रशमनं सर्वदुःखविनाशनम् ।
सर्वमृत्युप्रशमनं शङ्करेण च भाषितम् ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
सर्वं भवसि देवेशि स्तवस्यास्य प्रसादतः ॥
स कुलीनः स विद्वान् स बुद्धिः सर्वपूजकः ।
(प्. ८२) स एव विजयी नित्यं यस्य देवी भवेत् प्रिया ॥
देव्यानन्दे सदा नन्दः सदानन्दो भवेन्नरः ।
मासि मासि महादेवीं पूजयेद् विधिनामुना ॥
नवम्यां मङ्गलदिने चतुर्दश्यां शनैश्चरे ।
पशुपक्षादिना देवीं यजेद् भक्तिपरायणः ॥
देवीसुक्तं पठेत् तत्र पूर्ववद् देशिकोत्तमः ।
कुमारीं पूजयेत् तत्र यावच्च दशमावधिः ॥
वस्तालङ्कारगन्धाद्यैः सिन्दूरचन्दनादिभिः ।
तदा भवति सन्तुष्टा मर्दिनी महिषान्विता ॥
होमं कुर्याद्विधानेन पूर्वोक्तेन दिवानिशम् ।
स्वशक्त्या प्रजपेन्मन्त्रं तत्र यावद् दिवानिशम् ॥
कुम्भैः कुम्भैः सुरां दद्यात् वैजयन्तीं विशेषतः ।
होमतो वशयेत् सर्वराजानपि होमयेत् ॥
आकर्षयेद् देवकन्यां वशयत्यपि केशवम् ।
ब्रह्मा विष्णुश्च रुद्रश्च देवाः सुरसत्तमाः ॥
तं दृष्ट्वा साधकं देवि प्रशंसन्ति मदान्विताः ।
कालीवदाचरेद् विद्यां कालीवत् फलमाप्नुयात् ॥
न वैष्णवैर्यजेद् देवीं न तुलस्या प्रपूजयेत् ।
न शङ्खे अर्घ्यपात्रं स्यात् कथितं पद्मयोनिना ॥
विश्वामित्रस्य पात्रेण मृत्पात्रेण शिवां यजेत् ।
नित्यं पांशुकमांस दासहितैः शौण्डैः कृतैस्तं गुणैः पूष्पैः
पुष्पविकारजैर्नरशिरोमेषैर्महाशूकरैः ॥
गुञ्जैः शक्तिपराक्रमैर्भगवती मेध्यैरमेध्यैश्च यत्
चोष्यैश्चर्व्यफलैः सदा भगवतीं तुष्टैश्च सिक्यैः पुनः ॥
तैस्तैर्द्रव्यमुदाहृतं निशि निशि पूजासु पूजापराः तेषां दुःख भयं
सदा भुवि तले नैवास्ति किञ्चित् प्रिये ।
रजःस्वलाभ्यां स्पृष्ट्वा च दृष्ट्वा च परमेश्वरीम् ।
षण्मासं जपेन्नित्यं कुवेर इव चापरः ॥
पाषण्डश्च कवित्वेन वृहस्पतिरिवापरः ।
सर्वविद्यावतां श्रेष्ठः सौन्दर्ये मदनोपमः ॥
वायुतुल्यवलो लोके दुर्जयः शत्रुर्मदकः ।
सर्वशङ्कटमुत्तिर्णः सर्ववल्लभतामियात् ॥
राजसूयराजपेयमश्वमेधफलञ्च यत् ।
तत्सर्वं लभते देवि मर्दिन्यायाः प्रसादतः ॥
लग्नां परस्त्रियं दृष्ट्वा स्पृष्ट्वा च परपुरुषीम् ।
कुमार्यः सुतिकामध्ये यो जपेत् प्रत्यहं मनुः ॥
मनुं निर्माय विधिना चन्दनैरक्तचन्दनैः ।
विधिवत् पूजयेत् तत्र देवीं महिषमर्दिनीम् ॥
जवापुष्पैर्वज्रपुष्पैर्द्रोणपुष्पैर्विशेषतः ।
मत्स्यमांसबलिं दत्त्वा नकुलं गवयं रुरुम् ॥
शल्यं गोधाञ्च कूर्मञ्च महिषं न मेव च ।
षट्सहस्रं जपेन्मन्त्रं निशायां वा दिवामुखे ॥
तस्य तुष्टा भगवती भवेद् दुर्गा सदा प्रिये ।
प्रत्यहं बलिदानेन यो जपेद् तव सुन्दरीम् ॥
स भवेत् पार्वती पुत्रः सर्वसत्त्वेषु पूजकः ॥
इति श्रीविश्वसारतन्त्रे महिषमर्दिनीसहस्रनामाष्टमः पटलः ॥
९९९९९
(प्. ८२ब्) अथ वक्ष्ये परां विद्यां भवानीं भवमोचनीम् ।
यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ।
राजत्वं लभते देव्याः पादयुग्मप्रसादतः ॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ।
वैश्यो भवेद्धनाध्यक्षः सर्वसिद्धिमवाप्नुयात् ॥
मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने ।
यस्य विज्ञानमात्रेण भवेद्वागीश्वरः परः ॥
कैलाशशिखरे रम्ये देवदेवं महेश्वरम् ॥
ध्यानोपनतमासीनं प्रसन्नमुखपङ्कजम् ।
सुरासुरशिरोरत्नरञ्जिताङ्घ्रि युगं प्रभुम् ॥
प्रणम्य नन्दिको देवं कृताञ्जलिरभाषत ॥
श्रीनन्द्युवाच ।
देवदेव जगन्नाथ संशयोऽस्ति महन्मम ।
रहस्यं किञ्चिदिच्छामि प्रभुत्वं भक्तवत्सल ॥
देवतायास्त्वया कस्याः स्तोत्रमेतद् दिवानिशम् ।
पठ्यते किं परं नाथ तत्त्वः किमपरः परः ॥
इति पृष्टस्तदा शम्भुर्नन्दिकेन जगद् गुरुः ।
प्रोवाच भगवानीशो विकशत् पत्रपङ्कजम् ॥
श्री ईश्वर उवाच ।
साधु साधु गणश्रेष्ठ पृष्टवानसि माञ्च यत् ।
स्कन्धस्यापि च यद्गोप्यं रहस्यं कथयामि ते ॥
पुर कल्पक्षये लोकान् सृसृक्षुर्गूढचेतना ।
गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता ॥
समुत्पन्नं तद्वेत्तैर्महदादिभिः ।
चेतनेति ततः शक्तिं मां काप्यालिङ्गा तिष्ठति ॥
हेतुसङ्कल्पजातस्य ततो धीष्टासिनी शुभा ।
इच्छेति परमा शक्तिरुन्मीलति ततः परम् ॥
