विघ्नराजस्तुतिः ममासुरेण प्रोक्ता
॥ श्रीगणेशाय नमः ॥
ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् ।
जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥
पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये! ।
तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् । १०
ममासुर उवाच -
विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने ।
अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११॥
गणेशाय गणानां तु चालकाय परात्मने ।
आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२॥
हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये ।
लम्बोदराय वै तुभ्यं भक्तपाल! नमो नमः ॥ १३॥
स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे ।
शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४॥
ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक! ।
विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५॥
आदिपूज्याय चान्ते तेऽवशिष्टाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं चतुर्भुज! नमो नमः ॥ १६॥
शेषस्योपरि संस्थाय नागेशध्वजधारिणे ।
गजाननाय देवेश! नमो दैत्येशरूपिणे ॥ १७॥
भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने ।
योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८॥
नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः ।
भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९॥
समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् ।
विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २०॥
तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः ।
धन्यं मे जन्मकर्मादि येन दृष्टो गजाननः ॥ २१॥
किं स्तौमि त्वां गणेशान! यत्र वेदादयः प्रभो! ।
शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२॥
एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् ।
रोमाञ्चितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥ २३॥
तमुवाच महाभक्त्या युतं विघ्नप्रनायकः ।
वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥ २४॥
विघ्नेश उवाच -
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५॥
निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति ।
मम भक्तिप्रदं चैतन्मम भावहरं सदा ॥ २६॥
विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः ।
जगाद भक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ॥ २७॥
यदि प्रसन्नभावेन वरं दास्यसि विघ्नप ।
तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥ २८॥
गाणपत्यसहावासं देहि नाथ निरन्तरम् ।
स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्त्रितः ॥ २९॥
दासोऽहं ते गणाधीश नान्यं याचे वरं परम् ।
तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्जसा ॥ ३०॥
(फलश्रुतिः ।)
विघ्नेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति ममासुर ।
गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥ ३१॥
स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः ।
स्वधर्मविधिहीनं त्वं कर्म भुङ्क्ष्व जनैः कृतम् ॥ ३२॥
यत्रादौ पूजनं मे न स्मरणं वा ममासुर ।
मम भावेन सम्मोह्य राज्यं कुरु हृदि स्थितः ॥ ३३॥
मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः ।
मम भावविहीनांश्च कुरु मे ममतायुतान् ॥ ३४॥
एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् ।
ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥ ३५॥
प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह ।
शान्तिं धृत्वा गणेशानं भजते सर्वभावतः ॥ ३६॥
दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः ।
पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥ ३७॥
एवं ममासुरं शान्तं चकार विघ्ननायकः ।
स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥ ३८॥
इति ममासुरेणप्रोक्ता विघ्नराजस्तुतिः समाप्ता ।
द्वादशस्तोत्रम्
- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ८ । ७.८ ११-३८॥
- .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 8 . 7.8 11-38..
Encoded by Ajit Krishnan
Proofread by Ajit Krishnan, PSA Easwaran, Preeti Bhandare