ततो वागिति विख्याता शक्ति शब्दमयी पुनः ।
प्रादुरासीज्जगन्माता वेदमाता सरस्वती ॥
श्रीर्ब्राह्मी वैष्णवी रौद्री कौमारी पार्वती शिवा ।
सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी ॥
तस्या अनुग्रहा देवतामेव स्तुतवानहम् ।
सहस्रैर्नामभिर्देवि त्रैलोक्यप्राणिपूजिता ॥
स्तवेनानेन सम्तुष्टा मामेव प्रविवेश सा ।
तदारभ्य मया प्राप्तमैश्वर्यपदमुत्तमम् ॥
तप्रसादान्मया सृष्टिं जगदेतच्चराचरम् ।
ससुरासुरगन्धर्वं यक्षराक्षसपन्नगम् ॥
समानुयं ससमुद्रं सशैलवनकाननम् ।
सराशिग्रहनक्षत्रं पञ्चभूतगणान्वितम् ॥
नन्दिनामसहस्रेण स्तवेनानेन सर्वदा ।
परापरां स्तौमि शक्तिं ममानुग्रहकारिणीम् ॥
इत्युक्त्वा परमं देवं चराचरगुरुं प्रभुम् ।
प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम् ॥
भगवन् देवदेवेश लोकनाथ जगद्गुरो ।
भक्तोऽस्मि तवदासोऽस्मि प्रसादः क्रियतां मयि ॥
देव्यास्तवमिदं पुण्यं दुर्लभञ्च सुरैरपि ।
श्रोतुमिच्छाम्यहं देवप्रभावमस्यापि यत् ॥
श्री ईश्वर उवाच ।
शृणु नन्दि महाभाग स्तवराजमिदं शुभम् ।
सहस्रमामभिर्दिव्यः सिद्धिदं सुखमोक्षदम् ॥
(प्. ८३) शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः ।
त्रिकालं श्रद्धया युक्तो नातः परतरं स्तवम् ॥
अस्य श्रीभवानीसहस्रनामस्तोत्रस्य भगवान् महादेव ऋषिरनुष्टुपछन्दः
आद्या शक्तिस्त्रिबीजा त्रिविधा देवता मम
सुकवित्वसुपाण्डित्वसर्वसिद्धिसिद्धये विनियोगः ॥
ओं वाग्भवं शम्भुवनिता रमाबीजत्रयान्विता ।
एषा विद्या भवान्याश्च कथिता पद्मयोनिना ॥
शिवबीजं चन्द्रसंस्थं वह्निवाग्भवबिन्दुमान् ।
गगणं चन्द्रसंयुक्तं कामबीजञ्च वह्निमान् ॥
आकाशभृण्डसंयुक्तं (कामबीजञ्च वह्निमान्) मनं वह्निससर्गवान् ।
इन्दुखण्डं बिन्दुयुतं दक्षिणामूर्तिसंयुतम् ॥
मादनस्तदधः शक्तिस्तदन्तबिन्दुमालिनी ।
इन्दुमाकाशबीजस्थामधस्ताज्जननाक्षरम् ॥
मायाविन्धेश्वरीयुक्ता सर्वोपरिनियोजिता ।
अयं स वाग्भवो बीजो वागीशत्वप्रदायकः ॥
शिवबीजं त्रिधा कृत्वा सृष्टिस्थितिलयक्रमैः ।
द्वयमाद्येन रहितमाद्याधो मदनास्वरम् ॥
पुनस्थितिः शिवाधस्था दिन्द्रबीजं नियोजयेत् ।
तथालयं शिवाधोऽपि ज्वलनेन महेश्वरि ॥
चतुर्थस्वरसंयुक्तं बिन्दुनादविभूषितम् ।
एवमेतन्महाबीजं कामराजं महोदयम् ॥
मायाबीजं महेशानि मादनं शत्रुसंयुतम् ।
चन्द्रबीजं केवलन्तु विनियोज्य वरानने ॥
कृत्वा सृष्टिक्रमं देवि प्राशुद्धरक्रमेण तु ।
संहारक्रमयोगेन शक्तिबीजं समुद्धरेत् ॥
एषा भवानी विद्याख्या शङ्करेण च भाषिता ।
पूजयित्वा जपित्वा च पठेत् स्तोत्रमिदं शुभम् ॥
महादेवी जगन्माता महालक्ष्मीः शिवप्रिया ।
विष्णुमाया शिवा शान्ता सिद्धासिद्धा सरस्वती ॥
क्षमा शान्तिः प्रभा ज्योत्स्ना पार्वती शङ्करप्रिया ।
त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता ॥
यज्ञविद्या महामाया देवमाता सुराधृतिः ।
प्रीतिः पृथा प्रसिद्धा च मृडानी विन्ध्यवासिनी ॥
सिद्धविद्या महाविद्या पृथ्वी नारदसेविता ।
पुरह्नुतप्रिया कान्तिः कामिनी पद्मलोचना ॥
प्रह्लादिनी महाविद्या दुर्गा दुर्गतिनाशिनी ।
सिद्धविद्या महाविद्या ज्योतिः कुमदहासिनी ॥
दुर्गमा दुर्लभा विद्य सद्गतिः पुरवासिनी ।
अपर्णा शाम्भवी माया मादरा मृदुभाषिणी ॥
अपर्णा शाम्भवी माया मादरा मृदुभाषिणी ।
नारायणी महानिद्रा योगनिद्रा प्रभाविनी ॥
प्रज्ञा परमिता प्रह्वा तारा मधुमती सती ।
मधुकीरार्णवयुता रमिका सिंहवासिनी ॥
राज्यलक्ष्मीर्वषट्कारा सुधाहारा सुधात्मिका ।
राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती ॥
समुद्भुतिस्तारिणी सिद्धा सद्यातिः सत्परायणा ।
सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती ॥
गोदावरी विपाशा च कावेरी च शतद्रुमा ।
सरयुश्चन्द्रभागा च कौशिकी गण्डकी शिवा ॥
नर्मदा कर्मनाशा च चर्मावती च वेदिका ।
वेत्रवती वितस्था च वरदा नरवाहना ॥
सती पतिव्रता साध्वी सुचक्षुर्दण्डवासिनी ।
एकचक्षुः सहस्राक्षी सुश्रोणी भगमालिनी ॥
सेनाग्रणी पताका च सुव्यूहा स्वर्गकाङ्क्षिणी ।
पताकिनी दया रम्भा विपञ्ची पञ्चमप्रिया ॥
परापरकला कान्ता त्रिशक्तिर्ब्रह्मदायिनी ।
ऐन्द्री माहेश्वरी ब्राह्मी ब्रह्माणी ब्रह्मवादिनी ॥
इच्छा भगवती धेनुः काकधेनुः कृपावती ।
वज्रधारा वज्रहस्ता चण्डी चण्डपराक्रमा ॥
गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ।
एकानेका महेशा च शतवहूर्महान्तजा ॥
भुजार्द्धभूवणा भूषा षट्चक्रक्रमवासिनी ।
षट्चक्रभेदिनी श्यामा कृष्णा पीता च कुर्वरा ॥
क्षुधा कृष्णा ज्वरा वृद्धा तरुणी वरुणालया ।
कला काष्ठा मुहुर्ता च निमेषा कालरूपिणी ॥
क्षेमा क्षमावती क्षान्ता अदिती च दितिर्मतिः ।
स्वरूपा वै सुनासा च चक्षुस्पर्शवती क्रिया ॥
गन्धप्रिया सुगन्धा च सुस्पर्शा सुमनोगतिः ।
मृगनाभिर्मृगाक्षी च कर्पूरामोदवासिनी ॥
पद्मयोनिः सुकेशी च अलिङ्गा भगरूपिणी ।
योनिमुद्रा महमुद्रा खेचरी खगगामिनी ॥
मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्गता ।
मातङ्गी सुपहस्ता च पुष्पवाणेषु चापिणी ॥
रक्तास्वरधरा क्षीरा रक्तपुष्पावतंसिनी ।
शुक्लास्वरधरा धीरा महाश्वेता वसुप्रिया ॥
सुवेशा शक्तिहस्ता च मुक्ताहारविभूषणा ।
कर्पूरामोदिनी श्यामा पद्मिनी पद्ममन्दिरा ॥
खड्गिनी चक्रहस्ता च भुषण्डी परिघायुधा ।
चापिनी पाशहस्ता च त्रिशुलवरधारिणी ॥
सुवामशक्तिहस्ता च मयुरवरवाहना ।
वरायुधधरा वीरा वीरपानमदोत्कटा ॥
वसुदा वसुधा वाचा जया शाकम्भरी शिवा ।
विजया च जयन्ती च सुस्तनी शत्रुनाशिनी ॥
अन्तर्वत्नी वेदशक्तिर्वरदा वरधारिणी ।
शीतला च सुशीला च वालग्रहनिवासिनी ॥
कुमारी च सुपर्वद्या कामाख्या कामवन्दिता ।
जालन्धरी धरानन्ता कामरूपनिवासिनी ॥
कामबीजवती सत्या सत्यधर्मपरायणा ।
स्थानुवद् देवता सुक्ष्मा सुक्ष्मा बुद्धिप्रबोधिनी ॥
षट्कोणा च त्रिकोणा च त्रिनेत्रा वृषध्वजा ।
वृषप्रिया वृषारुढा महिषासुरघातिनी ॥
शुम्भदर्पहरा कृप्ता दीप्तपावकसन्निभा ।
कपालभुषणा काली कपालमालाधारिणी ॥
कपालकुण्डला दीर्घा शिवदुती घनध्वनिः ।
सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी ॥
कम्बुग्रिवा वसुमती हत्रच्छाया कृतालया ।
कुण्डलिनी जगद्गर्भा भुजङ्गाकारशायिनी ॥
प्रोल्वसत्सप्तपद्मा च नाभिनालमृणालिनी ।
मुलाधारा निराधारा वह्निकुण्डकृतालया ॥
वायुकुण्डमुखी शीला निराधारा निराश्रया ।
देहपुष्टिर्मनःपुष्टिरात्मपुष्टीरणोद्गता ॥
औषधिवैद्यमाता च द्रव्यशक्तिः प्रभावरी ।
वैद्यवेद्या चिकित्सा च सुपथ्या रोगनाशिनी ॥
मृगया मृगमांसादा मृगात्वक्मृगलोचना ।
(प्. ८४) वाग्भवा वहूरूपा च वधरूपा वधोद्गता ॥
वन्दिवृद्धस्तुताकारा कारागारविमोचनी ।
अम्बिका बालिका चाम्बा स्वच्छा साधुजनार्चिता ॥
कौलिनी कुलरूपा च स्वकुला कुलपूजिता ।
कालचक्रभ्रमाभ्रान्ता विभ्रमा भ्रमनाशिनी ॥
आनन्दकन्दरूपा च बीजत्रयसुरेश्वरी ।
वाद्यनी मेघमाला च सुवृष्टिः शस्यवर्द्धिनी ॥
अकारा च इकारा च उकारैकाररूपिणी ।
ह्री/कारी बीजरूपा च ह्रीङ्कारा स्वरवासिनी ॥
सर्वाक्षरमयी शक्तिरक्षरावर्णमालिनी ।
सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया ॥
रम्या च रम्यबीजा च लोकवश्यविभाविनी ।
नृपवश्या नृपैः सेव्या नृपवश्यकरी क्रिया ॥
महिषी नृपमान्या च नृपज्ञा नृपवन्दिनी ।
नृपधर्ममयी शक्तिश्चतुर्वर्णप्रपूजिता ॥
सर्वधर्ममयी सिद्धिः सर्वतन्त्रेषु गोपिता ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च वरवर्णजा ॥
वेदमार्गरता माया शिववामाङ्गवासिनी ।
वेदमार्गरत देवी विद्याविश्वविमोहिनी ॥
अस्त्रशस्त्रमयी विद्या सुस्मृतिर्धर्मधारिणी ।
स्मृतिः श्रुतिर्वरा ज्येष्ठी श्रेष्ठा पातालवासिनी ॥
अमेध्या सत्यमेधा च भद्रकाल्यापराजिता ।
गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया ॥
त्रिसन्ध्या त्रिपदी धात्री सुपद्मा सामगायिनी ।
पाञ्चाला बालिका बाला बालक्रिडा सनातनी ॥
गर्भाववाधरा ।असून्या गर्भाशयविनाशिनी ।
सुरारिघातिनी कृत्य पूतना च तिलोत्तमा ॥
लज्जाबलवती नित्या भवानी पापनाशिनी ।
पट्टाम्बधरा गीतिः सुगीतिर्दानगोचरा ॥
सप्तस्वरमयी तन्त्री षडजमध्यमधैवता ।
मूर्च्छना ग्रामसंस्थाना स्वस्था स्वश्तानवासिनी ॥
अट्टाट्टहासिनी प्रेता प्रेतनृत्यपरायणा ।
गीतिप्रिया वाद्यरता तुष्टिदा पुष्टिदा क्षमा ॥
निष्ठा यज्ञप्रिया यज्ञा लोकशास्त्रप्रवर्तिनी ।
विषमज्वालिनी काला विषमो होर्तृनाशिनी ॥
विषारिर्नागदमिनि कुरुकुल्वा मृतोद्भवा ।
भूताहारा भूतरक्षा भूतवेशा विलाशिनी ॥
रक्षोघ्नी राक्षसी रात्रिर्वीरशाना यदान्विता ।
चक्रिका चन्द्रिका कान्तिः सुर्यकान्तिर्निशाचरी ॥
डाकिनी शाकिनी सिद्या हाकिनी रुधिरप्रिया ।
सितासिताश्रया सङ्गा कमलाननदेवता ॥
गुरुरुपधरा गुर्वी मृत्युर्मारी विशारदा ।
रक्षोघ्नी राक्षसी देवमाता वेदेषु गीयते ॥
चन्द्रमण्डलसङ्काशा चन्द्रमण्डलसंस्थिता ।
अनिमा लघिमा प्राप्तिः संस्पृहा कामरूपिणी ॥
अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी ।
अनादिर्निधना तुष्टिश्चतुर्वाहूश्चतुर्मुखी ॥
चतुर्बोधमयी शान्ती चतुर्वर्गफलप्रदा ।
काशपुष्पप्रतीकाशा शरत्कुङ्कुमलोचना ॥
भूतभव्यभविष्या च शैलजा शैलवासिनी ।
वाममार्गरता वामा शिववामाङ्गवासिनी ॥
वामाचारप्रिया पुष्टिर्लोपामुद्रा प्रबोधिनी ।
(प्. ८४ब्) सोमसूर्याग्निनयना ब्रह्मविष्णुशिवार्चिता ॥
कल्याणी कमला काम्या शुभा मङ्गलचण्डिका ।
पूतात्मा परमात्मा च भूतभावनभावना ॥
मङ्गला च सुशीला च परमार्गप्रबोधिनी ।
दक्षिणा दक्षिणामूर्तिः सुदक्षा च हरिप्रिया ॥
दाक्षायणी दक्षयज्ञनाशिनी दक्षकन्यका ।
योगिनी योगयुक्ता च योगाङ्गा ध्याननाशिनी ॥
योगपट्टधरा मूर्तिर्मुक्तानां परमागतिः ।
नारसिंही सुजन्मा च त्रिवर्गफलदायिनी ॥
धनदा धर्मदा धन्या कामदा सिदाद्युतिः ।
साक्षिणी क्षणदा सा तु दक्षादक्षस्वरूपिणी ॥
क्रतुः कात्यायनी स्वच्छा शुभगा द्युतिवर्गिणी ।
सुश्रीः सुकीर्तिर्वसना कालिकाकालनाशिनी ॥
रक्तबीजवधोद् युक्ता सुतन्तु बीजसन्ततिः ।
जगद्बीजा जगज्जिवा जगत्रयहितैषिणी ॥
क्रतुः कात्यायनी स्वच्छा शुभगा द्युतिवर्गिणी ।
सुश्रीः सुकीर्तिर्वसना कालिका कालनाशिनी ॥
चान्द्रीकरी चन्द्रकरी लक्षजा षोडशी कला ।
यत् तत् पदानुरक्ता च यक्षिणी धनदार्चिता ॥
चित्रिणी चित्ररूपा च विचित्रा चित्ररूपिणी ।
चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता ॥
अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी ।
अमाकला स हस्ता च पूर्णकुम्भधरा धरा ॥
अभीरुर्भैरवी भीरुर्भीमा त्रिपुरभैरवी ।
महाचण्डा च रौद्री च महाभैरवपूजिता ॥
नृमुण्डहस्तिनी चण्डा करालदशनानना ।
करालारि कराला च घोरघर्घरनादिनी ॥
रक्तदन्तोर्द्धकेशी च बन्धूककुसुमारुणा ।
कादम्बरी विपासा च काश्मीरी कुङ्कुमप्रिया ॥
क्षान्तिर्वहूसुवर्णा च रतिर्वहूसुवर्णदा ।
मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी ॥
हंसा हंसगतिर्हंसी हंसो ज्वलशिरोरुहा ।
पूर्णचन्द्रमुखी श्यामा सुस्मिता चक्रकुण्डला ॥
मसी च लेखनी लेख्या सुलेख्या लेखकप्रिया ।
शङ्खिनी शङ्खहस्ता च जलहस्ता जलदेवता ॥
कुरुक्षेत्रावलिः काशी मथुरा काञ्च्यवन्तिका ।
अयोध्या द्वारका मायातीर्थतीर्थहलप्रदा ॥
त्रिपुष्करा प्रमेया च स्वरूपा रूपवर्द्धिनी ।
तेजस्विनी सुतीक्ष्णा च बलदा बलदायिनी ॥
अव्यक्ता व्यक्तरूपा च देवविद्या च शाम्भवी ।
शम्भुकल्याणिनी कन्या मनुकन्या च सन्ततिः ॥
पृथिव्यथ(? ) तेजमाकाशमहत्कालदिगम्बरी ।
सर्वकालमयी शक्तिः सर्वश्रवणगोचरा ॥
सर्वज्ञानमयी वाञ्छा सर्वतत्त्वार्द्धबोधिनी ।
जाग्रतिश्च सुषुप्तिश्चस्वप्नावस्था तुरीयका ॥
त्वरा मन्दगतिर्मन्दा मन्दिरामोदमोदिनी ।
पानभूमिः पानपात्रा पानभोजनकोद्यता ॥
अघुर्णारुणनेत्रा च किञ्चिदव्यक्तभाषिणी ।
आशापुरी च दीक्षा च दक्षा दीक्षितपूजिता ॥
नागपत्नी नागकन्या भोगिनी भोगवल्लभा ।
सर्वशास्त्रमयी विद्या सुस्मृतिर्द्धर्मचारिणी ॥
श्रुतिः स्मृतिश्च मेधा च श्रेष्ठा पातालवासिनी ।
मीमांसका तर्कविद्या च सुभक्तिर्भक्तवत्सला ॥
(प्. ८५) अनाभिजातना जातिर्गम्भीरा भाववर्जिता ।
नागपाशधरा मूर्तिर्नागधा नागकुण्डला ॥
सुचन्द्रा चन्द्रमध्यस्था चक्रकोणनिवासिनी ।
सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरापरा ॥
मधुश्रवा श्रवन्ती च भ्रामरी भ्रमरालया ।
मातृकुण्डलमधस्था मातृमण्डलवासिनी ॥
सर्वमन्त्रमयी विद्या सुमुखी स्वरनासिनी ।
अतीता विद्यमाना च भवानी प्रीतिमञ्जरी ॥
सर्वसौख्यवती शक्तिराहारपरिनाशिनी ।
निदानं पुण्यभूतानां भगसागरतारिणी ॥
अक्रूरा च ग्रहवती विग्रहा ग्रहराजता ।
रोहिणी दुतगर्भा च कालभुः कालवर्तिनी ॥
कलङ्करहिता काली चतुःष्ऽट्यभिधायिनी ।
जीर्णा च जीर्णवर्णा च नूतना वरवल्लभा ॥
अजा च अतिप्रीता रतिरागविवर्द्धिनी ।
पञ्चरात्रिर्नागपञ्चापञ्चश्लेषा भयापहा ॥
पञ्चपिण्डवती पङ्क्तिः पञ्चस्थाननिवासिनी ।
उदक्या च वृषस्यन्ती वहिः प्रसुरिणी वहिः ॥
रजःशुक्रयतीः शक्तिर्जरायुर्गर्भधारिणी ।
त्रिकालज्ञा त्रिकाला च त्रिमूर्तिः पुरवासिनी ॥
अरोगा शिवतत्वा च कामतत्वा च रागिणी ।
प्राच्यप्राची प्रतीची च दिगुदीची विदिक् तथा ॥
अहङ्कृतिरहङ्कारा बलजाया बलप्रिया ।
कृषका कामधेनी च सुश्रद्धश्रद्धदेवता ॥
मात्रामाता मही तृप्तिः पितुर्माता पितामही ।
स्नूया (? ) दौहित्रिनी पुत्री नप्ता पौत्री शिशुप्रिया ॥
स्तनाच्या स्तनधारा च विश्वयोनिः स्तनन्धयी ।
शिशृत्सङ्गधरा दोला दोलोत्क्रीडाभिनन्दिनी ॥
उर्वशी कदली केका विशल्या शिखिनर्तिनी ।
खट्टाङ्गधारिणी खट्टा वाणपुङ्खानुवर्तिनी ॥
वर्तिनी सुपथा चारा परिखा च खनिर्गतिः ।
प्रकारवलया वेला मर्यादा च महोदधौ ॥
पोषिणी शोषिणी ।असक्तिर्दीर्घकेशी सुलोचना ।
ललिता मांसला तन्वी वेदवेदाङ्गधरिणी ॥
नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा ।
अक्षक्रीडा रतिः सारा शारिका सुखभाषिणी ॥
शाम्भवी गारुडी विद्या वारुणी वरुणार्चिता ।
वाराही मुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा ॥
भीममूर्तिर्वदान्या च प्रतिमा प्रतिमाश्रया ।
सुमूर्तिर्निधिरूपा च शालग्रामशिला शुचिः ॥
स्मृतिः संस्काररूपा च सुसंस्कारसंस्कृतिः ।
प्राकृतिर्देशभाषा च गाथा गीतिः प्रहेलिका ॥
इडा च पिङ्गला चैव सुषुम्ना सूर्यरूपिणी ।
शशिसूर्या च भानुस्था ह्रादिनी मृतरूपिणी ॥
अनुरूपा वृहद्रूपा लघुरूपा गुरुस्थिता ।
स्थावरा जङ्गमा देवी कृतकर्मफलप्रदा ॥
विषया क्रान्तदेहस्था निर्विशेषा जितेन्द्रिया ।
चित्स्वरूपा चिदानन्दा परम्ब्रह्मस्वरूपिणी ॥
निर्विकारा च निर्वैरा विरतिः सत्यवादिनी ।
पुरुषज्ञानभिन्ना च ख्यातिः कैवल्यदायिनी ॥
विविक्ता योगिनी प्राज्ञा जन्ता च वहूश्रुता ।
निरीहा च सम्स्ता च सरलोकैकपूजिता ॥
(प्. ८५) सेवा सेवाप्रिया सेव्या सेवाफलविवर्द्धिनी ।
सर्वसौख्यावती शक्तिः सर्वमङ्गलमङ्गला ॥
इति सहस्रनामेदं भवान्या भवभाषितम् ।
यः पठेत् प्रातरुत्थाय शुचिर्भुत्वा समाहितः ॥
यश्चापि शृणुयान्नित्यं नरो निश्चलमानसः ।
एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितम् ॥
सर्वदुःखविनिर्मुक्तो लोभक्रोधविवर्जितः ।
यशस्वी कीर्तिमान् धन्यः सुतन्नो लोकपूजितः ॥
रूपवान् गुणसम्पन्नः प्रभावीर्यसमन्वितः ।
श्रेयां स लभते नित्यं निश्चलाञ्च शुभां प्रियाम् ॥
सर्वपापविनिर्मुक्तो लभते दलवृद्धताम् ।
नित्यं वन्धुसुकृद्दारा पुत्रपौत्रमहोत्सवः ॥
नन्दितः सेवितो भृत्यैर्वहूभिः शुद्धमानसैः ।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ॥
वैश्यश्च धनलोभाढ्यः शूद्रश्च सुखमाप्नुयात् ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥
इच्छाकामन्तु कामार्थी धर्मार्थी धर्ममक्षयम् ।
कन्यार्थी लभते कन्यां रूपशीलसमन्विताम् ॥
क्षेत्रञ्च वहूशस्यं स्यात् गावश्च वहूदुग्धदाः ।
नाशुभं नापदस्तस्य न भयं नृपशत्रुतः ॥
जायते नाशुभा बुद्धिर्लभते कुलधूर्यताम् ।
न बाधन्ते महान्तस्य रक्षांसि मनुचरादयः ॥
न पिशाचा न डाकिन्यो भूतभव्यन्तु जम्भकाः ।
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥
वहूनां प्रीतिभेदे च मैत्रीकरणमुत्तमम् ।
लौहपाशैर्दृढैर्वद्धो नन्दीवेश्मनि दुर्गमे ॥
तिष्ठन् शृण्वन् पठन् मर्त्यो मुच्यते नात्र संशयः ।
न दाराणां न पुत्राणा न वधूनाञ्च विप्रियम् ॥
पश्यन्ति न हि ते शोकं नृपपूज्या भवन्ति हि ।
अन्धस्तु लभते दृष्टिं चक्षुरोगैर्न व्याध्यते ॥
वधिरः श्रुतिमाप्नोति मूको वाचां शुभां नरः ।
पतद्गर्भा च या नारी स्थिरगर्भा च जायते ॥
श्रावणी वहूभर्भा च स्वयमेव प्रमुच्यते ।
कुर्ष्ठिनं शीर्णदेहा ये गतकेशनखत्वचः ॥
पठनाच्चास्य मन्त्रस्य दिव्यकाया भवन्ति ते ।
ये पठन्ति शतावर्तं शुचिमन्तो जितेन्द्रियः ॥
अपुत्राः प्राप्नुयुः पुत्रान् शृणुयान्नत्र संशयः ।
महाव्याधिपरिग्रस्ता स्तापयेत् द्विविधैर्ज्वरैः ॥
श्रुतिग्रस्थधरो वालो दिव्यवादी करीश्वरः ।
पठनात् श्रवणाच्चास्य दिव्यकाया भवन्ति ते ॥
अष्टम्याञ्च नवम्याञ्च चतुर्दश्यां विशेषतः ।
ये पठन्ति सदा मर्त्या न ते वै दुःखभागिनः ॥
नवरात्रं यताहारो दृढभक्तिर्जितेन्द्रियः ।
चण्डिका यतने विद्वान् शुचिस्तन्मूर्तिसन्निधौ ॥
एकादशी शतावृत्तं पठेद्धीरस्तु निर्भयः ।
साक्षाद् भगवती तस्मै प्रयच्छेदीप्सितं वरम् ॥
सिद्ध पीठगिरौ रम्ये सिद्धक्षेत्रसुरालये ।
पठनात् श्रवणाच्चैव सिद्धिर्भवति नान्यथा ॥
शतावृत्तिं पठेद् यस्तु भूमिशायी जितेन्द्रियः ।
स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति ॥
आवर्तनसहस्रैर्ये पठन्ति पुरुषोत्तमाः ।
(प्. ८६) कवित्वसंस्कृते तेषां शास्त्राणां व्याकृतौ कृता ॥
शक्तिः प्रोन्मील्यते तेषामनधीतेऽपि पार्वति ।
नखरागशिरो रत्न द्विगुणीकृतविग्रहः ॥
प्रायश्चित्तश्च तान् सर्वान् सेवन्ते तान् महेश्वराः ।
रोचनालिखितं भूर्जो कुङ्कुमेन शुभे दिने ॥
धारयेत् यन्त्रिते देवे पूजयित्वा कुमारिकाः ।
क्षीरखण्डैश्च भोज्यैश्च भोजयित्वा वभुक्षितान् ॥
वध्नन्ति नृपपूज्यास्ते कीर्तिभाजो यशस्विनः ।
शत्रुतो न भयं तस्य दुर्जनेभ्यो नराधिपः ॥
रतिरागविशुद्धाश्च विकलाः कामपीडिताः ।
यौवनाक्रान्तदेहस्था श्रूयन्ते वामलोचनाः ॥
लिखित्वा मूद्ध्नि कण्ठे वा धारयेद् यो नरः शुचिः ।
शतधायुष्यमामन्तं प्रतियोधो न पश्यति ॥
केतौ वा दुन्धुभौ येषां भित्ते विलिखितं रणे ।
मायासैन्यपरिग्रस्तान् कान्तिशीकान् हतौजसः ॥
विचेतनान् विमुडांश्च शस्त्रकृत्यविवर्जितान् ।
निर्जित्य शत्रुशङ्कांस्ते लभन्ते विजयं रणे ॥
नाभिचरान् सर्पांश्च रणे विवादिकीलकम् ।
डाकिनीयातुधानाश्च महामारी च शाकिनी ॥
भूताः प्रेताः पिशाचाश्च रक्षांसि खचरादयः ।
न विशन्ति गृहे देहे लिखितें यत्र तिष्ठति ॥
न शस्त्राणि न तोयौघात् भयं तस्येह जायते ।
दुर्वृत्तानाञ्च पापानां वलहानिकरं परम् ॥
मन्दूरके विशालाश्च गवां गोष्ठे समाहितः ।
यः पठेद् दोषशान्त्यर्थं दुष्टग्रहनिवारणम् ॥
यमदूतान्न पश्यन्ति न ते निरययातनाम् ।
प्राप्नुवन्तीह ते चान्ते शिवलोकसनातनम् ॥
सर्ववाधासु घोरासु सर्वदुःखनिवारणम् ।
सर्वमाङ्ग्यकं स्तोत्रं पठितव्यं समाहितैः ॥
पुण्यं सहस्रनामेदमुमाया रुद्रभाषितम् ।
चतुर्वर्गप्रदं साक्षात् नन्दिकेन प्रकाशितम् ॥
न प्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ।
कूलिनाय सुशान्ताय दुर्गाभक्तिपयाय च ॥
अथवा प्रियशिष्याय पुत्राय सुहृदे तथा ।
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ॥
नातः परतरो मन्त्रो नातः परतरः स्तवः ।
नातः परतरा विद्या तीर्थं नातः परं वरम् ॥
ते धन्याः कृतपुण्यास्ते तत्र न भुवि पूजिताम् ।
एकवारं समाश्रित्य येऽर्चयन्ति महेश्वरीम् ॥
देवतानां देवतायां ब्रह्माद्यैर्या च पूजिता ।
भूयात् सा वरदा लोके साधूनां सर्वमङ्गला ॥
इति श्रीविश्वसारतन्त्रे भवानीसहस्रनामस्तोत्रं समाप्तम् ॥
९९९९९
अथ वक्ष्ये महेशानि वागीश्वर्यप्रदायिनीम् ।
सरस्वतीं महाविद्यां चतुर्वर्गफलप्रदाम् ॥
यस्य विज्ञानमात्रेण भवेत् साक्षात् वृहस्पतिम् ।
नार्चनं पूजनं तस्य मन्त्रमात्रं जपेत् सदा ॥
विना पुष्पैर्विना गन्धैर्विना होमैर्विना बलिम् ।
पूजयेत् परमां देवीं वाग् भवीं सुकविर्नरः ॥
षण्मासं यो जपेन्मन्त्री प्रत्यहं वा दिवानिशम् ।
सर्वदा सर्वकालेषु नियतं प्रजपेत् सदा ॥
वारमेकं जपेद्विद्यां शुचिर्भूत्वा दिवानिशम् ।
श्रीवर्ण्याः स भवेद्भूमौ साक्षाद्गङ्गाधरः स्वयम् ॥
द्वादशस्वरमुद्धृत्य नादबिन्दुविभूषितम् ।
भूतिज्ञं भौतिकं विद्या विद्या एकाक्षरी परा ॥
बिन्दुनादसमायुक्तं वह्निबीजं समुद्धरेत् ।
षष्ठस्वरसमायुक्तं द्वितीयं परिकीर्तितम् ॥
चन्द्रबीजं समुद्धृत्य वर * योजयेत् ततः ।
चतुर्दशस्वरारूढं नादबिन्दुविभूषितम् ॥
त्र्यक्षरी सा महाविद्या चतुर्वर्गफलप्रदा ।
एषा विद्या पुरा देवि ब्रह्मणा आदियामले ॥
कथिता सर्वविद्यनां चुडामणिरिति स्मृता ।
अस्याः समानं देवेशि त्रैलोक्ये नैव विद्यते ॥
वशिष्ठाद्या * * * * ऋषयोऽस्याः परायणाः ।
ऋषिः स्याद् दक्षिणा मुर्तिश्छन्दोऽनुष्टुबुदाहृता ॥
देवतास्याः समाख्याता वाग्भवी च सरस्वती ।
अथापरां प्रवक्ष्यामि शृणुष्व कमलानने ॥
ब्रह्मणाया पुरा प्रोक्ता देवी वाग् भवरूपिणी ।
भौतिकं बिन्दुनादाढ्यं ब्रह्मेन्द्रस्थशशी पुनः ॥
चन्द्रबीजं स्वर्गयुक्तं बिन्दुनादविभूषितम् ।
चतुर्दशस्वरारूढं भैरवी बालरूपिणी ॥
एषा वाणीति विख्याता चतुर्वर्गप्रदायिनी ।
शापोद्धारे स्वर्गवन्तं योजितं पद्मयोनिना ॥
उद्यद्भानुसहश्रकान्तिमरुणक्षौमां शिरो मालिकाम् ।
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ॥
हस्ताजैर्दधतीं त्रिनेत्रविलस्त् रक्ता च बिन्दुश्रयं देवीं
वद्धहिमांशुरत्नमुकुटां वन्दे मुकुन्दस्मिताम् ॥
एवं ध्यात्वा यजेद् देवीं बालात्रिपुरभैरवीम् ।
श्रीमन्त्रे पूजयेद् विद्यां बालिकां तन्त्र संयुताम् ॥
तन्न्यासं तत् फलं सर्वं कथितं पद्मयोनिना ।
सरस्वती त्र्यक्षरी या तस्याचारविधिं शृणु ॥
हविष्याशी जपेन्मन्त्री मनुलक्षं निरामिषम् ।
कुर्यात्रिवसनं स्नानं कुर्याद्धोमं दिने दिने ॥
तदा दद्यान्महादेव्यै बलिदानं दिवानिशम् ।
तदा भवेन्महाप्राज्ञः शुकदेव इवापरः ॥
गदापद्यमयी वाणी सभायां तस्य जायते ।
शुक्लवर्णा सिताम्जस्थां (? ) नानालङ्कारसंयुताम् ॥
मयीञ्च लेखनीञ्चैव ज्ञानमुद्रा भयप्रदाम् ।
त्रिभङ्गस्थानसंस्थानां सर्वाभरणभूषिताम् ॥
नवयौवनसम्पनां स्मितास्यां शिवसुन्दरीम् ।
त्रिलक्षं प्रजपेद् विद्यां पुरश्चरणकर्मणि ॥
त्रिकोणं विन्यसेत् पूर्वं षट्कोणं परिमण्डितम् ।
नवकोणं पुनस्तत्र रेखात्रयसमन्वितम् ॥
योनिमण्डलमध्यस्थं साष्टपत्रं सकर्णिकम् ।
पुनः ओंस्डशपत्राढ्यं भुपुरत्रितयं पुनः ॥
चतुर्दारवज्रशूलं संयुतं सुमनोहरम् ।
(प्. ८७) सर्वत्र वर्णमालाभिः परितः सुमनोहरम् ॥
गायत्र्या कोष्ठितं यन्त्रं सर्वसम्पत् प्रदायकम् ।
तत्रस्थां पूजयेद् देवीं वाग् देवीं शिववल्लभाम् ॥
मातृकावर्णसम्बीते पूजयेद् भुवनेश्वरीम् ।
वदेद्वाग्देवतां ङेन्तां धीमहि तदनन्तरम् ॥
तन्नोपदं समुद्धृत्य वदेद् देवीं प्रचोदयात् ।
एषा स्यादेव गायत्री कथिता ब्रह्मणा पुरा ॥
कामाद्यां वाग् भवाद्यां वा लक्ष्म्याद्यां वा जपेत् सदा ।
मायाद्यां वा जपेद् विद्यां लज्जाद्यां वा जपेत् सदा ॥
वधुबीजादिकां वापि क्रूर्चाद्यां वा जपेत् सुधीः ।
गायत्र्येषामिदं प्रोक्तं प्रणवाद्यां सदा जपेत् ॥
चतुर्लक्षं पुरश्चर्यां जपेद् विद्यामनन्यधीः ।
सुन्दरीवद् यजेद् देवीमथवा कालीवद्यजेत् ॥
बलिदानं ततो न्यासं आचारं पूर्ववच्चरेत् ।
आचारं पूर्ववत् कुर्यात् यजेद्विद्यां समाहितः ॥
नात्र सिद्धाद्यपेक्षा च न च मित्रादिदूषणम् ।
हविष्याञ्च यवादन्यं कथितं पद्मयोनिना ॥
वाग्भवं पूर्वमुच्चार्य लज्जाबीजं ततः परम् ।
लक्ष्मीबीजं समुच्चार्य कामबीजं ततः परम् ॥
चतुर्वर्गात्मिका विद्या चतुवर्गफलप्रदा ।
अस्या विद्यासमो नास्ति त्रैलोकोऽपि च दुर्लभा ॥
गौरीं चम्पकदामपुष्पसदृशीं स्मेराननां सुन्दरीं त्रैलोक्य प्रभया
जितां त्रिभुवनं हस्ताम्बुजैर्विभ्रतीं पद्मं
शङ्खमुदारहारभूषितामभीतिवरं विभ्रतीं नानालङ्कृतिभूषितां
वरं भूसेव्यां वै विवन्दिताम् ॥
एवं ध्यात्वा यजेद् देवीं चतुर्वर्गात्मिकां शुभाम् ।
पूजयेत् परया भक्त्या शाम्भवीं शिववल्लभाम् ॥
स भवेत् पार्वतीपुत्रः शङ्करेण च भाषितम् ।
मद्यैर्मांसैः सपुपैश्च भ्रष्टैर्दग्धैश्च सर्वतः ॥
सिक्यैर्दग्धैर्मांसदग्धैर्मत्स्यदग्धैर्विशेषतः ।
स्वयम्भूकुसुमैं शुक्रैर्जरायावकसंयुतैः ॥
सिन्दूरैरक्तकुसुमैस्तथा कुरुवकैरपि ।
सशक्त्य पूजयेद् देवीं सर्वसम्पत् प्रसिद्धये ॥
वाग्भवीं प्रवदेत् ङेन्तां विद्महे तदनन्तरम् ।
कामबीजं वदेत् ङेन्तं धीमहि तदनन्तरम् ॥
तन्नो देवी समुद्धृत्य तदा ब्रूयात् प्रचोदयात् ।
गायत्रीयं समाख्याता चतुर्वर्गफलप्रदा ॥
तथा बीजादिका जप्या कामबीजसमन्विता ।
चतुर्लक्षं जपेद्विद्यां पूरश्चरणकर्मणि ॥
कर्मान्ते धनधान्याद्यैस्तोषयेत् शम्भुसुन्दरीम् ।
(प्. ८७ब्) स्वशक्त्या प्रजपेद् विद्यां सर्वकालं दिवानिशम् ॥
पूजयेत् भैरवीं नित्यं यथा त्रिपुरभैरवीम् ।
त्रिकोणं विन्यसेत् पूर्वं नवकोणञ्च षड्युतम् ॥
त्रिबिम्बं साष्टपत्रं सकिञ्जल्कसमन्वितम् ।
भूपुरं गुणरेखाढ्यं वज्रशूलसमन्वितम् ॥
नवशक्तियुते पीठे पूजयेत् विष्णुवल्लभाम् ।
अस्याश्चतुराक्षरी शम्भुवनितायाः कवचस्य घगवान् श्रीसदाशिव
ऋषिरनष्टुप्छन्दो वाग्भवीदेवता वाग्भवं बीजं लज्जाशक्ती
रमाकीलकं कामराजात्मकं कवचं मम मन्त्रकवित्वपाण्डित्य
सर्वसिद्धिसमृद्धये विनियोगः ॥
ओङ्कारो मस्तके पातु वाग्भवी सर्वसिद्धिदा ।
ऐ/ पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शङ्करी ॥
विजया पातु भवने जया पातु सदा मम ।
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ॥
भैरवी पातु सर्वत्र भेरुण्डा पातु सर्वदा ।
पातु मां कालिका नित्यं कालरात्रिः सदावतु ॥
नवदुर्गा सदा पातु कामाख्या सर्वदावतु ।
योगिन्यः सर्वदा पान्तु मुद्रा पान्तु सदा मम ॥
मात्रा पान्तु सदा देव्यश्चक्रस्था योगिनीगणाः ।
सर्वदा सर्वकार्येषु सर्वकर्मसु सर्वदा ॥
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धये ।
इति ते कथितं देवि कवचं सर्वकामदम् ॥
यत्र तत्र न वक्तव्यं यदिच्छेदात्मनो हितम् ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥
उनाङ्गेऽतिरिक्ताङ्गे दर्शयेन्न कदाचन ।
न स्तवं दर्शयेद् देवि सन्दर्श्य शिवहा भवेत् ॥
कुलीनाय महोत्साय दुर्गाभक्तिपराय च ।
वैष्णवाय विशुद्धाय दद्यात् कवचमुत्तमम् ॥
निजशिष्याय भक्त्याय शान्ताय धनिने तथा ।
दद्यात् कवचमित्युक्तं सर्वतन्त्रसमन्वितम् ॥
शनौ मङ्गलवारे च रक्तचन्दनके तथा ।
यावकेन लिखेद् यन्त्रं सर्वतन्त्रसमन्वितम् ॥
विलिखेत् कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः ।
स्वशुक्त्रैः परशुक्रैश्च नानागन्धसमन्वितैः ॥
गोरोचना कुङ्कुमेन रक्तचन्दनकेऽपि वा ।
सुतिथौ शुभयोगे च श्रवणायां रवेर्दिने ॥
अश्विन्यां कृत्तिकायां वा फल्गुण्याञ्च विशेषतः ।
इन्द्रयोगे शुभयोगे शुक्रयोगे तथैव च ॥
कौलवे ववके चैव वनिजे नैव सत्तमः ।
शून्यावासे श्मशाने चन्द्र (? ) विजने च विशेषतः ॥
लिखित्वा च पठित्वा च वशयेदखिलं जगत् ।
मस्तके वा भुजे वापि धारयेत् विधिनामुना ॥
(प्. ८८) रक्तचन्दनदूर्वाभिः कुङ्कुमेन विशेषतः ।
सुगन्धिकुसुमैर्गन्धैः पूजयित्वा विधानतः ॥
कुमारीं पूजयित्वा च यजेद् देवीं सनातनीम् ।
मत्स्यैर्मांसैः काकशूकैः पूजयेत् परदेवताम् ॥
घृताद्यैः सुपकरणैः सुपपूपैर्विशेषतः ।
ब्राह्मणान् भोजयित्वा च पूजयेत् परमेश्वरीम् ॥
आखेटकमुपाख्यानं तत्र कुर्याद् दिनत्रयम् ।
तदा भवेन्महारक्षां शङ्करेण च भाषितम् ॥
मारणाद् दूषणादीनि लभन्ते नात्र संशयः ।
(प्. ८८ब्) स भवेत् पार्वतीपुत्रं सर्वशास्त्रपुरस्ततः ॥
गुरुदेवः शिवः साक्षात् पत्नी तस्य हरप्रिया ।
अभेदेन यजेद् देवीं तस्य सिद्धिरदूरतः ॥
पठति य इह मर्त्या नित्यमात्रास्तरात्मा जपफलमनुमेयं प्राप्स्यते
सौविधेयम् ।
स भवति पदमुच्चैः सम्पदापदमस्रक्षितिपमुकुटलक्ष्मीर्लक्षणानां
चिरायूः ॥
इति श्रीविश्वसारतन्त्रे सरस्वत्याः कवचं समाप्तम् ॥
इति ढाकाविभागेर अन्तःपाती माणिकगञ्ज उपविभागेर अधीन
बुतुनीग्रामनिवासी / आनन्दमोहनचट्टोपाध्यायेर पुत्र श्रीरसिकमोहन
चट्टोपाध्याय कर्तृक सङ्कलित, सम्पादित ओ प्रकाशित तन्त्रसारादि
विविधमूलतन्त्रसङ्ग्रहे विश्वसार नाम महातन्त्र समाप्त ॥
% Text title : vishvasAratantram
% File name : vishvasAratantram.itx
% itxtitle : vishvasAratantram
% engtitle : vishvasAratantram
% Category : devii, sangraha, tantra
% Location : doc_devii
% Sublocation : devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Aruna Narayanan
% Description-comments :
% Indexextra : (Scan)
% Acknowledge-Permission: Muktabodha Library, muktabodha.org
% Latest update : November 26, 2021
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%-----------------------------------------------------
% The text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%--------------------------------------------------------
From http://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .